टोडलतन्त्रम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
टोडलतन्त्रम्
[[लेखकः :|]]

प्रथमः पटलः[सम्पाद्यताम्]


श्रीदेव्युवाच
ब्रूहि मे जगतां नाथ सर्वविद्यामय प्रभो ।
महाविद्यासु सर्वासु पूज्यासु भुवनत्रये ॥ १.१ ॥
एतासां दक्षिणे भागे नानारूपं पिनाकधृक् ।
पृथक्पृथक्महादेव कथयस्व मयि प्रभो ॥ १.२ ॥
श्रीशिव उवाच
शृणु चार्वङ्गि सुभगे कालिकायाश्च भैरवम् ।
महाकालं दक्षिणाया दक्षभागे प्रपूजयेत् ॥ १.३ ॥
महाकालेन वै सार्धं दक्षिणा रमते सदा ।
ताराया दक्षिणे भागे अक्षोभ्यं परिपूजयेत् ॥ १.४ ॥
समुद्रमथने देवि कालकूटं समुत्थितम् ।
सर्वे देवाः सदाराश्च महाक्षोभमवाप्नुयुः ॥ १.५ ॥
क्षोभादिरहितं यस्मात्पीतं हालाहलं विषम् ।
अत एव महेशानि अक्षोभ्यः परिकीर्तितः ॥ १.६ ॥
तेन सार्धं महामाया तारिणी रमते सदा ।
महात्रिपुरसुन्दर्या दक्षिणे पूजयेच्छिवम् ॥ १.७ ॥
पञ्चवक्त्रं त्रिनेत्रं च प्रतिवक्त्रे सुरेश्वरि ।
तेन सार्धं महादेवी सदा कामकुतूहला ॥ १.८ ॥
अत एव महेशानि पञ्चमीति प्रकीर्तिता ।
श्रीमद्भुवनसुन्दर्या दक्षिणे त्र्यम्बकं यजेत् ॥ १.९ ॥
स्वर्गे मर्त्ये च पाताले या चाद्या भुवनेश्वरी ।
एतासु रमते येन त्र्यम्बकस्तेन कथ्यते ॥ १.१० ॥
सशक्तिश्च समाख्यातः सर्वतन्त्रप्रपूजितः ।
भैरव्या दक्षिणे भागे दक्षिणामूर्तिसंज्ञकम् ॥ १.११ ॥
पूजयेत्परयत्नेन पञ्चवक्त्रं तमेव हि ।
छिन्नमस्तादक्षिणांशे कबन्धं पूजयेच्छिवम् ॥ १.१२ ॥
कबन्धपूजनाद्देवि सर्वसिद्धीश्वरो भवेत् ।
धूमावती महाविद्या विधवारूपधारिणी ॥ १.१३ ॥
वगलाया दक्षभागे एकवक्त्रं प्रपूजयेत् ।
महारुद्रेति विख्यातं जगत्संहारकारकम् ॥ १.१४ ॥
मातंगीदक्षिणांशे च मतंगं पूजयेच्छिवम् ।
तमेव दक्षिणामूर्तिं जगदानन्दरूपकम् ॥ १.१५ ॥
कमलाया दक्षिणांशे विष्णुरूपं सदाशिवम् ।
पूजयेत्परमेशानि स सिद्धो नात्र संशयः ॥ १.१६ ॥
पूजयेदन्नपूर्णाया दक्षिणे ब्रह्मरूपकम् ।
महामोक्षप्रदं देवं दशवक्त्रं महेश्वरम् ॥ १.१७ ॥
दुर्गाया दक्षिणे देशे नारदं परिपूजयेत् ।
नाकारः सृष्टिकर्ता च दकारः पालकः सदा ॥ १.१८ ॥
रेफः संहाररूपत्वान्नारदः परिकीर्तितः ।
अन्यासु सर्वविद्यासु ऋषिर्यः परिकीर्तितः ॥ १.१९ ॥
स एव तस्या भर्ता च दक्षभागे प्रपूजयेत् ।
श्रीदेवी उवाच
या चाद्या परमा विद्या द्वितीया भैरवी परा ।
त्रैलोक्यजननी नित्या सा कथं शववाहना ॥ १.२० ॥
श्रीशिव उवाच
या चाद्या परमेशानि स्वयं कालस्वरूपिणी ।
श्रीशिवस्य हृदम्भोजे स्थिता संहाररूपिणी ॥ १.२१ ॥
अत एव महाकालो जगत्संहारकारकः ।
संहाररूपिणी काली यदा व्यक्तस्वरूपिणी ॥ १.२२ ॥
तदैव सहसा देवि शवरूपः सदाशिवः ।
तत्क्षणाच्चञ्चलापाङ्गि सा देवी शववाहना ॥ १.२३ ॥
श्रीदेवी उवाच
शवरूपो महादेव मृतदेहः सदाशिवः ।
मृतदेहं महादेव सलिलं वा कथं नहि ॥ १.२४ ॥
श्रीशिव उवाच
यस्मिन् व्यक्ता महाकाली शक्तिहीनः सदाशिवः ।
शक्त्या युक्तो यदा देवि तदैव शिवरूपकः ।
शक्तिहीनः शवः साक्षात्पुरुषत्वं न मुञ्चति ॥ १.२५ ॥

द्वितीयः पटलः[सम्पाद्यताम्]

श्रीशिव उवाच
शृणु देवि प्रवक्ष्यामि योगसारं समासतः ।
ऊर्ध्वमूलमधःशाखं वृक्षाकारं कलेवरम् ॥ २.१ ॥
ब्रह्माण्डे यानि तीर्थानि तानि सन्ति कलेवरे ।
बृहद्ब्रह्माण्डं यद्रूपं तद्रूपं क्षुद्ररूपकम् ॥ २.२ ॥
ब्रह्माण्डे वर्तते तीर्थं सार्धकोटित्रयात्मकम् ।
द्विसप्ततिसहस्राणि प्रकाशं वीरवन्दिते ॥ २.३ ॥
चतुर्दशं तु तन्मध्ये तन्मध्ये त्रितयं शुभम् ।
तन्मध्ये परमेशानि महाधीरा च मुक्तिदा ॥ २.४ ॥
वासुकी या महामाया भुजगाकाररूपिणी ।
सार्धत्रिवलयाकारा पातालतलवासिनी ॥ २.५ ॥
सप्तस्वर्गं परेशानि क्रमेण शृणु सादरम् ।
भूर्लोकं च भुवर्लोकं स्वर्लोकं महसं तथा ॥ २.६ ॥
जनलोकं तपश्चैव सत्यलोकं वरानने ।
सप्तस्वर्गमिदं भद्रे पातालं शृणु यत्नतः ॥ २.७ ॥
अतलं वितलं चैव सुतलं च तलातलम् ।
महातलं च पातालं रसातलमतः परम् ॥ २.८ ॥
रसातलाच्च सत्यान्तं महाधीरा प्रतिष्ठिता ।
मेरुमध्यस्थिता नाडी महाधीरा च मुक्तिदा ॥ २.९ ॥
सत्यलोके महाविष्णुं शिवं ब्रह्माण्डसंज्ञकम् ।
तस्य संदर्शनार्थाय वासुकी व्याकुला सदा ॥ २.१० ॥
स्वर्गषट्कं भेदयित्वा उत्थिता वासुकी यदा ।
सर्वाः समुद्रगामिन्य ऊर्ध्वस्रोता भवन्ति हि ॥ २.११ ॥
एवं क्रमेण देवेशि शरीरे नाडयः स्थिताः ।
इडा च पिङ्गला चैव सुषुम्णा मध्यवर्तिनी ॥ २.१२ ॥
नाडीद्वयेन देवेशि समीरं पूरयेद्यदि ।
ततस्तु प्राणमन्त्रेण कुण्डली च क्रमं चरेत् ॥ २.१३ ॥
सहस्रारे महापद्मे नित्ये चाव्ययपङ्कजे ।
त्रासयुक्ता कुण्डलिनी प्रविशेन्नित्यमन्दिरम् ॥ २.१४ ॥
सर्वाः पातालगामिन्य ऊर्ध्वस्रोता भवन्ति हि ।
एतस्मिन् समये देवि वर्णमालां विचिन्तयेत् ॥ २.१५ ॥
अष्टोत्तरशतं मूल- मन्त्रं ज्ञानेन संजपेत् ।
आनयेत्तेन मार्गेण मूलाधारे पुनः सुधीः ॥ २.१६ ॥
षट्चक्रदेवतास्तत्र संतर्प्यामृतधारया ।
अथान्यत्सम्प्रवक्ष्यामि योनिमुद्रासनं प्रिये ॥ २.१७ ॥
उपविश्यासने मन्त्री प्राङ्मुखो वाप्युदङ्मुखः ।
जानुद्वयं कराभ्यां च प्रकुर्याद्दृढबन्धनम् ॥ २.१८ ॥
ऋजुकायेन देवेशि आजानु नासिकां नयेत् ।
प्राणमन्त्रेण देवेशि समीरं बहुयत्नतः ॥ २.१९ ॥
पूरयेत्परमेशानि किंचिद्वायुं न रेचयेत् ।
ऋजुकायं परेशानि विपरीतं प्रयत्नतः ॥ २.२० ॥
पूर्वोक्तेनैव विधिना अष्टोत्तरशतं जपेत् ।
षट्चक्रदेवतास्तत्र संतर्प्यामृतधारया ॥ २.२१ ॥
आनयेत्तेन मार्गेण मूलाधारे वरानने ।
अशेषरोगशमनं योनिमुद्रासनं प्रिये ॥ २.२२ ॥
बहु किं कथ्यते देवि महाव्याधिविनाशनम् ।
बहु किं कथ्यते देवि मन्त्रचैतन्यकारणम् ॥ २.२३ ॥
आत्मसाक्षात्करी मुद्रा महामोक्षप्रदायिनी ।
शतवक्त्रं यदि भवेत्तदा वक्तुं न शक्यते ॥ २.२४ ॥
पञ्चवक्त्रेण देवेशि किं मया कथ्यतेऽधुना ।
कुष्ठरोगविशिष्टोऽपि स भवेत्कामरूपकः ॥ २.२५ ॥

तृतीयः पटलः[सम्पाद्यताम्]

श्रीदेवी उवाच
देवदेव महादेव संसारार्णवतारक ।
बद्धयोनिं महामुद्रां कथयस्व दयानिधे ॥ ३.१ ॥
श्रीशिव उवाच
शृणु देवि प्रवक्ष्यामि बद्धयोनिं समासतः ।
उपविश्यासने मन्त्री प्राङ्मुखो वाप्युदङ्मुखः ॥ ३.२ ॥
गुदच्छिद्रे महेशानि स्वलिङ्गाग्रं निवेशयेत् ।
श्रोत्रे चैव तथा नेत्रे नासायां च ततो मुखे ॥ ३.३ ॥
अङ्गुष्ठादि महेशानि क्रमेण योजयेत्सुधीः ।
नासिकायां मुखे चैव समीरं बहुयत्नतः ॥ ३.४ ॥
पूरयेत्परमेशानि किंचिदपि न रेचयेत् ।
शब्दप्रत्यक्षतां कृत्वा वर्णमालां विचिन्तयेत् ॥ ३.५ ॥
अष्टोत्तरशतं मूल- मन्त्रं तु प्रजपेत्सुधीः ।
सोऽहंमन्त्रेण देवेशि आनयेत्तेन वर्त्मना ॥ ३.६ ॥
षट्चक्रदेवतास्तत्र संतर्प्यामृतधारया ।
कृते फलं महेशानि कथयिष्यामि तेऽनघे ॥ ३.७ ॥
श्रीपार्वती उवाच
वद ईशान सर्वज्ञ सर्वतत्त्वविदां वर ।
मन्त्रमार्गेण देवेश कालिकायाः सुदुर्लभम् ॥ ३.८ ॥
श्रीशिव उवाच
शृणु देवि सदानन्दे कालिकामन्त्रमुत्तमम् ।
यस्याः प्रसङ्गमात्रेण जीवन्मुक्तो भवेन्नरः ॥ ३.९ ॥
शिवाद्यं बिन्दुनादाढ्यं वामनेत्राग्निसंयुतम् ।
सिद्धविद्या त्वियं भद्रे विद्याराज्ञी सुदुर्लभा ॥ ३.१० ॥
इदं बीजत्रयं चाद्यं गगनं बिन्दुभूषितम् ।
वामश्रवणसंयुक्तं द्वंद्वं चापरकं शृणु ॥ ३.११ ॥
ईशानं वह्निसंयुक्तं वामनेत्रेन्दुसंयुतम् ।
द्वितीयं परमेशानि सम्बोधनपदं ततः ॥ ३.१२ ॥
पुनर्बीजत्रयं कूर्चं मायाद्वंद्वं च ठद्वयम् ।
द्वाविंशत्यक्षरं मन्त्रं विद्याराज्ञी सुदुर्लभा ॥ ३.१३ ॥
वाग्भवाद्या महाविद्या श्रीकाली देवता स्मृता ।
प्रणवाद्या महाविद्या देवता सिद्धिकालिका ॥ ३.१४ ॥
निजबीजद्वयं कूर्चं बीजैकं परमेश्वरि ।
त्र्यक्षरी परमा विद्या चामुण्डा कालिका स्मृता ॥ ३.१५ ॥
एतस्याः सदृशी विद्या सिद्धिदा नास्ति सुन्दरि ।
यथा षडक्षरी विद्या तथा विद्या च त्र्यक्षरी ॥ ३.१६ ॥
निजबीजत्रयं भद्रे श्मशानकालिका ततः ।
पुनर्बीजत्रयं भद्रे वह्निकान्तां समुच्चरेत् ॥ ३.१७ ॥
चतुर्दशाक्षरी विद्या त्रिषु लोकेषु पूजिता ।
दक्षिणाकालिका सिद्ध- कालिका गुह्यकालिका ॥ ३.१८ ॥
श्रीकालिका भद्रकाली चामुण्डाकालिका परा ।
श्मशानकालिका देवि महाकालीति चाष्टधा ॥ ३.१९ ॥
निजबीजं महेशानि सम्बोधनपदं ततः ।
पुनश्च कालिकाबीजं ततो वह्निवधूं न्यसेत् ॥ ३.२० ॥
इति चाष्टविधं मन्त्रं सर्वतन्त्रेषु गोपितम् ।
श्रीदेवी उवाच
श्रुतं महाकालिकाया मन्त्रं परमगोपनम् ॥ ३.२१ ॥
ताराया मन्त्रराजं तु श्रोतुमिच्छामि साम्प्रतम् ।
यस्याः प्रसङ्गमात्रेण भवाब्धौ न निमज्जति ॥ ३.२२ ॥
तन्मन्त्रं वद ईशान यदि स्नेहोऽस्ति मां प्रति ।
श्रीशिव उवाच
चन्द्रबीजं समुच्चार्य आद्यं वह्निसमागतम् ॥ ३.२३ ॥
वामनेत्रेन्दुसंयुक्तं मन्त्रराजमिमं प्रिये ।
एकाक्षरी महाविद्या त्रिषु लोकेषु पूजिता ॥ ३.२४ ॥
ईशानबिन्दुसंयुक्तं वामकर्णविभूषितम् ।
एकाक्षरी महाविद्या मन्त्रराजद्वितीयकम् ॥ ३.२५ ॥
शिरं बिन्दुसमारूढं वामनेत्रेन्दुसंयुतम् ।
आद्यबीजं द्वितीयं च अस्त्रमन्त्रं समुच्चरेत् ॥ ३.२६ ॥
प्रणवाद्या यदा विद्या सोग्रतारा प्रकीर्तिता ।
विद्या चैकजटा प्रोक्ता महामोक्षप्रदायिनी ॥ ३.२७ ॥
तारास्त्ररहिता त्र्यर्णा महानीलसरस्वती ।
वाग्भवाद्या यदा विद्या वागीशत्वप्रदायिनी ॥ ३.२८ ॥
श्रीबीजाद्या महाविद्या सदा लक्ष्मीप्रदायिनी ।
मायाद्या परमा विद्या सदा सिद्धिप्रदायिनी ॥ ३.२९ ॥
कूर्चबीजादिका चैषा शब्दराशिप्रकाशिनी ।
गगनाद्या महाविद्या निर्वाणमोक्षदायिनी ॥ ३.३० ॥
प्रासादाद्या महाविद्या शिवसायुज्यदायिनी ।
प्राणबीजादिका चैषा वाञ्छासिद्धिप्रदायिनी ॥ ३.३१ ॥
कालिकाद्या महाविद्या मुक्तिदा सिद्धिदा सदा ।
कालिकायाश्च ताराया आराधनमिहोच्यते ॥ ३.३२ ॥
प्रातरुत्थाय मन्त्रज्ञः सहस्रारे गुरुं यजेत् ।
षट्चक्रं भेदयित्वा तु चाष्टोत्तरशतं जपेत् ॥ ३.३३ ॥
ततः प्रणम्य विधिवत्स्नानकर्म समारभेत् ।
अद्येत्यादि समुच्चार्य सौरमासं समुच्चरेत् ॥ ३.३४ ॥
देवताप्रीतये पश्चात्स्नापयेच्छुद्धवारिणा ।
ओंकारं च समुच्चार्य गङ्गे चेति समुच्चरेत् ॥ ३.३५ ॥
यमुनेति ततः पश्चाद्गोदावरि सरस्वति ।
नर्मदेति समुच्चार्य सिन्धुकावेरिसंयुतम् ॥ ३.३६ ॥
अस्मिन् जले च संनिधिं कुरु शब्दमथो वदेत् ।
आनयेदङ्कुशाख्येन रविसंयुक्तमण्डलात् ॥ ३.३७ ॥
मुद्राचतुष्टयं देवि दर्शयेद्बहुयत्नतः ।
रुद्रसंख्यं जपेन्मन्त्रमाच्छाद्य मीनमुद्रया ॥ ३.३८ ॥
सूर्यायाभिमुखं तोयं निःक्षिप्य रविसंख्यया ।
मूलमन्त्रं समुच्चार्य क्षालयेच्चरणद्वयम् ॥ ३.३९ ॥
चरणान्निःसृते तोये त्रिर्निमज्य जपेन्मनुम् ।
मूलमन्त्रं त्रिर्जप्त्वा तु मुद्रया कुम्भसंज्ञया ॥ ३.४० ॥
जलादुत्थाय देवेशि तिलकं कुलवर्त्मतः ।
आत्मविद्याशिवैस्तत्त्वैराचामेत्पयसा ततः ॥ ३.४१ ॥
वह्निजायान्विता मन्त्रा विज्ञेयाः प्रणवादिकाः ।
गङ्गे चेत्यादिना देवि तीर्थमावाहनं चरेत् ॥ ३.४२ ॥
मूलेन दर्भया भूमौ त्रिवारं निक्षिपेत्सुधीः ।
तज्जलेन सप्तवारमात्माभिषेकमाचरेत् ॥ ३.४३ ॥
अङ्गन्यासं ततः कृत्वा वामहस्ते सुरेश्वरि ।
गगनं वायुबीजं च वरुणं भूमिबीजकम् ॥ ३.४४ ॥
वह्निबीजं बिन्दुयुक्तं त्रिवारं जपमाचरेत् ।
अनेन मनुना देवि तज्जलं चाभिमन्त्रितम् ॥ ३.४५ ॥
मूलमन्त्रं समुच्चार्य सप्तधा तत्त्वमुद्रया ।
अभिषेचनमात्रेण मुच्यते सर्वपातकैः ॥ ३.४६ ॥
शेषं जलं महेशानि दक्षहस्ते समानयेत् ।
इडया पूरयेत्तोयं क्षालयेद्देहमध्यगम् ॥ ३.४७ ॥
ततः पिङ्गलया देवि तत्तोयं तु विरेचयेत् ।
कृष्णवर्णं तदुदकं पापरूपं विचिन्तयेत् ॥ ३.४८ ॥
पुरतो वज्रपाषाणे फट्कारेण विनिक्षिपेत् ।
हस्तं प्रक्षाल्य चाचम्य प्राणायामपुरःसरम् ॥ ३.४९ ॥
तर्पयेत्कुलदेवं च सूर्यायार्घ्यं निवेदयेत् ।
देवतार्घ्यं ततः पश्चाद्गायत्रीं परमाक्षरीम् ॥ ३.५० ॥
प्रणवं च समुद्धृत्य कालिकायै ततो वदेत् ।
विद्महे इति संलिख्य श्मशानं च समुद्धरेत् ॥ ३.५१ ॥
वासिनीं ङेयुतां देवि धीमहीति ततो वदेत् ।
तन्नो घोरे महेशानि प्रजपेत्तु प्रचोदयात् ॥ ३.५२ ॥
गायत्रीं प्रपठेद्धीमान् त्रिवारं जलमुत्क्षिपेत् ।
ततो जपेन्महामन्त्रं गायत्रीं परमाक्षरीम् ॥ ३.५३ ॥
अङ्गन्यासं ततः कृत्वा आचम्य परमेश्वरि ।
इष्टदेवीं महेशानि ध्यात्वा तु परिमण्डले ॥ ३.५४ ॥
ओं तारायै विद्महे इति महोग्रायै ततो वदेत् ।
धीमहीति ततः पश्चात्ततो देवि प्रचोदयात् ॥ ३.५५ ॥
प्राणायामं ततः कृत्वा चाष्टोत्तरशतं जपेत् ।
सूत्राकारेण देवेशि पूजाविधिरिहोच्यते ॥ ३.५६ ॥
स्वस्तिवाचनसंकल्पं घटं संस्थाप्य यत्नतः ।
मन्त्रेणाचमनं कार्यं सामान्यार्घ्यं ततो न्यसेत् ॥ ३.५७ ॥
तज्जलैर्द्वारमभ्युक्ष्य द्वारपूजां समाचरेत् ।
त्रिविधं विघ्नमुत्सार्य भूतापसरणं ततः ॥ ३.५८ ॥
आसनं च समभ्यर्च्य गुरुदेवं नमेत्सुधीः ।
करशुद्धिं च तालं च त्रयं दिग्बन्धनं ततः ॥ ३.५९ ॥
वह्निना वेष्टनं कार्यं भूतशुद्धिमथाचरेत् ।
मातृकायाः षडङ्गं च कुर्यादान्तरमातृकाम् ॥ ३.६० ॥
मातृकाध्यानमुच्चार्य बाह्ये तु मातृकां न्यसेत् ।
पीठन्यासं ततः कृत्वा प्राणायामं समाचरेत् ॥ ३.६१ ॥
ऋष्यादिकं कराङ्गं च वर्णन्यासं समाचरेत् ।
षोढान्यासं ततो देवि व्यापकं तदनन्तरम् ॥ ३.६२ ॥
एवं समाहितमनास्तत्त्वन्यासं समाचरेत् ।
बीजन्यासं ततो देवि व्यापकं विन्यसेत्सुधीः ॥ ३.६३ ॥
मूलेन सप्तधा ध्यानं मानसैः पूजनं चरेत् ।
विशेषार्घ्यं पीठपूजां पुनर्ध्यानं सनेत्रकम् ॥ ३.६४ ॥
मुद्रादिदर्शनं कार्यमावाहनषडङ्गकम् ।
धेन्वादिकं ततः प्राण- प्रतिष्ठां मूलपूजनम् ॥ ३.६५ ॥
आज्ञाप्रार्थनमङ्गानि काल्यादीन् परिपूजयेत् ।
ब्राह्म्यादीनसिताङ्गादीन्महाकालं प्रपूजयेत् ॥ ३.६६ ॥
खड्गादीन् गुरुपङ्क्तिं च पुनर्देवीं प्रपूजयेत् ।
बलिदानं ततो होमं प्राणायामं ततो जपम् ॥ ३.६७ ॥
जपं समर्पयेद्धीमान् प्राणायामं ततश्चरेत् ।
एतस्मिन् समये देवि कारणादीन् समाहरेत् ॥ ३.६८ ॥
अर्घ्यं दत्त्वा महेशानि चात्मानं च समर्पयेत् ।
स्तुतिं च कवचं स्मृत्वा चाष्टाङ्गं प्रणमेत्सुधीः ॥ ३.६९ ॥
शिवोऽहमिति संचिन्त्य संहारेण विसर्जयेत् ।
ऐशान्यां मण्डलं कृत्वा चाण्डाल्युच्छिष्टपूर्विकाम् ॥ ३.७० ॥
अर्घ्यं संधार्य शिरसि चन्दनं तु ललाटके ।
नैवेद्यं किंचित्स्वीकृत्य विहरेच्च निजेच्छया ॥ ३.७१ ॥
संक्षेपपूजामथवा कुर्यान्मन्त्री समाहितः ।
आदौ ऋष्यादिकं न्यासं करशुद्धिस्ततः परम् ॥ ३.७२ ॥
अङ्गुलीव्यापकन्यासौ हृदादिन्यास एव च ।
तालत्रयं च दिग्बन्धः प्राणायामस्ततः परम् ॥ ३.७३ ॥
ध्यानं मानसयागं च अर्घ्यस्थापनमेव च ।
पीठपूजां पुनर्ध्यानं ततश्चावाहनं चरेत् ॥ ३.७४ ॥
जीवन्यासं ततः कृत्वा पूजयेत्परदेवताम् ।
अङ्गपूजां च काल्यादीन् ब्राह्म्यादींश्चाष्टभैरवान् ॥ ३.७५ ॥
महाकालं पूजयित्वा गुरुपङ्क्तिं यजेत्ततः ।
खड्गादीन् पूजयित्वा तु पुनर्देवीं प्रपूजयेत् ॥ ३.७६ ॥
प्राणायामं ततः कृत्वा पूजयेत्साधकाग्रणीः ।
देव्या हस्ते जपफलं समर्पणमथाचरेत् ॥ ३.७७ ॥
प्राणायामं ततः कृत्वा चाष्टाङ्गं प्रणमेत्सुधीः ।
स्तुतिं च कवचं स्मृत्वा विशेषार्घ्यं प्रदापयेत् ॥ ३.७८ ॥
आत्मसमर्पणं कृत्वा संहारेण विसर्जयेत् ।
ऐशान्यां मण्डलं कृत्वा चाण्डाल्युच्छिष्टपूर्विकाम् ।
नैवेद्यं किंचित्स्वीकृत्य विहरेच्च निजेच्छया ॥ ३.७९ ॥

चतुर्थः पटलः[सम्पाद्यताम्]

देवी उवाच
श्रुता पूजा कालिकायास्ताराया वद साम्प्रतम् ।
यस्याः प्रसङ्गमात्रेण वाचश्चित्तायते नृणाम् ॥ ४.१ ॥
ईश्वर उवाच
शृणु चार्वङ्गि सुभगे तारायाः पूजनं महत् ।
मन्त्रेणाचमनं कृत्वा गुरुदेवं नमेत्ततः ॥ ४.२ ॥
जलं संशोध्य हस्तौ च पादौ च क्षालयेत्ततः ।
मन्त्रेणाचमनं कृत्वा ततः पीठं विचिन्तयेत् ॥ ४.३ ॥
शिखां बद्ध्वा ततो देवि त्रिविधं विघ्ननाशनम् ।
भूम्यासनं च संशोध्य वस्त्रे ग्रन्थिं विधाय च ॥ ४.४ ॥
कायवाक्शोधनं कृत्वा ततः पुष्पविशोधनम् ।
यन्त्रं कृत्वा साधकेन्द्रः सामान्यार्घ्यं च विन्यसेत् ॥ ४.५ ॥
द्वारपालांश्च संपूज्य पीठपूजां समारभेत् ।
पीठशक्तीश्च लक्ष्म्याद्यास्ततः पीठमनुं जपेत् ॥ ४.६ ॥
भूतशुद्धिं प्रवक्ष्यामि विशेषमिह यद्भवेत् ।
कूर्चयुक्तेन हंसेन पूरकेण सुरेश्वरि ॥ ४.७ ॥
कुण्डल्या सह चात्मानं चतुर्विंशतिबीजकम् ।
तत्र लीनानि देवेशि परमात्मनि साधकः ॥ ४.८ ॥
मायया संदहेत्पापं पुरुषं कज्जलप्रभम् ।
कुम्भकेन वरारोहे भस्म कुर्याद्विचक्षणः ॥ ४.९ ॥
वधूबीजेन देवेशि भस्मना सह रेचयेत् ।
पूरकेण तु कूर्चेन ललाटेऽमृतसंचयम् ॥ ४.१० ॥
चिन्तयेत्परमेशानि कुम्भकेनामृताम्बुधिम् ।
आं ह्रीं क्रों वह्निबीजान्तं हृदि चैकादशं जपेत् ॥ ४.११ ॥
ततस्तु चिन्तयेद्धीमानोंकाराद्रक्तपङ्कजम् ।
तस्योपरि पुनर्ध्यायेथुंकारं नीलसंनिभम् ॥ ४.१२ ॥
तस्योपरि पुनर्ध्यायेद्बीजभूषितकर्तृकाम् ।
तस्योपरि परं बिन्दुं शिवरूपं च अव्ययम् ॥ ४.१३ ॥
वालुकायाः सहस्रैक- भागं बिन्दुं सुदुर्लभम् ।
बिन्दुमध्ये मणिद्वीपं शतयोजनविस्तृतम् ॥ ४.१४ ॥
बिन्दुमध्ये परं ज्योतिर्बुद्बुदाकारमण्डलम् ।
यथैव बुद्बुदे देवि प्रतिबिम्बं प्रपश्यति ॥ ४.१५ ॥
तथा निरीक्षणं कार्यं प्रकुर्याज्ज्ञानचक्षुषा ।
मणिद्वीपं तु तन्मध्ये सुवर्णवालुकामयम् ॥ ४.१६ ॥
परितो भावयेन्मन्त्री परिखातो मनोहरम् ।
मध्ये कल्पद्रुमं ध्यायेदात्मानं तारिणीमयम् ॥ ४.१७ ॥
उद्यदादित्यसंकाशं ज्योतिर्मण्डलमुत्तमम् ।
चतुर्द्वारसमायुक्तं हेमप्राकारभूषितम् ॥ ४.१८ ॥
बहुचामरघण्टादि- देवकन्यासुशोभितम् ।
मन्दवायुसमायुक्तं गन्धधूपैरलंकृतम् ॥ ४.१९ ॥
तन्मध्ये वेदिकां ध्यायेन्नानारत्नोपशोभिताम् ।
सुवर्णसूत्ररचितं चिन्तयेच्छत्त्रमुत्तमम् ॥ ४.२० ॥
तदधश्चिन्तयेन्मन्त्री रत्नसिंहासनं प्रिये ।
तत्र देवीं चिन्तयेच्च यथोक्तध्यानयोगतः ॥ ४.२१ ॥
योगसारे यथोक्तैस्तु उपचारैः प्रपूजयेत् ।
प्राणायामं ततः कृत्वा ऋष्यादिन्यासमाचरेत् ॥ ४.२२ ॥
वर्णन्यासं ततः कृत्वा कराङ्गन्यासमाचरेत् ।
तालत्रयं छोटिकाभिर्दशदिग्बन्धनं चरेत् ॥ ४.२३ ॥
षोढान्यासं ततः कृत्वा व्यापकं तदनन्तरम् ।
विशेषार्घ्यं च संस्थाप्य पञ्चतत्त्वं विशोधयेत् ॥ ४.२४ ॥
सुधादेवीं समानीय पञ्चीकरणमाचरेत् ।
कुम्भे पुष्पं समादाय त्रिकोणे त्रिः प्रपूजयेत् ॥ ४.२५ ॥
वामदेहं त्रिधा चोक्त्वा खेचरीं दशधा जपेत् ।
तथा चानन्दगायत्रीमृचं च त्रिर्जपेत्सुधीः ॥ ४.२६ ॥
ब्रह्मशापं शुक्रशापं कृष्णशापं सुरेश्वरि ।
दिग्जपान्नाशयेद्धीमान् ततो मन्त्रत्रयं जपेत् ॥ ४.२७ ॥
छुरिकां चामृतं चैव प्रीतिसंरक्षणीं तथा ।
पावमानं च त्रिर्जप्त्वा शोषणादीन् समाचरेत् ॥ ४.२८ ॥
वारुणं त्रिर्जपेद्देवि चामृतं सप्तधा जपेत् ।
विद्यातत्त्वे धेनुमुद्रां प्रदर्श्य मूलमष्टधा ॥ ४.२९ ॥
कुण्डलिनीं समुत्थाप्य शिवोऽहं भावयेत्ततः ।
मांसं मीनं शोधयित्वा मुद्राशोधनमाचरेत् ॥ ४.३० ॥
शक्तिं च कुलपुष्पं च शोधयेत्साधकोत्तमः ।
देवान् पितॄनृषींश्चैव तर्पयेदिष्टदेवताम् ॥ ४.३१ ॥
शोधितं द्रव्यमादाय विशेषार्घ्ये विनिक्षिपेत् ।
ततो ब्रह्ममयं ध्यात्वा पूजाध्यानं समाचरेत् ॥ ४.३२ ॥
नासारन्ध्रात्समानीय पीठे पुष्पं निधाय च ।
ततश्चावाहनं कृत्वा पञ्चमुद्राः प्रदर्शयेत् ॥ ४.३३ ॥
षडङ्गेन च सम्पूज्य पुनर्मुद्रां प्रदर्शयेत् ।
जीवन्यासं ततः कृत्वा उपचारैः प्रपूजयेत् ॥ ४.३४ ॥
षडङ्गानि च सम्पूज्य अक्षोभ्यं पूजयेदधः ।
गुरुपङ्क्तिं पूजयित्वा दशमूलेषु पूजयेत् ॥ ४.३५ ॥
महापूर्वांश्च काल्यादीन् यजेद्वैरोचनादिकान् ।
पुनर्देवीं प्रपूज्याथ बलिं दद्याद्विचक्षणः ॥ ४.३६ ॥
प्राणायामं ततः कृत्वा मन्त्रध्यानं समाचरेत् ।
जपं कृत्वा महेशानि देव्या हस्ते समर्पयेत् ॥ ४.३७ ॥
प्राणायामं पुनः कृत्वा तत्त्वस्वीकारमाचरेत् ।
तस्मै दत्त्वा स्वयं नीत्वा प्रजपेत्साधकाग्रणीः ॥ ४.३८ ॥
पीत्वा पीत्वा जपित्वा च मुक्तः कोटिजनैः सह ।
प्रतिपात्रे जपेन्मन्त्रमष्टोत्तरशतं सुधीः ॥ ४.३९ ॥
स्तुतिं च कवचं स्मृत्वा चाष्टाङ्गं प्रणमेत्सुधीः ।
विशेषार्घ्यं प्रदातव्यमात्मानं च समर्पयेत् ॥ ४.४० ॥
रुद्ररूपी स्वयं भूत्वा संहारेण विसर्जयेत् ।
योनिमुद्रां ततो बद्ध्वा क्षमस्वेति विसर्जयेत् ॥ ४.४१ ॥
अङ्गन्यासं महेशानि प्राणायामं ततः परम् ।
ऐशान्यां मण्डलं कृत्वा निर्माल्येन प्रपूजयेत् ॥ ४.४२ ॥
निर्माल्यवासिनीं ङेऽन्तां चण्डेश्वर्यै नमो नमः ।
निर्माल्यं धारयेत्शीर्षे चन्दनं च ललाटके ॥ ४.४३ ॥
गुरुस्थाने लिखेद्यन्त्रं विचरेद्भैरवो यथा ।
संक्षेपपूजनं देवि मानसं तत्त्ववर्जितम् ॥ ४.४४ ॥
अत्रोक्तमाचरेदत्र नान्यत्संचारयेत्सुधीः ।
अन्यत्संचारणाद्देवि क्रुद्धा भवति तारिणी ॥ ४.४५ ॥
तत्त्वज्ञानं च मानं च शक्तिमात्रे हि पार्वति ।
इत्येतत्कथितं देवि किमन्यत्श्रोतुमिच्छसि ॥ ४.४६ ॥

पञ्चमः पटलः[सम्पाद्यताम्]

श्रीदेवी उवाच
त्वत्प्रसादान्महादेव पवित्राहं न चान्यथा ।
शम्भुनाथार्चनं देव श्रोतुमिच्छामि साम्प्रतम् ॥ ५.१ ॥
शिव उवाच
शृणु पार्वति वक्ष्यामि यन्मां त्वं परिपृच्छसि ।
नकुलीशं समुद्धृत्य मनुस्वरविभूषितम् ॥ ५.२ ॥
बिन्दुनादकलायुक्तं प्रासादाख्यं महामनुम् ।
अस्य मन्त्रस्य माहात्म्यमूर्ध्वाम्नाये मयोदितम् ॥ ५.३ ॥
नमस्कारं समुद्धृत्य वान्तं नेत्रविभूषितम् ।
वारुणं मुखवृत्तं च वायुं ललाटसंयुतम् ॥ ५.४ ॥
अयं पञ्चाक्षरो मन्त्रः पञ्चाम्नायफलप्रदः ।
प्रणवादि यदा देवि तदा मन्त्रं षडक्षरम् ॥ ५.५ ॥
प्रासादाख्यं समुद्धृत्य अर्धनारीश्वराय च ।
पुनः प्रासादमुद्धृत्य मन्त्रं परमगोपनम् ॥ ५.६ ॥
एवं बहुविधाकारं विग्रहं मे नगात्मजे ।
कण्ठे तु गरलं देवि न कलौ भावयेत्क्वचित् ॥ ५.७ ॥
यदीच्छेदात्मनो मृत्युं यदि उन्मत्तमिच्छति ।
तदैव सहसा देवि नीलकण्ठमुपासते ॥ ५.८ ॥
दुरदृष्टवशाद्देवि नीलकण्ठस्तवादिकम् ।
करोति कारयेद्वापि मम हत्यां करोति सः ॥ ५.९ ॥
अत एव महेशानि स पापिष्ठो न चान्यथा ।
निषिद्धाचरणं पापं करोति यदि पामरः ॥ ५.१० ॥
पुत्रदाराधनं तस्य नाशमेति न संशयः ।
कण्ठे तु गरलं देवि यदि पूजापरो भवेत् ॥ ५.११ ॥
इहलोके दरिद्रः स्यान्मृते शूकरतां व्रजेत् ।
नीलकण्ठस्य यन्मन्त्रं यदि कुर्यात्पुरस्क्रियाम् ॥ ५.१२ ॥
पक्षान्तरे महेशानि तस्य मृत्युर्न चान्यथा ।
शृणु देवि प्रवक्ष्यामि पार्थिवं शिवपूजनम् ॥ ५.१३ ॥
तत्रादौ परमेशानि गुरुदेवं नमेत्सुधीः ।
ओं हराय नमस्कारं मृत्तिकामाहरेत्सुधीः ॥ ५.१४ ॥
महेश्वराय नमस्कारं लिङ्गं निर्माय यत्नतः ।
शूलपाणे इहोच्चार्य सुसंप्रतिष्ठितो भव ॥ ५.१५ ॥
अनेन मनुना देवि जीवन्यासो विधीयते ।
शकारं बिन्दुसंयुक्तं दीर्घमुक्तं षडङ्गकम् ॥ ५.१६ ॥
तस्य ध्यानं प्रवक्ष्यामि शृणुष्व सुसमाहिता ।
ओं ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ ५.१७ ॥
पुष्पं शिरसि संधार्य मानसैः पूजनं चरेत् ।
पुनर्ध्यात्वा महेशानि शिवे पुष्पं निधाय च ॥ ५.१८ ॥
पिनाकधृगिति चोच्चार्य इहागच्छ द्वयं वदेत् ।
इह तिष्ठ ततो द्वंद्वं संनिधेहि द्वयमिह ॥ ५.१९ ॥
इह सन्नि ततो रुद्ध- स्वशब्दं च ततो वदेत् ।
यावत्पूजां समुच्चार्य ततश्चैवं करोम्यहम् ॥ ५.२० ॥
स्नानीयं च पशुपतिं ङेयुक्तं च नमश्चरेत् ।
वेदाद्यं योजयेद्देवि ब्राह्मणः साधकोत्तमः ॥ ५.२१ ॥
एतत्पाद्यं महेशानि षडक्षरमनुं ततः ।
नमस्कारं समुच्चार्य सर्वं दद्याद्विचक्षणः ॥ ५.२२ ॥
पूजयित्वा महेशानि चाष्टमूर्तिं प्रपूजयेत् ।
शर्वो भवस्तथा रुद्र उग्रो भीमः पशोः पतिः ॥ ५.२३ ॥
महादेवं च ईशानं ङेयुतं कुरु यत्नतः ।
क्षितिं जलं तथा चाग्निं वायुं चाकाशमेव च ॥ ५.२४ ॥
यजमानं तथा सोमं सूर्यं च मूर्तिना सह ।
सर्वत्र ङेयुतं कृत्वा पूजयेत्साधकोत्तमः ॥ ५.२५ ॥
प्रणवादिनमोऽन्तेन वामावर्तेन पूजयेत् ।
मूर्तयोऽष्टौ शिवस्यैताः पूर्वादिक्रमयोगतः ॥ ५.२६ ॥
आग्नेय्यान्ताः प्रपूज्याथ विद्यां लिङ्गिशिवं यजेत् ।
अष्टोत्तरसहस्रं वा शतं वा प्रजपेत्ततः ॥ ५.२७ ॥
गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्महेश्वर ॥ ५.२८ ॥
ततस्तोयं समादाय जपं चैव समर्पयेत् ।
मुखवाद्यं ततः कृत्वा चाष्टाङ्गं प्रणमेत्सुधीः ॥ ५.२९ ॥
संहारेण महादेव क्षमस्वेति विसर्जयेत् ।
एवं पूजा प्रकर्तव्या शक्तिमन्त्रान् यजेद्यदि ॥ ५.३० ॥
प्रासादादीन्महामन्त्रान् यदि दीक्षापरो भवेत् ।
शक्तिदीक्षा न कर्तव्या कदाचिदपि मोहतः ॥ ५.३१ ॥
स शैव इति विख्यातः सर्वतन्त्रेश्वरो भवेत् ।
अथातः सम्प्रवक्ष्यामि सूत्रं परमगोपनम् ॥ ५.३२ ॥
हरो महेश्वरश्चैव शूलपाणिः पिनाकधृक् ।
पशुपतिः शिवश्चैव महादेव इति क्रमात् ॥ ५.३३ ॥
अष्टमूर्तिस्ततो देवि पूजयेत्साधकोत्तमः ।
ततो जपेन्महेशानि मुखवाद्यं ततः परम् ॥ ५.३४ ॥
एतदन्यन्न कर्तव्यं शक्तिदीक्षापरो यदि ।
निषिद्धाचरणाद्देवि पापभाग्जायते नरः ॥ ५.३५ ॥
न्यूनाधिकं महादेवि यदि पूजादिकं चरेत् ।
स गुरुं चापि शिष्यं च शिवहत्यां प्रयच्छति ॥ ५.३६ ॥
न्यूनाधिकं महेशानि यदि चैकाक्षरं भवेत् ।
वर्णसंख्या महेशानि ब्रह्महत्या भविष्यति ॥ ५.३७ ॥
अत एव स पापिष्ठः सत्यं सत्यं सुरेश्वरि ।
एवं पूजां विधायादौ ततश्चान्यं प्रपूजयेत् ॥ ५.३८ ॥
आदौ शिवं पूजयित्वा शक्तिपूजा ततः परम् ।
यत्किंचिदुपचारं हि तस्य किंचिन्निवेदयेत् ॥ ५.३९ ॥
अन्यथा मूत्रवत्सर्वं गङ्गातोयं भवेद्यदि ।
अत एव महेशानि आदौ लिङ्गं प्रपूजयेत् ॥ ५.४० ॥
शिवस्नानोदकं देवि मूर्ध्नि संधारयेद्यदि ।
सत्यं सत्यं महेशानि शिवतुल्यो न संशयः ॥ ५.४१ ॥
शिवरूपी स्वयं भूत्वा देवीपूजां समाचरेत् ।
शैववैष्णवदौर्गार्क- गाणपत्यैन्द्रदीक्षितः ॥ ५.४२ ॥
आदौ लिङ्गं पूजयित्वा यदि चान्यत्प्रपूजयेत् ।
तत्फलं कोटिगुणितं सत्यं सत्यं न संशयः ॥ ५.४३ ॥
अन्यदेवं पूजयित्वा शिवं पश्चाद्यजेद्यदि ।
तस्य पूजाफलं चैव भुज्यते यक्षराक्षसैः ॥ ५.४४ ॥
इति ते कथितं कान्ते तन्त्राणां सारमुत्तमम् ।
बहु किं कथ्यते देवि भूयः किं श्रोतुमिच्छसि ॥ ५.४५ ॥

षष्ठः पटलः[सम्पाद्यताम्]

 
श्रीदेवी उवाच
श्रुतं महाकालिकाया मन्त्रं परमगोपनम् ।
संक्षेपं कथितं नाथ वासनां वद मां प्रति ॥ ६.१ ॥
श्रीशिव उवाच
शृणु देवि महामन्त्र- वासनां सर्वसिद्धिदाम् ।
यस्याः श्रवणमात्रेण मन्त्राः सिद्धा भवन्ति हि ॥ ६.२ ॥
ककारस्योर्ध्वकोणेषु प्राणो वायुः प्रतिष्ठितः ।
अपानो वायुकोणे च समानो मध्यदेशतः ॥ ६.३ ॥
उदानोऽङ्कुशकोणे च मात्रायां व्यान एव च ।
बीजं तु कालिकारूपं प्रकारं शृणु पार्वति ॥ ६.४ ॥
कलाभागे जटाजूटं केशं च परमेश्वरि ।
बिन्दुमस्तकभालं तु नासा नेत्रं च पार्वति ॥ ६.५ ॥
श्रोत्रयुग्मं तथा वक्त्रं स्कन्दनादव्यवस्थितम् ।
चतुर्बाहुं तथा देहं स्तनद्वंद्वं कटिद्वयम् ॥ ६.६ ॥
हृदयं जठरं पादं तथा सर्वाङ्गुलिः शिवे ।
ब्रह्मरूपं ककारं च सर्वाङ्गं तनुसंशयः ॥ ६.७ ॥
शकारं कामरूपं च योनिरूपं न चान्यथा ।
चन्द्रसूर्याग्निरूपं च रेफं परमदुर्लभम् ॥ ६.८ ॥
सर्वाङ्गद्योतनं तेजो जगदानन्दरूपकम् ।
बिन्दुनिर्वाणदं नादं महामोक्षप्रदं सदा ॥ ६.९ ॥
सर्वविघ्नहरं देवि ककारं तोयरूपकम् ।
सर्वपापहरं रेफं तस्माद्वह्निर्न चान्यथा ॥ ६.१० ॥
ईकारं परमेशानि शक्तिं चाव्ययरूपिणीम् ।
महामोक्षप्रदा देवी तस्मान्माया प्रकीर्तिता ॥ ६.११ ॥
ककारं ब्रह्मरूपं च मकारं विष्णुरूपकम् ।
रेफः संहाररूपत्वाच्छिवरूपो न चान्यथा ॥ ६.१२ ॥
ब्रह्मविष्णुशिवः साक्षात्ककारं परमेश्वरि ।
अनुच्चार्यं तदेव स्याद्विना मायायुतं शिवे ॥ ६.१३ ॥
मायायुक्तं यदा देवि तदा मुक्तिप्रदं महत् ।
अत एव महेशानि मायाशक्तिर्निगद्यते ॥ ६.१४ ॥
ककारं धर्मदं देवि ईकारश्चार्थदायकम् ।
रकारं कामदं कान्ते मकारं मोक्षदायकम् ॥ ६.१५ ॥
एकत्रोच्चारणाद्देवि निर्वाणमोक्षदायिनी ।
माहात्म्यं देवदेवेशि किं वक्तुं शक्यते मया ॥ ६.१६ ॥
जिह्वाकोटिसहस्रेण वक्त्रकोटिशतेन च ।
जन्मान्तरसहस्रेण वर्णितुं नैव शक्यते ॥ ६.१७ ॥
विधिवल्लक्षजापेन पुरश्चरणमुच्यते ।
एतद्रूपं महामायां कूर्चबीजं तु सुन्दरि ॥ ६.१८ ॥
वाग्भवं प्रणवं देवि एतद्रूपं न संशयः ।
अग्निजाया महाविद्या एतद्रूपं न संशयः ॥ ६.१९ ॥
द्रुतसिद्धिप्रदा विद्या वह्निजाया परा मनुः ।
सम्बोधनपदेनैव सदा संनिधिकारिणी ॥ ६.२० ॥
अथ वक्ष्ये महाविद्या- पुरश्चरणमुत्तमम् ।
कथितं मन्त्रराजस्य त्रिपुरश्चरणं शृणु ॥ ६.२१ ॥
दिवा लक्षं जपेन्मन्त्रं हविष्याशी जितेन्द्रियः ।
दिव्यवीरमते देवि रात्रौ लक्षं जपेत्सुधीः ॥ ६.२२ ॥
अथ षडक्षरस्यास्य शृणु देवि पुरस्क्रियाम् ।
दिव्यवीरमतेनैव विंशत्येकेन पार्वति ॥ ६.२३ ॥
तथा च त्र्यक्षरं मन्त्रं प्रजपेत्साधकाग्रणीः ।
ध्यानपूजादिकं सर्वं समानं वीरवन्दिते ॥ ६.२४ ॥
एतस्याः सदृशी विद्या फलदा नास्ति योगिनि ।
सर्वमन्त्रस्य चैतन्यं शृणु पार्वति सादरम् ॥ ६.२५ ॥
सहस्रारे महापद्मे बिन्दुरूपं परं शिवम् ।
कुण्डलिनीं समुत्थाप्य हंसेन मनुना सुधीः ॥ ६.२६ ॥
नासाग्रे या स्थिरा दृष्टिर्जायते परमेश्वरि ।
तदैव मन्त्रचैतन्यं कुण्डलीचक्रगं भवेत् ॥ ६.२७ ॥
सहस्रारे महापद्मे कुण्डल्या सहितं गुरुम् ।
भावयेत्सर्वमन्त्राणां चैतन्यं जायते प्रिये ॥ ६.२८ ॥
तदैव प्रजपेन्मन्त्रं सिद्धिदं नात्र संशयः ।
श्रीदेवी उवाच
इदानीं तारिणीमन्त्र- वासनां वद शंकर ।
कालिका मोक्षदा नित्या तारिणी भववारिधौ ॥ ६.२९ ॥
श्रीशंकर उवाच
कलाकेशं महेशानि बिन्दुमस्तकमीरितम् ।
नादं च वक्त्रं भालं च नासां नेत्रं च पार्वति ॥ ६.३० ॥
भुजचतुष्टयं देहं स्तनद्वंद्वं च वक्षसम् ।
मकारेण तु देवेशि पृष्ठं चैव कटिद्वयम् ॥ ६.३१ ॥
तकारेण योनिदेशं गुदं पादद्वयं तथा ।
सर्वाङ्गुलीर्नखं चैव भावयेत्साधकोत्तमः ॥ ६.३२ ॥
चन्द्रसूर्यात्मकं रेफं वह्निबीजं न चान्यथा ।
सर्वा नाड्यस्तथा ज्योती रोमं च भूषणादिकम् ॥ ६.३३ ॥
शकारं च महामाया शक्तिरूपप्रकाशिनी ।
मूर्धादिपादपर्यन्तं शक्तिबीजं सुदुर्लभम् ॥ ६.३४ ॥
अस्य मन्त्रस्य माहात्म्यं किं मया कथ्यतेऽधुना ।
अश्वमेधसहस्राणि वाजपेयशतानि च ॥ ६.३५ ॥
काश्यादितीर्थं देवेशि सार्धकोटिभुवात्मकम् ।
पूर्णां शस्येन देवेशि सप्तद्वीपां वसुंधराम् ॥ ६.३६ ॥
मेरुतुल्यसुवर्णं तु ब्राह्मणे वेदपारगे ।
सदक्षिणं व्रतं सर्वं चतुर्वेदसुविस्तरम् ॥ ६.३७ ॥
गां चैव भूमिसंस्थं च हस्त्यश्वं च तथैव च ।
बलिदानं महेशानि पितृयज्ञं तथैव च ॥ ६.३८ ॥
विहितं च महापुण्यं यदुक्तं शास्त्रवेदिभिः ।
सकृज्जपान्महेशानि कलां नार्हन्ति षोडशीम् ॥ ६.३९ ॥
एकोच्चारेण देवेशि किं पुनर्ब्रह्म केवलम् ।
सृष्टिस्थितिलयादीनां कर्तारो नात्र संशयः ॥ ६.४० ॥
सगुणं निर्गुणं साक्षात्निराकारं च मूर्तिमत् ।
वैखरीयं महाविद्या वर्णाश्रिता सुनिश्चला ॥ ६.४१ ॥
यतो निरक्षरं वस्तु अतस्तारा प्रकीर्तिता ।
ब्रह्मविद्यास्वरूपेयं भोगमोक्षफलप्रदा ॥ ६.४२ ॥
जन्मकोटिसहस्रेण वर्णितुं नैव शक्यते ।
पञ्चवक्त्रेण देवेशि किं मया कथ्यतेऽधुना ॥ ६.४३ ॥
एकाक्षरी महाविद्या त्रिषु लोकेषु पूजिता ।
एकाक्षरीविहीनो यो मन्त्रं गृह्णाति पार्वति ॥ ६.४४ ॥
कल्पकोटिसहस्रेण तस्य सिद्धिर्न जायते ।
सकारो विष्णुरूपश्च तकारश्च प्रजापतिः ॥ ६.४५ ॥
रेफः संहाररूपत्वाच्छिवः साक्षान्न संशयः ।
या चाद्या परमा विद्या सा माया परमा कला ॥ ६.४६ ॥
निराकारं परं ज्योतिर्बिन्दुं चाव्ययसंज्ञकम् ।
बिन्दुशब्देन शून्यं स्यात्तथा च गुणसूचकम् ॥ ६.४७ ॥
बिन्दुचक्रामृता देवि प्लवन्ती चार्धमात्रया ।
अर्धमात्राकृतिर्नादो व्यापको विश्वपालकः ॥ ६.४८ ॥
यथेयं वैखरी विद्या कूर्चविद्या तथैव च ।
माहात्म्यं चैव पूजायां भेदो नास्ति सुरेश्वरि ॥ ६.४९ ॥
सतारं च तथा बिन्दुं माया पञ्चाक्षरी परा ।
विभक्ते चाक्षरे चैव क्रियते मूर्तिकल्पना ॥ ६.५० ॥
सार्धपञ्चाक्षरी विद्या तारिणी मूर्तिमत्स्वयम् ।
तद्रूपं पक्षिरूपं हि वाग्भवश्च हरिप्रियाम् ॥ ६.५१ ॥
प्रणवं कामबीजं तु गगनश्च शिवं शिवे ।
अस्त्रबीजं तदेव स्याद्वह्निजायां सुरेश्वरि ॥ ६.५२ ॥
सम्बोधनपदेनैव सदा संनिधिकारिणी ।
पञ्चाक्षरेण देवेशि तारिणी कामरूपिणी ॥ ६.५३ ॥
तथा पञ्चाक्षरं पश्य ब्रह्मविष्णुशिवात्मकम् ।
शक्तिरूपं निराकारं तथा पञ्चाक्षरेण तु ॥ ६.५४ ॥
यथा पञ्चाक्षरी विद्या तथा विद्या षडक्षरी ।
तथैव षोडशी विद्या तथा विद्या च व्यक्षरी ॥ ६.५५ ॥
तथैवाष्टाक्षरी विद्या तथा नवाक्षरी परा ।
माहात्म्यं ध्यानपूजायां भेदो नास्ति सुरेश्वरि ॥ ६.५६ ॥
अतिस्नेहेन देवेशि किं मया न प्रकाशितम् ।
प्राणान्तेऽपि पशोरग्रे वैखरीं न प्रकाशयेत् ॥ ६.५७ ॥

सप्तमः पटलः[सम्पाद्यताम्]

 
श्रीदेवी उवाच
महायोगमयी देवी खेचरी परमा कला ।
योगज्ञानं विना सिद्धिर्नास्ति सत्यं सुरेश्वर ॥ ७.१ ॥
ब्रूहि मे देवदेवेश क्षुद्रब्रह्माण्डमध्यतः ।
किमाधारे स्थिता नाथ सप्तद्वीपा वसुंधरा ॥ ७.२ ॥
समुद्रसप्तकं नाथ किमाकारं प्रतिष्ठति ।
मूलाधारे महीचक्रे संस्थिता मानवादयः ॥ ७.३ ॥
क्षुद्ररूपा जनाः सर्वे किमाकारेण संस्थिताः ।
स्वकीयाङ्गुलिमानेन मारुतं कथय प्रभो ॥ ७.४ ॥
श्रीशिव उवाच
मूलाधारे स्थिता देवि सप्तद्वीपा वसुंधरा ।
वलयाकाररूपेण समुद्राः सप्त संस्थिताः ॥ ७.५ ॥
जम्बुद्वीपं मध्यदेशे तद्बाह्ये लवणाम्बुधिः ।
शाकद्वीपं महेशानि तद्बाह्ये दधिसागरः ॥ ७.६ ॥
तद्बाह्ये शाल्मलीद्वीपं सागरो दुग्धतद्बहिः ।
तद्बाह्ये पाटलाद्वीपं तद्बाह्ये तु जलान्तकः ॥ ७.७ ॥
पृथिव्यां वर्तते देवि यद्रूपा मानवादयः ।
तेन रूपेण देवेशि मूलाधारे तु जन्तवः ॥ ७.८ ॥
षण्णवत्यङ्गुलं देवि मारुतं परिकीर्तितम् ।
मार्तण्डस्थितिमानं तु अधिकं परिकीर्तितम् ॥ ७.९ ॥
श्रीदेवी उवाच
कियद्भुवं तु ब्रह्माण्डं वद भूतलवासिनः ।
अङ्गुल्येकेन किं मानं कथयस्व दयानिधे ॥ ७.१० ॥
श्रीशिव उवाच
अङ्गुल्येकेन देवेशि सहस्राब्दं प्रजायते ।
षण्णवतिसहस्राब्दं भवेद्भूतलवासिनः ॥ ७.११ ॥
पादाङ्गुष्ठादिगुल्फान्तं प्रिये रन्ध्रसहस्रकम् ।
रन्ध्रं चन्द्रसहस्राब्दं गुल्फादिजानुसंधिषु ॥ ७.१२ ॥
जान्वादिगुदपर्यन्तं मानं विंशसहस्रकम् ।
मूलाधारादिलिङ्गान्तं चतुर्वर्षसहस्रकम् ॥ ७.१३ ॥
लिङ्गादिनाभिपर्यन्तं भवेदृषिसहस्रकम् ।
नाभ्यादिहृदयान्तं च ग्रहसंख्यसहस्रकम् ॥ ७.१४ ॥
हृदादिकण्ठपर्यन्तमृषिसंख्यसहस्रकम् ।
विशुद्धादिकमाज्ञान्तं मानं रुद्रसहस्रकम् ॥ ७.१५ ॥
आज्ञाचक्राच्छिवान्तं वै दिक्सहस्रं सुरेश्वरि ।
सूर्यसंख्यासहस्रं तु समीरश्चाधिकः स्मृतः ॥ ७.१६ ॥
शरीरसहकारेण हासो वृद्धिश्च जायते ।
षड्गुणो रतिकाले च त्रिगुणो भोजनाद्बहिः ॥ ७.१७ ॥
धमने चाष्टधा प्रोक्तः समीरो वृद्धितां गतः ।
सद्गुरोरुपदेशेन मन्त्रमार्गेण पार्वति ॥ ७.१८ ॥
यदि चैकाङ्गुलं ह्रस्वं सहस्राब्दं स जीवति ।
एवं क्रमेण देवेशि समता यदि वा भवेत् ॥ ७.१९ ॥
जित्वा मृत्युं महेशानि शम्भुवद्विहरेत्क्षितौ ।
अत एव महेशानि योनिमुद्रा मयोदिता ॥ ७.२० ॥
प्राणायामेन देवेशि तथैव योनिमुद्रया ।
तथैवाभ्यासयोगेन यदि वायुः समो भवेत् ॥ ७.२१ ॥
जित्वा मृत्युं महेशानि खेचरो जायतेऽचिरात् ।
प्रमाणं कथितं सर्वं मनुष्यस्य प्रियंवदे ॥ ७.२२ ॥
श्वासोच्छ्वासविकासेन कुण्डली गगनं चरेत् ।
श्रीदेवी उवाच
इदानीं पृथिवीमानं वद मे परमेश्वर ॥ ७.२३ ॥
सप्तस्वर्गस्थितो यो यो या या शक्तिः स्थिता सदा ।
तत्सर्वं श्रोतुमिच्छामि यदि स्नेहोऽस्ति मां प्रति ॥ ७.२४ ॥
श्रीशिव उवाच
मूलाधारे महीचक्रे संस्थिता मानवादयः ।
तेषां मानेन देवेशि चार्धं चैव द्विसप्ततिः ॥ ७.२५ ॥
द्विगुणः परमेशानि तद्बाह्ये लवणाम्बुधिः ।
एवं क्रमेण देवेशि द्विगुणं परिकीर्तितम् ॥ ७.२६ ॥
डाकिनीसहितो ब्रह्मा मूलाधारे तु सुन्दरि ।
राकिणीसहितो विष्णुः स्वाधिष्ठाने व्यवस्थितः ॥ ७.२७ ॥
लाकिनीसहितो रुद्रो मणिपूरे सुरेश्वरि ।
अनाहते महापद्मे काकिनीसहितो हरः ॥ ७.२८ ॥
विशुद्धाख्ये वसेन्नित्या साकिनी च सदाशिवः ।
हाकिनी परशिवो देवश्चाज्ञाचक्रे सुरेश्वरि ॥ ७.२९ ॥
सहस्रारे महापद्मे विश्वरूपः परः शिवः ।
महाकुण्डलिनी तत्र स्थिता नित्या सुरेश्वरि ॥ ७.३० ॥
श्रीदेवी उवाच
कुत्र मूले महापीठे वर्तते परमेश्वर ।
मूलाधारादधोभागे पातालं कीदृशं प्रभो ॥ ७.३१ ॥
श्रीशिव उवाच
मूलाधारे कामरूपं हृदि जालंधरं प्रिये ।
पूर्णगिरिमधोभागे उड्डीयानं तदूर्ध्वके ॥ ७.३२ ॥
वाराणसी भ्रुवोर्मध्ये ज्वलन्ती लोचनत्रये ।
मायावती मुखवृत्ते कण्ठे चाष्टपुरी तथा ॥ ७.३३ ॥
नाभिमूले महेशानि अयोध्यापुरी संस्थिता ।
काञ्चीपीठं कटीदेशे श्रीहृट्टं पृष्ठदेशके ॥ ७.३४ ॥
मूलाधारात्शतं चैव अतलं परिकीर्तितम् ।
सुतलं च वर्षशतं तलातलशतं प्रिये ॥ ७.३५ ॥
ऋषिबाणेन्दुवर्षान्तं संस्थितं च महातलम् ।
शतद्वयान्तं पातालं द्विशतं वै रसातलम् ॥ ७.३६ ॥
मूलाधाराच्च देवेशि द्वेऽङ्गुली चान्तिके स्थिते ।
तयोर्मध्ये च पातालास्तिष्ठन्ति परमेश्वरि ॥ ७.३७ ॥
इति ते कथितं कान्ते योगसारं समासतः ।
न वक्तव्यं पशोरग्रे प्राणान्तेऽपि कदाचन ॥ ७.३८ ॥

अष्टमः पटलः[सम्पाद्यताम्]

 
श्रीदेवी उवाच
सार्धत्रिकोटिनाडीनामालयं च कलेवरम् ।
क्रमेण श्रोतुमिच्छामि तद्वदस्व मयि प्रभो ॥ ८.१ ॥
श्रीशिव उवाच
लोम्नि कूपे सपादार्ध- कोटयश्चैव सुन्दरि ।
हस्तास्ये च तदा पादेऽग्निलक्षनाडयः स्थिताः ॥ ८.२ ॥
उदरे च तथा पायौ पञ्चलक्षाः प्रकीर्तिताः ।
हृदादिसर्वगात्रेषु नवलक्षाः प्रकीर्तिताः ॥ ८.३ ॥
अथ पार्श्वे तथा चर्मे तथैव सर्वसंधिषु ।
रुद्रान्न्यूनं स्थितं लक्षं शरीरे नाडयः प्रिये ॥ ८.४ ॥
इडा च पिङ्गला चैव सुषुम्ना चित्रिणी तथा ।
ब्रह्मनाडी च तन्मध्ये पञ्चनाड्यः प्रकीर्तिताः ॥ ८.५ ॥
कुहूश्च शङ्खिनी चैव गान्धारी हस्तिजिह्विका ।
नर्दिनी च तथा निद्रा रुद्रसंख्या व्यवस्थिता ॥ ८.६ ॥
एता नाड्यः परेशानि सुषुम्नायाः प्रजायते ।
श्रीदेवी उवाच
वेदाक्षिवसुरन्ध्रास्तु बाणसंख्यजलान्तकाः ।
किमाधारे पद्ममध्ये संस्थिताः परमेश्वर ॥ ८.७ ॥
श्रीशिव उवाच
योगपद्मस्य माहात्म्यं मया वक्तुं न शक्यते ।
मूलाधारे पद्ममध्ये लंबीजं चातिशोभनम् ॥ ८.८ ॥
लंबीजस्य बिन्दुमध्ये पृथ्वीचक्रं मनोहरम् ।
वलयाकाररूपेण समुद्राः सप्तकाः स्थिताः ॥ ८.९ ॥
श्रीदेवी उवाच
बिन्दुमानं महादेव कथयस्व मयि प्रभो ।
क्रमेण योगपद्मस्य प्रमाणं वद शंकर ॥ ८.१० ॥
श्रीशिव उवाच
परमाणुत्रिभागैक- भागं बिन्दुं सुविस्तरम् ।
तन्मध्ये सागराः सर्वे सप्तद्वीपा वसुंधरा ॥ ८.११ ॥
अव्ययं परमं सूक्ष्मं बिन्दुरूपं परं शिवम् ।
प्रमाणं चास्य देवस्य किं वक्तुं शक्यते मया ॥ ८.१२ ॥
ब्रह्मलोकं परेशानि नादोपरि विचिन्तयेत् ।
डाकिनीसहितो ब्रह्मा तथैव निवसेत्सदा ॥ ८.१३ ॥
लकारं पार्थिवं बीजं शक्तिरूपं सुरेश्वरि ।
पृथ्वीचक्रस्य मध्ये तु स्वयम्भूलिङ्गमद्भुतम् ॥ ८.१४ ॥
सार्धत्रिवलयाकार- कुण्डल्या वेष्टितं सदा ।
लिङ्गच्छिद्रं स्ववक्त्रेण कुण्डल्याच्छाद्य संस्थिता ॥ ८.१५ ॥
तेनैव वर्तते वायुरिडापिङ्गलयोः सदा ।
सहस्रारदर्शनाय सदा जाग्रत्स्वरूपिणी ॥ ८.१६ ॥
यदैव ब्रह्ममार्गेण सहस्रारे समुत्थिता ।
तदैव परमेशानि श्वासोच्छ्वासविकाशनम् ॥ ८.१७ ॥
केसरस्य तु मध्ये च चतुःपत्त्रे सुरेश्वरि ।
अनन्तरूपिणी दुर्गा शम्भुश्चानन्तरूपधृक् ॥ ८.१८ ॥
नानासुखविलासेन सदा कामेन वर्तते ।
श्रीदेवी उवाच
लिङ्गच्छिद्रं समाकृष्य संस्थिता कुण्डली कथम् ॥ ८.१९ ॥
कथयस्व सदानन्द सर्वज्ञस्त्वं सुरेश्वर ।
श्रीशिव उवाच
लिङ्गमध्ये महत्तेजो वह्निरूपं च सुन्दरि ॥ ८.२० ॥
यत्किंचिद्वायुयोगेन ब्रह्माण्डो दह्यते यतः ।
अतः सा कुण्डली देवी मुखेनाच्छाद्य संस्थिता ॥ ८.२१ ॥
तेनैव पार्थिवे लिङ्गे बिन्दुशक्तिं नियोजयेत् ।
बिन्दुशक्तिं समुत्थाप्य लिङ्गपूजा प्रकीर्तिता ॥ ८.२२ ॥

नवमः पटलः[सम्पाद्यताम्]

 
श्रीदेवी उवाच
त्रिपुराया महामन्त्रं नित्यातन्त्रे श्रुतं मया ।
इदानीं श्रोतुमिच्छामि नवार्णस्य च वासनाम् ॥ ९.१ ॥
श्रीशिव उवाच
भूमिश्चन्द्रः शिवो माया शक्तिः कृशानुसादनौ ।
अर्धचन्द्रश्च बिन्दुश्च नवार्णो मेरुरुच्यते ॥ ९.२ ॥
भूमिबीजजपादेव भूपतिर्जायतेऽचिरात् ।
चन्द्रबीजजपादेव महासौन्दर्यमाप्नुयात् ॥ ९.३ ॥
शिवबीजजपादेव शिववद्विहरेत्क्षितौ ।
एकत्रोच्चारणात्सत्यं चतुर्वर्गफलप्रदम् ॥ ९.४ ॥
श्रीदेवी उवाच
यत्त्वया कथितं नाथ योगज्ञानादिकं लयम् ।
यावत्कामादि संदीप्यो भावयोगो न लभ्यते ॥ ९.५ ॥
ऊर्ध्वरेता महायोगी तदधः शक्तियोगतः ।
ब्रूहि मे जगतांनाथ कथं दीर्घायुषं भवेत् ॥ ९.६ ॥
श्रीशिव उवाच
शृणु देवि प्रवक्ष्यामि येन दीर्घायुषं भवेत् ।
श्रुत्वा गोपय यत्नेन न प्रकाश्यं कदाचन ॥ ९.७ ॥
पूजयेत्कालिकां देवीं तारिणीं वाथ सुन्दरीम् ।
षोडशेनोपचारेण पञ्चतत्त्वेन पार्वति ॥ ९.८ ॥
दिनत्रयं पूजयित्वा षट्चक्रं चिन्तयेदथ ।
ततस्तु परमेशानि मालामन्त्रं समभ्यसेत् ॥ ९.९ ॥
षोडशी वा महापूर्वा पत्त्रे चाभ्यासमाचरेत् ।
चतुष्पत्त्रे चाष्टवारं षट्पत्त्रे द्वादशं जपेत् ॥ ९.१० ॥
दशपत्त्रे विंशतिं च द्वादशे वेदनेत्रकम् ।
षोडशे दशसंख्यं तु चतुर्वारं श्रुवोऽष्टकम् ॥ ९.११ ॥
कुम्भकेन जपेन्मन्त्रं मालाषट्के सुरेश्वरि ।
एवं क्रमेण देवेशि स्थिरमायुर्यदा भवेत् ॥ ९.१२ ॥
प्रजपेदक्षमालायां येन मृत्युंजयो भवेत् ।
श्रीदेवी उवाच
मूलचक्राच्छिरोऽन्ता च सुषुम्ना परिकीर्तिता ।
तद्गर्भस्था च या शक्तिः सा देवी कुण्डरूपिका ॥ ९.१३ ॥
सदा कुण्डलिनी देवी पञ्चाशद्वर्णभूषिता ।
मालारूपा कथं देव इति मे संशयो हृदि ॥ ९.१४ ॥
श्रीशिव उवाच
सहस्रारे महापद्मे बीजकोशे शिवालये ।
हंसेन वायुयोगेन पूरकेण समानयेत् ॥ ९.१५ ॥
सहस्रारं तु सम्प्राप्य शिवं दृष्ट्वा तु कामिनी ।
मालाकारेण तल्लिङ्गं संवेष्ट्य कुण्डली सदा ॥ ९.१६ ॥
अकारादिलकारान्ता क्षकारं वक्त्रसंयुतम् ।
चरमार्णं सरन्ध्रं च निजपुच्छेन कामिनी ॥ ९.१७ ॥
भेदयित्वा स्वपुच्छेन नागपाशं तदूर्ध्वके ।
एतत्कारणं संव्याप्य संस्थिता कुण्डली यदा ॥ ९.१८ ॥
तदैव प्रजपेन्मन्त्रममरत्वं स विन्दति ।
रेचनात्कामिनी देवी प्रविशन्ती स्वकेतनम् ॥ ९.१९ ॥
न तत्र प्रजपेन्मन्त्रं जपान्मृत्युमवाप्नुयात् ।
रेचके छिन्नमालायां सत्यं हि सुरवन्दिते ॥ ९.२० ॥
छिन्ने सूत्रे भवेन्मृत्युः पुरैव कथितं मया ।
इति ते कथितं कान्ते यतो मृत्युंजयो भवेत् ॥ ९.२१ ॥
अथवा निजनासाग्रे दृष्टिमारोप्य यत्नतः ।
वायुं संधार्य यत्नेन एकोच्चारेण चोच्चरेत् ॥ ९.२२ ॥
मालामन्त्रं षोडशीं वा तथा चाष्टादशाक्षरीम् ।
सहस्रं प्रजपेन्मन्त्रं प्रत्यहं यदि पार्वति ॥ ९.२३ ॥
जित्वा मृत्युं जरां रोगं दीर्घकालं स जीवति ।
एतदन्यं महायोगं भोगार्थी नहि लभ्यते ॥ ९.२४ ॥
अथवा परमेशानि डामरोक्तविधानतः ।
यजेत्कात्यायनीं देवीं भूतपूर्वां प्रयत्नतः ॥ ९.२५ ॥
तदा पञ्चसहस्राब्दं निश्चितं तु स जीवति ।
इति ते कथितं सर्वं देहरक्षणकारणम् ॥ ९.२६ ॥
न भोगी भोगमाप्नोति योगी योगो न लभ्यते ।
एतत्तत्त्वेन देवेशि भोगो योगायते ध्रुवम् ॥ ९.२७ ॥
श्रीदेवी उवाच
यन्मालायां जपेनैव किं फलं लभते नरः ।
पृथक्पृथङ्महादेव पत्त्रमालाफलं वद ॥ ९.२८ ॥
श्रीशिव उवाच
भूमिकामी जपेन्मन्त्रं मूलाधारे चतुष्टये ।
स्वाधिष्ठाने जपादेव महेन्द्रो जायतेऽचिरात् ॥ ९.२९ ॥
मणिपूरे जपादेव भवेत्स्वर्गस्य भाजनम् ।
अनाहते महापद्मे जपाद्ब्रह्मपुरं व्रजेत् ॥ ९.३० ॥
विशुद्धाख्ये जपादेव विष्णुलोके वसेद्ध्रुवम् ।
आज्ञाचक्रे च जप्तव्ये श्वेतद्वीपे वसेत्सदा ॥ ९.३१ ॥
यन्माला परमेशानि बाह्यमाला प्रकीर्तिता ।
अन्तर्माला महामाला पञ्चाशद्वर्णरूपिणी ॥ ९.३२ ॥
माहात्म्यं तस्य देवेशि किं वक्तुं शक्यते मया ।
सहस्रारे स्थिरीभूय यदि चाष्टशतं जपेत् ॥ ९.३३ ॥
तत्फलात्कोटिभागैकं भागं चान्येन विद्यते ।
पृथिव्यामव्ययो देहो भवत्येव न संशयः ॥ ९.३४ ॥
यन्मालायां जपेन्मन्त्रमभ्यासार्थं हि पार्वति ।
इति ते कथितं देवि चिरजीवी यथा भवेत् ॥ ९.३५ ॥
इदानीं परमेशानि भूतकात्यायनीं शृणु ।
वेदाद्यं शब्दबीजं च महामायां ततः परम् ॥ ९.३६ ॥
अस्त्रयुग्मं वह्निजाया मनुः सप्ताक्षरः परः ।
श्रीशिवोऽस्य ऋषिः प्रोक्तो विराट्छन्द उदाहृतम् ॥ ९.३७ ॥
भूतकात्यायनी देवी धर्मार्थकामदा सदा ।
प्रणवेन षडङ्गं च प्राणायामं च सुन्दरि ॥ ९.३८ ॥
ध्यानमस्याः प्रवक्ष्यामि शृणु सुन्दरि सादरम् ।
गौरवर्णां मुक्तकेशीं सर्वाभरणभूषिताम् ॥ ९.३९ ॥
पट्टवस्त्रपरीधानां सदा घूर्णितलोचनाम् ।
वामपाणौ रक्तपूर्ण- खर्परं दक्षिणे करे ॥ ९.४० ॥
मद्यपूर्णस्वर्णपात्रां ग्रीवायां हारभूषिताम् ।
शरच्चन्द्रसमाभासां पादाङ्गुलिविराजिताम् ॥ ९.४१ ॥
एवं तां वरदां नित्यां भावयेत्सिद्धिहेतवे ।
सामान्यार्घ्यं ततो देवि स्ववामे विन्यसेत्ततः ॥ ९.४२ ॥
जीवन्यासादिकं कृत्वा पूजयेत्परमेश्वरीम् ।
षोडशेनोपचारेण पञ्चतत्त्वेन सुन्दरि ॥ ९.४३ ॥
यजेत्तां बहुयत्नेन गृहमध्ये दिनत्रयम् ।
ततो जपेन्महामन्त्रं गजान्तकसहस्रकम् ॥ ९.४४ ॥
ततश्च पूजयेद्देवीं शून्यागारे दिनत्रयम् ।
प्रत्यहं प्रजपेन्मन्त्रं गजान्तकसहस्रकम् ॥ ९.४५ ॥
एव कृते महेशानि यदि सिद्धिर्न जायते ।
ततश्च प्रजपेन्मन्त्रं पितृभूमौ दिनत्रयम् ॥ ९.४६ ॥
ततः सिद्धिर्भवेद्देवि सत्यं सत्यं हि सुप्रिये ।
तद्वाक्यं प्रार्थनावाक्यं डामराख्ये मयोदितम् ॥ ९.४७ ॥

दशमः पटलः[सम्पाद्यताम्]

 
श्रीदेवी उवाच
काकीचञ्चुं महामुद्रां कथयस्व दयानिधे ।
येन रूपेण देवेश देहासनपरो भवेत् ॥ १०.१ ॥
श्रीशिव उवाच
अनाकुलेन देवेशि जिह्वां परमयत्नतः ।
तालुमूले न्यसेत्पश्चात्ततो वायुं पिबेत्शनैः ॥ १०.२ ॥
दन्तैर्दन्तान् समापीड्य काकीचञ्चुं समभ्यसेत् ।
बहुयोन्युक्तविधिना सर्वकर्माणि साधयेत् ॥ १०.३ ॥
अथातः सम्प्रवक्ष्यामि स्वल्पयोनिं शृणु प्रिये ।
गुदछिद्रे दक्षगुल्फं संधौ लिङ्गं विनिक्षिपेत् ॥ १०.४ ॥
नाभिरन्ध्रेऽथवा गुल्फं धारयेद्वामहस्तके ।
बहुयोन्युक्तविधिना चान्यत्सर्वं समापयेत् ॥ १०.५ ॥
मुद्रा चैतन्यतन्त्रे च माहात्म्यं कथितं मया ।
यथा हेमगिरिर्देवि यथा वेगवती नदी ॥ १०.६ ॥
चन्द्रादिकं यथा देवि चिरजीवी तथा भवेत् ।
श्रीदेवी उवाच
दशावतारं देवेश ब्रूहि मे जगतां गुरो ॥ १०.७ ॥
इदानीं श्रोतुमिच्छामि कथयस्व सुविस्तरात् ।
का वा देवी कथंभूता वद मे परमेश्वर ॥ १०.८ ॥
श्रीशिव उवाच
तारा देवी नीलरूपा वगला कूर्ममूर्तिका ।
धूमावती वराहं स्यात्छिन्नमस्ता नृसिंहिका ॥ १०.९ ॥
भुवनेश्वरी वामनः स्यान्मातंगी राममूर्तिका ।
त्रिपुरा जामदग्न्यः स्याद्बलभद्रस्तु भैरवी ॥ १०.१० ॥
महालक्ष्मीर्भवेत्बुद्धो दुर्गा स्यात्कल्किरूपिणी ।
स्वयं भगवती काली कृष्णमूर्तिः समुद्भवा ॥ १०.११ ॥
इति ते कथितं देव्यवतारं दशममेव हि ।
एतासां पूजनाद्देवि महादेवसमो भवेत् ।
आसां ध्यानादिकं सर्वं कथितं मे पुरा तव ॥ १०.१२ ॥

"https://sa.wikisource.org/w/index.php?title=टोडलतन्त्रम्&oldid=332660" इत्यस्माद् प्रतिप्राप्तम्