तत्त्वचिन्तामणिः/आसत्तिवादः

विकिस्रोतः तः
Jump to navigation Jump to search
← योग्यतावादः तत्त्वचिन्तामणिः
[[लेखकः :|]]
तात्पर्यवादः →

आसत्तिश्र्चाव्यवधानेनान्वयप्रतियोग्युपस्थिति:, सा च स्मृतिर्नानुभवोऽतोनान्योन्याश्रय: । अथ नानाविशेषणक-कर्म-कत्र्तृ-करणाधिकरण-क्रियादिक्रमिकपदज्ञानजन्यक्रमिकपदार्थस्मृतीनां न यौगपद्यं सम्भवति आशुतरविनाशिनां क्रमिकाणां मलकानुपपत्तेरिति कथं तावत्पदार्थान्वयबोध: विशेषणज्ञानसाध्यत्वाद्विशिष्टज्ञानस्येति चेत्, श्रौत्रप्रत्येकपदानुभवजन्यसंस्कारमेलकादेकदैव तावत्पदस्मृति: तत एकदैव तावत्पदार्थस्मृतौ सत्यां वाक्यार्थानुभव: । न चान्यविषयकसंस्कारेण नान्यत्र स्मरणमिति वाच्यम् । वक्यार्थानुपपत्त्या फलबलेन संस्काराणां परस्परसहकारेण तत्रैकस्मरणकल्पनात् । प्रत्येकवर्णसंस्काराणामिवानन्यगतिकतया पदस्मरणे । अथ यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते । तेन तेनान्वित: स्वार्थ: पदैरेवावगम्यते । न चैवमन्वयान्तराभिधानं न स्यात् विरम्य व्यापाराभावादिति वाच्यम् । एवमपि प्रथममनन्वये हेत्वनुपन्यासात् उत्तरस्य हीदं सामग्रीवैकल्यं न पूर्वस्येति चेत्, अस्तु तावदेवं तथापि चरमं तावत्पदार्थघटितवाक्यार्थानुभवे उक्तैव गतिरनन्यगतिकत्वात् । अत्र वदन्ति, सन्निधिर्न पदजन्यैवान्यवबोधहेतु: द्वारमित्यादौ अध्याह्मतेनापि पिधानादिना अन्वयबोधदर्शनात् । न च पिधेहीति शब्द एवाध्याह्यियते, अनुपयोगात् । अर्थस्यैवान्वयप्रतियोगित्वेनोपयोगित्वात् आवश्यकत्वाच्च । अर्थापत्तेरुपपादकविषयत्वात् । न च शब्दमात्रमुपपादकं, अपि तु तदर्थ:, अवश्यकल्प्यार्थसाहचर्येण दैववशसम्पन्नशब्दस्मृतेरन्यथासिद्धे:, अन्यथा पदबोधितस्यैवार्थस्यान्वयबोधकत्वमिति नियमशकिकल्पनापत्ते: । स्वार्थान्वयपरत्वाच्छब्दानां द्वारमिति न पिधानान्वयबोधकमिति तदन्वयबोधार्थमवश्यं शब्दकल्पनमिति चेत् । न । लक्षणानां व्यभिचारात् तवाप्याक्षिप्तेन कत्र्रान्वयबोधाच्च । अथ द्वारपदसहभावमात्रं पिधेहिशब्दस्य कल्प्यते लाघवात् । न च पिधानाभिधायकानेकशब्दोपस्थितौ विनिगमकविरह:, संस्कारतारतम्यात् पदविशेषस्मृतेरिति चेत् । न । आकाङ्क्षादिमत्प्रतियोग्यन्वितस्वार्थपरत्वस्य क्रृप्तत्वात् लाघवेनार्थाध्याहारात् । न च श्रुतपदानि लब्धप्रयोजनानीति कथमप्यध्याह्मते तेषां तात्पर्यमिति वाच्यम् । श्रुतार्थान्वयानुपपत्त्या अध्याह्मते

तात्पर्यात् । कथं तह्र्रोदनं पचतीत्यत्र समभिव्याह्मतमात्रान्वय: कलायादेरपि स्मृतत्वात् इति चेत्। न । तात्पर्यनियमादित्यवेहि यत्पर: शब्द: स हि शब्दार्थ:, अन्यथा तवापि दैववशस्मृतकलायपदोपस्थापितेनान्वयबोध: स्यात् अयं देवदत्त ओदनमित्यादिवाक्ये क्रियापदाध्याहारभावेन कत्र्तुरनभिधानात् तृतीया स्यात् इति चेत् । न । अध्याह्मतपचतिपदेनापि कत्र्तुरनभिधानात्, कत्र्तुसंख्याभिहितेति चेत् । न । देवदत्तस्य पाक इत्यत्रापि तृतीयापत्ते:, तात्पर्यतस्तच्च व्यवस्थेति चेत्, तुल्यम् । ननु द्वारं पिधेहीत्यादौ पिधानशब्दानुभवे पिधानोपस्थापकपदत्वेन जनकत्वमिति चेत् । न । अन्वयप्रतियोग्युपस्थापकपदत्वेन जनकत्वात् न तु तदुपस्थापकयावतत्पदत्वेन गौरवात् । एवं पिधानान्वयबोधेऽपि । अन्यथा गौण-लाक्षणिकयोरन्वयबोधो न स्यात् तयोरननुभावकत्वादिति ।।

आसत्तिवादसिद्धान्त:[सम्पाद्यताम्]

उच्यते, क्रियापदोपस्थापिता क्रिया, कारकपदोपस्थापितञ्च कारकं परस्परमाकाङ्क्षति न तूपस्थितिमात्रं अन्यथा द्वारं कर्मता पिधेहि, द्वारं पिधानं कृतिरित्यत्रापि क्रिया-कर्माध्याहार इवान्वयबोधप्रसङ्ग:

क्रियाया: कर्मणश्र्चोपस्थितेस्तुल्यत्वात् । एवं विधपदोपस्थापिते परस्परमाकाङ्क्षा नस्तीति चेत्, तह्र्राकाङ्क्षायां पदविशेषोपस्थापितत्वं तन्त्रं न तूपस्थितिमात्रं, अर्थविशेषेऽसाधुत्वान्नात्रान्वयबोध इति चेत्, न, पिधेहीति पदं विना द्वारमित्यस्याप्यसाधुत्वात् तदर्थयोगे साधुत्वस्य तुल्यत्वात् साधुत्वज्ञानस्यान्वयबोधेऽप्रयोजकत्वाच्च गौरवादपभ्रंशादप्यन्वयबोधाच्च । न चात्रासंसर्गाग्रह:, बाधकाभावात् । तस्मात् क्रिया पदस्य कारकपदेन कारकपदस्य क्रियापदेन सहान्वयबोधकत्वं न त्वेकं विना तृतीयानुपपत्ति:, नहि क्रियापदार्थयोगे द्वितीया, घट आनयनं कृतिरित्यत्रापि द्वितीयापत्ते:, तथा च पुष्पेभ्य इत्यत्र स्पृहयतिपदाध्याहारं विना चतुथ्र्यनुपपत्ति: । यदि स्पृहयति पदार्थयोगे चतुर्थो तदा पुष्पमिच्छतीत्यत्रापि स्यात् स्पृहयतीच्छतिपदयोरेकार्थत्वात् । अथ साधुत्वार्थ द्वारं पुष्पेभ्य इत्यत्र पिधेहि-स्पृहयतिपदाध्याहारोऽनुमन्यते न त्वन्वयबोधार्थं तस्यान्वयप्रतियोगिविज्ञानादेवोपपत्तेरिति चेत्, तर्हि क्रियापदयोगं विना न कारकविभकि:, कारकपदयोगं विना न तदन्वययोग्यं क्रियापदमिति केवलकारकपदे क्रियापदाध्याहार:, केवलक्रियायाञ्च कारकपदाध्याहार: साधुत्वार्थमावश्यक इति तज्जन्योपस्थितिरन्वयबोधौपयिको तस्मात् क्रिया-कारकपदोपस्थापितयोरेव क्रिया-कारकयो: परस्परमन्वय इति शब्दाध्याहार एव । कत्र्राक्षेपे तु वक्ष्याम: ।।