जैमिनीयन्यायमालाविस्तरः

विकिस्रोतः तः
जैमिनीयन्यायमालाविस्तरः
माधवः



माधवप्रणीतः जैमिनीयन्यायमालाविस्तरः ।


वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्  ॥ १.०.१ ॥

युक्तिं मानवतीं विदन्स्थिरधृतिर्भेदे विशेषार्थभागाप्तोहः क्रमकृत्प्रयुक्तिनिपुणः श्लाध्यातिदेशोन्नतिः ।
नित्यस्फूर्त्यधिकारवान्गतसदाबाधः स्वतन्त्रेश्वरो जागर्ति श्रुतिमत्प्रसङ्गचरितः श्री बुक्कणक्ष्मापतिः  ॥ १.०.२ ॥

यद्ब्रह्म प्रतिपाद्यते प्रगुणयत्तत्पञ्चमूर्तिप्रथां तत्रायं स्थितिमूर्तिमाकलयति श्री बुक्कणक्ष्मापतिः ।
विद्यातीर्थमुनिस्तदात्मनि लसन्मूर्तिस्त्वनुग्राहिका तेनास्य स्वगुणैरखण्डितरदं सार्वज्ञमुद्द्योतते  ॥ १.०.३ ॥

इन्द्रस्याऽङ्गिरसो नलस्य सुमतिः शैब्यस्य मेधातिथिर्धौम्यो धर्मसुतस्य वैन्यनृपतेः स्वौजा निमेर्गौतमिः ।
प्रत्यग्दृष्टिररुन्धतीसहचरो रामस्य पुण्यात्मनो यद्वत्तस्य विभोरभूत्कुलगुरुर्मन्त्री तथा माधवः  ॥ १.०.४ ॥
स खलु प्राज्ञजीवातुः सर्वशास्त्रविशारदः ।
अकरोज्जैमिनिमते न्यायमालां गरीयसीम्  ॥ १.०.५ ॥
तां प्रशस्य सभामध्ये वीरश्रीबुक्कभूपतिः  ।
कुरु विस्तरयस्यास्त्वमिति माधवमादिशत् ॥ १.०.६ ॥
स भव्याद्भारतीतीर्थयतीन्द्रचतुराननात् ।
कृपामव्याहतां लब्ध्वा परार्ध्यप्रतिमोऽभवत् ॥ १.०.७ ॥
निर्माय माधवाचार्यो विद्वदानन्ददायिनीम् ।
जैमिनीयन्यायमालां व्याचष्टे बालबुद्धये  ॥ १.०.८ ॥


न्यायमालाया आदौ स्वकीयग्रन्थत्वद्योतनाय स्वमुद्रारूपमनेकार्थगर्भे देवतानमस्कारप्रतिपादकं श्लोकं पठति

____________________________________________________

१,१.१


वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम्  ॥ १,१.१ ॥

____________________________________________________
१,१.२


इष्टदेवतां नमस्कृत्य चिकीर्षितार्थपरिपालनाय पालके स्वामिनि विद्यमानं महिमानमनुस्मरति

युक्तिं मानवतीं विदन्स्थिरधृतिर्भेदे विशेषार्थभागाप्तोहः क्रमकृत्प्रयुक्तिनिपुणः श्लाध्यातिदेशोन्नतिः ।
नित्यस्फूर्त्यधिकारवान्गतसदाबाधः स्वतन्त्रेश्वरो जागर्ति श्रुतिमत्प्रसङ्गचरितः श्रीबुक्कणक्ष्मापतिः  ॥ १,१.२ ॥



अत्र चिकीर्षिते धर्मशास्त्रे वर्तमानानां द्वादशानामध्यायानां ये प्रतिपाद्या अर्थाः, ये च नीतिशास्त्रोक्ता राजधर्माः, ते सर्वेऽप्यस्मिन्भूपतावुपलभ्यन्ते ।
नीतिपक्षे  युक्तिर्योगः संधिः ।
सा च युक्तिर्मानवती ।
मानः सत्कारश्चतुर्षु सामभेददानदण्डेषूपायेषु प्रथम उपायः ।
वैरिणो बुद्धिभेदो द्वितीयः ।
एताभ्यां दानदण्डावप्युपलक्ष्येते ।
एतैश्चतुर्भिरूपायैर्विशेषेणार्थं धनं भजति  प्राप्नोति ।
एतावता शत्रुक्षयः कथितः ।
अवशिष्टेन स्वराज्यप्रतिपालनप्रकारः प्रतिपद्यते  आप्तेष्वमात्यप्रभृतिषु पुरुषेषुऽअयमीदृशस्य व्यापारस्य योग्यो नान्यस्यऽ इत्येवमूहापोहकुशलः ।
ऽराजसभायामेते
तपस्विनः पूज्या विप्रा दक्षिणभाग उपवेशनीयाः, एते च भृत्या वामभागेऽ इति क्रमं करोति तत्तद्ग्रामेष्वधिकृतान्पुरुषानुचितबुद्धिप्रदानेन प्रयोक्तुं निपुणः ।
समुद्रपर्यन्तत्वेनातिबहलस्य देशस्योन्नतिः समस्तवस्तुसंपत्तिः ।
सा च परराष्ट्रनिवासिभिः सकलप्रणिभिः श्लाघ्यते ।
ऽइदं कर्तव्यम्, इदं नऽ इत्येवं कार्याकार्यविषया स्फूर्तिस्तस्यामधिकारोऽस्य राज्ञो नित्यः सर्वत्राप्रतिहतबुद्धित्वात् ।
गतो निवारितः सतां तपस्विनामाबाधो विघ्नो येनासौ गतसदाबाधः ।
देशान्तराधिपतीनां राज्ञामेतदधीनत्वेनापरप्रेष्यत्वादयं स्वतन्त्रः ।
जगदीश्वरस्य विद्यातीर्थमुनेर्भोगमूर्तित्वेनायमीश्वरः ।
यस्य सभायां गोष्ठीरूपः प्रसङ्गो वेदार्थविषयत्वेन श्रुतिमान् ।
यदीयं चरितमपि निरन्तरं वेदोक्तरहस्यार्थन्ध्यानरूपत्वेन श्रुतिमद्भवति सोऽयं श्रुतिमत्प्रसङ्ग्चरितः ।
एवंविधो बुक्कभूपतिरन्तः परमेश्वरध्याने, बहिः प्रजापालने च नित्यं जागर्ति ।
यथा नीतिशास्त्रोक्तेषु सामभेदादिष्वयं कुशलस्तथा सर्वज्ञावतारत्वाद्धर्मशास्त्रोक्तेषु प्रमाणादिप्रसङ्गान्तेष्वध्यायार्थेषु कुशलः ।
ते चाध्यायार्था उपरिष्टात्प्रदर्श्यन्ते  ॥ १,१.२ ॥

____________________________________________________

१,१.३


राज्ञः सर्वज्ञत्वं सोपपत्तिकं प्रकटयति

यद्ब्रह्म प्रतिपाद्यते प्रगुणयत्तत्पञ्चमूर्तिप्रथां तत्रायं स्थितिमूर्तिमाकलयति श्री बुक्कणक्ष्मापतिः ।
विद्यातीर्थमुनिस्तदात्मनि लसन्मूर्तिस्त्वनुग्राहिका तेनास्य स्वगुणैरखण्डितपदं सार्व मुद्द्योतते  ॥ १,१.३ ॥



सर्वासूपनिषत्सु प्रतीयमानं यत्परं ब्रह्म तदेव शैवागमेषु सृष्टिस्थितिसंहारनिरोधनानुग्रहलक्षणपञ्चकृत्य सिद्ध्यर्थमीशानतत्पुरुषाघोरवामदेवसद्योजातलक्षणानां पञ्चानां मूर्तीनां प्रथां प्रसिद्धिं विस्तारं वा प्रगुणयति प्रकटी करोतीति प्रतिपाद्यते ।
तत्र तासु मूर्तिष्वयं भूपालः स्थितिमूर्तिं धत्ते ।
तस्या मूर्तेरात्मनि लसन्विद्यातीर्थमुनिः कृत्स्नस्य जगतोऽनुग्राहिका मूर्तिरित्युच्यते ।
यस्मादयं भूपो वेदान्तोक्तं परं ब्रह्म, यस्माच्चाऽगमोक्ता महेश्वरस्य स्थितिमूर्तिः, यस्माच्च श्रीविद्यातीर्थमुनिस्तदात्मनि संनिधाय प्रकाशते, तस्मात्सर्वज्ञत्वमस्य राज्ञ उत्कर्षेणाऽविद्व दङ्गनागोपालमविवादेन प्रतिभासते  ॥ १,१.३ ॥

____________________________________________________

१,१.४



उक्तगुणोपेतस्य राज्ञो मन्त्रिणं नानापुराणप्रसिद्धदृष्टान्तैर्हितकारितया प्रशंसति

इन्द्रस्याङ्गिरसो नलस्य सुमतिः शैव्यस्य मेधातिथिर्धौम्यो धर्मसुतस्य वैन्यनृपतेः स्वौजा निमेर्गौतमिः ।
प्रत्यग्दृष्टिररुन्धतीसहचरो रामस्य पुण्यात्मनो यद्वत्तस्य विभोरभूत्कुलगुरुर्मन्त्री तथा माधवः  ॥ १,१.४ ॥

____________________________________________________

१,१.५


चिकीर्षितग्रन्थे श्रद्धातिशयमुत्पादयितुं कर्तृगौरवं प्रकटयति

श्रुतिस्मृतिसदाचारपालको माधवो बुधः ।
स्मार्तं व्याख्याय सर्वार्थं द्विजार्थं श्रौत उद्यतः  ॥ १,१.५ ॥




सर्ववर्णाश्रमानुग्रहाय पुराणसारपाराशरस्मृतिव्याख्यादिना स्मार्तो धर्मः पूर्वेव्याख्यातः ।
इदानीं द्विजानां विशेषानु ग्रहाय श्रौतधर्मव्याख्यानाय प्रवृत्तः  ॥ १,१.५ ॥
____________________________________________________

१,१.६


ग्रन्थमारिप्सुर्गुरुमूर्त्युपाधिकं सकलवेदशास्त्रप्रवर्तकत्वेनात्रोचितेष्टदेवतारूपं परमेश्वरमादौ नमस्कृत्य श्रोतृप्रवृत्तिसिद्ध्यर्थं विषयप्रयोजने दर्शयंस्तं ग्रन्थं प्रतिजानीते

प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् ।
जैमिनीयन्यायमाला श्लोकैः संगृह्यते स्फुटम्  ॥ १,१.६ ॥



जैमिनीप्रोक्तानि धर्मनिर्णायकान्यधिकरणानि न्यायाः ।
तेऽस्य ग्रन्थस्य विषयः ।
पठितुं सुशकैः कतिपयैरेव श्लोकैस्तेषां स्फुटीभावः प्रयोजनम् ।
न्यायमाला संगृह्यत इति ग्रन्थनामनिर्देशपूर्विका प्रतिज्ञा ॥ १,१.६ ॥

____________________________________________________

१,१.७८


करिष्यमाणस्य ग्रन्थस्य प्रकारं दर्शयति

एको विषयसंदेहपूर्वपक्षावभासकः ।
श्लोकोऽपरस्तु सिद्धान्तवादी प्रायेण कथ्यते  ॥ १,१.७ ॥
चत्वारोऽवयवा एकश्लोकेनोक्ताः क्वचित्क्वचित् ।
यत्र क्वापि बहुश्लोकैरुच्यन्तेऽतो न विस्तरः  ॥ १,१.८ ॥



एकैकस्याधिकरणस्य विषयः, संदेहः, संगतिः, पूर्वपक्षः, सिद्धान्तश्चेति पश्चावयवाः ।
तत्र संगतिरनन्तरमेव व्युत्पादयिष्यमाणेन प्रकारेण प्रत्यधिकरणं स्वयमेवोहितुं शक्यते ।
अवशिष्टानां चतुर्णामवयवानां संग्राहकाः क्वचिद्भहवः श्लोकाः, क्वचिदेक इत्यावापोद्वापाभ्यामन्ततः प्रत्यधिकरणं श्लोकद्वित्वे संख्या पर्यवस्यति ।
अतो बहुत्वाद्बिभ्यता ग्रन्थगौरवशङ्का न कर्तव्या  ॥ १,१.७ ॥

____________________________________________________

१,१.९


तमेव ग्रन्थागौवरभावं स्फुटीकुर्वन्रूपकव्याजेन सुबोधत्वं दर्शयति

सर्वथापि सहस्रे द्वे नातिक्रामति संग्रहः ।
मीमांसासागरस्तेन क्रीडापुष्करिणी भवेत् ॥ १,१.९ ॥



श्लोकेन श्लोकाभ्यां श्लोकैर्वा यथासंभवं न्यायः संगृह्यताम् ।
सर्वथापिसहस्रन्यायसंग्रहरूपो ग्रन्थः श्लोकसहस्रद्वयपूर्तेरर्वागेव समांप्स्यते, न तु सहस्रद्वयमत्तिक्रामति ।
भाष्यटीकादीनां बहुत्वाद्दुरवगाहत्वाच्च मीमांसा सागरसभा पूर्वमासीत् ।
क्रियमाणेनानेन ग्रन्थेन दोषद्वयरहितेन राजपुत्राणां बालानां क्रीडार्थं निर्मितया नाभिदघ्न्या पुष्करिण्या समा भविष्यति ।
यद्यपि शास्त्रदीपिकादौ क्वचित्क्वचित्संग्रहश्लोकोऽस्ति, तथापि न सर्वत्र विद्यते ।
यत्रास्ति तत्रापि विषयसंशययोरेसंग्रहान्न श्लोकपाठमात्रेणाधिकरणमुपन्यसितुं शक्यते ।
अतो न क्वापि गतार्थत्वं शङ्कनीयम् ॥ १,१.९ ॥

____________________________________________________

१,१.१०


संगतिं व्युत्पादयति

शास्त्रेऽध्याये तथा पादे न्यायसंगतयस्त्रिधा ।
शास्त्रादिविषये ज्ञाते तत्तत्संगतिरूह्यताम्  ॥ १,१.१० ॥



शास्त्रसंगितः, अध्यायसंगतिः, पादसंगतिश्चेति त्रिधा संगतिः ।
सा च शास्त्रादीनां त्रयाणामसाधरणे विषये ज्ञाते सति स्वयमेप्वोहितुं शक्या  ॥ १,१.१० ॥

____________________________________________________

१,१.१११२


शास्त्रस्याध्यायानां चासाधारणं विषयं दर्शयति

धर्मो द्वादशलक्षण्या व्युत्पाद्यस्तत्र लक्षणैः ।
प्रमाणभेदशेषत्वप्रयुक्तिक्रमसंज्ञकाः  ॥ १,१.११ ॥

अधिकारोऽतिदेशश्च सामान्येन विशेषतः ।
ऊहो बाधश्च तन्त्रं च प्रसङ्गश्चोदिताः क्रमात् ॥ १,१.१२ ॥



लक्षणान्यध्यायाः ।
द्वादशानां लक्षणानां समाहारो द्वादशलक्षणी ।
तादृशस्य द्वादशलक्षणोपेतस्य शास्त्रस्य धर्मो विषयः ।
प्रमाणादयः प्रसङ्गान्ता द्वादश पदार्थाः क्रमाद्द्वादशानामध्यायानां विषयाः ।
प्रथमेऽध्याये  विध्यर्थवादादिरूपं प्रमाणं निरूपितम् ।
द्वितीयेयागदानादि कर्मभेदः ।
तृतीये  प्रयाजादीनां  दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम् ।
चतुर्थे ऽगोदोहनस्य पुरुषार्थत्वप्रयुक्त्यानुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्याऽ इत्येवमादयः ।
पञ्चमे  क्रमनियतिविधेयत्वादयः ।
षष्ठे ऽकर्तुरधिकारो नान्धादेःऽ इत्यादयः ।
सप्तमे "समानषितरच्छयेनेन"इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नानुमितवचनेन च सांमान्यतोऽतिदेशः ।
अष्टमे "सौर्ये चरुं निर्वपेत्"इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेनाऽग्नेयपुरोडाशेतिकर्तव्यतैव, नान्यस्येत्येवमादिर्विशेषतोऽतिदेशः ।
नवमे  प्रकृतौ"अग्नये जुष्टं निर्वपामि"इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेणऽसूर्याय जुष्टं निर्वपामिऽ इत्येवमाद्यूहः ।
दशमे  कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः ।
एकादशे  बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम् ।
द्वादशे  प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाषेऽप्युपकार इत्यादिप्रसङ्गः ॥ १,१.१११२ ॥

____________________________________________________

१,१.१३


पादानामसाधारणं विषयं दर्शयति

विध्यर्थवादस्मृतयो नाम चेति चतुर्विधम् ।
प्रथमाध्यायगैः पादैश्चतुर्भिर्मानमीरितम्  ॥ १,१.१३ ॥


प्रथमे पादे  विधिरूपं मानमीरितम् ।
द्वितीये  अर्थवादरूपम् ।
अर्थवादो मन्त्रस्याप्युपलक्षकः ।
तृतीये  स्मृतिरूपम् ।  स्मृतिराचारमप्युपलक्षयति ।
चतुर्थे  उभ्दिञ्चित्रादिनामरूपम्  ॥ १,१.१३ ॥

____________________________________________________

१,१.१४


उपोद्धातः कर्मभेदमानं तस्यापवादगीः ।
प्रयोगभेद इत्येते द्वितीयाध्यायपादगाः  ॥ १,१.१४ ॥



द्वितीयाध्यायस्य प्रथमे पादे  आख्यातमेवापूर्वबोधकम्, अपूर्वसभ्दावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः ।
द्वितीये  धातुभेदपुनरुक्त्यादिभिः कर्मभेदः ।
तृतीये  रथन्तरादीनां कर्मभेदप्रामाण्यापवादः ।
चतुर्थे  नित्यकाम्ययोः प्रयोगयोर्भेदः  ॥ १,१.१४ ॥

____________________________________________________

१,१.१५


श्रुतिर्लिङ्गं च वाक्यादिविरोधप्रतिपत्तयः ।
अनारभ्योक्तिबह्वर्थस्वाम्यर्था अष्टपादगाः  ॥ १,१.१५ ॥



तृतीयाध्यायस्य प्रथमे पादे  शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता ।
द्वितीये  लिङ्गम् ।
तृतीये  वाक्यप्रकरणादि ।
चतुर्थे  निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसभ्दावः ।
पञ्चमे  प्रतिपत्तिकर्माणि ।
षष्ठे  अनारभ्याधीतानि ।
सप्तमे  बहुप्रधानोपकारकप्रयाजादीनि ।
अष्टमे  याजमानानि  ॥ १,१.१५ ॥

____________________________________________________

१,१.१६


प्रधानस्य प्रयोक्तृत्वमप्रधानप्रयोक्तृता ।
फलचिन्ता जघन्याङ्गचिन्तेत्येते चतुर्थगाः  ॥ १,१.१६ ॥



चतुर्थाध्यायस्य प्रथमे पादे  प्रधानभूताऽमिक्षा दध्यानयनस्य प्रयोजिकेस्यादि प्रधानप्रयोक्तृत्वं विचारितम् ।
द्वितीये तु अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोदकमित्याद्यप्रधानप्रयोक्तृत्वम् ।
तृतीये  जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता ।
चतुर्थे   राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता ॥ १,१.१६ ॥

____________________________________________________

१,१.१७


श्रुत्यादिभिः क्रमस्तस्य विशेषो वृद्ध्यवर्धने ।
श्रुत्यादेर्बलिता चेति पञ्चमाध्यायपादगाः  ॥ १,१.१७ ॥



पञ्चमाध्यायस्य प्रथमे पादे  श्रुत्यर्थपाठादिभिः क्रमो निरूपितः ।
द्वितीये  वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः ।
तृतीये  पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः ।
चतुर्थे  क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः ॥ १,१.१७ ॥

____________________________________________________

१,१.१८


अधिकारी तस्य धर्माः प्रतिनिध्यर्थलोपने ।
दीक्षा सत्रं देयुह्नी षष्ठे पादेष्वमी स्थिताः ॥ १,१.१८ ॥



षष्ठाध्यायस्य प्रथमे पादे  कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाधिकारी निरूपितः ।
द्वितीये  तत्राधिकारिणां प्रत्येकं कृत्स्न्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयोऽधिकारिधर्मा उक्ताः ।
तृतीये  द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम् ।
चतुर्थे  पदार्थलोपनं विचारितम्,ऽअवत्तनाशे तत्याज्येन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्ऽ इत्यादिकम् ।
पञ्चमे  कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम् , ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम् ।
षष्ठे  तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम् ।
सप्तमे  पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः ।
अष्टमे  लौकिकाग्ना वुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः  ॥ १,१.१८ ॥

____________________________________________________

१,१.१९


प्रत्यक्षोक्त्यातिदेशोऽस्य शेषः सामनिरूपणम् ।
नामलिङ्गातिदेशौ द्वौ सप्तमाध्यायपादगाः  ॥ १,१.१९ ॥



सप्तमाध्यायस्य प्रथमे पादे ऽसमानमितरच्छ्येनेनऽ इत्यादिप्रत्यक्षवचनातिदेशः ।
द्वितीये  रथन्तरशब्देन गानमात्राभिधायिना गानस्यैवातिदेश्यत्वमित्येतादृशः पूर्वोक्तातिदेशस्य शेषो विचारितः ।
तृतीये  अग्निहोत्रनाम्नातिदेशः ।
चतुर्थे  निर्वापौषधद्रव्यादिलिङ्गातिदेशः  ॥ १,१.१९ ॥

____________________________________________________

१,१.२०


स्पष्टलिङ्गादथास्पष्टात्प्रबलादपवादतः ।
अतिदेशविशेषाः स्युरष्टमाध्यायपादगाः ॥ १,१.२० ॥



अष्टमाध्यायस्य प्रथमे पादे  स्पष्टेन लिङ्गेनातिदेशविशेषः ।
तद्यथा सौर्यचरार्वतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्यग्नियलिङ्गानि ।
द्वितीये तुअस्पष्टैर्लिङ्गरतिदेशः ।
तद्यथा  वाजिने हविः सामान्येन लिङ्गेन पयोविध्यन्तोऽतिदिश्यते ।
तत्र लिङ्गमस्पष्टम् ।
शीघ्रं तद्बुद्ध्यनुत्पादनात् ।
तृतीये  प्रबलेन लिङ्गेनातिदेशः ।
तद्यथा  आभिचारिकष्टावाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयसायाग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः ।
प्रबलं च द्विदैवत्यत्वम् ।
शब्दोच्चारणमात्रेण सहसा प्रतिभासात् ।
क्रमस्तु विलम्बितप्रतीत्या दुर्बलः ।
चतुर्थे  दर्विहोमेष्वतिदेशोऽपोद्यते ॥ १,१.२० ॥

____________________________________________________

१,१.२१


ऊहारम्भोऽथ सामोहो मन्त्रोहस्तत्प्रसङ्गतः ।
नवमाध्यायपादेषु चतुर्ष्वेते प्रकीर्तिताः ॥ १,१.२१ ॥



नवमाध्यायस्य प्रथमे पादे  उपोद्घातपूर्वकमूहविचारप्रारम्भः ।
तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः ।
अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्धातः ।
सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः ।
अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः ।
द्वितीये  सपरिकरः सामोहः ।
तृतीये  मन्त्रोहः ।
चतुर्थे  मन्त्रोहप्रसङ्गापतितो विचारः ॥ १,१.२१ ॥

____________________________________________________

१,१.२२


द्वारलोपोऽस्य विस्तारः कार्यैकत्वं समुच्चयः ।
ग्रहसामप्रकीर्णानि नञर्थश्चाष्टपादगाः ॥ १,१.२२ ॥


दशमाध्यायस्य प्रथमे पादे  बाधहेतुर्द्वारलोपो निरूपितः ।
तद्यथा ऽस्वयङ्कृता वेदिर्भवतिऽइत्यत्र  वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः ।
कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः ।
द्वितीये  संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः ।
तृतीये  बाधकारणं कार्यैकत्वम् ।
तद्यथा  प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम् ।
तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम् ।
ततो धेन्वागवाश्वादिदक्षिणा विकृतौ चोदकप्रप्ता बाध्यते ।
चतुर्थे  नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः ।
पञ्चमे  षोडशिग्रहः प्रकृतिगामी ।
स चाऽग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः ।
षष्ठे ऽसाम तृचे गेयम्ऽ इत्यादिर्बाधप्रसङ्गागतः सामविचारः ।
सप्तमे  पश्वङ्गेषु  प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः ।
गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः ।
अष्टमे ऽनानुयाजेषुऽ इति पर्युदासः ,ऽ न सोमे इत्यर्थवादः,ऽनातिरात्रेऽ इति प्रतिषेधःऽ इत्यादिर्बाधोपयुक्तो नञर्थविचारः  ॥ १,१.२२ ॥

____________________________________________________

१,१.२३


उपोद्घातस्तथा तन्त्रावापौ तन्त्रस्य विस्तृतिः ।
आवापविस्तृतिश्चैकादशाध्यायस्य पादगाः  ॥ १,१.२३ ॥



एकादशाध्यायस्य प्रथमे पादे  तन्त्रस्योपोद्घातो वर्णितः ।
द्वितीये  तन्त्रावापौ संक्षेपेणोक्तौ ।
तृतीये  तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम् ।
चतुर्थे  तथैवाऽवापः प्रपञ्चितः  ॥ १,१.२३ ॥

____________________________________________________

१,१.२४

प्रसङ्गस्तन्त्रिनिर्णीतिः समुच्चयविकल्पने ।
द्वादशाध्यायपादार्था इति पादार्थसंग्रहः  ॥ १,१.२४ ॥



द्वादशाध्यायस्य प्रथमे पादे  पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीमकर्मसु प्रसङ्गः, इत्यादिविचारः ।
द्वितीये  सवनीयपशोस्तन्त्रित्वम् , न तु सवनीयपुरोडाशानाम् ।
विकृतिस्तन्त्रिणी, न प्रकृतिः, अन्वारम्भणीया विकयतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः ।
तृतीये  त्वग्वाससोः समुच्चयः ।
आदारगतानामृजुत्वसमततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम् ।
चतुर्थे च  ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायगलयोर्विकल्प इत्यादिकं प्राधान्येन, प्राज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापदादत्वेनेत्युभयं चिन्तितम् ।
चतुर्थे च  ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, प्राज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापदादत्वेनेत्युभयं चिन्तितम् ।
तदेवं द्वादशाध्यायगतेषु षष्टिसंख्याकेषु पादेषु प्रतिपाह्या अर्था संगृहीताः  ॥ १,१.२४ ॥

____________________________________________________

१,१.२५


ननु यथोक्तेभ्यः पादार्थेभ्योऽप्यर्था बहवस्तत्तत्पादेषु विचार्यन्ते, तेषां कथं तत्तत्पादान्तर्भाव इत्याशङ्क्याऽह

उपोद्घातापवादाभ्यां प्रसङ्गानुप्रसङ्गतः ।
तत्तत्पादगतत्वेन विचारान्तरमुन्नयेत् ॥ १,१.२५ ॥



यथोक्तपादप्रतिपाद्यदन्येष्वर्थेषु यथोचितं कश्चिदुपोद्धातः, कश्चिदपवादः , कश्चित्प्रसङ्गपतितः, कश्चिदनुप्रसङ्गपतितः, इत्येवं पादान्तर्भाव उन्नेयः  ॥ १,१.२५ ॥

____________________________________________________

१,१.२६


ननु सन्त्वेवमध्यायानां पादानां च व्यवस्थिता अर्थाः ।
तदीयस्तु क्रमः कथमनगन्तव्य इत्यत आह

शास्त्रे पूर्वोत्तरीभावोऽध्यायानामभिधास्यते ।
पादानां तु तमत्रैव लेशाद्व्यत्पादयामहे  ॥ १,१.२६ ॥


एकस्मिन्नध्याये समाप्ति रस्ति , अध्यायान्तरारम्भे, तयोरध्याययोः पूर्वोपरी भावो वक्ष्यते  ॥ १,१.२६ ॥

____________________________________________________

१,१.२७


प्रथमाध्या गतामां पादानां पूर्वोत्तरीभाव उधृते सति तद्व्युत्पत्या पादान्तरेष्वपि तस्योत्पेक्षितु शक्यतया तमुदाहरति

विधिः माक्षामितिर्धर्मे तस्य शेषोर्ऽथवादगीः ।
वेदमूला स्मृतिर्नाम वाक्यांशोऽमीप्वतः क्रमः  ॥ १,१.२७ ॥



जिज्ञास्य वम प्रतिज्ञात धर्मे विविवाक्यं साक्षात्प्रमाणमिति तद्विचारः प्रथमे पादे युक्तः ।
अर्थवादवाक्य  विविद्वारा प्रामण्यद्विध्यनन्तरभावित्वं स्मृति वाक्यस्य सार्थवादविधिरूपवेदमूलतया प्रामाण्यादर्थवादोत्तरभावित्वम् ।
नामधेयस्य वाक्यैकदेशत्वेन पूर्वोक्तत्रिविधवाक्यविचारोत्तरकालीनत्वम् ।
अनेन न्यायेनोत्तराध्यायगतपादानां परस्परं क्रम उन्नेयः  ॥ १,१.२७ ॥

____________________________________________________

१,१.२७*


इत्थं शास्त्रस्याध्यायानां पादानां च क्रमविशेषविशिष्टानामसाधारणप्रतिपाद्यमर्थे निरूप्य तन्निर्णयफलं दर्शयति
ऊहित्वा संगतीस्तिस्त्रस्तथावान्तरसंगतिम् ।
ऊहेताऽक्षेपदृष्टान्तप्रत्युदाहरणादिकम्  ॥ १,१.२७* ॥



शास्त्रादिप्रतिपाद्यार्थसंबन्धितयाधिकरणे योजिते सति तस्याधिकरणस्य शास्त्रसंगतिः, अध्यायसंगतिः, पादसंगतिश्चेति तिस्त्र ऊहिता भवन्ति ।
तद्यथा  प्रथमाध्यायस्य प्रथमपादस्य द्वितीयधिकरणे धर्मस्य लक्षणप्रमाणराहित्यं पूर्वपक्षीकृत्य तत्सद्भावः प्रतिपादितः ।
तस्याधिकरणस्य धर्मसंबन्धितया धर्मविचारशास्त्रे संगितः ।
प्रमाणविचाररूपत्वात्प्रथमाध्याये संगतिः ।
विधिवाक्यस्य प्रमाणत्वेनोपन्यासात्प्रथमपादे संगतिः ।
यथैतत्संगतित्रयमूहितम्, तथा पूर्वोत्तराधिकरणयोः परस्परमवान्तरसंगतिरूहनीया ।
सा चानेकरूपा  आक्षेपसंगतिः, दृष्टान्तसंगतिः, प्रत्युदाहरणसंगतिः, प्रासङ्गिकसंगितः, उपोद्घातसंगतिः, अपवादसंगति श्चेत्येवमादिरूपा  ॥ १,१.२७* ॥

____________________________________________________

१,१.२८


तासामाक्षेपादिसंगतीनामूहं व्युत्पादयति

पूर्वन्यायस्य सिद्धान्तयुक्तिं वीक्ष्य परे नये ।
पूर्वपक्षोक्तयुक्तिं च तत्राऽक्षेपादि योजयेत् ॥ १,१.२८ ॥



तदेतत्सर्वे योजयित्वा प्रदर्श्यते  प्रथमेऽध्याये प्रथमपादस्य प्रथमाधिकरणगतोऽधर्मविचारशास्त्र वैधम्ऽ इति सिद्धान्तः ।
ऽ अर्थज्ञानपेतावध्ययने नियमविधेः संभवात्ऽ इति तद्युक्तिः ।
द्वितीयाधिकरणे ऽधर्मे लक्षणं प्रमाणं च नास्तिऽ इति पूर्वपक्षः ।
ऽलौकिकाकारहीनत्वात्, प्रत्यक्षाद्यप्रवृत्तेश्चऽ  इति तद्युक्तिः ।
तया युक्त्या धर्मस्य लक्षणप्रमाणरहितत्वे सति नरविषाणसमो धर्म इति तद्विचारशास्त्रस्य विधेयत्वममुपपन्नमित्याक्षेपसंगतिः ।
यथा प्रथमाधिकरणे नियमविधिसंभवेन हेतुना विचारशास्त्रस्य विधेयत्वमुक्तम्, तथा द्वितीयाधिकरणे लौकिकाकारहीनत्वप्रत्यक्षाद्यप्रवृत्तिरूपेण हतुना धर्मे लक्षणप्रमाणे न स्त इति दृष्टान्तसंगतिः ।
यथा प्रथमाधिकरणसिद्धान्ते पूर्वोक्तयुक्तिरवलोक्यते, तथा द्वितीयाधिकरणे काञ्चिदपि युक्तिं न पश्याम इति प्रत्युदाहरणसंगतिः ।
एते दृष्टान्तप्रत्युदाहरणसंगती मन्दबुद्धिभिरपि सर्वत्रोत्प्रेक्षितुं शक्येते ।
पञ्चमाधिकरणे विधिवाक्यस्य निरपेक्षत्वात्प्रामाण्यं वर्णितम् ।
तस्य च वाक्यस्य शब्दर्थयोर्मध्ये शब्दकोटिनिविष्टत्वाद्वाक्य प्रसङ्गेन  शब्दनित्यत्वं षष्ठाधिकरणे वर्ण्यत इति प्रासङ्गिकसंगतिः ।
सप्तमाध्यायस्य चतुर्थे पादे द्वितीयाधिकरणेन सौर्यादिविकृतिषु वैदिकमङ्गजातमुपदेष्टुं तदुपयोगित्वेन प्रथमाधिकरणे धर्मसापक्षत्वं साधितम् ।
तत्र प्रथमाधिकरणमुपोद्घातः ।
सेयमुत्तराधिकरणेन सह पूर्वाधिकरणस्योपोद्घातसंगतिः ।
प्रथमाध्यायस्य तृतीयपादस्य प्रथमाधिकरणे  अष्टकादिस्मृतेः प्रामाण्यमुक्तम् ।
द्वितीयाधिकरणे  सर्ववेष्टनस्मृतेः पूर्ववत्प्राप्तप्रामाण्यमपोद्यते ।
सेयमपवादसंगतिः ।
अनया दिशी सर्वत्र संगतिरूहनीया  ॥ १,१.२८ ॥



(प्रथमे धर्मशास्त्रारम्भप्रतिज्ञाधिकरणे सूत्रम् )

अथातो धर्मजिज्ञासा  । १,१.१ ।

____________________________________________________

१,१.२९३१


इत्थं संगतीर्व्युत्पाद्याथ प्रत्यधिकरणं विषयसंशयपूर्वपक्षसिद्धान्तांश्चतुरोऽवयवान्तञ्जिघृक्षुः प्रथमाध्यायस्य प्रथमे पादे प्रथमाधिकरणं भट्टमतेनाऽरचयति

स्वाध्यायोऽध्येय इत्यस्य विधानस्य प्रयुक्तितः ।
विचारशास्त्रं नाऽरभ्यमारभ्यं वेति संशयः  ॥ १,१.२९ ॥
अर्थधीहेतुताधीतेलोकसिद्धावघातवत् ।
नियामकं न चैवातो वैधारम्भो न संभवी ॥ १,१.३० ॥
दर्शापूर्ववदस्त्यत्र क्रत्वपूर्वे नियामकम् ।
अर्थनिर्णायकं शास्त्रमत आरभ्यतां विधेः ॥ १,१.३१ ॥



ऽऽचोदनालक्षणोर्ऽथो धर्मः"इत्यारभ्य"अन्वाहार्ये च दर्शनात्"इत्येतदन्तं जैमिनिप्रोक्तं सूत्रजातं धर्मविचारशास्त्रम् ।
तदेतस्य प्रथमाधिकरणस्य विषयःऽस्वाध्यायोऽध्येतव्यःऽ इत्यध्ययमविधिरक्षरग्रहणमात्रपर्यवसायीति केचिन्मन्यन्ते ।
अपरे त्वेवमाहुः ऽअर्थज्ञानरूपदृष्टप्रयोजनायेदमध्ययनं विधीयते ।
अर्थज्ञानं विचारमन्तरेण न संभवति ।
ततो विधिर्विचारशास्त्रस्य प्रयोजकःऽ इति ।
तत्रैवं संशयः ऽइदं विचारशास्त्रं विधिप्रयुक्त्या नाऽरम्भणीयम् , उताऽरम्भणीयम्ऽ इति ।
तत्रऽ अर्थज्ञानायाध्ययनस्य विधिःऽ इति वदन्वादी प्रष्टव्यः  किमन्त्यन्तमप्राप्तमध्ययनं  विधीयते, किंवा पक्षेऽप्राप्तमवघातवन्नियम्यते, इति ।
नाऽद्यः ऽ विमतं वेदाध्ययनमर्थज्ञानहेतुः, अध्ययनत्वात्, भारताध्ययमवत्, इत्यनुमानेनैव विधिनिरपेक्षेण प्राप्तत्वात् ।
तर्ह्यस्तु द्वितीयः पक्षः ।
अवघातवन्नियमविधित्वसंभवात् ।
यथा नखैरवधातेन  वा तण्डुलीनष्पत्तिसंभवात्पक्षेऽप्राप्तोऽवधातो विधिनावश्यं कर्तव्य इति नियम्यते, तथा लिखितपाठेन गुरुपूर्वकाध्ययनेन वार्ऽथज्ञानसंभवात्पक्षेऽप्राप्तमध्ययनं विधिना नियम्यत इति चेत् ।
न ।
वैषम्यात् ।
अवघातनिष्पनैरेव तण्डुलैखान्तरापूर्वद्वारेण दर्शपूर्णमासौ परमापूर्वे जनयतः, नान्यथा ।
ततो दर्शपूर्णमासापूर्वमवघातस्य नियमहेतुः ।
अत्र तु लिखितपाठजन्येनैवार्थज्ञानेन क्रत्वनुष्ठानसिद्धेरध्ययनस्य नियमहेतुर्नास्ति ।
अतो द्विविधविध्यसंभवादर्थज्ञानहेतुविचारशास्त्रारम्भस्य वैधत्वं नास्ति ।
तर्हि श्रूयमाणस्य विधेः का गतिरिति चेत्, स्वर्गयाक्षरग्रहणमात्रं विधेयमिति वदामः ।
अश्रुतोऽपि स्वर्गो विश्वजिन्न्यायेन कल्पनीयः ।
"स स्वर्गःस्यात्सर्वान्प्रत्यविशेषात्" [पू . मी. सू. ४.३.१५ ] इति सूत्रेण विश्वजित्यश्रूयमाणमप्यधिकारिणं संपादयितुं तद्विशेषणं स्वर्गफलं युक्त्या स्थावितम् ।
तद्वदध्ययनेऽप्यस्तु ।
एतदेवाभिप्रेत्योक्तम्
"विनापि विधिना दृष्टलाभान्नहि तदर्थता ।
कल्प्यस्तु विधिसामर्थ्यात्स्वर्गो विश्वजिदादिवत्"॥ इति ।
एवं च सतिऽवेदमधीत्य स्नायात्ऽ इति शास्त्रमनुगृह्यते ।
अस्मिञ्शास्त्रेवेदाध्ययनतमावर्तनयोर्नैरन्तर्ये प्रतीयते ।
त्वत्पक्षे तु  अधीतेऽपि वेदे धर्मविचारणाय गुरुकुल एवाधिवासः कर्तव्यः ।
तथा सति तन्नैपन्तर्ये बाध्यते ।
तस्माद्विचारशास्त्रस्यं वैधत्वाभावात्पाठमात्रेण धर्मसिद्धेः समावर्तनशास्त्राच्च धर्मविचारशास्त्रं नाऽरम्भणीयमिति पूर्वः पक्षः ।
अत्रोच्यते  यदुक्तम् ऽलोकसिद्धत्वान्नाप्रप्तविधिःऽ इति ।
ततथैवास्तु ।
नियमविधित्वं तु न वारयितुं शक्यम् ।
यथा दर्शपूर्णमासजन्यं परमापूर्वमवाचाता नियमविधित्वं तृ न वारयितुं शक्यम् ।
यथा दर्शपूर्णमासजन्यं परमापूर्वमववातानियमजन्यस्यावान्तरापूर्वस्य कल्पकं भविष्यति ।
नियमादृष्टानङ्गीकारे च श्रूयमाणे विधिरनर्थकः स्यात् ।
न च विश्वजिन्न्यायेन स्वर्गार्थत्वं युक्तम् ।
दृष्टफलेर्ऽथज्ञाने संभवत्यदृष्टस्य कल्पयितुमशक्यत्वात् ।
अत एवोक्तम्
"लभ्यमाने फले दृष्टे नादृष्टपरिकल्पना ।
विधेस्तु नियमार्थत्वान्नाऽनर्थक्यं भविष्यति"  ॥ इति ॥
नन्वेवमपि श्रुतव्याकरणाद्यङ्गस्याधीतवेदस्य पुरुषस्यार्थज्ञानसंभवाद्विचारशास्त्रस्य वैयर्थ्यमिति चेत् ।
न ।
ज्ञानमात्रसंभवेऽपि निर्णयस्य विचाराधीनत्वात् ।
ऽअक्ताः शर्करा उपदधातिऽ इत्यत्रऽघृतेनैव, न तैलादिनाऽ इत्ययं निर्णयो व्याकरणेन निरुक्तेन निगमेन वा न सिध्यति ।
विचारशास्त्रं तुऽ तेजो वै घृतम्ऽ  इति वाक्यशेषादर्थे निर्णेष्यति ।
अतो विचारो वैधः ।
ऽ वेदमधीत्य स्नायात्ऽ इति शास्त्रं त्वध्ययनसमावर्तनयोः पूर्वापरीभावसमानकर्तृकत्वे एवाचष्टे, न त्वानन्तर्यम् ।
तस्माद्विधिवशादेव विचारशास्त्रमापम्भणीयमिति सिद्धान्तः ॥ १,१.२९३१ ॥

____________________________________________________

१,१.३२३४


अस्मिन्नेवाधिकरणे गुरुमतमाह

अथवाध्यापनात्सिद्धेर्नैवास्त्यध्ययने विधिः ।
तेन पूर्वोत्तरौ पक्षौ प्रसाध्यावन्यहेतुभिः ॥ १,१.३२ ॥
विधेयाध्यापनं सिध्येद्वालस्यार्थधियं विना ।
तेन निर्विषयं शास्त्रं निष्फलं चेत्युपेक्ष्यताम् ॥ १,१.३३ ॥
स्वतः प्राप्तार्थबोधस्य विवक्षानपनोपनात् ।
विषयादि सुसंपादं शास्त्रमारभ्यते ततः ॥ १,१.३४ ॥



ऽअष्टवर्षे ब्राह्मंमुपनयीत, तमध्यापयीतऽ इत्यध्यापनं विहितम् ।
न चात्र नियोज्याभावः ।
आचार्यत्वकामिनो नियोज्यत्वात् ।
ऽ उपनयीतऽ इत्यनेनाऽचार्यकरणे"संमाननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः"  [पा. सू. १.३.३६ ] इति पाणिनिसूत्रेण विहितेनाऽत्मनेपदेन नियोज्यविशेषणमाचार्यत्वं प्रतीयते ।
उपनयने यो नियोज्यः ।
स एवाध्यापनेऽपि ।
तयोरेकप्रयोजनत्वात् ।
एवं सत्याचार्यकर्तृकमध्यापनं माणवककर्तृकेणाध्ययनेन विना न सिध्यतीत्यध्यापनविश्विप्रत्युक्त्यैवाध्ययनानुष्ठानतिद्धेर्न विधिरभ्युपगन्तव्यः ।
श्रूयमाणं विधिवाक्यं नित्यानुवादत्वेनाप्युपपद्यते ।
ततोऽध्ययन विधिमुपजीव्य पूर्वमुपन्यस्तौ पूर्वोत्तरपक्षावन्यथा वर्णनीयौ ।
विषयसंशययोस्तु नास्ति विप्रतिपत्तिः ।
विचारशास्त्रं विषयः ।
अवैधं वैधं वेति संशयः ।
तत्र वैधत्ववादी प्रष्टव्यः विधेयमाचार्यकर्तृकमध्यापनं किं माणवकस्यार्थज्ञानमपि प्रयुञ्जीत किंवा पाठमात्रम् ।
नाऽद्यः ।
अन्तरेणाप्यर्थज्ञानमध्यापनसिद्धेः ।
पाठमात्रे तु विचारस्य विषयो न भवति ।
आपाततः प्रतीतः संदिग्धोर्ऽथो विषयः ।
तथा सति यत्रार्थप्रतीतिरेव नास्ति तत्र संदेहस्य का कथा ।
निर्णयो विचारस्य फलम ।
सोऽपि विषयवद्दूरापेतः ।
अतो विषयप्रयोजनाभावाद्विचारशास्त्रं नाऽरम्भणीयमिति पूर्वः पक्षः ।
अत्रोच्यते  मा नामाध्यापनेनार्थावबोधः प्रयुज्यताम् ।
तथापि साङ्गवेदाध्यायिनो निगमनिरुक्तव्याकरणैर्व्युत्पन्नस्य पौरुषेयग्रन्थेष्विव वेदेऽप्यर्थावबोधः स्वत एव प्राप्नोति ।
ननु यथाऽविषं भुङ्क्ष्वऽइत्यत्र प्रतीयमामनोऽप्यर्थो न विवक्षितः, तथा वेदार्थस्याविषयाद्यभावस्तदवस्थ इति चेत ।
न ।
विवक्षाया अमनोदितुमषक्यत्वात् ।
विषभोजनवाकायस्याऽप्तप्रणीतत्वेन बाधो मा भ्रूदिति मुख्यार्थस्तत्र परित्यक्तः ।
वेदे तु  कुतो न विवक्षितार्थत्वम् ।
विवक्षिते च वेदार्थे यत्र यत्र पुरुषस्य संदेहः स सर्वोऽपि विचारशास्त्रस्य विषयः ।
तन्निर्णयः प्रयोजनम् ।
ततोऽध्यापनविधिप्रयुक्तेनाध्ययनेन बुध्यमानस्यार्थस्य विचार्थत्वाद्विचारशास्त्रस्य वैधत्वं सिद्धम् ॥ १,१.३२३४ ॥

(द्वितीये धर्मलक्षणाधिकरणे सूत्रम् )

चोदनालक्षणोऽर्थो धर्मः  । १,१.२ ।

____________________________________________________

१,१.३५३७


द्वितीयाधिकरणं भट्टमतेनारचयति

विचारविषयो धर्मो लक्षणेन विवर्जितः ।
मानेनं वाथवोपेतस्वाभ्यामिति विचिन्त्यते  ॥ १,१.३५ ॥
लौकिकाकारहीनस्य तस्य किं नाम लक्षणम् ।
मानशङ्का तु दूरेऽत्र प्रत्यक्षाद्यप्रवर्तनात् ॥ १,१.३६ ॥
चोदमागस्य आकारो ह्यर्थत्वे सति लक्षणम् ।
अत एव प्रमाणं च चोदनैवात्र नो कुतः  ॥ १,१.३७ ॥



लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिः ।
अत एवाऽहुः
"मानाधीना मेयसिद्धिर्मानसिद्धिश्च लक्षणात्"इति ।
सजातीयविजातीयव्यावर्तको लक्ष्यगतः कश्चिल्लोकप्रसिद्ध आकारो लक्षणम् ।
तेन च लक्षणेन लक्ष्ये वस्तुनि संभावनाबुद्धौ जातायां प्रमातुमुद्युक्तः प्रमाणेन तदवगच्छति ।
तद्यथा ऽ सास्नादिमती गौःऽ इत्युपश्रुत्य चतुष्पात्सु जीवेषु तल्लक्षणलक्षितपदार्थमन्विष्यऽइत्थ गौःऽ इति चक्षुषावगच्छति ।
एवं च सत्यलौकिकत्वाद्धर्मस्य नास्ति लक्षणम् ।
तत्र कुतः प्रमातुमुद्योगः ।
कथञ्चित्तदुपयोगेऽपि न तत्र प्रमाणसभ्दावः शाङ्कितुमपि शक्यः ।
न तावदत्र प्रत्यक्ष क्रमते ।
धर्मस्य रूपादिरहितत्वात् ।
अत एव व्याप्तिग्रहणाभावार्न्नानुमानम् ।
प्रत्यक्षाद्यनुमानमूलश्च शब्दस्य संगतिग्रहः ।
ततो व्युत्पत्त्यभावान्नाऽगमोऽपि तत्र प्रवर्तते ।
तस्माद्धर्मो लक्षणप्रमाणरहित इति प्राप्ते ब्रूमः मा भूच्चक्षुरादिगम्यो लौकिक आकारः ।
तथापि चोदनागम्यः स्वर्गफलसाधनत्वादिलक्षण आकारोऽस्ति ।
ऽ तेन अर्थत्वे सति चोदनागम्यो धर्मःऽ इति लक्षणं भवति ।
ऽअर्थो धर्मःऽ इत्युक्ते ब्रह्मणि चैत्यवन्दनादौ घटादौ चातिव्याप्तिः ।
तद्व्यवच्छेदायऽचोदनागम्यःऽ इत्युक्तम् ।
तावत्येवोक्ते विधिगम्येऽनर्थफलत्वेनानर्थरूपे श्येनाद्यभिचारकर्मण्यतिव्याप्तिः ।
तद्व्यवच्छेदायऽअर्थःऽ इत्युक्तम् ।
यद्यपि श्येनस्य शत्रुवधः फलम्, नतु नरकः, तथापि तस्य वधस्य नरकहेतुत्वाद्वधद्वारा श्येनोऽनर्थः ।
न चैवमग्नीषोमीयपशुहिंसाया अपि वधत्वेन नरकहेतुत्वं स्यादिति शङ्कनीयम् ।
तस्याः क्रत्वङ्गत्वेन क्रतुफलस्वर्गव्यतिरेकेण फलान्तराभावात् ।
यतश्चोदनागम्यत्वे सत्यर्थत्वं धर्मलक्षणम् ।
अत एव गर्मे धर्मे गमकं विधिवाक्यं प्रमाणम् ।
यद्यपि प्रत्यक्षानुमानयोरविषयो धर्मः, तथापि प्रसिद्धेपदसमभिव्याहारेण व्युत्पत्तिः संभवति ।
तस्माल्लक्षणप्रमाणाभ्यामुपेतो धर्मः  ॥ १,१.३५३७ ॥

____________________________________________________

१,१.३८४०


अस्मिन्नेवाधिकरणे गुरुतममाह

यद्वा जिज्ञास्यवेदार्थः किं मन्त्राद्यवबोधितः ।
सिद्धार्थोऽप्यथ विध्येकगम्यः कार्यार्थ एव वा  ॥ १,१.३८ ॥
सिद्धेऽपि पुत्रजन्मादौ व्युत्पत्तेरूपपत्तितः ।
मन्त्रादिगम्यसिद्धस्य वेदार्थत्वेऽपि का क्षतिः  ॥ १,१.३९ ॥
हर्षहेतुबहुत्वेन व्युत्पत्तिः पुत्रजन्मनि ।
दुर्लभा सुलभा कार्ये वेदार्थोऽतः स एव हि ॥ १,१.४० ॥



"अथातो धर्मजिज्ञासा"  [पू.मी.सू.१.१.१ ] इत्यत्राथशब्देन कृत्स्न वेदाध्ययनानन्तर्यमुच्यते ।
अतःशब्देन कृत्स्नस्य वेदस्य विवक्षितार्थत्वं हेतू"क्रियते ।
उक्तशब्दद्वयानुसारेण धर्मशब्दोऽपि कृत्स्नं वेदार्थमाचष्टे ।
ततः सूत्रेऽवेदार्थो जिज्ञास्यःऽ इति प्रतिज्ञा कृता ।
तत्र संशयः  किं मन्त्रार्थवादप्रतीतः सिद्धार्थोऽपि वेदार्थो भवति, किंवा विधिवाक्यप्रतीतः कार्यार्थमेव वेदार्थः, इति ।
तत्र
"लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधकः" इति ज्ञायेन व्युत्पत्त्यनुसारी वेदार्थो वर्णनीयः ।
व्युत्पत्तिश्च सिद्धार्थेऽप्यस्ति ।
ऽपुत्रस्ते जातःऽ इति वार्ताहरव्याहारजन्यं श्रोतुर्हर्षमनुमाय हर्षहेतौ पुत्रजन्मनि संगतिं प्रतिपद्यते ।
अतो मन्त्रार्थवादप्रतीतोऽप्यर्थो वेदार्थ इति प्राप्ते ब्रूमः  पुत्रजन्मवद्धर्षहेतूनां धनलाभादीनां बहुत्वादस्य वाक्यस्कय पुत्रजन्मैवार्थ इति निर्णयो दुर्लभः ।
ऽगामानयऽ इति वाक्ये तु गवानयनरूपां मध्यमबृद्धप्रवत्तिमवलोक्य संगतिग्रहणं सुलभम् ।
तस्मात्कार्यरूप एव वैदार्थ इति  ॥ १,१.३८४० ॥


(तृतीये धर्मप्रमाणपरीक्षाधिकरणे सूत्रम् )

तस्य निमित्तपरीष्टिः  । १,१.३ ।

____________________________________________________

१,१.४१४२


तृतीयाधिकरणं भट्टमतेनारचयति

धर्मस्य ज्ञापकं मानं यदुक्तं चोदनात्मकम् ।
एतत्किं न परीक्ष्यं स्यात्किंवा सम्यक्परीक्ष्यताम् ॥ १,१.४१ ॥
मानोपदेशान्मेयस्य सिद्धत्वात्किं परीक्षया ।
मैवं विचारशास्त्रेऽस्मिन्परीक्षोपेक्षते कुतः ॥ १,१.४२ ॥



स्पष्टोर्थः ॥ १,१.४१४२ ॥

____________________________________________________

१,१.४३४४


अस्मिन्नेवाधिकरणे गुरूमतमाह

आदौ परीक्ष्यो वेदार्थश्चोदनामानताथवा ।
वेदार्थस्य प्रधानत्वात्प्रथमं तत्परीक्ष्यताम् ॥ १,१.४३ ॥
चोदनामानतैवात्र प्रथमं साध्यतां गता ।
अनपेक्षतया तस्य यतो मुख्यत्वमाश्रितम् ॥ १,१.४४ ॥



द्वितीयाध्यायाद्यैः कर्मभेदशेषशेषित्वादिरूपो वेदार्थः सूत्रकारेण परीक्षिष्यते ।
चोजनाप्रामाण्यं तु प्रथमाध्याये परीक्ष्यते ।
तदैतदयुक्तम् ।
कुतः ।
वेदार्थस्य प्रधानत्वेनाऽदौ परीक्ष्ययीत्वात् ।
प्रधानभागे हि वेदः ।
पुरूषार्थत्वेनानुष्ठेयत्वात् ।
प्रधाणं तु तद्वेवनाय प्रवृत्तं सत्तच्छेषतयान प्रधानमिति प्राप्ते ब्रूमः अस्त्वनुष्ठानोपायो वेदार्थप्रमाणयोः प्रधानोत्सर्जतभावः ।
प्रमाणप्रमेयभावोपायौ तु प्रमाणस्यैव मुख्यत्वं निरपेक्षत्वात् ।
नहि स्वतः प्रमाण्यवादिनां मते सापेक्षया प्रमाणस्यास्ति ।
प्रमेयं तु सारेक्षम् ।
ऽमानावीना मेथसिद्धिःऽ इत्युक्तत्वात् ।
तदेतन्मुख्यत्वमाश्रित्य सूत्रकारः प्रमाणपरीक्षामादौ चकारेति यज्यते ।
अयान्वत्प्रा अथान्यत्प्राधान्यमाश्रित्य धर्मविचार एवादौ कस्मान्न कृतः? ।
न कृतः  अपरीक्षितेन प्रमाणेन धर्मस्यासिद्धौ तद्विचारस्याऽश्रयासिद्धेः ॥
तदेवमधिकरणत्रये व्युत्पादनाय भाट्टप्राभाकरमतभेद उपन्यस्तः ॥ १,१.४३४४ ॥


अथ प्रायेण भट्टमतमेवोपन्यस्यते
(चतुर्थे धर्मे प्रत्यक्षाद्यगम्यत्वाधिकरणे सूत्रम् ॥)


सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात् । १,१.४ ।

____________________________________________________

१,१.४५४६


चतुर्थाधिकरणमारचयति

प्रत्यक्षादिभिरप्येष गम्यते विधिनैव वा ।
अक्षादीनां प्रमाणत्वान्मेयधर्मावभासिता ॥ १,१.४५ ॥
वर्तमानैकविषयमक्षं धर्मस्तु भाव्यसौ ।
अक्षमूलोऽनुमानादिस्तेन विध्येकमेयता ॥ १,१.४६ ॥



अक्षं प्रत्यक्षम् ।
प्रत्यक्षादीनां प्रमाणत्वात्प्रमेयावभासकत्वं तावदविवादम् ।
धर्मश्च प्रमेयः, असंदिग्धाविपर्यस्तत्वे सति बुध्यमानत्वात्, घटादिवत् ।
तस्मात्प्रत्यक्षादिभिरप्येष धर्मो गम्यत इति प्राप्ते
ब्रूमः  धर्मस्य प्रमेयत्वेऽपि प्रत्यक्षयोग्यता नास्ति, प्रत्यक्षस्य वर्तमानमात्रविषयत्वात् ।
यस्तु प्रत्यक्षस्यात्यन्तमविषयः, तत्रानुमानादीनां कैव कथा ।
क्वचित्प्रत्यक्षेण गृहीते व्याप्त्यादौ पश्चादनुमानादीनां प्रवृत्तिः ।
तस्माद्विधिनैव धर्मो गम्यते ॥ १,१.४५४६ ॥


(पञ्चमे धर्मे विधिप्रामाण्याधिकरणे सूत्रम् ॥)

औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् । १,१.५ ।

____________________________________________________

१,१.४७४८


पञ्चमाधिकरणमारचयति

अबोधको बोधको वा न तावद्बोधको विधिः ।
शक्तेरलौकिके धर्मे ग्रहणं दुर्घटं यतः  ॥ १,१.४७ ॥
समभिव्याहृते धर्मे शक्तिग्रहणसंभवात् ।
बोधकस्य विधेर्मात्वमनपेक्षतया स्थितम्  ॥ १,१.४८ ॥



यथा धर्मे प्रत्यक्षादीनां प्रामाण्यं नास्ति, तथा विधेरपि नास्ति प्रामाण्यम् ।
शक्तिग्रहणपूर्वकं हि प्रामाण्यमाप्तवाक्यस्य लोके दृष्टम् ।
शक्तिश्च लोकप्रसिद्धे गवादौ गृह्यते ।
धर्मस्त्वलौकिकः ।
अतस्तत्र शक्तिग्रहणं दुर्घटम् ।
तस्माद्विधेरबोधकत्वान्न धर्मे प्रामाण्यमिति प्राप्ते
ब्रूमः  यथाऽप्रभिन्नकमलोदरे मधूनि मधुकरः पिबतिऽ इत्यत्र मधुकरपदस्यार्थमजानन्नन्यपदार्थमवगत्य तत्यमभिव्याहारात्कमलस्य मध्यगते मधुपानं कुर्वति दृश्यमानभ्रमरे मधुकरशब्दस्य सङ्गतिं गृहीत्वा वाक्यार्थं प्रतिपद्यते, तथाऽकारीर्या वृष्टिकामो यजेतऽ इत्यत्र लोकप्रसिद्धार्थवृष्ट्यादिपदसमभिव्याहारादलौकिकभावनायां विधेः सङ्गतिं गृहीत्वा विधिवाक्यार्थं पुरुषो बुध्यते ।
तस्मादबोधकत्वलक्षणमप्रामाण्यं नास्ति ।
न च संवादाभावादप्रामाण्यम्, समनन्तरभाविप्रतिनियतफले वृष्ट्यादौ संवादस्यापि संभवात् ।
अनियतदृष्टफले चित्रयागादौ, प्रतिनियतजन्मान्तरफले ज्योतिष्टोमादौ च संवादः कथमिति चेत्, एवं तर्हि स्वतःप्रामण्याभ्युपगमान्नास्ति क्वापि संवादाद्यपेक्षा ।
तस्मादबोधकत्वसापेक्षत्वयोरप्रामाण्यकारणयोरभावाद्विधेः स्वतःसिद्धं प्रामाण्यं नापह्नोतुं शक्यम् ॥ १,१.४७४८ ॥


(षष्ठे शब्दनित्यताधिकरणे सूत्राणि ६२३)


कर्मैके तत्र दर्शनात् । १,१.६ ।

अस्थानात् । १,१.७ ।

करोति शब्दात् । १,१.८ ।

सत्त्वान्तरे च यौगपद्यात् । १,१.९ ।

प्रकृति विकृत्योश्च  । १,१.१० ।

वृद्धिश्च कर्तृभूम्नास्य  । १,१.११ ।

समं तु तत्र दर्शनम्  । १,१.१२ ।

सतः परमदर्शनं विषयानागमात् । १,१.१३ ।

प्रयोगस्य परम्  । १,१.१४ ।

आदित्त्यवद्यौगपद्यम्  । १,१.१५ ।

वर्णान्तरमविकारः  । १,१.१६ ।

नादवृद्धिपरा  । १,१.१७ ।

नित्यस्तु स्याद्दर्शनस्य परार्थत्वात् । १,१.१८ ।

सर्वत्र यौगपद्यात् । १,१.१९ ।

संख्याभावात् । १,१.२० ।

अनपेक्षत्वात् । १,१.२१ ।

प्रख्याभावाच्च योगस्य  । १,१.२२ ।
लिङ्गदर्शनाच्च  । १,१.२३ ।

____________________________________________________

१,१.४९५०


षष्ठाधिकरणमारचयति

विध्यादिरूपो यः शब्दः सोऽनित्योऽथाविनश्वरः ।
अनित्यो वर्णरूपत्वाद्वर्णे जन्मोपलम्भनात् ॥ १,१.४९ ॥
अबाधितप्रत्यभिज्ञाबलाद्वर्णस्य नित्यता ।
उच्चारणप्रयत्नेन व्यज्यतेऽसौ न जन्यते ॥ १,१.५० ॥



शब्दनित्यत्ववादिनो वैयाकरणास्तावदेवं मन्यन्ते  वर्णसमूहश्रवणानन्तरंऽइदमेकं पदम्ऽ इति प्रत्ययो मानसप्रत्यक्षेणोत्पद्यते ।
तस्य च प्रत्ययस्य वर्णव्यतिरिक्तः कश्चित्स्फोटनामकः पदार्थो विषयः ।
स च नित्यः ।
स एव शब्दः, न तु वर्णा इति ।
तदेतन्नैयायिकादयो न सहन्ते ।
वर्णेष्वेवैकार्थावच्छेदोपाधिना पदैक्यबुद्धेरुपपत्तौ वर्णातिरिक्तस्फोटकल्पना निरर्थिका ।
तस्माद्वर्णानामेव शब्दत्वम् ।
वर्णाश्च प्रतिपुरुषं प्रत्युच्चारणं च जन्मविनाशवन्त उपलभ्यन्ते ।
तस्मादनित्यः शब्दः ।
तस्य च कारणदोषसंभवाद्विधेरप्रामाण्यमिति पूर्वः पक्षः ॥
बहुभिः पुरुषैः प्रत्येकं बहुकृत्व उच्चारिते गोशब्देऽत एवेमे गकारादयो वर्णाःऽ इत्यबाधितप्रत्यभिज्ञा जायते ।
तद्बलान्नित्या वर्णाः ।
न च वर्णानां जन्माभावे बहुकृत्व उच्चारणप्रयत्नो व्यर्थ इति शङ्कनीयम्, तत्प्रयत्नस्य व्यञ्जकत्वाङ्गीकारात् ।
एवं सति पुरुषभेदादुच्चारणभेदाश्च यथायोगमुदात्तादिभेदैः पटुमृदुत्वादिभेदैश्चोपेतान्ध्वनिविशेषानुत्पाद्य चरितार्था भविष्यन्ति ।
तस्मान्नित्ये शब्दे कारणदोषाभावान्नास्त्यप्रामाण्यम् ॥ १,१.४९५० ॥


(सप्तमे वेदप्रत्यायकत्वाधिकरणे सूत्राणि २४२६)


उत्त्पत्तौ वावचनाः स्युरर्थस्यातन्निमित्तत्वात् । १,१.२४ ।

तद्भूतानां क्रियार्थेन सामाम्नायोऽर्थस्य तन्निमित्तत्त्वात् । १,१.२५ ।

लोके सन्नियमात्प्रयोगसन्निकर्षः स्यात् । १,१.२६ ।

____________________________________________________

१,१.५१५२


सप्तमाधिकरणमारचयति

वेदवाक्यममानं स्यान्मानं वा नास्य मानता ।
पृथक्सङ्गत्यपेक्षायामनपेक्षत्ववर्जनात् ॥ १,१.५१ ॥
वेदेऽपि लोकवन्नैव वाक्यार्थे सङ्गतिः पृथक् ।
ग्रहीतव्या ततो वाक्यं प्रमाणं नैरपेक्ष्यतः ॥ १,१.५२ ॥



यद्यपि वर्णानां नित्यत्वादेकार्थावच्छेदकस्य पदस्यापि वर्णरूपतयानित्यत्वाद्वर्णपदद्वारा वेदस्य कारणसापेक्षत्वं नास्ति, तथापिऽअग्निहोत्रं जुहुयात्स्वर्गकामःऽ इत्यादिवाक्यस्य वाक्यार्थे सङ्गतिग्रहणमपेक्षितम् ।
तस्मान्नैरपेक्ष्याभावात्प्रामाण्यं नास्तीति प्राप्ते
ब्रूमः  लोकेऽगामानयऽ इत्यादिवृद्धप्रयोगे पदपदार्थयोरेव सङ्गतिर्गृह्यते ।
वाक्यं त्वाकाङ्क्षायोग्यतासन्निधिवशात्स्वार्थं प्रतिपादयतीत्यविवादम् ।
तथा वेदवाक्यस्यापि प्रत्यायकत्वादनपेक्षत्वेन प्रामाण्यमविरुद्धम् ॥ १,१.५१५२ ॥


(अष्टमे वेदापौरुषेयत्वाधिकरणे सूत्राणि २७३२)


वेदांश्चैके सन्निकर्षं पुरुषाख्याः  । १,१.२७ ।

अनित्यदर्शनाच्च  । १,१.२८ ।

उक्तं तु शब्दपूर्वत्वम्  । १,१.२९ ।

आख्या प्रवचनात् । १,१.३० ।

परन्तु श्रुतिसामान्यमात्रम्  । १,१.३१ ।

कृते वा विनियोगः स्यात्कर्मणः संबन्धात् । १,१.३२ ।

____________________________________________________

१,१.५३५४


अष्टमाधिकरणमारचयति

पौरुष्यं न वा वेदवाक्यं स्यात्पौरुष्यता ।
काठकादिसमाख्यानाद्वाक्यत्वाच्चान्यवाक्यवत् ॥ १,१.५३ ॥
समाख्याध्यापकत्वेन वाक्यत्वं तु पराहतम् ।
तत्कर्त्रनुपलम्भेन स्यात्ततोऽपौरुषेयता ॥ १,१.५४ ॥



ऽकाठकम्, कौथुमम्, तैत्तिरीयकम्ऽ इत्यादिसमाख्या तत्तद्वेदविषया लोके दृष्टा ।
तद्धितप्रत्ययश्चऽतेन प्रोक्तम्ऽ [पाणि. सू. ४.३.१०१] इत्यर्थे वर्तते ।
तथा सतिऽव्यासेन प्रोक्तं वैयासिकं भारतम्ऽ इत्यादाविव पौरुषेयत्वं प्रतीयते ।
किञ्चऽविमतं वेदवाक्यं पौरुषेयम्, वाक्यत्वात्, कालिदासादिवाक्यवत्ऽ इति प्राप्ते
ब्रूमः  अध्ययनसंप्रदायप्रवर्तकत्वेन समाख्योपपद्यते ।
कालिदासादिग्रन्थेषु तत्तत्सर्गावसाने कर्तार उपलभ्यन्ते ।
तथा वेदस्यापि पौरुषेयत्वे तत्कर्तोपलभ्येत ।
न चोपलभ्यते ।
अतो वाक्यत्वहेतुः प्रतिकूलतर्कपराहतः ।
तस्मादपौरुषेयो वेदः ।
तथा सति पुरुषबुद्धिदोषकृतस्याप्रामाण्यस्यानाशङ्कनीयत्वाद्विधिवाक्यस्य धर्मे प्रामाण्यं सुस्थितम् ॥ १,१.५३५४ ॥



इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य प्रथमः पादः  ॥


_________________________________________________________________________




(अथ द्वितीयः पादः)
(प्रथमेऽर्थवादाधिकरणे सूत्राणि ११८)

आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते  । १,२.१ ।

शास्त्रदृष्टाविरोधाच्च  । १,२.२ ।

तथाफलाभावात् । १,२.३ ।

अन्यानर्थक्यात् । १,२.४ ।

अभागिप्रतिषेधाच्च  । १,२.५ ।

अनित्यसंयोगात् । १,२.६ ।

विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः  । १,२.७ ।

तुल्यं च साम्प्रदायिकम्  । १,२.८ ।

अप्राप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच्छब्दार्थस्त्वप्रयोगभूतस्तस्मादुपपद्येत  । १,२.९ ।

गुणवादस्तु  । १,२.१० ।

रूपात्प्रायात् । १,२.११ ।

दूरभूयस्त्वात् । १,२.१२ ।

अपराधात्कर्तुश्च पुत्रदर्शनम्  । १,२.१३ ।

आकालिकेप्सा  । १,२.१४ ।

विद्याप्रशंसा  । १,२.१५ ।

सर्वत्वमाधिकारिकम्  । १,२.१६ ।

फलस्य कर्मनिष्पत्तेस्तेषां लोकवत्परिमाणतः फलविशेषः स्यात् । १,२.१७ ।

अन्त्ययोर्यथोक्तम्  । १,२.१८ ।
द्वितीयपादस्य प्रथमाधिकरणमारचयति

____________________________________________________

१,२.१३


वायुर्वा इत्येवमादेरर्थवादस्य मानता ।
न विधेयेऽस्ति धर्मे किं किंवासौ तत्र विद्यते   ॥ १,२.१ ॥
विध्यर्थवादशब्दानां मिथोपेक्षापरिक्षयात् ।
नास्त्येकवाक्यता धर्मे प्रामाण्यं संभवेत्कुतः ॥ १,२.२ ॥
विध्यर्थवादौ साकाङ्क्षौ प्राशस्त्यपुरुषार्थयोः ।
तेनैकवाक्यता तस्माद्वादानां धर्ममानता ॥ १,२.३ ॥



काम्यपशुकाण्डे विध्यर्थवादौ श्रूयेते ।
ऽवायव्यं श्वेतमालभेत भूतिकामःऽ इति विधिः ।
ऽवायुर्वै क्षेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति, स एवैनं भूतिं गमयतिऽ इत्यर्थवादः ।
तत्र विधिवाक्यगता वायव्यादिशब्दा अर्थवादशब्दनैरपेक्ष्येणैव विशिष्टमर्थं विदधति ।
अर्थवादशब्दश्चेतरनैरपेक्ष्येणैव भूतार्थमन्वाचक्षते ।
ऽक्षिप्रगामी वायुः स्वोचितेन भागेन तोषितो भागप्रदायैश्वर्यं प्रयच्छतिऽ इत्युक्ते रामायणभारतादाविव वृत्तान्तः कश्चित्प्रतीयते, न त्वनुष्ठेयं किञ्चित् ।
अत एकवाक्यत्वाभावान्नास्त्यर्थवादस्य धर्मे प्रामाण्यमिति प्राप्ते
ब्रूमः  मा भूत्पदैकवाक्यता ।
वाक्यैकवाक्यता तु विद्यते ।
विधिवाक्यं तावत्पुरुषं प्रेरयितुं विधेयार्थस्य प्राशस्त्यमपेक्षते ।
अर्थवादवाक्यं च फलवदर्थावबोधपर्यवसिताध्ययनविधिपरिगृहीतत्वेन पुरुषार्थमपेक्षते ।
तत्र पुरुषार्थपर्यवसितविध्यपेक्षितं प्राशस्त्यं लक्षणावृत्त्या समर्पयदर्थवादवाक्यं विधिवाक्येन सहैकवाक्यतामापद्यते ।
ऽयतः क्षिप्रगामिस्वभावतया शीघ्रफलप्रदो वायुरस्य पशोर्देवता, ततः प्रशस्तमिमं वायव्यं पशुमालभेतऽ इति वाक्ययोरन्वयः ।
तस्मादर्थवादा धर्मे प्रमाणम् ॥ १,२.१३ ॥

____________________________________________________

१,२.४


अस्मिन्नेवाधिकरणेमतान्तरमनुसृत्य पूर्वोत्तरपक्षावाह

वादोक्तहेत्वपेक्षत्वान्न विधेर्मानतेति चेत् ।
सत्यन्वये स्तुतिद्वारा नापेक्षेति गुरुर्जगौ   ॥ १,२.४ ॥



ऽयतो वायुः क्षिप्रमेव फलप्रदः, अतो वायव्यमालभेतऽ इत्येवमर्थवादोक्तं हेतुमपेक्ष्य विधिः पुरुषं नियुङ्क्ते ।
ततः सापेक्षत्वादप्रमाणमिति पूर्वपक्षः ॥
ऽविमतं कर्मानुष्ठेयम्, फलप्रददेवतोपेतत्वात्, राजसेवादिवत्ऽ इत्यनुमानं यद्यर्थवादे विवक्ष्यते, तदानीमागमप्रमाणस्य विधिवाक्यस्य प्रमाणान्तरसापेक्षत्वं स्यात् ।
न त्वेवं विवक्षितम् ।
किन्तु फलप्रददेवतातोषकत्वोपन्यासमुखेन कर्मप्राशस्त्यमुपलक्ष्यते ।
तथा सतिऽप्रशस्तं कर्मानुष्ठेयम्ऽ इत्यस्मिन्नर्थे सार्थवादस्य विदेः पर्यवसानादेकवाक्यता लभ्यते ।
तत्र कुतः सापेक्षत्वम् ।
तस्मात्विधिः प्रमाणमिति सिद्धान्तः ॥ १,२.४ ॥



(द्वितीये विधिवन्निगदाधिकरणे सूत्राणि १९२५)


विधिर्वा स्यादपूर्वत्वाद्वादमात्रम ह्यनर्थकम्  । १,२.१९ ।

लोकवदिति चेत् । १,२.२० ।

न पूर्वत्वात् । १,२.२१ ।

उक्तं तु वाक्यशेषत्वम्  । १,२.२२ ।

विधिश्चानर्थकः क्वचित्तस्मात्स्तुतिः प्रतीयेत तत्सामान्यादितरेषु तथात्वम्  । १,२.२३ ।

प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं  हि तं प्रति  । १,२.२४ ।

विधौ च वाक्यभेदः स्यात् । १,२.२५ ।


____________________________________________________

१,२.५७

द्वितीयाधिकरणमारचयति

ऊर्जोऽवरुध्या इत्येष विधिवन्निगदो न किम् ।
यूपौदुम्बरतां स्तौति स्तौति वा तद्विधित्सया   ॥ १,२.५ ॥
चतुर्थ्या फलतालाभाद्यूपौदुम्बरता फलम् ।
ऊर्जोऽवरोधं कथयन्कथं स्तुतिपरो भवेत्  ॥ १,२.६ ॥
अस्तुतौदुम्बरत्वस्याविधानात्कस्य तत्फलम् ।
अर्थद्वैधे वाक्यभेदस्तेन स्तावक एव सः   ॥ १,२.७ ॥



इदमाम्नायते ऽऔदुम्बरो यूपो भवति, ऊर्ग्वा उदुम्बरः, ऊर्क्पशवः, ऊर्जैवास्मा ऊर्जं पशूनाप्नोति, ऊर्जोऽवरुध्यैऽ इति ।
अमृतशब्दाभिधेयोऽत्यन्तसारभूतः सूक्ष्मोऽन्नरसः ऊर्गुच्यते ।
उदुम्बररूपयोर्जा यजमानार्थमध्वर्युः पशुरूपामूर्जमाप्नोति ।
ततो यूपस्यौदुम्बरत्वमूर्जः सम्पादनाय भवतीत्यर्थः ।
अत्रऽअवरुध्यैऽ इति तादर्थ्ये चतुर्थी ।
तया फलत्वं गम्यते ।
ऽधनलाभाय राजसेवाऽ इत्यादौ तद्दर्शनात् ।
न च फलपरस्य वचनस्य स्तावकत्वं युज्यते ।
अन्यथा स्वर्गकाम इत्यत्र स्वर्गशब्दस्यापि ज्योतिष्टोमस्तावकत्वप्रसङ्गादिति प्राप्ते
ब्रूमः  अयमूर्जोऽवरोधः कस्य फलं स्यात् किमविहितस्यौदुम्बरत्वस्य, उत विहितस्य ।
नाऽद्यः, अनुष्ठानमन्तरेण द्रव्यमात्रात्फलानुत्पत्तेः ।
द्वितीये किमत्र विधिः प्रत्यक्षः, उतोन्नेयः ।
नाऽद्यः,ऽऔदुम्बरो यूपो भवतिऽ इत्यत्र लिङ्प्रत्ययाश्रवणात् ।
द्वितीये स्तुत्या स उन्नेयः ।
न चात्र स्तुतिमङ्गीकरोषि ।
अथोच्येत ऽविधानायौदुम्बरत्वं स्तूयते तत्फलं चावबोध्यतेऽ इति ।
तर्हि वाक्यं भिद्येत ।
ततः फलविधिवन्निगद्यमानमप्येतद्वाक्यं स्तावकमेव ॥ १,२.५७ ॥

____________________________________________________

१,२.८


अत्रैवगुरुमतेनपूर्वोत्तरपक्षावाह

आप्नोतीति विधित्वस्य वादत्वस्याप्यनिर्णयात् ।
न प्रमा चोदनेत्येतन् वादो ह्येकवाक्यतः   ॥ १,२.८ ॥



ऊर्जं पशूनाप्नोति इत्यपूर्वार्थत्वाद्विधित्वं प्रतिभासते, लिङ्ङाद्यभावादर्थवादत्वम् ।
अतः सन्दिग्धत्वान्न प्रामाण्यं चोदनाया इति पूर्वपक्षः ॥
एकवाक्यत्वलाभेनार्थवादत्वं निर्णीयते ।
अतः प्रमाणं चोदना इति राद्धान्तः ॥ १,२.८ ॥


(तृतीये हेतुवन्निगदाधिकरणे सूत्राणि २६  ३० )

हेतुर्वा स्यादर्थवत्वोपपत्तिभ्याम्  । १,२.२६ ।

स्तुतिस्तु शब्दपूर्वत्वादचोदना तस्य  । १,२.२७ ।

अर्थे स्तुतिरन्याय्येति चेत् । १,२.२८ ।

अर्थस्तु विधिशेषत्वाद्यथा लोके  । १,२.२९ ।

यदि च हेतुरवतिष्ठेत निर्देशात्सामान्यादिति चेदवस्था विधीनां स्यात् । १,२.३० ।

तृतीयाधिकरणमारचयति

____________________________________________________

१,२.९१०


तेन ह्यन्नमिति प्रोक्तो वादो हेतुरुत स्तुतिः ।
हिना श्रुता हेतुतातः शूर्पमन्यच्च साधनम्   ॥ १,२.९ ॥
शूर्पसाधनता श्रौती नाश्रौतैः सा विकल्प्यते ।
अतो निरर्थको हेतुः स्तुतिस्तस्मात्प्रवर्तिका   ॥ १,२.१० ॥



इदमाम्नायेत ऽशूर्पेण जुहोति तेन ह्यन्नं क्रियतेऽ अयमर्थवादो विधेये शूर्पे हेतुत्वेनान्वेति ।
हिशब्दस्य हेतुवायित्वात् ।
ऽ यस्मादन्नसाधनं, तस्माच्छूर्पेण होतव्यम्ऽ इत्युक्तेऽ यद्यदन्नसाधनं दर्वीपिठरादिकं तेन सर्वेण होतव्यम्ऽ इति लभ्यते ।
ततःऽ पिठरादयः शूर्पेण सह विकल्प्यन्तेऽ इति प्राप्ते
ब्रूमः शूर्पस्य होमसाधनत्वं श्रौतम्, तृतीयया तदवगमात् ।
पिठरादीनां त्वानुमानिकम् ।
अतोऽसमानबलत्वान्न विकल्पो युक्तः ।
ततो हेतुर्व्यर्थः ।
स्तुत्रिः प्ररोचनायोपयुक्ता, तस्मात्स्तुतित्वेनान्वयः   ॥ १,२.९१० ॥


(चतुर्थे मन्त्रलिङ्गाधिकरणे सूत्राणि ३१  ५३ )


तदर्थशास्त्रात् । १,२.३१ ।

वाक्यनियमात् । १,२.३२ ।

बुद्धिशास्त्रात् । १,२.३३ ।

अविद्यमानवचनात् । १,२.३४ ।

अचेतनेऽर्थबन्धनात् । १,२.३५ ।

अर्थविप्रतिषेधात् । १,२.३६ ।

स्वाध्यायवद्वचनात् । १,२.३७ ।

अविज्ञेयात् । १,२.३८ ।

अनित्यसंयोगान्मन्त्रार्थानर्थक्यम्  । १,२.३९ ।

अविशिष्टस्तु वाक्यार्थः  । १,२.४० ।

गुणार्थेन पुनः श्रुतिः  । १,२.४१ ।

परिसंख्या  । १,२.४२ ।

अर्थवादो वा  । १,२.४३ ।

अविरुद्धं परम्  । १,२.४४ ।

संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्त्वात् । १,२.४५ ।

अभिधानेऽर्थवादः  । १,२.४६ ।

गुणादप्रतिषेधः स्यात् । १,२.४७ ।

विद्यावचनमसंयोगात् । १,२.४८ ।

सतः परमविज्ञानम्  । १,२.४९ ।

उक्तश्चानित्यसंयोगः  । १,२.५० ।

लिङ्गोपदेशश्च तदर्थवत् । १,२.५१ ।

ऊहः  । १,२.५२ ।

विधिशब्दाश्च  । १,२.५३ ।

चतुर्थाधिकरणमारचयति

____________________________________________________

१,२.१११२


मन्त्रा उरु प्रथस्वेति किमदृष्टैकहेतवः ।
यागेषूत पुरोडाशप्रथनादेश्च भासकाः ॥ १,२.११ ॥
ब्राह्मणेनापि तद्भानान्मन्त्राः पुण्यैकहेतवः ।
न तद्भानस्य दृष्टत्वाद्दृष्टं वरमदृष्टतः ॥ १,२.१२ ॥



ऽउरु प्रथस्वऽ इत्ययं कश्चिन्मन्त्रः ।
तस्यायमर्थः  भोः पुरोडाश, स्वमुरुविपुलता यथा भवति तथा प्रसरऽ इति ।
एवमादयो मन्त्रा यागप्रयोगेपूच्चार्यमाणा अदृष्टमेव जनयन्ति ।
नत्वर्थप्रकाशनाय तदुच्चारणम् ।
पुरोडाशप्रथन लक्षणस्यार्थस्य व्राह्मणवाक्येनापि भासनात्थऽउरु प्रथस्वेति पुरोडाशं प्रथयतिऽ इति हि ब्राह्मणवाक्यम् ,[इति चेत्ट ।
नैतद्युक्तम् ।
अर्थप्रत्यायनस्य दृष्टप्रयोजनस्कय संभवे सति केवलादृष्टस्य कल्पयितुमशक्यत्वात् ।
तस्माद्दृष्टमर्थानुस्मपणमेव यागप्रयोगे मन्त्रोच्चारणस्य प्रयोजनम् ।
ब्राह्मणवाक्येनाप्यर्थानुस्मरणसंभवेऽमन्त्रेणैवानुस्मपणीयम्ऽ इति यो नियमः, तस्य दृष्टासंभवाददृष्टं प्रयोजनमस्तु ॥ १,२.१११२ ॥

____________________________________________________

१,२.१३


अत्रैव मतान्तरेण पूर्वोत्तरपक्षावाह

मन्त्रब्राह्मणयोर्यद्वा कलहो विनियोजने ।
न मन्त्रलिङ्गसिद्धार्थमनुवक्तीतरद्यतः ॥ १,२.१३ ॥



अस्य मन्त्रस्य लिङ्गेन विनियोगे ब्राह्मणवाक्यमविवक्षितार्थे स्यात् ।
वाक्येन विनियोग मन्त्रलिङ्गं न विवक्ष्येत ।
इत्युभयोर्विरोधादप्रामाण्यं चोदनाया इति पूर्वेः पक्षः ।
नायं विरोधः, प्रबलेन हि लिङ्गेन विनियोगसिद्धौ वाक्यस्यानुवादकत्वादिति
राद्धान्तः ॥ १,२.१३ ॥


इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य द्वितीयः पादः


_________________________________________________________________________




अथ तृतीयः पादः


(प्रथमे स्मृतिप्रामाण्याधिकरणे सूत्रे  १२)

धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात् । १,३.१ ।

अपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यात् । १,३.२ ।

____________________________________________________

१,३.१२


तृतीयपादस्य प्रथमाधिकरणमारचयति

अष्टकादिस्मृतेर्धर्मे न मात्वं मानताथवा ।
निर्मूलत्वान्न मानं सा वेदार्थोक्तौ निरर्थता  ॥ १,३.१ ॥
वैदिकैः स्मर्यमाणत्वात्संभाव्या वेदमूलता ।
विप्रकीर्णार्थसेक्षेपात्सार्थत्वादस्ति मानता  ॥ १,३.२ ॥



"अष्टकाः कर्तव्याः"इत्यादि स्मृतिवाक्यं न धर्मे प्रमाणम , पौरुषेयवाक्यत्वे सति मूलप्रमाणरहितत्वात्, विप्रलम्भकवाक्यत्वात् ।
अथ मूलप्रमाणवत्त्वाय वेदार्थ एव स्मृतिरनर्था स्यात् ।
तदानीमनुवादकत्वादप्रामाण्यमिति प्राप्ते  ब्रूमः ऽ विमता स्मृतिर्वेदमूला, वैदिकमन्वादिप्रणीतस्मृतित्वात्, उपनयानाध्ययनादिस्मृतिवत्ऽ ।
न च वैयर्थ्ये शङ्कनीयम् ।
अस्मदादीनां प्रत्यक्षेषु परोक्षेषु चं नानावेदेषु विप्रकीर्णस्यानुष्ठेयार्थस्यैकत्र संक्षिप्यमाणत्वात् ।
तस्मादियं स्मृतिधर्मे प्रमाणम् ॥ १,२.१२ ॥

____________________________________________________

१,३.३


अस्मिन्नेव मतान्तरेण पूर्वोत्तरपक्षावाह

न मा स्मार्ताष्टङ्काङ्गत्वाद्यां जना इति मन्त्रगीः ।
तन्न स्मृतेर्मूलवेदेऽनुमिते मात्वसंभवात् ॥ १,३.३ ॥



ऽयां जनाः प्रतिनन्दतिऽ इत्ययं मन्त्रोष्टकाश्राद्धस्याङ्गम् ।
तेच्च श्राद्धं स्मार्तम् ।
न हि तस्य प्रतिपादकं वेदवाक्यमुपलभामहे ।
तस्मादिदं मन्त्रवाक्यं न धर्मे प्रमाणमिति चेत् ।
न ।
तन्मूलस्य वेदस्यानुमेयत्वात् ।
अनुमानं च दर्शितम् ।
तस्मादसौ मन्त्रो धर्मे प्रमाणम् ॥ १,२.३ ॥


(द्वितीये श्रुतिप्राबल्याधिकरणे सूत्रम्)

विरोधे त्वनपेक्ष्यं स्यादसति ह्यनुमानम्  । १,३.३ ।

____________________________________________________

१,३.४५


द्वितीयाधिकरणमारचयति

औदुम्बरी वेष्टनीया सर्वेत्येषा स्मृतिर्मितिः ।
अमितिर्वेति संदेहे मितिः स्यादष्टकादिवत् ॥ १,३.४ ॥
औदुम्बरीं स्पृशन्गायेदिति प्रत्यक्षवेदतः ।
विरोधान्मूलवेदस्याननुमानादमानता  ॥ १,३.५ ॥



ज्योतिष्टोमे सदोनामकस्य मण्डपस्य मध्ये काचिदौदुम्बरी  शाखा निखन्यते ।
तस्याश्र्च वाससा वेष्टनं स्मर्यतेऽ औदुम्बरी सर्वा वेष्टयितव्याऽ इति ।
सा स्मृतिः प्रमाणम्, अष्टकादिस्मृतिष्विव मूलवेदस्यानुमातुं शक्यत्वादिति प्राप्ते
ब्रूमः ऽ औदुम्बरीं स्पृष्ट्वोद्गायेत्ऽ इति प्रत्यक्षेवदवचनेन स्पर्शो विधीयते ।
न च सर्ववेष्टने स्पर्शः संभवति ।
अतो मूलवेदानुमानं कालात्ययापदिष्टम ।
अतो विप्रलम्भकवाक्यवन्निर्मूला स्मृतिरप्रमाणम् ॥ १,२.४५ ॥

____________________________________________________

१,३.६७

अस्मिन्नेवाधिकरणे मतान्तरमाह
प्रत्यक्षानुमितश्रुत्योर्यद्वा व्याघातदर्शनात् ।
अमात्वे शङ्किते बाधोऽनुमानस्यात्र वर्ण्यते  ॥ १,३.६ ॥
परप्रत्यक्षवेदोऽत्र मूलं चेद्वेष्टनस्य तत् ।
अस्त्वेवमप्यनुष्ठानं स्वप्रत्यक्षानुरोधतः  ॥ १,३.७ ॥



स्पर्शसर्ववेष्टनविषययोः प्रत्यक्षानुमितश्रुत्योः परस्परविरोधादुभयोरप्यप्रामाण्यमिति पूर्वपक्षः ।
अनुमानस्य कालात्ययापदिष्टतया विरुद्धश्रुत्यभावेन स्पर्शश्रुतिः स्वार्थे प्रमाणम् ।
यदि पुरुषान्तरप्रत्यक्षवेदः सर्ववेष्टनस्मृतेर्मूलमित्युच्यते, तर्हि मा भूत्तस्या अप्रामाण्यम् ।
तथापि परप्रत्यक्षात्स्वप्रत्यक्षस्याभ्यर्हितत्वेन स्पर्श एवात्रानुष्ठेयो नतु सर्ववेष्टनम् ॥ १,२.६७ ॥


(तृतीये दृष्टमूलकस्मृत्यप्रामाण्याधिकरणे सूत्रम् ) ।

हेतुदर्शनाच्च  । १,३.४ ।

____________________________________________________

१,३.८९


तृतीयाधिकरणमारचयति

वैसर्जनाख्यहोमीयनाससो ग्रहणस्मृतिः ।
प्रमा न वा श्रुत्यबाधात्प्रमा स्यादष्टकादिवत् ॥ १,३.८ ॥
दृष्टलोभैकमूलत्वसंभवे श्रुत्यकल्पनात् ।
सर्ववेष्टनवद्वाधहीनाप्येषा न हि प्रमा  ॥ १,३.९ ॥



ज्योतिष्टोम्ऽग्नीषोमीयस्य पशोस्तन्त्रे प्रक्रान्ते वैसर्जनहोमो विहितः ।
तत्र यजमानं पत्नीं पुत्रांश्र्च भ्रातॄंश्र्चाहतेन वाससा प्रच्छाद्य वाससोऽन्ते स्त्रुग्दण्डमुपनिबध्य जुहोति ।
तस्मिन्वासस्येवं स्मर्यते ऽ वैसर्जनहोमीयं वासोऽध्वर्युर्गृह्णातिऽ इति ।
सेयं स्मृतिः सर्ववेष्टनस्मृतिवत्प्रत्यक्षश्रुत्या न बाध्यते ।
ततोऽष्टकादिस्मृतिवत्प्रमाणमिति प्राप्ते
ब्रूमः कदाचित्कश्र्चिदध्वर्युर्लोभादतद्वासो जग्राह ।
तन्मूलैवैषा स्मृतिरित्यपि कल्पना संभवति ।
दृष्टामुसारिणी चैषां कल्पना ।
दक्षिणया परिक्रीतानामृत्विजां लोभदर्शनात् ।
तथा सत्यस्याः स्मृतेरन्यथाप्युपपत्तावष्टकादिश्रुतिवन्न मूलश्रुतिः कल्पयितुं शक्यते ।
अतो बाधाभावेऽपि मूलभेदाभावान्नेयं स्मृतिः प्रमाणम् ॥ १,२.८९ ॥


(चतुर्थे पदार्थप्रबल्याधिकरणे सूत्राणि ५  ७)


शिष्टाकोपेऽविरुद्धमिति चेत् । १,३.५ ।

न शास्त्रपरिमाणत्वात् । १,३.६ ।

अपि वा कारणग्रहणे प्रयुक्तानि प्रतीयेरन्  । १,३.७ ।

____________________________________________________

१,३.१०११


चतुर्थाधिकरणं भाष्यमतेनाऽरचयति

आचान्तेनेत्यमा मा वा स्मृतिरेषा न मा भवेत् ।
वेदं कृत्वेति यः श्रौतः क्रमस्तेन विरोधतः  ॥ १,३.१० ॥
आचान्त्यादिः पदार्थोऽत्र क्रमो धर्मः पदार्थगः ।
धर्मस्य धर्म्यपेक्षत्वादबाधादस्ति मानता  ॥ १,३.११ ॥



ऽक्षुत आचामेत्ऽ इति विहितं पुरुषार्थमाचमनम् ।
यदा तु क्रतुमध्ये क्षुतादि निमित्तं प्रप्नोति तदा नैमित्तिकमाचमनं क्रत्वङ्गत्वेन स्मृत्या विधीयते ।
ऽ आचान्तेन कर्तव्यम्ऽ इति ।
सेयं स्मृतिर्न प्रमाणम् ।
कुतः ।
विरूद्धत्वात् ।
ऽवेदं कृत्वा वेदिं करोतिऽ इति श्रुतौ पूर्वकालवाचिना त्वाप्रत्ययेन क्रमः प्रतीयते ।
वेदो नाम दर्भमयं संमार्जनसाधनम् ।
वेदिराहवनीयगार्हपत्यमध्यवर्तिनी चतुरङ्गुलखाता भूमिः ।
तयोर्मध्ये यदि क्षुतादिनिमित्तमाचमनं कुर्यात्, तदा श्रुत्युक्तं नैरन्तर्यं विरूध्येत ।
तस्माद्वेष्टनस्मृतिवदाचमनस्मृतिर्न प्रमाणमिति प्रप्ते
ब्रूमः वेदवेद्यादिश्रुत्युक्तपदार्थवदाचमनादयः स्मृत्युक्ता अनुष्ठेयपदार्थाः ।
क्रमस्तु पदार्थनिष्ठो धर्मः ।
स च पदार्थानुपजीवति ।
तत उपजीव्यविरोधात्क्रम एव बाध्यते ।
नतु क्रमेणाऽचमनस्य बाधोऽस्ति ।
तस्मादियं स्मृतिः प्रमाणम् ।
अस्मिन्नेव वार्तिककारः प्रकारान्तरेण विचारद्वयं चकार ॥ १,२.१०११ ॥

____________________________________________________

१,३.१२


तत्र प्रथमं विचारं दर्शयति

शाक्योक्ताहिंसनं धर्मो न वा धर्मः श्रुतत्वतः ।
न धर्मो नहि पूतं स्याद्गोक्षीरं श्र्वदृतौ धृतम्  ॥ १,३.१२ ॥



ऽब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यत्नेन रक्षेत्ऽ इति श्रुतावहिंसादिर्धर्मत्वेनोक्तः ।
स एव धर्मः शाक्येनाप्युक्तः ।
तस्माच्छाक्यस्मृतिर्धर्मे प्रमाणमिति चेत् ।
न ।
स्वरूपेण धर्मस्यापि गोक्षीरन्यायेन शाक्यसंबन्धे सत्यधर्मत्वप्रसङ्गात् ।
तदीयग्रन्थेनाहिंसादिर्नावगन्तव्यः ।
तस्मान्न सा स्मुतिर्धर्मे प्रमाणम् ॥ १,२.१२ ॥

____________________________________________________

१,३.१३


विचारान्तरं दर्शयति
सदाचारोऽप्रमा मा वा निर्मूलत्वादमानता ।
अष्टकादेरिवैतस्य समूलत्वात्प्रमाणता  ॥ १,३.१३ ॥



होलाकोत्सवादिसदाचारस्य मूलभूतवेदाभावादप्रामाण्यमिति चेत् ।
न ।
वैदिकैः शिष्टैः परिगृहीतत्वेनाष्टकादिवद्वेदमूलत्वात् ।
अत एव मन्वादिभिर्ग्रन्थगौरवभयाद्विशेषाकारेणानुपदिष्टोऽपि सदाचारः सामान्याकारेणोपदिष्टः ।
"श्रुतिः स्मृतिः सदाचारः"इत्येवं धर्मे प्रमाणोपन्यासात् ।
तस्माच्छिष्टचार प्रमाणम् ॥ १,२.१३ ॥


(पञ्चमेशास्त्रप्रसिद्धार्थप्रामाण्याधिकरणे[आर्यम्लेच्छाधिकरणेटसूत्रे ८  ९)

तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात् । १,३.८ ।

शास्त्रस्था वा तन्निमित्तत्वात् । १,३.९ ।

____________________________________________________

१,३.१४१५


पञ्चमाधिकरणमारचयति

यंवान्दिशब्दाः किं द्व्यर्था नो वार्ऽऽयम्लेच्छसाम्यतः ।
दीर्घशूकप्रियङ्ग्वाद्या द्वयेऽप्यर्था विकल्पिताः  ॥ १,३.१४ ॥
यत्रान्या इति शास्त्रस्था प्रसिद्धिस्तु बलीयसी ।
शास्त्रीयधर्मे तेनात्र प्रियङ्ग्वादि न गृह्यते  ॥ १,३.१५ ॥



ऽयवमयश्र्चरुर्भवतिऽऽवाराही उपानहावुपमुञ्चतेऽ इति श्रूयते ।
तत्र यव शब्दमार्या दीर्घशूकेषु प्रयुञ्जते वराहशब्दं च सूकरे ।
म्लेच्छास्तु यवशब्दं प्रियङ्गुषु , वराहशब्दं च कृष्णशकुनौ ।
तथा सति लोकव्यवहारेण निश्र्चेतव्येषु शब्दार्थेष्वार्यम्लेच्छप्रसिद्ध्योः समानबलत्वादुभयविधा अष्यर्था विकल्पेन स्वीकार्या इति प्रप्ते
ब्रूमः शास्त्रीयधर्मावबोधे शास्त्रप्रसिद्धिर्बलीयसी ।
प्रत्यासन्नत्वादविच्छिन्नपारम्पर्यागतत्वाच्च ।
शास्त्रे यवविध्यर्थवाद एवं श्रूयते ऽ यत्रान्या ओषधयो म्लायन्ते, अथैते मोदमाना इवोतिष्ठन्तिऽ इति ।
इतरौषधिविनाशकालेऽभिवृद्धिर्घशूकेषु दृश्यते, न तु प्रियङ्गुषु ।
तेषामितरौषधिपरिपाकात्पूर्वे पच्यमानत्वात् ।
वाराहोपानद्विध्यर्थवादश्र्चैवं भवति ऽ वराहं गावोऽनुधावन्तिऽ इति ।
गवामनुधावनं शूकरे संभवति न तु कृष्णशकुनौ ।
तस्माद्दीर्घशूक्दिर्यवादिशब्दार्थः ।
अत्र  वार्तिककारः पीलुशब्दमुदाजहार ।
तं च म्लेच्छा हस्तिनि प्रयुञ्जते, आर्यास्तु वृक्षे ।
तत्राविप्लुतव्यवहारस्यार्ऽऽयेषु  संभवाद्वृक्ष एव पीलुशब्दार्थः ॥ १,२.१४१५ ॥

____________________________________________________

१,३.१६


अस्मिन्नेवाधिकरणे गुरुमतमाह

यवाद्यर्थानिर्णयेन तद्वाक्यं न प्रमेति चेत् ।
न शास्त्रस्य बलित्वेन तत्प्रसिद्ध्यार्ऽथनिर्णयात् ॥ १,३.१६ ॥



स्पष्टोऽर्थः ॥ १,२.१६ ॥

____________________________________________________

१,३.१७१८


अस्मिन्नेवाधिकरणे वार्तिककारमतेन वर्णकान्तरमारचयति

यो मातुलविवाहादौ शिष्टाचारः स मा  न वा ।
इतराचारवन्मात्वममात्वं स्मर्तबाधनात  ॥ १,३.१७ ॥
स्मृतिमूलो हि सर्वत्र शिष्टाचारस्ततोऽत्र च ।
अनुमेया स्मृतिः स्मृत्या बाध्या प्रत्यक्षया तु सा  ॥ १,३.१८ ॥




केषुचिद्दक्षिणदेशेषु मातुलस्य दुहितरं शिष्टाः परिणयन्ति ।
सोऽयमायारः प्रमाणं, शिष्टाचारत्वात्, होलाकाद्याचारवत्, इति चेत् ।
न ।
स्मृतिविरुद्धत्वेन कालात्ययापदिष्टत्वात् ।
तथा च स्मृतिः
"मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च ।
समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत्" ॥ इति ।
न च स्मृत्याचारयोर्मूलवैदानुमापकसाम्यात्समबलत्वमिति शङ्कनीयम् ।
होलाकादिसदाचारस्य मन्वादिस्मृतिवद्वेदानुमापकत्वायोगात् ।
नहीदानीन्तनाः शिष्टा मन्वादिवद्देशकालविप्रकृष्टं वेदं दिव्यज्ञानेन साक्षात्कर्तु शक्नुवन्ति ।
येन शिष्टचारो मूलवेदमनुमापयेत् ।
शक्नोति च यः कोपि शिष्टो यत्र क्वापि देशविशेषे कालविशेषे च यं कञ्चनापि होलाकाद्याचरस्य मूलभूतं स्मृतिग्रन्थमवलोकयितुम् ।
तस्माच्छिष्टाचारेण स्मृतिरेवानुमातुं  शक्यते, नतु श्रुतिः ।
अनुमिता च स्मृतिर्विरूद्धया प्रत्यक्षया स्मृत्या बाध्यते ।
अत एवाऽहुः
"आचारात्तु स्मृतिं ज्ञात्वा स्मृतिश्र्च श्रुतिकल्पमम् ।
तेन द्वयन्तरितं तेषां प्रामाण्यं विप्रकष्यते" ॥ इति ।
तस्मादीदृशस्याऽचारस्याप्रामाण्यमभ्युपेयम् ॥ १,२.१७१८ ॥

____________________________________________________

१,३.१९


तत्रैवापरं वर्णकमारचयति

लौकिको वाक्यगो वार्ऽथस्त्रिवृदादेः समत्वतः ।
उभौ विध्यर्थवादैकवाक्यत्वादस्त्विहान्तिमः ॥ १,३.१९ ॥



ऽत्रिवृद्वहिष्पवमानम्ऽ इति श्रुतौ विवृच्छब्दस्य त्रैगुण्यं लोकसिद्धोर्ऽथः ।
वाक्यशेषादृक्त्रयात्मकेषु त्रिषु सूक्तेष्ववस्थितानां बहिष्पवमानात्मकस्तोत्रनिष्पादनक्षमाणाम्ऽ उपास्मै गायता नरःऽ  इत्यादीनामृचां नवकमर्थः ।
तत्र धर्मनिणये वेदस्य प्रबलत्वेऽपि पदपदार्थनिर्णये लोकवेदयोः समानबलत्वादुभावप्यर्थौ विकल्पेव ग्रहीतव्याविति चेत् ।
मैवम् ।
लौकिकार्थस्वीकारपक्षे विधिवाक्येर्ऽथस्त्रैगुण्यम्, अर्थवादवाक्ये स्तोत्रियाणामृचां नवकम् , इत्येवं विध्यर्थवादयोर्वैयधिकरण्यादेकवाक्यत्वं न स्यात् ।
अत एकवाक्यत्वाय स्तोत्रियाणां नवकमित्येव विधिवाक्ये नियतोर्ऽथः ॥ १,२.१९ ॥


(षष्ठे म्लेच्छप्रसिद्धार्थप्रामाण्याधिकरणे सूत्रम्)

चोदितं तु प्रतीयेताविरोधात्प्रमाणेन  । १,३.१० ।

____________________________________________________

१,३.२०२१


षष्ठाधिकरणमारचयति

कल्प्यः पिकादिशब्दार्थो ग्राह्यो वा म्लेच्छरूढितः ।
कल्प्य आर्योष्वसिद्धत्वादनार्याणानमादरात् ॥ १,३.२० ॥
ग्राह्य म्लोच्छप्रसिद्धिस्तु विरोधादर्शने सति ।
पिकनेमादिशब्दानां कोकिलाद्यर्थता ततः ॥ १,३.२१ ॥



आर्याः पिकादिशब्दं न क्वाप्यर्थे प्रयुञ्जते, म्लेच्छाश्र्च न प्रमाणभूताः ।
तस्मान्निगमनिरूक्तव्याकरणैः पिकनेमादिशब्दानामर्थः कल्पनीय इति चेत् ।
मैवम् ।
आर्यप्रसिद्धिविरोधस्यादृष्टत्वेनेदृशे विशय म्लेच्छप्रसिद्धेरप्यादरणीयत्वात् ।
कल्प्यमानादब्यवस्थितादर्थाद्वरे म्लेच्छरूढिः ।
यत्रेदृश्या अपि रूढेरभावस्तत्र निरूक्तादयश्र्चरितार्थाः ।
तस्मादनार्य प्रसिद्ध्या पिकः कोकिलः, नेमशब्दोर्ऽधवाची , तामरसशब्दः पद्मवाची, इत्येवं द्रष्टव्यम् ॥ १,२.२०२१ ॥

____________________________________________________

१,३.२२


अस्मिन्नेवाधिकरणे गुरुमतमाह

अर्थाबोधादप्रमाणं पिकालम्भनचोदना ।
मैवं म्लेच्छप्रसिद्ध्यापि तब्दोधादविरुद्धया ॥ १,३.२२ ॥


स्पष्टोऽर्थः ॥ १,२.२२ ॥


(सप्तमे कल्पसूत्रास्वतः प्रामाण्याधिकरणे सूत्राणि ११  १४ ) ।


प्रयोगशास्त्रमिति चेत् । १,३.११ ।

नासंनियमात् । १,३.१२ ।

अवाक्यशेषाच्च  । १,३.१३ ।

सर्वत्र च प्रयोगात्संनिधानशास्त्राच्च  । १,३.१४ ।

____________________________________________________

१,३.२३२४


सप्तमाधिकरणमारचयति

अपौरुषेयाः कल्पाद्याः कृत्रिमा वा न कृत्रिमाः ।
श्रुतिस्मत्योर्धर्मबुद्धेः स्वतो मात्वं यतः समम् ॥ १,३.२३ ॥
पुंनामोक्तेः पौरुषेयाः काठकाद्यसमत्वतः ।
तत्रोपलेभिरे केचिदापस्तम्बादिकर्तृताम् ॥ १,३.२४ ॥



बौधायनापस्तम्बा श्र्वलायनकात्यायनादिनामाङ्किताः कल्पर्सूत्रग्रन्थाः, निगमनिरुक्तादिषडङ्गग्रन्थाः, मन्वादिस्मृतयश्र्चाषौरुषेयाः, धर्मबुद्धिजनकत्वात्, वेदवत् ।
न च मूलप्रमाणसापेक्षत्वेन वेदवैषम्यमिति शङ्कनीयम् ।
उत्पन्नाया बुद्धेः स्वतः प्रामाण्याङ्गीकारेण निरपेक्षत्वात् ।
मैवम् ।
उक्तानुमानस्य कालात्ययापदिष्टत्वात् ।
बौधायनसूत्रम् , आपस्तम्बसूत्रम्, इत्येवं पुरुषनाम्ना ते ग्रन्था उच्यन्ते ।
न च काठकादिसमाख्यवत्प्रवचननिमित्तत्वं युक्तम् ।
तद्ग्रन्थनिर्माणकाले तदानीन्तनैः कैश्र्चिदुपलब्धत्वात् ।
तच्चाविच्छिन्नपारम्पर्येणानुवर्तते ।
ततः कालिदासादिग्रन्थवत्पौरुषेयाः ।
तथापि वेदमूलत्वात्प्रमाणम् ॥ १,२.२३२४ ॥

____________________________________________________

१,३.२५


अत्रैव गुरुमतमाह

कल्पे सर्वतिथौ दर्शकार्यतोक्तेः श्रुतिर्न मा ।
न कल्पे साध्यवेदत्वप्रहाणाद्दुर्बलत्वतः ॥ १,३.२५ ॥



सर्वतिथौ दर्शयागकर्तव्यतां कल्पसूत्रकार आह "सर्वासु तिथिष्वमावास्या कर्तव्या"इति ।
श्रुतिस्त्वमावास्यायामेव तिथौ कर्तव्यतां ब्रूते ।
ततः कल्पसूत्ररूपेंण वेदेन विरुद्धत्वादियं श्रुतिर्न मानमिति चेत् ।
मैवम् ।
कल्पस्य वेदत्वं नाद्यापि सिद्धम् ।
किन्तु यत्नेन साध्यम् ।
न च तत्साधयितुं शक्यम् ।
पौरुषेयत्वस्य समाख्यया तत्कर्तुरुपलम्भेन च साधितत्वात् ।
अतः कल्पसूत्रस्य दुर्बलतया न श्रुतेरप्रामाण्यम् ॥ १,२.२५ ॥



(अष्टमे होलाकाधिकरणे सूत्राणि १४  २३)


अनुमानव्यवस्थानात्तत्संयुक्तं प्रमाणं स्यात् । १,३.१५ ।

अपि वा सर्वधर्मः स्यात्तन्न्यायत्वाद्विधानस्य  । १,३.१६ ।

दर्शनाद्विनियोगः स्यात् । १,३.१७ ।

लिङ्गाभावाच्च नित्यस्य  । १,३.१८ ।
आख्या हि देशसंयोगात् । १,३.१९ ।

न स्याद्देशान्तरेष्विति चेत् । १,३.२० ।

स्याद्योगाख्या हि माथुरवत् । १,३.२१ ।

कर्मधर्मो वा प्रवणवत् । १,३.२२ ।

तुल्यं तु कर्तृधर्मेण  । १,३.२३ ।

____________________________________________________

१,३.२६


अष्टमाधिकरणमाचरयति

होलाकादेर्व्यवस्था स्यात्साधारण्यमुताग्रिमः ।
देशभेदेन दृष्टत्वात्साम्यं मूलसमत्वतः ॥ १,३.२६ ॥



होलाकादिशिष्टाचाराणां हारीतादिस्मृतिविशेषाणां चानुष्ठातृपुरुषभेदेन व्यवस्थितं प्रामाण्यम् ।
कुतः ।
देशविशेषे तेषां दृष्टत्वात् ।
होलाकादयः प्राच्यैरेव क्रियन्ते ।
वसन्तोत्सवो होलाका ।
आह्नीनैबुकादयो दाक्षिणात्यै  स्वस्वकुलागतं करञ्जार्कादिस्थावरदेवतापूजादिकमाह्नीनैबुकशब्देनोच्यते ।
उद्वृषभयज्ञादय उदीच्यैः ।
ज्येष्ठमासस्य पौर्णमास्यां बलीवर्दानभ्यर्च्य धावयन्ति सोऽयमुद्वृषभयज्ञः ।
एवं हारीतादिस्मृतिः काचित्क्वचिद्देशविशेषे दृश्यते ।
तस्माद्व्यवस्थितं प्रामाण्यमिति चेत् ।
मैवम् ।
तन्मूलत्वेनानुमितस्य वेदस्य सर्वसाधारणत्वेन तेषामपि सर्वसाधारणत्वात् ॥ १,२.२६ ॥

____________________________________________________

१,३.२७

अत्रैव गुरुमतमाह

प्राच्यादिपदयुक्तायाः श्रुतेरनुमितौ पदे ।
अर्थाबोधादमात्वं चेन्न सामान्यामुमानतः  ॥ १,३.२७ ॥



प्राच्यादिभिर्व्यवस्थया होलाकादिष्वनुष्ठीयमानेषु तन्मूलश्रुतिरपि प्राच्यादिपदयुक्तैवानुमातव्या ।
तत्र प्राच्यादिपदस्यार्थो न बुध्यते ।
ये पुरुषाः कञ्चित्कालं प्राच्यां निवसन्ति , त एव कालान्तरे प्रतीच्यां निवसन्त उपलभ्यन्ते ।
तत्र श्रौतप्राच्यादिपदस्यार्थाबोधादप्रमाणं श्रुतिरिति चेत् ।
मैवम् ।
अनुष्ठानसामान्यस्य मूलश्रुतिकल्पकत्वात् ।
अतः प्राच्यादिपदराहित्ये सत्यर्थबोधादनुमिता श्रुतिः प्रमाणम् ॥ १,२.२७ ॥


(नवमे साधुपदप्रयुक्त्यधिकरणे सूत्राणि २४  २९ )


प्रयोगोत्पत्यशास्त्रत्वाच्छब्देषु न व्यवस्था स्यात् । १,३.२४ ।

शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम्  । १,३.२५ ।

अन्यायश्चानेकशब्दत्वम्  । १,३.२६ ।

तत्र तत्त्वमभियोगविशेषात्स्यात् । १,३.२७ ।

तदशक्तिश्चानुरूपत्वात् । १,३.२८ ।

एक देशत्वाच्च विभाक्तिव्यत्यये स्यात् । १,३.२९ ।

____________________________________________________

१,३.२८२९


नवमाधिकरणमारचयति
गोगाव्यादिषु साधुत्वे प्रयोगे वा न कश्र्चन ।
नियमोऽत्रास्ति बा नास्ति व्याकृतेर्मूलवर्जनात् ॥ १,३.२८ ॥
साधूनेव प्रयुञ्जीत गवाद्या एव साधवः ।
इत्यस्ति नियमः पूर्वपूर्वव्याकृतिमूलतः  ॥ १,३.२९ ॥



व्याकरणाभिज्ञैः सास्नादिमद्वस्तुनिऽगौःऽ इत्येष शब्दः प्रयुज्यते ।
तदनभिज्ञैस्तु स्वस्वदेशीयभाषामनुसृत्य गावी, गोणी, गोपोतलिका, इत्येवमादयः शब्दः प्रयुज्यन्ते ।
तत्र ऽईदृष एव शब्दः साधुः, नेदृशःऽ  इत्यस्मिन्नर्थे नियामकं नास्ति ।
तथा योगेऽपि तन्नास्ति ऽ ईदृश एव शब्दः प्रयोक्तव्यः , नेदृशःऽ इति न तावद्वृद्धव्यवहारो नियामकः ।
तस्य सर्वेषु शब्देषु समानत्वात् ।
नापि व्याकरणस्मृतिर्नियामिका ।
तस्या निर्मूलत्वेनाप्रमाणत्वात् ।
न ह्यभियुक्तप्रयोगस्तन्मूलम ।
अन्योन्याश्रयत्वप्रसङ्गात् ।
व्याकरणस्मृतेः प्रामाण्यसिद्धौ तदनुसारेण प्रयोक्तॄणाममियुक्तत्वसिद्धिः ।
तत्सिद्धौ तत्प्रयोगमूलतया व्याकरणस्य प्रामाण्यम् ।
तस्मान्नास्ति साधुत्वप्रयोगयोर्नियमः , इति प्राप्ते
ब्रूमः ऽ साधूनेव प्रयुञ्जति, न त्वपभ्रंशान्ऽ इत्यस्ति नियमः ।
उभयत्र क्रमेण दोषगुणवादिनोर्वेदवाक्ययोः श्रवणात् ।
"एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति"इति गुणवाक्यम् ।
"तस्माद्ब्राह्मणेन न म्लेच्छितवैऽ नापभाषितवै , म्लेच्छो ह वा एष यदपशब्दः"इति दोषवाक्यम् ।
यथा प्रयोगे नियमस्तथा साधुत्वेऽपि नियमो द्रष्टव्यः ऽगवाद्या एव साधवः, न तु गाव्यादयःऽ इति ।
अस्मिन्नर्थे व्याकरणस्य नियामकत्वात् ।
न च निर्मूलत्वम् , पूर्वपूर्वव्याकरणस्य तन्मूलत्वात् ।
एतदेवाभिप्रेत्योक्तम् ऽ तत्र यूपाधिकरणवद्व्याकरणपरम्परानादित्वादनुपालम्भःऽ इति व्याकरण प्रामाण्यं वेदेनैव साक्षादुपन्यस्तम् ।
तथाऽचार्थवणिका आमनन्ति "द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च ।
तत्रापरा  ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम"इति ।
तैत्तिरीयकब्राह्मणेऽपि व्याकरणस्योपादेयता श्रूयते ऽवाग्वै पराच्यव्याकृतावदत् ।
ते देवा इन्द्रमब्रुवन् ऽइमां नो वाचं व्याकुरु, इति तामिन्द्रो मध्यतोऽपक्रम्य व्याकरोत् ।
तस्मादियं व्याकृता वागुद्यतेऽ इति ।
व्याकर्तारश्र्च पाणिनिकात्यायनपतञ्जलयो मन्वादिसमानाः ।
तस्मात्साधूनामेव प्रयोगे गवादीनामेव साधुत्वे व्याकरणस्मृतिः प्रमाणम् ॥ १,२.२८२९ ॥

____________________________________________________

१,३.३०

अत्रैव गुरुमतमाह

अश्र्वालम्भनशास्त्रस्य दन्त्यतालव्यसंशयात् ।
अमात्वेऽदन्त्यनिर्णीतिराप्तोक्तव्याकृतेर्बलात् ॥ १,३.३० ॥



"अश्र्वमालभेत"इत्यत्राकारवकारयोर्मध्यवर्तिनो वर्णस्य दन्त्यत्वेऽ स्वं धनम् , तद्रहितं दरिद्रमालभेतऽ इत्यर्थो भवति ।
तालव्यत्वे तुरङ्गमवाचित्वम् ।
ततः संशयादप्रामाण्यमिति चेत् ।
न ।
व्याकरणानुसारेण"अशू व्याप्तौ"इत्यस्माद्धातोरौणादिके वप्रत्यये सति तालव्यत्वनिर्णयात् ।
तस्मादश्र्वालम्भनशास्त्रं प्रमाणम् ॥ १,२.३० ॥


(दशमे लोकवेदयोः शब्दैक्याधिकरण आकृत्यधिकरणे वा सूत्राणि ३०  ३५) ।


प्रयोगचोदनाभावादर्थैकत्वमविभागात् । १,३.३० ।

अद्रव्यशब्दत्वात् । १,३.३१ ।

अन्यदर्शनाच्च  । १,३.३२ ।

आकृतिस्तु क्रियार्थत्वात् । १,३.३३ ।

न क्रिया स्यादिति चेदर्थान्तरे विधानं न द्रव्यमिति चेत् । १,३.३४ ।

तदर्थत्वात्प्रयोगस्याविभागः  । १,३.३५ ।

____________________________________________________

१,३.३१३२


दशमाधिकरणे प्रथमं वर्णकमाचरयति

लोके पदापदार्थौ यौ न तौ वेदेऽथवात्र तौ ।
रूपभेदात्पदं भिन्नमुत्तानादिभिदा स्फुटा  ॥ १,३.३१ ॥
वर्णैकत्वात्पदैकत्वं क्वाचित्की रूपभिन्नता ।
प्रायिकेण पदैक्येन तदर्थैक्यं तथाविधम्  ॥ १,३.३२ ॥



वैदिकौ पदपदार्थौ लौकिकाभ्यां पदपदार्थाभ्यामन्यौ ।
कुतः ।
रूपभेदात् ।
पदे तावद्रूपभेदो दृश्यते ।
आत्मशब्द आकारादित्वेन लोके नियतः ।
वेदे तु क्वचिदाकाररहितः पठ्यते "प्रयतं पुरूषं त्मना"इति ।
ऽब्राह्मणाःऽ इति लोके ।
वेदे त्वन्यथा पठ्यते "ब्राह्मणासः पितरः सोम्यासः"इति ।
अर्थभेदोऽपि स्फुटः ।
उत्ताना वै देवगवा वहन्ति"इति श्रूयते  देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थम्"इति ।
तस्मात्ऽ लोकवेदयोः पदपदार्थावन्यौऽ इति प्राप्ते
ब्रूमः य एव लौकिकाः पदार्थाः, त एव वैदिकाः ।
तथा हि  वर्णानां तावन्नित्यत्वं प्रथमपादे साधितम् ।
यथा प्रयोक्तॄणां पुरुषाणां भेदेऽप्येकैकस्य पुरुषस्य बहुकृत्व उच्चारणभेदेऽपिऽ त एवामी वर्णाःऽ इति प्रत्यभिज्ञानाद्वर्णैक्यम् ।
तथाऽ यानि लोके गवादिपदानि , तान्येव वेदेऽधीयमानानिऽ इत्यवाधितप्रत्यभिज्ञया पदैकत्वमभ्युपेयम् ।
ऽ त्मना, देवासःऽ इत्यादिपदभेदस्तु क्वाचित्कः ।
नैतावता बहुतरप्रत्यभिज्ञावगतं पदैक्यमपोढुं शक्यम् ।
अन्यथाऽसोऽयं देवदत्तःऽ इति प्रत्यभिज्ञातं देवदत्तैक्यमपि देशादिभेदमात्रेणापोद्येत ।
पदैक्ये चार्थैकत्वमवश्यंभावि ।
अन्यथा वेदे पृथग्व्युत्पत्त्यभावादबोधकत्वं प्रसज्येत ।
एतदेवाभिप्रेत्योक्तम्
"लोकावगतसामर्थ्थः शब्दे वेदेऽपि बोधकः"इति ।
स्वरुयूपाहवनीयान्दिशब्दानां तदर्थानां चालौकिकत्वेऽपि प्रसिद्धपदसमभिव्याहाराद्व युप्तत्तिः संभवति ।
उत्तानवहनादिकं त्वर्थवादः ।
अस्तु वा तथावहनम् , तथाप्युत्तानादिशाब्दास्तदर्थाश्र्च लोकप्रसिद्धा एव ।
तस्माद्य एव लौकिकाः पदपदार्थास्त एव वैदिकाः ॥ १,२.३१३२ ॥

____________________________________________________

१,३.३३३४

द्वितीयवर्णकमारचयति

व्यक्तिर्ंव्रीह्यादिशब्दार्थ आकृतिर्वा क्रियान्वयात् ।
व्यक्तिर्व्युत्पत्तिवेलायामाकृत्या सोपलक्ष्यते  ॥ १,३.३३ ॥
शक्तिग्रहादियुक्तिभ्य आकृतेरर्थतोचिता ।
क्तियापर्यवसानाय व्यक्तिस्तत्रोपलक्ष्यताम्  ॥ १,३.३४ ॥



"व्रीहीनवहन्ति" "पशुमालभेत" "गामानया" "ब्राह्मणो न हन्तव्यः"इत्यादिप्रयोगेषु व्रीह्यादिशब्दानां व्यक्तिरर्थः ।
कुतः ।
अवहननादिक्रियाभिर्व्यक्तेरन्वेतुं शक्यत्वात् ।
नह्याकृतिरवहन्तुमालब्धुमानेतुं वा योग्या ।
नन्वानन्त्यव्यभिचाराभ्यां न व्यक्तौ व्युत्पत्तिः संभवति ।
अनन्ता हि व्यक्तयः ।
अतीतानागतानामनेकदेशवर्तिनां गवामियत्ताया अनवधारणात् ।
किञ्च शुल्लव्यक्तौ व्युत्पन्नो गोशब्दः कृष्णव्यक्तौ प्रयुज्यमानः स्वार्थे व्यभिचरेत् ।
तत्र कथं व्युत्पत्तिरिति चेत् ।
एवं तर्हि व्युत्पत्तिकाले सा व्यक्तिराकृत्योपलक्ष्यतामिति प्राप्ते
ब्रूमः  अन्वयव्यतिरेकाभ्यामाकृतेः शक्तिग्रहणनिमित्तत्वाच्छाब्दार्थत्वं तस्या एवोचितम् ।
किञ्च गोशब्द उच्चारिते व्यक्तिवादिनः संशयो भवेत् ।
तस्मादाकृतेरेवाभिधेयत्वम् ।
यद्याकृताववहननादिक्रिया न पर्यवस्येत्तर्हि व्यक्तिस्तत्रोपलक्षणीया ।
किञ्च"श्योनर्चित्तं चिन्वीत"इत्यादावाकृतेरेव सादृश्यप्रतियोगितया कार्यान्वयो दृश्यते ।
तस्मात् आकृतिः शब्दार्थः ॥ १,२.३३३४ ॥

____________________________________________________

१,३.३५


अत्रैव गुरुमतमाह

गवादिचोदना नो मा जातिव्यक्त्योरनिर्णयात् ।
आनन्त्यव्यभिचाराभ्यां न व्यक्तिरिति निर्णयः  ॥ १,३.३५ ॥



स्पष्टोऽर्थः ॥ १,२.३५ ॥


इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य तृतीयः पादः


_________________________________________________________________________



(अथ चतुर्थः पादः)


(प्रथम उद्भिदादिशब्दानां यागनामतया प्रामाण्याधिकरणे सूत्रम्)

उक्तं समाम्नायैदमर्थ्यं तस्मात्सर्वं तदर्थं स्यात् । १,४.१ ।

____________________________________________________

१,४.१२


चतुर्थपादस्य प्रथमाधिकरणम् ।

वार्तिककारोन्नीतमारचयति

उद्भिदादिपदं धर्मे किममानमुत प्रमा ।
विध्यर्थवादमन्त्रांशेष्वनन्तर्भावतो न मा  ॥ १,४.१ ॥
अन्तर्भावो विधावुद्भिदा यजेतेति दृश्यते ।
नामत्वेनान्वयो वाक्ये वक्ष्यतेऽतः प्रमैव तत् ॥ १,४.२ ॥



"उद्भिदा यदेत" "बलभिदा यजेत" "विश्वजिता यजेत"इत्येवं समाम्नायते ।
तत्रोद्भिदादिपदं न धर्मे प्रमाणम् ।
कुतः ।
प्रमाणत्वनोभिमतेषु त्रिषु वेदवेभागेष्वनन्तर्भावात् ।
तथा हि  विधिः साक्षात्प्रमाणम् ।
अर्थवादमन्त्रौ तु विध्यन्वयेन ।
तत्र न तावदुद्भिदादिपदं विधावन्तर्भवति ।
विध्यर्थरूपाया भावनाया अंशेषु भाव्यकरणेतिकर्तव्यतारूपेषु कस्याप्यवाचकत्वात् ।
नाप्यर्थवादत्वम् ।
स्तुतिबुद्धेरभावात् ।
नापि मन्त्रत्वम् ।
उत्तमपुरुषादीनां मन्त्रलिङ्गानामभावात् ।
तथा चोक्तम्
"उत्तमामन्त्रणास्यन्तत्वान्तरूपाद्यभावतः ।
मन्त्रप्रसिद्ध्यभावाच्च मन्त्रतैषां न युज्यते"  ॥ इति ।
"अग्नये जुष्टं निर्वपामि"इत्युत्तमपुरुषः ।
"अग्ने यशस्विन्यशसे समर्पय"इत्यामन्त्रणम् ।
"उर्वी चासि, वस्वी चासि"इत्यस्यन्तरूपम् ।
"इषे त्वा, ऊर्जे त्वा"इति त्वान्तरूपम् ।
आदिशब्देव  आशीर्देवताप्रतिपादनादयः ।
एवमाद्यनन्तर्भावादमानमिति चेत् ।
न ।
विध्यंशे करणेऽन्तर्भावात् ।
यद्यपि लिङ्प्रत्ययेन समानपदोपात्तो यजिधात्वर्थः करणं तथापि तस्य यजेर्नामत्वेनोद्भिदादिपदमन्वेति ।
तस्मात्प्रमाणम्  ॥ १,४.१२ ॥

____________________________________________________

१,४.३४


(द्वितीय उद्भिदादिशब्दानां यागनामधेयताधिकरणे सूत्रम् )

अपि वा नामधेयं स्याद्यदुत्पत्तावपूर्वमविधायकत्वात् । १,४.२ ।

द्वितीयाधिकारणमारचयति

गुणोऽयं नामधेयं वा खनित्रेऽस्य निरुक्तितः ।
ज्योतिष्टोमं समाश्रित्य पश्वर्थे गुणचोदना  ॥ १,४.३ ॥
फलोद्भेदात्समानैषा निरुक्तिर्यागनाम्न्यपि ।
नामत्वमुचितं यागसामानाधिकरण्यतः  ॥ १,४.४ ॥


"उद्भिदा यजेत पशुकामः"इत्यत्र तृतीयान्तेनोद्भित्पदेन योर्ऽथो विवक्षितः सोऽयं यागे कश्चिद्गुणः स्यात् ।
"दघ्नाजुहोति"इत्यनेन गुणविधिना समानत्वात् ।
अथोच्येत ऽ दधिशब्दार्थो लोकप्रसिद्धः, उद्भिच्छब्दार्थस्त्वप्रसिद्धःऽ इति ।
तन्न ।
रूढ्यभावेऽप्यवयवार्थनिरुक्त्या तत्प्रसिद्धेः ।
ऽ उद्भिद्यते भूमिरनेनऽ इति व्युत्पत्त्या खनित्रवाच्यसौ शब्दः ।
न चात्र पशुफलकः कश्चिद्यागो विधीयत इति वाच्यम् ।
पशूनां गुणफलत्वात् ।
यथा"गोदोहनेन पशुकामस्य"इत्यत्र पशवो गोदोहनगुणस्य फलम् ।
तथेह खनित्रगुणस्य फलमस्तु ।
यदि"चमसेनापः प्रणयेत्"इति विहितं प्रकृतमपां प्रणयनमाश्रित्य गोदोहनं विधीयते, तर्ह्यत्रापि"ज्योतिष्टोमेन यजेतऽ इति विहितं प्रकृतं ज्योतिष्टोममाश्रित्य खनित्रं विधीयताम् ।
तस्माद्गुणविधिरिति प्राप्ते ,
ब्रूमः "पशुकामो यजेत"इत्यस्य पदद्वयस्यायमर्थःऽ पशुरुपं फलं यागेन कुर्यात्ऽ इति ।
तत्रऽकेन यागेनऽ इत्यपेक्षायाम्ऽ उद्भिदाऽ इति तृतीयान्तं पदं यागनामत्वेनान्वेति ।
ऽउद्भिद्यते पशुफलमनेन यागेनऽ इति निरुक्त्या नामत्वमुद्भित्पदस्योपपद्यते ।
एवमपि गुणविधिनामधेयत्वयोः शब्दनिर्वचनसाम्यान्न निर्णय इति चेत् ।
मैवम् ।
सामानाधिकरण्यस्य निर्णायकत्वात् ।
ऽउद्भिन्नामकेन यागेन फलं कुर्यात्ऽ इत्युक्ते सामानाधिकरण्यं लभ्यते ।
गुणत्वे तुऽ खनित्रेण साध्यो यो यागः, तेनऽ इत्येवं वैयधिकरण्यं स्यात् ।
यदिऽखनित्रवता यागेनऽ इति सामानाधिकरण्यं योज्येत तदा मत्वर्थलक्षणा प्रसज्येत ।
तस्मादुद्भिदादिपदं नामधेयम् ।
ऽ दध्ना जुहोति"व्रीहिभिर्यजेतऽ इत्यादिषु द्रव्यविशेषे दध्यादिशब्दानामत्यन्तरूढतया यागनामत्वासंभवादगत्या गुणत्वमाश्रितम् ।
ऽ सोमेन यजेतऽ इत्यत्रापिऽ अप्रसिद्धार्थनामधेयत्वकल्पनातो वरं प्रसिद्धार्थद्वारेण लक्षणाश्रयणम्ऽ इत्यभिप्रेत्यऽ सोमद्रव्यवता यागेनऽ इति मत्वर्थलक्षणा स्वीकृता ।
उद्भिच्छब्दस्य तु लोकप्रसिद्धार्थाभावादुक्तरीत्या नामत्वं युक्तम् ।
प्रयोजनं तु नाम्नः सर्वत्र व्यवहार एव ।
न ह्यन्तरेण नामधेयमृत्विग्वरणादिषुऽ अनेनाहं यक्ष्येऽ इत्याख्यानोपायो लघुः कश्चिदस्ति ।
तस्मात्
उद्भिदादीकं नामधेयम्  ॥ १,४.३४ ॥

____________________________________________________

१,४.५


अत्रैव गुरुमतमाह

लौकिके गणयागेऽस्य विधेः सापेक्षतेति चेत् ।
निरुक्त्या श्रौतयागस्य नामत्वान्निरपेक्षता  ॥ १,४.५ ॥




ऽउद्भिदा यजेतऽ इत्ययं गुणविधिः ।
न चास्य कश्चिच्छ्रौत आश्रयो लभ्यते ।
ततो लौकिको मातृगणयागादिराश्रयत्वेनापेक्षणीयः ।
तस्मिन्योगे मैवम् ।
पूर्वोक्तनिरुक्त्या श्रौतयागनामत्वे सति निरपेक्षत्वात् ॥ १,४.५ ॥

____________________________________________________

१,४.६७


(तृतीये चित्रादिशब्दानां यागनामधेयताधिकरणे सूत्रम्)


यस्मिन् गुणोपदेशः प्रधानतोऽभिसम्बन्धः  । १,४.३ ।

तृतीयाधिकरणमारचयति
यच्चित्रया यजेतेति तद्गुणो नाम वा भवेत् ।
चित्रस्त्रीत्वगुणो रूढेरग्नीषोमीयके पशौ  ॥ १,४.६ ॥
द्वयोर्विधौ वाक्यभेदो वैशिष्ट्ये गौरवं ततः  ।
स्यान्नाम पृष्ठाज्यबहिष्पवमानेषु तत्तथा  ॥ १,४.७ ॥



"चित्रया यजेत पशुकामः"इत्याम्नायते ।
तत्र चित्राशब्दो नोद्भिच्छब्दवद्यौगिकः, किन्तु रूढ्या चित्रत्वं स्त्रीत्वं चाभिधत्ते ।
ततो न पूर्वन्यायेन नामत्वम् ।
तथा सति"अग्नीषोमीयं पशुमालभेत"इति विहितं पशुयागमात्रंऽ यजेतऽ इत्यनेन पदेनानूद्य तस्मिन्पशौ चित्रत्वस्त्रीत्वे गुणौ विधीयेते इति प्राप्ते
ब्रूमः  चित्रत्वं स्त्रीत्वं चेति द्वावेतौ गुणौ ।
तयोर्द्वयोर्विधाने वाक्यं भिद्येत ।
तथा चोक्तम्
"प्राप्ते कर्मणि नानेको बिधातुं शक्यते गुणः ।
अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः"  ॥ इति ।
अथ वाक्यभेदपिरहाराय गुणद्वयावीशीष्ट पशुद्रव्यरूपं कारकं विधीयते तदा गौरवं स्यात् ।
तस्माच्चित्राशब्दः पूर्ववद्यजिसामानाधिकरण्येन यागनामधेयं भवति ।
चित्रत्वं तु तस्य विलक्षणद्रव्यद्वारेणोपपद्यते ।
ऽ दधि, मधु, घृतम् , आपः, धानाः, तण्डुलाः, तत्संसृष्टं प्राजापत्यम्ऽ इति दध्यादीनि विचित्राणि प्रदेयद्रव्याणि षडाम्नातानि ।
त्रदेतच्चित्रानामकस्य यागस्योत्पत्तिवाक्यम् ।
यागस्वरूपभूतयोर्दध्यादिद्रव्यप्रजापतिदेवतयोरत्रोपदिश्यमानत्वात् ।
उत्पन्नस्य तस्य यागस्यऽ चित्रया यजेत पशुकामःऽ इत्येतत्फलवाक्यम् ।
एवं सति प्रकृतार्थो लभ्यते ।
अग्नीषोमीयपश्वनुवादेन गुणविधाने प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम् ।
लिङ्प्रत्ययस्यानुवादकत्वाङ्गीकारान्मुख्यो विध्यर्थो बाध्येत ।
तस्माच्चित्रापदं नामधेयम् ।
यथा चित्राशब्दे नामधेयत्वम् ।
तथा बहिष्पवमानशब्दे, आज्यशब्दे, पृष्ठशब्दे च तन्नामधेयत्वं योजनीयम् ।
एवं हि श्रूयते "त्रिवृद्धहिष्पवमानम्" "पञ्चदशान्याज्यानि" "सप्तदशानि पृष्ठानि"इति ।
अस्य वाक्यत्रयस्यार्थो विव्रियते
सामगानामुत्तराग्रन्थे तृचात्मकानि सूक्तान्याम्नातानि ।
तत्र"उपास्मै गायता नरः"इत्याद्यं सूत्रम् ।
"दविद्युतत्या रुचा"इति द्वितीयम् ।
"पावमानस्य ते कवे"इति तृतीयम् ।
ज्योतिष्टोमस्य प्रातः सवनानुष्ठाने तेषु त्रिषुं सूक्तेषु गायत्रं साम गातव्यम् ।
तदिदं सूक्तत्रयगानसाध्यं स्तोत्रं बहिष्पवमानमित्युच्यते तत्रावस्थितानामृचां पवमानार्थत्वात् ।
बहिः संबन्धाच्च ।
न खल्बिदं स्तोत्रमितरस्तोत्रवत्सदोनामकस्य मण्डपस्य मध्य औदुम्बर्याः स्तम्बशाखायाः संनिधौ प्रयुज्यते, किन्तु सदसो बहिः प्रसर्पद्भिः प्रयुज्यते ।
तस्य च बहिष्पवमानस्य त्रिवृन्नामकः स्तोमो भवति ।
तस्य च स्तोमस्य विधायकं ब्राह्मणवाक्कयमेवमाम्नायते "तिसृभ्यो हिं करोति स प्रथमया, तिसृम्यो हिं करोति स मध्यमया तिसृभ्यो हिं करोति स उत्तमया, उह्यती त्रिवृतो विष्टुतिः"इति ।
अयमर्थः ऽ सूक्तत्रयपठितानां नवानामृचां गानान्त्रिभिः पर्यायैः कर्तव्यम् ।
तत्र प्रथमे पर्याये  त्रिषु सूक्तेष्वाद्यास्तुस्त्र क्रचः , द्वितीये पर्याये  मध्यमाः, तृतीये पर्याये चोत्तमाः ।
तिसृभ्य इति तृतीयार्थे पञ्चमी ।
हिं करोति गायतिऽ इत्यर्थः ।
सेयं यथोक्तप्रकारोपेता गीतिस्त्रिवृत्स्तोमस्य विष्टुतिः स्तुतिप्रकारविशेषः ।
तस्या विष्टुतेरुद्यती नाम, इति ।
एवं परिवर्तिनी कुलायिनीति द्वे विष्टुती ।
तयोः परिवर्तिन्येवमाम्नायते "तिसृभ्यो हिं करोति स पराचीभिः, तिसृभ्यो हिं करोति स पराचीभिः , तिसृभ्यो हिं करोति स पराचीभिः, परिवर्तिनी त्रिवृतो विष्टुतिः"इति ।
पराचीभिरनुक्रमेणाऽम्नाताभिरित्यर्थः ।
कुलायिन्येवमाम्नायते "तिसृभ्यो हिं करोति स पराचीभिस्तिसृभ्यो हिं करोति, या मध्यमा सा प्रथमा, पोत्तमा सा मध्यमा, या प्रथमा सोत्तमा, तिसृभ्यो हिं करोति योत्तमा सा प्रथमा, या प्रथमा, सा मध्यमा या मध्यमा सोत्तमा, कुलायिनी त्रिवृत्तो विष्टुतिः"इति ।
अत्र प्रथमसूक्ते पाठक्रम एव ।
द्वितीये मध्यमोत्तमप्रथमाः ।
तृतीयेतूत्तमप्रथममध्यमा इत्येवं व्यत्ययेन मन्त्रा गातव्याः ।
तदिदं विष्टुतित्रयं विकल्पितम् ।
त्रिवृच्छब्दस्येदृशं स्तोमस्वरूपमर्थो, न तु त्रैगुण्यमिति पूर्वपादे निर्णीतम् ।
उत्तराग्रन्थे बहिष्पवमानसूक्तेभ्यस्त्रिभ्य ऊर्ध्वे चत्वारि सूक्तान्याम्नातानि "अग्न आ याहि वीतये"इत्याद्यं सूक्तम् ।
"आ नो मित्रावरुण" इति द्वितीयम् ।
"आ याहि सुषुमा हि ते" इति तृतीयम् ।
"इन्द्राग्नी आ गतं सुतम्" इति चतुर्थम् ।
तान्येतानि प्रातः सवने गायत्रसाम्ना गीयमानानि चत्वार्याज्यस्तोत्राणीत्युच्यन्ते ।
तन्निर्वचनं च श्रूयते "यदाजिमीयुः, तदाज्यानामाज्यत्वम्"इति ।
तेष्वाज्यस्तोत्रेषु पञ्चदशनामकः स्तोमो भवति ।
तस्य स्तोमस्य विष्टुतिरेवमाम्नायते "पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया, पञ्चभ्यो हिं करोति स एकया स एकया स तिसृभिः"इति ।
एकं सूक्तं त्रिरावर्तनीयम् ।
तत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः ।
द्वितीयावृत्तौ मध्यमायाः ।
तृतीयावृत्तावृत्तमायाः ।
सोऽयं पञ्चदशस्तोमः ।
उक्तेभ्यश्चतुर्भ्यः सूक्तेभ्य ऊर्ध्वमुत्तराग्रन्थे त्रीणि माध्यन्दिनपवमानसूक्तान्याम्नाय तत ऊर्ध्वे चत्वारि सूक्तान्याम्नातानि  तेषु"अभि त्वा शूर नोनुम" इत्याद्यम् ,"कया नश्चित्र आभुवत्"इति द्वितीयम् ।
"तं वो दस्ममृतीषहम्"इति तृतीयम् ।
"तरोभिर्वो विदद्वसुम्"इति चतुर्थम् ।
एतानि क्रमें रथन्तरवामदेव्यनौधसकालेयसामभिर्माध्यन्दिनसवने गीयमानानि पृष्ठस्तोत्राणीत्युच्यन्ते ।
"स्पर्शनात्पृष्ठानि"इत्येव निरुक्तिर्द्रष्टव्या ।
तेषु स्तोत्रेषु सप्तदशस्तोमो भवति ।
तस्य स्तोमस्य विष्टुतिरेवमाम्नायते "पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया स एकया, पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया, सप्तभ्यो हिं करोति स एकया स तिसृभिः स तिसृभिः"इति ।
अत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः, द्वितीयावृत्तौ मध्यमायाः , तृतीयावृत्तौ मध्यमोत्तमयोः सोऽयं सप्तदशस्तोमः ।
अत्र त्रिष्वपि वाक्येषु त्रिवृत्पञ्चदशसप्तदशशब्दा गुणविधायकत्वेन संमताः ।
यदि बहिष्पवमानाज्यपृष्ठशब्दा अपि गुणविधायकाः स्युस्तदा प्रत्युदाहरणम् ।
गुणद्वयीवधानाद्वाक्यभेदः स्यात् ।
तस्माद्वहिष्पवमानादिशब्दाः स्तोत्रनामधेयानि ।
तैर्नामभिः कर्माण्यनूद्य त्रिवृदादिगुणा विधीयन्ते  ॥ १,४.६७ ॥

____________________________________________________

१,४.८१२


(चतुर्थेऽग्निहोत्रादिशब्दानां यागनामधेयताधिकरणे (मत्प्रख्यन्याये) सूत्रम्)

तत्प्रख्यं चान्यशास्त्रम्  । १,४.४ ।

चतुर्थाधिकरणमारचयति

अग्निहोत्रं जुहोत्याघारमाघारयतीत्यमू ।
विधेयौ गुणसंस्कारावाहोस्वित्कर्मनामनी  ॥ १,४.८ ॥
अग्नये होत्रमत्रेति बहुव्रीहिगतोऽनलः ।
गुणो विधेयो नामत्वे रुपं न स्यात्क्षरद्घृते  ॥ १,४.९ ॥
संस्क्रियाऽघारमाघारयतीत्युक्ता द्वितीयया ।
आघारेत्यग्निहोत्रेति यौगिके कर्मनामनी  ॥ १,४.१० ॥
अग्निर्ज्योतिरिति प्राप्तो मन्त्राद्देवस्तथा घृतम् ।
चतुर्गृहीतवाक्योक्तं द्वितीयायास्त्वियं गतिः  ॥ १,४.११ ॥
नासाधिते हि धात्वर्थे करणत्वं ततोऽस्य सा ।
साध्यतां वक्ति संस्कारो नैवाऽशङ्क्यः क्रियात्वतः  ॥ १,४.१२ ॥



"अग्निहोत्रं जुहोति" "आघारमाघारयति"इत्यत्राग्निहोत्रशब्दस्य कमनामत्वे द्रव्यदेवतयोरभावाद्यागस्य स्वरुपमेव न सिध्येत् ।
तस्मादग्निदेवतारूपोगुणोऽनेन दर्विहोमे विधीयते ।
आघारशब्दश्च"घृ क्षरणदीप्त्योः"इत्यस्माद्धातोरुत्पन्नः क्षरद्घृतमातष्टे ।
तस्मिंश्च घृते द्वितीयाविभक्त्वा संस्कार्यत्वं प्रतीयते ।
तच्च संस्कृतं घृतमुपांशुयाजे (गे) द्रव्यं भवति ।
तस्मात्ऽ अग्निहोत्राघारशब्दौ गुणसंस्कारयोर्विधायकौऽ इति प्राप्ते
ब्रूमः"अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति, सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः"इति विहितेन मन्त्रेण प्राप्तत्वाद्देवता न विधेया ।
ततोऽग्निसूर्यदेवताकस्य सायंप्रातः कालयोर्नियमेनानुष्ठेयस्य कर्मणःऽ अग्निहोत्रम्ऽ इति यौगिकं नामधेयम् ।
योगश्च बहुव्रीहिणा दर्शितः ।
"चतुर्गृहीतं वा एतदभूत्तस्याऽघारमाघार्यः"इत्यनेनैवाऽज्यद्रव्यस्य प्रप्ततया क्षरद्धृतसंस्कारस्याविधेयत्वादाघारशब्दोऽपि यौगिकं कर्मनामधेयम् ।
ऽयस्मिन्कर्माणि नैरृतीं दिशमारभ्यैशानीं दिशमवधिं कृत्वा संतत्या घृतं क्षार्यतेऽ तस्य कर्मण एतंन्नाम ।
ननु नामधेयत्वे सति"उद्भिदा यजेत" "ज्योतिष्टोमेन यजेत"इत्यादाविव धात्वर्थेन करणेन सामानाधिकरण्यायऽअग्निहोत्रेण जुहोतिऽऽआघारेणाऽघारयतिऽ इति तृतीयया भवितव्यम् ।
नैष दोषः ।
अनुष्ठानादूर्ध्वे चात्वर्थस्य सिद्धत्वाकारेण करणत्वेऽपि ततः पूर्वे साध्यत्वाकारं वक्तुम्ऽअग्निहोत्रम्"आघारम्ऽ इति द्वितीयाया युक्तत्वात् ।
न चात्र द्वितीयानुसारेणऽव्रीहीन्प्रोक्षतिऽ इत्रयदाविद्य संस्कारः शङ्कनीयः ।
व्रीहिशब्दवदग्निहोत्राघारशब्दयोः प्रसिद्धद्रव्यवाचकत्वाभावेन क्रियावाचित्वाभ्युपगमात् ।
तस्मात् अग्निहोत्राघारशब्दौ दर्विहोमोपांशुयाजयोर्गुणसंस्कारविधायिनौ न भवतः, किन्तु कर्मान्तरयोर्नामनी  ॥ १,४.८१२ ॥
___________________________________________________

१,४.१३१५

(पञ्चमे श्येनादिशब्दानां यागनामधेयताधिकरणे (तद्व्यपदेशन्याये) सूत्रम्)

तद्व्यपदेशं च  । १,४.५ ।

पञ्चमाधिकरणमारचयति

श्येनेनाभिचरन्मर्त्यो यजेतेति श्रुतौ गुणः ।
विधीयते पक्षिरूपो नाम वा तस्य कर्मणः  ॥ १,४.१३ ॥
श्योनेनेति गुणः काम्यः सौमिकः सोमबाधया ।
न चित्रावद्वाक्यभेदो रूढोश्चैवमनुग्रहः  ॥ १,४.१४ ॥
यथा वै श्येन इत्युक्ता ह्युपमानोपमेयता ।
नैकस्मिंस्तेन गैंण्यास्य वृत्त्या स्यात्कर्मनामता  ॥ १,४.१५ ॥

"श्येनेनाभिचरन्यजेत"इत्यत्र कर्मनामत्वे द्रव्यदेवतयोरभावाद्यागस्वरूपमपि न सिध्येत् ।
ततः सोमयागे नित्यं सोमद्रव्यं बाधित्वा सोमस्य स्थाने पक्षिद्रव्यरूपो गुणः काम्यो विधीयते ।
तथा सति श्येन शब्दस्य पक्षिणि लोकसिद्धा रूढिरनुगृह्यते ।
न च गुणविधित्वे चित्रायामिव वाक्यभेद आपादयितुं शक्यः ।
चित्रत्वस्त्रीत्ववद्गुणद्वयाभावादिति प्राप्ते
ब्रूमः"यथा वै श्योनो निपत्याऽदत्ते, एवमयं द्विषन्तं भ्रातृव्यं निपत्याऽदत्ते यमभिचरति श्येनेन"इति वाक्येनोक्त उपमानोपमेयभावः पक्षिण्येकस्मिन्न युज्यते ।
तस्मात्पक्षिण उपमानस्य गुण उपमेये कर्मण्यस्तीति श्येवशब्दस्याभिचारकर्मनामत्वम् ।
"संदंशेवनाभिचन्यजेत" " ।
गवाभिचर्यमाणो यजेत"इत्यत्र संदंशगोशब्दयोर्नामत्वं श्येनशब्दवद्द्रष्टव्यम् ।
"यथा संदंशेन दुरादानमादत्ते" "यथा गावो गोपायन्ति"इति वाक्यशेषाभ्यामुपमानोपमेयभावाभिधानात् ॥ १,४.१३१५ ॥

____________________________________________________

१,४.१५*१८

(षष्ठे वाजपेयादिशब्दानां नामधेयताधिकरणे सूत्राणि) ।

नामधेये गुणश्रुतेः स्याद्विधानमिति चेत् । १,४.६ ।

तुल्यत्वात्क्रिययोर्न  । १,४.७ ।

ऐकशब्द्ये परार्थवत् । १,४.८ ।

षष्ठाधिकरणमारचयति

यजेत वाजपेयेन स्वाराज्यार्थीत्यसौ गुणः ।
नाम वा गुणता तन्त्रयोगाद्गुणफलद्वये  ॥ १,४.१५* ॥
साधारणयजेः कर्मकरणत्वेन तन्त्रता ।
त्रिकद्वयं विरुद्धं स्यात्तन्त्रतायां फलं प्रति  ॥ १,४.१६ ॥
उपादेयविधेयत्वगुणत्वाख्यं त्रिकं यजेः ।
उद्देश्यानूक्तिमुख्यत्वत्रिकं तस्य गुणं प्रति  ॥ १,४.१७ ॥
त्यक्त्वा तन्त्रं तदावृत्तौ वाक्यं भिद्यते तेन सः ।
वाजपेयेतिशब्दोऽपि कर्मनामाग्निहोत्रवत् ॥ १,४.१८ ॥

"वाजपेयेन स्वाराज्यकामो यजेत"इत्यत्र वाजपेयशब्देन गुणो विधीयते ।
अन्नवाची वाजशब्दः ।
तच्चान्नं पेयं सुराद्रव्यम् ।
तच्चात्र गुणः ।
सुराग्रहाणामनुष्ठेयत्वात् ।
ननु गुणत्वेऽ वाजपेयगुणवता यागेन स्वाराजं भावयेत्ऽ इति मत्वर्थलक्षणा प्रसज्येत ।
मैवम् ।
सकृदुच्चरितस्य, यजेत, इत्वाख्यातस्य वाजपेयगुणे स्वाराज्यफले च तन्त्रेण संबन्धाङ्गीकारात् ।
वाजपेयेन द्रव्येण स्वाराज्याय यजेत, इत्येवमुभयसंबन्धः ।
ननु गुणसंबन्धे सति वाजपेयगुणेन यागं कुर्यात्, इति यजेः कर्मकारकत्वं भवति, फलसंबन्धे तुऽ यागेन स्वाराज्यं संपादयेत्ऽ इति करणकारकत्वम् ।
तत्कथं तदुभयसंबन्ध इति चेत् ।
नायं दोषः ।
यजेः साधारणत्वेन द्विरूपत्वसंभवात् ।
ऽ यजेत ऽ इत्यत्र प्रकृत्या याग उक्तः, प्रत्ययेन भावनोक्ता, तयोस्तु समभिव्याहारात्संबन्धमात्रं गम्यते ।
तच्च कर्मत्वकरणत्वयोः साधारणम् ।
न खलु तत्र कर्मत्वस्य करणत्वस्य वा साक्षादभिधायिका काचिदसाधारणी विभक्तिः श्रूयते ।
अतः साधारणस्य यजेरुभाभ्यां युगपत्संबन्धे सित यथोचितसंबन्धविशेषः पर्यवस्यति ।
एवं तन्त्रेण संबन्धाङ्गीकारेऽ वाजपेयद्रव्येण यागं कुर्यात्ऽ इत्यर्थस्य लम्यमानत्वाद्गुणविधित्वेऽपि नास्ति मत्वर्थलक्षणा ।
यद्युद्भिदादिष्वप्येवं गुणविधिः स्यात्, तर्हि तान्यपि वाक्यान्यत्रोदाहृत्य तदीयः सिद्धान्तः पुनराक्षिप्यतामिति प्राप्ते
ब्रूमः  यजेस्तन्त्रेणोभयसंबन्धे सति विरुद्धत्रिकद्वयापत्तिः स्यात् ।
उपादेयत्वं, विधेयत्वं, गुणत्वं चेत्येकं त्रिकम् ।
उद्देश्यत्वम्, अनुवाद्यत्वं, मुख्यत्वं चेत्यपरं त्रिकम् ।
तत्रोद्देश्यत्वादयस्त्रयः स्वाराज्यफलनिष्ठा धर्माः ।
उपादेयत्वादयस्त्रयः साधनभूतयजिनिष्ठा धर्माः ।
फलमुद्दिश्य यजिरुपसर्जनम् ।
फलस्योद्देश्यत्वं नाम मानतापेक्षो विषयत्वाकारः ।
यजेरुपादेयत्वं नामानुष्ठीयमानताकारः ।
तावुभौ मनः शरीरोपाधिकौ धर्मौ ।
अनुवाद्यत्वविधेयत्वधर्मौ तु शब्दोपाधिकौ ।
ज्ञातस्य कथनमनुवादः ।
अज्ञातस्यानुष्ठेयत्वकथनं विधिः ।
फलयागयोः साध्यसाधनत्वरूपतया प्रधानत्वोपसर्जनत्वे ।
एवं सति फलतत्साधनयोः स्वाराज्ययागयोः स्वभावपर्यालोचनायां यथा फलस्योद्देश्यत्वादित्रिकं यागस्योपादेयत्वादित्रिकं व्यवतिष्ठते तथा यागस्य वाजपेयस्य च साध्यसाधनभावापर्यालोचनायां यागस्योद्देशत्वादित्रिकम्, वाजपेयद्रयस्योपादेयत्वादित्रिकं च पर्यवस्यति ।
ततो यागस्य फलद्रव्याभ्यां युगपत्संबन्धे सति विरुद्धं त्रिकद्वयमापद्यते ।
ननु तर्हि मा भूत्तन्त्रेणोभयसंबन्धः, पृथक्संबन्धाय यजिरावर्त्यतामिति चेत् ।
वाक्यभेदप्रसङ्गात् ।
ऽ द्रव्येण यागं कुर्यात्ऽ इत्येकं वाक्यम् ।
ऽ यागेन फलं कुर्यात्ऽ इत्यपरम् ।
तस्माद्वाजपेयशब्दो न गुणविधायकः, किन्तु यथेक्तं द्रव्यं निमित्तीकृत्याग्निहोत्रशब्दवत्कर्मनामधेयम्  ॥ १,४.१५*१८ ॥
____________________________________________________

१,४.१९२०

(सप्तम आग्नेयादीनामनामताधिकरणे सूत्रम्)

तद्गुणास्तु विधायेरन्नविभागाद्विधानार्थे न चेदन्येन शिष्टाः  । १,४.९ ।

सप्तमाधिकरणमारचयति

यदाग्नेयोऽष्टाकपाल इति नाम गुणोऽथवा ।
नामाग्निहोत्रवन्मैवं नामत्वे देवता नहि  ॥ १,४.१९ ॥
मन्त्रोऽपि नेह प्रत्यक्षस्तद्धिताद्देवताविधिः ।
देवद्रव्यविशिष्टस्य विधानादेकवाक्यता ॥ १,४.२० ॥

दर्शपूर्णमासयोः श्रूयते "यदाग्नेयोऽष्टाकपालोऽमावास्यायाम्, पौर्णमास्यां चाच्युतो भवति"इति ।
तत्र यथाग्निहोत्रशब्दःऽ अग्नये होत्रमत्रऽ इत्यमुपर्थे निमित्तीकृत्य कर्मनामधेयम्, तथाऽग्नेयशब्दोऽग्निसंबन्धं निमित्तीकृत्य कर्मनाम स्यादिति चेत् ।
मैवम् ।
नामत्वे देवताराहित्यप्रसङ्गात् ।
अग्निहोत्रे तु"अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति"इत्यनेन वचनेन विहितो मन्त्रः प्रत्यक्षविहित इति मान्त्रवर्णिकी देवता लभ्यते ।
इह तु न तादृशो मन्त्रोऽस्ति ।
आग्नेयशब्दस्तु देवतां विधातुं शक्नोति ।
ऽ अग्निर्देवतास्यऽ इत्रयस्मिन्नर्थे तद्धितस्योत्पन्नत्वात् ।
न च द्रव्यदेवतयोरुभयोर्गुणविधानाद्वाक्यभेद इति शङ्कनीयम् ।
कर्मणोऽप्राप्तत्वेन गुणद्वयविशिष्टस्य कर्मण एकेन वाक्येन विधानात् ।
तस्मात् आग्नेयशब्देन देवतागुणो विधीयते  ॥ १,४.१९२० ॥
____________________________________________________

१,४.२१

अत्र गुरुपतमाह

यदाग्नेय इति प्रोक्तं न मानं विध्यसंभवात् ।
इति चेन्न विशिष्टार्थविधौ सत्यप्रमा कुतः ॥ १,४.२१ ॥

उदाहृतवाक्ये देवताराहित्यप्रसङ्गेन नामत्वाभावाद्गुणयोर्विधौ वाक्कयभेदाञ्च विध्यसंभवादप्रामाण्यमिति पूर्वपक्षः ।  गुणद्वयविशिष्टकर्मविधिसंभवात्प्रामाण्यमिति सिद्धान्तः ॥ १,४.२१ ॥
____________________________________________________

१,४.२२२३

(अष्टमे बर्हिरादिशब्दानां जातिवाचिताधिकरणे सूत्रम्)

बर्हिराज्ययोरसंस्कारे शब्दलाभादतच्छब्दः  । १,४.१० ।

अष्टमाधिकरणमारचयति

वर्हिराज्यपुरोडाशशब्दाः संस्कारवाचिनः ।
जात्यर्था वा शास्त्ररूढेस्ते स्युः संस्कारवाचिनः ॥ १,४.२२ ॥
जातिं त्यक्त्वा न संस्कारे प्रयुक्ता लोकवेदयोः ।
विनापि संस्कृतिं लोके दृष्टत्वाज्जातिवाचिनः  ॥ १,४.२३ ॥

दर्शपूर्णमासयोः श्रूयते "बर्हिर्लुनाति" "आज्यं विलापयति" "पुरोडाशं पर्याग्नि करोति" इति ।
अत्र बर्हिरादिशब्दानां शास्त्रे सर्वर्त्र संस्कृतेषु तृणादिषु प्रयोगात्, पील्वादिशब्देषु शास्त्रीयरूढिप्राबल्यस्योक्तत्वात्, यूपाहवनीयादिशब्दवत्संस्कारवाचिनो बर्हिरादिशब्दा इति चेत् ।
मैवम् ।
अन्वयव्यतिरेकाभ्यां जातिवाचित्वात् ।
यत्र यत्र बर्हिरादिशब्दप्रयोगः, तत्र तत्र जातिःऽ इत्यस्या व्याप्तेर्लोके वेदे च नास्ति व्यभिचारः ।
संस्कारव्याप्तेर्लौकिकप्रयोगे व्यभिचारो दृश्यते ।
क्वचिद्देशविशेषे लौकिकव्यवहारो जातिमात्रमुपजीव्य विना संस्कारं ते शब्दाः प्रयुज्यन्ते ऽ बर्हिरादाय गावो गताःऽ इति,ऽ क्तय्यमाज्यम्ऽ इति,ऽ पुरोडाशेन मे माता प्रहेलकं ददातिऽ इति च ।
तस्माज्जातिवाचिनः ।
प्रयोजनं तु"बर्हिषा यूपावटमवस्तृणाति"इत्यत्र विना संस्कारेण स्तरणसिद्धिः  ॥ १,४.२२२३ ॥
____________________________________________________

१,४.२४

अत्र गुरुमतमाह
बर्हिरादौ निमित्तस्कय दुर्वचत्वान्न मेति चेत् ।
जातेस्तत्र निमित्तत्वात्तद्युक्ता चोदना प्रमा  ॥ १,४.२४ ॥

स्पष्टोर्ऽथः  ॥ १,४.२४ ॥
____________________________________________________

१,४.२५२६

(नवमे प्रोक्षण्यादिशब्दानां यौगिकताधिकरणे सूत्रम्)

प्रोक्षणीष्वर्थसंयोगात् । १,४.११ ।

नवमाधिकरणमारचयति

प्रोक्षणीः संस्कृतिर्जातिर्योगो वा सर्वभूमिषु ।
तथोक्तेः संस्कृतिर्जातिः स्याद्रूढेः प्रबलत्वतः  ॥ १,४.२५ ॥
अन्योन्याश्रयतो नाऽद्यो न जातिः कल्प्यशक्तितः ।
योगः स्यात्कॢप्तशक्तित्वात्कॢप्तर्व्याकरणाद्भवेत् ॥ १,४.२६ ॥

दर्शपूर्णमासयोः श्रूयते "प्रोक्षणीरासादय"इति ।
तत्र प्रोक्षणीशब्दस्याभिमन्त्रणासादमादिसंस्कृतिः प्रवृत्तिनिमितम् ।  कुतः सर्वेषु वैदिकप्रयोगप्रदेशेषु संस्कृतानामेवापां प्रोक्षणीशब्देनोच्यमानत्वादित्येकः पक्षः ।
लोके जलक्रीडायांऽ प्रोक्षणीभिरुद्वेजिताः स्मःऽ इत्यसंस्कृतास्वप्सु प्रयोगाद्वर्हिरादिशब्दवज्जातौ रूढत्वादुदकत्वजातिः प्रवृत्तिनिमित्तम् ।
न चऽ प्रकर्षेणोक्ष्यत आभिःऽ इति योगोऽत्र शङ्कनीयः ।
रूढेः प्रबलत्वादिति पक्षान्तरम् ।
तत्र न तावत्संस्कारो युक्तः ।
अन्योन्याश्रयत्वात् ।
विहितेष्वभिमन्त्रणादिषु संस्कारेष्वनुष्ठितेषु पश्चात्संस्कृतास्वप्सु प्रोक्षणीशब्दप्रवृत्तिः ।
तत्प्रवृत्तौ सत्यां प्रोक्षणीशब्देनापोऽमूद्याभिमन्त्रणसिद्धिरिति ।
नापि जातिपक्षो युक्तः ।
उदकजातौ प्रोक्षणी शब्दस्य  वृद्धव्य वहारे पूर्वमकॢप्तत्वेनेतः परं शक्तेः कल्पनीयत्वात् ।
ततो गोशब्दवदश्वकर्णशब्दवच्च रूढो न भवति ।
योगस्तु व्याकरणेन कॢप्तः ।
सोपसर्गाद्धातोः करणे ल्युट्प्रत्ययेन व्युत्पादनात् ।
तस्मात् प्रोक्षणीशब्दो यौगिकः ।
घृतादेः प्रोक्षणत्वं प्रयोजनम्  ॥ १,४.२५२६ ॥
____________________________________________________

१,४.२७

(दशमे निर्मन्थ्यशब्दस्य यौगिकताधिकरणे सूत्रम्)

तथा निर्मन्थ्ये  । १,४.१२ ।

दशमाधिकरणमारचयति

रूढिर्योगो योगरूढिर्वा निर्मन्थ्यस्य वर्तनम् ।
आद्यौ पूर्ववदन्त्त्योऽचिरजातेर्नावनीतवत् ॥ १,४.२७ ॥

अग्निचयने श्रूयते "निर्मन्थ्येनेष्टकाः पचन्ति"इति ।
तत्र निर्मन्थ्यशब्दस्य स्वार्थे कीदृशी वृत्तिः, इति संशये बर्हिरादिशब्दवल्लौकिकवैदिकसाधारण्यादूवह्निजातौ रूढिरित्येकः पक्षः ।
प्रोक्षणीशब्दवद्गूढेरकॢप्तत्वादरणिनिर्मन्थनजन्यसाच्च योग इति पक्षान्तरम् ।
लौकिकनिर्मन्थनेन चिरनिर्मन्थनेन च जन्यं वारयितुं योगरूढिः पङ्कजादिवदाश्रयणीया ।
आधानकाले निर्मथ्य गार्हपत्ये नित्यं धृतोऽग्निश्चिरनिर्मथितः ।
चयनकाले निर्मथ्योखासु धृतोऽग्निरचिरनिर्मथितः ।
सद्य एव लौकिकमथनेन जातोऽग्निरचिरनिर्मथितः ।
तेनेष्टकाः पच्यन्ते ।
यथा पुराणमूतमयोर्घृतयोर्नवनीतजन्यत्वे समानेऽपि योगरूढ्या नूतनमेवऽ नावनीतम्ऽ इति व्यवह्रियते तद्वत् ॥ १,४.२७ ॥
____________________________________________________

१,४.२८३१

(एकादशे वैश्वदेवादिशब्दानां नामधेयताधिकरणे सूत्राणि १३  १६)

वैश्वदेवे विकल्प इति चेत् । १,४.१३ ।

न वा प्रकरणात्प्रत्यक्षविधानाच्च न हि प्रकरणं द्रव्यस्य  । १,४.१४ ।

मिथश्चानर्थसंबन्धः  । १,४.१५ ।

परार्थत्वाद्गुणानाम्  । १,४.१६ ।

एकादशाधिकरणमारचयति

चातुर्मास्याद्यपर्वप्रोक्ताग्नेयाद्यष्टकान्तिके ।
वैश्वदेवेति शब्दोक्तो गुणः संघस्य नाम वा  ॥ १,४.२८ ॥
नामत्वे रूपराहित्यादविधिर्गुणता सतः ।
अग्न्यादिभिर्विकल्प्यन्ते विश्वदेवास्तु सप्तसु  ॥ १,४.२९ ॥
अनूद्याष्टौ यजेतेति तत्संघे नाम वर्णितम् ।
अविधित्वेऽप्यर्थवत्स्यान्नाम प्राक्प्रवणादिषु ॥ १,४.३० ॥
इज्यन्तेऽत्र यजन्ते वा विश्वे देवा इतीदृशी ।
निरुक्तिर्न विकल्पः स्यादुत्पत्त्युत्पन्नशिष्टतः  ॥ १,४.३१ ॥

चातुर्मास्ययागस्य चत्वारि पर्वाणि  वैश्वदेवः , वरुणप्रघासः , साकमेधः , शुनासारीयश्चेति ।
तेषु प्रथमे पर्वण्यष्टौ यागा विहिताः  आग्नेयमष्टाकपालं निर्वपति, सौम्यं चरुम्, सावित्रं द्वादशकपालम्, सारस्वतं चरुम्, पौष्णं  चरुम् , मारुतं सप्तकपालकम्, वैश्वदेवीमामिक्षाम्, द्यावापृथिव्यमेककपालम्, इति ।
तेषामष्ठानां यागानां संनिधाविदमाम्नायते "वैश्वदेवेन यजेत"इति ।
तत्राऽग्नेयादीन्यागान्ऽ यजेतऽ इत्यनूद्य वैश्वदेवशब्देन देवतारूपो गुणस्तेषु विधीयते ।
यद्यपि वैश्वदेव्यामिक्षायां विश्वे देवाः प्राप्ताः, तथाप्याग्नेयादिषु सप्तसु यागेष्वप्राप्तस्वाद्विधीयन्ते ।
तेष्वप्यग्न्यादिदेवताः सन्तीति चेत्, तर्हि गत्यभावात्तेषु देवता विकल्प्यन्ताम् ।
नामधेयत्वे तु नाममात्रस्याभिधेयत्वाद्द्रव्यदेवतयोरभावेन यागस्यात्र स्वरूपासंभवाच्छूयमाणो विधिरनर्थकः स्यात् तस्मात्ऽ गुणविधिःऽ  इति प्राप्ते ऽ ब्रूमः  उत्पत्तिवाक्यैर्विहितानाग्नेयादीनष्टौ यागान्ऽयजेतऽ इत्यनूद्याष्टानां संघे वैश्वदेवशब्दो नामत्वेनोपवर्ण्यते ।
न च विधित्वासंभवेऽपि नामोपदेशवैयर्थ्यम्,ऽप्राचीनप्रवणे वैश्वदेवेन यजेतऽ इत्यादिषु वैश्वदेवशब्देनैकेनैवाष्टानां संघस्य व्यवहर्तव्यत्वात् ।
नामप्रवृत्तिनिमित्तभूता निरुक्तिर्द्विधा  आमिक्षायागे विश्वेषां देवानामिज्यमानतया तत्सहचरितार्थानां सर्वेषां छत्रिन्यायेन वैश्वदेवत्वम् ।
अथवाऽ विश्वे देवा अष्टानां कर्तारःऽ इति वैश्वदेवत्वम् ।
तथा च ब्राह्मणम् "यद्विश्वे देवाः समयजन्त, तद्वैश्वदेवस्य वैश्वदेवत्वम्"इति ।
देवताविकल्पस्तु समानबलत्वाभावान्न युज्यते ।
आग्न्यादय उत्पत्तिशिष्टत्वात्प्रबलाः, विश्वे देवा उत्पन्नशिष्टत्वाददुर्बलाः ।
तस्मात् वैश्वदेवशब्दः कर्मनामधेयम् ॥ १,४.२८३१ ॥
____________________________________________________

१,४.३२

अत्र गुरुमतमाह

गुणनामत्वसंदेहादप्रमा चोदनेति चेत् ।
नोक्तन्यायेन संघस्य नामधेयत्वनिर्णयात् ॥ १,४.३२ ॥

स्पष्टोर्ऽथः  ॥ १,४.३२ ॥
____________________________________________________

१,४.३३३५

(द्वादशे वैश्वानरेऽष्टत्वाद्यर्थवादताधिकरणे सूत्राणि  १७  २२ )

पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्यं समाम्नाये  । १,४.१७ ।

गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युरनर्थका न हि तं प्रत्यर्थवत्तास्ति  । १,४.१८ ।

तच्छेषो नोपपद्यते  । १,४.१९ ।

अविभागाद्विधानार्थे स्तुत्यर्थेनोपपद्येरन्  । १,४.२० ।

कारणं स्यादिति चेत् । १,४.२१ ।

आनर्थक्यादकारणं कर्तुर्हि कारणानि गुणार्थो हि विधीयते  । १,४.२२ ।

द्वादशाधिकरणमारचयति

यद्द्वादशकपालेष्टेर्वैश्वानयामनन्तरम् ।
श्रुतमष्टाकपालादि तद्गुणो नाम वा स्तुतिः ॥ १,४.३३ ॥
अन्तर्भावादष्टतादेर्नाम स्यादग्निहोत्रवत् ।
द्रव्यं द्रव्यान्तरे नो चेद्गुणस्तर्हि फले त्वसौ ॥ १,४.३४ ॥
वाक्यैक्यमुपसंहाराद्विस्पष्टं तत्तु बाध्यते ।
नानागुणविधौ तस्मादंशद्वारांशिसंस्तुतिः ॥ १,४.३५ ॥

काम्येष्टिकाण्डे श्रूयते "वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते" "यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति, यन्नवकपालस्त्रिवृतैवास्मिंस्तेजो दधाति, यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति, यदेकादशकपालस्त्रिष्टुमैवास्मिन्निन्द्रियं दधाति, यद्द्वादशकपालो जगत्यैवास्मिन्पशून्दधाति, यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रीयावी पशुमान्भवति"इति ।
अत्राष्टत्वादिसंख्यासामान्यात्पुरोडाशादीनां गायत्र्यादिरूपत्वकल्पना कृता ।
इष्टि विधायके वाक्ये येयं द्वादशसंख्या तस्यामष्टत्वादिसंख्यानामन्तर्भावात्ताः संख्या निमित्तीकृत्याग्निहोत्रशब्दवदष्टाकपालादिशब्दाः कर्मनामधेयानीत्येकः पक्षः ।
नात्र द्वादशकपालशब्दः संख्यापरः , किन्तु पुरोडोशद्रव्यपरः ।
ऽ द्वादशसु कपालेषु संस्कृतःऽ इति व्युत्पत्तेः ।
एवमष्टाकपालादिशब्दा अपि ।
तथा सति द्रव्यस्य द्रव्यान्तरेऽनन्तर्भावान्नामधेयस्य निमित्तं नास्तीति चेत्, एवं तर्हि पुरोडाशब्दव्यरूपो गुणो विधीयताम् ।
न चोत्पत्तिशिष्टद्वादशकपालपुरोडाशावरुद्धत्वादष्टकपालाद्रनवकाश इति वाच्यम् ।
ब्रह्मवर्चसादिफलाय तद्विध्युपपत्तेरित्यपरः पक्षः ।
अयमप्युपपन्नः ।
बहूनां गुणानां विधौ वाक्यभेदापत्तेः ।
न च भिन्नान्येवैतानि वाक्यानीति वाच्यम् ।
"वैश्वानरं द्वादशकपालं निर्वपेत्"इति विहितस्य"यस्मिञ्जात एताम्" इत्युपसंहारेण वाक्यैकत्वावगमात् ।
तस्मादंशैरष्टाकपालादिभिरंशी द्वादशकपालः स्तूयते ॥ १,४.३३३५ ॥
____________________________________________________
१,४.३६

अत्र गुरुमतमाह

अगुणत्वादनामत्वादमन्त्रत्वादनन्वये ।
अष्टत्वाद्यप्रमाणं चेन्नार्थवादतयान्वयात् ॥ १,४.३६ ॥

उक्तरीत्या गुणत्वं नामत्वं च न संभवति ।
उत्तमपुरुषामन्त्रणाद्यभावान्नमन्त्रत्वम् ।
अतोऽष्टाकपालदीनामनन्वयादप्रामाण्यं वाक्यस्येति चेत् ।
मैवम् ।
स्तावकत्वेनान्वयस्योक्तत्वात् ॥ १,४.३६ ॥
____________________________________________________

१,४.३७३९

(त्रयोदशे यजमानशब्दस्य प्रस्तरादिस्तुत्यर्थत्वाधिकरणे सूत्रम्)

तत्सिद्धिः  । १,४.२३ ।

त्रयोदशाधिकरणमारचयति

यजमानः प्रस्तरोऽत्र गुणो वा नाम वा स्तुतिः ।
सामानाधिकरण्येन स्यादेकस्यान्यनामता ॥ १,४.३७ ॥
गुणो वा यजमानोऽस्तु कार्ये प्रस्तरलक्षिते ।
अंशांशित्वाद्यभावेन पूर्ववन्नात्र संस्तुतिः  ॥ १,४.३८ ॥
अर्थभेदादनामत्वं गुणश्वेत्प्रह्रियेत सः ।
यागसाधकताद्वारा विधेयप्रस्तरस्तुतिः  ॥ १,४.३९ ॥

इदमाम्नायते "यजमानः प्रस्तरः"इति ।
तत्र यजमानस्य प्रस्तरशब्दो नामधेयम्, प्रस्तरस्य वा यजमानशब्दो नामधेयम् ।
कुतः ऽ उद्भिदा यानेनऽ इत्यादाविव सामानाधिकरण्यादित्येकः पक्षः ।
गुणविधिरित्यपरः पक्षः ।
तदापि यजमानकार्ये जपादौ प्रस्तरस्याचेतनस्य सामर्थ्याभावाद्गुणत्वं नास्ति ।
प्रस्तरकार्ये स्त्रुग्धारणादौ यजमानस्य शक्तत्वाद्यजमानरूपो गुणो विधीयते ।
एवं सति पश्चाच्छ्रुतस्य प्रस्तरशब्दस्य कार्यलक्षकत्वेऽपि प्रथमश्रुतो यजमानशब्दो मुख्यवृत्तिर्भवति ।
न चात्र पूर्वन्यायेन स्तुतिः संभवति ।
अष्टाकपालद्वादशकपालयोरिव प्रस्तरयजमानयोरंशांशित्वाभावात् ।
"वायुर्वै क्षेपिष्ठा देवता"ऊर्जोऽवरुध्यै"इत्यादिवत्स्तुतिरिति चेत् ।
न ।
क्षिप्रत्वादिधर्मवत्कस्यचिदुत्कर्षस्याप्रतीतेः ।
तस्मात्ऽ नामगुणयोरन्यतरत्वम्"इति प्राप्ते ,
ब्रूमः  गोमहिषयोरिवार्थभेदस्यात्यन्तप्रसिद्धत्वान्नामत्वं न युक्तम् ।
गुणपक्षे तु  अग्नौ प्रहरणस्य प्रस्तरकार्यत्वाद्यजमाने प्रहृते सति कर्मलोपः स्यात् ।
तस्मात् विधेयः प्रस्तरो यजमानशब्देन स्तूयते ।
यथाऽ सिंहो देवदत्तःऽ इत्यत्र सिंहगुणेन शौर्यादिनोपेतो देवदत्तः सिंहशब्देन स्तूयते, तथा यजमानगुणेन यागसाधनत्वेन युक्तः प्रस्तरो यजमानशब्देन स्तूयते ।
एवं"यजमान एककपालः"इत्यादिषु द्रष्टव्यम्  ॥ १,४.३७३९ ॥

____________________________________________________

१,४.४०

(चतुर्दश आग्नेयादिशब्दानां ब्राह्मणादिस्तुत्यर्थताधिकरणे सूत्रम्)

जातिः  । १,४.२४ ।

चतुर्दशाधिकरणमारचयति

आग्नेयो ब्राह्यणोऽत्रापि पूर्ववत्सर्वनिर्णयः ।
द्वारं तु मुखजन्यत्वसाग्नेयत्वेन संस्तवे ॥ १,४.४० ॥

इदमाम्नायते "आग्नेयो वै ब्राह्मणः"इति ।
अत्रात्यन्तप्रसिद्धार्थभेदादाग्नेयशब्दो न ब्राह्यणस्य नामधेयम् ।
नाप्यग्निदेवतारूपो गुणो विधीयते ।
ऽ आग्नेयं सूक्तम्"आग्नेयं हविः, इत्येवं देवतातद्धितस्य सूक्तहविर्विषयत्वात् ।
नहि ब्राह्मणः सूक्तम्, नापि हविः ।
अतः संबन्धवाचितद्धितान्ताग्नेयशब्देन ब्राह्मणः स्तूयते ।
यद्यपि ब्राह्मणे नाग्निसंबन्धः, तथाप्यग्निसंबन्धो मुखजन्यत्वगुणो ब्राह्मणे विद्यते ।
तथा चाग्निब्राह्मणयोर्मुखजन्यत्वं क्वचिदर्थवादे समाम्नायते "प्रजापतिरकामयत, प्रजाः सृजेत, इति ।
स मुखतस्त्रिवृतं निरमिमीत, तमग्निर्देवतान्वयुज्यत, गायत्री छन्दः, रथन्तरं साम, ब्राह्मणो मनुष्याणाम्, अजः पशूनाम्, तस्मात्ते मुख्या मुखतो ह्यसृज्यन्त"इति ।
तस्मात् आग्नेयशब्दः स्तावकः ।
एवम्"ऐन्द्रो राजन्यः" "वैश्यो वैश्वदेवः"इत्यादिषु द्रष्टव्यम् ॥ १,४.४० ॥

____________________________________________________

१,४.४१


(पञ्चदशे यूपादिशब्दानां यजमानस्तुत्यर्थताधिकरणे सूत्रम्)

सारूप्यात् । १,४.२५ ।

पञ्चदशाधिकरणमारचयति

आदित्यो यूप इत्यत्र स्तुतिरादित्यशब्दतः ।
द्वारं चाक्षुषसारूप्यं घृताक्ते तैजसेऽस्ति तत् ॥ १,४.४१ ॥


आदित्ये यच्चक्षुर्गम्यं तेजस्वित्वं तद्यूपेऽप्यस्ति ।
घृताक्तस्य यूपस्य तेजस्वित्वाध्यवसायात् ।
ततः आदित्यशब्देन यूपः स्तूयते ।
एवं"यजमानो यूपः"इत्यत्र चक्षुर्गम्यस्योर्ध्वत्वस्य समानत्वाद्यजमानशब्देन यूपः स्तूयते ॥ १,४.४१ ॥

____________________________________________________

१,४.४२४४


(षोडशेऽपश्वादिशब्दानां गवादिप्रशंसार्थत्वाधिकरणे सूत्रम्)

प्रशंसा  । १,४.२६ ।

षोडशाधिकरणमारचयति

पशवोऽन्ये गवाश्वेभ्योऽपशवो वा इति श्रुतम् ।
अजादिष्वपशुत्वं यद्गुणो वादोऽथवास्तु तत् ॥ १,४.४२ ॥
स्तुत्यभावाद्गुणस्तेषु पशुकार्यनिषेधनम् ।
अशक्यत्वान्निषेधस्य घटाद्यर्थाभिधायिना  ॥ १,४.४३ ॥
पशवोऽपशुशब्देन प्राशस्त्याभावसाम्यतः ।
लक्ष्यास्तत्र निमित्तं तु प्रशंसैव गवाश्वयोः  ॥ १,४.४४ ॥


इदमाम्नायते "अपशवो वा अन्ये गोश्वेभ्यः, पशवो गोअश्वाः"इति ।
तत्राजादिषु श्रूयमाणं यदपशुत्वं तस्यार्थवादत्वं न संभवति ।
पशुत्वनिषेधमात्रेण स्तुतेरप्रतिभानात् ।
ततः पशुकार्यनिषेधरुमो गुणो विधीयत इति चेत् ।
मैवम् ।
अजादिपशुविधिवैयर्थ्थप्रसङ्गेन निषेद्धुमशक्यत्वात् ।
अपशुशब्दः पशुव्यतिरिक्तं घटादिपदार्थजातमभिदधाति ।
तस्मिन्घटादौ गवाश्ववत्प्राशस्त्यं नास्ति ।
सोऽयं प्राशस्त्याभावोऽजादिषु पशुष्वस्तीत्यनेनाभिप्रायेण पशव एव सन्तोऽप्यजादयो घटादिसाम्यादपशुशब्देन लक्ष्यन्ते ।
पूर्वत्र यजमानादिशब्दानां प्रस्तराद्यर्थेषु प्रवृत्तिनिमित्तम् ।
तत्प्रवृत्तिफलं प्रस्तरादिप्रशंसा ।
इह त्वपशुशब्दस्याजादिषु मवृत्तौ गवाश्वयोः प्रशंसैव निमित्तं फलं च ।
द्विप्रकारा प्रशंसा वस्तूनिविद्यमानगुणोत्कर्ष एकः प्रकारः ।
स्तावकेन शब्देन संपादितो गुणोत्कर्षोऽपरः प्रकारः ।
गवाश्वयोरजादिभ्य उत्कर्षो लोकसिद्धो यः सोऽत्र निमित्तम् ।
ऽ अजादयः स्वभावतः पशवोऽपि सन्तो गवाश्वौ प्रत्यपशवः संपन्नाः ।
ईदृशो गवाश्वयोर्महिमाऽ इति स्तुतिफलम् ।
तस्मात्"अपशवो वै"इत्ययमर्थवादः ।
अयमेव न्याय उदाहरणान्तरेऽपि योजनीयः"अयज्ञो वा एष योऽसाम"इत्येकमुदाहरणम् ।
"असत्रं वा एतद्यच्छन्दोगम्"इत्यपरमुदाहरणम् ।
"अग्निहोत्रदर्शपूर्णमासादिर्यज्ञोऽपि सामहीनत्वादयज्ञो भवति ।
ईदृशः साम्नो महिमा ।
छन्दोगशब्देन चतुर्विशः, चतुश्चत्वारिंशः, अष्टचत्वारिंश इत्येते त्रयः स्तोमा उच्यन्ते ।
अक्षरसंख्यासाम्येन गायत्रीत्रिष्टुब्जगरीछन्दोभिर्गीयमानत्वात् ।
तेषां च विष्टुतिः सामब्राह्मणे द्रष्टव्या ।
अतः सत्रमपि चतुर्दशरात्रादिकं छन्दोगरहितत्वादसत्रं भवति ।
ईदृशश्छन्दोगानां महिमा ।
इत्येवं स्तावकत्वादर्थवादत्वम्  ॥ १,४.४२४४ ॥

____________________________________________________

१,४.४५४८


(सप्तदशे भूमाधिकरणे बाहुल्येन सृष्टिव्यपदेशाधिकरणे सूत्रम्)

भूमा  । १,४.२७ ।

सप्तादशाधिकरणमारचयति

सृष्टीरुपदधातीति ये मन्त्राः सृष्टिलिङ्गकाः ।
विधेयास्ते गुणत्वेन वादो वात्र गुणे विधिः  ॥ १,४.४५ ॥
आख्यातेनाभिसंबन्धादविध्यन्तरयोगतः ।
लिङ्गप्रकरणप्राप्तेर्मन्त्राणां विध्यसंभवात् ॥ १,४.४६ ॥
ताननूद्येष्टकाधानं विदध्यात्स्तोष्यते यतः ।
यथासृष्टेत्यनेनातः सृष्टीरित्यर्थवादगीः  ॥ १,४.४७ ॥
एकयास्तुवतेत्यादौ मन्त्रसंघे क्वचिन्नहि ।
सृष्टिशब्दस्तथाप्युक्तिः सृष्टिशब्देन भूमतः  ॥ १,४.४८ ॥

अग्निचयने श्रूयते "सृष्टीरुपदधाति"इति ।
सृष्टिशब्दोपेता मन्त्रा यासामिष्टकानामुपधाने