डिसेम्बरमासस्य प्रवचनानि

विकिस्रोतः तः

डिसे.1 –देहसुखेअनासक्तेःनामवैराग्यम्। भगवान्एववर्ततेइतियाभावनासाएवभक्तिः।इदंसर्वंसर्जनंनममइतिबुद्ध्याअवगमनं,तदनुगुणंव्यवहारःचेतिएतत्वैराग्यम्।सर्वंरामस्यइतिभावनाइत्युक्तेरामायसर्वंसमर्पणीयम्।परमार्थेकःअन्तरायः?धनं,सुताः,दाराचेत्यादयःन,परंतेषुयत्ममत्वम्अस्तिसःअन्तरायः।वस्तुषुनिरासक्तिःएववैराग्यं,नतुवस्तूनाम्अभावःवैराग्यम्।कस्यचित्पत्नीमृतावातस्याःअभावःइत्युक्तेसःविरक्तः,तस्याःभावःइत्युक्तेसःआसक्तःइतिवक्तुंनशक्नुमः।सर्वथायदिस्त्र्यधीनःन,तर्हिसःविरक्तःएव।यत्प्राप्तंतत्परमात्मनादत्तं, तत्तस्यएवइतिमत्वाआनन्देनजीवनम्एववैराग्यम्।अस्यांभावनायांस्थित्वायःइन्द्रियाधीनःनभवतिसःविरागी।संसारःनश्वरःइतिज्ञात्वावर्तनीयम्।तंनत्यक्तुंशक्नुमः।संसारेस्थित्वापियदिआसक्तःनभवतितर्हिसंसारःत्यक्तःएवकिल?फलाशांविनासत्कार्यकरणंभक्तेःलक्षणम्।कर्तव्यपालनेविक्षेपयतःप्रत्येकंविषयस्यअपाकरणंवैराग्यलक्षणम्।आसक्तिंविनाकर्तव्यपालनमेवतपश्चर्या।देहसुखस्यआसक्तेः, इच्छानिच्छयोःवात्यागःएववैराग्यम्।चिन्तयन्तु,वस्तुतःप्रपञ्चेमनोनुकूलानिवस्तूनिप्राप्यन्तेकिम्?तेषांप्राप्तिःअप्राप्तिःवाअस्माकंहस्तेनवर्तते।अमुकम्इष्यते,नइष्यतेवाइतिकिमर्थंवक्तव्यम्?इदम्अनुक्त्वारामस्यएवभूत्वावर्तनीयम्इतिएतत्पर्याप्तम्।यःरामंविषयंयाचतेसःरामस्यअपेक्षयाविषयेअधिकंस्निह्यतिइतिभवति।विषयाःनबाधकाः,विषयासक्तिःबाधिका।भगवन्तंप्रसन्नंकृत्वानाशवत्वस्तुयाचतेचेत्तेनकःलाभः?नाम्नियथाप्रह्लादस्यनिष्ठातथाअस्माकंनिष्ठाभवेत्।प्रल्हादेननामस्मरणंश्रद्धयाकृतं, निर्विषयेणभवितुंकृतंच, अतःविषयलाभार्थंनामस्मरणंनकरणीयम्। जगतिसर्वेजनाःसुखार्थंप्रयतन्ते।शास्त्राणाम्भृशम्उन्नतिःजाता,एतावान्सुखसाधनानांविकासःजातः।तेनदेहसुखंबहुवर्धितम्।परंमनुष्यःसुखीनजातः।रुग्णस्ययावत्ज्वरःनगच्छतितावत्सःसम्यक्नजातः।तथैवयावत्मानवःसुखीनजातः, तावत्वास्तवःविकासःनजातःइतिएवमन्तव्यम्।साम्प्रतंजगत्परिष्करणस्य,जगतिउपकारकरणस्यवाकालःन।प्रत्येकंजनःआत्मानंतुनिभालयेत्।तदर्थंभगवतःअनुसन्धानंनपरिहर्तव्यम्।तदनुनभयम्।सर्वैःनिश्चयःकरणीयःयत्‘भगवन्नामअतिरिच्यकिमपिनशृणोमि’।यत्लभ्यतेतस्मिन्समाधानंमन्तव्यम्।‘अहंभगवतः’इतिउक्तेसतिसर्वंजगत्भगवत्स्वरूपेणदृश्येतइतिविषयेनशङ्का।एषानकेवलाकल्पना।वयम्नअनुभवंगृह्णीमः।तदर्थम्अस्माभिःनामस्मरणेस्थातव्यम्।

          • जगतिभगवन्तंविनासत्यंवस्तुनास्तिइतियस्यनिष्ठा,सःएववास्तवःयोगी,ज्ञानी,परमार्थीचइतिमन्यव्यम्।***

डिसे.2 –अखण्डनामस्मरणम्एवउपासना। देवंप्राप्तुंकःअवरोधः?अस्माभिःदेवःनप्राप्यतेएतदर्थंवस्तुतःवयम्एवकारणम्।वयम्अन्यान्दूषयामः, परन्तुइतरजनाःनअवरोधकाः,वयम्एवअवरोधाःइतिअल्पविचारेणअपिज्ञातुंशक्यते।यःआत्मीयःइतिअवगन्तव्यंतंतथानमत्वा,वयम्अन्यान्एवआत्मीयाःइतिमन्यामहे।पुत्रः,पत्नी,भ्राताचेतिएतान्वयम्आत्मीयान्मन्यामहे।एतेसर्वेकस्याञ्चित्सीमायाम्एवआत्मीयाःसन्ति,परंदेवम्आत्मीयंमन्यामहेचेत्सःसदासर्वकालम्आत्मीयःवर्तते, साहाय्यार्थंसिद्धःवर्ततेच।भवन्तःद्रोपद्याःकथांजानन्तिकिल?तस्याःभर्तारःतांरक्षेयुःइतिसाअचिन्तयत्, परंतेषुकोऽपिनसमर्थःइतिज्ञात्वासाअनन्यतयाश्रीकृष्णम्आहूतवतीतदासःतत्कालंधावितवान्।यान्वयम्आत्मीयाःइतिमन्यामहेतेवस्तुतःतथानसन्ति।परमात्माएवआत्मीयःइतिमन्येमहि।अहंतस्यइतिनिरन्तरंस्मरणंकृत्वातस्यएवइच्छयासर्वंप्रवर्ततेइतिभावःअनुवर्तनीयः।एतदर्थम्उपासनाकरणीया।उपासनाकरणीयाइत्युक्तेकिम्?‘अहंदेवस्य,तस्यसन्निकर्षेअस्मि’इतिभावःरक्षणीयः।इदंभावंजनयितुंतस्यनामस्मरणंकरणीयम्।वयंतस्यनामस्मरणंकुर्मःचेत्सःअस्माकंसन्निकर्षेवर्तते।कस्यचित्नामभवन्तःस्मरन्तिचेत्तस्यमूर्तिःमनसिउत्पद्यतेतथैवदेवस्मरणेनसःअपिभवत्समीपेविद्यते।कथंवर्ततेदेवःइतियदिपृच्छन्तितर्हिसःनाम्निवर्ततेइतिसाक्षात्श्रीकृष्णेनकथितंवर्तते।नामएवतस्यरूपम्अतःनामस्मरणेनसःभवन्तंप्रतिअनिवार्यतःआयातिएव।इदंनामस्मरणंकथंकरणीयम्?समर्थरामदासस्वामिनाउक्तम्,‘काहीचनकरुनीप्राणी।रामनामजपेवाणी।तेणेसन्तुष्टचक्रपाणी।भक्तालागीसंभाळी।।‘( किमपिअकृत्वाप्राणी।रामनामजपतिवाणी।तेनसन्तुष्टश्चक्रपाणि।भक्तरक्षणंकरोति।।) नामजपसमयेवयंकिमपिनकुर्मःकिम्?प्रपञ्चस्यचिन्तांकुर्मःकिल?इत्युक्तेअहंकारंधृत्वावयंनामस्मरणंकुर्मः।अहंकारंविनायःनामस्मरणंकरोतितम्एवदेवःपालयति।यःस्वस्थःवर्ततेतस्यसःयोगक्षेमंव्यवस्थापयति।

      • कस्यचित्भूत्वाभवितव्यं, देवस्यवागुरोःवा।****

डिसे.3 –नामरामबाणवत्वर्तते। हेबालकाः,यस्मिन्कस्यअपिअधिकारःनप्रवर्तते,यःकदापिकस्मादपिचउत्कोचंनस्वीकरोति,गच्छन्तंयंनकोऽपिअनुभवति,यःकियान्गतः, कियान्अवशिष्टोवाइतिकोऽपिवक्तुंनप्रभवति, अतीतःयःनप्रत्यागच्छति,भगवन्तंविनायःनकस्मादपिबिभेतिचतंकालंनकोऽपिपरिहर्तुंशक्नोति।कालसामर्थ्येनवस्तुसाकारीभवतितथाअकस्मात्भनक्तिअपि।सर्वाणिदृश्यवस्तूनिएतेननियमेनबद्धानि।देहःतत्रकथम्अपवादः?परंयःभगवन्तंदृढंधरतितस्यदेहःवर्ततेनिर्वर्ततेवातस्यअवस्थानम्अविचलितम्। अग्रेकोऽपिवदेत्नवदेत्वा,नामस्मरणंभवन्तःनत्यजन्तु।भगवन्नामस्मरणेनरामःकल्याणंकुर्यात्इतिममवचनंसत्यम्।प्रपञ्चम्अवधायकुर्वन्तु, परंभगवन्तंनविस्मरन्तुइत्येवममआग्रहः।तस्यस्मरणेदिनम्आनन्देनयापयन्तु।नामरामबाणवत्वर्तते।रामबाणःइत्युक्तेसम्यक्कार्यंकरोतिसःबाणः।सःस्वलक्ष्यंसम्यक्विद्ध्वाप्रत्यागत्यतूणीरेतिष्ठतिस्म।रामनामरामस्यसन्निकर्षेवसति,रामंप्रतिनेतारंसुयोग्यंसाधनंवर्ततेच।वस्तुतःनामस्मरणाभ्यासःबहुसरलः।तदर्थंनकोऽपिउपाधिः।नसमयबन्धनम्।नस्थलस्य,नदेहस्थितेःबन्धनम्।यावत्भानंवर्तते,तावत्नामस्मरणंकर्तुंशक्यते।परम्अन्ययादृष्ट्यानामस्मरणाभ्यासःकठिनः।उपाधिंविनामनःनरमते।उपाधिःतस्मैरोचते।नाम्नःनस्वरुचिः,अतःस्वल्पंनामस्मरणंकृतंचेत्जामितत्वम्आयाति।एतदर्थंनाम्नियदिमनःप्रमुदतितर्हितत्भाग्यमेव।नाम्निमनःरमतेचेत्स्वविस्मरःभवति।चेतःयदिपूर्णतःनाम्निरमतेतर्हिआत्मानंपूर्णतःविस्मरति।नाम्निसिषाधयिषाआवश्यकी।एषासिषाधयिषावर्ततेचेत्जगतिविद्यमानानिसर्वाणिऐश्वर्याणिनगण्यानिभवन्ति।अस्मिन्आपणेतदर्थम्एवस्थितःअस्मि।प्रत्येकंजनस्यमनसिरामनामसिषाधयिषाउत्पद्येतएतदर्थम्अहंनिरन्तरंप्रयते।केनापितस्यअनुभवःस्वीकरणीयः।कोऽपितस्यअनुभवंस्वीकर्तुंसिद्धःभवतु।तस्यपृष्ठतःरामःवर्ततेइतिविश्वसन्तु।सर्वेमनसानामजपंकुर्वन्तुइतिममसर्वेषांकृतआशीःवर्तते।

          • नाम्निव्यापृतःभवेत्तावत्नामजपंकुर्वन्तु।पूर्णःव्यापृतःभवतिचेत्नामनविस्मर्यते।*****

डिसे.4 –गोन्दवलेमहत्त्वंनामप्रेम्णिवर्तते। यथाकश्चनपितावित्तकोशेधनंस्थापयति,तस्यअपकर्षंस्वनिधनानन्तरंपुत्रःलभेतइतिव्यवस्थांकरोतितद्वत्बुद्धिभ्रष्टाःन्यूनातिन्यूनम्अन्तकालेसद्बुद्धेःअपकर्षंप्राप्नुयुःएतदर्थंप्रचुरंधनंमयागोन्दवलेग्रामेस्थापितम्अस्ति।मनुष्यःकियान्अपिबुद्धिभ्रष्टःभवेत्,यदिसःगोन्दवलेग्रामम्आगच्छति,तर्हितस्यबुद्ध्यांपरिवर्तनंभवेदेव।न्यूनातिन्यूनम्अन्तसमयेसःतत्रआगत्यसम्यग्भूत्वाम्रियेत।अभिमानःन,परंगोन्दवलेमहत्त्वंनामप्रेम्णिवर्तते।रामःकियान्दयालुः।तस्यनामप्रसारार्थंमयातस्यनाम्नःइदंवाणिज्यम्आरब्धम्।आरम्भेअचिन्तयंयत्वस्तुविक्रयंभवेत्वान।परंरामेणमहतीकृपाकृता।बहवःजनानामजपम्आरब्धवन्तः।पश्यामःयत्प्रत्येकंग्रामस्यनामभिन्नंवर्तते।वस्तुतःसर्वेग्रामाःसमानाः।गृहाणि,भित्तिकाः,शालाः,धर्मशालाः,ग्रामसभाःचेतिसर्वंप्रत्येकंग्रामेवर्तते।परन्तुप्रत्येकंग्रामस्यमहत्त्वंभिन्नंवर्तते।गोन्दवलेग्रामेवित्तसस्यंन,परंनामसस्यंप्रचुरम्उत्पद्यते।सदाअहंवदामियत्यत्रयत्उत्पद्यतेतत्तत्रवपनीयम्।अत्रस्थःकश्चनभक्तःकुत्रापिदृश्यतेचेत्तस्यव्यवहारेणज्ञातव्यंयत्सःगोन्दवलेग्रामस्थःइति।ओष्ठौकम्पेते, मुखेनरामजपःप्रवर्ततेचेत्एषःअमुकगुरोःशिष्यःइतिज्ञातव्यम्।उक्तिःवर्ततेयत्पितुःमहत्त्वंनकथनीयंतत्पुत्रस्यवर्तनेनएवज्ञातव्यम्।अतःइदानीम्एकमेवकुर्वन्तु।रामंप्रणम्यमनसाकथयन्तु,‘हेराम,भवतःप्रेमदेहि।वयम्अखण्डनामस्मरणेभविष्यामः।प्रारब्धभोगान्आनन्देनभुञ्ज्महे।यथात्वंस्थापयसितथाआनन्दंमन्यामहे।भवतःमधुरंनामवयंहृदयेसततंधरिष्यामः।’रामःनिश्चयेनकृपांकुर्यात्।अवितथंनामस्मरणेप्रपञ्चःअस्माकंकल्पनापेक्षयाकियान्सुखकरःभवेत्! युद्धम्अर्जुनस्यकर्तव्यम्अतः‘मांस्मृत्वायुद्धंकुरु’इतिभगवतासःकथितः।साम्प्रतंसेवावृत्तिः,प्रपञ्चःचकर्तव्ये।तेभगवत्स्मरणेसम्यक्करणीये।नीतिधर्मस्यआचरणंप्रारब्धेनआगतानिकार्याणिचभगवत्स्मरणेकरणीयानिइत्येवसर्वधर्मशास्त्राणांसारः।शर्करयामुखंमधुरायतेतथैवमधुरशब्दान्वदामःचेत्मधुरंश्रुण्मः।अस्माकंसर्वविषयान्भगवन्नामस्मरणेयदिकुर्मःतर्हिभगवत्प्रेमकथंनलभ्येत?वयंभगवन्नामस्मरणम्आरभामहे।तदेवभगवत्प्राप्त्यर्थंसमर्थंविद्यतेइतिनिश्चिनोतु।प्रपञ्चानुभवःकष्टमयः,परंभगवदनुभवःनिश्चयेनआनन्दमयः।

            • यःमदीयःसःनामप्रेमीभवेत्एव।****

डिसे.5 –सहजतयानाममुखे,सःएव‘अजपाजपः’। कश्चनसज्जनःआसीत्।निर्व्यसनःआसीत्सः।कदाचित्कश्चनमुनिःग्रामम्आगतः।सज्जनःभविष्यंज्ञातुम्आसक्तः।कस्माच्चित्सःश्रुतवान्यत्,मुनिःसम्यग्भविष्यंकथयति।अतःसःतेनमेलितुंगतः।सःतदा‘गान्जा’मादकधूम्रपानंकुर्वन्आसीत्।सज्जनःतंगन्धंसोढुंनशक्तवान्।तथापिभविष्यंश्रोतुंसःतत्रकोणेउपविष्टः।प्रतिदिनंसःतत्रगच्छतिस्म।बहूनिदिनानिगतानि।गच्छताकालेनतस्मैमुनिःअरोचत।कदाचित्मुनेःकथनेनतेनधूम्रवर्तिकायांवह्निःस्थापितः।अपरेद्युःवस्त्रंआर्द्रंकृत्वादत्तवान्।अग्रेकदाचित्मुनिकथनेनसःएकवारंधूम्रपानंकृतवान्।शनैःशनैःअभ्यासेनसःधूम्रपानेएतावान्पटुःजातःयत्गुरुम्अपिपृष्ठतःस्थापितवान्।सङ्गतेःएतादृशःमहान्परिणामःभवति।यस्यसङ्गत्याभगवत्प्रेमउत्पद्यतेसःसत्पुरुषः।तस्यसङ्गतेःसिषाधयिषाभवेत्। श्रीरामप्रभावेणरोचितंनामचित्तेधृत्वाहनुमतासःआत्मीयःकृतः।तन्नामभवन्तःश्रद्धयाधरन्तु।भगवन्तंभवन्तःअपिआत्मीयंकर्तुंशक्नुवन्ति।नामजपंकुत्रापिकुर्वन्तु,कदापिकुर्वन्तु,कियदपिमन्दंवदन्तु,परंश्रद्धयावदन्तु।तेनभवान्भगवन्तंनिश्चयेनप्राप्नुयात्।परमेश्वरप्राप्त्यर्थंप्राणायामः,योगासनम्इत्यादीनिसाधनानिकथितानिसन्ति।परंततःअपिमहत्त्वपूर्णंवर्ततेभगवतःसहजभक्तिः।भगवन्नाम्नःसहजतयामुखम्आगमनंनाम‘अजपाजपः।’एषःभगवद्भक्तेःश्रेष्ठःप्रकारः।अस्मिन्अहंलोपःवर्तते।अहंकारलोपःएवभगवतासहसत्याअनन्यता।भगवतःपूर्णकृपाइत्युक्तेभगवतासहएकरूपता।परमार्थःइत्युक्तेअस्माकंसहजावस्थाभवेत्।तदर्थम्अन्तरङ्गस्यपरिचयःभवेत्इत्युक्तेअन्तर्मुखेनभवितव्यम्।‘भगवान्नास्ति’इतिभावेनउद्भूतःवायुःइत्युक्तेचिन्ता।मनुष्यस्यसर्वेषुदुःखेषु,रोगेषु,चानन्दः,समाधानंचऔषधिः।यःसदाचरणेभगवन्नाम्निचवर्तते,तस्मात्एषःऔषधिःसहजंलभ्यते।अस्यऔषधेःपरिणामःसहजम्अज्ञात्वाचभवति, अन्तपर्यन्तंतिष्ठतिच।आनन्दमयेनभवितुंभगवान्अपेक्ष्यते।भगवतःप्राप्ताशान्तिःएवसमाधानम्।मनसःभगवतियोजनार्थंयाशृङ्खलासानाम।अस्मिन्नाम्निसर्वस्वंयदियोजितंतर्हिभगवन्तंप्रतिसहजगमनंशक्यते।

        • नामानन्दस्यआवेगेनमनुष्यःआत्मानं,जगत्चविस्मरेत्।*****

डिसे.6 –निरासक्तिः,शरणागतिःच। केनचित्छुरिकायाःकाष्ठस्यमुष्ठिःपरिवर्त्यलोहस्ययोजिता।केनचित्,केनचित्सुवर्णस्यचयोजिता।परन्तुछुरिकयाताडितःचेत्परिणामःसमानः।तद्वत्प्रपञ्चःसुष्ठु,असुष्ठुवा,सःछुरिकासमंसर्वत्रघातकःएव।प्रपञ्चस्यआसक्तिःइत्युक्तेक्षुरस्यधारा।अतःस्वोद्योगः,सेवावृत्तिःवासम्यक्करणीया।तत्रदुर्लक्षेनअलम्।परम्अहमेवसर्वंकरोमिइतिनमन्तव्यम्।सेवाकार्यंनसुखार्थंतत्उदरनिर्वाहार्थम्इति,एतयावृत्त्यायःकरोतिसःआसक्तःनभवति,नतस्यअभिमानःभवति।सावधानतयावर्तनीयम्।भगवान्स्मरणीयः।तस्यनामजपःकरणीयः।अन्येसर्वेविषयाःप्रारब्धेनप्रवर्तन्तेइतिचिन्तनीयम्।एतेनएवसमाधानंलभ्येत।भगवन्तंविनासमाधानंनशक्यते।‘समाधानेनअहंजीवामि’इतियःवदतिसःजगतिधन्यः।एतांधन्यतांप्राप्तुंभगवान्अत्यन्तम्आवश्यकः।रामेच्छयासर्वंप्रवर्तते,रामःएवकर्ताचेतिभावनयाप्रपञ्चंकुर्मः।सर्वथाप्रयतनीयम्,परंफलदाताभगवान्एवइतिमत्वासमाधानम्अनुवर्तनीयम्। भगवत्प्राप्त्यर्थंशरणागतिंविनानकिमपिअन्यत्अपेक्ष्यते।उपाधिविहीनत्वम्एवशरणागतिः।ममत्वोपाधिंनाशयितुंसाधनम्अपितथाएवआवश्यकम्।एतावत्उपाधिविहीनंसाधनंनामविनानकिमपि।तत्साधनंकरोतु।भगवन्नामप्रेमअपेक्ष्यतेचेत्अन्तःकरणंशुद्धम्अपेक्ष्यते।अन्तःकरणंद्वेषेन, मत्सरेण, अभिमानेनचयुक्तंनभवेत्।परस्परंप्रीणन्तु।गृहतःआरभताम्।सुतःसुखंददातिअतःन, परंममकर्तव्यम्इतिमत्वातस्मिन्प्रीणामि।निःस्वार्थभावनयाप्रेमएवपरमार्थःननु।तदर्थंरामःदाता,आधारः,भगवान्चेतिमत्वाभवितव्यम्।इदंभानंनिर्मातुंभगवन्नाम्नःआवश्यकतावर्तते।मनःशान्तिंप्राप्तुंएषःएवपथः।दीनत्वेननकदापिभवितव्यम्।राजवैभवंभोक्तव्यं,परंतेनअहंनसुखी,रामस्यआत्मीयत्वेनसुखीइतिभावनयावर्तनीयम्।वैभवम्अद्यवर्ततेश्वःन।वैभवेविश्वासेनअलम्।अहंरामस्यइतिभावनायांस्थातव्यम्।तदर्थंरामनामवदतु।रामःकल्याणंकरिष्यतिइतिममवचनेविश्वसतु।

        • सुखंकुत्रवर्तते?सुखंमनोभावनायांवर्तते।अहंभगवतः,एषाभावनाएवसत्या।*****

डिसे. 7 –नामप्रेमचयमलसहोदरौ। सामान्यप्रापञ्चिकस्यआकर्षणंविषयंप्रतिवर्तते।अद्यसुखंक्वइतिसःपश्यति।विषयेसःएतावान्तल्लीनःभवतियत्जगदपितृणवत्मन्यते।अन्ततःविषयःदुःखदःइतिसःविस्मरति।यदाविषयःअहंचतद्रूपौतदासुखंभासते।परंवस्तुतःअद्ययावत्केनापिविषयात्सुखं,समाधानंचनप्राप्तम्।सुखं,समाधानंचलब्धुम्अस्माकंवृत्तिःभगवतिदृढाकरणीयाइतिएकःएवउपायः।वृत्त्याएकाकारेणभवितव्यंपरंनविषयेअपितुनामस्मरणेइतिसर्वसत्पुरुषाणांकथनम्।‘मना’शब्दस्यअक्षराणांविपरीतंकुर्मःचेत्‘नाम’इतिभवतिइत्युक्तेनामस्मरणेमनसःविषयंप्रतिआकर्षणस्यविपरीतकरणम्।‘नाम’इत्युक्ते‘नमम’।ममत्वंविनाप्रपञ्चःकरणीयः,इत्युक्तेनामस्मरणम्।यथाप्रपञ्चस्यचिन्तांकरोमितथानाम्नःकरोमिकिम्इतिप्रत्येकंजनेनचिन्तनीयम्?प्रपञ्चेनिहितंस्वकर्तव्यंपूर्णमनसाकृत्वाविद्यमानायांपरिस्थित्याम्अत्यन्तंसमाधानेनअवस्थायनामस्मरणेकालःयापनीयः।निर्गुणस्ययमलौजातौ।तयोःनामनीनामप्रेमच।द्वौपरस्परौलग्नौ।एकंधरामःचेत्अपरम्अनुवर्तते।साम्प्रतम्अस्माकंप्रेमनैकेषुवस्तुषु, जनेषु, वित्तेषु, विद्यासु, देहेषु, लौकिकेषुचवर्तते।तेनभगवतिप्रेमकरणेननामअनुवर्तेतइतिअवस्थाअस्माकंनवर्तते।गोपीनांतादृशीअवस्थाआसीत्।परंवयंनामवशीकर्तुंशक्नुमः।तदाभगवत्प्रेमसहजम्अनुवर्तते।गृहादिकैःसहवासेनप्रेमभवतितर्हिनाम्निकिमर्थंनभवेत्? वस्तुतःबुद्ध्याज्ञातुम्नशक्यते, एतादृशःबहवःविषयाःजगतिसन्ति।सुनुःपितुःनामकरणविधिंद्रष्टुंनशक्नोति।तद्वत्कोऽहम्इतिएतस्यबुद्ध्याअवगमनंनशक्यम्।सत्यवस्तुकल्पना, बुद्धिः, तर्कःचेतिएतेषांपरःवर्तते।सत्यान्वेषणंकर्तुंयेनसत्यम्अपाहितंतत्वस्तुदूरीकरणीयम्।तदासत्यंद्रष्टुंशक्यते।सत्यम्उत्पादयितुंनशक्यम्।उपाधिःउत्पाद्यते।उदाहरणार्थंभयं, कल्पनाइत्यादिनाम्उत्पादनंवयमेवकुर्मः।नद्यांसेत्वौस्थित्वाजलस्पर्शेनविनावहतःजलस्यविनोदम्अनुभवामः।तद्वत्भगवतःसत्यत्वंयेनअङ्गीकृतंसःविषयेषुस्थित्वाअपिभवतःउद्भूतान्सुखदुःखविषयान्प्रतिविनोदेनपश्येत्,स्वयम्अलिप्तत्वेनअवतिष्ठेत्च।

      • सुखंनविषयेषु, आत्मनिवर्तते।आत्मासुखरूपः।****

डिसे.8 –भगवत्प्राप्त्यर्थम्एवदेहरक्षणम्। देहरक्षणम्आवश्यकं, परंतत्भगवतःप्राप्त्यर्थंकरणीयम्, नतुविषयसुखार्थम्।बाह्यलौकिकंरक्षितुंयत्मुख्यंतत्गमयितंतर्हिकःलाभः?एषामूर्खताननु?नारिकेलगर्भंरक्षितुंकवचम्अपेक्ष्यते।केवलंबाह्याङ्गस्यपालनंनमनुष्यस्यउद्दिष्टम्।बाह्याङ्गसुखंनअवितथम्।‘अहंममच’इतिइतःवयंद्वैतम्आरभामहे।कल्पनयायावत्शक्यंतावत्पश्यामः, परम्अन्तपर्यन्तं‘कोऽहम्’इतिप्रश्नस्यउत्तरंनलभामहे।प्रमादःजातःइतिज्ञायतेचेत्परिष्कारःमार्गणीयः।यतःप्रमादःजातःतत्रप्रत्यागन्तव्यम्।‘अहंदेही’इतिचिन्तनेनप्रमादःजातः।अनृतंऋतम्इतिचिन्तितम्।विषयेसुखम्इतिकल्पितम्।नैकवारम्अनुभूतं,परम्अस्माकंकल्पनायाःसत्यासत्यतानावगता।विचित्रम्इदम्।सत्यंयत्प्रपञ्चःयष्टिकाक्रीडासदृशः।अस्यांक्रीडायाम्एकस्मैयष्टिताडनंदत्त्वासःत्वरितम्अग्रिमंक्रीडकंगच्छति।तथैवप्रपञ्चःनस्थिरंवस्तु, चञ्चलः।अस्माकंजन्म,मृत्युःचप्रकारान्तरेणप्रतिदिनंप्रवर्तते।निद्रितःचेत्मृत्युः, जागृतःचेत्जन्म। कारागृहेबहवःबद्धाःसन्ति।प्रत्येकंजनेनकिमपि,किमपिदुष्कृत्यंकृतंवर्तते।प्रत्येकंबद्धेनअकरणीयंकृतम्अस्ति।तद्वत्जगतियेदुःखम्अनुभवन्तितैःजनैःयद्यपिअज्ञातंतथापिनकरणीयंकर्मपूर्वजन्मनिकृतंवर्ततेइतिनिश्चितम्।अत्रभगवताएकासुविधाकृतावर्ततेयत्,यःदेहंविस्मरतितस्यदुःखभानंनभवति।जगतिविद्यमानस्यदुःखस्यप्रश्नस्यउत्तरंमानवीयतर्केणसमाधानपूर्वकंनलभ्यते।अतःतद्विषयेअधिकंनचिन्तयित्वादुःखंन्यूनीकर्तुंप्रयतनीयम्।यःसर्वथादेवंस्मरति,सःजगत्,दुःखंचविस्मरति।यःआत्मानंपूर्णतःविस्मरतिसःभगवन्तंलभते।आत्मानंपूर्णतःविस्मर्तुंनामजपःएवउपायः।यावत्आर्ततयानामजपंकुर्मःतावत्आसक्तिःनाम्निभवति।तेनदेहस्मरणंकथंभवेत्?नामोच्चारणं, तस्यएवश्रवणं, तेनएवआत्मविस्मरणम्,एषःएवआनन्दमार्गः।

        • नामअन्तःकरणंप्रविशतिचेत्देहस्यविस्मरणंभवति।तदा‘कोऽहं, कोदेवः’इतिसम्यक्ज्ञायते।****

डिसे.9 –अभिमानःमास्तु।निन्दामास्तु। वस्तुतःदेहबुद्धेःबलस्यकारणम्अस्माकम्अभिमानः।अभिमानेनसद्गुणाःअपगच्छन्तिचेत्कःलाभः?ज्ञान्यज्ञानिनोःमध्येमुख्यःभेदःवर्ततेयत्ज्ञानिनःअभिमानंत्यजन्ति, अज्ञानिनःअभिमानंवर्धयन्तिच।अभिमानेनसमःनरिपुः।एषःअन्तरङ्गशत्रुः।शोधयित्वानिग्रहणीयः।सत्कर्ममात्रेणअभिमानःननश्यति।सर्पायदुग्धंदद्मःचेत्तत्विषेएवपरिणमतेतथैवअभिमानेनकिमपिकुर्मःचेत्सःवर्धतेएव।तदर्थंसत्कर्मनत्यक्तव्यं,परम्अभिमानंविनाकरणीयम्।‘अहंकर्ता’इतिभावःत्यक्तव्यः।अभिमानःनामकरणविधौआयाति।दशक्रियाविधिपर्यन्तम्अस्माभिःसहस्थातुंप्रयतते।अतःनामाङ्कुशेनतस्यनिष्कासनम्अपेक्षितम्। अस्माकम्अन्तःकरणेनिन्दानामअवकरःविद्यते,इत्युक्तेअस्माकंकूप्यांलवणजलंवर्तते।चिन्तयन्तु,उपरितनंजलंनिष्कास्यअधिकंखनामःचेत्कदाचित्मधुरजलनिर्झऱःलभ्येत।तेनकूप्यांजलंमधुरंभवेत्।तथाएवअस्माभिःअभिमानःत्यक्तः,निन्दाकरणंस्थगितम्,अन्तर्मुखेनभूत्वाभगवान्शोधितःचतर्हितस्यप्रेमनिर्झरस्यलाभेनअस्माकम्अन्तःकरणंतस्यप्रेम्णापूर्णंभवेत्।लोकोक्तिःवर्ततेयत्कूप्याम्अस्तिचेत्द्रोण्याम्आगच्छेत्।कूप्यांयदिलवणजलंवर्ततेतर्हिद्रोण्यांतदेवआगच्छेत्तद्वत्अस्माकंमनसियत्वर्ततेतदेववाण्यांप्रकटति।वचनेनमनुष्यस्यअन्तःकरणंपरीक्ष्यते।यस्मैनिन्दारोचतेतस्यउदरेमलंवर्ततेएव।केचनजनाःअन्येषाम्उत्कर्षम्असोढ्वातेषांनिन्दांकुर्वन्ति।अन्येषाम्उत्कर्षंतेनसहजंसहन्ते।केचनआत्मसुदोषारोपणंनभवेत्एतदर्थम्अन्यान्निन्दन्ति।केषाञ्चनदृष्टिःएवदूषितायतःदोषाःभवन्तुवानवातेअन्येषुदोषम्एवपश्यन्ति। भगवन्मार्गेणगन्तृणाअन्येषुविद्यमानानांदोषाणांबीजम्आत्मनिवर्ततेइतिअवधातव्यम्।तेननिन्दानकरणीया।स्वसामर्थ्यस्यगुणानाम्अभिमानःनकरणीयः।जनैःयत्नकरणीयम्इतिवयंचिन्तयामःतत्अस्माभिःअपिनकरणीयम्।प्रपञ्चेनसहवासःउपरितनस्तरेभवेत्अन्तरङ्गेमास्तु।अन्तरङ्गेभगवतःएववासःभवेत्।तेनसर्वान्तरङ्गदोषाणांनिराकरणेनशाश्वतशान्तिम्आस्वादयितुंमनःशक्नुयात्।

        • अन्येषांदोषाणांकथनम्उच्चारणंवाहीनत्वलक्षणम्।****

डिसे. १०–रामेणस्थाप्यतेयत्र।समाधानंभवतुतत्र।। प्रपञ्चेसमाधानम्।एतदेवसर्वोत्तमंज्ञानम्।।भगवत: हस्त: यत्र।समाधानं वर्ततेतत्र।।रामेण स्थाप्यतेतत्र समाधानं।एष: सुखोपाय: इत्यवगच्छ।।रामपदेतद्रूप: ।समाधानंलभतेसः।।यस्यअन्त:करणेसमाधानं।तत्रउत्पद्यतेभगवत्प्रेम।।सःएवअसमाधानः।रामंविहायअन्य: आत्मीय:।।उपाधिरहित:राम:।तावत्अन्य: न द्रष्टव्य:।।मध्येक्वापिमन: लग्नं।परमतत्त्वंदूरे गतम्।।भगवत्स्मरणं,भगवदागमनं।न भवति विना पुण्यं।।श्रीराम: सर्वव्यापी।यस्यविश्वासःसःसमाधानी।।दातारघुनंदन:।यस्यमनसि एष: भाव:।जगति स: नभवतिदीन:।।तत्रधर्मरक्षणं।यत्रपरमात्मस्मरणम्।। राम: स्वदासे।नित्यंकृपायते।।सर्वदाराम: कृपायते।प्रमादान्क्षमायते।।पुन: असाधुनवर्तनीयं।सावधानेनभवितव्यम्।।'अन्तेकरोतिममस्मरणं।तस्य करोमिउद्धरणम्'।इतिभगवत: वचनम्।निशङ्कतयाविश्वसनीयम्।।विनारघुनाथंसुखी।श्रुत: दृष्ट: वाजगति।।अहङ्कार: त्यक्तव्य:।तदाभवतिभगवदीय:।।यदाराजदर्शनं।सेवकानांनमहत्त्वम्।तथाजगन्नियन्ताभवतुआत्मीय:।।अद्ययावत्रामेणाहंपालित:।राम: नास्तिसुप्त:।।तस्यजागृति:।स्वहस्तेअस्ति।।य:शास्तिकालं।तस्य चरणयो:मस्तकम्।तेनअभयम्इतिसत्यम्।।यस्यहृदयेराम:।ऋद्धिसिद्ध्यो: तत्रनावकाश:।।य:निस्वार्थी।तत्रभगवान्निवासी।इतिसिद्धान्तंजानीहि।।राम: कर्ता इतिभाव:।न्यूनताया: नावकाश:।।नि:स्वार्थतयाकर्तव्यं।तेनरामेणप्रसीदतव्यम्।।यत्रनान्योपाय:।तत्रसहायक: राम:।।यस्यपरमात्मासहाय:।स:नितरांनिर्भय:।।देह: परतन्त्र:।भगवतिस्वतन्त्रंभवतुमन:।।निर्विषयत्वेनआह्वयतु।ममदाशरथि:साक्षात् भवतु।।राम: सर्वेषांकल्याणंकुर्यात्।दुष्टायअपि सुबुद्धिंदद्यात्।।दीनदयालु: परमात्माराम:।विकल्पायनावसर:।।सत्यमेव व्यवहरणीयं।भगवान्कृपायेत्भवन्तम्।।अखण्डंनामस्मरणं।तदा कृपायेतरघुनन्दन।।

        • भगवतायत् दत्तं।तत्रसमाधानेनस्थातव्यम्।।****

डिसे.11 –कर्ममार्गिभिःनामअतीवअपेक्ष्यते। परमार्थंसाधयितुम्उदारावृत्तिःअपेक्ष्यते।महात्मामनुष्यःएवपरमात्मानंलभते।यः‘पन्तः’(उदारमनस्कः) सःएवसत्पुरुषः।प्रापञ्चिकेनजनेनगृहेविद्यमानंसर्वंनदातव्यम्,परंप्रसङ्गेसर्वंदातुंमनसःसिद्धताभवेत्।वस्तुतःभगवतासर्वदानस्यअपेक्षयास्वत्वदानम्अपेक्ष्यते।स्वदानानन्तरंसर्वंनदद्मः,तर्हिअनुमन्यतेयतोहितस्मिन्अस्माकंस्वामित्वंनवर्तते।परंसर्वदानानन्तरंस्वंनदद्मः,तर्हिसमाधानंनलभ्यते।भगवतेस्वदानम्इत्युक्तेअहंतस्यइतिभानंमनसिअहर्निशम्अनुवर्तनीयम्। वैदिककर्मभिःचित्तशुद्धिःभवति।परंभगवतःप्राप्त्यर्थंचित्तशुद्धिःकरणीया,तस्यभगवतःअधिष्ठानंयदिवैदिककर्मणांनवर्ततेतर्हितत्कर्मकर्मठतायांपरिणमते।अपिचसाम्प्रतंबाह्यपरिस्थित्यौपरिवर्तनंजातम्,अतःवैदिककर्माणियथोक्तानितथानभवन्ति।अतःकर्ममार्गेणगमनसमयेकर्मपूर्त्यर्थंनामजपःअत्यन्तम्अपेक्ष्यते।कर्ममात्रम्एवसर्वस्वम्इतिमनस्विनांकर्ममार्गिणांचिन्तनेनयाकर्मठभावनाउत्पद्यतेतस्याःविषयेममआक्षेपःविद्यते।अन्यथाकर्ममार्गिणाम्अनुशासनविषयेसंयमविषयेचमयाआद्रियतेएव। केवलंरामनामजपनेनसर्वधर्मबन्धनेभ्यःमुक्तिःभवतिइतिचिन्तनंनयोग्यम्।परंकर्मणाचित्तशुद्धिः,चित्तशुद्ध्याभगवद्भानंजागर्ति।नतावन्मात्रं,यदापूर्णाचित्तशुद्धिःभवतितदाकर्मलोपेनकेवलंनामएवअवशिष्टंवर्तते।भगवतासहतद्रूपत्वेनतस्यभगवतिलयःभवति।रामनामनकेवलंमन्त्रः,सःसिद्धमन्त्रः।सःभगवन्तंप्रतिनयति।न,सःभगवन्तम्आकर्ष्यआत्मानंप्रत्यानयति।एषःममसाक्षात्अनुभवः।केनापिइदंनामसामर्थ्यम्अनुभवितव्यम्।रामनामदेहबुद्धिंज्वालयिताअग्निःवर्तते।रामनामओम्कारस्वरूपम्।तत्सर्वकर्मणांसाधनानांचप्राणाः।श्रीशिवशङ्करात्श्रीसमर्थपर्यन्तंयेमहासिद्धाःजाताःतेसर्वेरामनामकण्ठेधृतवन्तः।रामनाम्नःसार्धत्रिकोटिमितंजपंयःकरोति,सःस्वदेवताम्अनुभविष्यति।रामनाम्नःआधारेणरामेणसहसम्बन्धःस्थापितःभविष्यति।रामनाम्नःजपकरणंतत्सर्वंममअस्माकंकल्याणायइतिमन्यव्यम्।

      • नाम्नःकृतेनामजपतु,तेनैवरामःवर्ततेइतिनिश्चयेनज्ञानंभविष्यति।******

डिसे.12 –यत्योगेनलभ्यतेतत्नाम्नापिलभ्यते। गृहस्थाश्रमवासिनानियतनीयंयत्याचकःनइतिनवक्तव्यः।समीपेयत्वर्ततेतस्मात्स्वल्पंवादातव्यम्।अन्नदानेसङ्कोचःमास्तु।धनदानेस्वपरिस्थितिं,तस्यहेतुंचदृष्ट्वातस्यअपेक्षायाःन्यूनम्एवदातव्यम्।नकारःनसाधुः।भिक्षुकेणसहकदापिदुर्वचनैःनवक्तव्यम्।सेवावृत्तिःअपिप्रकारान्तरेणभिक्षाएव।याच्ञावैराग्यदृष्ट्यानअप्रतिष्ठिता,परंसास्वार्थायनभवेत्।उदरपूर्त्यनन्तरम्अवशिष्टम्अन्नंपूर्णतःदातव्यम्।वैराग्यप्रभांकदापिनगोपयितुंशक्नुमः।सुगन्धादीनिद्रव्याणिसंलेप्यतेजःआननीयंभिन्नं,वैराग्यतेजःभिन्नम्।वैराग्येणविनासर्वःपरमार्थःमिथ्या। जगतःस्वभावज्ञानंज्ञानस्यआदिसोपानम्।यामिथ्यातत्सत्यम्इतिमननम्साअविद्या।वस्तुतःमनुष्यस्यपरमार्थयोग्यतायाःअवगमनंसामान्यजनेननशक्यते।सत्पुरुषाःएवअन्तरङ्गंजानन्ति।अतःतादृशंदृष्टिलाभंविनाकोऽपिनदूषणीयः।अन्तसमयेमनुष्यःकस्याम्अवस्थायांवर्ततेइतिएतस्यज्ञानेनतस्यपरमार्थावस्थायाःज्ञानंभवति।सामान्यजनःअपिनामसाहाय्येनमहतींयोग्यतांप्राप्नोति।तदवगन्तुम्अपिआत्मनानामजपनेरतेनभवितव्यम्।नामसामर्थ्यंमहत्।कोऽपिनानुभवति,एतदर्थंकिंकरणीयम्?निस्संशयंयत्योगेनलभ्यतेतत्नाम्नापिलभ्यते।यस्यनाम्निआसक्तिः,तस्मिन्रामःकृपांकरोतिइतिनिश्चितम्।तदर्थंसततंनामोच्चारणम्एवउपायः।ततःपश्यामःचेत्प्रापञ्चिकाःअतिस्वार्थिनःइतिदृश्यते।तेषांस्वार्थंरक्षित्वातेपरमार्थम्इच्छन्ति।इदंकथंशक्यम्?अत्यन्तंनिस्वार्थिभवनम्एवपरमार्थः।तदर्थंस्वल्पःवास्वार्थत्यागःकरणीयः।सत्पुरुषाणांसकाशंगत्वाइदमेवपठनीयम्।पूर्णतःप्रपञ्चंत्यजन्तुइतिकोऽपिनकथयति।तथाकथयामःचेत्नकोऽपिअङ्गीकरोति।परंन्यूनातिन्यूनम्अस्माकंस्वार्थिभावःएवसर्वम्इतिनमन्यन्ताम्इतिसत्पुरुषाःकथयन्तिइतिनअयोग्यम्।स्वार्थंन्यूनीकर्तुंवासनान्यूनीकरणीया।वासनांन्यूनीकर्तुंभगवान्एवआधारः।तदर्थंतस्यअनुसन्धानंकरणीयम्।अनुसन्धानार्थंतस्यनामस्मरणम्अपेक्ष्यते।तदर्थंतस्यनामजपन्तु।

        • यःनाम्निप्रीणातिसःभगवद्दर्शनंप्राप्नोति।****

डिसे.13 –भगवत्सेवाशुद्धभावनयाएवभवितुम्अर्हति। हृदयंतथाचइतरेअवयवाःदेहस्यभागाः।हृदयंविनासर्वेभागाःसम्यक्कार्यंकुर्वन्तिचेदपिकोऽपिलाभःनास्ति।परंयदिहृदयंसम्यक्वर्ततेइतरभागाःअसमीचीनाःचतर्हिविविधोपायैःतेपूर्ववत्कर्तुंकदाचित्शक्याः।अपितुकश्चनअवयवःनिष्कासितःचेदपिदेहस्यकार्यंप्रवर्तते।परंहृदयंस्थगतिचेत्सर्वंसमाप्तंभवति।तन्नामहृदयसमंनामसाधना,इतरसाधनाःतुइतरावयवसदृशाः।नामस्मरणेनविनाअन्यसाधनाःनिष्फलाः।‘अधुनाअस्मिन्जन्मनिएतावत्पर्याप्तम्’इतिभवन्तःनामजपविषयेचिन्तयन्ति,परंधनार्जनविषयेवाविषयभोगविषयेवातथानमन्यन्ते।यतोहिभगवत्स्मरणेनविनासर्वंप्रवर्ततेइतिभवन्तःभावयन्ति।प्रपञ्चेयाप्रीतिःसाभगवतियोजिताचेत्भक्तिःभवति।प्रपञ्चेविद्यमानःलोभःभगवतिप्रेम्णिपरिवर्तते।अनयापध्दत्याअस्माकंविकाराणांभगवतियोजनंशक्यम्। कश्चनप्रवासीयानेसम्यक्स्थानंलब्धवान्।अतःस्वस्थानकंनअवतीर्ण:।यानेन अन्तपर्यन्तंगत:।तेनयानेनएवपुनःस्वस्थानकंप्रत्यागतः।तद्वत्अस्माकंजन्ममरणप्रवासःप्रवर्तते।भवन्तःतेनसदृशंपुनःनप्रत्यागच्छन्तु।प्रवासेकदली,नारङ्गंचेत्यादीनिफलानिस्वीकुर्वन्तुइत्युक्तेअत्रगृहादीनिनिर्मान्तु,परंस्वस्थानकंनविस्मरन्तु।भगवान्एवअस्माकंस्थानकम्।साम्प्रतंविद्वज्जनाःअपिभगवद्विरुद्धंभणन्ति।अतःआदौस्वसाधनंनिश्चेतव्यम्, अनन्तरंपुराणादीनिश्रवणीयानि।साधुवादंलब्धुंबहवःजनाःपुराणंशृण्वन्ति।अथवाकेचनमनोविनोदार्थंसमयंयापयितुंवागच्छन्ति।इदंनयोग्यम्।दोषाःनपुराणेषु।प्रवाचकःस्वमतंसम्मेल्यकथयति,तेनबाधते।कर्तव्यभानम्अखण्डभगवदनुसन्धानंचैवसर्वपुराणानांसारम्।यथाकर्मतथावचनं - तदर्थंभाषणस्यन्यूनीकरणम्अपेक्ष्यते।भाषणंन्यूनीकर्तुंमनःक्वचित्योजनीयम्।शुद्धभावनयाएवभगवत्सेवाभवितुमर्हति।अस्याःभावनायाःउद्गमःप्रत्येकंजनस्यहृदयेवर्तते।एषाशुद्धाभावनाअस्मान्त्रायतेनतुमन्दिरं,समाधिःवा।देहेनसहवासेनदेहेनसहएकरूपतावर्ततेतद्वत्भगवन्तम्अविस्मृत्य,तंस्मृत्वाचतेनसहएकरूपताकिमर्थंभवितुंनार्हति?

                • परमार्थःकियान्अपिदुष्करःभवेत्, नामजपनेनसःसुलभःभवति।*****

डिसे.14 –नामजपसमयेमनसिएकःपरमेश्वरःएवभवेत्। वस्तुतःपरमेश्वरःअस्माकंप्रेमविनाकिमपिनापेक्षते।अन्तःकरणात्तत्प्रेमआगच्छेत्।परंपरमेश्वरविषयेवास्तवंप्रेमएवनोत्पद्यतेइतिअस्माकम्अनुभवः।वयंपरमेश्वरंप्रेम्णाआह्वातुंनशक्नुमः।सःकथंशृणुयात्?सहवासेनप्रेमवर्धते।रेलयानेप्रवासिनासहचतुर्होरासुप्रेमउत्पद्यते,तर्हिनामस्मरणेनकिमर्थंप्रेमनोत्पद्येत?देहेनसहअनन्तजन्मतःवासः,अतःदेहेप्रेमभवति,देहबुद्धिःआयातिच।नाम्नासहवासःअपियदिभृशं,सततंचवर्तते,तर्हिविषये,देहेचविद्यमानाअस्माकम्आसक्तिःन्यूनीभवेत्,नाम्निप्रेमउत्पद्येत।दारापुत्रस्नेहार्थंकियन्तंत्यागंवयंकुर्मः।परमेश्वरस्यशाश्वतसुखार्थंक्षुद्रवासनानांत्यागःअस्माभिःकिमर्थंनक्रियते?नामजपसमयेमनसिएकःपरमेश्वरःएवभवेत्,अन्याकापिवृत्तिःनउत्पद्येत।तदेवअवितथंनामस्मरणम्।विकाराःमूलतःनत्याज्याः।तेभगवताएवदत्ताः।अतःतेषांजीवनेयोग्यंस्थानंभवेत्एव।किंबहुनाव्यवहारेविकाराःअपेक्ष्यन्ते।केवलंवयम्अधिकारेणविकारान्युञ्ज्महे।नतुविकारैःअस्मासुशासनंकरणीयम्। चिन्तयन्तु,राजगिरा(किञ्चनधान्यं) तथाकलायकणाःमिश्रिताः।यदितान्भिन्नान्कर्तुम्इच्छामःतर्हिएकस्यअपाकरणेनअन्यद्अवशिष्टंवर्तते।अपिचयत्अपाकर्तुंसरलंतत्कुर्मः।तद्वत्सरलेननामजपेनगच्छताकालेनविषयाःविलीयन्ते।कलायकणचयनेयदिराजगिरकणाःलग्नाःतर्हिवयंबलेनकम्पयित्वातान्निष्कासयामः, तद्वत्भगवदनुसन्धानेअल्पाःवाविषयाःआयान्ति।यदितान्इच्छयानभुञ्ज्महेतर्हितेनबाधन्ते।सर्वेसत्पुरुषाःएकमेवकथयन्तियत्भवान्भगवन्तम्अनुसन्दधातुइत्युक्तेनिरन्तरंस्मरतु,तेनसत्यस्यज्ञानंभवेत्।भगवतःअनुसन्धानम्इत्युक्तेअन्येसर्वेविषयाःदुर्लक्षिताःचेदपिअनुमन्यते,परंपरमात्मविस्मरणंकदापिनभवेत्।भगवतःअनुसन्धानंकः,कथंअनुवर्तयेत्इतिनजानीमः।कश्चनपूजांकुर्यात्,कश्चनभजनंकुर्यात्,कश्चननामस्मरणंकुर्यात्,कश्चनमानसपूजांकुर्यात्वाकश्चनचित्रकलयाकुर्यात्।भगवदनुसन्धानम्इतिध्येयंमत्वाअन्यविषयाःतदनुकूलाःकरणीयाः।कर्तव्यभानं,भगवतःअखण्डानुसन्धानंचएवसर्वग्रन्थानांसारम्।

        • मुखेअखण्डंरामनाम।अन्तःकरणेअनुसन्धानम्।एतत्एवपरमार्थसारम्।*****

डिसे.15 –नामस्मरणेअवस्थितःजनःअवितथंदर्शनंप्राप्नोति। श्रीकृष्णपरमात्माअपिदेहंत्यक्तवान्ननु?यद्यपिसःनिराकारः,तथापियदासःसाकारःअभवत्,तदातेनसर्वंप्राप्तम्।रूपंप्राप्तं,गुणाःप्राप्ताःसर्वंप्राप्तम्।सर्वेव्यवहाराःकरणीयाः।तथैवसाकारत्वेनतस्यमरणम्अपिवर्तते।श्रीकृष्णःव्यवहारानुकूलम्अवर्तत।वस्तुतःसःनागतः,गतःवा।तस्यतुगमनागमनंनवर्ततेएव।सःशाश्वतः।साकारंद्रष्टुम्इच्छामः,परंतदेवनसर्वस्वम्इतिज्ञातव्यम्।भगवन्तंद्रष्टुम्इच्छामःचेत्शरीरेनद्रष्टव्यम्इतिश्रीकृष्णःउद्धवम्अकथयत्,ज्ञानंतस्मैदत्तवान्च।उद्धवेज्ञातवतिसतिगोपीःगत्वातासांसमाधानंकुर्यात्इतिश्रीकृष्णःउद्धवंसूचितवान्।सःगोकुलंगत्वागोपीःउक्तवान्,“भवत्यःश्रीकृष्णदेहंप्रीतवत्यः।इदंनयोग्यम्।भवतीभिःप्रमादःकृतः।”तदागोप्यःउक्तवत्यः,“भवतःवेदान्तंयत्रकोऽपिनवर्ततेतत्रगत्वाकथयतु।श्रीकृष्णंदेहेदृष्ट्वायत्वयंलब्धवत्यःतत्वयमेवजानीमः।भवान्लब्धुंनशक्नोति।”गोपीभिःश्रीकृष्णेदेहंविस्मृत्यप्रेमकृतम्।अन्यत्सर्वंताभिःतुच्छीकृतम्।तेनश्रीकृष्णेतासुप्रेमकरणम्अनिवार्यतयाआपतितम्।गोप्यःतम्अनन्यशरणंगतवत्यः।तथैवप्रेमअपेक्ष्यते। यःनामजपति,सःएवभगवतास्मर्यते,दर्शनंप्राप्नोतिच।प्रतिदिनंतत्दर्शनंतेजोमयं भवति।देहदर्शनंविस्मर्यते।अतःनामजपतु।तेनअवितथंदर्शनंभविष्यति।सगुणविग्रहःसततंनिकटेभवितुंनार्हति।परंतस्यचिह्नंभगवन्नाम्निवर्तते।अतःनामजपनेनभगवत्सन्निकर्षःआगतःइव।सगुणेवर्तमानेसतिभगवान्रावणस्यदुर्योधनस्यवाबुद्धिंपरिवर्तयितुंनशक्तवान्।सगुणावतारःवासनांबुद्धिंवापरिवर्तयितुंनशक्नोति।सद्बुद्धेःउत्पादनसामर्थ्यंकेवलंभगवन्नाम्निएववर्तते।व्यवहारेअपिगतेरूपेनामअवशिष्यते।अतःरामकृष्णादयःगताःपरंकेवलंनामअवशिष्टम्।नामस्थिरम्।रूपंसततंपरिवर्तते।कलियुगेसगुणावताराभावेअपिनामावतारःवर्तते।सःएवतारकः।नाम्नःकृतेनामजपतु,तेनतस्मिन्रामःवर्ततेइतिज्ञायते।

        • भगवान्किंयाचनीय:?‘भवतःप्रेमएवमयिभवेत्’इदमेवयाचनीयम्।****

डिसे.16 –नामजपेनएवपरमेश्वरदर्शनंभविष्यति। गङ्गायाः,अन्यस्याःकस्याःअपिनद्याःवाउद्गमंपश्यामःचेत्एकैकंबिन्दोःनिस्सरणंतत्रदृश्यते।पूर्वपुण्येनजीवनेपरमार्थोद्गमःअपिएतादृशःक्षीणःपरंस्वच्छःभवति।अग्रेसःएवनिर्झरःनद्यांपरिणमते।बहुषुस्थानेषुवहन्त्याःतस्याःजलंमलिनंभवति।तद्वत्अस्माकंजीवनम्अपिव्यवहारेवर्तमानैःगुणदोषयुक्तैःविषयैःमलिनीभवति।परंयथास्फटिस्पर्शेनजलेस्थितःपङ्कःपात्रतलम्आगच्छतितद्वत्कर्मणिवर्तमानेसतिनामजपंकुर्मःचेत्कर्मणःगुणदोषाःतलेस्थास्यन्तिउपरिनिर्मलजीवनस्यप्रत्ययःआयातिच।कश्चनस्मश्रुयुक्तःमुनिःपरमार्थविषयेकिमपिवदतिचेत्तंविश्वासेननिर्भयेनचवदन्तुयन्नामजपेनविनापरमार्थःनभवितुमर्हति।कर्मणिसतिनामजपंकुर्वतासमाधानेनभवितव्यम्इत्येवपरमार्थः। भगवतिप्रीणातुं,तस्यविषयेआत्मीयताम्अनुभवितुंचनामसदृशंसाधनंनवर्तते।आत्मीयतायाःप्रेमकियत्वर्तते!कश्चनपुत्रःमातृसमीपेनिवसतिस्म।तस्यविवाहःजातः।पत्नीमेवसःआत्मीयाम्इतिमन्यते, तस्याःविषयेतस्यमनसिप्रेमउत्पद्यते।अथसाकृशाजाता।सासुज्ञानवदतिइतिसःचिन्तयति।मातातांपीडयतिइतिमत्वासःमातुःविलग्नःजातः।ममत्वेनकथंप्रेमउदपद्यतइतिपश्यन्तु।ततःपरमेश्वरम्आत्मीयंकर्तुंनामजपःकरणीयः।रामप्रेमतस्यनाम्नासहवासेनएवलब्धुंशक्यते।ग्रन्थपठनमात्रेणपरमार्थवक्तारःलभन्ते, परम्आचरणंकुर्वाणाःवक्तारःदुर्लभाः।कियान्अपिप्रपञ्चःकृतःचेदपिअपूर्णःएव।कञ्चित्वृद्धंपश्यामः।वस्तुतःतस्यसंसारःजातः, पुत्रादयःसन्ति, सर्वथासःसुखीवर्तते, परंदेहान्तसमयेवदतियत्पौत्रस्यउपनयनदिदृक्षावर्तते।वासनायांमनुष्यःकथम्आसक्तःवर्ततेइतितस्यइदम्उदाहरणम्।कियन्तम्अपिसंसारंकुर्मःचेत्अपूर्णःएव।सःपूर्णःभवितुंनार्हति।मनुष्यजीवनस्यव्याकुलतापरमेश्वरप्राप्तिंविनानशमते।परमेश्वरमेलनेनएवसःसमाहितःभवितुमर्हति।अतःबाल्यकालेएवनामजपंप्रारभताम्।इदमेवनाममृत्युसमयेभवतःपरमेश्वरेणमेलनंनिश्चयेनकारयेत्।गुह्यात्परमंगुह्यम्अहंभवतःकथयामि।नामजपेप्रीणन्तुइदमेवतत्गुह्यम्।

          • अस्माकंयाच्ञापूरणीयाचेत्भगवताचतुर्विंशतिंघण्टाःकार्यंकरणीयंभवेत्।तथाकरणेनअपिअस्माकंयाच्ञाअपूर्णाएव।***

डिसे.17 –सर्वदुःखानांमूलंवर्ततेदेहबुद्धिः। परमार्थविषयःवस्तुतःकठिनः,परंसर्वेषांकृतेआवश्यकः।यःइमंविषयंज्ञातुम्इच्छतिसः‘कोऽहम्’इतिएतस्यअपेक्षया‘कोऽहंन’इतिजानीयात्।केनचित्मार्गेणगच्छन्तःवयंयदिमार्गच्युताःजाताः,कमपिभिन्नमार्गंप्राप्तवन्तःच,तर्हिअग्रिमाःसर्वेव्यवहाराःदोषयुक्ताःभविष्यन्तिएव।प्रमेयोद्घाटनसमयेकस्मिंश्चित्अङ्केप्रमादःजातःचेत्सम्पूर्णेप्रमेयेप्रमादःभवति।रोगस्यनिदानंसम्यक्नजातंचेत्औषधियोजनावृथाभवेत्।तद्वत्मनुष्यस्यसामान्यगुणधर्माणाम्आकलनंसम्यक्नभवतिचेत्तदवलम्बितंपरमार्थमार्गावगमनंबहुदुष्करम्।मयाआनन्देनसदाभवितव्यम्इतिसर्वेमन्यन्ते।एषःप्रथमःगुणधर्मः।अस्मिन्आनन्देचिरन्तनत्वंभवेत्,न्यूनातिन्यूनम्आनन्दस्यअपेक्षायांचिरन्तनत्वंभवेत्इतिवयंमन्यामहे।वस्तुतःमरणंकस्मैअपिनरोचते।जीवनस्यएषणावाचिरन्तनस्यअपेक्षावासर्वेषांवर्तते।परमेश्वरःआनन्दरूपः।सःचिरन्तनः।सःअस्मासुअंशरूपेणवर्तते,अतःवयम्अपितथैवभवितुम्इच्छामः।परम्आरम्भेएवअस्माकंप्रमादःजातः,तेनअग्रिमाःव्यवहाराःअपिदूषिताः।कस्यचित्प्राङ्गणेस्थितःवृक्षःपतितःचेत्सःममवृक्षःपतितःइतिवदति,परंतस्यदेहान्तेतस्यशरीरंपतितम्इतिनोक्त्वावयंसःमृतःइतिवदामः।अथमूलतःप्रमादःयत्वयम्आत्मानंदेहंमन्यामहे।देहःममएवइतिमत्वातस्मिन्प्रीणीमः।एषःप्रथमःप्रमादः।अथतस्यगुणधर्माःइत्युक्तेविकाराःअस्मान्लगन्तिचेत्तान्एवसंवर्धयामहे।एषःद्वितीयःप्रमादः।एतेषांलग्नानांविकाराणांसंवर्धनम्अस्थगयित्वातेषांपृष्ठतःअनुधावामःतदर्थम्अस्माकंबुद्धिंयुञ्ज्महेचेतितृतीयःप्रमादः।अनयापद्धत्याप्रमादेनप्रमादस्यवर्धनेनसर्वंजीवनम्एवअव्यवस्थितंभवति। वृक्षःकर्तनीयःचेत्आदौतस्यशाखाःकर्तनीयाः,अनन्तरंकाण्डंकर्तयन्ति।नीतिधर्मेणवर्तनीयम्इत्युक्तेविचाराणांशाखाःकर्तनीयाःइव।अनन्तरंयोजनासगुणभक्त्याः।तदामनुष्यःक्षणंवाआत्मानंविस्मरति।‘अहंतवएव’इतिवदति।भगवतासहवासःसदानाम्निएववर्तते।सदैवनामजपनेनदेहप्रेमसहजंनश्यति।देहेनरचितेप्रपञ्चेविद्यमानंप्रेमअपिन्यूनीभवति।तदनुसःसर्वत्रभगवन्तम्एवपश्यति।इतःपरंजीवामिचेत्नामस्मरणमेवकरोमिइतिनिश्चयंकुर्वन्तु।अहंविश्वसिमियत्रामःभवत्सुकृपांकरिष्यतिएव।

        • अहंकोऽपिनास्मि।सर्वंरामःएव।‘अहंरामस्यअस्मि’इतिमधुरभावनायांभवन्तु।****

डिसे.18 - चिन्ताकरणीयाचेत्नामजपस्यएवकुर्वन्तु। अद्ययत्दुःखकरंतत्श्वःसुखकरंवर्ततेतथाचयत्अद्यसुखकरंमन्यतेतत्श्वःदुःखकारकंवर्ततेइतिवयंपश्यामः।भवन्तःयत्सुखदुःखंप्राप्नुवन्तितत्भगवतःआयातिइतिमन्यन्तेचेत्दुःखस्यकारणंकिम्?यावत्अन्यैःदत्तंदुःखंभगवताएवदत्तम्इतिनमन्यामहेतावत्वयंभगवतःनस्मः।वयंकदाबिभीमः।यदाआधारःनश्यतितदायत्यत्भवतितत्रामस्यइच्छयाभवतिइतिमन्तव्यम्।आपदःदेवेनआनीताःचेत्ताःसोढुंशक्तिंअपिसःएवददाति।समर्थस्यआत्मीयेनभूत्वाकिमर्थंभेतव्यम्।समर्थस्यआत्मीयैःआपद्भ्यःनभेतव्यम्।साक्षात्आपन्निवारणंकर्तुंशक्यतेचेत्कस्मात्भेतव्यम्।वस्तुतःयत्नवर्ततेतत्भयंभवन्तःमनसानिर्मान्तिएतदर्थंकिंवदामः।चतुरङ्गक्रीडायांकाष्ठसैनिकःम्रियतेचेत्किमर्थंदुःखम्?व्यवहारेतथावर्तनीयम्।सुखेननउल्लसितव्यंदुःखेननक्षोभनीयम्।एतादृशेनभवितुंमनसाशान्तेनभवितव्यम्।यावत्अहंकर्ताइतिभावनाविद्यतेतावत्सुखदुःखान्दोलाःवर्तन्तेएव।अतःकर्तृत्वंरामायदत्त्वादेहेनकर्तव्यंकृत्वामनसाशान्ततयाभवितव्यम्।परिस्थित्याःपरिणामःमममनसिनभवेत्इतिप्रार्थनीयम्।परिस्थितिम्एवपरिवर्तयतुइतिनअभ्यर्थनीयम्। यथाविषंरक्तेनसम्मिलतितथाचिन्ताअस्माकंशरीरेणसम्मिलितावर्तते।उपरिऔषधलेपनेननलाभायते।एतदर्थंभगवदनुसन्धानस्यसूच्यौषधिःअपेक्ष्यते।यैःदुर्गुणैःभगवतःविस्मरणंभवतितेषांसंग्रहःनामचिन्ता।चिन्तामहान्रोगः।अनेन रोगेण उदरं पूर्णं भवतिचेत्क्षुधाम्रियते।यस्यचिन्ताअधिकातस्यहृदयम्आनन्दःनप्रविशति।अस्याःचिन्तायाःपितरौकौ?देहबुद्ध्याचिन्ताबाधते।देहबुद्धिःइत्युक्तेवासना।वासनाअहंकारःचचिन्ताया: मातापितरौ।एतादृशौविचित्रस्वभावौमातापितरौ,अतःपुत्रीविलक्षणा।मातापुत्र्योःमृत्युःयुगपत्भवति।वासनाचिन्ताचद्वेयुगपत्म्रियेते।वस्तुतःएकाएवअवस्थाकदापिचिरकालंनवर्ततेअतःवयंबिभीमः।ततःचिन्ताउत्पद्यते।चिन्तायावत्अस्मान्मारयतितावत्नामतारयति।तथापिवयंचिन्ताम्एवनिगृह्णीमःएतदर्थंकिंवदामः?अस्माकंयावान्समयःचिन्तायांगतःतावान्वृथागतःइतिअवगन्तव्यम्।यदिचिन्ताकरणीयातर्हिनामानुसन्धानंकथम्अनुवर्तनीयम्इतिएतस्यकरणीया।

        • नामजपस्यएवचिन्तांकुर्वन्तु।तेनचिन्ताकरणस्यप्रसङ्गःएवनागच्छेत्।*****

डिसे.19 –वेदान्तःप्रतिदिनम्आचरणीयः। भगवदुपासनांकुर्वाणाःऋषयःएतादृश्याम्अवस्थायांवर्तन्तेयत्परमेश्वरःसर्वंकरोतिइतितेषांभावनास्पष्टतयाप्रकटीभवति।भगवतासहएकरूपताप्राप्तेःअनन्तरम्एवएषाअवस्थावर्तते।ऋषीणाम्अहङ्कारःनष्टःअतः‘अहंकरोमि’, ‘वदामि’, ‘काव्यंकरोमि’वाइतिभावनातेषांमनसिनविद्यते।परमात्माकरोति, वदति, मन्त्रंरचयतिचइतिस्पष्टम्अवितथंचतेअनुभवन्ति।अस्यांश्रेष्ठायाम्अवस्थायांतेषांमुखात्वेदमन्त्राःनिर्गताः।अतःतेमानवानांरचनाःन।वेदाःअवितथम्अपौरुषेयाः।गृहछद्याःअधःसर्वेप्रकोष्ठाःभवन्तितथासर्वाणिशास्त्राणिवेदान्तेवर्तन्ते।वेदान्तज्ञानंभोजनेमधुरम्इव।यःकेवलंवेदान्ताध्ययनंकरोतितस्यनबहुलाभः।वेदान्तःप्रत्यक्षम्आचरणेअपेक्षितः।वस्तुतःविद्वांसःवेदान्तंकठिनंकृत्वाजनान्वृथाभ्रामयन्ति।तेनसामान्यजनाःचिन्तयन्तियत्वेदान्तःनअस्माकंकृतेवर्तते।वास्तविकंवेदान्तःसर्वेषांकृतेवर्तते।मनुष्यमात्रार्थंवर्तते।वेदान्तेनविनाजनःनजीवितुंशक्नोति।अस्माकंसङ्कुचितंमनःविशालंकरणीयं, स्वार्थिभिःअस्माभिःनिःस्वार्थिभिःभवितव्यंचेतिवेदान्तस्यमुख्यंकार्यम्। भगवत्प्राप्तेःनियमाःतथावस्तुप्राप्तेर्नियमाःभिन्नाः।मनसिवासनाउत्पद्यतेचेत्तस्याःपूर्त्यर्थंदेहस्यवस्तूनांचचेष्टाकरणीयाइतिव्यवहारः।सूक्ष्माःवासनाःदेहसाहाय्येनजडाःभवन्तिइतिव्यवहारस्यस्वरूपम्।एतस्यविपरीतंयत्अतिसूक्ष्मत्वेनभगवतःप्राप्तिःइत्युक्तेजडात्सूक्ष्मत्वंप्रतिगमनम्।भगवत्प्राप्तेःसाधनंजडात्सूक्ष्मत्वंप्रतिनयतिइतिभवेत्।जडदेहसम्बन्धितथाचसूक्ष्मस्यनिकटेविद्यमानंसाधनंवर्ततेएकंनाम।यःनामजपन्भवतितस्यवासनाक्षीयते।बहुधाउत्तमाःअधिकारिणःजीवाःकयाचित्लघ्व्यावासनयाप्रतिबद्धाःभवन्ति।अथतेअध्यात्मदृष्ट्याउत्तमेषुकुलेषुजनिंप्राप्नुवन्ति।तत्रतेषांवासनातृप्तिःशीघ्रंभवति।बाल्यकालेएवतेदेहंत्यजन्ति।तेषांमृत्योःदुःखंनकरणीयम्।वासनातृप्तेःउपायःभगवत्समीपेवासः, नान्यः।वासनानष्टाचेत्बुद्धिःभगवत्स्वरूपाभवति।यदावासनाशमतेतदाभगवत्कृपाभवति।

        • प्रत्येकंवेदमन्त्रस्यआरम्भे‘हरिःओम्’वर्ततेतत्नामएव।*****

............. डिसे.20 –नाम्निभवतुचित्तं।तदेववर्ततेसत्यम्।। प्रारब्धानुगुणंदेहगतिः।तत्रनभवतुमनोवृत्तिः।।प्रारब्धेनएवदेहगतिः।तेननपरिवर्तयतुस्ववृत्तिः।।देहःप्रारब्धेनप्रवर्तते।भोजयतिसुखदुःखे।।यत्यत्कृतं।तत्तत्फलितम्।अतःदेहगतिः।कोपिनपरिवर्तुमर्हति।।पाण्डवाःपरमात्मसुहृदः।परंवनवासात्नमुक्ताः।. सुदामाभगवत्सखा।किन्तुआसीत्दरिद्रः।।अतःदेहःप्रारब्धेस्थापनीयः।यत्भवेत्तेनआनन्दःमन्तव्यः।।दुःखंप्रारब्धेनप्रवर्तते।सुखंतम्अनुवर्तते।।द्वयमपिनगणनीयं।नामस्मरणंकरणीयम्।।चेतःभगवति।प्रारब्धंनविक्षेपयति।।देहभोगःदेहेभवन्तु।विनाकष्टंरघुनाथंस्मरन्तु।।विहितंकर्मकरणीयं।भगवदधीनंतस्यफलम्।।साधवःदेवाः।नप्रारब्धात्मुक्ताः।।जीवनाघाताः।प्रारब्धाधीनाः।तस्मिन्नभवतुसमाधानं।रामस्मरणेएवसमाधानम्।।प्रारब्धेनआगतःदुष्टसङ्गः।रामकृपयाअपाकृतः।। मुखेसदाभवतुनाम।अन्यत्नास्तिकिमपिपुण्यम्।।नाम्निभवतुचित्तं।तदेववर्ततेसत्यं।मनसिएषःनिश्चयः।निभ्रान्तंतेनमनः।।कर्तव्येतत्परता।नामजपनेनिरन्तरता।।नामप्रेमरक्षणीयं।यथाकृपणःरक्षतिधनम्।यतःनामएवतारकम्।।मुखेरामनामजपनीयं।बहिःप्रपञ्चकार्यंकरणीयम्।।एवंमनसारामंयोजयतु।दुःखलेशःअपिनभवतु।।अद्यपर्यन्तंवासनाधिष्ठानं।नामप्रेमइतःपरम्।।यदिपूर्वपुण्यम्अपारं।तर्हिरामनाम्नामनःपूर्णम्।।नसहतेरामनाम।तस्यगतिःअधमाधमा।।निर्हेतुकंनामस्मरणं।तेनआत्मारामेणमनःपूर्णम्।।नामविनायत्साधनं।तत्कष्टस्यकारणम्।।शरीरंवर्ततेनश्यं।कथितंनामसत्यम्।।बुद्धिःभवतुस्थिरा।नाम्निप्रेमगङ्गाअनिवारा।।नामस्मरणेआगताःविचाराः।नाम्नाएवअपाकरणीयाः।नामस्मरणेनिदिध्यासः।नभवतुमनसिविचारःस्थूलः।।अखण्डंभवतुसमाधानं।एतदेवपरमार्थचिह्नम्।।जगन्नियन्ताभवतुआत्मीयः।अन्येगतागताःबहवः।मनसितस्यनभवतुपरिणामः।।परमार्थस्यएकःएवउपायः।अनुसन्धानौघःअखण्डः।।

            • देहःप्रारब्धेत्यक्तव्यः।मनसिरामःप्रस्थापनीयः।।****

डिसे.21 –भगवतःसाधनंप्रपञ्चार्थंनकुर्वन्तु। कश्चनबालकःगृहात्पलायितः।तदातस्यमाताअवदत्,‘कुत्रापिभवतुसःसुखीभवतु।’तद्वत्भवन्तःकुत्रापिभवन्तु, नामजपेभवन्तु।बलेननामजपन्तु।श्रद्धयाजपन्तिचेत्अधिकम्उत्तमम्।वृत्तिम्अनुवर्त्यनामजपंकुर्वन्तिचेत्इतोऽपिउत्तमम्।कस्याश्चित्वनस्पत्याःरसंनिष्कासयितुंमधुमेलनंकुर्वन्ति।क्वचित्दुग्धं, घृतं, जलंवामेलयन्ति।तद्वत्भगवत्प्रेमलब्धुंनामजपेरुचिम्उत्पादयितुंचनामजपनेस्वल्पांश्रद्धांमेलयन्तु।‘अहंब्रह्मास्मि’इतिएतस्यांभावनायाम्अपिअहंकारःवर्तते।नामततःपरंवर्तते।अतःभगवन्नामसततंस्मर्तव्यम्।तेनप्रपञ्चःसरलःभवति।नामजपस्यशासनंबहुबलवत्।जगतिनकिमपिपापंभवेत्यत्नामजपेनननश्यति।नामतस्यशत्रुमपिसाहाय्यंकरोति।अस्मान्अपिसाहाय्यंकुर्यात्एव।रुपध्यानंयदिनभवतितर्हिनामजपःनत्यक्तव्यः।गच्छताकालेनरूपम्अपिसहजम्अनुवर्तेत।सत्यस्यकिमपिरूपंकल्पयित्वातस्यअनुसन्धानंनकर्तुंशक्नुमः।नामतस्यरूपम्।अतःसततंनामानुसन्धानंकरणीयम्।भगवन्नामजपःमूल्यंनापेक्षते,अतःतत्नअपूर्णम्।अज्ञजनान्सूचयामःचेत्तेअनुक्षणंजपम्आरभन्ते।परंविद्वांसःप्रेमवर्ततेचेत्‘जपंकरोमि’इतिवदन्ति।विषयसर्पाणांविषम्अद्यापिननष्टम्,अतःभगवतःअमृतमधुरंनामअस्मभ्यंनरोचते।अतःअनुक्षणंनामजपःआरभणीयः।रामस्यआत्मीयाःभूत्वातस्मैयत्रोचतेतत्कुर्याम।ज्ञात्वान, परम्अज्ञात्वारामंशरणंगच्छामः।भगवान्अनन्यशरणंगत्वाअनुभवितव्यः।नीत्यावर्तनीयम्।भक्तिःसम्यक्करणीया।तेनरामःप्रसन्नःभवति। ज्ञानम्उत्तमम्।परंतत्भक्तिंविनानजीवति।यतोहिभगवतःनकदापिविभक्तःसःभक्तः।ज्ञानेभगवतासहअनन्यत्वंवर्तते।अतःभक्तितःज्ञानम्उत्पद्यते, तत्भक्त्याजीवतिच।वास्तवःभक्तःज्ञानीएव।भगवतःकृतेभगवान्इच्छतिइतिएतादृशींभक्तिंकुर्वाणःभक्तःविरलः।वास्तवाभक्तिःएषाएव।नामजपस्यकृतेनामजपःकरणीयः।रामःयथास्थापयतितथाअस्माभिःसमाधातव्यम्।भगवान्प्रपञ्चसाधनंनकरणीयः।सःसाध्यःभवेत्।येनभगवन्नामजपेजीवनंव्यतीतंतेनसर्वंसाधितंस्वजन्मनःसार्थकंकृतंच।

          • ज्ञानीभूत्वानामजपनं, भक्तःभूत्वानामजपनंवासमानमेव।उभयत्रभगवत्प्रेममुख्यम्।*****

डिसे.22 –कस्मिन्नपिप्रसङ्गेनामजपंनत्यजन्तु। आकाशात्भीत्वापलायितःचेत्क्वअपिआकाशंवर्ततेएव।तद्वत्कुत्रापिगतःचेत्देहःमनःच,ताभ्यांसहतयोःभोगाःअपिअस्माभिःसहआयान्ति।अतःअस्माकंकृतेप्राप्तान्कर्मभोगान्समाधानेनभोक्तुम्अस्माभिःशिक्षणीयम्।‘प्रायतिष्येचेत्सम्यक्अभविष्यत्’इतियावत्मन्यतेतावत्प्रयत्नाःअवश्यंकरणीयाः।यशः,अपयशःवापरमात्माददातिइतिमत्वाप्रयतनीयम्।सर्वंकर्तृत्वंतस्यएवेतिचिन्तनीयम्।भवतःसेवाकियत्कालंकरणीयाइतिपरमेश्वरंप्रतिप्रश्नकरणम्इत्युक्तेसेवायांन्यूनताएव।तथैवनामजपनेअवधिःकथंनिश्चिनोतुंशक्नुमः?विषयाःकियत्कालंभोक्तव्याःइतिनवदामःननु?अतःनामजपविषयेकिमर्थंवदाम?अधुनाभगवान्एकस्मिन्कोणेवयम्अपरस्मिन्कोणेस्मः।नामजपेनसःसमीपम्आननीयः।यावत्देहविस्मरणंभवेत्तावत्भगवान्निकटम्आयाति।भगवन्नाम्निएवसत्सङ्गःवर्तते।प्रपञ्चेकेपिप्रसङ्गाःआगच्छेयुःभवन्तःनामजपंनत्यजन्तु। रिक्तंमनःविषयान्अनुधावतिइतिअवधातव्यम्।अतःअस्माकंमनःसदाकुत्रापियोजनीयम्।उत्थानम्, उपवेशनं, जपनं, पठनं, जल्पनं, विनोदनंचेतिसर्वासुक्रियासुभगवतासहसम्बन्धः, सन्दर्भःचस्थापनीयः।इदम्एवभगवदनुसन्धानम्।भगवदनुसन्धानम्अस्माकंध्येयम्।अन्येविषयाःतदनुकूलाःकरणीयाः।अस्माकंवृत्तिःभगवान्चेतिएतयोःयोजयन्तीशृङ्खलावर्ततेभगवन्नाम।अतःअस्माकंवृत्तिःसदानाम्नियोजनीया।नामानुसन्धानम्अनुवर्तयन्तीम्उपाधिम्एवअङ्गीकुर्याम।नामजपमात्रेणकार्यंभवति,परम्अर्थंज्ञात्वाशीघ्रंभवेत्।नाममुखेभवतिचेत्सत्कर्माणिसहजंभवन्ति।अस्माकंप्रत्येकंकर्मणःसाक्षीरामःवर्ततेइतिमत्वावर्तनीयम्तेनदुष्कर्माणिनैवभवन्ति। वयंवृथाकारणानिवदामः।कर्मसफलंभवतिचेत्तस्मिन्, नभवतिचेत्व्यर्थजल्पने, अन्यथाकस्यचित्निन्दास्तुतौकस्यामपिक्रीडायांवाव्यर्थंसमयंयापयामः।तथानकरणीयम्।अस्माकंमनःउन्मत्तम्।तत्एकस्मिन्स्थानेसुखेननतिष्ठति।तस्यतथाअभ्यासःनास्ति।स्वल्पेनबलेनतस्मात्नामजपःकारणीयः।नामजपेविद्यमानेसतिभगवत्शक्त्यानामजप्तुःदेहबुद्धिःक्रमेणक्षीयते, नामस्थिरायतेच।नित्यनामस्मरणंविनाअन्तेनाममुखेनभवेत्।जागृतावस्थायाम्अभ्यासंकुर्मःचेत्निद्रासमयेस्मरेत्।निद्रासमयेस्मर्यतेचेत्रात्रौस्वप्नेदृश्येत, एषःनिदिध्यासःभवतिचेत्मरणसमयेतदेवस्मरेत्।

      • नामजपंकुर्वन्एतादृशःतद्रूपःभवेयंयत्नामजपंकरोमिइतिअपिविस्मरेयम्।*****

डिसे.23 –नामरूपाद्व्यापकंवर्तते। चिन्तयन्तु, यदिअहंभवतःपृच्छामि,“आनन्द:इत्युक्तेकिम्?”अथभवन्तःकमपिसानन्दंबालकंदर्शयित्वावदिष्यन्ति,“पश्यतुआनन्दःअत्रवर्तते।”नैतावत्एवअपितुतादृशान्प्रमुदितान्बिडालशावकान्,कूर्दतःवत्सान्,हसतःस्त्रीपुरुषान्,पल्लविताःलताःचदर्शयित्वा,“अत्रआनन्दःवर्तते”इतिभवन्तःवदिष्यन्ति।परंममप्रश्नस्यइदंवास्तवम्उत्तरंनास्ति।आनन्दवस्तूनिकानिइतिममप्रश्नःन,परंममप्रश्नःवर्ततेआनन्दंमांदर्शयन्तुइति।बालकःयदिआनन्दःतर्हिस्त्रीपुरुषाः,आनन्दयुक्ताःनभविष्यन्ति।अर्थात्आनन्दःएकःएव।यतोहिसर्वत्रदृष्टम्आनन्दंवर्णयितुं वयम्एकमेवशब्दंयुञ्ज्महे।यंयंमनुष्यंपश्यामःतंतंप्रत्येकंवयंमनुष्यःइतिएववदामः।यतोहिप्रत्येकंमनुष्येमनुष्यत्वंसमानम्एववर्तते।यद्यपितत्नेत्राभ्यांन दृश्यतेतथापिमनसाअवगन्तुंशक्यतेतथातस्यअस्तित्वंमनुष्यःइतिशब्देनप्रकटीभवति।मनुष्यत्वम्एषःशब्दःवर्तते,नामवर्तते।रूपस्यअस्तित्वंनाम्नावर्तते।प्रत्येकंवस्तुन:बाह्यरूपंतस्यनाम्नासंलग्नंभवति। आनन्दवस्तूनिबहूनिसन्तिपरंतेषुविद्यमानःआनन्दःएकःएव।नैकंपरंबहूनिरूपाणिआगच्छन्ति,गच्छन्तिपरंनामावशिष्टंवर्तते।अद्ययावत्अवनीतलेअसङ्ख्याःस्त्रीपुरुषाःजाताःमृताश्चतथापिमनुष्यत्वंयथाआसीत्तथैववर्तते।एतंनियमंसर्वत्रयोजयामःचेत्सुन्दराणिवस्तूनिआगतानि,गतानि,परंसौन्दर्यंसततंवर्तते।आनन्दवस्तुनिआगतानि,गतानि,परमानन्दःचिरन्तनः।लक्षशःजीवाःआगताः,गताः,परंजीवनंशाश्वतम्।रूपाणिनैकानिपरंनामएकमेव।इत्युक्तेनामअनेकेषुएकत्वेनअवतिष्ठति।एतस्यअर्थःएषःएवयत्नामरूपात्व्यापकंवर्तते।रूपंनाम्नःभिन्नंनभवितुमर्हति।नामरूपंव्याप्यअवशिष्यते।नामदृश्यात्परंसूक्ष्मंच।तेनतस्यउत्पत्तिःविनाशः,वृद्धिः,क्षयः,देशकालमर्यादाचेत्यादयःकेऽपिविकाराःनसन्ति।अतःनामपुराआसीत्,अद्यवर्तते,श्वःभविष्यतिच।नामसत्स्वरूपम्।नाम्नःनैकानिरूपाणिउत्पद्यन्तेतस्मिन्निमिलन्तिच।शुद्धपरमात्मस्वरूपस्यअत्यन्तंनिकटंकेवलंनामवर्तते।अतःनामजपनेभगवान्अस्माकंसमीपेइववर्तते।

          • ममभाषणंसर्वेजानन्ति।यस्ययथासिद्धतातथासःजानाति,परंकिमपिवृथानगच्छति।****

डिसे.24 –अनन्यतांविनाभगवत्प्राप्तिःनभवति। सत्पुरुषैःसाकम्उशित्वामनुष्येणआज्ञापालनंनशिक्षितंचेत्तेनकिमपिनशिक्षितम्।यःआज्ञांपालयतितस्यकृतेभोगभुञ्जनंभवेत्एव, परंतस्यसौकर्यानुकूलंभवति।प्रारब्धस्यबलंविलक्षणंवर्तते।भोगभुञ्जनसमयेबुद्धिःपरिवर्तते।तदाअस्माभिःसावधानैःभूत्वासत्पुरुषवचनम्अनुवर्त्यतेचेत्भोगबलंमन्दायते।प्रारब्धेनबुद्धौकेऽपिविचाराःउत्पद्येयुः, तथावर्तनीयंवानवाइतिअस्माकंहस्तेवर्तते।अतःएवमनुष्यःश्रेष्ठः।बुद्धेःनियमनंकर्तुम्आज्ञापालनमेवसर्वोत्कृष्टंसाधनम्। विकाराःमूलतःनत्यक्तव्याः।तेभगवतादत्ताः।अतःजीवनेतेषांकृतेयोग्यंस्थानंवर्ततेएव।किंबहुनाव्यवहारेविकाराःअपेक्ष्यन्ते।केवलंतेअस्माभिःअधिकारेणउपयोक्तव्याः।विकारैःअस्मासुअधिकारःनसंचालनीयः।विकारान्वयम्उपयुञ्ज्महे।नतुविकाराःअस्मान्उपयुञ्जेरन्। आदौप्रपञ्चवस्तुनःकृतेभगवन्तंप्रीणेय़ुः।सातत्येनप्रेमवर्धनीयम्।अथतेनवस्तुनःमहत्त्वस्यप्रशमनेनभगवान्एवअवशिष्येत।भगवन्तम्एकदाधरामःचेत्नत्यक्तव्यः।तस्यनामजपेनइदंसिद्ध्यतिअतःअहंसततम्इदंवदामि।प्रपञ्चेवयंकियत्कष्टंकुर्मः।तादृशंप्रतिफलमपिनलभ्यते।परमार्थेतथानास्ति।यावत्कुर्वन्तितावत्समाधानंवर्धते। ज्ञानमार्गःकर्ममार्गःभवेत्वा, वास्तवः‘अहंकः’इतिज्ञातुम्एवसर्वाणिसाधनानिसन्ति।अद्यअस्मासुमिथ्या‘अहं’प्रभावीवर्तते।तत्प्राबल्यंनाशनीयम्।मिथ्या‘अहम्’अपगच्छतिचेत्‘सत्यःअहम्’आननीयःनभवति।प्रत्येकम्अन्तःकरणेसःस्वतःसिद्धः।मिथ्याहंहन्तुंभगवतःदास्यत्वम्अपेक्ष्यते।अनन्यतांविनाभगवतःप्राप्तिःनवर्तते।तस्याम्एवभक्तिःजनिंप्राप्नोति।नामस्मरणंभक्तिमार्गस्यमुख्यंसाधनम्।नामस्मरणेनभगवतःप्रेमसहजम्उत्पद्यते।तत्भवन्तःनिष्ठयाआनन्देनचकुर्वन्तुइतिममकथनम्।

      • किमपिकुर्मःचेत्नामजपंविनानगतिः।अतःतत्कर्तुंकिमर्थंविलम्बःअलसःवा?****

डिसे.25 –भगवत्स्मरणम्एवप्रत्येकंसाधनायाःरहस्यम्। कस्माच्चित्ग्रामात्द्वौसर्वकारस्यवृषभशकटौप्रस्थितौ।एकस्मिन्शकटेसुवर्णनाणकयुताःस्यूताःआसन्।अपरस्मिन्शकटेवास्तुशिलाःआसन्।आदिनंप्रवासंकृत्वायानेतालुकानगरंप्राप्तेसतिचालकेनवृषभाःमोचिताःसुवर्णं, वास्तुशिलाःचअधिकारेभ्यःदत्ताः, वृषभेभ्यःआहारार्थंयवग्रासःअपिदत्तःच।तद्वत्भगवतःकृतेविद्वान्अज्ञःचसमानौ।सुन्दरविचाराणांभारेमस्तकेवर्तमानेसतिविद्वान्भगवत्प्रियःभवतिइतिन।विद्वान्भवतुवाअज्ञःभवतुवाआत्मानंनाशयितुंसमर्थःअहंकारःप्रत्येकंसमीपेवर्तते।विद्वासम्अहंकारःअधिकःमारकःइतिएव।जगतिविद्यायाःमहत्त्वंवर्तते, परंसासाधनरूपा।नतुसाध्यरूपा।विद्याभगवतःदासीभवेत्।बहुधाविद्वांसःव्यर्थचिकित्सयास्वायुःनाशयन्ति।सरलाः, मुग्धाः, अज्ञजनाःभगवन्नामजपन्आनन्देनउत्तीर्यदेवंगच्छन्ति।परम्एतेविद्वांसःभगवान्कथंवर्तते, तस्यगुणाःके, तस्यअस्माकंकःसम्बन्धः, तस्यनामजपःतंप्रतिप्रापयतिनवा, नामजपःकदाआरब्धः, कयावाण्यानामजपःकरणीयःचेत्यादीनांविषयाणांचिकित्सांकुर्वन्ति।ताम्एतावतींकुर्वन्तियत्देहान्तकालेचिकित्सामात्रंहस्तेअवशिष्टंभवति,नामजपानन्दःनलभ्यतेच।अतःसुज्ञजनेनयदिचिकित्साकरणीयाचेत्नामजपन्करणीया। अहंकारिणाजनेनप्रमादःकृतःचेत्भगवान्तस्मैप्रायश्चित्तंयच्छति।परंनिरहंकारिणाजनेनप्रमादःकृतःचेत्भगवान्तंबोधयति।चिन्तयन्तु, अद्यमत्तःप्रमादःभवति-ज्ञात्वाभवतितथापिवयंयदिपश्चात्तापेनभगवन्तंशरणंगच्छामःतर्हिसःनिश्चयेनक्षमांकरोति।अस्माकंसर्वम्अतीतंजीवनंतस्मैसमर्पयामःचेत्अनागतस्यसर्वंदायित्वंतस्मिन्आपतति। साधनायाःसर्वाणिकष्टानिप्रत्येकंभक्तेनस्वयमेवसोढव्यानिभवन्ति।गुरुःकियान्अपिश्रेष्ठःभवेत्सःकिमपिकर्तुंनशक्नोति।अधिकंचेत्सःकष्टानांज्ञानंपरिहरेत्।अस्माकंमनसःअस्माभिःएवनियन्त्रणंकरणीयंभवति।अस्माकंवृत्तिःअस्माभिःएवपरिवर्तनीयाभवति।साधनाकालेआगम्यमानाःअवस्थाःशान्ततयाअस्माभिःएवसोढव्याः।भगवन्तंप्रतिगन्तुंबह्व्यःसाधनाःसन्ति।साधनाकष्टानिकृत्वायत्सिद्ध्यतितदेवस्वल्पेननामजपेनसिद्ध्यति।परंनामजपेतादृशीश्रद्धाअपेक्ष्यते।प्रत्येकंसाधनायाःरहस्यम्इत्युक्तेभगवत्स्मरणम्।तत्पूर्णतःनामजपेअनुस्यूतंवर्तते।अतःयःशीघ्रंभगवतामेलितुम्इच्छतिसःसततंनामजपंकुर्यात्।

      • नामविषयकाःसर्वाःशङ्काःनामजपेनएवशाम्यन्ति।*****

डिसे.26 –मनःस्वाधीनंकर्तुंमनसःनामजपतु। जगतिअद्ययावत्बहवःजनाःदानं, स्वार्थत्यागंचकृतवन्तः।परंतेषुविद्यमानेनकर्तृभावेनतेअवितथंनिस्वार्थिनःनजाताः।वस्तुतःअस्माकंमनसःअधीनत्वेनविनावयंनिस्वार्थिनःभवितुंनशक्नुमः।मनःकेनसाधनेननियन्तुंशक्नुमः।योगः, यज्ञःचेत्यादीनिसाधनानितदर्थम्एवकथितानिसन्ति।परम्एतानिसाधनानिसाम्प्रतम्उपयोक्तुंशक्नुमःकिम्?एतादृशानांसाधनानांकृतेअपेक्षिताकालानुकूलतासाम्प्रतंनिश्चयेननवर्तते।मनःनियन्त्रणेआनेतुंनामस्मरणंविनासाम्प्रतंकिमपिसाधनंनास्ति।यतोहिएकंनामएवभगवताअवताररूपेणअस्माकंकृतेरक्षितंवर्तते।अतःमनःनियन्तुंसर्वेमनसानामजपन्तु।नामजपसमयेमनस्थैर्यंदूषयितारःविकाराःरोधनीयाः।मनसिसर्वेभ्यःबाधकतमःविकारःवर्ततेअभिमानः।अभिमानसमःघातकःशत्रुःअन्यःन।तम्अभिमानंत्यक्तुम्अस्माभिःपठनीयम्।भगवताअद्यपर्यन्तम्एतावन्तःअवताराःआविष्कृताः,तेसर्वेअभिमानंहन्तुमेव।हिरण्यकश्यपुंहन्तुंभगवान्अवतीर्णवान्।अग्रेस्थितंदेवंदृष्ट्वापितस्यहस्तःखड्गंप्रतिगतः।तस्याभिमानःकियान्तीव्रःआसीत्इतिएतस्यवयंकल्पनांकर्तुंशक्नुमः।तदभिमानंत्यक्तुम्अस्माभिःकर्तृभावस्यभानंत्यक्त्वानामजपःकरणीयः। मनस्स्थैर्यंविचालयिताअन्यःशत्रुःवर्ततेक्रोधः।एषःक्रोधःमहाभयङ्करः।अनेननैकानांज्येष्ठानांतपस्विनांतपश्चर्याधूलीकृता।तंक्रोधंनियन्तुंकेनकारणेनसःआयातिइतिज्ञातव्यम्।व्यवहारेअस्माकंकृतेनीतिनियमाःयोजिताःसन्ति।तेपालनीयाः।नीतिबन्धनानिपालयितॄणांविकाराःसहजंनियतन्ते।एतानिबन्धनानिकिमर्थंसन्तिइतिएतस्यरहस्यंज्ञात्वाव्यवहरामःचेत्क्रोधंनियन्तुंशक्नुमः।नियतक्रोधेसतितस्यउदरेलुप्ताःकामक्रोधादिविकाराःअपिप्रतिबद्धाःभवन्ति।एतेनप्रकारेणनीतिबन्धनेस्थित्वाभवन्तःस्वमनःभगवन्तंप्रतिविनम्रंकुर्वन्तु।भगवन्तंप्रतिगच्छन्तु।मनःसहजम्अनुधावेत्।यतोहिसःतस्यधर्मः।भगवन्तंमाविस्मरन्तु।भवतांमनःस्वयंभवतःसाहायंकुर्यात्इतिविश्वसन्तु।

****नामसुरङ्गस्फोटकसदृशंवर्तते।विकाररूपिणःशिलाखण्डाःअपितेनविस्फुटन्ति।***

डिसे.27 –भगवत्प्रेमकथम्उत्पादनीयम्इतिद्रष्टव्यम्। चमत्कारसामर्थ्यंब्रह्मज्ञाननिदर्शकंनवर्तते।सत्पुरुषान्परितःदुर्जनाःदृश्यन्ते।रुग्णालयेनिरोगिणाःजनाःदृश्यन्तेकिम्?प्रपञ्चेविद्यमानाःअस्माकंसमस्याःसत्पुरुषैःअपाकरणीयाःइतिवचनम्अयोग्यंखलु?ता:दूरीकर्तुंगृहस्थंप्रतिगन्तव्यम्।सत्पुरुषंप्रतिन।पीडांदूरीकर्तुंरामनामउच्चारितंचेदपिनामस्मरणंवृथानभवति।सत्पुरुषाःरोगनिदानंसम्यक्कृतवन्तःइतिएवतेषांमहान्तःउपकाराः।वयम्इच्छारोगेणपीडिताः।यत्रयत्रइच्छावर्ततेतत्रसमाधानम्अभावेनवर्तते।अस्माकंभजनपूजनयोःकःहेतुः?तंज्ञात्वाभजनं, पूजनंचकुर्वन्तुइतिपर्याप्तम्।भगवन्तम्इष्टवन्तःजनाःअल्पाः।तेअपिभगवतःकृतेतंनेच्छन्ति, अपितुप्रपञ्चस्यकृतेइच्छन्ति।येभगवतःकृतेभगवन्तम्इच्छन्तितेनिश्चयेनसमाधानंप्राप्नुवन्ति।तेषांकृतेनकोऽपिसमयः।नायुषः, नविद्यायाः, नबुद्धेः, नधनस्य, नकोऽपिनिकषः।केवलाआर्तताअपेक्ष्यतॆ। वस्तुतःपरमार्थःअनुमानस्यविषयःन।वयंकेवलंभाषामहे, नकामपिकृतिंकुर्मः।अतःतंवयम्अस्माकंसामर्थ्यात्परंमन्यामहे।कार्यम्अकर्तुंकारणानिबहूनिसन्ति।श्रीकृष्णःअर्जुनंयुद्धंकरोतुइतिसूचितवान्।अर्जुनःयदाकारणानिवक्तुम्आरभततदाभगवतःबहुदुःखजातम्।देहबुद्ध्याअभिमानेनचभगवदाज्ञांनानुसर्तुंकारणानिभवन्ति।व्यवहारेकारणकथनस्यएवअस्माकम्अभ्यासः।प्रयागेकन्यारुग्णायतेचेत्मनुष्यःअनुक्षणंगच्छति, परंकाशींगन्तुंयोगःनवर्ततेइतिकथयति।आज्ञायाःधिःकरणार्थंकारणकथनंपापम्।कमपिधनिकंवदामःयत्भवतःसमीपस्थंसर्वंधनंददातुतर्हिसःकदाचित्दद्यात्, परं‘मयादत्तम्’इतिस्मरणंनगच्छति।यःदातुंसूचितवान्सःदाताइतिसःविस्मरति। वणिक्वाणिज्यस्यएवस्वप्नंपश्यति।तद्वत्येनसहवासंकुर्मःतस्यप्रेमआयाति।भगवतःप्रेमकथंजायेतइतिद्रष्टव्यम्।सहवासेन, निश्चयेन, ममत्वविस्मरणेनचपरमेश्वरस्यप्रेमजायेत।दीर्घकालंयावत्एकस्मिन्एवगृहेनिवासंकुर्मःचेदपिगृहस्यप्रेमउद्भवतिननु?मुम्बई-जनेभ्य:मुम्बईरोचतेइतिएतस्यकारणंसहवासः।प्रथमवारं‘गान्जा’(किमपि मादकद्रव्यं)पानसमयेवमनंभवतितर्हिअभ्यासेनतद्विषयेप्रेमउद्भवति।अरोचितेनभर्त्रासहविवाहःभवतितथापिकन्यानिश्चयेनतस्मिन्प्रीणातिइत्युक्तेनिश्चयेनप्रेमउद्भवति।रामःआत्मनःहृदयेअवस्थितःइतिभावयामः।‘रामात्नभिन्नःअहं’‘ममहृदयेएवतस्यनिवासः’इतिदृढंनिश्चित्यएषाभावनावर्धनीया।

        • वयंप्रपञ्चेप्रीणीमः,तत्परिवर्त्य, अधुनारामस्मरणेप्रीणीमः। ****

डिसे.28 –वैदिककर्मणासहभगवन्नामजपःकरणीयः। (गायत्रीपुरश्चरणानन्तरंवैदिकब्रह्मवृन्दस्यकृतेजातंप्रवचनम्।) भवन्तःवेदविद्याज्ञातारःसर्वेमहान्तःज्ञानिनः,भाग्यवन्तः,पूजनीयाःचवर्तन्ते।एतावन्तिवर्षाणिभवद्भिःवेदविद्यासंरक्षिताइतिभवतांमहान्तःउपकाराः।भवतांयोग्यतामहतीवर्तते।ममस्थितिःतुविपरीता।अहंकश्चनअज्ञःजनः।वेदविद्यायाःगन्धःअपिनास्ति।ग्रन्थज्ञानम्अपिनविद्यते।केवलोऽहंरामरायस्यदीनःदासः।तस्यनाम्निअहंप्रीणामि।ममकथनंभवद्भिःप्रेम्णाश्रोतव्यम्। वेदमतेनगायत्रीपूज्याइतितुयोग्यम्एव।यतोहिगायत्र्योपासनायांमहत्सामर्थ्यंविद्यते।गायत्र्योपासकःयथार्थंवैराग्यंपावित्र्यंचअपेक्षते।पुराऋषयःजनपदात्दूरेअरण्येआश्रमेनिवसन्तिस्म।कन्दमूलानितेषाम्आहारः।इन्द्रियसंयमःतेषाम्आचारः।सत्येनतेषांवाणीअलङ्क्रियतेस्म।कामक्रोधलोभजिताःविरागिणःऋषयःगायत्र्युपासनांकर्तुंवास्तविकम्अर्हन्तिस्म।परन्तुअधुनासमयःपरिवर्तितः।ऋषीणांजीवनशैलीसाम्प्रतंनविद्यते।ऋषीणांजीवनं,भोजनं,प्राशनं,इन्द्रियसंयमः,सत्यनिष्ठाचइतिएतेषुसाम्प्रतम्अस्माकंसमीपेकिम्अवशिष्टम्?तदाऋषयःपर्जन्यसूक्तंवदन्तिचेत्वर्षाभवतिस्मतत्अद्ययदिवदामःतर्हिसामान्यवायुःअपिनकम्पते।ऋषीणांतपःसामर्थ्यम्अवर्तत।अतःतेषाम्आशीर्वादस्यतथापरिणामाःभवन्तिस्मतथाएवशापाःअपितथैवपरिणमन्तेस्म।जीवनविषयकीपुरातनीनिष्ठाअद्यपरिवर्तिता।साम्प्रतंवैदिककर्मसुजनानांपूर्ववत्श्रद्धानवर्तते,शास्त्रोक्तवैदिककर्माचरणंबहुकठिनम्च।अस्यांस्थितौयावच्छक्यंवैदिककर्मआचरणीयं,परंचित्तशुद्ध्यर्थंतदोपरिनअवलम्ब्यकर्मणासहनामजपःअपिकरणीयः।साम्प्रतंसंयमबन्धनानिशिथिलानि।अतःसत्पुरुषैःआर्ततयानामजपन्तुइतिकथितम्।नामनअनाहूतम्।आदिनारायणेनवेदकथनसमयेयःओंकारध्वनिःकृतः।तदेवनाम।अतःममसर्वेषांकृतेप्रार्थनावर्ततेयत्भवन्तःनामजपन्तु।किंबहुनानामजपेनएववेदानांसम्यक्अर्थःज्ञायेतइतिममविश्वासःवर्तते।

      • वैदिककर्मसुआहारविहारादीनिबन्धनानिसन्ति।भगवन्नाम्नेन।***

डिसे.29 –अहंतायाःविसर्जनंकृत्वासुखदुःखातीतत्वेनभवितव्यम्। भक्तिःइत्युक्तेसंलग्नता।विषयप्राप्त्यर्थंभगवान्प्रार्थ्यतेचेत्साविषयभक्तिःभवेत्।परमेश्वरस्यभक्तिःकथम्?अहंत्वेनसंकल्पाःउद्भवन्ति,संकल्पात्मकाःविषयाःएवमनसिउत्पद्यन्तेच।अहंतांसंरक्ष्यपरमेश्वरस्यभृशंसेवांकुर्मःचेत्तस्यांन्यूनताएववर्तते।प्रपञ्चंत्यक्त्वासंन्यासीभूत्वाजनःमठंनिर्माति,परंमठस्यबन्धनेपतति।अस्माभिःदेवःसुन्दरःदृश्येत,अतःसःआभूषणैःअलङकृतः।उत्तमकार्येअपिअहंकारःकथंवर्ततेइतिएतस्यउदाहरणम्पश्यन्तु।सारांशेनअहंकारःविसर्जनीयः।सत्पुरुषाःकर्तृत्वंपरमेश्वराययच्छन्ति।वस्तुतःवयंक्वकर्तारः।यदिवयम्आत्मानंकर्तारंमन्यामहेतर्हिआत्मनःइच्छानुरूपंकिमपिघटतिकिम्?अविद्यमानंकर्तृत्वंस्वयंस्वीकृत्यमनुष्यःसुखीदुःखीवाभवति।कर्त्रेएवकर्तृत्वंदत्त्वाआत्मनासुखदुःखातीतत्वेनभवितव्यम्।‘इदंसर्वम्ईश्वरस्यएववर्तते’इतिसारंवेदश्रुतयःवदन्ति।‘इदंसर्वंरामस्यएव,सःएवसर्वेषांकर्ता’इतिसत्पुरुषाःकथयन्ति।द्वयोःअपिकथनंसमानम्एव।एतादृश्याभावनयासुखदुःखभोगाःनअपेक्ष्यन्ते।‘अहंकर्तान,रामःएवकर्ता’इतिभावनावर्धनीयाइतिएववास्तवाउपासना।‘अहंनकोऽपि’,केवलोऽहंकाचित्पाञ्चालिका’इतिमन्तव्यम्।‘एकःभगवान्एवमम’इतिवक्तव्यम्। सत्पुरुषैःसहवासेनयद्यपिआसक्तिःनपूर्णतःनिरस्तातथापिसहजंन्यूनाभवति।अतःअस्माभिःसदासत्समागमेभवितव्यम्।सङ्गतिरभ्यासयोःमनसिमहान्परिणामःभवति।यष्टिःहस्तेभवतिचेत्कश्चनवृथाताडनीयःइतिभावःउत्पद्यते।एषायष्टिसङ्गत्याःपरिणामः।हस्तेमालांस्वीकुर्मःचेत्जपंकुर्मः।मालयाकमपिनताडयामः।अस्माकंवेषे,वर्तने,भाषणेचसर्वत्रसङ्गतिःपरिणमते।अतःसत्पुरुषसङ्गःकरणीयः।वत्सःगाम्अनुवर्ततेतथैवसत्पुरुषाःनामअनुवर्तन्तेएव।तेनामस्मर्तारम्अन्विषन्तःआगच्छन्ति।तान्अनुसरन्भगवान्अर्थात्आगच्छतिएव।रुग्णालयेरुग्णःवैद्याधीनःवर्तते।तथासत्पुरुषाणांगृहेवयंतेषाम्अधीनाःस्मः।अतःसत्सङ्गत्यांवयंकर्तृत्वशून्याःइतिमन्यामहे।सत्सङ्गत्यासाधकत्वंवर्धते।सत्पुरुषांपरिचिनोतुम्अनुसन्धानंविनाअन्यत्साधनम्नास्ति।सत्पुरुषाणांभक्तेःव्यसनम्।तेसदानामजपेसन्ति।सत्पुरुषाःभगवन्तंविनाक्वापिननिवसन्ति,अतःएवतेसत्पुरुषाःइत्युक्तेदेवस्वरूपाः।भगवन्नामसिद्धंकृत्वाजगतेदानम्इति एवतेषांजगतिमहान्तःउपकाराः।प्रापञ्चिकान्परमार्थेयोजयितुंगृहस्थसत्पुरुषाःएवसमर्थाः।

      • सर्वंरामस्यइतिमननम्इत्युक्तेसर्वंरामायसमर्पणम्।****

डिसे. ३० - अन्ते प्रार्थना करणीया। प्रातः शीघ्रं जागरणीयं।भगवतः स्मरणं करणीयं। हस्तपादं प्रक्षालनीयं। मानसपूजा करणीया।। हृदये रामः स्थापनीयः। षोडशपोचारैः पूजनीयः। गन्धपुष्पादीभिः अर्पणीयः। नैवेद्येन समर्पणीयः। मनसा प्रसादः स्वीकरणीयः।। अन्ते प्रार्थ्यतेरामः। अहं तवशरणागतः।। वासना हृदये नोद्भवतु। नामप्रेम भृशं भवतु।। समाधानं भवतु सर्वदा। तव कृपां विना शक्यं कदा?।। नीतिधर्मेण आचरणं। तव कृपया हि सदा शक्यम्।। नास्ति मे याच्ञा कापि। तव कृते जीवितोऽद्यापि।। देहेनाम्नःअखण्डस्मरणं। देहस्य तुभ्यं पूर्णसमर्पणम्।। हे राम, करोषि यद्यत्। समाधानं भवतु तत्तत्। अधुना केवलम् एकं कुरु। कदापि तव विस्मरणं न भवतु।। तव नाम भवतु प्रियं सदा। अन्या कापि न भवतु याच्ञा।। इदमेव देहि मे दानं। मया आगतं तव शरणम्।। एकमेव देहि मह्यं। अनुवर्तेत तवानुसन्धानम्।। मास्तु मास्तु ब्रह्मज्ञानं। काव्यशास्त्रव्युत्पत्तिज्ञानं।। कामक्रोधादयः। ज्वालयन्ति पुनःपुनः।। तारय वा मारय वा। न त्यक्षामि कदापि त्वा।। रामोऽहं त्वदीयोऽधुना। कर्तृत्वात् मुक्तिः प्राप्ता।। मदीयं यत् त्वदीयं तत्। सर्वोऽहङ्कारोऽनश्यत्।। राम, एकमेव कुरु। मनोवृत्तिः तव भवतु।। क्व गच्छेयं। त्वां विना क्व वसेयम्।। देहबुद्धेः अन्तरायः। अपाकुरु पूर्णतः।। अद्ययावत् विषयः कृतः आत्मीयः। अज्ञानेन तस्मिन् निगृहीत:।। राम, सर्वं तव शासनं। वृत्त्यां भवतु समाधानम्।। नास्ति कापि याच्ञा। हृदि तव वासः सदा।। तव कृते एव जीवनं। तनमनसोःसमर्पणम्।। मनः कुर्यात् तव चिन्तनं। कृपां कुरु आत्माराम।। एवं भवतु रामस्तवनं। करोति भगवान् संरक्षणम्।। एवं भवतु अनन्यशरणः। त्वरया लभ्येत रघुनन्दनः।। नाम विना नान्यत् साधनं। यथापत्नी मन्यते पतिं प्रमाणम्।। नाम विना न किमपि सत्यं। कुरु तेन रामम् अधीनम्।। वचनानि एतानि साधूनां। मिथ्या कदापि न मन्यताम्।। नाम्नि भवतु पूर्णा निष्ठा। स्मरतु सदा इच्छया।। नाम विना किमपि जगति। नास्ति नास्ति त्रिवारं नास्ति।।

        • नाम्ना सह यः व्यवहारः। सेव्यते तेन ईश्वरः।।****

डिसे. ३१ - नामचिरन्तनंवर्तते।नास्तितस्यअन्त:। वस्तुत: वयंजप: समाप्नुम: तत्अज्ञानेनएव।यतोहिनामचिरन्तनंवर्तते, तत्कालातीतंच।तस्यमाहात्म्यम्अवगन्तुंदुष्करम्।देवायअतीवप्रियंयत्वर्ततेतत्तस्यनाम।तस्यजपनेनस: आत्मीय: भवति।नामविनादेव: अवस्थातुंनशक्नोति।त्रिवेणीसङ्गमःकःइतिपृच्छ्यतेचेत्देवःभक्तःतस्यनामचेतितस्यउत्तरम्।यत्रदेवःतत्रतस्यभक्तःनामचवर्तेते।यत्रभक्तःअस्तितत्रदेवःतस्यनामचवर्तेते।भवद्भिःभृशंसेवाकृता।नूनंभवद्भिःजपसमाप्तिंकृत्वाराजाअपिलज्जितःभवेत्ईदृशःउत्सवःआचरितः।अधुनारामम्एवंयाचन्ताम्यत्पुनःकिमपियाचनीयंनभवेत्।यदिअस्माभिःकिमपिक्षुद्रंयाचामहेतर्हिसःहसेत्, वदेत्च,'अहंएतादृशःकिमपिदातुंसिद्धः, परम्एतेजनाःकिंयाचन्ते!' अधुनातंयाचन्तांयत्, 'ममसमाधानंनिरन्तरम्अनुवर्तेत।तवनामप्रेमदेहि' इति।भगवन्तंसुतरांशरणंगत्वाकथयन्तुयत्, 'हेभगवन्, अहम्एवमस्मि।मयिसंशोधनंममअधीनंनास्ति।तवनामअन्तपर्यन्तंजपिष्यामितर्हिएवजीविष्यामि'।स्त्रिभिःएकंकरणीयं - पतिःदेवःइतिमत्वादेहेनपत्युः,परंमनसाईश्वरस्यभवितव्यम्।गार्हस्थ्यंपरमार्थलाभायकरणीयम्।कस्यापिसङ्गःमास्तु।कोऽपिउपाधि: नभवतु।उपाधिरहितत्वेनभवितुम्उपायःवर्ततेउपाधिरहितंभगवन्नामसततंजपनीयम्।नामजपनेनश्रद्धादृढीभवति।नामस्मरणेरुचिःभवति।यथाशैत्येनजलंहिमायतेतथानामजपनेनश्रद्धासुदृढायते।श्रद्धयादेवेनभवान्दृष्टव्यःएव।अखण्डंनामजपतु।देवःनिश्चयेनलभ्येतएवइत्यस्मिन्शङ्कयाअलम्।परमार्थव्यवहारयोःसम्यक्समायोजनंकरणीयम्।परमार्थविषयेवृथाशङ्काःनभवन्तु।स्वपुत्रंयथास्नेहेनआह्वयामःतथादेवम्आह्वयतु।अद्ययावत्यथाप्रेम्णाभगवतःनामस्मरणंकृतंततोपिअधिकंप्रेम्णानिष्ठयाचभगवन्नामजपतु।अन्तसमयेसर्वेभ्यःअन्तेत्यज्यमानःविषयःभगवन्नामभवेत्।अन्तिमश्वासेननामएवअन्तःगच्छेत्।नामएतावत्गभीरंगच्छेत्यत्प्राणैःसहएवनामबहिःआगच्छेत्।एवंयःनामजपतिसःदेहस्यसुखदुःखंनानुभवति।सःआनन्देभवति।ममदृढःविश्वासःयत्रामःतस्यकल्याणंकरिष्यति।

      • अन्तिमश्वासेनसहनामअन्तःगच्छेत्इत्यर्थम्एतस्मात्क्षणात्सततंनामजपतु।****

श्रीक्षेत्रंगोन्दवले गोन्दवले- बुद्रुक, ज्यायान्गोन्दवलेग्रामःवासातारा-पण्ढरपूरमार्गेसातारातः 64 कि.मी. दूरेवर्तते।पुणेतःसासवड,फलटणमार्गेणगोन्दवलेग्रामंगन्तुंशासकीयपरिवहनलोकयानानिसन्ति।तथैवमुम्बई, वसई, कराड, विटे, सांगली, सोलापूरं, पण्ढरपूरंचइत्यादिभ्यःस्थानेभ्यःयानसेवावर्तते।एतान्विहायदहीवडीमध्येयानंपरिवर्त्यआगन्तुंशक्यते।दहीवडीम्आगन्तुंबहुभ्यःस्थानेभ्यःयानानिवर्तन्ते।दहीवडी-गोन्दवलेग्रामयोःमध्येअन्तरं 5 कि.मी. परिमितंवर्तते।तत्रलोकयानसेवातथारिक्शासेवापिविपुलावर्तते।रेलयानेनआगन्तुंकोरेगावस्थानकंयोग्यम्।ततःलोकयानस्थानकं 2 कि.मी. वर्तते।ततःदहीवडींगोन्दवलेग्रामंचगन्तुंलोकयानानिवर्तन्ते। श्रीसमाधीमन्दिरंलोकयानस्थानकतः 200 मी.परिमितंवर्तते।समाधिस्थानंतल-अट्टेवर्तते।तस्योपरिभूमितलेगोपालकृष्णस्यमूर्तिःविराजते।अस्मिन्एवपरिसरेश्रीमातृसाहिबायाःमन्दिरं, नाममन्दिरं, गोशाला, निवासप्रकोष्ठाः, पाचनगृहंचविद्यन्ते।श्रीसमाधिमन्दिरेउषःकालेभूपगानानि, काकडार्तिक्यं, त्रिसमयेपूजा, विष्णुसहस्त्रनामादिस्तोत्राणांपाठः, पञ्चपदीभजनं, शयनार्तिक्यम्चेतिएताःनित्योपासनाःवर्तन्ते।एतान्विहायश्रीरामनवमी, गुरुपौर्णिमा, गोकुलाष्टमी, दासनवमीचेत्यादयःउत्सवाःनामजपसप्ताहेनसहसम्पन्नाःभवन्ति।पुण्यतिथ्युत्सवःमार्गशीर्षवद्यप्रतिपदातःदशमीपर्यन्तंवर्तते।दशमीतिथौउषःकाले 5-30 वादनेनिर्याणकालसमारम्भःवर्तते।गोन्दवलेग्रामेमहाराजस्यजन्मतथानिवासवास्तुःवर्तते।ज्याय:राममन्दिरंकनीय:राममन्दिरं, दत्तमन्दिरं, शनिमन्दिरंचइत्येतानिमहाराजेनस्थापितानिमन्दिराणिसन्ति।एतेषांभवनानांस्वामीवर्ततेश्रीमहाराजस्यव्यवस्थापत्रेणनिश्चितंविश्वस्तमण्डलम्। श्रीमहाराजस्यपितामहेनप्राप्तौश्रीविठ्ठलरखुमामूर्तीतस्मिन्परिसरेवर्तते।