सामग्री पर जाएँ

ज्ञापकसंग्रहः/सप्तमोऽध्यायः

विकिस्रोतः तः
← षष्ठोऽध्यायः ज्ञापकसंग्रहः
सप्तमोऽध्यायः
[[लेखकः :|]]
अष्टमोऽध्यायः →

।। अथ सप्तमोऽध्यायः ।।
    झ्र्ज्ञा.ट आयने (सू.7-1-2)।। "घच्छौ च' (सू.4-4-117) इति चित्करणं ज्ञापकम् आयन्नादय उपदेशे भवन्तीति । झ्र्वि.ट ननु "आयनेयी' इति सूत्रेण प्रत्ययादीनां फ् इत्यादीनां आयन्नादयः आदेशा उच्यन्ते । तत्र नडड्डत्ध्;शब्दात् फकि नडड्डत्ध्; फ इति स्थिते प्रत्ययस्वरेण स्वररहितो भवेत् । ततश्च नाडड्डत्ध्;ायनशब्दे अन्तोदात्त एव भवेत् इष्यते तु आयनः आकारस्योदात्तत्वम् । तस्य सिद्धिमार्गः क इत्याशङ्क्याह--घच्छौ चेति चित्कारणमिति । प्रत्ययोपदेशावस्थायामेव स्वरप्रवृत्तेः पूर्वमेव प्रत्ययादीनां फादीनामायन्नादय आदेशा भवन्ति । आदेशानन्तरं च स्वरः प्रवर्तते । स च आद्युदात्तः सन् आयन इत्यादेशद्यवर्णस्य आकारादेरुदात्तत्वे पर्यवस्यति । अत्रार्थे ज्ञापकं तु "घच्छौ च' इति सूत्रे घचश्चित्करणम् । तथा हि अग्रशब्दात् घचि घकारस्येयादेशे अग्रियशब्दे अन्तिमस्याकारस्य उदात्तत्वासिद्धये घचश्चित्करणं क्रियते । तदेतत् उपदेशावस्थायामेव घकारस्य इयादेशे सति धटते । तदा हि इयादेशानन्तरं प्रत्ययस्वरेण सार्थकं भवति । यद चोपदेसावस्थायामादेशो न भवति तदा घ इत्यत्राकारस्य प्रत्ययस्वरेणोदात्तत्वे ततः घ् इत्यस्यास्वरकस्य भवन्नियादेशोऽप्यस्वरक एव भविष्यति पूर्वप्रवृत्तः अकारस्वरः स्थास्यति तथा च अग्रियशब्दस्यार्थादन्त्तोदात्तत्वमपि सेत्सयति । अतो घचश्चित्करणमनर्थकं स्यात् । तत्सार्मथ्याच्च उपदेशावस्थायामेव आयन्नादय आदेशा भवन्तीति ज्ञाप्यत इति भावः । झ्र्ज्ञा.ट ङेप्रथमयोः (सू.7-1-28)।। अत्र विभक्त्योर्ग्रहणे युष्मदस्मदोरनादेशे "द्वितीयायां' च इति ज्ञापकम् । (सू.7-2-86,87) झ्र्वि.ट नन् "ङेप्रथमयोरम्' इति सूत्रेण प्रथमयोरित्यनेन किं प्रथमयोर्विभक्त्योर्ग्रहणं उत प्रथमयोः प्रत्ययोः इति संदेहो जायते । प्रत्यययोर्ग्रहणमिति पक्षे सु औ अनयोरेवामादेशः स्यात् । सन्देहबीजं तु यदि प्रथमयोरिति स्त्रीलिङ्गनिर्देशः तदा विभक्त्योर्ग्रहणम् । यदा तु पुंलिङ्गेन निर्देशः तदा प्रथमयोः प्रत्यययोर्ग्रहणमिति । यदा तु पुंलिङ्गेन निर्देशः तदा प्रथमयोः प्रत्यययोर्ग्रहणमिति । अतः कथमत्र निर्णेतव्यमिति तत्राह--अत्र विभक्त्योरिति । "ङेप्रथमयो' रित्यत्र प्रथमयोर्विभक्त्योरेव ग्रहणं न तु प्रत्यययोः। तत्र ज्ञापकं तु "द्वितीयायां च' इति सूत्रम् । तस्य च सूत्रस्य द्वितीयाविभक्तौ परतः युष्मदस्मदोराकारः स्यादित्यर्थः । यदि च "ङेप्रथमयोरम्' इति सूत्रेण प्रथमयोः प्रत्यययोः सु औ इत्यनयोः अमादेशो विधीयेत तदा द्वितीयाविभक्तेरमादेशाभावात् युष्मदस्मद्भ्यामनादेशरूपैव द्वितीयाविभक्तिर्भविष्यतीति तस्यां परतः "युष्मदस्मदोरनादेशे' (सू.7-2-86) इत्यनेनैव आकारादेशे सिद्दे "द्वितीयायां च' इति सूत्रं व्यर्थं भवेत् । तस्मात् "द्वितीयायां च' इति सूत्रं "ङेप्रथमयोः' इति सूत्रे प्रथमयोरित्यनेन प्रथमाद्वितीयाविभक्त्योर्ग्रहणमिति ज्ञापयति । तथा च द्वितीयाविभक्तेरपि तेन अमादेशविधानात् युष्मदस्मद्भ्यां परा अम् इति आदेशरूपैव विभक्तिर्भविष्यति । तस्यां च अनादेश इति प्रतिषेधे प्राप्ते आकारविवानार्थं "द्वितीयायां च' इति सूत्रमिति भावः । झ्र्ज्ञा.ट नेड्ड्डत्ध्;वशि कृति (सू.7-2-8)।। "कृसृभृ' इति सूत्रे वृञ्वृङोर्ग्रहणं ज्ञापकं प्रत्ययाश्रयोऽपीट्प्रतिषेधो नियम्यत इति । झ्र्वि.ट ननु "नेड्ड्डत्ध्;वशि कृति' इति सूत्रे कृद्ग्रहणं मास्तु । न च तदभावे बिभिदिव बिभिदिम इत्यत्र वशादेस्तिङोऽपि इडड्डत्ध्;ागमनिषेधः स्यादिति वाच्यम् । "कृसृभृवृस्तुद्रुस्तुश्रुवो लिटि' (सू.7-2-23) इति सूत्रेण क्रादिभ्य एव परस्येण्निषेध इति नियमात् बिभिदिव
इत्यादाविण्निषेधाप्रवृत्तेः । न च स नियमः प्रकृतिविशेषमाश्रित्य प्रवृत्तो य इण्निषेधस्तद्विषयकः । "नेड्ड्डत्ध्;वशि' इति तु प्रत्ययाश्रयो निषेधः । एतं च निषेधं क्रादिनियमो न स्पृशति । तथा च बिभिदिवेत्यत्रापि इण्निषेधः स्यादिति तद्वारणाय कृद्ग्रहणमावश्यकमिति वाच्यम् । क्रादिनियमो न प्रकृतिलक्षणनिषेधमात्रविषयः, किं तु प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिण्निषेधः स लिटि चेत् तर्हि क्रादिभ्य एवेति वियमात् बिभिदिव इत्यत्र इण्निषेधाप्रवृत्तेः कृतीत्यस्य वैर्यथ्यात् । प्रकृतिप्रत्ययोभ्यलक्षणस्यापि इण्निषेधस्य क्रादिनियमः इत्यत्र ज्ञापकं तु "कृसृभृवृ' (सू.7-2-13) इति सूत्रे वृ इति सामान्येन वृङ्वृञोरुभयोर्ग्रहणम् । तयोर्ग्रहणस्य प्रयोजनं हि ववृमहे इत्यादाविण्मा भूदिति । यदि च क्रादिनियमः प्रकृत्याश्रयमेव प्रतिषेधं बाधेत न प्रत्ययाश्रयं तदा "नेड्ड्डत्ध्;वशि कृति' (सू.7-2-8) "र्श्युकः किति' (सू.7-2-11) इति सूत्राभ्यामेव इट्प्रतिषेधस्य सिद्धत्वात् नार्थो वृग्रहणेन । तत्क्रियमाणं प्रत्ययाश्रयस्यापि प्रतिषेधस्य निवृत्तिं ज्ञापयति । तथा च वृग्रहणाभावे क्रादिभिन्नत्वेन वृङ्वृञोः, ततः प्रत्ययाश्रयः "नेङ्वशि' इतीण्निषेधोऽपि क्रादिभ्य एवेण्निषेध इति नियमेन व्यावर्तितः स्यात् । ततश्च ववृमहे इत्यादौ इण्निषेधो न सिध्येत् । तत्रापीण्निषेधस्य सिद्धये क्रादिसूत्रे वृग्रहणमर्थवद्भवति । ततश्च क्रादिनियमादेव बिभिदिवेत्यादाविण्निषेधो न भविष्यतीति तत्रेण्निषेधाप्रवृत्तिफलकत्वं "नेड्ड्डत्ध्;वशि कृति' इति सूत्रे कृद्ग्रहणस्य न युज्यत इति स्थितम् । सर्वमेतन्मनसि कुर्वन्नाह---कृसृभृ इति सूत्र इति । झ्र्ज्ञा.ट घुषिरविशब्दने (सू.7-2-23)।। विशब्दने चुरादिणिचा सिद्धे अविशब्दन इत्युक्तिर्घुषेर्विभाषा णिचो ज्ञापिका । तेन जुघुषुः (पुष्यमाणा वा) झ्र्पुष्यमाणवाःट इति सिद्धम् । झ्र्वि.ट ननु "घुषिरविशब्दने' इति सूत्रे अविशब्दन इति मास्तु । घुषिर्हि अविशब्दनार्थकः ब्वादौ पठ्यते । चुरादौ च घुषिर्विशब्दने इति पठ्यते । स च णिजन्तः । सूत्रे च घुषिरिति निर्देशात् भौवादिकस्याविशब्दनार्थकस्यैव ग्रहणं न चुरादेः । तदा हि "घोषिः' इति निर्देष्टव्यं स्यात् । एवं च घुषिरिति निर्देशबलादेव विशब्दनार्थकचुरादिघुषधातुव्यावृत्तिपूर्वकं अविशब्दनार्थकस्य भौवादिकघुषधातोरेव ग्रहणं भविष्यतीति अविशब्दन इति व्यर्थ इत्याशङ्क्याह--विशब्दन इत्यादिना । सिद्ध इति । अविशब्दने इत्यस्मिन्नंशे सिद्ध इत्यर्थः ।तथा च अविशब्दन इत्येतत् व्यर्थं सत् घुषेश्चौरादिकस्य विकल्पेन णिच् भवतीति ज्ञापयति । णिजभावपक्षे च घुशिरिति इगन्तेन विशब्दनार्थकस्य चौरादिकस्यापि ग्रहणं प्रयोजनं तु विशब्दनार्थकचौरादिकधातोः णिज्रहिततया "जुघुषुः' इति प्रामाणिकप्रयोगः उपपन्नो भवतीति । भाष्ये--- "महीपालवचः श्रुत्वा जुघुषुः पुष्यमाणवाः' इति वाक्यं प्रमाणतया उद्धृतम् । स्वाभिप्रायस्य शब्देन प्रकटीकरणं विशब्दनम् । तथा च अविशब्दनार्थे इण्निषेधः घुष्टा रज्जुरिति । विशब्देन तु इट् घुषितं वाक्यमिति । झ्र्ज्ञा.ट प्रत्ययोत्तर (सू.7-2-97)।। इदमेव ज्ञापयति अत्र मपर्यन्तानुवृत्तिर्वा ज्ञापयति अन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधत इति । झ्र्वि.ट परिभाषेयम् । झ्र्ज्ञा.ट मृजेर्वृद्धिः (सू.7-2-114)।। भ्रौणहत्ये तत्वनिपातनं धातोः कार्यमुच्यमानं तत्प्रत्यये भवतीत्यस्यार्थस्य ज्ञापकम् । झ्र्वि.ट इयमपि परिभाषा । झ्र्ज्ञा.ट स्वादेरिञि (सू.7-3-8)।। प्रतिषेधे श्वादिग्रहणं ज्ञापकं अन्यत्र श्वन्ग्रहणे तदादिग्रहणस्य । शौवहानं नाम नगरम्, शौवादंष्ट्रो मणिरित्यर्थम् । झ्र्वि.ट ठश्वादेरिञि' इति सूत्रस्य यस्य श्वशब्दः आदिः तस्मात् इञि परे "द्वारादीनां च' (सू.7-3-4) इति सूत्रविहितः ऐच न भवतीत्यर्थः । श्वभस्त्रस्यापत्यं श्वाबस्त्रिः इत्युदाहरणम् ।
ननु "द्वारादीनां च' इति सूत्रेण द्वारादिगणपठितानां शब्दानामादेरचो वृद्धिर्न भवति, परं तु य्वाभ्यां पूर्वमैजागमो भवतीति विधीयते । द्वारादिगणे च श्चन्शब्दः पठ्यते । तथा च श्चन्शब्दस्यावयवात् वकारात् पूर्वमैजागमस्य तेन प्राप्तावपि श्वभस्त्रशब्दावयवविषये एजागमो न तेन प्राप्नोति तथा च प्राप्त्यभावात् प्रतिषेधोऽनर्थक इत्याशङ्क्याह--प्रतिषेधे श्वादिग्रहणमिति । उक्तरीत्या व्यर्थं सत् श्वादिसूत्रं श्वन्ग्रहणेन श्वन्शब्दाद्यवयवकस्य शब्दस्यापि ग्रहणमिति ज्ञापयति । ततश्च श्वभस्त्रशबप्दस्यापि श्वन्ग्रहणेन ग्रहणात् "द्वारादीनां च' इति सूत्रेण ऐजागमे प्राप्ते तन्निषेधार्थं "श्वादेरिञि' इति सूत्रम् । ज्ञापनफलं तु--शौवहानम् शौवादंष्ट्र इत्यादावैजागमसिद्धिः । तथा हि-जिहतेऽस्मिन्नित्यर्थे "ओ हाङ् गतौ' इति धातोः अधिकरणे ल्युट् हानम् । शुनां हानं श्वहानम् । श्वहानमस्मिन्नस्तीत्यर्थे "तदस्मिन्नस्तीति देशे तन्नाम्नि (सू.4-2-67) इति सूत्रेणाण् । "द्वारादीनां च' सूत्रेण वृद्धिनिषेधः ऐजागमश्च । शौवहानमिति रूपम् । एवं शुनो दंष्ट्रा श्वादंष्ट्रा । "शुनो दन्तदंष्ट्रा ' (वा.6-3-130) इति वार्तिकेन दीर्घः । तत्र भव इत्यण् । द्वारादीनां चेति वृद्धिनिषेधः ऐजागमश्च । शौवादंष्ट्र इति रूपम् । अत्रौभयत्रापि श्वन्शब्देन तदादेर्ग्रहणे सत्येव तत्सूत्रं प्रवर्तेतेति तदादिग्रहणफलमवसेयमिति भावः । झ्र्ज्ञा.ट ठप्राचां ग्रामनगराणाम्' (सू.7-3-14) प्राचां ग्रामाणामित्येव सिद्धे नगरग्रहणं ज्ञापयति ग्रामग्रहणे नगरग्रहणं नेति । तत्तु--"उदीच्यग्रामात्' (सू.4-2-109) "वाहीकग्रामेभ्यश्च' (4-2-117) "दिक्शब्दा ग्राम' (सू.6-2-103)--इति स्थलत्रये नगरग्रहणकर्तव्यतापच्या भाष्ये दूषितम् । "विशिष्टलिङ्ग' (सू.2-4-7) इत्यत्र तु नगरप्रतिषेधोऽवक्तव्य एवेति भाष्ये स्पष्टम् । झ्र्वि.ट ननु जनसमूहनिवासवाचिनौ ग्रामनगरशब्दौ । तत्र ग्रामशब्देनैव जनसमूहनिवासत्वाविशेषात् नगरस्यापि ग्रहणे सिद्धे "प्राचां ग्रामनगराणाम्' इति सूत्रे नगरपदोपादानं व्यर्थमित्याशढद्धठ्ठड़14;क्य, अत एवात्र व्याकरणे ग्रामपदेन नगरग्रहणं नेति ज्ञापयतीत्याह--प्राचां ग्रामाणामित्येवेति । परं त्वेवं ज्ञापंन "उदीच्यग्रामात्' इत्यादिसूत्रत्रये ग्रामशब्देन नगरग्रहणस्यापीष्टत्वात् तन्न घटेतेति भाष्ये दूषितमित्याह--तत्तु इति । ननु ग्रामग्रहणेन नगरस्यापि ग्रहणमिष्टं चेत् "विशिष्टलिङ्गो नदीदेशोऽग्रामाः' (सू.2-4-7) इति सूत्रे ग्रामप्रतिषेधेनैव नगरप्रतिषेधस्यापि लाभात् वार्तिककारेण यदुक्तं नगरस्यापि प्रतिषेधो वक्तव्य इति तदानवश्यकमित्याशङ्क्योष्टापत्त्या परिहरति--विशिष्टलिङ्ग इत्यत्र तु इति । तथा च तत्र सूत्रे नगरप्रतिषेधो न वक्तव्य एवेत्यर्थः । झ्र्ज्ञा.ट ठसंख्यायास्सं' (सू.7-3-15)।। परिमाणान्तस्यासंज्ञेति सिद्धे संवत्सरग्रहणं ज्ञापयति परिमाणग्रहणेन कालग्रहणं नेति । तेन द्विवर्षेत्यादौ"अपरिमाण' इति पर्युदासो न । झ्र्वि.ट नन् "संख्यायाः संवत्सरसंख्यस्य च' (सू.7-3-15) इति सूत्रेण संख्यावाचकशब्दात् परस्य संवत्सरशब्दस्य संख्यावाचकशब्दस्य चोत्तरपदवृद्धिर्विधीयते ञिदादौ तद्धिते परे । द्विसांवत्सरिकः द्विषाष्टिक इत्यादिकं उदाहरणम् । तत्र संवत्सरग्रहणं मास्तु, तदभावेऽपि संवत्सरशब्दस्य कालरूपपरिमाणवाचकस्य "परिमाणान्तस्यासंज्ञाशाणयोः' (सू 7-3-17) इति सूत्रेणैवोत्तरपदवृद्धेः सिद्धेः । कालोऽपि हि क्रियापरिच्छेदहेतुत्वात्परिमाणमित्याशढद्धठ्ठड़14;क्य, अत एव परिमाणग्रहणेन कालरूपपरिमाणग्रहणं नेति ज्ञापयतीत्याह-- परिमाणान्तस्यासंज्ञेति सिद्ध इति । तथा च "परिमाणान्तस्य' इति सूत्रे परिमाणशब्देन संवत्सररूपकालपरिमाणस्य ग्रहणासम्भवात् द्विसांवत्सरिक इत्यादौ तेन सूत्रेणोत्तरपदवृद्धेरप्राप्तौ तत्प्रापणार्थं "संख्यायास्संवत्सर' इति सूत्रे
संवत्सरग्रहणमिति स्वांशे चारितार्थ्यम् । अन्यत्र प्रयोजनं तु द्विवर्षा इत्यादौ द्वे वर्षे भृता इत्यर्थे "तमधीष्ट' (सू.5-1-80) इति ठञि तस्य "वर्षाल्लुक् च' (सू.5-1-88) इति लुकि "द्विगोः' (सू.4-1-21) इति ङीप् प्राप्तः, स च "अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि' (सू. 4-1-22) इति सूत्रेण प्रतिषिध्यते । यदि कालोऽपि परिमाणं स्यात् तदा द्विवर्षशब्दस्य परिमाणान्तत्वेन अपरिमाणेति पर्युदासात् ङीप्प्रतिषेधो न भवेत् । कालस्यापरिमाणत्वेनैव ङीपः प्रतिषेधो भवतीति । तदेतदाह--तेन द्विवर्षेत्यादाविति । झ्र्ज्ञा.ट ठप्रत्ययस्थात्' (सू.7-3-44)।। "न यासयोः' (सू.7-3-45) इति प्रतिषेधात् ज्ञापकात् व्यवधानेऽप्येतिकास्वित्यादौ प्रवृत्तिः । झ्र्वि.ट नन्वेतच्छब्दस्य स्त्रियां अकचि जसि त्यदाद्यत्वे टापि इत्वे च एतिका इति रूपमिष्यते । तत्राकारेण व्यवधानात् ककारस्य टाप्परकत्वं नास्तीति "प्रत्ययस्थात्कात्पूर्वस्य' इति इत्वं न प्राप्नोति इत्याशङ्क्याह--न यासयोरिति प्रतिषेधादिति । यका सका इत्यादौ इत्वाप्रतिषेधार्थं "न यासयोः' (सू.7-3-45) इति सूत्रमारभ्यते । तत्रापि यच्छब्दस्य तच्छब्दस्य च अकचि त्यदाद्यत्वे टापि ककारस्याकारेण व्यवधानात् टाप्परकत्वाभावादेव इकारस्याप्राप्तेः तत्प्रतिषेधोऽनर्थकः स्यात् । अतो ज्ञापयति अकारव्यवधानेऽपि इत्वं भवतीत इत्याशयः । अत्र कादिति वर्णमात्रस्य ग्रहणमिति पक्षे एतिका हारिका इति स्थलद्वयेऽपि येन नाव्यवधानन्यायेनाकारव्यवधानेऽपीत्वासिद्धिः । संघातग्रहणमिति पक्षे हारिकेत्यादावकारेण व्यवधानमेव नास्ति । एतिकेत्यत्र तु संघातककाराभावादित्वस्य प्राप्तिरेव नेति "न यासयोः' (सू.7-3-45) इति ज्ञापकेन एवंजातीयकानामित्वं साधितं भाष्ये । एवंजातीयकानामित्येतत् अकज्वतामिति व्याख्यातं च कैयटेन । एवं स्थिते ज्ञापकात् व्यवधानेऽपीत्युक्तिश्चिन्त्या इति पार्थसारथिभट्टाचार्याः । झ्र्ज्ञ.ट ठहेरचङि' (सू.7-3-56)।। अचङीति प्रतिषेधो ज्ञापयति अन्यत्र ण्यधिकस्य कुत्वं भवतीति । तेन प्रजिघाययिषतीति । झ्र्वि.ट ननु "हेरचङि' इति सूत्रस्यायमर्थः अभ्यासात्परस्य हिनोतेः हस्य कुत्वं स्यान्न तु चङीति । "जिघाय' इत्यादिकमुदाहरणम् । तत्र अचङीति अजीहयत् इत्यत्र हकारस्य कुत्ववारणार्थमुपात्तम् । तध्द्यर्थम् । तथा हि यस्मिन् प्रत्यये निमित्ते अढद्धठ्ठड़14;गसंज्ञा तन्निमित्तको योऽभ्यासः तन्निमित्तकद्वयोः पूर्व इति यावत् । ततः परस्य हस्य कुत्वमिति सूत्रं व्याख्यायते । णौ हिनोतिरङ्गं, चङि अभ्यास इति अङ्गत्वाब्यासत्वयोः समाननिमित्तकत्वाभावात् प्राजीहयदित्यत्र कुत्वं न भविष्यति । तथा च अचङीत्येतत् ण्यन्तस्यापि कुत्वं भवतीति ज्ञापयति । अङ्गत्वस्य णिच् निमित्तम् अभ्यासस्य चङ् निमित्तमिति निमित्तभेदे सत्यापि कुत्वं भवतीति यावत् । तथा च प्राजीहयदित्यत्रापि कुत्वे प्राप्ते तद्वारणाय अचङीत्युक्तम् । तेन चङोऽन्यस्मिन् द्वित्वनिमित्ते परे ण्यन्तस्य कुत्वमभ्यनुज्ञायते । तस्य फलं तुप्रजिघाययिषति इत्यत्र णिजन्ताद्धिनोतेः सनि कुत्वसिद्धिरिति । "प्रकृतिग्रहणे ण्यघिकस्यापि ग्रहणम्' इति परिभाषारूपेणेयं परिभाषेन्दुशेखरे पठिता । झ्र्ज्ञादृट ठज्ञाजनोर्ज्ञा' (सू 7-3-79) दीर्घोच्चारणं ज्ञापयत्यङ्गवृत्तपरिभाषाम् । "णौ चङ्यु' (सू.7-4-1) ओणेर्ऋदित्करणात् ज्ञापकात् द्विर्वचनाद्ध्रस्वत्वं बलीय इति । "नाग्लोपि' (सू.7-4-2) इति सूत्रे अगिति प्रत्याहारग्रहणात् ज्ञापकात् वृद्धेर्लोपो बलीयान् । तस्माण्णेर्णिच्युपसंख्यानं कार्यम् । झ्र्वि.ट ननु मा भवानटिटत् इत्यत्र अटधातोर्ण्यन्तात् लुङि चङि अट् इ अत् इति स्थिते उपधावृद्धौ आट् इ अत् इति जाते "णौ चङ्युपधाया ह्रस्वः' इति सूत्रेण आकारस्य ह्रस्वे अटि अत् इति जाते "अदादेर्द्वितीयस्य
(सू.6-1-2) इति टिशब्दस्य द्वित्वे अटि टि अत् स्थितेणिलोपे अटिटत् इति रूपमिष्यते । तन्न सिध्यति । आटि अत् इत्यस्यामवस्थायां परमप्युपधाह्रस्वं बाधित्वा नित्यत्वात् टिशब्दस्य द्वित्वे आटिटि अत् इत्यत्र प्रथमस्य णिचः परेण णिचा व्यवधानेन चङ्परकत्वाभावात् उपधाह्रस्वत्वाप्रवृत्तेः आटिटत् इत्येव रूपप्राप्तेरित्याशङ्क्याह--ओणेर्ऋदित्करणादिति । ओणेर्ऋदित्करणात् द्विर्वचनात् ह्रस्वत्वं बलीय इति ज्ञाप्यते । तथा च ह्रस्वत्वस्य बलवत्तरत्वात् आदावुपधाह्रस्वत्वे कृते तदनन्तरं द्वित्वे च अटिटत् इत्येव रूपमिति भावः । ओणृघातोः णिजन्ताल्लुङि चङि ओणि अत् इति स्थिते उपधाया ओकारस्य "णौ चङ्युपधाया ह्रस्वः' (सू.7-4-1) इत्ति ह्रस्वे प्राप्ते तस्य "नाग्लोपिशास्वृदिताम्' (सू.7-4-2) इति सूत्रेण ह्रस्वत्वनिषेधार्थं ओणृ इति धातुः ऋदित्कृतः । यदि च नित्यत्वात् आदौ द्विर्वचनं भवेत् तदा णिशब्दस्य द्वित्वे ओणिणि अत् इति स्थिते प्रथमस्य णिचः द्वितीयेन व्यवधानात् चङूपरकत्वाभावादेव "णौ चङि' इति ह्रस्वो न भविष्यतीति किमृदित्करणेन । कृतं च तत् द्विर्ववनाद्ध्रस्वत्वं बलीय इति ज्ञापयति । तथा च ह्रस्वे कृते ततो द्वित्वे च मा भवानुणिणत् इत्येव भवेत् मा भवानोणिणत् इति चेष्यते । तदर्थं ओणेर्ऋदत्किरणम् । तेन "नाग्लोपि' इति ह्रस्वनिषेघात् इष्टरूपसिद्धिरिति स्वांशे चारितार्थ्यम् । अन्यत्र प्रयोजनं तु मा भवानटिटत् इति पूर्वोक्तम् इति भावः । "णौ चङि' इति सूत्रे "उपधाह्रस्वे णोर्णिच्युपसंख्यानं' इति वार्तिकम् । णिजन्ताण्णिचि ततो लुङि चडिड्डत्ध्; च उपधाह्रस्वत्वं भवतीति वक्तव्यमिति तदर्थः । वादितवन्तं प्रयोजितवानवीवदद्वीणां देवदत्तेन इति चोदाहरणं भाष्ये प्रदर्शितम् । वदेर्णिजन्तात् वादि इत्यस्मात् णिचि लुङि चङि अडड्डत्ध्;ागमे अवाद् इ इ अत् इत्यत्र प्रथमस्य णिचः द्वितीयेन णिचा व्यवधानात् चङ्परकत्वं नास्तीति उपधाह्रस्वत्वमप्राप्तं वार्तिककारेण विधीयते । नन्वत्र द्वितीयस्य णिचः "णेरनिटि' (सू.6-4-51) इति लोपे कृते व्यवधानाभावात् सूत्रेणैव ह्रस्वत्वं सेत्स्यति । न च णेर्लोपेऽपि तस्य स्थानिबद्भावात् व्यवधानमस्त्येवेति वाच्यम् । चङ्परनिर्ह्रासे "क्विलुगुपधात्वचङ्परनिर्ह्रसकुत्वेषु' (वा.1-1-58) इति स्थानिवद्भावप्रतिषेधात् । न चैवमपि प्रथमस्यापि णिचोऽत्र लोपात् तस्य च इकारस्य अक्त्वेन तल्लोपानन्तरमङ्गमग्लोपि भवतीति "नाग्लोपिशास्वृदिताम्' (सू.7-4-2) इति निषेधे प्राप्ते प्रतिप्रसवरूपेण वार्तिकेन ह्रस्वत्वं विधीयत इति वाच्यम् । लोपापेक्षया परत्वात् णिचःवृद्धौ ऐकारे कृते तस्य लोपः, ऐकारश्च नाक् । तस्मात् तल्लोपवदढद्धठ्ठड़14;गं नाग्लोपि भवतीति "नाग्लोपि' इति निषेधाप्रवृत्या णौ चङीति सूत्रेणैव ह्रस्वसिद्धौ वार्तिकारम्भो व्यर्थ इत्यत आह--नाग्लोपीति सूत्र इति । अयमत्राभिप्रायः--वृद्धेर्लोपो बलीयानिति ज्ञाप्यते । तत्र च नाग्लोपीति सूत्रमेव ज्ञापकम् । मालामाख्यत् अममालत् इत्यत्र आकाररूपटेर्लोपात् अग्लोपित्वामस्तीति "नाग्लोपि' इति सूत्रेणोपधाह्रस्वत्वनिषेध इष्यते । तत्र अलोपिनां नेत्यनेनैव निषेधलाभे अग्लोपिनां नेति प्रत्याहारग्रहणम् चाटुमाख्यात् अचचाटत् इत्यादौ उकारलोपयुक्ताङ्गस्यापि उपधाह्रस्वप्रतिषेधार्थमिति वक्तव्यम् । तत्र णिचं निमित्तिकृत्य उकारस्य वृद्धौ कृतायां अनन्तरं टिलोपे औकारलोपित्वमेवास्ति, नाग्लोपित्वमस्तीति प्रत्याहारग्रहणेऽपीष्टासिद्ध्या प्रत्याहारग्रहणमनर्थकं स्यात् । कृतं च प्रत्याहारग्रहणं वृद्धेर्लोपो बलीयानिति ज्ञापयति । ततश्च अवीवददित्यादौ णिलोपे अग्लोपित्वात् निषेधे प्राप्ते तद्बाधनाय उपधाह्रस्वत्वे णेर्णिच्युपसंख्यानं कर्तव्यमेवेति । तदाह --तस्माण्णेर्णिचीति । झ्र्ज्ञा.ट ठनाग्लोपि' (सू.7-4-2)।। अग्लोपे
स्थानिवद्बावेनैव सिद्धे अग्लोपिग्रहणम् अग्वतां लोपोऽप्यग्लोपिशब्देन गृह्यत इत्येवमर्थम् । इत उत्तरं स्थानिवत्त्वाभावज्ञापकमग्लोपिग्रहणम् इति भाष्यं त्वेकदेश्युक्तिः । झ्र्विट ननु "नाग्लोपिशास्वृदिताम्' इति सूत्रस्य णिचि अग्लोपिनः शास्तेर्ऋदितां चोपधाया ह्रस्वो न स्याच्चङ्परे णौ परत इत्यर्थः । तत्राग्लोपिन उदाहरणम् "अममालत्' इति । मालामाख्यदित्यर्थे मालाशब्दात् "तत्करोति तदाचष्टे' इति णिचि लुङि अटि चङि च अ माला इ अत् इति स्थिते "णाविष्ठवत्' इति टेराकारस्य लोपे माशब्दस्य द्वित्वादौ च अ ममाल् इ अत् इत्यवस्थायाम् उपधाह्रस्वो निषिध्यते आकाररूपाग्लोपवत्त्वादङ्गस्य । अत्र टिलोपस्य "अचः परस्मिन्' (सू.1-1-57) इति स्थानिवद्भावेन मकारोत्तराकारस्योपधात्वाभावादेव "णौ चङ्युपधायाः' (सू.7-4-1) इति ह्रस्वस्याप्राप्तेः नाग्लोपीति प्रतिषेधोऽनर्थक इत्यत आह--अग्लोप इति । अग्वतः समुदायस्य लोपोऽप्यग्लोपग्रहणेन गृह्यत इत्येतदर्थमग्लोपिग्रहणम् । तेन "अत्यरराजत्' इत्यत्र राजानमतिक्रान्तवानित्यर्थे' इति णिचि लुङि चङि च "अन्' इति टेर्लेपे अरराज् अत् इत्यत्रोपगाह्रस्वनिषेधः सिध्यति । अन इति समुदायो हि नाक्, अतस्तल्लोपो यथाश्रुते अग्लोपशब्देन न गृह्येत । अग्वतो लोपोऽप्यग्लोपशब्देन गृह्यत इत्युक्ते तु अन् इति समुदायस्य अकाररूपाग्वत्त्वात् तल्लोपयुक्तमङ्गमग्लोपि भवतीति "नाग्लोपि' इति उपधाह्रस्वनिषेधः सद्धः । तथा च अममालत् इत्यादौ स्थानिवद्भावेन निर्वाहेऽपि "अत्यरराजत्' इत्यत्र अज्झल्समुदायादेशस्य लोपस्याजादेशत्वाभावेन स्थनिवत्त्वाप्रवृत्तेः उपधाह्रस्वनिषेधलाभार्थमग्लोपिग्रहणं कृतम् । तच्च अग्वतां लोपोऽप्यग्लोपग्रहणेन गृह्यत इति स्वीकृत एव सार्थकमिति भावः । तदेतत् अभिप्रेत्योक्तं कैयटे--- "अग्लोपग्रहणसार्मथ्याच्च समुदायलोपोऽप्यग्लोप आश्रीयते, केवलाग्लोपे प्रदिषेघानर्थक्यात्' इति । "एवं तर्हि सिद्धे सति यदग्लोपिनां नेति प्रतिषेधं शास्ति तज्ज्ञापयत्याचार्यः इत उत्तरं स्थानिवद्भावो न भवतीति ।' इति नाग्लोपीति प्रतिषेधस्यार्थान्तरज्ञापकत्वमुक्तम् । तत्तु "अचः परस्मिन्' इति सूत्रे हलचोरादेशो न स्थानिवदिति भाष्ये निर्णीतत्वेन तत एव गतार्थमित्येकदेश्युक्तिरित्याह--इत उत्तरमित्यादिना । स्पष्टं चैतत्कैयटोद्योतयोः । झ्र्ज्ञादृट रीङृतः (सू.7-4-27) रीङो दीर्घोच्चारणम् अङ्गवृत्तपरिभाषाज्ञापकम् । अर्तिपिर्पत्योश्च (सू.7-4-77)।। "बहुलं छन्दसि' इत्येव सिद्धे अर्तिग्रहणमियर्तेर्भाषायां साधुत्वज्ञापकम् । झ्र्वि.ट ननु ऋधातोः पॄधातोश्च जुहोत्यादिपठितयोरभ्यासस्य इकारादेशो विधीयते "अर्तिपिर्पत्योश्च' इति सूत्रेण । तत्र ऋधातोः धान्दसत्वात् "बहुलं छन्दसि' (सू.7-4-78) इत्यनेनैव अभ्यासस्येकारः स्याच्छन्दसीत्यर्थकेन इकारादेशसिद्धेः अर्तिग्रहणं व्यर्थमित्याशङ्क्य ऋधातोर्भाषायामपि प्रयोगस्य साधुत्वज्ञापनार्थं तदित्याह--इत्येव सिद्ध इति । झ्र्ज्ञा.ट गुणो यङ् (सू. 7-4-82)।। "दीर्घोऽकितः' (सू.7-4-83) इत्यकिद्ग्रहणं ज्ञापयति अब्यासविकारेषु बाधका न बाधन्त इति । झ्र्वि.ट परिभाषेयम् । झ्र्ज्ञा.ट दीर्घोऽकितः (सू.7-4-83) ह्रस्वत्वात्वेत्वगुणेषु अब्यासस्येति अच्ऋकाराकारेकारविशेषणम् । झ्र्वि.ट ननु "दीर्घोऽकितः' इति सूत्रे "अकितः' इति व्यर्थम् । न च तदभावे यंयम्यते रंरम्यत इत्यादौ यम् रम् इति धात्वोः यङि धात्वोर्द्वित्वे हलादिशेषे "नुगतोऽनुनासिकान्तस्य' (सू.7-4-85) इत्यब्यासस्य नुकि तस्यानुस्वारे च यंयम्यते रंरम्यत इति रूपे । तत्राभ्यासस्य दीर्घवारणाय अकिंत इत्युक्तम् । नुकि सति किदन्तत्वादभ्यासस्याकिदन्तत्वं नास्तीति न दोषः । तथा च
सार्थकमकिद्ग्रहणमिति वाच्यम् । दीर्घश्रुत्या "अचः' (1-2-28) इति परिभाषाया उपस्थितेः अच इत्यस्य चाभ्यासविशेषणत्वात् अजन्तस्याब्यासस्य दीर्घ इति सूत्रार्थः । नुकि कृते च नकारान्तोऽभ्यासो नाजन्त इत्येव दीर्घाप्रसक्तेरकिद्ग्रहणवैर्यथ्यात् । एवं छोधातोः "आदेच उपदेशे' (सू.6-1-45) इत्यात्वे लिटि छाशब्दस्य द्वित्वेऽन्तरङ्गत्वात् तुकि (सू.6-1-75) छात् छा अतु रित्यत्र "ह्रस्व' (सू.4-4-59) इति सूत्रेणाभ्यासस्य ह्रस्वो वक्तव्यः। तत्रापि ह्रस्वश्रुत्या "अच' हत्युपस्थितेः तस्य चाभ्यासविशेषणत्वात् अजन्ताभ्यासस्य ह्रस्व इति तत्सूत्रार्थः । तुकि कृते चाब्यासस्याजन्तत्वाभावेन ह्रस्वो न सिध्यति । ततश्च चच्छदतुः इति रूपं न प्राप्नोति । एवं चच्छृदत्तः इत्यत्र छृदधातोर्द्विवचने हलादिशेषे च "छे च' (सू.6-1-73) इति तुकि "उरत्' इति सूत्रेण ऋकारस्यात्वं न स्यात् । उरित्यस्याब्यासविशेषणत्वेन ऋवर्णान्तभ्यासस्यात्वविधानात् तुकि कृते अभ्यासस्य ऋवर्णान्तत्वाभावात् । तथा "चिच्छादयिषति' इत्यत्र छदधातोर्णिजन्तात् सनि धातोर्द्वित्वे हलादिशेषे च अ छादयिषति इति स्थिते "छे च' इति तुकि "सन्यतः' (सू.7-4-79) इतीत्वं न प्राप्नोति, अब्यासस्यादन्तत्वाभावात् । तथा "चेच्छिद्यते' इत्यत्र छिदधातोर्यङि द्वित्वे हलादिशेषे र्चत्वे चि अ छिद्यते इति स्थिते "छे च' इति तुकि "गुणो यङ्लुकोः' (सू.7-4-82) इति गुणो न स्यात् । गुणश्रुत्या "इकः' (सू.1-1-3) इत्युपस्थितेः तस्य चाभ्यासविशेषणत्वेन इगन्ताभ्यासस्यैव गुणविधानेनकृते।भ्यासस्येगन्तत्वाभावादित्याशङ्क्याह---ह्रस्वत्वेत्यादि । अयमाशयः--प्रदर्शितेषु सूत्रेषु विशेष्यविशेषणभावे कामचारात् "अचः' इत्यादिकं नाभ्यासविशेषणम् । अपि तु अब्यासस्येत्येतदेव अच इत्यादेर्विशेषणम् । तेन अभ्यासस्य योऽच् तस्य दीर्घः अभ्यासस्य य ऋकारस्तस्य अत्वम्, अब्यासस्य योऽकारस्तस्य इकारोदेशः, अब्यासस्य य इक् तस्य गुम इति प्रदर्शितानां सूत्राणामर्थ इति यथायथं ह्रस्वादयः सिध्यन्ति । एवं च यंयम्यत इत्यत्रापि नुकि कृतेऽपि अभ्यासावयवाचः दीर्घप्राप्तौ तन्निषेधार्थम् अकित इत्युक्तमिति । इति सप्तमोऽध्यायः