सामग्री पर जाएँ

जानेवारीमासस्य प्रवचनानि

विकिस्रोतः तः

जानेवारी 1

[सम्पाद्यताम्]

नाम परमात्मस्वरूपमेव वर्तते।

[सम्पाद्यताम्]

नाम इत्युक्ते भगवन्नाम। साधनदृष्ट्या देवस्य भिन्नभिन्ननामसु न भेदः। जीवशिवयोः मध्ये नामरूपा शृङ्खला वर्तते। नाम साधनं, साध्यमपि। नाम सगुणं, निर्गुणं च। नाम्नः आरम्भः सगुणे, अन्तः निर्गुणे च। आरम्भः सगुणे वर्तते, यतो हि मूलतः निर्गुणः निराकारः च भगवान् यदा सगुणम् आगतः, तदा सः नाम रूपं च अलभत। सगुणत्वविलयानन्तरम् अपि नाम अवशिष्यते। अतः सः निर्गुणः। अतः सगुणनिर्गुणभक्त्योः नाम एवाधारः। नामैव सत्सङ्गस्य अधिष्ठानं शिखरं च। नाम इत्युक्ते अस्माकं वृत्तिं भगवता सह योजयित्री शृङ्खला। विवाहानन्तरं पत्नी यथा पत्या सह एकरूपा भवति तथा वृत्त्या नाम्ना सह विवाहं कृत्वा नामरूपया भवितव्यम्। नाम अतीव सूक्ष्मम्। वृत्तिः अपि सूक्ष्मा। अतः नामजपेन वृत्तिपरिष्करणं भवेत्। विशुद्धया वृत्त्या चित्तं शान्तं भवेत्। चित्तं शान्तं भवति चेद् निष्ठा उत्पद्यते। सर्वेषां भावार्थः एकः एव। भोज्यपदार्थानां स्वस्वादः वर्तते। वयम् आत्मनः रुच्या तान् खादामः। परं नाम्नः स्वस्वादः न वर्तते। स्वरुचिं संयोज्य अस्माभिः तज्जपनीयम्। यावद् अधिकया रुच्या वयं जपामः तावद् माधुर्यम् अनुभवामः। पण्ढरपुरं गन्तुं नैके मार्गाः, परम् अन्ते पङ्क्त्यां स्थितेः अनन्तरमेव दर्शनं लभ्यते। तद्वत् कियन्ति अपि इतराणि साधनानि कृतानि तथापि नामसाधनानन्तरमेव आत्मस्वरूपप्राप्तिः भवति। नाम जपनीयम्, स्वयमेव स्वकर्णैः श्रवणीयं च। जपन्तः, शृण्वन्तः चात्मानं विस्मरेम। एतद् एव नामसाधनम्, एषः एव आनन्दमार्गः च। यथा अस्माकम् अस्मिता स्वनाम्नि वर्तते तथा देवस्य देवत्वं तस्य नाम्नि वर्तते। अद्य यद् नाम वयं जपामः तदेव अन्तपर्यन्तं विद्यते, परं यथा देहबुद्धिः क्षीणा भवति तथा नाम अधिकाधिकम् अर्थपूर्णं भवति, अन्ते नाम परमात्मस्वरूपमेव इति अनुभवः लभ्यते। यथा जलं शरीरस्य जीवनं वर्तते तथा नाम मनसः जीवनं भवेत्। नाम एतादृशम् अन्तः गच्छेत् यत् प्राणैः सहैव तद् बहिरागच्छेत्। अन्तसमये अन्तिमक्षणे निर्गच्छत् वस्तु भगवन्नाम भवेत्। नामजपः एव अन्तिमः उच्छ्वासः भवेत्।

*** नामजपे आनन्दं विना नान्यत् किमपि वर्तते।***

[सम्पाद्यताम्]

जानेवारी 2

[सम्पाद्यताम्]

नाम सद्गुरुतः स्वीकरणीयम्।

[सम्पाद्यताम्]

नाम सद्गुरुतः स्वीकरणीयं, स्वरुच्या स्वयमेव स्वीकरणीयं वा? वस्तुतः भगवन्नाम स्वतः सिद्धं परिपूर्णं च वर्तते। तद् अन्येभ्यः पूर्णतां नापेक्षते। अतः सद्गुरुतः स्वीकृतं नाम स्वरुच्या स्वीकृतं नाम च इति एतयोः मध्ये भेदं कर्तुं न शक्यते। तथापि सद्गुरुतः स्वीकृते नाम्नि वैशिष्ट्यं वर्तते। सद्गुरुः स्वेन दत्तस्य नाम्नः पृष्ठतः सत्तारूपेण वर्तते। नामस्मरणसमये सः अस्माकं साहाय्यं करोति। तेन अस्माभिः क्रियमाणं नामस्मरणं तस्य सत्तया एव विद्यते। तेन ‘अहं नामस्मरणं करोमि’ इति एतस्य अहंकारस्य उत्पादनस्य अवसरः एव न विद्यते। सद्गुरोः आज्ञां पालयते साधकाय नाम रोचते। आकण्ठं नामजपेन तस्य आत्मा तृप्यति। अतः सद्गुरुतः नामस्वीकरणम् आवश्यकम्। सद्गुरोः मेलनपर्यन्तं स्वयमेव नामस्मरणं करणीयम्। यतो हि तन्नामस्मरणं अस्माकं सद्गुरुणा मेलनं कारयेत्। आदौ सत्पुरुषमेलनं बहुदुष्करम्। मिलति चेदपि तस्मिन् विश्वासः अतिदुर्लभः। अतः नामसाधनं निरन्तरं प्रवर्तनीयम्। शर्कराखण्डान् स्थापयामः चेत् पिपीलकाः न आह्वातव्याः। ताः सहजम् अन्विष्य आगच्छन्ति। तद्वद् भवन्तः शर्कराखण्डाः भवन्तु, सत्पुरुषाः भवन्तं प्रति धाविष्यन्ति। शर्कराखण्डाः भवन्तु इत्युक्ते सत्पुरुषेभ्यः यथा रोचेत तथा वर्तन्ताम्। सत्पुरुषेभ्यः किं रोचते? भगवन्नामस्मरणम् अखण्डानुसन्धानं च। एते विहाय तेभ्यः किमपि न रोचते। अतः स्वहृदये नामज्योतिः सदैव प्रज्वालितं भवेत्। सद्गुरुः भवन्तम् अन्विष्यन् आगच्छति, भवति कृपां वर्षति च। अधुना अनया पद्धत्या सद्गुरुणा नाम दत्तं चेत् कश्चन चिन्तयेद् यत् ‘अहं राम रामेति जपन् अस्मि एव। सद्गुरुणा तदेव उपदिष्टम्। अथ अत्र कः विशेषः?’ परन्तु अत्रैव विशेषः वर्तते। यतो हि अत्र ‘अहं कर्ता’ इति अभिमानः त्यक्तव्यः भवति। सद्गुरुतः नाम स्वीकृतं चेत् कर्तृत्वाभिमानस्य अवसरः न विद्यते। एकः लवणकणः पायसनाशार्थं पर्याप्तः। तथैव अभिमानः सर्वसाधननाशार्थं पर्याप्तः। अतः अभिमानत्यागः महत्त्वपूर्णः विषय़ः। भगवन्नाम औषधम् इति मन्तव्यम्। भगवत्प्राप्तिः फलम्। अपेक्षितं तावत् करणीयं, यथोक्तं तथा करणीयम्, अधिकं न करणीयम्, इति अनुपानम्। औषधं तावत् बिन्दुशः सततं स्वीकर्तव्यम्।

***सामान्यशब्दानाम् अपि महान् आधारः भवति। अथातः भगवन्नाम्नः आधारः कियान् महान् भवेत्।***

[सम्पाद्यताम्]

जानेवारी 3

[सम्पाद्यताम्]

नामजपः कदापर्यन्तं करणीयः?

[सम्पाद्यताम्]

नाम कदापर्यन्तं जपनीयम्? यावत् श्वासोच्छ्वासः प्रवर्तते स्वस्मृतिः वर्तते वा तावद् नामजपः करणीयः। यथा श्वासोच्छ्वासः मृत्युपर्यन्तं प्रवर्तते तथा नामजपः अपि। सुष्ठु वक्तव्यं चेद् यथा श्वासोच्छ्वासस्थगनम् इत्युक्ते मृत्युः, तथैव नामोच्चारणत्यागः मृत्युसमः एवेति मन्तव्यम्। अक्षरशः जीवोत्क्रमणपर्यन्तम् इत्युक्ते ‘अहंभाव’मरणपर्यन्तं नामजपः करणीयः। अन्ते ‘अहंता’ विलीयते, नाम अवशिष्यते च। नामजपः कदापि पूर्णः न भवति। मुक्त्यनन्तरं सर्वं पूर्णं भवति इति वदन्ति, परं मुक्त्याः अनन्तरं यत् कर्तव्यम् अवशिष्यते तन्नामस्मरणम् एव। कञ्चन जनम् अभानावस्थां नेतुं वैद्यः तस्मै औषधिं दत्त्वा अङ्कान् गणयितुं सूचयति। अङ्कान् गणयन् सः यदा विरमति तदा तस्य देहभानं नश्यति इति निश्चीयते। तद्वन्नामोच्चारणं कुर्वतः ‘अहं नामजपं करोमि’ इति स्मरणमपि न विद्यते तदा नामजपे तल्लीनः सः जनः एकान्ते परिणमते। नामजप्ता ‘अहं’ एकः, तस्यान्तः एकान्तः। इत्युक्ते देहबुद्धेः विस्मरणम्। देहबुद्धेः परं गमनम्। नाम जापं जापम् इदृशीं स्थितिं प्राप्नोति चेत् चित्तं भगवति वर्तते वा न वा इति प्रष्टुम् अवकाशः एव क्व वर्तते? निद्रानाशेन पीडितैः यथा निद्राप्राप्तिपर्यन्तम् औषधं स्वीक्रियते, तथैव स्वाभाविकसमाधानप्राप्तिपर्यन्तं नामजपः करणीयः। नाम उपाधिरहितं विद्यते अतः उपाधिरहितत्वेन विना नामप्रेम लब्धुं न शक्नुमः। नाम्ना आनन्दमयस्य भगवतः सन्निकर्षेण तस्य कृपा अचिराद् लभ्यते। किं बहुना यस्मिन् भगवत्कृपा विद्यते तस्य एव मुखे नाम वर्तते। नामजपस्य संख्या लेखनीया वा? यदि दिनविषये वा संख्याविषये वा कश्चित् संकल्पः विद्यते तर्हि जपसंख्यालेखनम् अपेक्ष्यते। जपाभ्यासार्थं वा नियतजपेन विना दिनं न गच्छेत् तदर्थं वा जपसंख्यालेखनं करणीयम्। परम् अत्रैकं पथ्यमपेक्ष्यते। अद्यतनसंकल्पपूर्त्यनन्तरं श्वःपर्यन्तं नाम्ना सह मम सम्बन्धः नेति वृत्तिः सम्भवति। अत्र सावधानेन भवितव्यम्। नियतसंख्यापूर्त्यनन्तरमपि जपाभ्यासः यावत् शक्यम् अनुवर्तनीयः।

***सामान्यजनेन बहु विचिकित्साम् अकृत्वा यथोक्तं नामजपः करणीयः। तेन तस्य कल्याणं निश्चयेन भविष्यति। ***

[सम्पाद्यताम्]

जानेवारी 4

[सम्पाद्यताम्]

नाम कथं जपनीयम्?

[सम्पाद्यताम्]

‘नाम कथं स्मरणीयम्’ इति पृच्छा इत्युक्ते ‘लड्डुकं कथं खादामि’ इति पृच्छासमं वर्तते। लड्डुकं कथमपि खादामः चेद् मधुरमेव वर्तते। तथैव नाम कथमपि जपामः चेत् कार्यं करोत्येव। येन लड्डुकः खादितः सः तं कथं खादामि इति न पृच्छेत्। तथैव नामजप्ता कथं जपामि इति न पृच्छेत्। क्षेत्रे यदा बीजं वपन्ति तदा तद् उर्ध्वमुखम् वर्तते वा इति न पश्यन्ति। तत् कथमपि भवेत् अङुरः बीजात् क्वापि बहिः आगच्छेत् सः भूमितः एव बहिः आगच्छति। तद्वद् नाम कथमपि स्मरामः चेत् तत् स्मरणं स्मर्तुः सम्यक् विकासं कारयिष्यति, तं सुयोग्यमार्गम् आनेष्यति च। नामस्मरणसमये कथम् उपवेशनं, किम् आसनम् इति एतादृशः प्रश्नः इत्युक्ते श्वासोच्छ्वाससमये कथम् उपविशामः इति प्रश्नः इव। चिन्तयन्तु, कश्चन श्वासरोगेण पीडितः जनः अस्ति। सः कथम् उपविशति? सः एवम् उपविशति, लुण्ठति वा येन श्वासोच्छ्वासः विनाकष्टं भवेत्। श्वासोच्छ्वासः सुखेन प्रवर्तेत इति तस्य ध्येयं वर्तते तदर्थं देहस्थितिः कथमपि भवितुम् अर्हति। यथा श्वासोच्छ्वासः विनाकष्टं भवेदिति तस्य ध्येयं वर्तते तद्वत् नामस्मरणम् अखण्डं भवेत् इति अस्माकं ध्येयं भवेत्। तदर्थम् इदमेव योग्यं यद् नामस्मरणे येन विघ्नं न भवेत् तादृशम् उपवेशनं भवेत्। उपवेशनपद्धतिः अधिकं महत्त्वं न अर्हति। चिन्तयन्तु, पद्मासने अस्माभिः नामस्मरणमम् आरब्धम्। केनचित् समयेन पृष्ठे पीडा आरब्धा। तेन अस्माकम् अवधानं नामस्मरणस्य अपेक्षया देहे एव भवितुम् अर्हति। इत्युक्ते पौनःपुन्येन नामस्मरणेन देहविस्मरणस्य अपेक्षया देहस्मृतिः एव उत्कटा भवितुमर्हति। अतः नामस्मरणे येन अन्तरायः न भवेत् तादृशं प्रकृतिधर्मानुसारं किमपि आसनं भवेत्। भगवतः नाम्नि किमपि शरीरबन्धनं न वर्तते। इदमेव नामसाधनस्य माहात्म्यम्। कस्याम् अपि अवस्थायां भगवत्स्मरणं कर्तुं मनुष्यस्य एकमेव साधनं नाम वर्तते। परं देहबुद्धिः एतादृशी विलक्षणा वर्तते यत् निरुपाधिकाय नाम्ने वयं काम् अपि उपाधिं योजयामः, नामस्मरणम् तेन उपाध्याधारेण कुर्मः। इदं न करणीयम्। अन्ये उपाधयः सुखदुःखानि उत्पादयन्ति, नाम निरुपाधिकम् आनन्दं ददाति।

***शुद्धभावनायां निष्ठायां च अवितथं समाधानं विद्यते। एषा निष्ठा अनुसन्धानेन उत्पद्यते।***

[सम्पाद्यताम्]

जानेवारी 5

[सम्पाद्यताम्]

नामस्मरणम् एकाग्रता च।

[सम्पाद्यताम्]

नामस्मरणसमये चित्तैकाग्र्यं किमर्थं न भवति? तदर्थं किं करणीयम्? नामस्मरणसमये मनसि सहस्रशः विचाराः आयान्ति। तान् निवारयितुं प्रथमोपायः वर्तते यत् तेषाम् अनुधावनं न करणीयम्। मनसि अन्ये विचाराः आयान्ति इति अस्ति चेत् तेषां मार्गाः निरोद्धव्याः। इत्युक्ते मनोराज्यं न करणीयम्। विचाराः आयान्ति प्रयान्ति च। तत्र न अवधातव्यम्। चित्तैकाग्र्यं कर्तुमेव नामस्मरणम् अपेक्ष्यते। नामस्मरणे चित्तैकाग्रता इति बहु अग्रिमं पदम्। चित्तं तु चञ्चलम्। तत् क्वापि स्थिरं करणीयम्। अतः नाम्नि तद् योजनीयम्। नामस्मरणसमये नाम कर्णेन श्रोतव्यम्। तेन एकाग्रतायाः साधने साहाय्यं भवेत्। एकाग्रतां विना नामस्मरणेन न कोऽपि अर्थः, नामस्मरणं विना एकाग्रता भवितुं नार्हति चेति संशयः मा भवेत्। सरलं सामान्यं च नामस्मरणं करणीयं येन सहजा एकाग्रता सेत्स्यति। अपरं च, यदस्मभ्यं रोचते तस्मिन् वयम् एकाग्रबुद्धयः भवितुं शक्नुमः। विषयाः अस्मभ्यं रोचन्ते अतः विषयसेवने वयम् एकाग्रबुद्धयः भवामः। अथ अतः विषयाणां स्थाने भगवतः रुचिं धरामः चेत् तस्मिन् अपि किमर्थम् एकाग्रबुद्धयः भवितुं न शक्नुमः? अतः अधुना विषये यावती रुचिः वर्तते तावतीं देवप्राप्त्यर्थ्यम् अपि धरामः चेत् तस्मिन् वयम् एकाग्रबुद्धयः भवितुं शक्नुमः। एकाग्रता इत्युक्ते समरसता। लवणं जले योजितं चेत् तज्जलात् भिन्नं वर्तते किम्? योगेन एकाग्रबुद्धयः भवितुं शक्नुमः, परं यावत् समाधिः वर्तते तावत्कालम् एव एकाग्रता भविष्यति। सर्वेषु भूतेषु भगवद्दर्शनम् एव एकाग्रतायाः वास्तवं साधनम्। सर्वत्र सः एव व्यापृतः इति जानीमः चेद् द्वैतं कुत्र वर्तते? यतः द्वैतं निर्गच्छति तत्र एकाग्रता सहजम् आयाति। एषा एकाग्रता एव वास्तवः समाधिः। मनुष्यः पूर्णतः एकाकी एकान्ते वा वर्तते चेदपि स्वकल्पनया सः नैकान् जनान् स्वं परितः संगृह्णाति। विशेषतः विद्वज्जनानां कल्पनाः अधिकाः। कल्पनाः करणीयाः चेद् भगवतः विषये कुर्मः। भगवान् दाता त्राता सुखकर्ता चेति कल्पनां कुर्मः। तत्रैव हितं वर्तते। कल्पनातीतं भगवन्तं कल्पनाम् आनीय सगुणं कुर्मः। तत्रैव चित्तं स्थिरीकर्तुं प्रयतामहे च।

***मनः एकाग्रं न भवति चेदपि नामस्मरणं न त्यक्तव्यम्।***

[सम्पाद्यताम्]

जानेवारी 6

[सम्पाद्यताम्]

नामरूपयोः सम्बन्धः।

[सम्पाद्यताम्]

नामस्मरणसमये रूपध्यानम् आवश्यकं किम्? वस्तुतः नाम रूपं च भिन्ने न वर्तेते। परं नाम रूपात् प्राग् वर्तते, अनन्तरमपि अवशिष्यते। नाम रूपे व्यापृतं वर्तते। रामजन्मनः प्राग् वाल्मीकिः रामायणं लिखितवान्। अनन्तरं रामेण जनिं लब्ध्वा तत्रस्थवर्णनानुसारम् आचरणं कृतम्। इत्युक्ते रूपात् प्राक् नाम आसीत्, रूपे अतीते अपि नाम वर्तते। देशकालातीतं यत् शाश्वतं तत् सत्यम्। प्रत्यक्षाणां साकाराणां नैकानां रूपाणाम् लोपाद् अनन्तरमपि तेषां नामानि अवशिष्यन्ते। अतः नाम देशकालातीतं वर्तते। अतः तत् रूपात् अपि अधिकं सत्यम्। यत्सत्यं तत् श्रेष्ठम्। अतः नामस्मरणं मुख्यं, तदा रूपमपि ध्यायते चेद् उत्तमम्। तथा न भवति चेदपि नामस्मरणसमये रूपस्मरणमपि सूक्ष्मरूपेण वर्तते एव। चिन्तयन्तु, कस्यचित् गृहस्थस्य गृहे रामः नाम कर्मकरः वर्तते। सः गृहस्थः रामनाम जपति। परं रूपं प्रति तस्य अवधानं न वर्तते। सहसा कश्चन तं पृच्छति, ‘ भवान् कस्य नाम जपति ?’ तदा स वदति, ‘ अर्थात् रामस्य।’ तदा तस्य मनसि दाशरथिः रामः एव वर्तते, न तु कर्मकरः रामः। अतः नामस्मरणे सति रूपध्यानं सूक्ष्मरूपेण जागर्ति एव। रूपं ध्यानं न आयाति इति मत्वा न स्थातव्यमपि तु नामस्मरणस्य आग्रहः अनुवर्तनीयः। तस्मिन् एव सर्वम् समाविष्टम्। परिचितस्य जनस्य रूपम् आदौ मनः आयाति अनन्तरं नाम आयाति। परं यदि सः अपरिचितः अदृष्टः च तर्हि नाममात्रं मनः आयाति। अधुना भगवतः परिचयः नास्ति। तस्य रूपमपि न जानीमः। केवलं तस्य नाम वयं जप्तुं शक्नुमः। साम्प्रतम् अपि तस्य नामजपनेन तस्य स्मरणमपि वर्तते इति अस्माकम् अनुभवः। भगवतः रूपमपि क्व निश्चितम्? एकः रामः कृष्णः, अपरः गौरकायः। एकः कनीयान् अपरः ज्यायान्। परं सर्वाणि रूपाणि एकस्य रामस्यैव। स्वयं भगवान् अरूपः। यस्मिन् रूपे तं पश्यामः तत् तस्य रूपम्। अतः कस्मिन् अपि रूपे तं ध्यायामः तर्हि अनुमन्यते। नाम्नः अनन्तरूपाणि उत्पद्यन्ते तस्मिन्नेव निलीयन्ते च। अतः भगवन्नाम श्रेष्ठम्। तद् भवन्तः आनन्देन निरन्तरं जपन्तु, आनन्दे भवन्तु च।

***दानेषु दानम् अन्नदानम्। उपासनासु उपासना सगुणोपासना। साधनेषु साधनं नामस्मरणम्।***

[सम्पाद्यताम्]

जानेवारी 7

[सम्पाद्यताम्]

नामप्रेमार्थं सत्या आर्तता अपेक्ष्यते।

[सम्पाद्यताम्]

नामप्रेम किमर्थं न उत्पद्यते इति बहवः पृच्छन्ति। परम् अल्पेन चिन्तनेन वयम् अवगन्तुं शक्नुमः यत् एषः प्रश्नः एव न योग्यः। वन्ध्यया महिलया कृतेन ‘पुत्रप्रेम कथम् उत्पद्येत’ इति प्रश्नेन समः एषः प्रश्नः। पुत्रेण सहैव प्रेमोत्पद्यते। ‘पुत्रप्रेम कथम् उत्पद्येत’ इति प्रश्नस्य अपेक्षया ‘पुत्रः कथम् उत्पद्येत’ इति अस्य चिन्तनं योग्यम्। अस्माभिः अपि प्रश्नः करणीयः चेत् ‘नामप्रेम कथम् उत्पद्येत’ इति प्रश्नस्य अपेक्षया ‘मुखे नाम कथं भवेत्’ इति पृच्छा करणीया। मुखे नामागमनार्थं कस्य अवरोधः वर्तते? न कस्यापि अन्यस्य, परं स्वस्यैव। वस्तुतः ‘एकवारं नामजपारम्भः निश्चितः चेत् पर्याप्तम्। परं तथा न भवति चेत् दोषः न अन्यस्य, परं स्वस्य एव। अतः नामजपकरणम् अस्माकं कार्यं तस्य अनुगमनं प्रेम्णः धर्मः। पुत्रः प्रेमपानं च मातृदृष्ट्या यथा अभिन्नं वर्तते तथा नाम नामप्रेम च अभिन्ने एव भवतः। एतेन एतत् तु निश्चितं यत् ‘प्रेम किमर्थं नायाति’ इति एतस्य उत्तरम् आत्मनः समीपे एव वर्तते। तत् ‘नाम न जपामः अतः’ इति। अत्र कश्चन पृच्छेत् यत् वयं नामजपं कुर्मः, परं प्रेम कथं न उत्पद्यते? एषः प्रश्नः योग्यः। अधुना यत् नामस्मरणं कुर्मः तद्विषये चिन्तयामः चेत् किं दृश्येत? औरसपुत्रं प्रति या आर्तता मातुः वर्तते, सा नामविषये अस्माकं न वर्तते। सर्वसत्पुरुषैः गुरुणा वा कथितम् अतः वयं नाम जपामः। कदाचित् अन्यत् किमपि कर्तुं न विद्यते अतः नाम जपामः। एतावत् एव। अर्थात् तथा जपामः चेत् अपि अद्य श्वः वा अस्माकं कार्यं भवेत् एव। परं प्रेम किमर्थं न उत्पद्यते इति प्रश्नात् प्राग् वयं नामस्मरणं कियत्या आस्थया कुर्मः इति प्रश्नः आत्मानं प्रति करणीयः। चिरेण प्रसूतायाः सुतविषये यादृशी स्थितिः वर्तते, तादृशी नामस्मरणविषये अस्माकं भवेत्। अस्माकं देहवृद्धिः यथा अज्ञाततया भवति तथा पारमार्थिकी उन्नतिः अपि अज्ञाततया भवतु। सा ज्ञायते चेत् सर्वं व्यर्थं भवितुमर्हति। परमार्थस्य प्राप्तेः अपेक्षया प्राप्तस्य तस्य रक्षणम् इतोऽपि कठिनतरम्। यः ‘अहं किञ्चन विशिष्टं जन्म प्राप्तवान्’ इति मन्यते, तस्य अपि जन्मनि न तथा किमपि वैशिष्ट्यम्। एतेन जनेन आत्मा बहु एव रक्षणीयः।

***पत्ये न रोचते तथापि पत्न्या नामस्मरणं न त्यक्तव्यम्। सा नामस्मरणं करोति चेत् तया धर्मः त्यक्तः इति न भवति अपि तु कौटुम्बिकजीवनं सुखकरं भवति।***

[सम्पाद्यताम्]

जानेवारी 8

[सम्पाद्यताम्]

नामप्रेम नाम्ना सह वासेन उत्पद्यते।

[सम्पाद्यताम्]

नामप्रेम कथम् उत्पद्यते इति अवगन्तुम् आत्मनः वत्सलां मातरं पश्यन्तु। पुत्रः अल्पेन ज्वरेण पीडितः चेत् मातुः उदरे आतङ्कः उद्भवति। अन्नरुचिः निर्गच्छति। निद्रा नायाति। एतादृश्यः नैकाः पीडाः आरभन्ते। सारांशेन सा सर्वथा अस्वस्था भवति। नामजपे विक्षेपे आगते सति अस्माकम् अवस्था तथा भवति किम्? उत्तरं स्वतः एव लभ्यते। नामजपः मम धर्मः। मम आद्यं कर्तव्यम्। तद्विना जीवनं मृत्युसमानम्। नामजपकरणे मम आत्यन्तिकं हितं वर्तते। किं बहुना, अहं नामार्थम् एव जातः, तद्रूपः भवेयं च - इत्येतादृश्या उत्कटया भावनया नामजपः करणीयः। तेन नामप्रेम न उत्पद्येत इति न भवितुम् अर्हति। प्रेम न उत्पद्यते इति एतस्य एषः एव अर्थः यत् नाम आस्थया न जप्तम्। अत्र एतस्य उपायः विद्यते यत् दृढनिश्चयेन यथाशक्यं नामजपः करणीयः। तन्नामस्मरणम् अस्माकम् एकैकं पदं पुरः सारयेत्, ध्येयं प्रापयेत् च। परिस्थितिः सम्यक् भवति चेत् नामस्मरणं करोमि इति यः वदति सः कदापि नामस्मरणं न करोति। नामजपं मनसि मुखेन उच्चार्य वा कर्तुं शक्यते। नाम्नि वर्तितव्यं तेन अन्तःकरणशुद्धता भवति। शुद्धान्तःकरणे भगवत्प्रेम उत्पद्यते। नामजपः केवलं प्रचुरजपात् विवेकजन्यं प्रेम अपेक्षते। वस्तुतः नामस्मरणे एव नामस्मरणप्रेम वर्तते। तक्रे नवनीतं विद्यते एव। केवलं तत् उपरि न दृश्यते। दधिमन्थनेन तत् उदायाति तथा भगवन्नामस्मरणेन तस्य प्रेम स्वाभाविकतया उदायाति। सामान्यशब्दैः अपि चित्तवृत्तयः परिणमन्ते, शब्दानुकूलाः भावाः उत्पद्यन्ते च। अतः भगवन्नाम्ना भगवत्प्रेम किमर्थं न उत्पद्येत? साम्प्रतं भवन्तः यावन्तं समयं लभन्ते तावन्तं सर्वं भगवन्नामजपे योजयन्तु। दीर्घं कालं यदि एकस्मिन्गृहे निवसामः तर्हि तस्मिन् गृहे वयं प्रीणीमः नु? प्रपञ्चप्रेम तेन सह वासेन उत्पद्यते, तथा एव नामप्रेम तस्य अखण्डं सह वासेन सहजम् उत्पद्येत। उत्थाने, उपवेशने, चलने, भाषणे चानुसन्धानम् अनुवर्तनीयम्। व्यसनं गच्छता कालेन दृढं भवति मनुष्यः तस्य नितराम् अधीनो भवति। अहिफेनं पश्यन्तु। गच्छता कालेन मनुष्यः अधिकाधिकम् अहिफेनम् अपेक्षते। तथैव भगवच्चिन्तनस्य व्यसनम् अस्माभिः लभ्येत। समीचीनविषयप्राप्तिः दुर्लभा। परं स्वल्पश्रमेण प्रचुरं लब्धुं नामजपं विना साधनं न वर्तते। अतः मनसा सदा नामजपः करणीयः।

***नामप्रेम उत्पादयितुं, गुरोः इच्छा इति मत्वा जपः करणीयः, नामजपे कल्याणं वर्तते इति भावनया वा जपः करणीयः।***

[सम्पाद्यताम्]

जानेवारी 9

[सम्पाद्यताम्]

नाम तथा विक्षेपाः।

[सम्पाद्यताम्]

नामजपसमये मनसि विक्षेपाः उद्भवन्ति। तेन नामजपे निष्ठा क्षीयते। तदर्थं किं करणीयम्? इति आक्षेपं वयं सामान्यतः कुर्मः। परन्तु एतेन एव नामजपस्य महत्त्वं प्रतिष्ठापितं भवति इति विषये अस्माकम् अवधानं न वर्तते। यदा मनुष्यः नामजपम् आरभते तदा विक्षेपाः तं सोढुं न शक्नुवन्ति। ‘अधुना एषः नामजपं करोति, वयं भवितुं नार्हामः’- इत्याकारकेण भयेन तेषाम् आन्दोलनम् आरभते। मनुष्यं नामस्मरणात् विन्मुखं कर्तुं ते प्रयतन्ते। विक्षेपाः सूक्ष्मा भवन्ति। तेषां निराकरणार्थं सूक्ष्मः कश्चन उपायः अपेक्षितः। सः वर्तते नामजपः। बिलं गतं सर्पं तत्र तस्य निवासम् अशक्यं कर्तुं, ततः बहिः निष्कासयितुं च उपायः अपेक्षितः। बाह्यतः कोलाहलं कृत्वा लाभः न भवति। बिले धूमस्य उष्णजलस्य वा पूरणेन सः बहिः आगच्छति। तथा एव नामजपनेन विक्षेपाः उद्भच्छन्ति। इत्युक्ते विकल्पानां मूलस्थानपर्यन्तं नामस्मरणस्य औष्ण्यं प्राप्तम्। अतः नामस्मरणेन विक्षेपाः उद्भवन्ति चेत् अस्वस्थः अभूत्वा तत्सुचिह्नम् इति मत्वा विक्षेपनिराकरणार्थं कुञ्चिका प्राप्ता इति मनसि निधाय अधिकया आस्थया नामजपस्य निश्चयं कुर्यात्। एषः एव तस्य उपायः। नामस्मरणे सर्वेषां वृत्तिः आरम्भे साशङ्का वर्तते। परं सततं नामस्मरणेन विक्षेपाः न्यूनाः भवन्ति। कः अपि विषयः अभ्यासेन सिद्ध्यति। अद्य सत्या भक्तिः नास्ति अतः भगवत्स्मरणं न वर्तते, भगवत्स्मरणाभ्यासेन विना वास्तवा भक्तिः न उत्पद्यते। अतः सुज्ञेन जनेन वृथा विकल्पाः न करणीयाः भगवत्स्मरणारम्भः करणीयः च। विक्षेपाः विलीयन्ते तथा च भगवत्संकल्पाः उद्भवन्ति चेत् अस्माकं कार्यं जातम्। मार्गे गमनसमये अवाञ्छिताः जनाः लभ्यन्ते एव। परमस्माभिः अग्रे गन्तव्यम् एव। तथैव विक्षेपोद्भवे अपि नामस्मरणं न स्थगनीयम्। परं वैचित्र्यं यत् मार्गे लब्धः दुर्जनः अस्माभिः दुर्लक्षितः सन् अपि बुद्ध्या कासते, अस्माकं ध्यानम् आकर्षति च। तदा वयं दृष्ट्वापि दुर्लक्षं कुर्मः। तथैव विक्षेपैः अस्माकं ध्यानम् आकर्षितं चेद् अपि अनिच्छया द्रष्टव्यं परं नामजपः न त्यक्तव्यः। शङ्काः उद्भवन्ति चेदपि नामस्मरणं कुर्वन्तः शङ्कन्ताम्। तत् नामस्मरणमेव शङ्कानां निरसनं कुर्यात्। शनैः शनैः विक्षेपान् अपि परिहरेत् च।

***भृशं कृतमपि शङ्कया व्यर्थं गच्छति। नाम न त्यजामि इति निश्चितं चेद् वृत्तिः निःशङ्का भवति एव।***

[सम्पाद्यताम्]

जानेवारी 11

[सम्पाद्यताम्]

नाम्नः सूक्ष्मं स्वरूपम्।

[सम्पाद्यताम्]

‘राम राम’ इति उच्चारणमात्रेण रामः कथं मिलेद् इति प्रश्नं जनः सहजं पृच्छति, दृष्टान्तरूपेण वदति च यत् सेवावृत्तिः सेवावृत्तिः इति जपन् कश्चन प्रकोष्ठे उपविशति चेत् कार्यं लभते वा? प्रथमदर्शने एषः दृष्टान्तः सुयोग्यः दृश्यते खलु? परं किञ्चित् चिन्तयामः चेत् सः अत्र सम्यक् न वर्तते इति ज्ञायेत। यः दृष्टान्तः देयः, यस्मिन् विषये देयः तयोः गुणधर्माः समानाः एव भवेयुः। रामनामसेवावृत्त्योः परिणामाः परस्परविरोधिनः। रामनामजपनस्य अन्तः रामप्राप्तौ इत्युक्ते स्वविस्मरणे भवति। देहबुद्धेः देहातीतत्वं, स्थूलात् सूक्ष्मत्वं चेति रामजपस्य परिणामः। परन्तु सेवावृत्तिः पूर्णतः विपरीता। मूलतः सेवाकल्पना सूक्ष्मा वर्तते। अथ तां लब्धुं दशजनाः प्रार्थनीयाः अनन्तरं दाता लभ्यते अनन्तरं अस्माभिः सा सेवावृत्तिः अङ्गीकरणीया। इत्युक्ते सूक्ष्मायाः सेवाकल्पनायाः स्थूलं प्रति गमनम् इति सेवावृत्तेः स्वरूपम्। परं रामनामस्मरणं स्थूलात् सूक्ष्मात् चापि परं वर्तते। एतेन सेवादृष्टान्तः अत्र सम्यक् न भवतीति स्पष्टम्। अपरं च सेवा सेवा इति जपेन सा दुर्लभेति सत्यम्, परं रामरामजपेन रामप्राप्तिः कथं सुकरा, किं बहुना कथं निश्चयेन शक्या इति पश्यन्तु। मूलतः सेवा इति एका कल्पना वर्तते। तां प्रत्यक्षीकर्तुं नैकानां विषयाणां कथं संयोजनं करणीयं भवति इति अस्माभिः इदानीमेव दृष्टम्। तथैव गृहनिर्माणम् एषा कल्पनैव, तां प्रत्यक्षीकृत्य तत् गृहं सर्वथा सुखसौकर्याणाम् आलयः भवेदिति हेतुना सर्वाणि वस्तूनि संगृह्य तत्र संस्थापनीयानि इत्युक्ते कल्पनायाः कृतौ परिवर्तनम्। इदं कियत् कष्टकरम् अनिश्चितं चेति सर्वैः अनुभूतमेव। रामनामोच्चारणस्य हेतुः स्थूलसूक्ष्मातीत्वेन भवितव्यः। इत्युक्ते सर्वथा परिपूर्णं गृहम् एकैकं वस्तु निक्षिप्य रिक्तं करणीयम् इति एतादृशं भवेत्। एतं विषयं कर्तुकामः सहजं कर्तुं शक्नोति। अतः सेवासेवेति भणित्वा सेवाप्राप्तिः यथा दुर्लभा तथा राम राम इति जपेन रामप्राप्तिः निश्चिता। अतः रामरामजपेन रामप्राप्तिः कथं भवेदिति शङ्कां विना रामरामेति जपनीयम्। मनसः सर्वदुःखानां कारणं देहबुद्धिः। तां नाशयितुमेकम् एव उपायः वर्तते। प्रेम्णा भगवन्नामस्मरणं कर्तव्यम्। तेन सर्वः मलः निर्गच्छेत्। नामस्मरणमेव रामस्य मेलनं कारयेत्। चित्ते तथा आर्तता भवेत्। अहंभावं त्यक्त्वा परमात्मनः भवितव्यम्।

*** यः नामजपं करोति तस्य देहसुखदुःखयोः भानं न भविष्यति। सः आनन्देन एव तिष्ठेत्।***

[सम्पाद्यताम्]

नाम तथा च भगवान्।

[सम्पाद्यताम्]

रामरामेति जपेन रामः कथं प्राप्येत इति प्रश्नः निरर्थकः। प्रत्युत रामरामेति जपं विना रामप्राप्तिः अशक्या एव इति वक्तुं शक्यते। व्यवहारे अपि अस्माकम् एषः एव अनुभवः। चिन्तयन्तु, कञ्चित् ग्रामं गन्तुकामाः वयं स्थानकं गत्वा गन्तव्यस्थानस्य वर्णने कृते सति अपि अभिधानं वक्तुम् असमर्थाः कथं वा चिटिकां प्राप्नुमः? प्रत्युत ग्रामवार्ताज्ञानाभावे अपि नाममात्रज्ञानेन चिटिकां प्राप्य वयं ग्रामं गन्तुं शक्नुमः। इत्युक्ते स्थानं जानन्तः वयं नाम विस्मृत्य स्थानं न प्राप्नुमः। एतेन एकं स्पष्टं भवति यदन्यत् सर्वं कृतं परं नाम न जपितं तर्हि न लाभाय। अतः नामजपनमेव अनिवार्यम्। नाम्ना भगवत्प्राप्तिः भवेदिति विश्वासः आवश्यकः। भगवन्नाम्नः आवश्यकता प्रकारद्वयेन विद्यते। प्रपञ्चस्वरूपं ज्ञातुं भगवत्प्राप्त्यर्थं च। उदरपूर्णं भोजनं दारपुत्रगृहादि इति एतस्मिन् सर्वस्मिन् सत्यपि चिन्ताकुलता किमर्थं विद्यते इति वयं न जानीमः। एतस्य अर्थः दुःखस्य मूलं क्व वर्तते इति न जानीमः। तद् अवगन्तुं भगवन्नामजपः अपेक्ष्यते। भगवतः सिषाधयिषा भवेत् तावत् नामजपः अपेक्ष्यते। अथ भगवन्तं विना न कः अपि आधारः इति विचिन्त्य नामस्मरणं कर्तव्यम्। अन्ततः भगवद्दर्शनानन्तरं नामजपः अभ्यासेन सहजः भवति। आहत्य आमूलचूलं भगवन्नाम एव अवशिष्यते। नामजपितरि तस्य अनुसन्धानकर्तरि भगवज्जिज्ञासा सहजम् उद्भवेत्। नाम्नः कृते नाम जपन्तु। तेन तस्मिन् रामः वर्तते इति ज्ञायेत। नामस्मरणे यत् भविष्यति तत् समीचीनं कल्याणकरं च इति विश्वसन्तु। भगवन्नाम एव सच्चिदानन्दस्वरूपं सद्वस्तु। भगवन्नाम्नि यः आत्मानं विस्मरति सः जीवन्मुक्तः। यत् साधनीयं तत् एतदेव। अवशिष्टं सर्वं स्वप्नवत् ज्ञायेत। तद् अनुभूयते परं नास्ति। देहेन सह तादात्म्यं विशिष्टेन अभ्यासेन एव जातमस्ति। प्रत्युत स्वाध्यायं कृत्वा भगवच्चिन्तनं कृतं चेद् यथा साम्प्रतं देहेन तादात्म्यं वर्तते तथा भगवता सह तादात्म्यं भविष्यति।

*** उषःकाले उत्थानसमये, रात्रौ शयनसमये, भोजनात् प्राक् च नामजपः करणीयः भगवान् स्मरणीयः चेति नियतनीयम्। तद् आयुषि बहु लाभाय भवेत्।***

[सम्पाद्यताम्]

जानेवारी 13

[सम्पाद्यताम्]

नाम तथा सत्कर्म।

[सम्पाद्यताम्]

नाम सत्कर्मणः अधिष्ठानं शिखरं च। भगवत्स्मरणे कृतं कर्म सत्कर्म वर्तते। भगवन्तं विस्मृत्य कृतं कर्म कदापि सत्कर्म न भवितुमर्हति। चिन्तयन्तु, कश्चन मुखेन नामोच्चारणमात्रं कुर्वन्, मनसा भगवत्स्मरणं न करोति। तथापि तस्य रामोच्चारणक्रिया सत्कर्म भवितुमर्हति किम्? वस्तुतः नाम्नः स्वतःसिद्धत्वात् ज्ञात्वा अज्ञात्वापि तस्य उच्चारणं सत्कर्म वर्तते। यतो हि यत्र मम नाम तत्राहं पुरुषोत्तमः इति प्रभुवचनमेव वर्तते। अतः नामोच्चारणं भगवान् च न भिन्नौ। मुखेन नामोच्चारणकर्तुः अवधानं भगवन्तं प्रति भवेत्, न भवेत् वा, तस्य इदं कृत्यं सत्कर्म एव वर्तते। इतरकर्माणि नामजपनम् च एतयोः एषः एव भेदः यत् इतरकर्मसु पूर्णत्वं सत्यत्वं वा नाम्ना आयाति। प्रत्युत नाम अपूर्णत्वम् एकत्रं न भवितुमर्हतः। अतः नाम भगवत्स्मरणे जपितं वा नेति प्रश्नः एव न उद्भवति। किं बहुना नाम मुखम् आयाति चेत् सत्कर्माणि एव भवन्ति। पुत्रः जातः चेत् स्तन्यस्रवणं पुत्रस्य लालनं तस्मिन् प्रेम च सहजं विना पाठनं भवन्ति। तद्वत् नामजपितुः सत्कर्मविषये स्थितिः भवति। इतः अपि यदि मातरं वदामः यत् पुत्रः भवत्याः समीपे भवतु, परन्तु तस्मिन् न प्रीणातु. तर्हि तस्याः कृते तद् अशक्यं तद्वत् नामजपिता सत्कर्माणि परिहर्तुं न शक्नोति। सत्कर्माणि तदा एव फलन्ति यदा नामोच्चारणम् आरभते। परमात्मना कथितं यद् भवान् मदीयः भवितुम् इच्छति नु? अथातः प्रपञ्चम् अतिदक्षतया करोतु। प्रयत्ने न्यूनता न भवेत्। परं फलदाता ‘अहमेव अस्मि’ इति मनसि निदधातु। प्राप्तायां परिस्थित्यां समाधानं न दूषयतु। मया दत्तम् औषधिं स्वीकरोतु। सः भवन्तं सर्वरोगमुक्तं कुर्यात्। सः औषधिः वर्तते मम नामजपः। तस्य नामजपस्य भवन्तः अभ्यासं कुर्वन्तु। भवन्तः सर्वे निश्चिन्वन्तु यन्नाम विना जीवनं न अर्थपूर्णम्। नाम विना जीवनमेव मास्तु इत्यहं मनसा मन्ये। नामनिष्ठा कथं कार्यं करोतीति निष्ठया नामजपिता एव जानीयात्। नामप्रेम यस्य वर्तते तस्य पृष्ठे परमात्मा वर्तते इति पूर्णसत्यं, सत्यं, त्रिवाण्या सत्यं च कथयामि। प्रेम्णा, मनसा च नामजपं कुर्वन्तु। एकवारं वा तम् आर्ततया ‘हे राम’ इति आह्वयन्तु येन भगवान् भवद्भिः मेलितुमिच्छेत्।

***सत्कर्मान्तः भगवन्नामप्रेमोत्पन्ने वर्तते।***

[सम्पाद्यताम्]

जानेवारी 14

[सम्पाद्यताम्]

न नामजपं किमपि अवरुणद्धि।

[सम्पाद्यताम्]

वयं पश्यामः यद् नामजपने प्रेमोद्भवार्थम्, एकैकं सत्कर्मकरणं सुकरम् अथ वा सर्वसत्पुरुषाणाम् विमर्शेण, आर्ततया च कथनानुसारं बलेन नामजपनं सुकरम्? चिन्तयन्तु, कस्मिश्चित् यन्त्रे बहूनि चक्राणि सन्ति। यन्त्रचालनम् अभीप्सितम्। एकचक्रचालनेन यन्त्रचालनं न शक्यम्। सर्वचक्रसम्बन्धिनः पिञ्जस्य नोदनेन यन्त्रम् अत्यल्पप्रयासेन विनावरोधं च चलेत्। तद्वत् नामजपेन सर्वसत्कर्मचक्राणि भ्रमेयुः, कार्यं निश्चयेन सहजतया च आरभेत, अतः यः निश्चितं सहजं यशः इच्छति, सः कथमपि नामजपम् आरभेत। एकवारं नामजपस्य निश्चयः भवति चेत् कथमपि तेन नामजपः आरभणीयः। निश्चये सति न कः अपि विघ्नः अवरुणद्धि। व्यवहारे अपि वयं पश्यामः यत् कस्यचित् असमर्थनीयस्य विषयस्य सङ्कल्पः कृतः चेद् मनुष्यः तं करोति एव। अथातः नामजपनिश्चयः किमर्थं कृतिरूपं न भवेत्? किमपि कुर्वन्तु परमन्तः नाम विना न पर्यायः विद्यते। अतः तत् कर्तुं विलम्बः किमर्थम्? अतः सर्वथा निःशङ्कतया नामजपः करणीय़ः। येन केन प्रकारेण नामस्मरणं करणीयम् इति उत्तमम्। अतः वृथा समययापनेन पश्चात्तापः न भवेत्। जगत् नैकैः मोहकवस्तुभिः पूर्णं वर्तते। दृष्टमात्रेण श्रुतमात्रेण अपि तानि वस्तूनि इच्छामः। तानि प्राप्तुं प्रयतामहे। अतः देवं प्रार्थयामहे, ‘ हे देव, मां मोहकवस्तूनि मा दर्शय। यतः हि तानि अहम् इष्यामि, वञ्चितः भवामि च। देव, मम हितकरमेव मया द्रष्टव्यम्। तदेव मया श्रोतव्यं, स्मर्तव्यं च। मह्यं तदेव रोचितव्यम्।’ प्रह्लादद्रौपद्यादिभिः भक्तैः देवः किं याचितः? तदेव अस्माभिरपि याचनीयम्। तेषां यथा निष्ठा तथा अस्माकमपि भवेत्। तेषां यथा वैराग्यं तथा अस्माभिः अपि प्राप्तुं प्रयतनीयम्। आदौ प्रमादाः भविष्यन्ति, परं तदर्थं पश्चात्तापः भवेत्। ‘देव, मया बहु प्रमादाः कृताः। अहमपराधी। क्षम्यताम्। मां भवतः कृपापात्रं कुरु।’ अवितथं पश्चात्तापः भवति, चेत् रामः क्षमते एव। मुखेन नाम उच्चारणीयम्। हस्ताभ्यां प्रपञ्चकार्याणि करणीयानि। अन्तःकरणे समाधानं विधातव्यम्।

*** नामजपितुः मनसः बहिः धावनं शनैः शनैः मन्दायते।***

[सम्पाद्यताम्]

जानेवारी 15

[सम्पाद्यताम्]

नामस्मरणे भूयते चेदेव जागृतावस्था वर्तते।

[सम्पाद्यताम्]

मद्यपानां सम्मेलने सर्वे मद्यमत्ता सन्ति। यदि कश्चन मद्यविहिनः तत्र वर्तते, तर्हि तं ते ‘भानरहितः’ इति वदन्ति। वस्तुतः सः एकः एव जागृतः, अन्ये सर्वे भानरहिताः। तद्वद् वयं सर्वे विषयाधीनाः, एनं ‘नामस्मर्तारः एषः भानरहितः’ इति वदामः। वस्तुतः नाम विना जगति न सत्यं वर्तते इति यस्य दृढा भावना सः एव जागृतः। वयं भ्रमे स्मः। एतं भ्रमं नाशयितुं त्रयः उपायाः विद्यन्ते। सद्विचारः सत्सङ्गतिः नामस्मरणं च। भगवद्विचारः एव सद्विचारः। कमपि जनं वयं वदामः यत् त्वम् अवयवान् वर्णं च विना आयाहि तर्हि सः आगन्तुं न शक्नोति। यतो हि यत्र सः वर्तते तत्रैव तस्य अवयवाः वर्णश्च वर्तन्ते। तथैव नाम, सत्पुरुषाः, भगवान् च संलग्नाः सन्ति। तेन यत्र नाम वर्तते तत्र सत्सङ्गः भगवान् च वर्तेते एव। वत्सं नयामः चेत् गौः अन्वायाति तथा भगवान् नामानुवर्तते। ‘साम्प्रतम् एतावन्ति यन्त्राणि गवेषितानि तथा भगवत्प्राप्त्यर्थं सत्पुरुषैः किमपि यन्त्रं न गवेषितं खलु?’ इति कस्यचित् मनसि प्रश्नः आयाति चेत् तस्य उत्तरं सरलम्। एतादृशं यन्त्रं सत्पुरुषैः गवेषितम्। तस्य नाम वर्तते ‘रामनाम’। इदं यन्त्रं सर्वैः लभ्यते, सर्वे उपयोक्तुम् अर्हन्ति, तन्न कदापि मलिनीभवति। भक्तः भगवान् नाम च त्रयम् एकरूपम्। यत्र नाम तत्र भक्तः, तत्रैव भगवान्। अतः नाम सर्वेभ्यः श्रेष्ठम्। तन्नाम अनन्यत्वेन जपामः। प्रणाले जलं वहति तत् अतिमलिनं वर्तते। तदेव जलं नदीं प्राप्नोति। नदी सागरेण मिलति। सागरः सर्वान् आत्मसात् करोति। तद्वत् कियान्नपि पापी, दोषी, अपराधी वा जनः भवेत् तेन नामनद्याः आश्रयः कृतः चेत् सः रामसागररूपः भवति। भगवत्विस्मरणं महत्तमं पापम्। नाम्ना भगवत्स्मरणं भवति अतः नाम्ना पापं नश्यति। अनाथः इति शब्दः नाथं विना न वर्तते तथैव नाथाय, अनाथं विना नाथत्वं न लभ्यते। रामः सर्वेषां नाथः। तस्य अखण्डस्मरणं वयं कुर्मः। प्रपञ्चः वनवाससमं वर्तते। रामस्मरणे प्रपञ्चापदः दुःखानि च तृणवत् भविष्यन्ति।

***भवन्तः नामस्मरणं कुर्वन्ति चेत् सत्पुरुषान्वेषणं नापेक्षते। सत्पुरुषाः एव भवन्तम् अन्विषन्तः आयान्ति।***

[सम्पाद्यताम्]

जानेवारी 16

[सम्पाद्यताम्]

नामस्मरणार्थम् एव नामस्मरणम्।

[सम्पाद्यताम्]

नाम निस्सरणीसदृशं वर्तते। निस्सरण्यां तृणं न वर्धते, परं पादं निस्सरति। तद्वद् नाम स्वात्मनि उपाधिं न अनुमन्यते। तत् किमपि साधनं नापेक्षते। रोगी-नीरोगः सुज्ञः-अज्ञः, श्रीमन्-दरिद्रः, कनीयान्-ज्यायान्, स्त्री-पुरुषः, जाति-गोत्रं च इति एतेषु कथमपि भवति चेत् समस्या न वर्तते। नाम विना अन्यसाधनार्थं शक्तिः, बलं, धनं वा किमपि अपेक्ष्यते। एतादृशम् अत्यन्तम् उपाधिरहितं नाम अस्माभिः उपाधिरहिततया जपितं चेत् तस्मिन् प्रेम उत्पद्यते। उपाधिं विना इत्युक्ते नामस्मरणं केवलं नामस्मरणार्थम् एव, स्वकल्याणार्थम् एव, जगति अन्यस्य कस्यापि कृते च न जपनीयम्। सकामबुद्ध्या जपितं चेद् इष्टकार्यमपि न सिद्ध्यति, स्वकल्याणमपि न भवति। सकामनामजपनं कियत् असमीचीनं तत् वक्तुं दुष्करम्। पश्यन्तु, स्त्री पवित्रा यतः हि तस्याः उदरे देवाः सत्पुरुषाः च जनिं लभन्ते। एतादृशीः स्त्रीः बलात् अपहृत्य ताः अनीत्या पीडयित्वा धनार्जनं केचन कुर्वन्ति। कियान् निन्द्यः विषयः एषः। परं सकामनामजपनम् इतोऽपि बहुगुणितं निन्द्यं वर्तते। अतः नाम नाम्नः कृते जपनीयम्। तस्य सम्बन्धः अस्माकम् इच्छाभिः अपेक्षाभिः सह न योजनीयः। नाम नाम्नः कृते जपामः चेद् मनः अन्तर्मुखं भवति। नाम्नः साहाय्येन मनः अन्तर्मुखं कुर्मः चेद् आनन्दः लभ्यते। स्वहृदये एव सः लभ्यते। अस्माभिः त्रिषु विषयेषु सम्यक् अवधातव्यम्, - शुद्धाचरणं, नामस्मरणं, पालनकर्तुः सद्गुरोः सततभानं च। प्रत्येकं जनाय किमपि विशेषत्वेन रोचते। तस्मिन् स्थित्वा बलेन नामजपः करणीयः। आत्मज्ञानं प्राप्तुं तस्य अनुधावनं कुर्मः चेत् तन्न शीघ्रं लभ्यते। भगवन्तं ध्यायामः चेत् तत् सहजं लभ्यते। भगवतः नामस्मरणं ज्ञानस्य एव लक्षणम्। उत्तमं वस्तु स्वल्पमेव वर्तते। श्रीखण्डे जलरहितं दधि शर्करा च बहु वर्तते परं केशरं स्वल्पं वर्तते। तद्वत् नाम अपि प्रतिदिनं स्वल्पं, परं मनःपूर्वकं प्रतिफलापेक्षां विना जपामः चेत् तद् बहु कार्यं कुर्यात्। भगवान् सर्वसत्ताधीशः वर्तते। परम् एकस्मिन् विषये स पङ्गुः भवति, सहजं जाले निपतति च। भृङ्गः यथा काष्ठं कर्तयति, परं कमले आत्मानं बध्नाति तथा नामविषये भगवतः भवति।

*** यथा जलं शरीरस्य जीवनं तथा नाम मनसः जीवनम्।***

[सम्पाद्यताम्]

जानेवारी 17

[सम्पाद्यताम्]

नाम अन्यसाधनानि च।

[सम्पाद्यताम्]

नवविधाभक्त्याः श्रवणं, कीर्तनं, विष्णुस्मरणम् इत्यादिः क्रमः सृष्टिक्रमानुसारं वर्तते। मनुष्यप्राणी जातः चेत् श्रवणेन पठनारम्भं करोति। मूकाः जनाः श्रवणहीनाः स्युः। यतो हि श्रवणहीनत्वेन हि ते वक्तुं न शक्नुवन्ति। मनुष्यः यत्र जनिं प्राप्नोति तत्रस्थां भाषां वदति। अतः श्रवणानन्तरं कीर्तनम् इत्युक्ते भाषणं तथा भाषणानन्तरं कृतिः इत्युक्ते नामस्मरणम् इत्येषः क्रमः विद्यते। नामस्मरणम् आरब्धं चेत् अस्माकं कार्यं जातं यतो हि अग्रिमाः सर्वाः भक्तयः नामस्मरणे विद्यन्ते। तासां कृते भिन्नाः प्रयत्नाः नापेक्षन्ते। कश्चन जनः अन्येन जनेन मेलितुं नवमैलपरिमिते अन्तरे अवस्थितं स्थानं गन्तुं प्रस्थितः। परं त्रिमैलान्तरे एव स मिलितः। अतः कार्यं जातमिति मत्वा सः अग्रे न गच्छेत्। तद्वत् तृतीयां नामस्मरणभक्तिं कृत्वा अग्रिमानां षड्भक्तीनामपि फलं लभ्यते। भगवत्स्मरणे सर्वस्वं वर्तते इति मनसि दृढं भवतु। भगवत्स्मरणं कथं वर्तते? अन्ये सर्वे विषयाः, सर्वाणि सत्कर्माणि, दानधर्मः, तीर्थयात्रा, पारायणम्, इत्यादयः विषयाः इन्द्रियसदृशाः सन्ति। एते यदि इन्द्रियाणि इति मन्यते तर्हि भगवत्स्मरणं प्राणः वर्तते। प्राणं विना इन्द्रियाणां न कः अपि उपयोगः। अतः नामस्मरणं प्राणं मत्वा भवन्तः प्रपञ्चे सुखिनः भवन्तु। कर्तव्यात् मा प्रमत्त। कर्तव्ये भगवन्तं स्मरन्तु। मुखे रामः भवतु। भक्तेन उपाधिः अत्यल्पः, यथावश्यकम् एव रक्षणीयः। भगवदनुसन्धानं न विस्मरेत् तावान् एव उपाधिः भवेत्। तथैव यावत् जीर्येत् तावत् एव इत्युक्ते यावत् आनन्देन भवेत् तावदेव नामस्मरणं कुर्यात्। कष्टेन न कुर्यात्। यतो हि तेन आनन्दः न भवेत्। नामजपे प्रेम आवश्यकम्। अतः नाम अतिप्रेम्णा, तद्विना किमपि न साधनीयम् इति मत्वा जपनीयम्। तेन तस्मिन् प्रेम भवेत्। नामजपे प्रेमोद्भवः इति अत्युच्चावस्था वर्तते। सा सहजं न लभ्यते। अस्मिन् विद्यमानं रहस्यं ज्ञात्वा योग्यपद्धत्या सातत्येन नामस्मरणाभ्यासः करणीयः। ‘भगवन्नाम विना किमपि न जानामि’ इति यस्य भावना तेन सर्वं ज्ञातम्।

***नामस्मरणं कर्तुं बुद्धिः भवति चेत् कार्यं जातम्।***

[सम्पाद्यताम्]

जानेवारी 18

[सम्पाद्यताम्]

नामजपः निष्ठया करणीयः।

[सम्पाद्यताम्]

नाम श्रद्धया जपनीयम् इत्युक्ते किम्? स्वगुरुणा, पूज्यजनेन वा कथितम्, अतः जपनीयम्। एतया श्रद्धया नामजपितुः मनसि शङ्का न वर्तते। एषा अवस्था भाग्यवती, परं दुर्लभा। निष्ठया नामजपनम् इत्युक्ते शङ्कां विना नामजपनम्। शङ्काः बहुविधाः भवन्ति। नामजपसमये भगवन्तं प्रति ध्यानं न भवति चेत् लाभः भवति वा न, आसनं किं भवेत्, दृष्टिः कथं भवेत्, शुचिर्भूतत्वेन जपः भवेत् वा न, इति एतादृश्यः नैकाः शङ्काः भवन्ति। सारांशेन अस्माभिः जपितं नाम भगवन्तं प्रति प्राप्नोति वा न इति अस्यां शङ्कायां सर्वाः शङ्काः समाविष्टाः भवन्ति। भगवान् तस्य नाम एकरूपमेव वर्तते, अतः तयोः मध्ये किमपि न भवितुम् अर्हति। कस्यचिद् मनुष्यस्य पृष्ठतः अनुधावद्भिः अस्माभिः तस्य नाम उच्चारितं चेत् सः तत्कालं परिवृत्य पश्यति। यदि मनुष्यस्य एषा स्थितिः तर्हि भगवन्नाम तं पर्यन्तं कथं न प्राप्नुयात्? वस्तुतः भगवन्नाम तस्य कृपया एव अस्माकं मुखम् आयाति। इत्युक्ते तस्य नाम सः एव जपति। अतः भगवन्नाम तं पर्यन्तं प्राप्नोति वा न वा इति अस्याः शङ्कायाः कृते कः अवसरः? चिन्तयन्तु, द्वौ जनौ भोजनं कुरुतः। एकस्य मनसि विद्यमानां केषाञ्चन विचाराणां कारणेन भोजने अवधानं न आसीत्। परं हस्तेन एकैकं कवलं मुखे स्थापयन् आसीत्। अपरः ध्यानपूर्वकं भोजनं कृतवान्। भोजनानन्तरं रिक्तोदरः कः? द्वावपि पूर्णोदरौ। तद्वद् नामजपनानन्तरं परिणामः कथं न भवेत्? चिन्तयन्तु, ग्रामान्तरात् कञ्चन अपरिचितं जनं वयं पत्रेण आहूतवन्तः। आगत्य स वदति, ‘भवद्भिः यं प्रति पत्रं लिखितं सः एव अहम्।’ तस्य वचने विश्वस्य वयं तं स्वीकुर्मः। तथैव ‘यत्र मम नाम तत्र अहं पुरुषोत्तमः।’ इति एतस्मिन् भगवद्वचने विश्वस्य नामजपनं, तस्मिन्नेव तस्य दर्शनं च किमर्थं कर्तुं न शक्नुमः? एषा एव श्रद्धा। जनकस्य नाम वयं स्वनाम्नि योजयामः तद्वद् भगवद्विषये कुर्मः। तस्य नाम्ना जीवामः। मम सर्वकर्ता रक्षकः एकः एव, तं विना जगति मम न कोऽपि इति अनया भावनया जीवामः। एतादृशः यः भगवतः भूत्वा वर्तते, तस्य महत्त्वं भगवान् स्वापेक्षया वर्धयते।

*** नाम्ना भगवत्प्राप्तिः भवेत् इति विश्वासः भवेत्। एतादृशः नामजपः ‘निष्ठापूर्वकं नाम’ इति ख्यातः।***

[सम्पाद्यताम्]

जानेवारी 19

[सम्पाद्यताम्]

नाम प्रारब्धभोगाः च।

[सम्पाद्यताम्]

नाम्नः प्रारब्धेन कथं सम्बन्धः इति बहवः जनाः पृच्छन्ति। एकया दृष्ट्या एषः प्रश्नः अतिमहत्त्वपूर्णः। सामान्यतः बहवः जनाः प्रारब्धं परिहर्तुं नामजपं कुर्वन्ति। देहस्य सुखदुःखं ममैव सुखदुःखम् इति ते मन्यन्ते। किं बहुना देहः सुखी तर्हि अहं सुखी, देहः दुःखी तर्हि अहं दुःखी इति सामान्यजनः चिन्तयति। अस्तु, प्रारब्धभोगात् न कः अपि मुञ्चति। अतः कथं करणीयम्? अत्र धातव्यं यत् प्रारब्धभोगानां गतिः देहपर्यन्तम् एव भवति। अतः येषां देहबुद्धिः न्यूना जाता, ते देहस्य सुखदुःखैः न पीड्यन्ते। नामजपेन देहबुद्धिः न्यूना भवति। तेन नामस्मर्ता प्रारब्धभोगान् भुञ्जन् अपि आनन्देन जीवति। नामस्मरणानन्दे सः प्रारब्धभोगान् तृणवत् मन्यते। नामजपस्य सामर्थ्यम् अतिविलक्षणम्। अतीतान् अपराधान् नामजपः नाशयति। भ्रष्टजीवान् सः त्रायते। नामजपः सर्वासां प्रार्थनानां, सेवानां, पूजानां च राजा वर्तते। आनन्दमयस्य भगवतः सन्निकर्षः नामजपेन लभ्यते, तस्य कृपा अपि अविलम्बेन लभ्यते च। किं बहुना ये भगवत्कृपां लभन्ते तेषाम् एव मुखेन नामोच्चारणं भवति। सर्वेषु समयेषु, सर्वेषु स्थानेषु, सर्वासु अवस्थासु च केनापि कर्तुं सुलभं नाम एव साधनं वर्तते। अत्यल्पेन उपाधिना, निरुपाधिकेन भगवता सम्बन्धं योजयितुं नामसदृशं साधनं न वर्तते। कियद्भिः प्रकारैः कथयामि खलु? अखण्डनामजपे अवस्थानं मोक्षः एव। अखण्डनामजपे अवस्थानमेव पराभक्तिः। यः नामजपे आसक्तः सः एव सत्पुरुषः। नामजपे प्रेम एव सत्पुरुषलक्षणम्। अतः मम इदमेव श्रुण्वन्तु यत् नामस्मरणं कदापि न विस्मरन्तु। प्रारब्धभोगैः जामिताः न भूत्वा भगवता यस्यां स्थित्यां स्थापिताः तस्यां समाधानं मन्यन्ताम्। परं कदापि नामजपं न विस्मरन्तु। नाम्ना पापिनः पुण्यवन्तः भवन्ति। देहबुद्धिक्षयः एव पुण्यम्। तन्नामजपेन लभ्यते। नामजपेन कलेः प्रभुत्वं नश्यति। विषयवासनाभिः दुर्वासनाभिः वा बुद्धिभ्रष्टत्वं कलेः मुख्यलक्षणम्। नामजपेन तस्य मूलाघातः भवति। अतः नामधारकः कलिना न बाध्यते, प्रारब्धं न गणयति च। नामजपः शरीरं पुण्ययुतं करोति। यस्य अन्तःकरणे नाम वर्तते तत्र भगवदागमनेन शरीरे सत्वगुणः वर्धते, तेन तत् पुण्ययुतं भवति च। देहं प्रारब्धे संस्थाप्य तस्मात् भिन्नं भूत्वा यत् वर्तते तस्मिन् आनन्देन स्थातव्यम्। भोगाः प्रारब्धेन आयान्ति इति न चिन्तयित्वा भगवदिच्छया आयान्ति इति मन्यते चेत् समाधानं लभ्यते।

***भगवन्तं स्मृत्वा यत् योग्यं तत् तस्य इच्छया एव इति मत्वा कार्यं करणीयम्। यः एतादृशं करोति सः समाधानं प्राप्नोति।***

[सम्पाद्यताम्]

जानेवारी 21

[सम्पाद्यताम्]

नाम्नः अनुभवः।

[सम्पाद्यताम्]

नाम्नः अनुभवः कः? नाम्नः अनुभवः नाम विना अन्यत्र न द्रष्टव्यः। इत्युक्ते नाम विना किमपि प्राप्तव्यम् इति कल्पनापि न भवेत्। नाम मुखम् आयाति इति एव नाम्नः अनुभवः। यावता मानेन नामस्मरणं भवति तावता मानेन नाम अनुभूतम् इति मन्तव्यम्। अखण्डं नामस्मरणं भवति चेत् पूर्णानुभवः प्राप्तः। नामस्मरणं कारं कारं चित्तम् एकाग्रं भवति। देहबुद्धिं विस्मृत्य नामस्मरणम् इत्युक्ते निर्गुणेन भवितव्यम्। ‘कः अहम्’ इति कथं ज्ञातव्यम्? ‘कः अहम्’ इति अवगन्तुं जडेन इत्युक्ते वाण्या नामस्मरणम् आरभणीयम्। अखण्डोच्चारः प्रयतनीयः। अनन्तरं तद् मनसः अन्तः भवति। आरम्भे स्वप्रयत्नेन मनसः नामाभ्यासं न कारयेत्। यतो हि तत् बहु दुष्करम्। नामस्मरणं कुर्वन् देहविस्मरणानन्तरं ‘कः अहं’ ‘कः देवः’ च इति सहजं जानीयात्। भगवन्नाम्नि आसक्तः चेत् दुःखभानं न्यूनायते। दुःखस्य अभाने सति दुःखेन वर्तमानेन अपि किम्? कृष्णरात्रौ यथा यष्टेः आधारः तथा प्रपञ्चे नाम। यष्ट्याधारेण खातगर्ताः परिह्रियन्ते तद्वद् मोहलोभादयः याः प्रापञ्चिकसमस्याः नामजपेन ज्ञायन्ते, परिह्रियन्ते च। अग्निसमीपे घृतं द्रवीभवति तथैव नामचूल्ल्याम् अभिमानः क्षीयते एव। एषः एव नामानुभवः। परं जना नामविषये न श्रुण्वन्ति। ये श्रुण्वन्ति ते दृढं न धारयन्ति। मननं न कुर्वन्ति। मननं कृत्वा ये स्वीकुर्वन्ति ते नामस्मरणं न कुर्वन्ति। समस्याः उद्भवन्ति चेदपि नामस्मरणं शक्यम्। अतः निमित्तानि न कथनीयानि। निमित्तकथनेन धूर्तता उत्पद्यते। धूर्ततया अलसः उद्भवति। अलसेन सर्वनाशः भवति। प्रतिदिनम् जागरणानन्तरं भगवत्स्मरणस्य नियमः करणीयः। स्नानादिं कृत्वा स्मरणं कुर्मः चेत् उत्तमं, परं तदर्थं न स्थातव्यम्। भगवत्स्मरणं मुख्यम्। अखण्डनामस्मऱणार्थं शौचाशौचबन्धनं न वर्तते। अखण्डस्मरणं शौचमेव। कापि उपासना भवेत् नामस्मरणं विना सा न जीर्यते। महत्त्वं नामजपस्य वर्तते। अन्नं भिन्नदेशे भिन्नं भवति परं तत् जरयितुं जलं सर्वत्र समानमेव। जलं विना अन्नं न जीर्यते। तद्वत् उपासनारूपम् अन्नं जरयितुं नामरूपं जलम् अपेक्ष्यते। अतः नाम्ने महत्त्वं दत्त्वा सततं नामजपस्य अभ्यासः करणीयः। कथमपि प्रसङ्गः भवेत् नामस्मरणं न त्यक्तव्यम्। ततः एव परमात्मा हस्तलम्बं करिष्यति।

*** नाम जपितुं स्वस्य एव बाधा वर्तते। तां दूरं कुर्मः चेत् नामानुभवः आयाति।***

[सम्पाद्यताम्]

जानेवारी 22

[सम्पाद्यताम्]

भवसागरम् उत्तर्तुं नाम एव साधनम्।

[सम्पाद्यताम्]

नाम स्वयंसिद्धं वर्तते। अतः तत् अत्यन्तम् उपाधिरहितम्। नामजपसमये वयं बहुवारं तेन उपाधिं योजयामः। उदाहरणार्थम् ऐहिकसुखप्राप्त्यर्थं वयं नामजपं कुर्मः वा ‘अहं नामजपं करोमि’ इति अहंकारं धरामः वा। एतेन उपाधिकारणेन अस्माकं विकासपथे बहवः विघ्नाः आयान्ति। अतः नाम्नः कृते एव नामस्मरणं करणीयम्। तदपि सद्गुरुः एव अस्मत् कारयति इति अनया भावनया करणीयम्। तेन अहंकारनाशेन शरणागतिः लभ्येत। शरणागतेः प्राप्त्यर्थं रामनाम एव उपायः। सः अस्माभिः आचरणीयः। सः उपायः अवश्यम् आचरणीयः। नाममहिम्नः भाषणं वचसा दुष्करम्। परमिदं कथयितुं वक्तव्यं भवति एव। मनुष्यप्राणी भवसागरे निमज्जन् वर्तते। समुद्रात् तरणाय यथा नौका तथा भवसागरात् उत्तरणाय भगवन्नाम साधनं वर्तते। केवलमेका दक्षता आवश्यकी यत् नौकां समुद्रजलं न प्रविशेत्त्, अन्यथा वयं नौकया सह निमज्जेम। तद्वत् संसाररूपसमुद्रजलं नामस्म्ररणरूपां नौकां न प्रविशेत्। इत्युक्ते केनापि प्रापञ्चिकेन विघ्नेन नामजपे विक्षेपः न आगच्छेत्। तथैव नामस्मरणस्य उपयोगः संसारविघ्नान् अपाकर्तुं न करणीयः इति बुद्धिं धृत्वा नामस्मरणार्थमेव नामस्मरणं करणीयम्। तेन नौकायां जलप्रवेशं विना अपरं तटं इत्युक्ते भगवन्तं प्राप्तुं शक्नुमः। कः अपि विषयः अभ्यासेन एव लभ्यते। देहः कदा शान्तः भवेदिति न जानीमः। अतः वृद्धत्वे नामस्मरणं करिष्यामः इति न वक्तव्यम्। श्वः आरभ्य नामस्मरणं करिष्यामि इति वदामः चेत् श्वस्तनस्य कः विश्वासः? आयुः क्षणिकं वर्तते इति प्रत्येकं जनस्य विश्वासः, अतः एव मनुष्यः आयुविर्मां नियोजयति। विवाहमागताः प्राहुणिकाः कार्यसिध्दिर्विषये चिन्तां न कुर्वन्ति। परं गृहजनानां सा चिन्ता वर्तते। अस्माकं प्रपञ्चे वयं प्राहुणिकसदृशाः व्यवहरामः। देहादिकं सर्वं रामाय समर्प्य निश्चिन्ताः भवामः। सुवर्णमौक्तिकाभूषणयुता श्रीमती महिला भवेत्, लघ्वाभूषणधृता मध्यमा स्त्री भवेत् रौप्यपादाङ्गूलीयकमङ्लसूत्रमात्र धरन्ती निर्धना स्त्री वा भवेत्सर्वासां कृते कुङ्कुमं समानम्। तथैव केनापि भेदेन विना नाम सर्वेषां कृते समानमेव साधनं वर्तते। सूर्यः प्रकाशमात्रं ददाति। परं तेन अन्धकारः सहजं नश्यति। तथा एव नाम भगवत्प्रेम वर्धयते। तेन अस्माकं दोषाः सहजं निलीयन्ते। भगवदस्तित्वं यदा मनसा स्वीक्रियते, वा भगवत्कर्तृत्वम् अधिकाधिकम् अनुभूयते च तदा परमार्थे अस्माकं उन्नतिः जाता इति मन्तव्यम्।

***जीवनार्थं यथा श्वासोच्छ्वासः अपेक्ष्यते तथा भगवन्मेलनार्थं प्रत्येकं श्वासोच्छ्वासेन सह नामस्मरणम् अपेक्ष्यते।***

[सम्पाद्यताम्]

जानेवारी 23

[सम्पाद्यताम्]

नामस्मरणक्षेत्रस्य निभालनम्।

[सम्पाद्यताम्]

नामस्मरणरूपात् क्षेत्रात् उत्तमं सस्यं प्राप्तुम् आदौ सदाचरणम् अपेक्ष्यते। सदाचरणं क्षेत्ररक्षणार्थं वृतिसदृशं वर्तते, अतः तस्य महत्त्वम्। अपरं शुद्धान्तःकरणम्। शुद्धान्तःकरणम् इत्युक्ते उत्तमा कृष्णा भङ्गुरा भूमिः। अश्मनः, निरुपयुक्तान् वनस्पतीन् च निष्कास्य भूमिः स्वच्छा करणीया। इत्युक्ते अन्तःकरणे कस्यापि विषये द्वेषः, मत्सरः इत्यादय़ः न रक्षणीयाः। शुद्धान्तःकरणानन्तरं नामस्मरणस्य महत्त्वं वर्तते। नामस्मरणं भूम्यां वपितुं बीजं वर्तते। बीजं कीटजुष्टं न स्यात्। इत्युक्ते नाम सकामं न भवेत्। उत्तमं बीजम् इत्युक्ते नाम्नः कृते नाम। तदनन्तरं तीर्थयात्रा, सत्पुरुषाणाम् आशीर्वादाः, तेषां कृपादृष्टिः च इति एतेषाम् आवश्यकता वर्तते। एते सर्वे विषयाः कुल्याजलसदृशाः। एतेन सस्यं सम्यक् फलेत्। अन्तिमः महत्त्वपूर्णः विषयः वर्तते भगवत्कृपा। भगवत्कृपा वृष्टिजलसदृशी। कुल्याजलापेक्षया वृष्टिजलं विलक्षणमेव वर्तते। वृष्टिः न अस्माकं हस्ते। कुल्याजलं वापीतः तडागात् नद्याः वा नेतुं शक्यते। परं वृष्टिविषये कः अपि किमपि कर्तुं न शक्नोति। तस्मात् यद्यपि कश्चन क्षेत्रपालनं सम्यक् करोति, उत्तमं बीजं वपति, तथापि वृष्टेः अभावात् सस्यविहीनः भवितुमर्हति। नामस्मरणरूपस्य क्षेत्रस्य एकं वैशिष्ट्यं वर्तते यत् तस्मिन् लोहचुम्बकसमा आकर्षिका शक्तिः वर्तते। अतः इदं क्षेत्रं भगवत्कृपारूपां वृष्टिम् आकृष्य स्वात्मनि सिञ्चति। तेन वृष्टेः अभावात् सस्यं गतम् इति कदापि न भवति। द्वौ कृषीवलौ स्तः। तयोः एकः समयेन स्वक्षेत्रं जोषयति। अपरः अलसः इत्युक्ते क्षेत्रस्य सम्यक् जोषनं न करोति। यदा वृष्टिः भवेत् तदा येन क्षेत्रं सम्यक् निभालितं तस्य सस्यं वर्धेत। परं अपरस्य न। भगवत्कृपया जातायाः वृष्ट्याः लाभः प्रथमस्य कृते भवेत्। न तु अन्यस्य कृते। इत्युक्ते यः नियमः प्रपञ्चे सः एव परमार्थे। भगवत्कृपा सर्वेषु समप्रमाणेन वर्षति। यथा यस्य चित्तशुद्धिः तथा तस्य लाभः। अन्येषां कृते न। भगवान् सत्पुरुषाः च समदर्शिनः। भगवान् निःपक्षपातः। सः भेदं न करोति। वयं सिद्धाः चेत् तस्य कृपा सहजं वर्तते एव। कृपायोग्या भावना अस्माभिः सम्पादनीया। सत्पुरुषाणां कथनमात्रं न पर्याप्तम्। किं करणीयं तत् ज्ञात्वा स्वयं करणीयं भवति। तेषु यदि वयं भेदभावनां पश्यामः तर्हि तस्याः उद्भवः अस्मासु एव वर्तते इति स्पष्टम्।

***शुद्धान्तःकरणेन नामस्मरणं कुर्मः चेत् भगवत्कृपा अनुभूयते।***

[सम्पाद्यताम्]

जानेवारी 24

[सम्पाद्यताम्]

नामसाधनं कथं कुर्यात्?

[सम्पाद्यताम्]

नामजपसाधनं कथं करणीयम्? कस्मिञ्श्चित् पाषाणखण्डे जलम् अर्पितं चेत् जलनिर्गमात् सः शुष्कः भवेत्। परं तदेव जलं बिन्दुबिन्दुरूपेण एकस्मिन्नेव स्थाने निरन्तरं पातितं चेत् पाषाणे अपि छिद्रं भवेत्। कदाचित् पाषाणः भग्नः भवेत्। तद्वत् कादाचित्कप्रदीर्घसाधनस्य अपेक्षया नित्यम्, निश्चितसमये, शक्यते चेत् निश्चिते स्थाने यदि नामसाधनम् अल्पमपि कृतं तर्हि तत्परिणामकारि भवेत्। घरट्टे द्वे चक्रे। एकं स्थिरम् अपरं चलम्। तेन धान्यस्य पिष्टं बहिरायाति। परं यदि द्वे अपि चक्रे भ्रमतः चेत् वृथा भ्रमणं भवति, धान्यं न पिष्टायते। मनुष्यस्य शरीरं मनः च द्वे चक्रे। तयोः मनः स्थिरं शरीरं चलम्। मनः परमेश्वरे स्थिरं, कृत्वा शरीरं प्रपञ्चार्थं भ्रामणीयम्। प्रारब्धं देहपर्यन्तम् एव वर्तते। प्रारब्धदण्डः देहरूपे चक्रे संयुज्य तं भ्रामयति। मनोरूपं चक्रं स्थिरं भवति च। देहः प्रारब्धे परित्यज्य मनः भगवत्स्मरणे स्थिरं करणीयम्। इतः अपि नामसाधनम् अन्यत् किम्? इदं साधनं विशिष्टस्य जनस्य एव सिद्ध्यति इति न, तत् सर्वेषां कृते सिद्ध्यति। दरिद्रस्य दारिद्र्यदुःखकारणात् न सिद्ध्यति, श्रीमतः धनाभिमानलोभयोः कारणेन न सिद्ध्यति। विदुषः विद्याभिमानकारणेन न सिद्ध्यति, अज्ञजनः किं करणीयमिति न जानाति अतः न सिद्ध्यति। साशंकतया कृतेन कियता अपि साधनेन नामस्मरणेन वा कदापि समाधानं न लभ्येत। नीतिधर्मेण आचरणं, शास्त्रशुद्धं वर्तनं, शुद्धान्तःकरणं, भगवत्स्मरणं च इति एते विषयाः भवन्ति चेत् साधकः अन्तपर्यन्तं प्राप्नोति। अन्तपर्यन्तं प्राप्नोति चेद् एव लाभः। गृहं प्राप्य पत्रं लिखतु इति वदन्ति एतस्य एषः एव अर्थः। प्रपञ्चे दुर्विचाराः मनः आयान्ति तथैव परमार्थे अपि दुर्विचाराणाम् आगमनेन न भेतव्यम्। यदा दुर्विचाराः आयान्ति तदा भगवन्नाम जपनीयं तेन तेषां वर्धनं न भवेत्। दृढविश्वासेन नामजपः करणीयः। यत्र कर्तव्यभानं भगवत्स्मृतिः च वर्तते तत्रैव समाधानं लभ्यते। ‘भगवन्, अहं तव एव’ इति अहोरात्रम् उच्चरणेन भगवान् प्रकटीभवति। भगवान् यथा प्रकटीभवति तथा अहंभावस्य भारः न्यूनीभवेत्।

***प्रारब्धस्य ग्रहाणां च गतिः देहपर्यन्तम् एव वर्तते। मनसा भगवद्भजने तेषां प्रत्यवायः न।***

[सम्पाद्यताम्]

जानेवारी 25

[सम्पाद्यताम्]

अनुसन्धानार्थं सततं नामस्मरणं करणीयम्।

[सम्पाद्यताम्]

नामस्मरणं प्रपञ्चार्थम् इत्युक्ते सः सम्यग् भवेत् तदर्थं न, अपि तु प्रपञ्चासक्तिं न्यूनीकर्तुं वर्तते। तथापि तेन प्रपञ्चः न भज्यते। यत् भविष्यति तत् स्वकल्याणार्थम् इति मत्वा परमात्मनि विश्वस्य भवेम। कश्चन गृहस्थः माम् उक्तवान्. “ रिक्तसमये अहं नामस्मरणं करोमि।” तदा अहम् उक्तवान्, “ आयुषि महत्त्वपूर्णः अर्थपूर्णः च समय एषः। तदर्थं भवान् रिक्तः कथं वदति? स अवदत्, “ प्रारब्धभोगान् वयं परिहर्तुं न शक्नुमः। ते भोक्तव्याः एव इति सर्वे सत्पुरुषाः कथयन्ति। इदं सत्यं तर्हि प्रारब्धभोगसमये भगवत्स्मरणस्य का आवश्यकता वर्तते?” सत्यः एषः प्रश्नः। स्वकर्मभोगाः अस्माभिः एव भोजनीयाः इदं सत्यम्। परं यदा भोगाः उद्भवन्ति तदा मनः क्षुब्धं भवति। यदि तत् भगवत्स्मरणे योजितं तर्हि समाधानं लभ्येत। साम्प्रतं ‘भगवदिच्छया यथा प्रवर्तते तथा सर्वं भवति’, इति, ‘भगवान् सम्यगेव करिष्यति’ इति वा विश्वासेन सर्वं सरलं भवेत्। अस्मिन् चिन्तने इदं सामान्यं तथापि महद्रहस्यं वर्तते। ‘भगवदिच्छया यथा वर्तते तथा एव वर्तनीयम्’ इति निष्ठोद्भवार्थम् भगवतः अनुसन्धानं सततम् अनुवर्तनीयम्। वर्तमाने समाधानं भगवदनुसन्धानं च इत्येषा सद्गुरोः आज्ञा। कस्यापि पीडनेन अस्माकम् अनुसन्धानं भज्यते चेत् न तस्य, एषः अस्माकं दोषः। विषयः कथं नश्येत्? मनः कथम् एकाग्रं भवेत्? इति यदि न ज्ञायते तर्हि अनुमतम्। त्यक्तव्यविषयाणाम् अभ्यासस्य अपेक्षया ध्यातव्यविषयाणाम् इत्युक्ते भगवतः अनुसन्धानस्य अभ्यासः करणीयः। भगवन्मात्रस्य अनुसन्धानं भवति चेत् सर्वे गुणाः सहजं वर्धन्ते। यथा शरीरावयवाः समप्रमाणेन वर्धन्ते तथा। वृक्षमूले जलं सिञ्चामः चेत् तस्य सर्वभागान् प्राप्नोति तद्वद् भगवत्स्मरणं कुर्मश्चेद् सर्वं सम्यक् प्रवर्तते। ‘अज्ञानान्धकारेण दुःखभोगसमये त्वं मम स्मरणम् अनुसन्धानं च कुरु, येन मार्गः प्रकाशते’ इति साक्षात् श्रीकृष्णः अर्जुनं सूचयति। दीपज्वलनार्थं तस्मिन् सततं तैलं अर्पणीयं तथा भगवदनुसन्धानार्थं सततं तस्य नामस्मरणं करणीयम्। यस्य अनुसन्धानं सततं वर्तते तस्य भोजनं, प्राशनम्, उत्थानम्, उपवेशनम् इत्यादयः सर्वाः क्रियाः भगवत्सेवाभूताः वर्तन्ते।

****भगवदनुसन्धानम् अस्माकं ध्येयम्। तदनुसारेण वयम् अन्यविषयान् कुर्मः।*****

[सम्पाद्यताम्]

जानेवारी 26

[सम्पाद्यताम्]

अन्तकालं सुन्दरं कर्तुं नामस्मरणम्।

[सम्पाद्यताम्]

देहान्ते नामस्मरणं भवति चेत् सः सुन्दरः जातः। तदर्थं पूर्वं नामस्मरणं कर्तव्यम्। देहान्तं सुन्दरं कर्तुं एव जीवेत्। यत्र भगवान् निवसति तदेव अस्माकं वास्तवं गृहम्। साम्प्रतं यस्मिन् वयं निवसामः तद् भाटकगृहम्। भाटकगृहं त्यक्त्वा स्वगृहे निवसितुं गमनसमये यथा आनन्दः भवति तथैव शरीरत्यागसमये भवेत्। भगवद्गृहम् एव अस्माकं स्वगृहम् इति विश्वासः यदा भवेत् तदा तत् शक्यम्। तदर्थं वयं सदा भगवन्नामजपे भवेम। “ मां भवान् मदीयः इति कथयतु, मम मनः भवतः चरणे समर्पितम्। अधुना मत्तः कापि भवन्तं याच्ञा न भवेत्।”इति याचनीयम्। परमेश्वरः अस्मान् परितः वर्तते इति सदा मन्तव्यम्। भगवत्स्मरणम् इत्युक्ते अस्माकं यत् वर्तते तत् तस्य इच्छया एव वर्तते इति मननीयम्। प्रपञ्चः देवस्य इति मत्वा अभिमानेन विना कुर्याम इति एव परमार्थः। परमात्मानं विना मदीयः न कः अपि वर्तते इति एतस्य दृढनिश्चयः एव ज्ञानम्। इदं ज्ञानं जीवने तद्रूपं जातं चेत् मनुष्यः वस्तुतः परमात्मप्राप्तिमार्गे लग्नः। एतेन साधनेन परमात्मानं विना मह्यं न किमपि रोचेत। एषा आत्यन्तिकी रुचिः एव भक्तिः। एतस्याः भक्त्याः परिपूर्णता सुन्दरे देहान्ते भवति। तदर्थं सततं नामस्मरणम् अखण्डानुसन्धानं वा इदम् एकमेव साधनं कथितं वर्तते। अन्तसमये येन नामजपः कृतः तस्य विषयवासना मृता इति न, सः सहसा मुक्तः न भवति, परम् अग्रिमे जन्मनि सः सात्विकातिशयेन जनिं प्राप्नोति। सात्विकः इत्युक्ते भगवत्प्राप्तुकामा वृत्तिः यस्य सः। साधनं प्राणेन सह भवेत्, इत्युक्ते यथा प्राणः अभिमानरहितः अखण्डः तथा साधनमपि अभिमानरहितम् अखण्डं भवेत्। तत् न करणीयम्। कर्तृभावेन अभिमानः भवति। प्राणेन सह सहजतया भवति चेत् अखण्डं भवति एव। प्रपञ्चार्थं व्याकुलता न भवेत्। गुर्वाज्ञया वर्तनीयम्। अनन्तजन्मसु देहेन सह वासेन देहे आसक्तिः भवति, तेन देहबुद्धिः भवति। तद्वत् नाम्ना सह वासः सुदीर्घः करणीयः। तेन विषये आसक्तिः न्यूनीभूय नाम्नि प्रेम भवति। योगे बहूनि कष्टानि। अस्मिन् युगे तस्य प्राप्तिः अशक्या इव। कर्मणि तु अभिमानः वर्तते वर्धते च। भक्त्यां कष्टानि न सन्ति, अभिमानः अपि गलति। योगः, कर्म च साधने परमात्मनः दत्तकपुत्रसमं वर्तेते तथा भक्तिसाधनम् औरसपुत्रसमम्। भगवान दृष्ट्याः परे न करणीयः इति एव वास्तवा भक्तिः। इदं वास्तवम् अनुसन्धानम्, एषः एव सत्यः परमार्थः, इदम् एव वस्तुतः अस्माकं सर्वस्वम्।

***केवलं देहस्य तीर्थस्नानेन पूजापाठेन च परमार्थः न भवति। अस्माकं वृत्तिः भगवति योजनीया ।***

[सम्पाद्यताम्]

जानेवारी 27

[सम्पाद्यताम्]

नाम परमात्मानं गन्तुं राजमार्गः।

[सम्पाद्यताम्]

सर्वसाधनेषु श्रेष्ठं साधनं नामस्मरणम् एव, परं तस्य महत्त्वं न ज्ञायते। तदवगन्तुं परमार्थतः भगवत्कृपा अपेक्ष्यते। अस्माकं शरीरे मुख्यं हृदयम् अन्ये अवयवाः गौणाः तद्वत् परमार्थे मुख्यं साधनं नामस्मरणं तथा अन्यसाधनानि गौणानि। नाम मङ्गलेषु मङ्गलम् अत्यन्तं पवित्रं च वर्तते। अस्माकं जीवनं देवस्य हस्ते, देवः नामाधीनः च वर्तते इति दृढं मनसि धरन्तु। योगे योगसाधनाकाले एव समाधानं वर्तते, परं नामस्मरणानुसन्धाने निरन्तरं समाधानं वर्तते। स्वस्य निर्गुणत्वेन विना निर्गुणोपासना न भवति। तेजोदर्शनं, नादश्रवणम् इत्यादयाः विषयाः गुणे एव भवन्ति ननु? निर्गुणत्वेन स्थातुं देहबुद्धिः त्यक्तव्या। सर्वव्यापिनः परमेश्वरस्य सर्वेषु भूतेषु दर्शनं निर्गुणोपासना एव। योगः नामस्मरणार्थं यावत् पोषकः तावदेव करणीयः, प्राधान्येन सः एव न करणीयः। योगः नामस्मरणार्थं पोषकः, परं नामस्मरणं योगातीतं वर्तते। नामस्मरणे योगः निहितः। योगे नामस्मरणं न वर्तते। सर्वसाधनानाम् अन्तः¬ नामस्मरणे वर्तते। नामसाधनं शीघ्रयानसमं वर्तते। वर्णदर्शनं, प्रकाशदर्शनं, ध्वनिश्रवणं, इत्यादीनि मध्यस्थानि स्थानकानि त्यक्त्वा नामस्मरणं भगवन्तं प्रति प्रापयति। इतरेभ्यः साधनेभ्यः शीघ्रम् इष्टप्राप्तिः भासेत, परं सा क्षणिका। नामजपेन कश्चित् विलम्बः भवेत् परं यत् लब्धं तत् चिरकालीनं भवेत्। यतो हि नाम्ना मूलतः परिष्करणं भवति। नामस्मरणं परमात्मनं प्रति गन्तुं राजमार्गः। नाम्नि आनन्दं विहाय किमपि न वर्तते। नामानन्दस्य आवेगेन मनुष्यः आत्मानं विस्मरेत्। तुकाराममहाराजस्य वाणी अनियन्त्रिता जाता। अनवरतं नामोच्चारणम् आरब्धम्। एतस्य अर्थः यत् नामजपः तस्य कल्पनातीतः जातः यथा प्रणतमार्गे यानम् अतिवेगेन धावति अनियन्त्रितं भवति च। अस्माकं शक्त्याः अतीतं कार्यं भवति चेत् सा भगवत्कृपा एव। चत्वारः जना आसन्। ते सर्वे एकेन रोगेन पीडिताः। परं तेषां साम्पत्तिकी स्थितिः भिन्ना। तेषु दरिद्रं जनं वैद्यः तुलसीरसम् औषध्यनुपानरूपेण सूचितवान्। तस्मात् धनिकं मधु सूचितवान्। तस्मादपि धनिकं केशरं सूचितवान्। धनिकतमं कस्तुरीं सूचितवान्। तद्वत् यथा यस्य अधिकारः तथा तेन जपः करणीयः। नाम केवलं मुखेन जपनीयं, श्रद्धया जपनीयं, वृत्तिः रक्षित्वा जपनीयं, नाम विना जगति किमपि सत्यं न इति दृढं मत्वा जपनीयम्। सर्वैः समानमेव फलं लभ्यते।

*** सर्वसाधनानामन्तः नामस्मरणे वर्तते।***

[सम्पाद्यताम्]

जानेवारी 28

[सम्पाद्यताम्]

अकर्तृत्वभावनया नामजपः करणीय़ः।

[सम्पाद्यताम्]

किमपि न करणीयम्, अहं किमपि करोमि, मया किमपि करणीयं वा इति न भावनीयम् इत्येव परमार्थः। परं स्वस्थेन भवितव्यम् इति कारागृहे दण्डनम् इति मन्यन्ते। देहेन मनसा च सततं किमपि चलनवलनं करणीयम् इत्येव अस्माकम् अभ्यासः। स्थिरदेहेन भवितव्यमिति दुष्करं, स्वस्थमनसा भवितव्यमिति ततोऽपि दुष्करम्। स्थिरदेहेन स्वस्थमनसा च भवितव्यमिति इति तु अतीव कठिनम्। वस्तुतः मनः स्वास्थ्यम् अपेक्षते। परं तत् प्राप्तुं साधनम् इत्युक्ते प्रयत्नाः करणीयाः । मनसः स्वास्थ्यं दूषयितुं यानि कारणानि तानि पश्यामः। प्रथमं स्वमनःविरोधि किमपि भवति। द्वितीयम् अस्माकं पूर्वतनदुष्कर्माणां स्मरणम्। तृतीयं श्वस्तनी चिन्ता। प्रत्येकं जनः स्वेच्छानुकूलं भवेत् इति इच्छति। सर्वे भवतः इच्छानुसारं कथं व्यवहरन्ति? भवतः¬ इच्छाविरोधिनः विषयाः भवन्ति एव। अतः स्वास्थ्यदूषणपरिहारस्य अस्माकम् इच्छा एव नाशनीया। किमपि वस्तु मया प्राप्तव्यम् इति बुद्धिः एव न भवेत्। लोभः त्यक्तव्यः। लोकेषणा त्यक्तव्या। अभिमानं त्यक्त्वा कर्म करणीयम्। प्रयत्नं कृत्वा यशः न लभ्यते चेद् दुःखं भवति। स्वास्थ्यं नश्यति। ‘अहं न कृतवान्’ इति यदि भावः तर्हि क्व दुःखम्? प्रयत्नं कृत्वा यद् भवति तद् रामेच्छया भवति इति चिन्तनीयम्। प्रत्येकं विषयं रामः कृतवान् इति मननम् इत्युक्ते भगवदखण्डानुसन्धानेन भवितव्यम्। इदं भावं लब्धुम् अखण्डनामस्मरणं करणीयम्। यद् जातं, यद् भवति, यद् भविष्यति च तत् तद् भगवता अस्माकं हिताय कृतम्, अहं न कर्ता इति मन्तुम् अखण्डभगवन्नामस्मरणम् आवश्यकम्। सारांशेन यद् यद् जातं तद् भगवता मम हिताय कृतम्। श्वस्तनीं चिन्तां भगवान् एव करोति। तेन यद् योग्यम् इति मतं तत् सः करोति। अतः यद् अतीतं तन् न स्मर्तव्यम्। यद् भविष्यति तस्य चिन्ता न करणीया। वर्तमानः क्षणः न वृथा यापनीयः। नामस्मरणं करणीयम्। अखिले प्रपञ्चे या वास्तवा विश्रान्तिः सा नामस्मरणम् एव। विद्यमानायां परिस्थित्याम् असमाधानम् इति यः देहबुद्धेः स्वभावः, तं वयं सर्वत्र योजयामः। सर्वविषयाणां ज्ञानं यावन्न भवति तावत् किमपि न करोमि इति वयं वदामः। सर्वविषयाणां ज्ञानम् आजीवनं न भवति चेद् वयं किमपि न कुर्मः। देहबुद्धिः अस्मान् भगवन्तं विस्मारयति। अस्यां देहबुद्ध्यां नामजपमन्त्रस्य जलं सिञ्चयामः। तेन तस्याः वर्धनं न भवेत्।

*** मनः परमेश्वरे स्थिरीकृत्य देहेन प्रपञ्चः करणीयः।***

[सम्पाद्यताम्]

जानेवारी 29

[सम्पाद्यताम्]

नामजपे कथं दृढभाव आननीयः?

[सम्पाद्यताम्]

नामजपे प्रेम नामजपेन एव आगच्छेत्। इदं प्रेम उत्पादयितुं विषयप्रेम नष्टव्यम्। दृढनिष्ठा आवश्यकी। नामजपः एव त्रायेत। नामजपः एव सर्वं कुर्यात् इति दृढभावः आवश्यकः। तं रक्षित्वा व्यवहारे प्रयत्नाः करणीयाः। परं य़शोदाता परमात्मा एवेति भावः आवश्यकः। वैद्यस्य औषधिः सेवकेन आनीतः, परं गुणं सेवकः दत्तवान् इति न वदामः। इतोऽपि अग्रे गत्वा वैद्यस्य औषधिना प्राप्तः गुणः परमात्मना दत्तः इति किमर्थं न मन्यामहे। परमात्मनं शरणगमनम् इत्युक्ते ‘परमात्मा मम विद्यते’, ‘तं विना मम कः अपि नास्ति’, ‘अहं किमपि न करोमि सः एव सर्वं मम हिताय करोति’ च इति दृढः विश्वासः रक्षणीयः। वयं स्वपत्नीपुत्रेषु प्रीणीमः यतो हि ते अस्मदीयाः इति अस्माकं विश्वासः। इत्युक्ते प्रेम ममत्वे वर्तते। अतः परमात्मा अस्मदीयः इति मन्यन्ते चेत् सहजं तस्मिन् किमर्थं प्रेम न भवेत्? द्वितीयं यद् भगवान् अस्माकं जीवलगः सखा। सः सर्वम् अस्माकं हिताय एव करोति इति विश्वसिमः चेत् चिन्तायाः कृते क्व अवकाशः? अस्माकं देहबुद्धिनाशनम् एव अस्माकं हितम्। परमात्मनि आत्मीयत्वम् उत्पादयितुं तस्य नाम्ना सह प्रदीर्घः वास आवश्यकः। सिद्धेः चमत्कारस्य च अनुधावनं न कुर्मः। ते अस्माकं मार्गे विघ्नाः। प्रत्युत तैः अस्माकम् अनुधावनं करणीयम्। कमपि जनं सर्पः दशति, परं तत्र कः विशेषः? सर्पे कस्मिन्नपि वा भगवद्भावः द्रष्टव्यः। तेन कः अपि अस्माकं शत्रुः न भवेत्। अम्बायाः समीपे अस्मि इति कल्पनया शिशुः निर्भयः भवति तद्वत् भगवान् समीपे वर्तते इति भावेन अस्माभिः निर्भयत्वेन भवितव्यम्। यं ग्रामं गन्तुम् इच्छामः तं गन्तुं यानम् आगतं वा इति द्रष्टव्यम्। याने केन मिलति इति एतस्य बहु महत्त्वं न वर्तते। चिन्तयन्तु, याने न केन अपि मिलितः तर्हि वयं सुखेन निद्रां कुर्वन्तः ग्रामं गच्छामः। तद्वद् वयम् अस्माकं साधनं कुर्मः। सृष्टितत्त्वानि कति इत्यादिषु विषयेषु न पतामः। तस्य निर्णयः कदापि न भवेत्। शङ्कानिमिलनेन विना नाम स्थिरं न भवति इति धातव्यम्। देहबुद्धिः यावत् वर्तते, तावत् नाममहत्त्वं न ज्ञायते। अस्माकम् उद्धारम् इच्छामः चेत् नामस्मरणं न त्यक्तव्यम्।

***यथा परमात्मा निरुपाधिकः तथा नाम अपि निरुपाधिकम्।***

[सम्पाद्यताम्]

जानेवारी 31

[सम्पाद्यताम्]

नाम एव भगवतः अवतारः।

[सम्पाद्यताम्]

अस्मिन् युगे नाम एव भगवतः अवतारः। ‘साधुरक्षणार्थं दुष्टनिर्दालनार्थं च अहम् अवतरामि’ इति भगवान् गीतायां कथयति। तेन निश्चीयते यत् साधुदुष्टयोः अस्तित्वं वर्तते। दुष्टाः साधून् पीडयन्ति तेन भगवतः अवतारः भवति। साम्प्रतं साधवः दुर्लभाः इति दृश्यते। इत्युक्ते येषां पीडनेन भगवान् अवतरति ते न अवशिष्टाः। अतः भगवान् केषां कृते आगच्छेत्? एतस्य अर्थः भगवतः अवतारः एव न भवेत् इति न परं वस्तुस्थितिम् अवगन्तुम् इदं कथितम्। साम्प्रतिकी परिस्थितिः तथा पूर्वतनी परिस्थितिः इति एतयोः मध्ये भेदः वर्तते। पुरा सद्भावना आसीत् परं तथा आचरणं कठिनम्। साम्प्रतं सद्भावना एव नष्टा। अधिष्ठानम् एव नष्टम्। अतः आचरणस्य प्रश्नः एव न उद्भवति। पुरा सद्भावना सूक्ष्मत्वेन वा जीवन्ती आसीत् परं स्थूला प्रकटकृतिः दुर्लभाः। तदा भगवता स्थूलरूपेण कार्यकरणम् आवश्यकम् जातम्। अतः भगवता सगुणरूपं धृत्वा कार्यं कृतम्। साम्प्रतं दुर्वासनां विलाय्य सद्वासना कथम् उत्पादनीया इति प्रश्नः। इत्युक्ते कार्यं सूक्ष्मत्वे वर्तते। अतः यथा रोगः तथा औषधिः अथ वा कण्टकेन कण्टकः निष्कासनीयः इति एतेन न्यायेन उपायः सूक्ष्मत्वे एव करणीयः। वासनां परिवर्तयितुं वासनसदृशः एव प्रभावी उपायः अपेक्ष्यते। सः वर्तते भगवन्नाम। प्राप्तपरिस्थित्यां संघर्षं कृत्वा मार्गम् अन्वेष्टुं यः अवतारः वर्तते सः भगवन्नाम एव। तदर्थं सर्वैः भगवन्नाम्नः उच्चारवः करणीयः। इदं कार्यं भगवता सगुणरूपं धृत्वा न शक्यम्। यतः कारणं सूक्ष्मं ततः उपायः अपि सूक्ष्मः अपेक्ष्यते। अतः नामावतारस्य आवश्यकता वर्तते। प्रत्येकं नाम्ना सह अवतारः वर्तते। तस्य भक्तिः इत्युक्ते तस्य नामजपः एव अस्माकं मुख्यं कर्तव्यम्। यदि तत् कुर्मः तर्हि नाम स्वावतारकार्यं कृत्वा दर्शयेत्। रामस्य सर्वाः कृतयः आकृतयः च मधुराः। तस्य नाम्नि कियत् मधुरत्वं भवेत्। सर्वरामायणस्य सारं रामनाम्नि वर्तते। वयम् अस्माकं प्रेम प्रपञ्चे योजितवन्तः, तन् नाम्नि योजयामः। तेन नामस्मरणे महान् आनन्दः लभ्येत। मनः रामनाम्नि आसक्तं, रामप्रेमे तल्लीनं चेत् जीवनं सफलं जातम्।

***नाम्ना कलेः शासनं नश्यति। अतः नामधारकं कलिः न बाधते।***

[सम्पाद्यताम्]