सामग्री पर जाएँ

जूनमासस्य प्रवचनानि

विकिस्रोतः तः

जून 1 – कर्तृभावस्य त्यागः एव परमार्थः! रज्जुं यः सर्पम् इति मन्यते सः बद्धः। परं रज्जुं यः रज्जुमेव मन्यते सः मुक्तः। ‘अहं न देही’ इति येन अवगतं सः मुक्तः एव। सत्यज्ञानस्य प्राप्तिः एव मुक्तावस्था। बद्धावस्था अस्माभिः एव निर्मिता। चिन्ता, व्याकुलता, दुःखं च बद्धदशायाः लक्षणानि। कदापि आनन्देन अवस्थानम्इति मुक्तस्य लक्षणम्। जागरा नाम मुक्तावस्था। ‘मदीयं’ मम समीपे एव वर्तते, परं न जानीमः। भगवद्विस्मरणेन ‘अहं देही’ इति मन्यामहे। देहः मम नियन्त्रणे नास्ति। अतः ‘अहं देही न’ इति सिद्धं जातम्। कर्तृत्वं स्वीकुर्मः चेत् तेन सह सुखदुःखम् आयाति। मम सुखं नास्ति, दुःखमपि नास्ति इति यः जानाति सः मुक्तः इति अवगन्तव्यम्। कर्तृत्वं घातकम्। ‘एतादृशं विशालं भवनं मया निर्मितं’, ‘प्रपञ्चः उत्तमः कृतःच’ इति प्रापञ्चिकस्य अभिमानः वर्तते तथा संन्यासिनः मठस्य अभिमानः। इत्युक्ते कर्तृभावात् द्वयोरपि सहजं मुक्तिः न भवति। त्यक्तुम् इच्छामः तथापि कर्तृत्वं न मुच्यते इति वयं नित्यम् अनुभवामः। भगवतः अस्तित्वस्य अङ्गीकरणेन कर्तृत्वं न्यूनं भवति। अतः भगवतः अखण्डस्मरणे अवस्थातव्यम्। भगवान् यथा स्थापयति तथैव समाधानं मन्तव्यम्। भगवत्स्मरणेन विना यत्र सुखम् अनुभूयते सः विषय़ः। विषयसङ्गे परमात्मनः भिन्नम् अवस्थानम् इत्युक्ते प्रपञ्चः। तथा च परमात्मसङ्गः विषयेण सह भवति चेद् अपि सः परमार्थः। फलापेक्षया सह यत् कुर्मः तत् कर्म, परं फलापेक्षां विना कृतं कर्म नाम कर्तव्यम्। इदं कर्तव्यं भगवत्स्मरणे करणं नाम परमार्थः। तत्करणसमये भगवन्तं न विस्मरामः चेत्, तत् अनुसन्धानम्। चिन्तयन्तु, कमपि सुन्दरं पुस्तकं पठन्तं जनं पिपीलिका दशति चेत् तस्य संवेदना अनुक्षणं भवति। सम्पूर्णे शरीरे सा वेदना व्यापृता भवति तद्वत् भगवदनुसन्धानेन प्रपञ्चः व्यापृतः भवेत्। प्रपञ्चे कस्मिन्नपि कर्मणि इदम् अनुसन्धानं रक्षणीयम्। अनुसन्धानस्य अभ्यासः करणीयः। भगवदनुसन्धानम् अस्मान् भगवन्तं प्रति नयति। इदम् अनुसन्धानं दृढं निरन्तरं च भवेत् इति मनसा निश्चेतव्यम्।

      • स्वकर्तव्यं न विस्मरणीयम्। भगवदनुसन्धानं रक्षणीयम्।***

जून 2 – विना कारणं भगवान् प्रेतव्यः। वस्तुतः जगति लौकिकव्यवहारे च वयम् अज्ञाः भवामः चेद् न कापि हानिः। भगवन्मार्गे तद् लाभाय एव। वयम् अज्ञाः न भूत्वा, स्वविद्यायाः महत्तमत्वं न विस्मृत्य, परमार्थं लब्धुं न शक्नुमः। ग्रामान्तरं गच्छते पुत्राय यथा माता पाथेयं यच्छति तथा परमात्मा यस्यां परिस्थित्याम् अस्मभ्यं जनिं ददाति तस्यां परिस्थित्याम् आवश्यकं समाधानमपि ददाति। तत् स्वीकर्तुं पात्रता अपेक्ष्यते। यत्र अतीव असमाधानं वर्तते तत्र दुष्टशक्तयः कार्यं कर्तुम् अवसरं लभन्ते। प्रत्युत यत्र सत्यं समाधानं वर्तते तत्र सच्छक्तयः साहाय्यं कुर्वन्ति। वयं नामस्मरणे लिप्ताः भवामः चेत् बाह्या विपरीता स्थितिः न बाधेत। देहः मनस्सम्बन्धितः, मनः हृदयसम्बन्धितम्, अतः मनः सदा समाधानेन स्थापनीयम्। तेन शरीरस्वास्थ्यं सम्यक् भवेत्, आयुरपि वर्धेत च। स्वार्थत्यागसमये आरम्भे मनुष्यः व्यवहारनियमनं कर्तुं न शक्नुयात्। येन मिलेत् तं सः आत्मीयः एव इति कथयेत्। परं परमार्थः जीवने दृढः भवति चेद् व्यवहारं सम्यक् कृत्वा सः निःस्वार्थः अपि भवितुमर्हति। वस्तुतः परमार्थः एकं शास्त्रम्। तस्मिन् सुसूत्रता वर्तते। व्यवहारः न त्यक्तव्यः। परं टटंटं अस्माकं वृत्तिः भगवन्मार्गे विक्षेपं जनयति। अतः सा भगवति योजनीया। भगवद्विषये वास्तवा रुचिः उत्पद्येत। भगवति अकारणं प्रेमकरणं नाम परमार्थः। परमार्थाय मस्तिष्कं शान्तं भवेत्। कश्चन जनः सर्वत्र रामं दृष्टवान्। तेन चिन्तितं यद् देवः लब्धः। परम् इदं न भगवतः सम्यक् दर्शनम्। सः सर्वत्र वर्तते इति भावना आवश्यकी। परमार्थस्य चिन्ता न करणीया। सा चिन्ता एव विक्षेपं करोति। वयः यथा वर्धते तथा सर्वाणि अङ्गानि सहजं वर्धन्ते एव। तद्वत् परमार्थाय अपेक्षितानां गुणानां वर्तते। साधनसमये पुनः पुनः उन्नतिः न द्रष्टव्या। चिन्तयन्तु, प्राङ्गणे उप्तं वृक्षं प्रतिदिनम् उत्पाट्य पश्यामः चेत् सः कथं वर्धेत? तद्वत् परमार्थे अस्माकं विकासविषये। मनुष्येण परमार्थः कियान् साधितः इति तस्य भाषणेन, दृष्ट्या च ज्ञायते।

      • परमार्थः न जनानाम् उपदेशार्थं, सः तु केवलं स्वस्य कृते वर्तते।****

जून 3 – परमार्थः कथं सिद्ध्येत्? यस्माद् माया उत्पन्ना सः शरणं गन्तव्यः। तं शरणं गन्तु कः विक्षेपः? कर्तृत्वं त्यजन्तु येन शरणं गन्तुं शक्यपपते। भवन्तःममत्वं प्रदर्शयन्ति, अभिमानं सदा रक्षन्ति च तदनु भगवन्तं कथं शरणं गन्तुं शक्नुवन्ति? वयं सत्पुरुषाणां दर्शनार्थं गच्छामः तदा भार्यायाः स्वास्थ्यमिच्छामः च। तेन तत् दर्शनं सम्यक् जातमिति वदामः किम्? दारपुत्राणां कृते सत्पुरुषान् प्रति न गन्तव्यम्। सत्पुरुषैः नामस्मरणं कर्तुं सूचितं, परं पुत्रः न जीवति इति पश्यामः चेद् अस्माकं रामे, नामस्मरणे च विद्यमाना श्रद्धा भज्यते। इत्युक्ते ‘अहं विषयस्य कृते नामस्मरणं करोमि’ इति भवति। विषयाः निर्गच्छेयुः, परं ते न निर्गच्छन्ति। यतो हि अस्माकं तथा बलशालिनी इच्छा एव न वर्तते। संन्यासं स्वीकर्तुं गच्छामः चेत् पत्नी बालकं स्वीकृत्य मध्ये आयाति। ताम् अपाकृत्य गच्छामः चेत् मोहवशाः भवामः। परस्त्रीस्वीकारः आपतति। जनः व्यसनार्थम् इदं सर्वं करोति परं परमार्थाय विषयान् दूरीकृत्य साधनं करोतु इति वदामः चेद् विविधानि कारणानि सः कथयति। चतुर्विंशतिः वर्षाणि कार्यं कृत्वापि कुक्षिम्भरं भोजनं न लभ्यते तदनु परमार्थः वर्षद्वयेन एव सिद्ध्येत् इति कथं वदामः? शान्तिः परमार्थस्य प्रथमं सोपानम्। परमार्थः समञ्जनेन लभ्यते न तु वृथा कष्टेन ग्रन्थपठनेनवा। बद्रीनारायणस्य यात्रां कृत्वा अपि सः न लभ्येत। तदपेक्षया भगवतः अनुसन्धानेन अधिकः लाभः। काचित् क्रीडा स्वयम् एकेन एव करणीया तथैव परमार्थः अपि स्वेन सह स्वयमेव क्रीडनं वर्तते। तत्क्रीडनमित्युक्ते आत्मना सह करणीयः अभ्यासः वर्तते। क्रीडायां किमपि साधनम् अपेक्ष्यते। परम् अस्मिन् अभ्यासे तद् अपि नापेक्ष्यते। परमार्थः वृत्तिपरिष्कारस्य अभ्यासः। अस्माकं परमार्थः जगत् न पश्येत् तावत् अस्माकं कृते लाभाय। जगति विद्यमाने महत्तमत्वे न सार्थक्यम्। वास्तविकेन महत्तमत्वेन विना मोघंमहत्तमत्वेन महान् घातः भवेत्। अन्तरङ्गे स्थिरत्वं, स्वस्थताप्राप्तिः, सावधानता, परिश्रमत्यागः च इति एव परमार्थः। सततम् आनन्दलाभार्थं प्रयत्नाः नाम परमार्थः। ‘जगत् किं वदेत्’ इति मत्वा वर्तनं नाम व्यवहारः तथा च ‘भगवान् किं वदेत्’ इति मत्वा वर्तनं नाम परमार्थः।

      • कर्तव्ये भगवतः स्मरणं नाम परमार्थसारः।****
जून 4 – परमार्थमार्गःअभिमानं अवरुणद्धि।

शास्त्रेषु विषयद्वयं कथितं वर्तते। इहलोक: परलोक: च कथं लभ्येयाताम् इति तत्र स्पष्टं कृतं वर्तते। परन्तु वयं प्रपञ्चं त्वरया, परमार्थं सौकर्येण करणीयौ विषयौ मन्यामहे। विषयद्वये अपि केनचित् सुज्ञेन सह वासः अपेक्ष्यते। परलोकप्राप्तिं कारयति सः सद्गुरुः। ’न जानामि’ इति स्वीकरोति सः एव सद्गुरुं प्रति गन्तुं मार्गं प्राप्नोति। वयं भगवन्तं शरणं न गच्छामः यतो हि अस्माकम् अभिमानः शरणगमनमार्गम् अवरुणद्धि। विलक्षणं यत् व्यवहारे अपि यः सम्यक् जानाति, तं शरणं गच्छामः। इहलोकः अनुभवस्य तथा च परलोकः अनुमानस्य विषयः च इति वयं कल्पयामः। परम् इहलोकस्य अनुभवः दुःखमयः, तथापि टक तं न त्यजामः। तदनु परमार्थस्य अनुभवः न लभ्यते अतः अहं तं न अनुसरामि इति कथनं मिथ्याचारः। ‘प्रपञ्चे वयं किमपि पापाचरणं न कुर्मः तर्हि एतद् विहाय अन्यः कः परमार्थः?’ इति केचन पृच्छन्ति। प्रपञ्चः यद्यपि प्रामाणिकतया कृतः परम् अभिमाने विद्यमाने सति सः परमार्थः भवितुं न अर्हति। ‘रामः एव कर्ता’ इति भावं विना इत्युक्ते अभिमानत्यागं विना परमार्थः न सिद्ध्यति। ‘अहं देही’ इति वदामः चेद् अभिमानः आयाति। देहबुद्ध्याः कारणं वर्तते वासना। वासना सर्वेषां मूलम्। ‘मम जनि: एव वासनायां वर्तते तर्हि ताम् अपाकृत्य अहं कथं जीवितुं शक्नोमि’ इति केचन चिन्तयन्ति। यः वासनां व्यापादयति सः परमार्थाय योग्यः। अन्तसमये या मतिः सा आगामिनः जन्मनः कारणम्। इदं सर्वं ज्ञानस्य वचनम् परं प्रचीतिद्वारा सर्वं ज्ञातव्यम्। दारपुत्राणां पीडा वर्तते, मनः एकाग्रं न भवति च अतः मुनिः जातः। मठः निर्मितः। जनानामागमनम् आरब्धम्। तान् भोजयितुं भिक्षाटनमारब्धम्। परं भगवान् सर्वान् भोजयति इति विस्मृतवान्। छदितः जलं निस्सरति, अतः तां सम्यक् कर्तुं चिन्तितः जातः। तदनु गृहेण किं पापं कृतम्? एतादृशः मुनित्वस्य अपेक्षया प्रपञ्चकरणेन का हानिः। सारांशेन, प्रपञ्चम् अवगत्य तस्य आचरणेन सः शीघ्रं सिद्ध्येत्। प्रपञ्चत्यागस्य आवश्यकता एव न अवशिष्येत्। जगति अस्माकं समाधानम् असमाधानं वा यया वृत्त्या वयं जगत् पश्यामः ताम् अवलम्बते। परमार्थे महत्त्वं बाह्यैश्वर्यस्य न, अपि तु चित्तवृत्तिस्थैर्यस्य वर्तते। भगवतः सततम् अनुसन्धानम् एव वृत्तिस्थैर्यस्य एकः एव उपायः।

        • परमार्थाय कापि परिस्थितिः भवेत्। केवलम् अस्माकं वृत्तिः स्थिरा अपेक्ष्यते। ****

जून 5 – वैराग्यं विना परमार्थः मिथ्या। पक्षिणां शावका: तेषां पक्षयो: आश्रयेण वर्धन्ते। तद्वत् गृहजनाः प्रेमाश्रये रक्षणीयाः पालनीयाः च। वयं तेषु प्रीणीमः इति ज्ञाते सति तेषां दोषदर्शनेन ते न क्लेशम् अनुभवन्ति। माता पुत्रं तस्य दोषान् कथयति चेत् सः न खिद्यते। रुग्णस्य शरीरगतः ज्वरः निर्गच्छति चेत् शक्तिवर्धकम् औषधं कार्यं करोति, यतो हि शक्तिवर्धनं स्वाभाविकम्। तथैव अन्तःकरणं शुद्धं भवति चेत् परमार्थप्राप्तिः सरला वर्तते। परमार्थे मनःकष्टानि वर्तन्ते, यतो हि अद्ययावत् कृतस्य अभ्यासस्य इदं विपरीतं कार्यम्। अतः परमार्थे आरम्भः स्वतः करणीयः। अन्तःकरणे भगवदनुसन्धानं कल्पयित्वा बाह्यवृत्तिनियमनार्थं यः प्रयतते सः परमार्थं शीघ्रम् अनुभवेत्। भगवदनुसन्धाने चित्तं सावधानतया संस्थापयामः तथापि तद् आक्रान्तुं विषयाः सदैव सिद्धाः सन्ति। मनः किञ्चिद् वा भगवतः दूरं गच्छेत्, विषयाः आक्रमणं कुर्वन्ति एव। साधकेन अहोरात्रं सावधानटपतया प्रहरीरूपेण स्थातव्यं भवति। अतः उक्तिः वर्तते यत् परमार्थः इत्युक्ते अखण्डिता सावधानता। प्रपञ्चः परमार्थः च न भिन्नौ। प्रपञ्चः अनासक्त्या आनन्देन च करणीयः इत्येव परमार्थः। परमार्थे कः अवरोधः? धनं, पत्नी, सुताः चेत्यादयः न, अपि तु तेषु यद् ममत्वं तदेव अन्तरायः। वस्तुषु आसक्तिः न भवेत् इति एव वैराग्यम्। तद्वस्तुनः अभावः इति न वैराग्यम्। कस्यचिद् भार्या न वर्तते, अतः सः विरक्तः, भार्या वर्तते चेद् आसक्तः इति वक्तुं न शक्नुमः। पत्नीयुतः परं लोलुपताविरहितः एव विरक्तः। यत् वर्तते तत् परमात्मना दत्तं तथा च तत् तस्यैव इति मत्वा आनन्देन अवस्थानं नाम वैराग्यम्। अस्मिन्भावे स्थित्वा यः इन्द्रियाणि नानुधावति सः विरागी। वैराग्यं विना सर्वः परमार्थः मिथ्या। कोपि विषयः अभ्यासेन सिद्ध्यति। साम्प्रतं वास्तवा भक्तिः न विद्यते अतः भगवत्स्मरणं न वर्तते। भगवत्स्मरणाभ्यासेन विना वास्तवा भक्तिः न लभ्यते। सुज्ञेन जनेन वृथा कुतर्कःन कृत्वा विकल्पचिन्तनेन विना भगवत्स्मरणम् आरभणीयम्। यत्र कोपि परिचितः नास्ति, आप्तजनाः न सन्ति, कोपि न आद्रियते च तत्र स्थित्वा अनुसन्धानाभ्यासः करणीयः। परिचितजनविरहितस्थानम् अभ्यासार्थम् उत्तमम्।

      • बाह्याङ्गेन प्रपञ्चसङ्गः। चित्ते भवतु रघुपतिसङ्गः।।***

जून 6 - भगवान् तथा च अहं न भिन्नौ। समुद्रफेनकःघनवस्तु इति भासते परं सः जलमयः। असत्यं सदा सत्येन सह वर्तते। यत् नास्ति तत् मुखेन कथनं नाम माया। वयं तां सत्यां मन्यामहे। माया असत्या इति मननमात्रेण ब्रह्म सत्यत्वं लभते। वयं मायाम् अनुधावामः, परं सा मृगजलवत् वर्तते इति ज्ञाते सति वयं स्वस्थाः भवामः। जन्मसमये सोहम् इति अवदत्, अनन्तरम् कोहम् इति भाषणम् आरब्धम्, अन्ते देहः एव अहम् इति भणनं कृतम्। वस्तुतः सूर्यः किरणाः च न भिन्नौ तद्वत् भगवान् अहं च न भिन्नौ। तदेव सत्यं यत् चिरकालं वर्तते इत्युक्ते परमात्मरूपम्। सच्चिदानन्दरूपे मनः लग्नं भवति तत् अनुसन्धानम्। भगवन्तं विना इतरसर्वम् उपाधिः विद्यते। अहं न जानामि इति एतस्य अवगमनम् इति परमार्थस्य प्रथमं सोपानम्। अहं भगवान् च न भिन्नौ इति भावनया शरीरं मनः च परिपूर्णे इति अन्तिमं सोपानम्। यत् यत् प्रवर्तते तत् सर्वं परमात्मा करोति अहं केवलं निमित्तमात्रं कर्तव्यार्थं च इति मनोभावेन यत् कर्म प्रवर्तते तत् निष्कामकर्म इति उच्यते। यदि प्राप्तं तर्हि भुक्तं, न प्राप्तं तर्हि त्यक्तम् इति भावेन यत् प्रवर्तते तत् सहजकर्म। दोषाः न बाधेरन् इति विचिन्त्य कृतं कर्म ज्ञानयुक्तं कर्म इति वदन्ति। ईश्वरस्मरणे कृतं कर्म निरासक्तं कर्म इति वदन्ति। अमुकमेव फलम् अहं लभे इति एतस्याः वृत्त्याः त्यागः नाम निरासक्तिः। विषयविरक्तिः भवति चेत् ज्ञानं जातमिति उच्यते। सारांशेन यत् कर्म बन्धनस्य कारणं तत् अज्ञानम् तथा च यत् मोक्षस्य कारणं तत् ज्ञानम् इति अवगन्तव्यम्। कर्ममार्गेण उपासनामार्गेण नवविधाभक्त्या च इत्यादिभिः प्राप्तव्यं ध्येयमेकमेव। कन्यायाः विवाहे अमुकव्ययः अधिकः अमुकव्ययः न्यूनः च करणीयः परं मुख्यकार्यं कन्यायै उत्तमः पतिः वरणीय: इति मनुष्यः चिन्तयति तथैव जीवनस्य मुख्यं कार्यं भगवत्प्राप्तिः। अस्माकं देहबुद्ध्याः अन्तरायः सत्सङ्गत्यां न भवेत् । भगवद्दर्शनस्य स्वरूपदर्शनस्य वा मार्गे अन्तरायः मम देहबुद्ध्याः गिरिः भवति। सर्वेषांसाधनानाम् उपयोगः अभिमाननाशार्थं भवति। नामस्मरणेन इदं कार्यं शीघ्रं भवति। अतः सर्वसाधनानां सारः भगवन्नाम एव वर्तते। तत् वयं श्रद्धापूर्वकं जपामः भगवता एकत्वं प्राप्स्यामः च। प्रयत्नरते सति भगवान् माम् उद्धरेत् इति विश्वासं धरन्तु भगवन्नामस्मरणे आनन्देन कालं यापयन्तु च।

      • साम्प्रतं यावन्तं रिक्तं समयं भवन्तः लभन्ते, तावन्तं सर्वं भगवन्नामजपे यापयितुं प्रयत्नं कुर्वन्तु।*****

जून 7 – नित्यनियमः इत्युक्ते किम्? नित्यनियमः इत्युक्ते किम्? यः नियमः नित्यं वर्तते सः नित्यनियमः। नित्यः कः यः न परिवर्तते सः नित्यः। इत्युक्ते यः पूर्णतः शाश्वतः सः वस्तुतः नित्यः। अतः नित्यः इत्युक्ते भगवान् इति ज्ञातव्यम्। तस्य नियमः इत्युक्ते किं करणीयम्? नियमः करणीयः इत्युक्ते नियमनं करणीयम्। निग्रहः करणीयः। वशः करणीयः। स्वाधीनः करणीयः। स्वमनः भदवदधीनं करणीयम्, तस्मिन् निरन्तरं स्थापनीयम् इति एतस्य नाम नित्यनियमः। साम्प्रतं विद्यमानायां मनस्स्थित्यां तत् भगवदधीनं कर्तुं न शक्नुमःतथा च जडेन, अशाश्वतेन च देहेन नित्यशाश्वतभगवतः नियमः भवितुं नार्हति। अतः देहेन कर्तुम्अशक्यं, देहातीतत्वेन सूक्ष्मत्वेन च भगवता सह शाश्वतं सम्बद्धितं च नामस्मरणं निरन्तरं करणीयम् च इति अस्माकं वास्तवः नित्यनियमः। इतरसर्वे विषय़ाः शास्त्रबन्धनानि ग्रन्थपठनं स्नानसन्ध्यादि नित्यकर्माणि करणीयानि परं तेषा दुराग्रहः मास्तु। कदापि भगवन्नाम न त्यक्तव्यं इति एव आग्रहः क्षम्यः। शुद्धभावनया नाम जपामः चेत् भगवान् दर्शनं ददाति। शुद्धभावनायाः फलं बहु वर्तते। बहुधा निर्धनाः अशिक्षिताः जनाः अस्मिन् विषये श्रेष्ठाः सन्ति। नाम जपन्तः एव भवामः। नाम्ना भावना शुद्धा भवति। वस्तुतः जीवनार्थं वायुः यथा आवश्यकः तथा किं बहुना ततोपि अधिका आवश्यकता परमार्थे नामजपनस्य वर्तते। भगवन्नाम विना न भवामि इति सङ्कल्पः प्रत्येकं जनेन करणीयः। भगवान् दुराग्रहेण वृथा कष्टेन वा साध्य: न भवति। सः केवलं प्रेम्णा वशः भवति। प्रेम्णि भूताः आग्रहाः भूतानि, कष्टानि च शोभन्ते, हितकराः भवन्ति च। वयं भक्तानाम् आग्रहान् कष्टानि च पश्यामः, परं प्रेम न पश्यामः। यः जनः सार्धत्रिकोटिपरिमितं रामनामजपं कुर्यात् सः निश्चयेन भगवत्प्रेम अनुभवेत्। शङ्काः सुदीर्घाःभवन्ति, ताः येन केनापि न म्रियन्ते। अपि च काश्चन शङ्काः आचरणेन अनुभवेन च नश्यन्ति। अतः मनसि शङ्कानां विद्यमानत्वेनापि नाम न त्यक्तव्यम्। सततं नामस्मरणेन मनः स्वच्छं भवति। सर्वाः शङ्काः सहजं लयीभवन्ति। लङ्कायां यदा रावणस्य कारावासे अशोकवने सीता आसीत् तदा तस्याः सन्निकर्षप्रभावेण तत्रस्थाः वृक्षाः पक्षिणः,अश्मान: च सर्वे रामप्रेम लब्धवन्त: इति वर्णनं वर्तते। रामनाम्नः प्रेम तथा च भगवत्प्रेम द्वयमपि एकमेव। नाम्नि अन्तिमः श्वासः भवेत् इति एव जीवनस्य सार्थक्यम्।

      • ध्रुववत् नामनिष्ठा भवेत् साक्षात् भगवान् पुरतः आगतः, तथापि तेन नाम न त्यक्तम्।***

जून 8 – विषयाणाम् आवेगः भगवति योजनीयः।

प्रपञ्चे यः विश्वासः सः एव परमार्थे श्रद्धा इति कथ्यते। अपूर्णता एव प्रपञ्चस्य रूपम्, अतः सः कदापि पूर्णः भवितुं न अर्हति। समाधानं पूर्णत्वस्य स्वभावः। निर्हेतुककर्मणा वास्तविकी सात्विकता उत्पद्येत तथा च अग्रे पूर्णाहुतिः भवेत्। एतेन प्रकारेण सर्वस्वार्पणं नाम यज्ञः। त्यागः भगवत्स्मरणं च यज्ञस्य वास्तवः अर्थः। परमार्थप्राप्त्यनन्तरं मुनेः देहः पुष्टः भवति। किं सः प्रतिदिनं दुग्धं पिबति?न। भगवदानन्देन तस्य देहः पूर्णः वर्तते। परं साधकावस्थायां तस्य देहः कष्टेन एव जीवति। वस्तुतः परमार्थिना जनेन दैन्येन जीवनम् अलम्। धनं वर्तते चेत् प्रतिदिनं श्रीखण्डपुरिकाःखादनीयाः। परं श्वः निराहारे सति अद्यतनीयस्य मधुरभोजनस्य स्मरणमपि न भवेत्। 

गृहस्थाश्रमः सर्वेषु श्रेष्ठः इति कथितं वर्तते। जनहिताय गृहस्थाश्रमसदृशः आश्रमः न विद्यते। परं विवाहं कृत्वा सर्वकालः विषये एव व्यतीतः प्रपञ्चकर्तव्यानि न कृतानि तर्हि विवाहेन किं साधितम्? उद्योगेन उदरपूर्तिः करणीया परं सेवया स्वामी एव सर्वस्वः इति मत्वा देवः विस्मृतः चेत् न योग्यम्। देवं स्मृत्वा सेवा करणीया। गृहस्थाश्रमे देवः न लभ्येत इति यः वदेत् तस्यकथनं न अङ्गीकर्तव्यम्। देवः लभ्येत इति विश्वासः भवेत्। स्वभारः सर्वथा परमेश्वरे त्यक्तव्यः। सङ्कटानि आनन्दं च द्वयमपि भगवन्तं कथयामः। यस्यां स्थित्यां भगवता स्थापिताः तस्यामेव समाधानं कल्पनीयम्। कदाचित् अर्पणबुद्ध्या सर्वकर्माणि अर्पणीयानि। स्वमनः यस्मिन् कार्ये आत्मानं न तुदति तत् कार्यम् उत्तमम् इति ज्ञातव्यम्। कश्चन जनः अस्मिन् प्रपञ्चे सर्वं विद्यते इति मन्यते तावत् सः परमार्थात् दूरः। दुर्जनाः समाधाने वर्तन्ते। परं वास्तवं ते तथा न सन्ति। दुष्कर्मकर्ता कदाचित् पश्चात्तापेन विना न भवितुमर्हति। काचित् विमाता पुत्राय भोजनं ददाति परम् अन्तःकरणे सा न प्रीणाति। तद्वत् वयं परमार्थेन व्यवहारं कुर्मः। वस्तुतः अस्माकम् अत्रैव प्रमादः भवति। अस्माकं विषयेच्छावेगान् वयं परमार्थं प्रति योजयामः चेत् परमार्थः साधितः। येन विषय़सुखं भगवति योजितम् इत्युक्ते भगवत्स्मरणे यः सुखसुविधां प्राप्नोति तस्य जन्मसार्थक्यं जातम्।

****प्रप़ञ्चे यत् अस्माकं सातत्यम् तस्य एकचतुर्थांशं सातत्यं यदि भगवतः कृते योजितम् तर्हि कार्यपूर्तिः भवेत्।**** 

जून 9 – वासनानाशः एव मोक्षः। बहुधा भक्तिः इत्युक्तेका, परमार्थं कं वदन्ति च इत्येव वयं न जानीमः। यः प्रपञ्चं सम्यक् न करोति सः परमार्थं कर्तुं न शक्नोति। प्रपञ्चस्य जामितत्वेन भक्तिं कर्तुं न शक्नुमः। तिरस्कारः प्रपञ्चस्य न भवेत्, अपि तु विषयाणां भवेत्। मया सुखं प्राप्तव्यमिति प्रत्येकं जीवस्य मुख्यः उद्देशः वर्तते। मोक्षः इत्युक्ते निरतिशयस्य सुखस्य अनुभवः। ‘जीवितावस्थायां लब्धा आत्यन्तिकी सुखस्य स्थितिः’ इति मोक्षस्य व्याख्यां कर्तुं शक्नुमः। वस्तुतः भगवत्समीपे किं न्यूनम्? केवलं स्वमनः तस्मै दत्त्वा तस्य श्रद्धामयी भक्तिः करणीया। चिन्ता इत्युक्ते भगवति अविश्वासः। देहस्य प्रारब्धाधीनत्वम् एव वास्तविकी संन्यस्ता वृत्तिः। वासनां विना वयं कर्म एव कर्तुं न शक्नुमः, एतदर्थं किं करणीयम्? मम समाधानं मम समीपे एव वर्तते परम् अन्यत्र लभेय इति मन्ये इत्यत्र एव मम प्रमादः। याच्ञा यावत् न समाप्ता तावत् समाधानं न लभ्येत।लोभः मृत्युपर्यन्तं न समाप्नोति। इदमेव सर्वरोगाणां मूलम्। अतः यस्य वासनाक्षयः जातः सः मोक्षं प्राप्नोति खलु। आशा निराशा न भवति तावत् भगवद्दासाः भवितुं न शक्नुमः। यदा मनसि आशा उत्पद्येत तदा सा भगवते अर्पणीया। प्रत्येकं जनः मन्यते यत् अहं श्रीमान् भवेयम्। परं कति जनाः भवन्ति? एषा निराशा एव ननु? प्रपञ्चः वस्तुतः नाटकसदृशः। नाटके कश्चन जनः राजा भवेत् वा भिक्षुकः भवेत् साक्षात् जगति तस्य मूल्यमेव नास्ति। प्रत्युत भिक्षुकस्य व्यक्तित्वं सः समीचीनम् अभिनयति चेत् सर्वे तम् अभिनन्दन्ति। तद्वत् प्रपञ्चे कश्चन धनिकः भवेत् वा दरिद्रः भवेत् इति एतस्य महत्त्वं न भवेत्। अनुसन्धानं कियत् इति एतस्य वास्तवं महत्त्वं वर्तते। धनं सङ्गृहीतं तर्हि न कापि हानिः परम् आधारः तस्य न भवेत्। अनुसन्धाने तेन अन्तरायः न भवेत्। यावत् सुखम् विषयाधीनं, तावत् वास्तवं भक्तिसुखं न लभ्यते। मनसा भगवान् एव प्रार्थ्यते इति वर्तते चेत् सः प्राप्यते। अहं करोमि इति कदापि न वक्तव्यम्। अहं मम तपसा भगवन्तं पश्यामि इति यः वदति तस्य भगवद्दर्शनं दुर्लभम्। विषयं न लभामहे चेत् व्याकुलता वर्तते तद्वत् भगवन्तं न लभामहे चेत् व्याकुलता भवेत्। विद्यमानायां स्थित्यां किं कर्तुं शक्नुमः इति प्रथमं द्रष्टव्यम्। परमार्थम् अवगत्य तस्य आचरणं करोति सः शीघ्रं परमार्थं प्राप्नोति। तस्य प्रपञ्चत्यागस्य आवश्यकता एव न भवेत्।

      • रागद्वेषयोः आग्रहः न भवेत्। अत्रैव वासनायाः मरणं वर्तते।****

जून 10 - अस्माकं व्यवहाराः परमार्थः च सर्वं तस्य एव इच्छया प्रवर्तते। एवं यदि अभविष्यत् तर्हि सम्यक् अभविष्यत् इति भाषणं न सत्यम्। यद् जातं तद् रामस्य इच्छया एव जातम्। परमात्मना यथा इष्टं तस्य परिहरणम् असंभवम्, इति विश्वसिति चेत् मनः निश्चयेन धैर्यं प्राप्नोति। मम सर्वकर्मणां गुरुः एव सूत्रधारः। सर्वं शासनं गुरोः एव। अन्यस्यकस्यापि शासनं तत्र न प्रवर्तते। अस्माकं जीवनमेव भगवतः हस्ते वर्तते तर्हि अन्यस्य कस्यापि वा का गतिः?कस्यापि, कथमपि परिस्थितिः भवेत् सर्वं सूत्रं परमेश्वरस्य एव हस्ते।अभिमानग्रस्तेन न भवितव्यम्। सर्वं रामेच्छा इति ज्ञातव्यम्। यद्यपि एषः सिद्धान्तः तथापि व्यवहारे सावधानेन भवितव्यम्। अस्माकं सर्वे व्यवहाराः परमार्थः वा तस्यैव इच्छया भवति। यद् भवति अभवत् वा तत् सर्वं भगवन्नियन्त्रणेन। अतः तमेव शरणं गच्छन्तु। यस्य चेतः समाहितं सः एव भगवतः प्रियः। यः रामे विश्वसिति तं समाधानमङ्गीकरोति। मम हितं रामः पश्यति इति यस्य विश्वासः सः सम्यक् समाधानं प्राप्नोति। रामस्य भवितव्यं, समाधानं रक्षणीयम्। ‘मम’, ‘अहं’ च सर्वं रामाय अर्पणम्। तेन समाधानं सम्पूर्णम्। रामचरणयोः इच्छा आनन्दसमाधानयोः अवस्था। अन्तःकरणे समाधानम्, इदमेव भवेत् स्वसाधनम्। गार्हस्थ्ये न्यूनाधिक्यं न द्रष्टव्यम्। यत् वर्तते तस्मिन्नेव समाधानंमन्तव्यम्। यथा यदा परिस्थितिः तदा तस्यामेव समाधानम्। यस्यां स्थित्यां रामः स्थापयति तस्यां स्थित्यां समाधानं रक्षणीयम्। यद्यपि मनसि चिन्ता अहंता वा ममता उत्पद्यते, कश्चन पीडयति, छलकपटम् अपमानं वा करोति, कटुवचनैः क्लिश्नाति तथापि समाधानं न भञ्जनीयम्। अन्यः समाधानं दातुं न शक्नोति। ईश्वरकृपया एव तत् लभ्यते। यावत् मनः संशयग्रस्तं तावत् समाधानं न लभ्येत। विषयाः संवर्धिताः तर्हि समाधानं कथं लभ्येत? यावत् दृश्यभानं तावत् मनसि न समाधानम्। समाधानस्थितिः, उपाधिरहिता वृत्तिः। यत्र समाधानं, तत्रैव मनः योजनीयम्। समाधानं न देहगुणः, मनसा भवतु भगवतः। पाण्डवाः वनवासिनः, परं सदा भगवता सह मनः। यद्यपि पाण्डवाः भगवद्भक्ताः तथापि वनवासं परिहर्तुं न शक्तवन्तः। भगवत्स्मरणे रताः,तेन समाधानं प्राप्तवन्तः। ‘अधुना अहं रामस्य जातः’ इति भवति चिन्तनं चेत् सदैव समाधानम्।

              • सर्वकर्ता रामः इति मनसि निधाय एव समाधानम् उत्पद्यते। ******

जून 11 – सुखदुःखं मनोधीनम्। यत्र रोगः तत्रैव औषधिः योजनीयः तर्हि उपयुक्तं भवेत्। दुःखमूलं कुत्र वर्तते तत् आदौ द्रष्टव्यम्। प्रपञ्चे काचित् न्यूनता वर्तते चेत् दुःखं भवति ननु! श्रीमतां दरिद्राणां वा सुखदुःखयोः कः भेदः? कस्यचित् धनं प्रचुरं परं पुत्रादयः न सन्ति, अतः सः दुःखी वर्तते। अपरस्य सन्ततिः वर्तते परं धनाभावः,तेन सः खिन्नः। तृतीयस्य सम्पत्, पुत्रादयः च वर्तन्ते परम् उदरपीडया सः व्याकुलः। सारांशेन सुखदुःखं विना न कः अपि वर्तते। न्यूनतां पूरयितुं यत्नेषु अनुष्ठितेषु अपि सा कदापि न समाप्नोति। दुःखानि दूरीकर्तुम् उत्तानान् उपायान् वयं कुर्मः परं दुःखमूलमस्माकं मनः एव इति वयं न अवगच्छामः। वस्तुतः सुखदुःखं वस्तुनि न वर्तते, अपि तु मनस्स्थितौ एव वर्तते। वस्तुनि अपहृते निद्रितः प्रमुदितः च जनः जागृत्यां सत्याम् अपहरणं ज्ञात्वा दुःखितः भवति। इत्युक्ते दुःखि मनः भवति। अतः औषधिः दातव्यः मनसे। सद्भिः मनः बोधितम्। अद्ययावत् अस्माभिः विषयसुखं स्वपुत्रसमंट भुक्तं परमार्थः विपुत्रसदृशः आचरितः च। विमातृसदृशाः वयं मनः बोधितवन्तः। यथा सहवासः तथा मनसः परिणामः। गर्भवासात् आरभ्य विषयैः सह वासः, अतः विषयानन्दः सत्यः इति वयं मन्यामहे। यथा बीजं तथा फलम्। विषयबीजस्य वपनात् फलानि दुःखदायिनि इति शोककरणेन किम्? वणिजः यथा प्रतिवर्षम् आयव्ययसमालोचनं कुर्वन्ति तथा विषय़ाः कियताप्रमाणेन न्यूनाः जाताः इटति अस्माभिः द्रष्टव्यम्। यथा प्रपञ्चार्थं तीव्रतया प्रयतामहे तथा परमेश्वराय आर्ततया प्रयतनीयम्। प्रपञ्चे विद्यमानायाः अनुकूलपरिस्थित्याः अपेक्षया प्रतिकूलपरिस्थितिः एव अधिका लाभदायिनी। न अयं परमार्थः परिस्थितिम् अवलम्बते न श्रीमत्त्वं न वा दारिद्र्यं, न अनामयत्वं न वा सामयत्वम्। मनस्स्वस्थता, अन्तःशुद्धता, आचरणपवित्रता च इति एतेषां सः अधीनः। जीवने विद्यमानाः अनुकूलताः प्रतिकूलताः च परमार्थमार्गे अन्तरायाः सन्ति। मार्गे सुगन्धापणं दृष्ट्वा वा मरीचिकापणं दृष्ट्वा वा वयं संस्थिताः चेत् द्वयमपि घातकम् एव। प्रपञ्चः मूलतः न समीचीनः, न वा असमीचीनः। वयम् अस्माकम् आसक्तिं तस्मिन् कलयामः तेन सः अस्मभ्यं सुखदुःखं ददाति। एताम् आसक्तिं त्यजामः चेत् सः एव परमार्थः।

        • ते एव विषयाः परम् आसक्तिं त्यक्त्वा स्वीकरणीयाः इति नाम परमार्थः।****

जून 12 – परमार्थः साधनीयः इति एव अस्माकं जन्मनः वास्तवः हेतुः। द्वैते दुःखम्, एकत्वे सुखं च वर्तेते। वयम् एकत्वे अवतिष्ठामः चेत् आनन्दः लभ्येत। इदं जगत् विविधं भासते परं तत् एकमेव। प्रपञ्चस्य दशदिशः परं परमार्थस्य एका एव दिक्। तां प्रति एव द्रष्टव्यम्। मनसा किमपि न करणम् इति एव वास्तवः परमार्थः। परमार्थे उपाधिः स्वल्पः अपि न वर्तते। न इत्युक्ते कियान् न? तर्हि ‘अहम्’ अपि तत्र न वर्तते। प्रपञ्चः द्वैतरूपः। तस्य आडम्बरं विशालमेव भवेत्। यावत् अस्माकं जीवनस्य उद्देशः अस्माभिः न ज्ञातः तावत् प्रपञ्चः एव अस्माकं ध्येयं वर्तते। वस्तुतः मनुष्यः देहमनसोःसंयोजनेन वर्तते। अतः तेन ऐहिकं पारलौकिकं च द्वयमपि साधनीयम्। परमार्थप्राप्तिः एव अस्माकं जीवनस्य वास्तवः हेतुः। व्यवहारे द्वैतं विना आनन्दं न वर्तते। अतः आरम्भे परमार्थे मानसपूजा वा ‘अहं परमात्मा च’ इति द्वैतचिन्तनं करणीयं भवति। यावत् परमार्थः अस्माकं जीवने दृढः न जातः तावत् पठनस्य आवश्यकता वर्तते। तेन साधने बलं लभ्यते। मनः भगवति योजयितुं किं करणीयम् इति द्रष्टव्यम्। कश्चन पिता स्वपुत्रं तरणं पाठय़न् आसीत्। आदौ सः तं गुल्फपरिमितं जलं नीतवान्। अनन्तरं जानुपरिमितं जलं ततः अनन्तरं किञ्चित् अधिकम्। एतेन प्रकारेण अन्ते गभीरं जलं नीतवान्। तद्वत् अस्माकं गुरुः अस्मान् परमार्थं पाठयति। अस्माभिः जले अवश्यम् अवतरणीयम्।देहेन कृतः प्रपञ्चः न फलति, अतः सद्भिः नामस्मरणस्य उपायः कथितः। परम् अस्माकं सूज्ञत्वम् अस्माकम् अभिमानः च अन्तरायौ भवतः, तदर्थं किं करणीयम्? एषः अभिमानः अन्येन केनापि उत्पादितः किम्? वयं नावगच्छामः इति एतेन प्रकारेण अतिसूक्ष्मरूपेण वासनाबीजम् अस्माकं मनसि निहितं वर्तते। तेन लौकिकस्य अभिलाषः न मुञ्चति। एतदर्थं सद्भि: कश्चन उपायः सूचितः। सः इत्युक्ते नामस्मरणं कुर्वन् विषयावेगः अवरोधनीयः। प्रपञ्चे आगताः विघ्नाःसूचनारूपेण सन्ति। ते अस्मान् सावधानं कुर्वन्ति। जनिः भगवन्तम् अभिज्ञातुम् लब्धा इति स्मारणाय विघ्नानां योजना वर्तते। विघ्नाः भगवन्तं प्रति गन्तुमेव आयान्ति। अतः तेभ्य: न भीत्वा भगवन्नाम्नि एव आत्मा विस्मर्तव्य: इति एषः एव परमार्थस्य सरलः मार्गः।

      • यत्र अलसः प्रादुर्भूतः तत्र परमार्थः नष्टः।****

जून 13 – प्रपञ्चः परमार्थप्राप्तिसाधनम्। बहुकालपर्यन्तम् उपजीविकावृत्तिः कृता चेत् मनुष्यस्य मनसि दासभावस्य अभ्यासः भवति। तत् न समीचीनम्। स्वामित्वभावेन कानिचिद्दिनानि वा तेन अवस्थातव्यम्। वृत्तिसमये एव अनुसन्धानाभ्यासः करणीयः। तेन वृत्तित्यागानन्तरं लब्धे समये अनुसन्धानं भवेत्। प्रत्येकं जनः जन्मतः परमार्थस्य अभ्यासं करोति। प्रत्येकं जनः आनन्दं समाधानं च इच्छति, तदर्थं प्रयतते च। वस्तुतः परमार्थे अन्यजनस्य आवश्यकता नास्ति। अतः अन्यः कश्चन स्वस्य परमार्थं कथं भ्रष्टं कुर्यात्? जगति विद्यमानं सर्वम् उत्तमम्। अहमेव असमीचीनः।द्वारं वातायनानि च यथा गृहस्य साधनानि, अथ वा स्वग्रामं गन्तुं लोहमार्गयानं यथा साधनं तथा परमार्थप्राप्त्यर्थं प्रपञ्चः साधनम्। अन्यथा प्रपञ्चमात्रे सुखं न विद्यते। प्रपञ्चः इतः ततः च सर्वत्र समानः। दरिद्रस्य वा श्रीमतः वा, अधिकारिणः वा लिपिकस्य वा, एतद्देशीयस्य वा परदेशीयस्य वा भवेत् प्रपञ्चधर्मस्य अपूर्णत्वं, न्यूनत्वं, तात्कालिकत्वं च यानि लक्षणानि तानि कुत्रापि न परिवर्तन्ते ।अतः स्वसमीपे यत् न वर्तते परम् अन्यस्य समीपे वर्तते तेन अस्माभिः मूढैः न भवितव्यम्। यत् वर्तते तस्मिन्नेव समाधानं स्वीकरणीयम्। परमार्थे कस्यापि दानेन अधिकारः न लभ्यते। स्वाधिकारः स्वकृत्यधीनः। परमार्थभानं यथा दुःखे भवति तथा सुखे न भवति। तत् सुखं दुःखान्तेएव भवति। यया ज्ञप्त्या वयं ज्ञानं प्राप्नुमः तस्याः स्वरूपं ज्ञातुं कः अपि न प्रयतते। वैषयिकी बुद्धिः विकारवशा भवति चेत् ते विकाराः प्रबलाः भूत्वा घातकाः भवन्ति। अस्मिन् समये मनःपूतम् आचरणं परिहृतं चेत् विकाराः क्षीयन्ते। मम विकारवशता वर्तते चेत् मया प्रेमयुतं नामस्मरणं सततं करणीयम्। विकारवशैः न भूत्वा प्रारब्धप्राप्ताः भोगाः भोक्तव्याः, तेन तेषां शासनं न प्रवर्तेत। ज्वरमापकः ज्वरं दर्शयति न दूरीकरोति, तद्वत् शास्त्राणि अस्माकं प्रमादान् दर्शयन्ति, कर्तव्यं दर्शयन्ति च परं कार्यं तु अस्माभिः एव करणीयं भवति। समर्थरामदासः रामं दृष्टवान् । वयं किमर्थं द्रष्टुं न शक्नुमः? यतो हि वयं समर्थसदृशं श्रद्धां कल्पयित्वा उपासनां सततम् आदरेण च न कुर्मः। कथमपि कुर्वन्तु परम् अहं रामस्य इति भावं जागरयन्तु। ज्ञात्वा अज्ञात्वा श्रद्धया अश्रद्धया वा कथमपि नामजपं कुर्वन्तु। रामः भवताम् अन्नवस्त्रस्य न्यूनतां न कुर्यात् इति निश्चितम्। श्रद्धया नामजपं कुर्मः चेत् विशेषं फलम्। अतः अखण्डं नामजपरताःभूत्वाआनन्दे अवस्थास्यामः।

      • सुखेन प्रपञ्चं कुर्वन्तु परं भगवतः अनुसन्धानेन इति एव मम भवतां कृते कथनम्।***

जून 14 – भगवतः योजना एव धर्मः। भगवता सह योजनं भवति चेत् अधर्मः अपि अनुमतः। भगवता सह योजनम् एव एकः धर्मः। अभिमानेन कृतं किमपि कर्म भगवन्तं प्रति न गच्छति। दानं कृतं, धर्मशालाः निर्मिताः, परं प्रसिद्ध्यर्थं कृतं चेत् भवतः कल्याणार्थं कः लाभः? भगवान् समीपं न आयाति परम् अभिमानः एव वर्धते। बब्बुलवृक्षवपनेन आम्रफलानि कथं लभेरन्?अहन्त्वेन कृतं कर्म न उपयुक्तम्। शरणबुद्ध्या कृतं कर्म एव सत्यधर्मः। ‘अहं भगवतः हस्ते विद्यमाना यन्त्रपाञ्चालिका। रामः कर्ता’ इति चिन्तनीयम्। इत्युक्ते देवं शरणं गच्छामः। भगवन्निष्ठा कस्मिन्नपि वयसि, कस्यामपि अवस्थायां च वर्धयितुं शक्यते। एषा निष्ठा कस्मादपि पराजयं न स्वीकरोति, न कस्यापि पुरतः अधोमुखी भवति। एकदा भगवते सम्पूर्णां निष्ठां समर्पयामः चेत् चिन्तायाः किं कारणम्? चिन्तया कार्यनाश: भवति, कर्तव्यं विस्मरति च। भगवति श्रद्धां संस्थाप्य प्रयत्नः करणीयः यत् फलं लभेत तेन समाधातव्यम् च। व्यवहारे सौख्यं कर्तव्यपालनेन लभ्यते तद्वत् परमार्थे सौख्यं निष्ठया लभ्यते। परमार्थिना जनेन कस्यापि अन्तःकरणं न दूषणीयम्। परमार्थः न धूर्तस्य, न वा दाम्भिकस्य, तथा च न अजागलजनस्य अपि। व्यवहारे कः अपि न वञ्चनीयः, न कस्मादपि अस्माभिः मुग्धेनभवितव्यम्। अस्माकं चातुर्यं कमपि वञ्चयितुं न वर्तेत। कः अपि अस्मान् न वञ्चयेत्, तावत् वयं व्यवहारिणः भवेम। यावत् धनं समीपे वर्तते तदनुगुणमेव देयादेयं कर्तव्यम्। व्यवहारतः ऋणं न भवेत् तथा वर्तनीयम्। ‘कस्यामपि परिस्थित्याम् अहम् आनन्देन भवेयम्’ इति यः भणति सः कदापि न्यूनतां न अनुभवति। धनिकानां द्वेषः न करणीयः, दरिद्राः निम्नस्तरीयाः इति न मन्तव्यम् च। एतादृशीं निष्ठां लब्धुं भगवन्निष्ठा अपेक्ष्यते।प्रत्येकं जनः अन्नं जलं च प्रचुरमात्रेण लभेत। एतत् समानं धनविभाजनम्। प्रतिफलं विना धनं स्वीकुर्मः चेत् यस्मात् स्वीकृतं तस्य वासना अपि तेन सह लग्ना वर्तते। कथं विचित्रं यत् इतरविषयेषु मनुष्यः वचनपालनार्थं भूरिः प्रयत्नान् करोति परं धनस्य वचनं सहजं ददाति, सहजं भग्नं करोति च। केवलं तस्मिन्नेव वचनपालने सः मन्दतां दर्शयति। धनाभावः मार्गं रुणद्धि तथा च धनिकत्वं समस्याः उत्पादयति च। एतादृशी अस्माकं परिस्थितिः। संन्यासिना एकस्य दिनस्य कृते यावत् अपेक्ष्यते तावदेव संग्रहणीयम्, गृहस्थेन दिनत्रयस्य रक्षणीयम् च। दिनत्रयस्य अन्नं वर्तते चेत् किञ्चिदपि चिन्ता न करणीया।

      • ‘अहं कर्ता’ इति प्रपञ्चे प्रथमंसोपानं, ‘रामः कर्ता’ इति परमार्थे प्रथमं सोपानम्।****

जून 15 – अहं केवलं नाम्नि एव अस्मि। मनुष्यः कियान् अपि श्रेष्ठः भवेत्, उत्तमः प्रवचनकर्ता, पुराणवक्ता च भवेत्, परं यदि सः नाम्नि न वर्तते, तस्य सहवासे परमेश्वरस्य प्रेम न लभ्यते च, चेत् सः कदापि सत्पुरुषः न मन्यते। सत्पुरुषाणाम्आप्ताःसाधवः एव सन्ति इति न। अस्माभिः सेवावृत्तिः स्वीकृता, अतः अस्माकं पुत्राः सेवावृत्तिमेव स्वीकुर्वन्ति इति न। अतः भागवतस्य पुत्रः भागवतः एव भवेत् इति न। सद्भिः अपि सामान्यजनसदृशमेव वर्तनीयम्। यद्वा तद्वा वर्तनं सत्पुरुषाणां भवितुं न अर्हति। आत्यन्तिकी निर्भयता सतां प्रथमलक्षणम्। यतो हि ‘सर्वत्र अहमेवास्मि’ इति भावनया भयस्य कारणमेव न विद्यते। मुनीनाम् अन्तःकरणे भयसङ्कल्पस्य अविद्यमानेन व्याघ्राः सिंहाः सर्पाः च तान् न पीडयन्ति। अति हिंस्र: व्याघ्रः अपि निर्भयतया तस्य दृष्टौ स्वदृष्टिं योजयामः चेत् न आक्रमति। अपि च मुनीनां शुद्धान्तःकरणानि तस्य मनः परिणमयन्ति। सताम् अन्तःकरणं प्राणिनः अपि जानन्ति। एतादृशैःसद्भिः सहवासः दुर्लभः। परमेश्वरप्रेमप्राप्तिः अथ वा मुखेन सततं नामस्मरणम् एव सत्सङ्गत्या साधनीयम्। सताम् अखण्डसङ्गतिः नामस्मरणेन एव लभ्यते। यत्र नाम तत्र सत्सङ्गतिः। तुकाराममहाराजसदृशः सत्पुरुषः अपि ‘भवतः विस्मरणं न भवेत्’ इति देवं प्रार्थयते। तथा च स्वामी रामदासः अपि देवं वदति, ‘भवतः योगः इत्युक्ते सहवासः मया नित्यं लभ्येत’। योगः इत्युक्ते न किमपि अन्यत्, केवलं मनः यदा अनुसन्धानात् विमुखं भूत्वा इतरविचारेषु विभ्रमति तदा तं संयम्य पुनः अनुसन्धाने योजनीयमिति एव योगशक्तिः। आज्ञा कियती अपि उग्रा भवेत् अधः स्वाक्षरी न वर्तते चेत् तस्याः महत्त्वं न विद्यते। अधिकारिस्वाक्षरीयुतः कर्गजः एव महत्त्वपूर्णः। सर्वेषु साधनेषु नाम स्वाक्षरीसदृशं विद्यते। कश्चन बालकः अतिकोपिष्ठः आसीत्। तमहमवदम्, स्नानानन्तरं प्रतिदिनं उदरे रामनाम लिखतु। यदा यदा कोपः उद्भवेत् तदा तदा तं नाम पश्यतु। तेन प्रयोगेण तस्य कोपः शान्तः जातः। वस्तुतः नाम्नि कियती शक्तिः वर्तते। अनुभवेनैव पश्यतु। अद्ययावत् अहं सर्वान् नाम एव कथितवान्। अहम् अत्र नास्मि। अहं तत्र नास्मि। अहं न गतः। न गच्छामि। अहं केवलं नाम्नि एव भवामि। यस्य मुखे भगवन्नाम तं परितः अहम् अस्मि एव।

      • ’भवन्तः भगवन्नाम जपन्तु’, इतोऽपि अधिकं किमपि न अपेक्षे इति सत्यं वच्मि।****

जून 16 – परमार्थः श्रद्धया करणीयः। भगवत्प्राप्त्यर्थमेव वयं मनुष्यजन्म प्राप्तवन्तः। अद्ययावत् अहं बह्लीषु योनिषु भ्रमितवान्। अधुना भगवताअहं मनुष्ययोनिम् आनीतः। ‘भगवन् अधुना भवन्तं न विस्मरिष्यामि’, इति अङ्गीकृत्य मनुष्यजन्म प्राप्तवता मया अनुक्षणं ‘भवान् कः’ इति प्रष्टुम् आरम्भः कृतः। सन्तः ‘सः अहम्’ इति अस्माकम् अङ्गीकरणं स्मारयन्ति। सद्भिः जागरितं तथापि वयं शिरसि आच्छादनम् आकर्षयामः, एतदर्थं किं करणीयम्? निद्रानाटकं कुर्वतः जनस्य जागरणं दुष्करमेव। बह्व्यः तीर्थयात्राः कृताः,परं यथा आसं तथैव अस्मि तर्हि दोषः गङ्गायाः वा मम?‘गङ्गातटं बहवः जनाः आगच्छन्ति, स्नानं कुर्वन्ति, पूजार्चनं कुर्वन्ति। अतः इदं कलियुगम् इति कथं वदामः?’ इति कश्चन उक्तवान्। तथा अन्यः अभणत्, ‘एतस्य उत्तरं साक्षात् दर्शयामि’। अनन्तरं सः उद्घोषणां कृतवान्,‘पुरतः कश्चन कुष्ठरोगी उपविष्टः अस्ति। यः पापी नास्ति सः यदि तम् आलिङ्गति तर्हि तस्य रोगः गच्छेत्। परं यः आलिङ्गति सः यदि पापी वर्तते तर्हि रोगिण: कुष्ठं तं प्रति आगच्छेत्’ इति।एवंश्रुत्वाशनैः शनैः सर्वे ततः पलायिताः। एतावन्तः नियमिताः विद्वांसः प्रतिदिनं गङ्गास्नानं कुर्वाणाः च परं कः अपि स्वान्तःकरणं शुद्धं वर्तते इति न अमन्यत। तदा एव वऱ्हाडदेशस्थः कश्चन दरिद्रः कृषकः कम्बलम् आच्छाद्य यष्ट्याः आधारेणं तत्र आगतः। एकवारं गङ्गायां निमज्जनं करोमि चेत् सर्वं पापं नश्यति इति तस्य निष्ठा। गङ्गायां स्नानं कृत्वा सः रुग्णं दृढम् आलिङ्गितवान्। आश्चर्यं यत् तस्यः रोगः अकस्मात् गतः। एतादृशाःनिर्धनाः सरलाः जनाः अन्धश्रद्धया यत् प्राप्तुं शक्नुवन्ति तत् श्रेष्ठानां विदुषां कृते अपि असंभवम् वर्तते। व्यवहारे वयं बहुधा अन्धश्रद्धां धरामः। गृहतः प्रस्थानसमये कार्यालयं समयेन प्राप्स्यामः इति अस्माकं चिन्तनम् अन्धश्रद्धा एव वर्तते। कदाचित् अकस्मात् वयं न प्राप्स्यामः तथापि अस्माकं विश्वासः वर्तते एव। व्यवहारे वयं परस्परं यावतीं निष्ठां कल्पयामः तावतीं भगवति संस्थापयामः चेत् भगवान् अस्मभ्यं निश्चयेन समाधानं दद्यात्। परमार्थः पूर्णत्वेन ज्ञातव्यः, अज्ञजनसदृशं श्रद्धया करणीयःवा। परं वयम् अल्पज्ञानिनः, इत्युक्ते पूर्णम्अज्ञात्वा सर्वं जानीमः इति अस्माकं भावः। एतेषां जनानां शङ्काः अधिकाः तेषां समाधानकरणमपि दुष्करम्। सत्यं ज्ञात्वापि यः आचरितुं न शक्नोति सः वास्तवः अज्ञानी। ये अनुभवेन परिष्कृताः ते सूज्ञाः ननु!

      • परमार्थे अन्धश्रद्धा न किञ्चिदपि अपेक्ष्यते। परं श्रद्धां विना तत्र न स्वल्पमपि प्रवर्तते।****

जून 17 – प्रपञ्चस्य कोलाहले एव परमार्थः साधनीयः। न्यायालये स्वीकृतं शपथं जनाः सत्यं न मन्यन्ते, तथैव केचन जनाः प्रपञ्चे धूर्ततया व्यवहरन्ति तथा च एषः एव व्यवहारः इति कथयन्ति। एषः सुव्यवस्थितः प्रपञ्चः न। प्रपञ्चे दिग्भ्रमितः जनः परमार्थमपि साधयितुं न शक्नोति। यः प्रपञ्चं कर्तुं न शक्नोति सः मुनित्वम् अपि आचरितुं न शक्नुयात्। ऋणम् अधिकम्, अतः प्रपञ्चः त्यक्तः तर्हि कः स्वार्थत्यागः? प्रपञ्चत्यागः इत्युक्ते वनं गत्वा वासः। शैत्यं वर्तते अतः वृक्षशलाकाः संगृह्य अग्निः प्रज्वालितः। स्थानं स्वच्छं कृतम्। तुलसी रोपिता। कुटिः रचिता। भिक्षासमये कुट्याः एव चिन्ता। तर्हि गृहं किमर्थं त्यक्तम्? प्रपञ्चबन्धनं स्वयमेव निगलेत्। बलेन त्यागः कथं शक्यः? एषः प्रपञ्चः एषः संसारः च भगवता एव निर्मितः तर्हि कः त्यक्तुं शक्नुयात्? यः आसक्त्या प्रभावितः तस्य संसारः वर्तते इति ज्ञातव्यम्। तुकाराममहाराजस्य ज्ञानेश्वरमहाराजस्य च अपि संसारः आसीत्, परं तस्मिन् तयोः आसक्तिः नासीत्। अतः सः तौ न अबाधत। निवृत्तिं स्वीकृत्य परमार्थं करिष्यामः इति भाषणं न योग्यम्। प्रपञ्चकोलाहले एव परमार्थः साधऩीयः। किमर्थं सावधानता अपेक्ष्यते? जन्मसमये मया यत् अङ्गीकृतं तद्विषये सावधानता आवश्यकी। प्रपञ्चे ध्यातव्यः भगवान्। विषये रतःअतः भगवान् विस्मृतः। एषः क्षणः रक्षणीयः। भगवतः स्मरणं करणीयम्। यथा विषयान् शरणं गतवन्तः तथा भगवन्तं शरणं गच्छेम। चित्तं शुद्धं कृत्वा विवेकं कुर्याम। अहं कियान् विषयाधीनः जातः इति द्रष्टव्यम्। विषयेभ्यः विभक्ताः भवामः तेन इदं द्रष्टुं शक्नुमः। व्यसनासक्तजनेन व्यसनात् प्राक् स्ववर्तनं स्मरणीयम्। मारुतिराजस्य दर्शनार्थम् अहं गच्छामि स्म। अधुना तस्य स्मरणमेव न भवति, एतदर्थं किं करणीयम्? सेवावृत्तिसमये भवन्तः अधिकारिणं शरणं गच्छन्ति ननु? तदनु यत् उदरपूरणार्थं कुर्वन्ति तत् भगवत्प्राप्तर्थ्यं किमर्थं न कुर्वन्ति? भगवन्तं शरणगमनं बहु सरलम्। तदर्थम् अन्यवस्तूनि न अपेक्ष्यन्ते। यदा मनसि इच्छामि तदा भगवन्तं शरणं गन्तुं शक्नोमि। भगवन्तं शरणगमनम् इत्युक्ते ‘अहं भगवतः’ इति मन्तव्यम्। ‘अहं रामस्य, यत् किमपिवर्तते तत् रामस्य’ इति यः मन्यते तस्य भिन्ना सावधानता न आवश्यकी।

      • प्रपञ्चः माम् अपेक्षते। अहं भगवन्तं अपेक्षे।****

जून 18 – परमार्थे गुप्तता अपेक्ष्यते। वासनामुक्तिः बहु दुष्करा। यतो हि वासनायामेव प्राणिनः जनिं लभन्ते। तासां वासनानां शासनम् इत्युक्ते स्वमरणमिव दुष्करम्। वासनायाः उदरे जन्म तथा च तदनन्तरम् अहंकारः इति एतयोः उदरे कामक्रोधादय: विकाराः जायन्ते। एतस्य युगलस्य विशेषः वर्तते यत् भार्या पत्युरपेक्षया ज्येष्ठा। यतो हि आदौ वासना अनन्तरं ततः अहंकारः। भगवत्समीपे वासः वर्तते चेत् वासना नश्यति। मूलतः प्रपञ्चः न समीचीनः, न असमीचीनःअपि। प्रपञ्चे विद्यमाना वासना बहिः निष्कासनीया इत्युक्ते परमार्थः। प्रपञ्चे प्रसिद्धिः अपेक्ष्यते। प्रत्युत परमार्थे गुप्तता अपेक्ष्यते। चिन्तयन्तु, काचित् महिला पत्युः समीपे आभूषणार्थं हठं करोति। पतिः स्वीकरोति परम् एकं समयम् उपस्थापयति, यत् यदा सा आभूषणानि शरीरे धरेत् तदा पिहितप्रकोष्ठे एव तिष्ठेत्। एतादृशं समयम्अङ्गीकृत्य का महिला आभूषणानि धरेत्? यतो हि जनाः आभूषणानि पश्येयुः इति एव तस्याः समाधानम्। एषा प्रपञ्चस्य रीतिः। प्रत्युत परमार्थे गुप्ततायाः आवश्यकता वर्तते। स्वसाधना कस्यापि दृष्टिपथं न आगच्छेत् इति द्रष्टव्यम्। यतो हि परमार्थं दृष्टिदोष:शीघ्रं बाधते। न केवलम् अन्येषां, स्वस्य अपि बाधितुं शक्नोति। अतः परमार्थे गुप्तता आवश्यकी। मत्तः यत् साधनं प्रवर्तमानम् अस्ति तत् सद्गुरोः परमात्मनः वा कृपया एव, ते मत्तः कारयन्ति। इदं भानं कल्पनीयम्। रुग्णेन जनेन केवलं विश्रान्तिः करणीया औषधमात्रं नियतं स्वीकरणीयम्। अन्यविषयान् इतरजनाः कुर्वन्ति। औषधमात्रं स्वेन स्वीकरणीयं भवति। कियान् अपि महान् राजा भवेत् कटु औषधंदास्यै दत्त्वा स्वरोगं दूरीकर्तुं न प्रभवति। तद्वत् परमार्थे भगवत्स्मरणं स्वेन एव करणीयं भवति। वृथा कस्यापि अनुधावनं न करणीयम्। परमार्थः इत्युक्ते किं करणीयमिति सम्यक् अवगच्छन्तु। अनन्तरमेव तेन मार्गेण गच्छन्तु। कस्मादपि न वञ्च्यताम्। स्ववञ्चना जगतः वञ्चना इव पापम्। यस्य प्रपञ्चे परमात्मा रक्षकः तस्य प्रपञ्चः एव परमार्थः। प्रत्युत यस्य रक्षकः अहंकारः तस्य परमार्थः अपि प्रपञ्चः एव वक्तव्यः।

      • बाह्यतः प्रपञ्चे द्रष्टव्यम्। अन्तरङ्गे परमार्थिना भवितव्यम्। एषा एव वास्तवा कला।***

जून 19 – ‘अहं कश्चन अस्मि’ इति वृत्तिः घातकी। बहूनां जनानां समस्याः श्रुत्वा मनसि विचारः आगतः यत्जगति सर्वदुःखानां मूलं देहदुःखे धनाभावे च मुख्यतः सङ्गृहीतं वर्तते। एतयोः द्वयोः विषय़े साहायं कर्तुं शक्नुमः चेत् बहून् जनान् सुखिनः कर्तुं शक्नुमः इति मत्वा तद्दृष्ट्या चिन्तनम् आरब्धम्। धनविषये चिन्तयामि चेत् अहं तु एकवस्त्रधारी, समीपे न धनं न वा तस्य लोभः। अन्येभ्यः धनं दातव्यं चेत् आदौ स्वमनसि तद्विषये लोभः उत्पादनीयः। तदा एव धनप्राप्त्यर्थं बुद्धिः लभ्येत। अनन्तरं धनप्राप्तिः, अपेक्षावते दातव्यं च। परम् इदं कार्यं यथा मन्यामहे तथा सुकरं नास्ति। यतो हि अन्येभ्यः दातुं धनलाभाय उत्पादितः लोभः एव धनत्यागे अन्तरायः भवेत्, दानबुद्धिं हन्यात् च। इत्युक्ते परिणामतः अन्येभ्यः धनदानं तु न जातं परं स्वमनसि आदौ अविद्यमानः लोभः तु उत्पन्नः। एतेन अन्यस्य कार्यं तु न जातं, परं स्वहानिः केवलं जाता। अपरः विषय़ः देहबुद्धेः। यस्य देहबुद्धिः मृता तस्य अन्येषां देहदुःखानां भानं न भवितुम् अर्हति। इत्युक्ते अन्येषां देहदुःखस्य नाशार्थं बुद्धिम् उत्पादयितुम् स्वस्मिन् देहबुध्दिः जागरणीया भवेत्। चिन्तयन्तु, एतावत् सर्वं कृतं, तस्य देहदुःखं निवारितं, तथापि तस्य पुनः देहदुःखं न भवेत् इति कथं भवितुम् अर्हति? विद्यमाना उदरपीडा नाशिता चेत् ज्वरः इतररोगःवा न उद्भवेत् इति कथं भवितुमर्हति? इत्युक्ते देहदुःखं शाश्वतं परिहर्तुं न शक्नुमः, धनमपि दातुं न शक्नुमः च। एतया पद्धत्या जगत् सुखि कर्तुं न शक्नुमः, परम् अस्मासु वृथा दोषाणाम् उत्पादनेन स्वस्य अवनतिः भवेत्, हानिः च लभ्येत। अतः रामस्य प्रार्थना कृता यत् एतादृशान् विषयान् कर्तुं शक्तिं बुद्धिं च मह्यं न ददातु। शैशवावस्थायां विद्यमाना सरला वृत्तिः कारणद्वयेन नष्टा, एकं वित्तम्, अपरं विद्या। द्वाभ्याम् ‘अहं कश्चन श्रेष्ठः’ इति भावः उत्पद्यते सः तु घातकः एव। ‘अहं कश्चन अस्मि’ इति भावस्य अपेक्षया ‘अहं कस्यचन अस्मि’ इति भावः हितकरः। जगति विद्यमानाः अत्याचारः, अनीतिः, अधर्मः, असमाधानं च इति एतेषां सर्वेषां कारणम् इदमेव वर्तते यत् मनुष्यः अधिकः लोभी जातः अस्ति। देवस्य यस्मिन् कृपा वर्तते तस्मै सः उदरपूर्तिपर्याप्तं धनं ददाति परं यस्य सः परीक्षां कर्तुमिच्छति तस्मै अधिकं धनं ददाति।

      • अस्मभ्यम् इष्टदाने न भगवतः वास्तवा कृपा, विद्यमानायां परिस्थित्यां समाधानस्य दृढीकरणमेव तस्य वास्तवा कृपा। ***

जून२० - यस्यनास्तिसम्यक्प्रपञ्चः।तस्यभवतिपरमार्थःशिथिलः।। पित्रोःनपश्यतुदोषं।सत्पुत्रस्यइदमेवलक्षणम्।।पित्रोःसमाधानं।सत्पुत्रस्यलक्षणंवास्तवम्।।तयोःसमाधानरक्षणम्।अनन्तरंयत्किमपिकरणीयम्।।मातुःअन्तःकरणम्अतिकोमलं।पुत्रस्यदुःखेनदुःखितं।पुत्रस्यआनन्देनप्रमुदितं।अतःपुत्रैःआनन्देनभवितव्यं।चित्तंसदाभवतुक्षोभरहितम्।।शब्दैःतेषांसमाधानंकरणीयम्।अपशब्दानांदुःखंनमन्तव्यम्।वृत्तिः,सेवा,उद्योगः।उदरपोषणार्थंकरणीयः।।धनंविपुलम्अर्जनीयं।परंतत्नसुखसाधनंमन्तव्यम्।।प्रपञ्चेहानिःपरिहरणीया।वाणीकदापिनतथाउच्चारणीया।।अतिथिःभोजनीयः।विन्मुखःनप्रेषणीयः।।निरुत्साहेननभवितव्यं।निराशत्वेननमन्तव्यम्।।नितरांव्यवहारमार्गेणगन्तव्यं।तत्ररामस्यभवतुअधिष्ठानम्।।यस्यसम्यक्नास्तिप्रपञ्चः।तस्यपरमार्थःशिथिलः।।प्रपञ्चस्यचिन्ताकरोतियः।तस्यपरमार्थायलग्नःकीटः।।परमात्मायस्यआधारः।चिन्तानकरोतितत्रवासः।।यदिप्रतिवेशीरामः।तर्हिदुःखस्यचिन्तायाःचनप्रवेशः।।कोऽहम्इतिजानाति।चिन्तामुक्तातस्यवृत्तिः।।रामःत्राताइतिमनसिभावः।सःभविष्यतिनिर्भयः।।येनरामायअर्पितःदेहः।सर्वदासःचिन्तामुक्तः।।यदिकर्तारामःइतिमनसि।तर्हिपापपुण्ययोःभयंनास्ति।।परमात्मासखायस्य।कुत्रापिनास्तिभयंतस्य।।‘कर्ताहम्’इतिकल्पनं।सर्वदुःखकारणम्।।यद्जायतेतद्जायते।यद्भविष्यतितद्परिहर्तुंनशक्यते।।अतःचिन्ताकरणीया।रामःसाक्षीसर्वदा।।यद्यद्वर्ततेमम।तद्तद्रामस्यचिन्तय।।रामःनिभालयति।चिन्तायाःकारणंनास्ति।।दारपुत्राणांचिन्तानकुर्यात्मनः।प्रसादनीयःरामः।।स्वगार्हस्थ्यंरामस्यमत्वामनसि।निश्चिन्तताएवसुयोग्यारीतिः।।यावच्छक्यंनामस्मरणं।मास्तुस्वस्यचिन्ताकरणम्।।गार्हस्थ्यंरामस्यमत्वाकृतं।तेननवर्ततेचिन्ताकारणम्।।भगवान्यदिसंरक्षकः।तर्हिचिन्ताकरोतिकः?।।अतःमुखेनामचित्तेरामः।तेनमनसिआरामः।।सर्वदामनसिनिश्चयः।रघुपतिःनत्यक्तव्यः।।सर्वसाराणांसारः।भजनीयःरघुवीरः।।नियमेषुनियमः।रामात्ऋतेनजीवामः।।

        • सर्वकर्तारामः।भवतुएषःविश्वासः।नावशिष्यतेचिन्ताविषयः।।****

जून 21 – भावं विना परमार्थः न भवितुमर्हति। प्रपञ्चे यथा वित्तं तथा परमार्थे भावः अपेक्षितः। प्रपञ्चे वित्तं विना कार्यं न प्रवर्तते। परमार्थः अपि भावं विना न भवितुमर्हति। यथा भवतः भावः तथा देवस्य प्राप्तिः। प्रह्लादः स्तम्भात् अपि देवं प्राप्तवान्। नामदेवः पाषाणविग्रहं भोजितवान्। गोपीकथां भवन्तः जानन्ति। गोपी श्रीकृष्णाय भोजयितुमिष्टवती, परं तस्याः पतिः तां न अन्वमन्यत। तदा सा उक्तवती, ‘अस्मिन् देहे भवतः स्वामित्वं, परं मनसि भवतः स्वामित्वं न विद्यते’। इति उक्त्वा देहं तस्य समीपे संस्थाप्य सा श्रीकृष्णं प्रति गतवती ननु? तद्वत् अस्माकं परमार्थे भावः अपेक्षितः। परं केवलं वचनैः किम्? वयं वदामःयत् सः सर्वव्यापी सर्वसाक्षी च विद्यते परं वयं पापम् आचरितुं बिभेमः किम्? सः अस्मान् पश्यति इति निश्चयेन मन्यामहे चेत् वयं पापं कर्तुं शक्नुमः किम्? परं वयं तथा न मन्यामहे एव। अस्मत्सदृशः आस्तिकः ‘देवः अपेक्षितः’ इति मन्यते खलु, परं ‘देवः एव अपेक्षितः’ इति न मन्यते। वयं प्रपञ्चे साहायार्थं देवमिच्छामः। ‘प्रपञ्चः अपेक्षितः एव’ इति वयं मन्यामहे, परं ‘भगवान् वर्तते चेत् सम्यक्’ इति मन्यामहे। प्रत्युत ‘देवः अपेक्षितः एव’,‘प्रपञ्चः वर्तते चेत् सम्यक्’ इति मन्तव्यम्। प्रपञ्चे रुचिः न भवेत्, प्रपञ्चे कर्तव्यपालनस्य रुचिः भवेत्। देहेन कर्तव्यं करणीयं, मनसा तु अनुसन्धातव्यं च। मनसि तुदत: विषयान् न कुर्मः चेत् अस्माकं विकारान् नियन्तुं शक्नुमः। भगवतः पुरतः कर्तुं न लज्जामहेतादृशी कृतिः करणीया। व्यापृताः जनाः रुदन्ति। अव्यापृताः जनाः अपि रुदन्ति। तदनु सुखं क्व वर्तते? धनं सुखं ददाति किम्? धनप्राप्तिः दुष्करा, प्राप्तं चेत् तस्य शाश्वतता नास्ति। धनमिव कथा अन्यसर्ववस्तूनाम्। प्रपञ्चे सर्वसुखी कः वर्तते? प्रत्येकं जनस्य काचित् याच्ञा विद्यते एव। प्रत्येकं जनस्य आशा विद्यते यत् अहम् अद्यापेक्षया श्वः सुखितरः भविष्यामि। सः कदापि पूर्णसुखी न भवति। तस्य याच्ञा न समाप्नोति। प्रपञ्चे विद्यमानानि सर्वाणि वस्तूनि नाशवन्ति दुःखमयानि च सन्ति। अतः प्रपञ्चः मिथ्या इति अनुभवं प्रपञ्चः ददाति। एतेन अनुभवेन प्रपञ्चे यः अनासक्तः सः सुखी। अनुभवं विस्मृत्य यः आसक्तः सः दुःखी। सुखं समञ्जने विद्यते, भगवतः भवितव्यम् इति एव समञ्जनं सत्यम्।

        • प्रपञ्चः आनन्देन, अनासक्त्या च करणीयः।***

जून 22 – सुखं त्यागे, न तु भोगे। अमुकम् इष्यते परं न प्राप्यते तदा दुःखं भवति। अमुकस्य इच्छा एव न भवेत्। यथा परमात्मा कल्पयति तथा समाधानं मन्तव्यम् इति एतस्य नाम वैराग्यम्। वयं विषयेषु निमज्जामः। पुनः विषयम् एव धरामः चेत् अधिकमेव निमज्जनं भवेत् ननु? विषयाणाम् आशा इत्युक्ते तेषां दासत्वम्। मनुष्यः सुखार्थं परिश्राम्यति, अन्ते दु:खमयानां विषयाणामेव आशां करोति। सुखं त्यागे वर्तते, न तु भोगे इति बहवः न अङ्गीकुर्वन्ति। परिसस्पर्शेण लोहस्य सुवर्णं भवति, न तु रूप्यकस्य। तद्वत् वयं दीनेषु दीनाः अभिमानरहिताः च भवामः। तेन वयं परमात्मानम् अनन्यशरणं गन्तुं शक्नुमः। एतदर्थं तस्य कृपा आवश्यकी। तदर्थं सः नित्यं प्रार्थनीयः। केनचित् विषयेण अस्माकं मनः अस्वस्थं किमर्थं भवति? तं विषयं वयं सत्यं मन्यामहे अतः। एषा सर्वा क्रीडा, मिथ्या च इति मत्वा यथा नटः नाटके स्वभूमिकां पूर्णतः वास्तवसदृशीं करोति तथा व्यवहारः करणीयः। सुखं समाधानं च सत्यत्वे विद्यते, न तु मिथ्यात्वे। अद्ययावत् वयं विषयान् उपभुञ्ज्महे, परं ततः सुखं न प्राप्तम्। तदनु विषयाः मिथ्या इति अनुभूतिः भगवता भवद्भ्यः न दता किम्? तथापि भवन्तः मां विषयेषु एव प्रपञ्चः कथं परिष्करणीयः इति पृच्छन्ति तदा किं वदामि? यत् दुःखमयमेव वर्तते तस्मिन् सुखं कथं लभ्येत? द्वे बालिके बालपाकक्रीडां क्रीडतः। या निर्धना सा रोटिकां गुडाम्ररसं च कृतवती। या धनिका सा श्रीखण्डं, पायसं च कृतवती। प्रथमायाः गुडाम्ररसः यथा उदरपूर्त्यर्थं न उपयुक्तः तथैव द्वितीयायाः श्रीखण्डमपि न उपयुक्तम्। प्रपञ्चस्य सत्यत्वं तथैव विद्यते। प्रपञ्चार्थं दारपुत्राणाम् आवश्यकता विद्यते एव इति न। यः परावलम्बी सः प्रपञ्ची एव। अतः एकः जनः अपि प्रपञ्ची एव। अन्येभ्यः सुखाकाङ्क्षः प्रपञ्ची एव। पञ्चजनानां प्रपञ्चः भवति। तेषु प्रत्येकं जनः स्वार्थी वर्तते। तदनु सर्वं सुखं एकः एव लभेत इति कथं शक्यते? प्रपञ्चे नैकानि वस्तूनि। परं भगवत्समीपे एकमेव वस्तु। प्रपञ्चे कतिचन वस्तूनि आनीतानि चेत् न पर्याप्तानि। यतो हि आनीते प्रत्येकं वस्तूनि आनीयमानस्य वस्तुनः बीजं निहितं वर्तते। परं भगवतः तथा नास्ति। एकवारं भगवद्वस्तु आनयामः चेत् पुनः आनयनस्य आवश्यकता न वर्तते।

      • अमुकवस्तुन: अस्तित्वेन अहं सुखी इति भावे न रामः। वस्तुनः अभावे अपि समाधानं स्थिरं भवेत्।****


जून 23 – हेतुः शुद्धः भवेत्। मनुष्येणहेतुःशुद्धःकल्पयितुं प्रयत्नाः करणीयाः।हेतुः शुद्धः वर्तते चेत् स्वभावतः कृतिः अपि तदनुरूपा भवति, उन्नत्यर्थं सहाय्यं भवति च। हेतुः कूपस्थः निर्झरः इव वर्तते। यदि निर्झरः मधुरजलयुतः, तर्हि कूपः अपि मधुरजलयुतः भवति। अतः शुद्धहेतवे दक्षता आवश्यकी, तदर्थं रामस्य प्रार्थना करणीया। मनुष्यस्य देहरक्षणार्थम् अन्नं वस्त्रं तथा च नामस्मरणबुद्धिः वर्तते चेत् असमाधानं न भवितुमर्हति। भक्तिं विना दीनजीवनं मास्तु। एषा प्रार्थना रामरायं प्रति करणीया। पर्वसमये भगवान् कामधेनुरूपेण आगच्छति। यः यत् इच्छति तत् तस्मै ददाति। पर्वसमये सज्जनाः दुर्जनाः च स्वकार्याणि कारयन्ति। जारणमारणमपि पर्वसमये शीघ्रं साध्यं भवति। अस्माभिः तु केवलं भगवान् एव द्रष्टव्यः। शुभेच्छा धरणीया। भावना जागरणीया। ‘किमपि करोतु परं भवतः विस्मरः न भवेत्’, इति भगवन्तं याच्ञाकरणीया। अद्ययावत् ज्ञात्वा अज्ञात्वा यत् पापं कृतं तत् नाशयतु। पुनः न करिष्यामि। इति वक्तव्यम्। तेन पूर्वतनपापानि नश्यन्ति। यस्मै विषयाः रोचन्ते तस्य परमार्थे रुचिः न भवति। नरके विद्यमानाः कीटकाः घृणां न कुर्वन्ति। विषयिण: जनाः प्रपञ्चे विरम्य सत्पुरुषाणां निन्दां कुर्वन्ति। अहमेव सूज्ञः श्रेष्ठः च इति अभिमानं धरन्ति। परं तेषामपेक्षया लक्षलक्षाः सूज्ञाः धनिकाः च जगति विद्यन्ते इति ते न अवगच्छन्ति। अधस्तरीयान् जनान् दृष्ट्वा अहं श्रेष्ठः इति ते वदन्ति। मम प्रमादाः भवन्ति इति अवगच्छामि चेत् पर्याप्तम्। विषयिणः जनाः ‘क्व अहं दुःखी?’ इति मन्यन्ते। परं मद्यवत् विषयाणां मूर्छा निर्गच्छति चेत् पश्चात्तापः भवति। देवः वर्तते इति सत्यत्वेन ये मन्यन्ते ते अल्पाः जनाः। सद्विचारः, सच्छास्त्रं,सद्बुद्धिः च इति सर्वं प्रत्येकं जनं भगवन्तं प्रति नेतुमेव सन्ति। प्रपञ्चस्य अनुभवः कष्टमयः, परं भगवतः अनुभवः आनन्दमयः। ज्वरपीडितः जनः स्वेदमिच्छति। परं केवलं मननेनस्वेदः न आयाति। तदर्थं वैद्यस्य औषधं स्वीकरणीयं भवति। तद्वत् यः भगवत्प्रेम अपेक्षते तेन नामजपौषधिः स्वीकरणीयः। भगवत्प्रेम एकदा लब्धं चेत् अनन्तरं न कः अपि अन्तरायः। खनिमध्ये पाषाणेषु यथा सुवर्णं वर्तते, तथा अस्मासु परमात्मा वर्तते। पाषाणेषु विद्यमानां मृत्तिकां विविधैः यन्त्रैः यथा निष्कासयन्ति अनन्तरं सुवर्णं लभ्यते तथा नैकानां वासनानां नाशं कारयित्वा परमात्मा हस्ते लभ्यते। स्वस्य अहंकारः म्रियते चेत् परमात्मा प्रकटीभवति।

      • शुद्धम् आचरणं। तथैवअन्तःकरणं। तस्मिन् भगवत्स्मरणम्। इदमेव प्रपञ्चसुखसाधनम्। ****

जून 24 – ज्ञानं द्विविधं शस्त्रम्। लोककल्याणस्य तीव्रेच्छया यः ग्रन्थं लिखति सः वास्तवः ग्रन्थकारः। पठितम् आचरय्य जनान् कथयति सः वास्तवः वक्ता। कथितम् आचरति सः वास्तवः श्रोता साधकः च। साम्प्रतं ज्ञानप्रसारस्य नैकानि साधनानि उपलब्धानि सन्ति। तेन निषेधार्हं ज्ञानमपि झटिति प्रसरति। ज्ञानं द्विविधं शस्त्रं वर्तते। यय़ा कर्ता तथा ज्ञानस्य सम्यक् असम्यक् वा उपयोगः भवति। ज्ञानं मूलतः पवित्रम्। यत् ज्ञानं नीतिधर्मयोः अधिष्ठाने स्थिरं वर्तते तत् अधिकं प्रभावि वर्तते। सर्वेषां परस्परं प्रेम भवेत्, सर्वे संभूय भवेयुः च इति एतादृशं ज्ञानं भवेत्। धनिकः निर्धनः, सूज्ञः अज्ञः, बालः ज्येष्ठः, महिला पुरुषः च सर्वे परस्परं स्निह्येयुः, परस्पराणां विषये आदरः आत्मीयता च वर्धेत इति एतादृशं ज्ञानं प्रकटीभवेत्। द्वेषमत्सरौ वर्धयितृ,नीतिधर्मौ परिहर्तृच ज्ञानं पुस्तके न भवेत्। विद्वांसः शास्त्रज्ञाःच नूतनानि अन्वेषणानि कृत्वा जगत् स्वार्थि लोभिच कुर्वन्ति, तेन सर्वनाशः भवति। यत् समाधानं न ददाति तत् वास्तवं ज्ञानं न। जगतः वास्तवं स्वरूपं ज्ञायेत तदेव सत्यं ज्ञानम्। देहविषयकं यत् ज्ञानं तत् व्यावहारिकं ज्ञानम्। यत् यथा वर्तते तस्य अभिज्ञानम् इत्युक्ते तत्त्वज्ञानम्। अहं ‘देहः मम’ इति वदामि, इत्युक्ते अहं न देहः। ‘मम गृहं’ वदन् वक्ता गृहात् भिन्नः भवति। जडत्वमित्युक्ते किम्? देहे ममत्वमित्युक्ते जडत्वम्। पदार्थस्य यथार्थं ज्ञानं यस्य वर्तते सः सूज्ञः, व्यवहाररहस्यं यः जानाति सः प्रपञ्ची। जगतः रहस्यं यः जानाति सः तत्त्वज्ञानी। सूक्ष्मज्ञाने सुखं वर्तते। आत्मा समुद्रःइव जीवः तस्मिन् कश्चन लघु बिन्दुःइव। तम् अभिज्ञाय आत्मना सह सामरस्यम् एव वास्तवं तत्त्वज्ञानम्। ‘ब्रह्म सत्यं जगत् मिथ्या’ इति ज्ञानप्राप्तिः दुर्लभा। परम् अभ्यासेन दीर्घकालानन्तरं लभ्येत। परं नाममाहात्म्यं न अवगच्छेत्, तत् सत्कृपया एव ज्ञायेत। नामजपे विश्वासः महद्भाग्यलक्षणम्। बुद्धिभेदविषये सावधानेन भवितव्यम्, दूरेण भवितव्यम्। सद्वचने विश्वस्य अखण्डं नामजपः करणीयः। तेन समाधानं लभ्येत। यस्य ग्रन्थस्य श्रवणेन भगवद्विषये प्रेम उत्पद्यते, येन जगत्विषयेविरक्तिः उत्पद्यते, अनीतिवर्तनपरित्यागपूर्वकं नीतिधर्ममार्गौ अनुसर्तुम् इच्छा उत्पद्यते सः सद्ग्रन्थः। उदाहरणार्थं ज्ञानेश्वरी, दासबोधः, नाथभागवतम् चेति एतेषां ग्रन्थानां पठनं मननं च बहु लाभाय। तेन ईश्वरप्रेम उत्पद्येत।

    • अतिकठिनप्रमेययुताः ग्रन्थाः पठनीयाः। परम् अन्ते सरलतमं नाम जपनीयम्।***

जून२५–सदाचरणंपरमार्थस्यअधिष्ठानम्। रामःसहजंलभ्येत, एतदर्थंसमर्थरामदासैःयानिसाधनानिकथितानिसन्ति, तेषुसद्ग्रन्थपठनम्अन्यतमम्।किमपिपठनीयम्इतिमत्वाकश्चनग्रन्थःधर्मग्रन्थःवानपठनीयः।अर्थज्ञानंविनाग्रन्थःपठितःइतिभवितुंनार्हति।तथैवयावत्पठितंतावत्आचरितुंप्रयत्नाःविधेयाः।यद्वयंनकुर्मःतत्आदौकर्तुम्आरम्भःकरणीयः।बहुकिमपिपठितं, किन्तुनाचरितंतर्हिकःलाभः? चतुर्मैलदीर्घःमार्गःआरम्भेएवदृश्येतइतिकथनंकियत्युक्तम्? एकमैलान्तरंगच्छामःचेत्अग्रिमःमार्गःदृश्येत।यथायथाअग्रेगच्छामःतथातथाततोऽपिअग्रिमंदृश्येत।परमार्थेअपितथैव।पित्रासदृशंश्मश्रुःममभवतुइतिबालकःहठंकरोतिचेत्कथंशक्यते?अद्यैवममदेवदर्शनंभवेत्इतिकथंशक्येत? सद्गुरोःआज्ञापालनीया, साधनंकरणीयं, तेनसर्वंभवति।भोक्तुमारभ्यतेचेत्उदरंपूर्णंभविष्यतिएव! नूनंपरमार्थमार्गःअतीवसरलः।प्रपञ्चमार्गःगिरिकन्दरयुतःकण्टकाकीर्णःच।प्रपञ्चःपरमार्थःसुकरंकर्तुंभवेत्।परंप्रत्युतअस्माभिःपरमार्थःप्रपञ्चंसुकरंकर्तुम्उपयुक्तः।वृतिःक्षेत्रंभुञ्जेतइतिअस्माकंजातम्।क्षेत्रंवृतिम्अपेक्षते।अन्यथापशवःक्षेत्रंप्रविश्यसस्यम्भुञ्जेरन्।तथैववृतेःआत्यन्तिकंवर्धनमपिक्षेत्रस्यमहतींहानिंकरोतिइत्यपिअवधातव्यम्। येनव्यवहारःसम्यक्परिशील्यकृतः, तस्यपरमार्थःसिद्ध्यतिएव।परमार्थःशर्कराइववर्तते।शर्करायाःकारवेलःक्रियतेचेदपिमधुरःएवतस्यस्वादःभवति।तथैवप्रपञ्चेकृतःपरमार्थःअपिमधुरःएव।परमार्थःस्यस्यकृतेएववर्तते, अतःसःस्वेनकर्तुंशक्यतेनवाइतिपरिशीलनीयम्।यदिशक्यतेइतिविश्वस्यतेतर्हिकरणेनविनानस्थातव्यम्। उदरम्अन्नंनेतुंमुखंद्वारं, तथापरमार्थस्यद्वारंसदाचरणम्।सदाचरणंपरमार्थस्यअधिष्ठानम्।अधिष्ठानंनगृहं, किन्तुअधिष्ठानेनविनागृहंनभवितुमर्हति, इत्यपिसत्यमेव।स्वपुत्रःयथाप्रेम्णाआलिङ्ग्यतेतथापरमार्थःकरणीयः।अन्यबालकंयथास्वीकुर्मःतथाप्रपञ्चःकरणीयः।भगवत्स्मरणेप्रपञ्चःसुखमयःकरणीयःइतिएवयथार्थःपरमार्थः।तथैवयस्यवृत्तिःसंशुद्ध्यभगवतिलग्ना, तेनएवपरमार्थःयथार्थःज्ञातः।

        • भगवतिअकारणंप्रेमकरणम्इत्येवपरमार्थः। *****

जून२६– नियमःस्वल्पःकरणीयःपरंसःशाश्वतःभवतु। यंवृक्षंवर्धयितुम्इच्छामःतंवयंजलंसिञ्चामः।तंसंवर्धयामः, निभालयामःच।परंयंवृक्षंनेच्छामः, यस्यमहत्त्वंनमन्यामहेतंदुर्लक्षंकुर्मः।तथैवयेनबुद्धिःपरमेश्वरेस्थिराभवेत्,तंसंवर्धयामः।देहं, विचारं, विषयंचदुर्लक्षामः,तेनसहजंतान्विस्मरामः।यथावृक्षंनिभालयितुंतंवृतिंकुर्मः, तथापरमार्थःअपिरक्षणीयः।यावत्सःगुप्तःतावत्सुष्ठु।तस्यप्रदर्शनंभवतिचेत्तस्यदृष्टिदोषःभवति।अतःपरमार्थःगुप्ततयाकरणीयः, प्रेम्णाकरणीयः।उप्तस्यवृक्षस्यवर्धनंनकोऽपितम्उत्पाट्यप्रतिदिनंपश्यति।तथैवअनुभवस्यप्रचितेःचअवगमनार्थंनअनुधावन्तु।तेनउन्नतिःस्थगेत्। हठिनःव्यसनिनःचजनाःमह्यंरोचन्ते।यतोहितेषांहठःभगवन्तंप्रतिपरिवर्तितःभवतिचेत्कार्यंजातम्।परमार्थेनियमःस्वल्पःकरणीयः, परंसःशाश्वतःभवेत्।येनभगवत्प्रेमलभ्येततथाभवेत्।सःप्राणैःसहरक्षणीयःच।अतिभाग्यशालिनःएवध्यानमार्गम्आचरितुंप्रभवन्ति।एषःमहापुरुषाणांमार्गः।ध्यानेजगत्विस्मर्यते।अस्यामवस्थायांनदिनानिअपितुवर्षाणिगच्छन्ति।तथापिदेहेकोऽपिविकारःनजायते।अस्मादृशानांकृतेसाधनेषुसाधनंनामस्मरणम्,दानेषुदानम्अन्नदानंम्, उपासनासुउपासनासगुणोपासना।एतैःत्रिभिःकारणैःदेहस्यविस्मरणंभवति।अतःयावच्छक्यम्एतान्त्रीन्विषयान्आचरन्तु।स्वभावतःमनुष्यःप्रवृत्तिंवर्धयति।द्वैतंवर्धयित्वातस्मिन्अद्वैतदर्शनेआनन्दःइतितुसत्यम्।सामान्यंमधुमक्षिकाणाम्उदाहरणंपश्यन्तु।ताःनैकेभ्यःवृक्षेभ्यःमधुसंगृह्णन्ति।सःएकत्रीकृतःमधुकियान्मधुरःभवति! एवंसर्वेषुद्वैतेषुअद्वैतम्इत्युक्तेएकंप्रभुंरामंद्रष्टुंशिक्षणीयम्।यःसर्वत्ररामंद्रष्टुकामःसःआदौआत्मनिरामंपश्येत्।प्रत्येकंकृतिःरामस्यएवइतिकल्पयेत्।आत्मनिरामदर्शनेनविनातंसर्वत्रद्रष्टुंनशक्यते।अतःस्वस्यइत्युक्तेदेहस्यविस्मरणेनविनासुखंनलभ्येत।स्वविस्मरःराममयःभूत्वाएवभवेत्।अतःअखण्डंभगवदनुसन्धानेभवतु।

        • परमार्थःनितरांस्वतःआरभणीयः।***

जून२७–शाश्वतंसुखंकथंलभ्येत? पश्यन्तु, कश्चनप्रवचनकारः, वैदिकःवासमाधानंलभतेइतिन।सःअसमाहितःएवभवति।सूज्ञत्वेप्राप्तेसतिसदाचारेणव्यवहृत्य, देवधर्मकार्याणिकृत्वाअपिसमाधानंनलभ्यतेइत्येतस्यकिंकारणम्? तदस्तिअस्माकंध्येयंननिश्चितम्इति।वयंनीत्याआचरामःजनभयेन।जनाःनिन्देयुःअतः।लौकिकार्थंकृतंकर्मकदापिसमाधानंदातुंनप्रभवति।पापकर्ताअपिसमाधानंनलभते।यतोहिसःदुष्कर्माचरतिइतिसःअपिजानात्येव।कदाचित्कश्चनगृहस्थःमाम्आगतः,अवदत्च, “देवःअतीवअन्यायी, तस्यसविंधेन्यायःअस्तिनवा?”मयापृष्टम्, “एवंकिमभवत्?”तदनुसःउदतरत्, “अहंकदापिकस्मादपिउत्कोचंनस्वीकृतवान्।सदासदाचरितवान्।परंकेवलम्एकाट्टात्मकंभवनंरचितवान्।किन्तुममाधीनःकश्चनयःकश्चित्लिपिकःउत्कोचंस्वीकुर्वन्ममगृहाभिमुखम्एवद्व्यट्टात्मकंस्वगृहंनिर्मितवान्।“तदामयापृष्टं, “तर्हिभवान्किमर्थम्उत्कोचंनस्व्यकरोत्?”“तत्मह्यंनरोचते।जनाःनिन्देयुः“सःअभणत्।अतःलौकिकार्थंकृतेनकर्मणाकदापिसमाधानंनलभ्येत।प्रपञ्चेसुखंप्राप्तुंवयंदेवकर्माणिकुर्मः, लौकिकार्थंनीतीधर्मम्आचरामः।ततःशाश्वतंसुखंकथंलभ्येत? शरीरंसुन्दरैःआभूषणैःअलङ्कृतम्,उत्तमाशाटिकापरिधृता, किन्तुभालेकुम्कुमंनास्तिचेत्एतस्यसर्वस्यकिंमूल्यम्? तथैवयदिदेवस्यप्रीतिःनास्तितर्हिसत्कर्माणांनतावान्लाभः।प्रत्युतआत्यन्तिकेदेवप्रेम्णिनीतिधर्मविरहितम्आचरणंपरमार्थभवनम्उध्वस्तीकुर्यात्। वस्तुतःपरमार्थःअतीवसरलः।विद्वांसःतंवृथाक्लिष्टंकुर्वन्ति।किंसम्यक्किमसम्यक्इतिज्ञातेसतियःतदनुरूपंव्यवहरति, सःनिश्चयेनपरमार्थंप्राप्नुयात्।परमार्थसिद्ध्यर्थंत्रिभ्यःकश्चनएकःउपायःभवितुमर्हति।प्रथमःदेहेनसाधुनासहवासः,द्वितीयःसतांवाङ्ग्मयपठनम्आचरणंच, तृतीयःभगवतःनामस्मरणम्।नामजपेनतेन(ईश्वरेण) सहअखण्डसहवासःलभ्येत।सद्भिःकथितंविनासंशयं,विश्वासेनकरणीयम्इतिप्रथमंसोपानम्।तत्सततंनिश्चयेन,श्रद्धया, प्रेम्णाचप्रवर्तनीयम्इतिअन्तिमंसोपानम्।एषःएवशाश्वतसमाधानस्यमार्गः।

          • जगत्किंवदेत्इतिमत्वाव्यवहरणीयम्इतिप्रपञ्चः।परमेश्वरःकिंवदेत्इतिमत्वाव्यवहरणीयम्इतिपरमार्थः। *****

जून२८- परमार्थः कृतिशास्त्रम्।कदाचिद् जनकराजस्य गृहं कश्चन विद्वानागतः। स्वागमनस्य सूचना तेन प्रेषिता। ‘अधुना राजा मम पूजां कुर्यात्’ इति भावः तस्य मनसि आगतः। तस्य एतादृशं भावं ज्ञात्वा राजा तस्मै सन्देशं प्रेषितवान् यत् भवान् एकाकी एव आगच्छतु इति। तथैव अस्माभिः अभिमानस्यूतं बहिः संस्थाप्य एव राम: गन्तव्य:। सद्गुरोः गृहमपि स्वपरिच्छदम् अपाकृत्य गन्तव्यम्। ‘अहं कः’ इत्येतस्य ज्ञानं यावद् भवति तावद् द्वित्वं वर्तते एव। अभिमानं वर्धयितुं भगवान् न गन्तव्यः। परस्य विषये दुर्भावना मनः आगच्छति चेद् अभिमानः वर्धमानः इति ज्ञातव्यम्। पुत्रादिषु यथा स्निह्यते तथा भगवति स्नेहनीयम्। अस्माकं तथा भगवतः इच्छा एका एव भवेदिति परमार्थसूत्रम्। भगवतः इच्छाम् अस्मदीयां कृत्वा आनन्दे स्थातव्यम्। पूर्णनिःस्वार्थबुद्ध्या कृतं कर्तव्यं न वृथा भवति। कस्यचिद् उत्तमर्णस्य समीपे कानिचिद् आभूषणानि तारणं संस्थाप्य ऋणं स्वीकरोति। उत्तमर्णेन तेषां गृहे विवाहसमारम्भे उपयोजनम् अन्यायः एव। तथैव स्वपुत्राः देवेन अस्मभ्यं दत्ताः। तेषां रक्षणं पालनं चास्माकं कर्तव्यम्। परं तेषां विषये ममत्वेन सुखदुःखभोगःतु पापम्। संन्यासिनः काषायवस्त्राणि धरामः चेत् तस्य स्वल्पः वा परिणामः बुद्ध्यां भवति। भजनपूजनस्य परिणामः अपि अस्मासु द्रष्टव्यः। ज्ञानिना सम्यग् अवगत्य अज्ञेन श्रद्धया च बन्धनानि स्वीकरणीयानि। स्वमतविषयेनितरां निश्चितता आवश्यकी। तत्र संभ्रमः मास्तु। मनसा दृढं वर्तनीयम्। यथा शुभ्रवस्त्रे मलिनतायाःसंभावनाअधिका तथा सत्कर्मणि विध्नानि अधिकानि। तान्परिहृत्य सत्कर्माणि करणीयानि। आचारविचारयोः समञ्जनं भवति चेद् उच्चारोऽपि तथैव भवति। नारिकेले यावज्जलं मधुरं तावान् गर्भः रुचिकरः, तथा यावद् वैदुष्यम् अधिकं तावती निष्ठा न्यूना। अधिकं मा पठन्तु। यद्भवन्तः स्वल्पं पठन्ति, तस्य मननं कुर्वन्तु; तदाचरन्तु। यथा पित्रा लिखितं पत्रम् अनुसरामः तथा ग्रन्थपठनानन्तरं तदनुसारं वर्तामहे। परमार्थः सर्वथा कृतिशास्त्रम्। समाधानम् आनन्दः च तस्य शास्त्रस्य साध्यम्। भगवतः स्मरणे कर्तव्याचरणेन जीवने आनन्दः उत्पद्यते।

      • सर्वं करणीयं, परं यथार्थं प्रेम साधने भवतु।****

जून२९ - पुण्यतिथिः कथमाचरणीया? सत्पुरुषाणां पुण्यतिथिसमारोहः कथं सम्पादनीयः? अस्मिन् दिने यंयनियमं भवन्तः कुर्वन्ति सःनिरन्तरंप्रवर्तितःभवितुमर्हति। अतःअद्यारभ्य नाम विना किमपि न वक्तव्यमिति निश्चिनोतु। नामन्येव स्थातुं प्रयत्नेनात्रागत्य किमपि कृतमिति श्रेयःलभ्येत। यः कोऽपिअत्रागच्छति तेन स्थातुमिच्छामि परं यदि भवद्भिः कपाटमेव पिहितं तर्हि किं करोमि? अतिथिः गृहम्आयाति, परं द्वारमेव यदि नोद्घाटितं तर्हि सः किं कर्तुं शक्नुयात्? तद्वद् विषयेषु स्थित्वा मनसः द्वाराणि मा पिहितानिकुर्वन्तु। नामघोषः कण्ठे भवतु, तेन विषयाणाम्आक्रमणं न भवेत्। साम्प्रतं कलिः प्रमत्तः जायमानः वर्तते, तस्याक्रमणं परिहर्तुं नाम्नि विश्वासः भवतु। कोऽपि किमपि वदेत् नाम न त्यजन्तु। यथा प्रबलजलावेगे वृक्षबद्धं वस्तु न प्रवाहपतितं भवति तथा नाम दृढं निगृहीतं चेत् कालः किमपि कर्तुं न शक्नोति। समर्थरामदासस्वामिभिः नामसमासे कथितं तथा नामैव रूपमिति मत्वा जपं करोति चेद् रूपमपि दृश्येत। भगवान्अस्माकम्अन्तःकरणेप्रकटयिष्यति, अतः नामस्मरणेन तस्य शनैः शनैः प्रकटनं हितकरं, शाश्वतं च भविष्यति। मस्तके हस्तं संस्थाप्यजातः चमत्कारः, तेजदर्शनं,दृष्टान्तः वा क्षणजीवी। कश्चन कृशः जनः सुदृढं भवितुंशरीरेशोथःभवेदिति वदति चेद् मूर्खतैव, तदपेक्षया सम्यगौषधिं स्वीकृत्य सः कदाचित् स्थूलः न भवेत्, परं सुदृढं निश्चयेन भवेत्। तथैवपरमार्थानुभवविषयेवर्तते।एषःअनुभवःवर्धेतएतदर्थंपुण्यतिथिःआचरणीया।नामस्मरणंसततंक्रियतेचेत्भगवत्प्रेमनिश्चयेनउदेत्।प्रपञ्चस्यकोलाहलेभगवन्तंस्मर्तुम्उत्सवपर्वपुण्यतिथ्यादयःभवन्ति।नूनंप्रापञ्चिकस्यकियन्तःपाशाः! धनं, लौकिकं, पुत्राः, आप्ताःचेतिसर्वेपाशाःएव।एवंनैकेषुपाशेषुबद्धेननामजपनंकियत्दुष्करम्।तदर्थम्अतीवदृढःजनःअपेक्षितः।नाम्निभगवतःअस्तित्वंवर्तते।अतःनाम्निसत्सङ्गतिःअपिअस्ति।प्रतिफलम्अनपेक्ष्यपूर्णमनसानामजपन्तु।अद्यारभ्यनिश्चयंकुर्वन्तु।

        • सताम्अस्तित्वंनतेषांदेहे, अपितुवचने।****

जून३० – एवंकरणीयःनियमः।येनयुक्तःभवेत्आत्मारामः।। एवंकरणीयःनियमः।येनयुक्तःभवेत्आत्मारामः।।नियमःभवतुशाश्वतः।येनकृपायेतश्रीरामः।।वाण्याःमनसःचनियमः।येनसन्तुष्येत्प्रभुरामः।।कर्तव्येयोजयतुशरीरं।येनरघुवीरःलभेतआनन्दम्।।सत्याःएकमेवदैवतम्।केवलंपतिःएवप्रमाणम्।।तस्यगुणदोषान्नपश्यतु।स्वकर्तव्यंकरोतु।। पतिव्रताधर्मःअतिश्रेष्ठः।वन्दन्तेसर्वेसन्तः।।पत्युःआज्ञाप्रमाणा।साध्व्याःएषाएवभावना।।मुखेनअपशब्दःनोच्यते।ईश्वरायतद्नरोचते।।सन्ततिःसम्पद्च।भगवत्कृपयालभ्येत।तयोःकरणीयंरक्षणं।परंमनःनभवतुआसक्तम्।।यत्रपत्युःरुचिः।तत्रैवपत्न्याःधर्ममतिः।।मनसाभगवत्स्मरणं।यत्परिहरेत्जन्ममरणम्।।अखण्डंमनःसमाहितं।नच्यवेत्अनुसन्धानम्।।कायःप्रपञ्चे।मनःरघुनाथे।।प्रपञ्चेसावधानता।मनःरामेसदा।।रामःतस्यदाता।तेननकरणीयाचिन्ता।।मुखेनामजपनं।हृदयेभगवदस्तित्वभानम्।शुद्धम्आचरणं।पवित्रतमम्अन्तःकरणम्।।मुखेभगवत्स्मरणंसदा।रघुनन्दनःकरोतिकृपां तदा।इतिभवतुविश्वासः।लभ्येतनिश्चयेनअनुभवः।।पतिम्एकवारंवाप्रणमतु।सःरामःइतिकल्पयतु।।तस्यज्ञात्वामनोगतं।तदनुगुणंकरोतुवर्तनं।तेनएवभवतुस्वकल्याणम्।।एवंनियमःयस्यगृहे।स्थितःरामःतस्यद्वारे।।आगतायअतिथयेअन्नंददातु।कमपिविन्मुखंनप्रेषयतु।।रामःकर्ताइतिभवतुभावना।तेननभवतिकापिन्यूनता।।सर्वेषाम्उद्गमःएकः।इतिअवगच्छतुमनः।।तस्यनकस्मादपिभयं।रामंविनानजगद्दर्शनम्।।समाधानस्यइदमेवचिह्नम्।।यद्यद्आयाति।तद्रामात्आयाति।इतिभवतुभावः।।साक्षित्वेनदेहप्रपञ्चःद्रष्टव्यः।अन्तःरघुनाथःभजनीयः।प्रारब्धेदेहगतिः।इतिसर्वशास्त्रंकथयति।।किन्तुमनःनावगच्छति।जगतिएकःएवममरघुपतिः।।मुखेसदारामनाम।हृदयेपरमात्मप्रेम।।अन्यःनभवतुकोपिविचारः।एषःएवनिर्धारः।।चातुर्मासेआरम्भः।नियमःअखण्डंप्रवर्तनीयः।।स्वल्पःनियमः।कृत्वाअनुभवनीयः।।भगवतःनामजपनं।भोजने,प्राशने, कार्यकरणे।।यावच्छक्यंतावत्करणीयं।परमात्माकरिष्यतिअवशिष्टम्।।सर्वेभ्यःममआशिषः।सर्वैःयोजनीयःईश्वरः।।

        • ममएकाएवयाञ्चा।नामविनानभवतुवाचा।****
"https://sa.wikisource.org/w/index.php?title=जूनमासस्य_प्रवचनानि&oldid=228074" इत्यस्माद् प्रतिप्राप्तम्