जानकीहरणम्

विकिस्रोतः तः
Jump to navigation Jump to search

जानकीहरणम्
प्रथमसर्गः
आसीदवन्यामतिभोगभाराद्-
दिवोऽवतीर्णा नगरीव दिव्या ।
क्षत्रानलस्थानशमी समृद्ध्या
पुरामयोध्येति पुरी परार्द्ध्या।। १ ।।
यत्सौधशृङ्गाग्र१सरोजराग-
रत्नप्रभाविच्छुरितः शशाङ्कः ।
पौराङ्गनावक्त्रकृतावमानो
जगाम रोषादिव लोहितत्वम्।। २ ।।
कृत्वाऽपि सर्वस्य मुदं समृद्ध्या
हर्षाय नाभूदभिसारिकाणाम् ।
निशासु या काञ्चनतोरणस्थ-
रत्नांशुभिर्भिन्नतमिस्रराशिः।। ३ ।।
चीनांशुकैरभ्रलिहामुदग्र-
शृङ्गाग्रभागोपहितैर्गृहाणाम् ।
विटङ्ककोटिस्खलितेन्दुसृष्ट-
निर्मोकपट्टैरिव या बभासे।। ४ ।।
दिदृक्षुरन्तःसरसीमलङ्घ्यं
यत्खातहंसः समुदीक्ष्य वप्रम् ।
सस्मार नूनं दृढकौञ्चकुञ्ज-
भागच्छिदो भार्गवमार्गणस्य।। ५ ।।
बिम्बं स्वमालोक्य ततं गृहाणा-
मादर्शभित्तौ कृतबन्ध्यघाताः ।
रथ्यासु यस्यां रदिनः प्रमाणं
चक्रुर्मदामोदमरिद्विपानाम्।। ६ ।।
लग्नैकभागं सितहर्म्यशृङ्गे
विकृष्य मन्देन समीरणेन ।
दीर्घीकृतं बालमृणालशुभ्रं
करोति यत्र ध्वजकृत्यमभ्रम्।। ७ ।।
प्रवालशीर्षा वदनं सुवर्णं
मुक्तामयाङ्गावयवा वहन्त्यः ।
यस्यां युवत्यो विहिता विधात्रा
रत्नैरिवापुर्वपुषः प्रकर्षम्।। ८ ।।
आलिङ्ग्य तुङ्गं वडभीविटङ्कं
विश्राणितात्मध्वनि पुष्करेषु ।
यत्सौधकान्तेरिव संविभागं
वव्रे सितं शारदमभ्रवृन्दम्।। ९ ।।
ततान तोषं शिखिनामुदग्रम्
आसन्नजीमूतघटासु यस्यां
विद्युन्निभा काञ्चनपिञ्जरासु ।
क्षिप्रं पताकासु तता विवृत्तिः।। १० ।।
रक्ताश्मनीलोपलतोरणानि
नारीजनस्य भ्रमतो निशासु
क्रोधप्रमोदौ विदधुर्विभाभिर्-
यत्र क्षतोद्बृंहिततामसानि।। ११ ।।
तत्राभवत्पङ्क्तिरथाभिधानो
भर्त्ता भुवो भानुनिभः प्रभावैः ।
क्षत्रान्वयैर्बिभ्रदलङ्घ्यमन्य-
क्ष्मानाथमानं जयमानमोजः।। १२ ।।
अखण्डमानो मनुजेश्वराणां
मान्यो गुणज्ञो गुणजैर्मनोज्ञैः ।
दिशो यशोभिः शरदभ्रशुभ्रै-
श्चकार राजा रजतावदाताः।। १३ ।।
आजावजय्यानजनन्दनोऽसौ
पूर्वं षडन्तर्द्विषतो विजिग्ये ।
जिगीषुरभ्यस्तसमस्तशास्त्र-
ज्ञानोपरुद्धेन्द्रियवाजिवेगः।। १४ ।।
बलिप्रतापापहविक्रमेण
त्रैलोक्यदुर्लङ्घ्यसुदर्शनेन ।
नानन्तभोगाश्रयिणाऽपि तेने
तेनालसत्वं पुरुषोत्तमेन।। १५ ।।
दण्डस्ततस्तस्य भुवं जिगीषोः
कम्पं वितन्वन् विहिताङ्गमर्द्दः ।
तापैकहेतुस्त्रिदशाधिपस्य
दिशं ज्वरस्तीव्र इवाविवेश।। १६ ।।
समुद्रमुल्लङ्घ्य गतस्तदीय-
स्तेजोऽभिधानो गुरुरग्निराशिः ।
नितान्तसन्तापितपूर्वकाष्ठः
प्रोत्स्वेदयामास नृपं कटाहे।। १७ ।।
भुजङ्गसम्प्रार्थितसेव्यवेला
काञ्चीगुणाकर्षितसार्थलोका ।
दिग्दक्षिणा कर्कशयत्नभोग्या
वेश्येव भुक्ता नृवरेण तेन।। १८ ।।
लब्ध्वासुरासुप्रघसायुधस्य
घातं शरेणास्य विनिर्जितोऽपि ।
आत्मानमन्यैरसमानमानं
मेने मनस्वी युधि यावनेन्द्रः।। १९ ।।
तेजश्छलेनाथ हुताशनेन
श्रीवासरम्यं प्रदहन् तुरुष्कम् ।
धूपैरिवासक्तगतैर्यशोभि-
राशीयमन्तं सुरभीचकार।। २० ।।
परेषुवात्यापरिबृंहितोऽस्य
क्रोधाभिधानो युधि चित्रभानुः ।
आताम्रनेत्रच्युतवारिवर्षै-
रानायि शान्तिं रिपुकामिनीनाम्।। २१ ।।
तस्यैकबाणाशनभग्नशत्रो-
रालोकभूमौ चरणारविन्दे ।
आसेदतुः सर्वनरेन्द्रमौलि-
रत्नप्रभालक्तकमण्डनानि।। २२ ।।
लोकस्तदीये भुवि हारगौरे
कीर्तिप्रताने प्रविजृम्भमाणे ।
अभिन्नकोशं कुमुदं निरीक्ष्य
मुमोच चन्द्रोदयशङ्कितानि।। २३ ।।
समस्तसामन्तनृपोत्तमाङ्गा-
न्यास्थाय१ तस्योन्नतवृत्ति तेजः ।
जज्वाल चूडागतपद्मराग-
रागच्छटाविस्फुरणच्छलेन।। २४ ।।
नरेन्द्रचन्द्रस्य यशोवितान-
ज्योत्स्ना महीमण्डलमण्डनस्य ।
तस्यारिनारीनयनेन्दुकान्त-
विष्यन्दहेतुर्भुवनं ततान।। २५ ।।
तेनोपयेमे समयं विधिवद्विधेया
वह्नेः समक्षं समयं विदित्वा ।
इन्द्रद्विषद्भर्तृनिषूदनस्य
माता भवित्री भवतुल्यधाम्नः।। २६ ।।
स्फुरन्मयूखा सरणिर्नखानां
महेन्द्रकल्पस्य महाय देव्याः ।
पादद्वयान्ते जितपद्मकोशे
मुक्तेव मुक्ताविततिर्विरेजे।। २७ ।।
लीला गतेरत्र निसर्गसिद्धा
मत्तो न दन्ती मुषितो न हंसः ।
इतीव जङ्घायुगलं तदीयं
चक्रे तुलाकोट्यधिरोहणानि।। २८ ।।
दृष्टौ हतं(तो) मन्मथबाणपातैः
शक्यं विधातुं न निमील्य चक्षुः ।
ऊरू विधात्रा नु कथं कृतौ ता-
वित्यास तस्यां नृप२तेर्वितर्कः।। २९ ।।
इयत्पृथुत्वं कृषदेहयष्ट्या
नितम्बचक्रस्य परं प्रमाणम्१ ।
इतीव बद्धा रशनागुणेन
श्रोणी पुनर्वृद्धिनिषेधहेतोः।। ३० ।।
अस्योदरस्य प्रतितुल्यशोभं
नास्तीति धात्रा भुवनत्रयेऽपि ।
सङ्ख्यानरेखा इव सम्प्रयुक्ता
स्तिस्रो विरेजुर्बलयः सुदत्याः।। ३१ ।।
वयःप्रकर्षादुपचीयमान-
स्तनद्वयस्योद्वहनश्रमेण ।
अत्यन्तकार्श्यं वनजायताक्ष्या
मध्यं२ जगामेति ममैष तर्कः।। ३२ ।।
अरालकेश्या अलके विधात्रा
विधीयमाने चलतूलिकाग्रात् ।
च्युतस्य विन्दोरसितस्य मार्ग-
रेखेव रेजे नवरोमराजी।। ३३ ।।
नायं शशी तत्प्रतितुल्यमन्यद्
यस्मान्न विश्लेषयति द्वयं नौ ।
इति स्म तर्कादिव पश्यतस्तौ
तस्या मुखेन्दुं कुचचक्रवाकौ।। ३४ ।।
सुश्लिष्टसन्धी शुभविग्रहौ तौ
तन्व्या भुजौ बालमृणालनालम् ।
सच्छिद्रवृत्तं यदि दीर्घसूत्रं
निर्जिग्यतुः किं किल तत्र चित्रम्।। ३५ ।।
कान्तिप्रकर्षं दशनच्छदेन
सन्ध्याघने बद्धपदं हरन्त्याः ।
तस्या गृहोद्यानसरोगतस्य
हस्तस्थ एवाम्बुरुहस्य रागः।। ३६ ।।
आसीदयं चन्द्रमसो विशेष-
स्तद्वक्त्रचन्द्रस्य च भासुरस्य ।
बभार१ पूर्वः सकलं कुरङ्गं
तस्यैव नेत्रद्वितयं द्वितीयः।। ३७ ।।
कान्तिश्रिया निर्जितपद्मरागं
मनोज्ञगन्धं द्वयमेव शस्तम् ।
नवप्रबुद्धं जलजं जलेषु
स्थलेषु तस्या वदनारविन्दम्।। ३८ ।।
इन्दीवरस्यान्तरमेतदस्या
नेत्रोत्पलस्यापि यतो हिमांशोः ।
त्विषोऽपि नैकं सहते मुखाख्य-
माक्रम्य तस्थावपरं शशाङ्कम्।। ३९ ।।
युग्मं भ्रुवोश्चञ्चलजिह्मपक्ष्म-
सम्पर्कभीत्याऽसितलोचनायाः ।
प्रोन्नम्य दूरोत्सरणं विधित्सु-
र्मध्येन तस्थाविति मे वितर्कः।। ४० ।।
तत्केशपाशावजितात्मबर्ह-
भारस्य वासः शिखिनो वनेषु ।
चक्रे जनस्य स्पृशतीति शङ्कां
चेतस्तिरश्चामपि जातु लज्जाम्।। ४१ ।।
अन्याऽपि कन्या जितसिद्धकन्या
तादृग्गुणा तस्य बभूव देवी ।
दोषोऽपि यस्या भुवनत्रयस्य
बभूव रक्षोभयनाशहेतुः।। ४२ ।।
सुमन्त्रसूतस्य सुमित्रयाग्नौ
पाणिग्रहं लम्भितया द्विजेन ।
पुण्यं भवान्या भवहस्तसक्त
हस्ताम्बुजाया वपुराललम्बे।। ४३ ।।
तासु प्रजानामधिपः प्रजार्थी
देवीषु चारित्रकुलोन्नतासु ।
अदृष्टपुत्राननवन्ध्यदृष्टि-
श्चिन्ताहृतात्मैव निनाय कालम्।। ४४ ।।
स्वरक्षितव्यं श्वगणिप्रचारै-
र्विशोधितं कुञ्जभुवं कदाचित् ।
हिमस्य गोप्ता गहनं नगस्य
तस्मै जगत्याः प्रभवे जगाद।। ४५ ।।
विधेयचित्तश्चलितव्यधेषु
हलायुधाभः स कुतूहलेन ।
अन्येद्युरन्यायनिवृत्तवृत्ति-
र्मृगेन्द्रगामी मृगयां जगाम।। ४६ ।।
पुत्रीकृतानीश्वरया शिशुत्वे
स्नेहेन नप्तनिव बालवृक्षान् ।
यश्चित्रपुष्पाभरणाभिरम्या
नुत्सङ्गदेशेन चिरं बभार।। ४७ ।।
वातैर्वि१कृष्टे पटले घनानां
धातुप्रतानाः प्रतरन्ति दृष्टाः ।
यस्य त्वचामुद्धरणाभिशङ्कां
मुग्धाय गन्धर्वबधूजनाय।। ४८ ।।
दरीमुखादर्द्धविनिर्गताङ्गै-
र्यः कृष्यमाणेषु मृगेषु नागैः ।
प्रसारितास्यः स्वयमेव सत्त्वान्
ग्रासीकरोतीव वितत्य जिह्वाम्।। ४९ ।।
नाकाङ्गना२ रत्नमरीचिजाल-
ध्वस्तान्धकारप्रकरस्य यस्य ।
निकुञ्जपद्माकरपद्मषण्डै३-
र्विदन्ति४ रात्रिन्दिवसंविभागम्।। ५० ।।
धातुप्रभालोहितपक्षयुग्मः
श्रीमद्गुहालङ्कृतचारुपृष्ठः ।
दिव्यस्य यश्चन्द्रकिणो बिभर्ति
रूपश्रियं भासुरचन्द्रकान्तः।। ५१ ।।
तुषारधारास्नपितस्य यस्य
रविः प्रभातेषु निकुञ्जवक्षः ।
सदानुलिम्पत्यरुणाब्जकोश-
कान्तेन बालातपकुङ्कुमेन।। ५२ ।।
तस्य क्वणन्निर्झररेणुविद्धै-
र्वातैर्विधूतागरुपादपान्ते ।
अधिज्यधन्वा धनदप्रभाव-
श्चचार मैनाकगुरोर्नितम्बे१।। ५३ ।।
तूणीरतस्तूर्णमिषुं विकृष्य
सन्धाय चापे चपलेतरात्मा ।
रङ्गत्तुरङ्गः क्वचिदाशु धन्वी
मार्गं मृगाणां पुरतः स्म रुन्धे।। ५४ ।।
उत्कर्णमुत्पुच्छयमानमासे
विदर्शिताभ्याहतकन्दुकोत्थम् ।
पारिल्पवाक्षं मृगशाववृन्द-
मीषन्निपातेन शरेण राजा।। ५५ ।।
मा पीडयस्व प्रसभं करेण
मध्यं त्वमुत्तुङ्गबलो ममेति ।
विवक्षुणेवाभिमुखं विकृष्य२
चापेन नेमे मनुवंशकेतोः।। ५६ ।।
खमुत्पपातैणवरो नृपेण
विद्धोऽपि पूर्व्वाहितवेगवृत्त्या ।
स्वर्लोकमन्तःकरणस्य यातुः
प्रीत्यानुयात्रामिव कर्त्तुकामः।। ५७ ।।
अन्योन्यवक्त्रार्पितपल्लवाग्र-
ग्रासं नृवीरस्य कुरङ्गयुग्मम् ।
प्रियानुनीतौ भृशमिष्टचाटु-
चेष्टस्य घाताभिरतिं निरासे।। ५८ ।।
पूर्वस्य मुक्तेन मुखे परेषां
दृष्टेन सद्यः सममन्तरेषु ।
ऋज्वागता तस्य मुहुर्मृगाणां
पङ्क्तिः शरेण ग्रथितेव रेजे।। ५९ ।।
आधावतस्तेन धनुर्द्धरेण
मध्येललाटं महिषस्य मुक्तः ।
अस्कन्नवेगो दृढदेहभेदे
लाङ्गूलसारत्वमियाय बाणः।। ६० ।।
स द्वीपिनोऽथ द्विपराजगामी
हन्तुं तुरङ्गं रचितक्रमस्य ।
जघान देहं प्रतिबिन्दु बाणै-
रेकेन दुर्लक्ष्यभुजः क्षणेन।। ६१ ।।
शस्त्रेण तस्मिन्भिषजीव भीमं
गण्डं नृपे पाटयति प्रसह्य ।
तदीयनादप्रतिनिस्वनेन
त्रासादिवाद्रिर्भृशमुन्ननाद।। ६२ ।।
युद्धाय यूथादभितो निवृत्तं
क्रोडं मुहुः क्रोधविमुक्तनादम् ।
शरस्य लक्ष्यं शरजन्मतुल्य-
श्चकार चक्रीकृतचापदण्डः।। ६३ ।।
एवं मृगव्यश्रमसेवितस्सन्
विश्रामहेतोः स विहाय वाहम् ।
समीरणानर्तितवेतसाग्रं
वीरस्सरस्तीरमलञ्चकार।। ६४ ।।
सुगन्धिसौगन्धिकगन्धहृद्यः
सरोऽनिलः सारसनादकर्षी ।
आधूतराजीवरजोवितानै-
रङ्गं पिशङ्गं नृपतेश्चकार।। ६५ ।।
अथास्तकूटाहतमुग्ररागं
समुल्लसद्दीधितिविस्फुलिङ्गम् ।
स्पृष्टं घनेन क्वचिदास लौहं
तप्तं बृहखण्डमिवार्कबिमबम्।। ६६ ।।
विम्बं पतङ्गस्य बबन्ध दृष्टिं
दृष्टं प्रतीच्यामवनीश्वरेण ।
भित्तौ विनीलत्विषि लम्बमान-
मेकं यथा काञ्चनतालवृन्तम्।। ६७ ।।
राजा रजन्यामधिशय्य तस्मिन्
शिलातलं शीतलमिन्दुपादैः ।
खेदं विनिन्ये मृदुभिः समीरै-
रासारसारैर्गिरिनिर्झराणाम्।। ६८ ।।
जागर्यया नीतवति त्रियामाम्
पत्यौ पृथिव्या मृगयाभिलाषात् ।
क्वापि प्रपेदे मृगलाञ्छनेन
त्रासादिवादाय निजं कुरङ्गम्।। ६९ ।।
आरुह्य रागी मृगयाविहारे
शृङ्गं विवस्वानुदयाचलस्य ।
पत्ये पृथिव्या रचयाम्बभूव
मृगानिव प्रस्फुरता करेण।। ७० ।।
प्रभुः प्रजानामथ स प्रभाते
हरिप्रभावो हरिमारुरोह ।
सज्जीकृतं सज्जनगीतकीर्ति-
र्बद्धायुधो बन्धुरवर्मजालम्।। ७१ ।।
कञ्चिन्मृगं मार्गणगोचरेऽसौ
दृष्ट्वा विकृष्टायत१चापदण्डः ।
शरं मुमुक्षुः शरभोरुवेगं
तमन्वयादन्वयकेतुभूतः।। ७२ ।।
रेखायमाणो गगने रयेण ।
विलङ्घ्य मार्गं नृपमार्गणानां
मृगोत्तमोऽसौ तमसातटस्थं
वनं तपस्यद्भवनं प्रपेदे।। ७३ ।।
अश्वं विहायाश्वमति प्रदेशे
धनुस्सहायः सहसा नृवीरः ।
पद्भ्यामसौ तत्पददत्तदृष्टि-
र्घने तरूणां गहने चचार।। ७४ ।।
तटे च१ तस्मिन्घटपूरणस्य
श्रुत्वा रवं बृंहितनादशङ्की ।
मुनेस्तनूजे मनुवंशकेतुः
शरं शरण्योऽपि मुमोच बाले।। ७५ ।।
शरानुसारेण नृपं प्रयान्तं
पुत्रो मुनेः पत्त्रिविभिन्नमर्म्मा
नेत्राम्बुदिग्धेन विलापनाम्ना
बाणेन भूयो हृदि तं जघान।। ७६ ।।
त्वया जरावेशजडीकृतस्य
वने विनाथस्य गुरुद्वयस्य ।
विचक्षुषोऽयं व्रतजीर्णमूर्ते-
र्भग्नःकिमालम्बनदण्ड एकः।। ७७ ।।
एकं त्वया साधयताऽपि लक्षं२
नीतं विनाशं त्रितयं निरागः ।
मच्चक्षुषा कल्पितदृष्टिकृत्यौ
वृद्धौ वने मे पितरावहञ्च।। ७८ ।।
वनेषु वासो मृगयूथमध्ये
क्रिया च वृद्धान्धजनस्य पोषः ।
वृत्तिश्च वन्यं फलमेषु दोषः
सम्भावितः को मयि घातहेतुः।। ७९ ।।
जीर्णो जतुन्यासनिरुद्धरन्ध्रः
कुम्भश्च मौञ्जी तरुवल्कलश्च ।
एतेषु यन्मां विनिहत्य गम्यं
तद्गृह्यतामस्तु भवान् कृतार्थः।। ८० ।।
तरुत्वचोऽयं कठिनं१ वसानो
वनेषु शीतोष्णनिपीतसारः ।
अस्वादुवन्याशनजीर्णशक्तिः
पात्रं कृपायास्तव वध्यभूतः।। ८१ ।।
व्रती विनाथो विगतापराधः
स्मर्तव्यदृष्टेः पितुरन्धयष्टिः ।
इत्येषु किं निष्करुणेन किश्च-
दवध्यभावे गणितो न हेतुः।। ८२ ।।
साधुः कृपामन्थरमक्षि शत्रौ
प्रीत्याऽर्ध२सम्मीलितमादधाति ।
नीचस्तु निष्कारणवैरशील-
स्तत्पूर्वसम्पादितदर्शनेऽपि।। ८३ ।।
स्वं हेतवे हेतिबलोपनीत-
स्मयः किमप्युन्नतवृत्ति कस्मै ।
नीचस्य निष्ठामधिकर्म गच्छन्
कुलं कलङ्कैः कलुषीकरोषि।। ८४ ।।
जुगुप्सत स्मैनमदुष्टभावं
मैवं भवानक्षतसाधुवृत्तम् ।
इतीव वाचो निगृहीतकण्ठैः
प्राणैररुध्यन्त महर्षिसूनोः।। ८५ ।।
भोज्याः सुतश्चारुभुजद्वयेन
घटं गृहीत्वा घटितारिनाशः ।
वाष्पायमाणो बहुमानपात्रं
यमप्रभावो यमिनं ददर्श।। ८५ ।।
पापं विधायापि विधातृतुल्ये
सत्यापयामास सतां पुरोगः ।
ततो यतिं घातयतो न सद्यः
क्रोधानलेनास्य ददाह देहम्।। ८७ ।।
दयानुयातस्तनयस्य नाशं
श्रुत्वा महर्षिर्मुहुरात्तशोकः ।
दिदेश देशस्तुतसद्गुणाय
विशन् वशी विश्वभुजं स शापम्।। ८८ ।।
वनजकुसुमधारिणीमलङ्ध्यां
हरिनखपातविदारितोरुगण्डाम् ।
श्रियमिव नृपतिर्मृगव्यभूमिं
चिरमनुभूय गृहोन्मुखो बभूव।। ८९ ।।
अथ स विषमपादगोपितार्थं
जगदुपयोगवियुक्तभूरिधातुम् ।
बहुतुहिननिपातदोषदुष्टं
गिरिमसृजत्कुकवेरिव प्रबन्धम्।। ९० ।।
सपदि दिशि निबद्धभूरिघोषं
परमविनीतमनोज्ञनागवृन्दम् ।
जलधिमिव नृपः पुरं स्वकीयं
मणिगणमण्डितकान्तमाससाद।। ९० ।।
इति कुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
दशरथोत्पत्तिर्नाम प्रथमः सर्गः ।।

द्वितीयः सर्गः
रावणेन रणे भग्ना देवा दावाग्नितेजसा ।
द्रष्टुं जगत्पतिं जग्मुः पुरस्कृतपुरन्दराः।। १ ।।
निजदेहभराक्रान्तनागनिश्वासरंहसा ।
गतागतपयोराशिपातालतलमास्थितम्।। २ ।।
आसीनं भोगिनि स्रस्तमौलिमाल्यविभूषणम् ।
तत्क्षणत्यक्तनिद्रार्तिबद्धरागायतेक्षणम्।। ३ ।।
भुजङ्गपृथुकारूढमातङ्गमकराश्रयम् ।
युद्धमम्भोनिधिच्छेदे पश्यन्तं नृपलीलया।। ४ ।।
भोगिभोगासनक्षोभो माभूदिति सुदूरतः ।
भक्त््यानतशरीरेण सेव्यमानं गरुत्मता।। ५ ।।
अर्करश्मिभयेनेव पातालतलमास्थितम् ।
लक्ष्मीमुखतुषारांशौ प्रीत्या व्यापारितेक्षणम्।। ६ ।।
स्वमुखे सञ्चरद्दृष्टेरङ्कविन्यस्तपार्ष्णिना ।
स्पृशन्तं पादपद्मेन पद्माया नाभिमण्डलम्।। ७ ।।
सव्यापसव्यभागस्थपाञ्चजन्यसुदर्शनम् ।
तटद्वयस्थचन्द्रार्कविन्ध्यशैलमिवोच्छ्रितम्।। ८ ।।
पुरुषं पुरुहूताद्या नत्वा गीर्वाणसंहतिः ।
सनातनं स्कन्नशक्तिरूचे नुतियुतां गिरम्।। ९ ।।
समुद्रमथने यस्य भ्रमन्मन्दरघट्टिताः१ ।
तारा इव दिशो वव्रुः प्रदीप्ताङ्गदकोटयः।। १० ।।
येन दुर्वारवीर्य्येण सागराम्बरचन्द्रमाः ।
शङ्खः१ पातालपालानां यशःपिण्डमेवोद्घृतम्।। ११ ।।
यमंस२द्वयसंसक्तचन्द्रादित्याङ्गदश्रियम् ।
नेमुस्त्रिविक्रमे देवास्ताराहाराङ्कवक्षसम्।। १२ ।।
मन्थवातभ्रमन्मेघनक्षत्रादित्यमण्डलम् ।
पुरा निर्मथितं येन व्योमापि सह सिन्धुना।। १३ ।।
नाभिपद्मस्पृशौ भीमौ येन मायाशयालुना ।
पाणिभिः पाटितौ कामं कीटवन्मधुकैटभौ।। १४ ।।
लोकत्रयं यश्च सर्वं संहृत्य शयनं गतः ।
दृश्यते सलिलस्कन्धः सान्द्रीभूत इवोदधेः३।। १५।।
तुभ्यं सत्त्वमधिश्रित्य त्रैलोक्यपरिरक्षणे ।
सद्यः स्मरणमात्रेण नमस्तस्मै तमोनुदे।। १६ ।।
त्रिधा ते समभूद्योगः स्पृष्टसत्त्वरजस्तमाः ।
स्थितिनिर्वाणसंहारभेदयोगेन भेदितः।। १७ ।।
कुक्षौ तव परिभ्रम्य४ पश्यन्विश्वं विशां पतिः ।
विवेद त्वां विदामग््रयस्त्रैलोक्यभरसासहिम्।। १८ ।।
जगन्नेता नुतोऽथैवं भक्त््या नाकस्य भोक्तृभिः ।
हरिर्हारिहितं वाक्यं जगाद गदनाशनः।। १९ ।।
प्रबलारिबलप्राणविक्रियाहेतुहेतयः ।
किन्नु स्कन्नौजसो जाता देवा दैवक्षता इव।। २० ।।
हरेर्ध्यानारुणा शोकक्षामा नेत्रपरम्परा ।
किं बिभर्ति परिम्लानरक्तोत्पलवनश्रियम्।। २१ ।।
पाशपाणिरसाविष्टविग्रहो वनगोचरः ।
विरोऽपि वरुणः केन क्षुद्रपाशीव पीडितः।। २२ ।।
किमयं शोकसन्तापैर्मातरिश्वा कृशोऽपि सन् ।
भूरिभिर्निजनिःश्वासैः पुनरेवोपचीयते।। २३ ।।
एवं ध्रुवपरावृत्तिः सम्पद्विधिनिबन्धना ।
शोकविश्वभुजा सोऽयं दह्यते दहनोऽपि सन्।। २४ ।।
सम्प्राप्तजडिमा भानुस्त्रीव्रतापश्च चन्द्रमाः ।
किमेतौ वहतो देवौ धामव्यत्ययविप्लवम्।। २५ ।।
शुचैव सगदः सोऽहं भूयः किं धृतयाऽनया ।
इति त्यक्ता गदा नूनं मित्रेण गिरिधन्वनः।। २६ ।।
लाघवं केन कीनाश कृतं सायुधवाहने ।
रक्षके महिषस्यैवं दण्डहस्ते शिशाविव।। २७ ।।
प्रेरकः शिखिनः शक्त््या भीमः पातिततारकः ।
कल्पानिल इवावार्यः स्कन्दः किं दैन्यमास्थितः।। २८ ।।
आहत्य हृतसर्वास्त्रा भ्रूधनुर्मात्रधारिणी ।
कटाक्षशरशेषेयं चण्डी केन कृता रणे।। २९ ।।
निजनिःश्वासपिङ्गाङ्गकर्कोटाबद्धकन्धरः ।
नागशोणितदिग्धास्यस्तार्क्ष्यो राजशुकायते।। ३० ।।
साग्निजिह्वा तडिल्लेखानद्धा१ चास्य फणावली ।
किन्नु म्लायति वर्षान्ते घनश्रेणीव वासुकेः।। ३१ ।।
प्रमथानामधीशस्य माथकस्यामुरद्विषाम् ।
कूटस्थोऽपि मदः शोषवैकृतं किन्नु सेवते।। ३२ ।।
पृष्टवन्तमिति प्रष्ठः प्राज्ञः प्राञ्जलिरव्ययम् ।
धिषणो धिषणागम्यं जगाद जगदीश्वरम्।। ३३ ।।
त्वया सर्वज्ञ विज्ञातं पुनरेवेदमुच्यते ।
असन्तोषो हि भृत्यानां स्वामिनि स्वार्तिजल्पने।। ३४ ।।
मानिनामग्रणीरस्ति पुलस्त्यसुतसम्भवः ।
दर्पोद्धृतजगद्रक्षो रक्षोनाथो दशाननः।। ३५ ।।
चिरं चीरी जगन्नाशफलाय फलसाधनः ।
निर्विकारश्चकाराग्नौ स महौजा महत्तपः।। ३६ ।।
तेन व्रतयताहारं तपस्तप्तमुदन्वति ।
मातङ्गमकरक्रूरदन्तोल्लिखितवक्षसा।। ३७ ।।
तत्तपस्तोषितस्तस्मै चतुराय चतुर्मुखः ।
वरं वीराय विश्वेशः प्रादाज्जेतुं जगत्रयम्१।। ३८ ।।
स कदाचिद्रटन्नागं नगं नाकौकसामरिः ।
हरगौरं हरस्थानं पटुनादं व्यपाटयत्।। ३९ ।।
स्फुरन्नगशिरस्त्यक्तैरुन्नदन्नदनिर्झरैः ।
स्पृष्टे पूषणि झङ्कारं घोरमातन्वति क्षणात्।। ४० ।।
एकतः प्रग्रहाकृष्टखलीनावक्रकन्धरान् ।
वाजिनो जवयत्यद्रिपातभीतेऽ२र्कसारथौ।। ४१ ।।
घूर्णमानमहाशैलतटभ्रष्टे मुहुर्मुहुः ।
मत्तस्येवोत्तरीये स्वं स्थानं त्यजति निर्झरे।। ४२ ।।
गौरीभयपरिष्वङ्गस्पर्शलब्धमहोत्सवे ।
सङ्क्रुद्धधूर्जटिक्रोधप्रतिलोमप्रवर्तिनि।। ४३ ।।
कपालनयनच्छिद्रं जटाबद्धफणावति ।
सङ्कोचितफणाचक्रं विशत्युत्त्रासविह्वले।। ४४ ।।
कार्तस्वरमयं मेषं कृकवाकुध्वजे सति ।
गोपायति परित्रस्ते मातुरुत्सङ्गसङ्गिनि।। ४५ ।।
उत्पश्यति चिरं धीरे१ क्रोधरोधार्तचेतसि ।
भर्त्तुर्भ्रूभागभङ्गस्य प्रादुर्भावं ककुद्मनि।। ४६ ।।
रूढमूलमिव श्वेतैरधोलग्नैर्भुजङ्गमैः ।
प्रौढपुष्पमिवाग्रस्थस्फुरन्नक्षत्रमण्डलैः।। ४७ ।।
चरणेन रणत्सिंहकुलाकुलगुहामुखम् ।
गिरिं गौरीपतिः कुञ्जे गुञ्जत्सिन्धुं न्यपीडयत्।। ४८ ।।
धराधरभराक्रान्ते बाहौ बहुभिराननैः ।
दिक्षु दीर्घप्रतिक्रोशो रावणेन कृतो रवः।। ४९ ।।
स तं देवं शिरश्छेदव्रणचक्रैरपूजयत् ।
नीलकुट्टिमविन्यस्तैर्मण्डलैरिव कौङ्कुमैः।। ५० ।।
वक्त्राणि पङ्क्तिसङ्ख्यानि राक्षसस्य दिशो दश ।
आज्ञापयितुमेतस्य पुनः सृष्टानि शूलिना।। ५१ ।।
तमःस्थानं तमासाद्य बालिशं कुलिशं रणे ।
अजहादज धाम स्वं वैकुण्ठस्य विकुण्ठितम्।। ५२ ।।
तमद्याप्यनवद्येन वसुना वासवः स्वयम् ।
अजय्यं पूजयत्येकवीरं वैरस्य शान्तये।। ५३ ।।
बलिं वज्राय पौलोमी सस्मितं विगतादरा ।
कुर्वती कुरुते शक्रं व्रीडासन्नरमिताननम्।। ५४ ।।
केवलं धनदस्तस्मै यक्षनाथो दिशन्धनम् ।
सर्वस्वहरणप्रीतो रावणस्तु धनेश्वरः।। ५५ ।।
कर्म धर्म्यं परित्यज्य प्रीणाति पिशितप्रियम् ।
प्रेतराजोऽप्यभिप्रेतभक्ष्यदानेन राक्षसम्।। ५६ ।।
दूरतः सेवते भानुरादित्यमणितोरणात् ।
च्युते तन्मन्दिरद्वारदाहभीतो हुताशने।। ५७ ।।
निवृत्ततत्सरःपद्मस्वापकारणतेजसा ।
बोधनीयं किलाशेषं वनं कौमुदमिन्दुना।। ५८ ।।
तथा ज्वलितुमादिष्टो दीपकृत्यो वृषाकपिः ।
यथा न कज्जलस्पर्शचित्रवैवर्ण्यसम्भवः।। ५९ ।।
रतिक्लमथुमद्देहं तरङ्गान्तरगोचरः ।
लब्धसेवावकाशः सन्सेवते तं समीरणः।। ६० ।।
पातालहृदयान्तःस्थं पद्मरागं पयोनिधिः ।
अग्रमांसमिवोद्धृत्य ददाति पिशिताशिने।। ६१ ।।
काले कालाभ्रगर्भेऽपि निर्मदा नर्मदादयः ।
नन्दयन्ति सदा नद्यो वज्रैर्वज्रायुधद्विषम्।। ६२ ।।
निशि ज्ञातमनोवृत्तिस्तमुपैति हिमागमः ।
प्रियाजनपरिष्वङ्गप्रीतिं कर्तुं निरन्तराम्।। ६३ ।।
तस्योद्यानवनं विश्वं दिवः प्रवसता सता ।
सर्वर्त्तुषु निजैः पुष्पैर्भूष्यते मधुनाऽधुना।। ६४ ।।
दुराराध्यस्वभावस्य समालम्ब्य सिषेविषाम् ।
जलक्रीडादिनं तस्य ग्रीष्मश्चिरमुदीक्षते।। ६५ ।।
त्रासकण्ठग्रहव्यग्रांस्तस्मिन्निच्छति मानिनीः१ ।
धीरं गर्जन्ति लङ्कायामकाले वारिदा अपि।। ६६ ।।
अश्रान्ता वीजयत्यष्टहस्तपर्यायसम्पदा ।
इति चण्डीमभिप्रेप्सुः कर्त्तुं चामरधारिणीम्।। ६७ ।।
स्तब्धकर्णो नमत्येनं श्रवणाक्षेपमारुतैः ।
भूभक्तिकुसुमाक्षेपदोषभीतो गणाधिपः।। ६८ ।।
स्मरश्च संसदं तस्य विशति स्रस्तवाससा ।
प्रतीहार्या स्मिताकूतविभ्रमैः कठिनागमः।। ६९ ।।
अन्तःशुद्धः शुद्धान्ते स्त्रीजनस्य तदाज्ञया ।
लीलोपदेशदानैकव्यग्रो विशति मन्मथः।। ७० ।।
त्वयि रक्षाकृति स्वर्गसद्मनामपि दैवते ।
कथं नक्तञ्चरेणैवं दिवस्त्रासो वितन्यते।। ७१ ।।
भ्रातरि द्विषतो बाहुभग्नौजसि विडौजसि ।
भोगिभोगे चिरं तावत्केयं देवस्य शायिका।। ७२ ।।
आत्मस्वनुगुणं दैवं दृष्ट्या मन्यामहे तव ।
नहि त्वं दैवहीनस्य जनस्य तु सुदर्शनः।। ७३ ।।
इत्थं वाचस्पतौ वाचं व्याहृत्य विरते क्षणम् ।
स्वर्गे च स्वप्रतिजल्पस्पृहानिष्पन्दवर्तिनि।। ७४ ।।
अपि कुक्षिस्थनिःशेषलोकत्रयभरोद्वहः ।
शोकक्षयाय मर्त्यस्त्रीकुक्षिवासं विधाय वः।। ७५ ।।
कुर्यां राम इति ख्यातो भूत्वा भर्त्तुः सुरद्विषाम् ।
एकबाणकृताशेषशिरश्छेदपराभवम्।। ७६ ।।
इत्युदारमुदाहृत्य वचो वाचामगोचरः ।
तत्याज वेदविद्वेद्यो वर्षातल्पं वृषानुजः।। ७७ ।।
चिरशयनगुरुं स्वभोगराशिं
भुजगपतिः शनकैर्वितत्य खेदात् ।
शिथिलितफणपङ्क्तिमुक्तदीर्घ-
श्वसितविधूतमहार्णवोऽवतस्थे।। ७८ ।।
निद्रामन्थरताम्रलोचनयुगो लीलालसन्न्यासया
गत्या निर्जितवारणेन्द्रगमनः क्वापि प्रतस्थे ततः ।
भूमिस्पर्शभयादुपेत्य तरसा लक्ष्म्या करेणोद्धृतं
व्यालम्बैकपटान्तमंसशिखरे क्षप्त्वोत्तरीयं हरिः।। ७९ ।।
इति कुमारदसस्य कृतौ जानकीहरणे महाकाव्ये
जगत्पत्यभिगमनो नाम द्वितीयः सर्गः ।
तृतीयः सर्गः
अथ श्रियः प्राणसमस्य तस्य
ज्ञात्वा विविक्षामिव मर्त्त्यधामि्न ।
ततान सद्यः सुमनःसमृद्ध्या
पूर्वावतीर्णो भुवनं वसन्तः।। १ ।।
भ्रान्त्वा विवस्वानथ दक्षिणाशा-
मालम्ब्य सर्वत्र करप्रसारी ।
ऋत्वित्ततो निःस्व इव प्रथस्थे
यत्रोपलब्धो धनदस्य वासः।। २ ।।
वृक्षा वितेनुर्नवकुड्मलाढ्या
रूपं मनोज्ञद्युति चम्पकाख्याः ।
न्यस्ता वसन्तस्य वनस्थलीभिः
सहस्रदीपा इव दीपवृक्षाः।। ३ ।।
सम्पिण्डितात्मावयवा उदीयुः
पद्मा नवाः कण्टकितोर्ध्वदण्डाः ।
अन्तर्जलावासविरूढशीत-
त्रस्ता वसन्तातपकाम्ययेव।। ४ ।।
कर्णे कृतो दीर्घविलोचनाना-
मलोलदृष्टद्युतिभिन्नरागः ।
बालोऽप्यशोकप्रभवः प्रबालः
कान्तिं प्रपेदे परिणामगम्याम्।। ५ ।।
स्फुरन्ति कान्त्या नवकुड्मलानि
प्रादुर्बभूवुः करवीरजानि ।
प्रवासिनां शोणितपाटलानि
तीरीफलानीव मनोभवस्य ।। ६ ।।
लब्ध्वा रणन्नूपुरमङ्गनानां
बन्ध्योऽपि सालक्तकपादघातं ।
उद्भूतरोमाञ्च इवातिहर्षात्
पुष्पाङ्कुरैरास नवैरशोकः ।। ७ ।।
महीध्रमूर्धि्न भ्रमरेन्द्रनीलै-
र्विभक्तशोभः शिखिकण्ठनीलैः ।
गृहीतभास्वन्मुकुटानुकार-
स्ततान कान्तिं नवकार्णिकारः ।। ८ ।।
वासन्तिकस्यांशुचयेन भानो-
र्हेमन्तमालोक्य हतप्रभावम् ।
सरोरुहामुद्धृतकण्टकेन
प्रीत्येव रम्यं जहसे वनेन ।। ९ ।।
समीरणानर्तितमञ्जरीके
चूते निसर्गेण निषण्णभावाः ।
पुष्पावतंसेषु पदं न चक्रु-
र्दीप्तेष्विवाशोकवनेषु भृङ्गाः ।। १० ।।
विनिद्रपुष्पाभरणः पलाशः
समुल्लसत्कुन्दलतावनद्धः ।
उद्भूतभस्मा मधुनेव रेजे
राशीकृतो मन्मथदाहवह्निः ।। ११ ।।
महीरुहां वातचलाः प्रवाला
वसन्तदीप्तातपखेदितानां ।
जिह्वा यथा विद्रुमभङ्गताम्रा
निष्कासिता रेजुरतिश्रमेण ।। १२ ।।
प्रालेयकालप्रियविप्रयोग-
ग्लानेव रात्रिः क्षयमाससाद ।
जगाम मन्दं दिवसो वसन्त-
क्रूरातपश्रान्त इव क्रमेण ।। १३ ।।
ततः स्मरस्याहवधामकल्पं
क्षोणीपतिर्भ्रान्तशिलीमुखाङ्कम् ।
उद्यानमासेवत रक्तदीप्ति-
सन्तानभास्वत्करवीरकीर्णम् ।। १४ ।।
रम्याणि रामानुगतो विहङ्ग-
पक्षानिलानर्तितपल्लवानि ।
उद्भ्रान्तभृङ्गाणि लतागृहाणि
सम्भावयामास रहोविहारैः ।। १५ ।।
त्वमप्रमादं कुरु नूपुराङ्घ्रौ
काञ्चि क्षणं धत्स्व नितम्बभारम्१ ।
इतीव तस्मिन्विहरन्नृपस्त्री-
कक्ष्यातुलाकोटिपुटैर्निनेदे ।। १६ ।।
पत्यावनङ्गक्षतधैर्यवृत्ति-
श्चिक्षेप बाला मुहुरर्द्धदृष्टिम् ।
दूरस्थपुष्पस्तबकावभङ्ग-
व्याजेन सन्दर्शितबाहुमूला ।। १७ ।।
विलासवत्याश्चरणान्तरागे
पत्या परस्याः प्रविधीयमाने ।
अन्यत्र युक्तेऽपि बबन्ध रागं
लाक्षारसस्तत्प्रतिपक्षनेत्रे ।। १८ ।।
पातुं सुदत्या वदनारविन्द-
मादाय दृष्टो ललनाभिरीशः ।
अपुष्परेणुव्यथितेऽपि तस्या-
श्चिक्षेप नेत्रे मुखगन्धवाहम् ।। १९ ।।
पुष्पावभङ्गे निजहस्तकान्त्या
विन्यस्तरागं कठिनं पलाशम् ।
प्रवालकृत्ये विनियोजयन्ती
पत्याऽपरा सस्मितमालिलिङ्गे ।। २० ।।
स्निग्धद्विजालीरुचिरं प्रियङ्गु-
श्यामद्युतिश्चारुतमालकान्ता ।
बिभर्षि गन्धाहृतभृङ्गचक्रं
सन्माधवीमण्डपमेतदास्यम् ।। २१ ।।
मध्येललाटं तिलकस्य वृत्ति-
रोष्ठद्युतिर्भाति च पाटलेयम् ।
पुन्नागसंयोगविभूषिताया-
श्चेतश्च ते यातमशोकभावम् ।। २२ ।।
किं कौतुकेन श्रमकारिणा ते
बाले त्यजोद्यानविहाररागम् ।
अस्य त्वमस्योपवनस्य लक्ष्मी-
रित्येवमूचे ललना सखीभिः ।। २३ ।।
तन्व्या नवाशोकदलस्य रागः
प्रियेण कर्णे विनिवेशितस्य ।
आनीलया नेत्ररुचा निरस्त-
स्तस्या जगामेव विपक्षचक्षुः ।। २४ ।।
पर्यन्तभूमौ मदमन्दपातं
चक्षुर्निधायाऽथ निधिर्गुणानाम् ।
उवाच वाचं निकटोपयातां
हारिप्रलापः प्रतिहाररक्षीम् ।। २५ ।।
विलोकयन्त्यः विलसत्प्रसूनं
लोभेन कुर्वन्ति कुरङ्गनेत्राः ।
शुभाभिरेनं नयनप्रभाभिः
शारत्विषं पुष्पतरुं तरुण्यः ।। २६ ।।
विभाति भृङ्गीसरणिः सरन्ती
गन्धाहृता चम्पककुड्मलाग्रे ।
अन्तं प्रदीपस्य निषेवमाणा
धूमावली कज्जलरेखिणीव ।। २७ ।।
उदन्यया वारिविगाहिताया
रक्तोत्पलं तन्निकटप्ररूढम् ।
विलोकयाक्ष्णोः शितिकान्तिजालै-
रिन्दीवरत्वं गमितं हरिण्याः ।। २८ ।।
सञ्छादिते पद्मरजोवितानैः
परिभ्रमन्वारिणि राजहंसः ।
स्ववर्त्मरेखाभिरसौ विभज्य
प्रयच्छतीवाब्जवनं खगेभ्यः ।। २९ ।।
इयत्प्रमाणोऽपि सरःप्रदेश-
स्तव प्रसादेन ममास्तु भोग्यः ।
इत्येष सन्दर्शयतीव मद्गु-
र्हंसाय शोषाय विसारितांसः ।। ३० ।।
पद्मः सितोऽयं पवनावधूतै-
र्निर्धौतरागो नु तरङ्गलेशैः ।
सम्भावितो नु द्रुहिणेन तावत्
कृतादिकर्मापि न यावकेन ।। ३१ ।।
एवं वदन्नेव वराङ्गनाभि-
र्वृतो वृषेन्द्रोपमखेलगामी ।
ततः सलीलं सलिलं विभिन्द-
न्स दीर्घिकां दीर्घभुजो जगाहे ।। ३२ ।।
तस्योरसि क्षत्त्रकुलैककेतो-
स्तरङ्गदोषा कमलाकरेण ।
न्यस्ता मुहुः पङ्कजरेणुपङ्क्तिः
सौवर्णसूत्रश्रियमाततान ।। ३३ ।।
कामीव रामाजनमूरुदघ्नम्
पद्माकरो वारि विगाहमानम् ।
वीचीकराग्रेण शनैः सशब्दम्
व्यास्फालयामास पृथौ नितम्बे ।। ३४ ।।
तस्यावगाहे वनिताजनस्य
दूरीकृतः पीननितम्बचक्रैः ।
लब्धप्रवेशस्तनुषूदरेषु
स्तनैरुदासेऽथ सरस्तरङ्गः ।। ३५ ।।
क्रीडापरिक्षोभरयेण तासा-
मुत्सारिते पङ्कजरेणुजाले ।
तत्कञ्चुकादम्बुरुहाकराम्भः
कौसुम्भतः कृष्टमिवावभासे ।। ३६ ।।
रामाभिरुक्तण्टकदण्डमग्रे
सम्भावितं नोच्छिदया सरोजम् ।
इन्दीवराणामुदहारि पङ्क्ति-
र्दीप्ता मृदुष्वेव जनस्य शक्तिः ।। ३७ ।।
अन्तर्जलावारितमूर्ति यातु-
र्बालापरिष्वङ्गसुखाय पत्युः ।
विघ्नाय वैमल्यमपां बभूव
व्यर्थः प्रसादो हि जलाशयानाम् ।। ३८ ।।
भृङ्गा निलीनेन सरोजषण्डे
योषिद्वितीयेन नराधिपेन ।
उत्सारिता वक्तुमिवापरासां
कर्णान्तमीयुर्निहितावतंसम् ।। ३९ ।।
नृपेण केलीकलहेऽपरस्या-
श्छिन्नच्युतस्याम्बुजिनीपलाशे ।
हारस्य वीचीकणिकाः समीपे
पूर्वस्थिताः संवरणान्यभूवन् ।। ४० ।।
क्रीडाविमर्दे वलयस्य भिन्न-
भ्रष्टस्य चिक्षेप विकृष्य हंसः ।
स्वच्छे जले बालमृणालभङ्ग-
शङ्काहृतः शङ्खमयस्य हंसः ।। ४१ ।।
रोधोलतामण्डपयातकान्ता-
सम्भोगतः सर्पति काञ्चिनादे ।
ररक्ष राजानमथ व्यलीका-
दुत्त्रासमुक्तः कलहंसनादः ।। ४२ ।।
निरुद्धहासस्फुरिताधरोष्ठः
सद्यः समाविष्कृतरोमहर्षः ।
जलावमग्नप्रमदोपगूढे-
रुद्भावकस्तस्य बभूव गण्डः ।। ४३ ।।
फुल्लं यदीदं कमलं किमेव-
मत्रैव नीलोत्पलयोर्विकाशः ।
इत्यात्तशङ्को वदनं सुदत्या
हंसः सिषेवे न सरस्तरन्त्याः ।। ४४ ।।
सुगन्धिनिश्वासगुणावकृष्टं
मुखे पतन्तं करपल्लवेन ।
दुर्वारमन्तःसलिलप्रवेशात्
तत्याज काचिद्भ्रमरीसमूहम् ।। ४५ ।।
मत्स्येन चीनांशुकपृष्ठलक्ष्य-
काञ्चीमणिग्रासकुतूहलेन ।
आघ्राय मुक्तोपनितम्बमेका
सन्त्रासभुग्नभ्रु चिरं चकम्पे ।। ४६ ।।
व्युदस्तवासाः सलिलं नृपेण
तत्याज नो सव्यपदेशमन्या ।
स्थाने प्रयुक्तः कपटप्रयोगः
क्वचिद्भुनक्त््येव जनं विपत्तेः ।। ४७ ।।
हृतान्तरीया हृदयेश्वरेण
व्रीडोपतप्ता पयसः प्रसादात् ।
व्यर्थप्रणामाश्रुनिपातवृत्तिः
काचिज्जलं सम्भ्रमयाञ्चकार ।। ४८ ।।
सामि प्रबुद्धस्य कुशेशयस्य
कोशे मुखन्यासनिरुद्धट्टष्टिम् ।
स्प्रष्टुं प्रयेते कलहंसशाबं
निःशब्दमुत्खण्डितवीचि सस्रे ।। ४९ ।।
सङ्क्षोभितोद्दामसरस्तरङ्ग-
क्षिप्ता किलैका नृपतिं कुचाभ्याम् ।
आहत्य धृष्टत्वकृतापवाद-
व्यपायरम्यं मुहुरालिलिङ्गे ।। ५० ।।
अन्या पुराणं निजमेव वीचि-
विक्षालिताङ्गेऽधिपतेः पृथिव्याः ।
मार्गं नखस्य स्फुटकुङ्कुमाङ्कं
ट्टष्ट्वा परं द्वापरमाललम्बे ।। ५१ ।।
किं राजहंसस्य शशाङ्कबिम्ब-
च्छायामुषश्चञ्चुरियं प्रवालैः ।
बद्धा नु गन्धोज्ज्वलकेशराग्र-
च्छेदेषु दिग्धा नु सरोजकान्त्या ।। ५२ ।।
भृङ्गोऽयमिन्दीवरमध्यपात-
सञ्चारितैस्तद्युतिरञ्जितो नु ।
निधाय तस्मिन्निजपक्षशोभा-
मादत्त नु स्वादुमतः परागम् ।। ५३ ।।
पद्मा पदं पद्मवने विभिन्न-
वीचीकणार्द्रद्रुतयावकाङ्कम् ।
चक्रे चिरं चारुतया नु लोभा-
दित्यास कासामपि तत्र तर्कः ।। ५४ ।।
यातो नु भृङ्गः पतितः पुराऽस्मिन्
बीजत्वमेवं नु विरिञ्चिसृष्टिः ।
विपाकनीलद्युति पद्मवीजं
कोशादुदस्येति कयाचिदूचे ।। ५५ ।।
प्रियोऽपरस्या गलितान्तरीये
व्यापारयामास दृशौ नितम्बे ।
तद्धस्तयन्त्रच्युतवारिधारा
नालं बभूवास्य मुखारविन्दे ।। ५६ ।।
सायं समादाय निकामपीत-
सुप्तद्विरेफं मुकुलं सरोजम् ।
काचित्करास्फालितदीर्घदण्डं
भर्त्तुर्भुवः क्वाणयति स्म कर्णे ।। ५७ ।।
याते पतङ्गे विससर्ज भृङ्गान्
समुच्छ्वसत्कौमुदगन्धलुब्धान् ।
सा पद्मिनी पद्मविलीचनेभ्यः
स्थूलानिवोढाञ्जनवाष्पबिन्दून् ।। ५८ ।।
नूनं पती वासरजङ्गमानां
पर्यायविश्रामपरार्थतन्त्रौ ।
एको निमज्जत्यधिवारि सिन्धो-
रन्यो जहौ तत्कमलाकराम्भः ।। ५९ ।।
निद्राहृताम्भोजनिमीलिताक्षी
रुग्णं मृणालीवलयं दधाना ।
सरोजिनी तत्परिभुक्तमुक्ता
मूर्च्छातुरेव स्तिमिता विरेजे ।। ६० ।।
द्वयं द्वयोरम्बुरुहाकरस्य
कृतोपकारस्य निधाय जग्मुः ।
भृङ्गावलीष्वञ्जनमायताक्ष्यः
पद्मेषु दन्तच्छदयावकञ्च ।। ६१ ।।
सरः सहंसं सह कामिनीभि-
र्विहाय तुल्यो वृषवाहनस्य ।
विभूषितो लम्भितभूषजानि-
रध्यास्त सौधं वसुधाधिनाथः ।। ६२ ।।
आकृष्टदृष्टिर्गगनस्य लक्ष्म्या
लक्ष्मीभुजा वासरसन्धिभाजः ।
काचित्कुचानम्रतनुर्बभाषे
बाला सबालव्यजनैकपाणिः ।। ६३ ।।
निधाय तापं तपनः पतत्यसौ
प्रवासिनां चेतसि चिन्तयाऽऽतुरे ।
सुकुङ्कुमस्त्रीकुचमण्डलद्युति-
र्विलोलवीचावपरान्तसागरे ।। ६४ ।।
इयं तनुर्वासरसन्धिचारिणी
जगत्सृजो विद्रुमभङ्गलोहिनी ।
समं विधत्ते मुकुलं सरोरुहै-
र्हिरण्यबाहोरपि हस्तपङ्कजम् ।। ६५ ।।
करेण वीचीवलयस्य मस्तके
विभाव्यमानस्फुरिताग्रकोटिना ।
इयत्प्रमाणं पयसः पयोनिधौ
निमज्ज्य सन्दर्शयतीव भानुमान् ।। ६६ ।।
विकीर्णसन्ध्यारुणितं शतक्रतो-
र्दिशः प्रदेशादभिनिष्पतत्तमः ।
पतङ्गतेजःपरितापलोहितं
जगत्क्रमेण व्रजतीव निर्वृतिम् ।। ६७ ।।
हिमांशुबिम्बे पुरुहूतदिङ्मुख-
स्मितश्रियं बिभ्रति कोमलद्युतौ ।
विसृज्यमानं तमसा नभस्तलं
जहाति निर्म्मोकमिवाञ्जनत्विषा ।। ६८ ।।
अथैवमस्यावसरे वचःश्रियः
समीक्ष्य निष्ठामुपनीतमास्थया ।
अपाययन्त प्रमदा मदालसाः
स्खलद्गिरास्तं मधु लम्भितादराः ।। ६९ ।।
प्रियोपनीतं पिबतोऽधिवासितं
नृपस्य गण्डूषमधु प्रकामतः ।
बभूव दन्तच्छदपल्लवस्तदा
निपीतपानावसरोपदंशकः ।। ७० ।।
प्रियेण वध्वा मधु लासितोत्पलं
विपक्षगोत्रेण निगद्य लम्भितम् ।
अपीतमप्यक्षि विधाय रागव-
त्ततान सद्यः श्रमवारि गण्डयोः ।। ७१ ।।
त्विषा मुखेन्दोरुत शर्वरीकृतः
करेण नीते मुकुलत्वमम्बुजे ।
प्रियेक्षणस्य प्रतिबिम्बमाचरत्
सरोजकृत्यं मधुभाजि भाजने ।। ७२ ।।
यियासुना पङ्कजगर्भसौरभं
मुखं तदीयं प्रतिबिम्बमूर्तिना ।
समन्मथेनेव तरङ्गितासवे
मुहुश्चकम्पे चषके हिमांशुना ।। ७३ ।।
स्थितस्य मुग्धा मदघूर्णलोचना
निरूपयन्त्यः शुचिरूप्यभाजने ।
न रूपमिन्दुप्रतिरूपगोपितं
विलासवत्यो मधुनो विजज्ञिरे ।। ७४ ।।
प्रवृद्धवामत्वमनन्यसाधितं
विधूय मानादपि१ पूर्वमासवः ।
स्मरं नु तासां हृदये विलोचने
बबन्ध रागं नु मुखे नु२ सौरभम् ।। ७५ ।।
इति प्रबन्धाहितपानकातरं
प्रियाङ्कतल्पे शयितं निशात्यये ।
व्यबोधयन्मङ्गलवन्ति वन्दिनो
विधाय वाक्यानि विधातृतेजसम् ।। ७६ ।।
जहिहि शयनमुद्गमस्य कालः
समुपनमत्यनुरक्तमण्डलस्य ।
भुवनशिरसि कीर्णपादधाम्नो
भवत इव क्षततामसस्य भानोः ।। ७७ ।।
विरामः शर्वर्या हिमरुचिरुपेतोऽस्तशिखरं
किमद्यापि स्वापस्तव मुकुलिताम्भोरुहदृशः ।
इतीवायं भानुः प्रमदवनपर्यन्तसरसीं
करेणाताम्रेण प्रहरति विबोधाय तरुणः ।। ७८ ।।
द्विपास्ते दन्ताग्रस्थितकरमुदस्याननतटं
शनैराकर्षन्तो निगडकृतझङ्कारमपरम् ।
समुत्तिष्ठन्त्येते करटतटलीनालिवितती-
र्निरस्यन्तो हेलाविधुतपृथुकर्णाग्रपवनैः ।। ७९ ।।
पादेनैकेन तिष्ठन्पटुपटहरवैर्बोधितो वासयष्ट्यां
पश्चात्पक्षेण सार्द्धं चिरशयनगुरुं पादमन्यं वितत्य ।
उत्फुल्लोद्धूतपक्षच्युतहिमकणिकावृष्टिरायम्य कण्ठं
निद्राशेषार्तदृष्टिर्निनदति मधुरं केकया ते मयूरः ।। ८० ।।
एवं वन्दिप्रवादे१ चरति विसृजता चन्द्रपादावदातं
तल्पं तेनानुचक्रे मलयतरुरसामेदितांसद्वयेन ।
उन्निद्रश्वेतपद्मप्रकरपरिकरच्छन्नवीचीविताना-
दुद्यन्मन्दं सरस्तः सलिलगुरुवृहत्पक्षतिर्मल्लिकाक्षः ।।८१।।
इति कुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
उद्यानक्रीडावर्णनो नाम तृतीयः सर्गः ।
चतुर्थः सर्गः
अथ स प्रविजृम्भिते शुचौ
विधुरश्चेतसि पुत्रकाम्यया ।
सुबहुद्विजसात्कृताखिल-
द्रविणः स्तोममयष्ट भूपतिः ।। १ ।।
विफले बहुशस्तदध्वरे
सति पुत्त्रीयमनन्तरं क्रतुम् ।
निरवर्तयदृष्यशृङ्ग इ-
त्यभिधानप्रथितस्तपोनिधिः ।। २ ।।
पुरुषः परिगृह्य कश्चन
श्रितचामीकरभाजनं चरुम् ।
उदियाय रुचा परिज्वल-
न्ज्वलतो रोहितवाजिनस्ततः ।। ३ ।।
प्रविवेश विशांपतिश्चरुं
चतुरंशीकृततेजसात्मना ।
प्रविधातुमरातिनिर्जित-
त्रिदशाश्रुस्रववृष्ट्यवग्रहम् ।। ४ ।।
दयिताभिरनन्ततेजसा
मुनिनाऽसौ परिजप्य लम्भितः ।
अशितः प्रविभज्य भूपते-
स्तिसृभिर्गर्भमबीभवच्चरुः ।। ५ ।।
सुतयोर्भवतः स्म बालिजि-
द्भरतौ कोसलकेकयेन्द्रयोः ।
यमजौ यमतुल्यतेजसौ
सुषुवाते समये सुमित्रया ।। ६ ।।
अथ दिव्यमुनिप्रवर्तित-
प्रसवानन्तरजातकर्मणाम् ।
रुरुचे चरुजन्मनां दशा
तनुसन्दर्शितदन्तकुड्मला ।। ७ ।।
न स राम इह क्व यात
इत्यनुयुक्तो वनिताभिरग्रतः ।
निजहस्तपुटावृताननो
विदधेऽलीकनिलीनमर्भकः ।। ८ ।।
मुखमाहृतधूलि गण्डयोः
करधृष्टाञ्जनदानमस्य तत् ।
विबभौ सुरदन्तिनो यथा
वदनं दन्तचतुष्टयोज्ज्वलम् ।। ९ ।।
कतरस्तव तात उच्यता-
मिति धात्रीवचनेन चोदितः ।
रुचिरेण करेण निर्द्दिश-
ञ्जजगदीशं प्रमदेन सन्दधौ ।।१०।।
अपि किञ्चिदितो लभामहे
रघुनाथेति गुरोरुपेयुषः ।
वदनस्थकुचाग्र एव स
स्मयमानो मुदमादधे शिशुः ।।११।।
अयि दर्शय तत्किमुन्दुरा-
द्भवतोपात्तमिति प्रचोदितः ।
प्रविदर्शयति स्म शिक्षया
नवकं दन्तचतुष्टयं शिशुः ।।१२।।
इतरेऽपि सरोजशीतलै-
र्मृदुभिः साञ्जनराजिभिः करैः ।
शयने समवाहयन्पितु-
श्चरणौ मातृजनेन चोदिताः ।।१३।।
शयनीयगतस्य भूपतेः
शिशवः क्रोडनिवेशवाञ्छया ।
निशि वर्द्धितमातृसम्पदं
कलहं कोमलजल्पितं दधुः।।१४।।
क्रमशश्चरुजन्मनो वपुः
परिवृद्धिर्महिता महीयसः ।
प्रतिवासरमायुषः क्षय-
स्त्रिदशारेरपि तुल्यमासतुः ।। १५ ।।
धनुषि प्रतिलब्धपाटवे
नृपतेरन्यतरेद्युरात्मजे ।
भवनं भुवनस्य शासितुः
प्रतिपेदे मुषितक्रतुर्मुनिः ।। १६ ।।
स्वकिरीटमणिप्रभाम्बुभिः
प्रथमक्षालितपादपङ्कजम् ।
नृपतिः समबीभवन्मुनिं
पुनरुक्तैरिव पाद्यवारिभिः ।।१७।।
कुशलं परिपृच्छ्य सर्वगं
मुनिरध्यासितरत्नविष्टरः ।
उपविष्टमसौ भुवस्तले
विरतं राजमुनिं जगौ गिरम् ।।१८।।
स्वजनादपि लब्धवैशसे
नृपतित्वे शठभृत्यसम्पदि ।
प्रियवादिरिपावपि स्थितो
नृप दिष्ट्या कुशलेन वर्तसे ।। १९ ।।
द्विषतो भवबन्धभेदिना
दहतश्चेतसि योगवह्निना ।
न जहाति विपत्तिरद्य नः
परसम्पत्तिषु निःस्पृहानपि ।।२०।।
अनुयान्ति समन्ततो मखे
निपतच्छोणितवृष्टयो दिशः ।
पवनाहतवृन्तविच्युत-
प्रसवाः किंशुककाननश्रियः ।। २१ ।।
स्फुरदर्चिषि देवतामुखे
धृतवैकङ्कतसाधनस्रुचाम् ।
मिषतामपि नस्तपस्यतां
हुतमद्यश्व उदस्यते रिपुः ।। २२ ।।
जहि तं युधि पश्यतोहरं
गुरुणा रामशरेण राक्षसम् ।
सदसः समयेषु वृत्तये
विधिनाऽऽहूतहुतांशभाजिनः ।।२३।।
जनमिन्द्ररिपुस्त्वदर्पतं
यमिनं न क्रमते विहिंसितुम् ।
शशिनं मृगशत्रुराश्रितं
न मृगं प्रार्थयते हि जातुचित् ।।२४।।
उरगा इव घर्मपीडिताः
क्रतुशत्रुव्यथितास्तपस्विनः ।
उपयान्त्युपतापनाशनं
विपुलं त्वद्भुजचन्दनद्रुमम् ।। २५ ।।
वयमर्ककुलैककसंश्रया
न परं भूपतिमाश्रयामहे ।
न हि जातु पतन्ति पल्वले
जलदा वारिधिपानलम्पटाः।।२६ ।।
त्वदणुप्रियमाश्रयामहे
न परस्मादतिविस्तराण्यपि ।
पयसः कणमेव चातको
जलदादत्ति बहूनि नान्यतः।।२७।।
नृपताविति वेदितापदा
मुनिना जोषमभूयत क्षणम् ।
महतां न कदाचिदर्थता
गुरुनिर्बन्धविनष्टसौष्ठवा ।। २८ ।।
परिपूततनुर्द्विजाशिषा
शुभया तातरसावृतः१ स्वयम् ।
पृथुकः पृथुकीर्तिरर्पितो
भवति श्वः समराय यास्यति।।२९।।
इति वस्तुमवस्तुकाङ्क्षिणे
स मुदाऽस्मै समुदाहृतप्रियः ।
शरणं शरणार्थिने ददौ
विशिने विश्वभुजो नरेश्वरः ।। ३० ।।
चलिते च सुतं तपस्यति
प्रथमाहूतमृषेर्नमस्यया ।
उपनीय चिराय विर्जितं
स्वयमङ्कं प्रियमाददे वचः ।।३१।।
समवेदि यतस्त्वदर्थिना
कथितं यद्दुरतिक्रमं त्वया ।
अवधूय ततस्तदापदं चिनु
बाणेन कुलोचितं यशः ।।३२।।
अविजित्य सदा नु रक्षितुं
न भुवः शक्यतया जयैषिणां ।
ननु दिग्जयसंभृतो महा-
विभवोऽयं भवतः प्रसङ्गतः ।।३३।।
भुवनानि बिभर्ति कश्चन
स्वजनानेव परः प्रयत्नतः ।
इतरस्तनुमेव केवलं
प्रभुरन्यो भरणेऽपि नात्मनः ।। ३४ ।।
इति पक्षचतुष्टये स्थिते
रघवः पूर्वमुदस्य मानिनः ।
क्षपयन्ति यशः क्रमागतं
न हि पक्षान्तरसम्परिग्रहात् ।। ३५।।
जनमन्यहितप्रवर्तनं
स्वयमेवाभिसरन्ति सम्पदः ।
नियतं निजकृत्यलम्पटः
पुरुषः स्वार्थत एव हीयते ।।३६।।
पुरुषस्य कृतं भुजद्वयं
प्रविधातुं द्वयमेव वेधसा ।
सुहृदामुदयञ्च विद्विषा-
मवलेपप्रतिघातमेव च ।। ३७ ।।
शरणोपगतं न पाति यो
न भिनत्ति द्विषतां समुन्नतिम् ।
न स बाहुरसाधनक्षमा
नरवृक्षप्रभवः प्ररोहकः ।। ३८ ।।
परकृत्यजडो यशोऽर्जने
जठरैकप्रवणो निरुत्सुकः ।
पशुरेव बुधैर्निगद्यते
यवसग्रासनिवृत्तमानसः ।। ३९ ।।
न पशुः पुरुषाकृतिर्यतो
नृगुणभ्रष्टतया न पूरुषः ।
विरतव्रतपौरुषस्पृहः
किमु कोऽपि द्रुहिणेन निर्मितः ।।४०।।
अकृतद्विषदुन्नतिच्छिदः
श्रितसंरक्षणवन्ध्यकर्मणः ।
पुरुषस्य निरर्थकः करो
ननु कण्डूयनमात्रसाधनः ।। ४१ ।।
न च यस्तनयो यशोर्जनं
कुरुते नाप्यनुयाति सत्पथम् ।
तनयः किल सोऽपि साऽङ्गना
न च वन्ध्या किल तेन सूनुना ।। ४२ ।।
अशने रसनानि देहिनां
कृतयोगानि मुखेषु भूरिशः ।
न न सन्ति तदेषु दुर्ल्लभं
प्रभु यत्स्यादभयं प्रजल्पितुम् ।।४३ ।।
अपि जीवितसंशयेष्वु ते
न परित्याज्यमिदं कुलव्रतम् ।
सुलभं प्रतिजन्म जीवितं
हृदयं धर्मरतं हि दुर्ल्लभम् ।।४४।।
शवडिण्डिमतामभिव्रज-
त्यभिषेकोत्सवदुन्दुभिः क्षणात् ।
इतिपातिनि जीविते कथं
सुखमालम्ब्य सृजन्ति सत्पथम् ।। ४५ ।।
यशसि व्रज यत्नमुज्झित-
स्वसुखप्रीतिरुपैहि वा तपः ।
अधिगम्यमसारमस्थिरं
विषयास्वादसुखं पशोरपि ।। ४६ ।।
यशसा सुकृतेर्न सङ्ग्रहो
नियतं धर्ममुपार्जतो यशः ।
अनुगच्छ तदेकसङ्ग्रहा-
दुभयं लभ्यमितीह सत्पथम् ।।४७।।
ननु तावदिहैव सज्जन-
प्रतिरक्षाविधिगम्यमक्षयम् ।
फलमिन्दुकरोपरञ्जित-
प्रहसत्कौमुदकोमलं यशः ।। ४८ ।।
सहसा सह कौशिकेन
तत्प्रतिपद्य प्रयतस्तपोवनम् ।
युधि घातय तं निबर्हकं
यमिनामुग्रमुदग्रविक्रमः ।। ४९ ।।
पितुरित्थमनाकुलं वच-
स्तदुपश्रुत्य ननाम पादयोः ।
सह सिद्धवनं यियासुना
समरायावरजेन राघवः ।। ५० ।।
तमसि स्फुरदंशुमद्द्युति-
प्रहृते संसदि सौखरात्रिकः ।
यतये निरयीयतत्सुतौ
नृपतिर्मन्त्रपवित्रदंशितौ ।। ५१ ।।
अनुजग्मतुरेनमातुरैरनु-
यातौ मुनिमश्रुवर्षिणः ।
अशिवैकविचिन्तयाऽकुलै-
र्हृदयैर्पौरजनस्य राघवौ ।। ५२ ।।
यमिनः पथि चैतिहासिका-
दभिशृण्वन्विविधाश्रयाः कथाः ।
क्लमथं न विवेद विद्यया
बलयाऽऽनीतबलः स राघवः ।। ५३ ।।
अथ वज्रभृतः सुहृद्द्रुहो
विषयो यः स्नपनेन विश्रुतः ।
नृवरो निजगाद तत्पुरं
पिशिताशीनिहतं निरीक्ष्य सः ।। ५४ ।।
न भुनक्ति पुरा पुरश्रियं
परितः कीर्णकरङ्कशङ्करा ।
अवमग्नशिरःकपालदृ-
ग्विवरप्रोद्गतशाद्वला मही ।। ५५ ।।
फणिभिः प्रतिबिम्बमातरः
शितिभिर्भान्ति शिरोऽवलम्बिभिः ।
रचितैरिव वेणिबन्धनै-
र्विरहादस्य पुरस्य शासितुः ।। ५६ ।।
भुवि भोगिनिभं विलोकयं-
स्तुटुमो हारमहार्य्यवेपथुः ।
हरिहस्तहतस्य हस्तिनः१
कररन्ध्रे निभृतं निलीयते ।। ५७ ।।
प्रतिमा विशदेन लूतिका-
पटलेनावृतदृष्टिरीक्ष्यते ।
रुदितैरिव पुष्पितेक्षणा
विपुलत्रासकृतैरनेकशः ।। ५८ ।।
श्लथभित्तिविरूढभूरुह-
स्थिरमूलाग्रविनिर्गमक्षतम् ।
स्फुटतीव भृशं शुचातुरं
हृदयं तद्गृहचित्रयोषिताम् ।। ५९ ।।
नकुलः परिजीर्णवैबुध-
प्रतिबिम्बाननमध्यरन्ध्रतः ।
स्फुरितं परिकर्षति क्रुधा
रसनं तस्य यथा सरीसृपम् ।। ६० ।।
इति जल्पति तत्र राक्षसी
पुरतः प्रादुरभूद्भिदेलिमा ।
मकराकरपायिधामभिः
क्षतयक्षाकृतिरुग्रविग्रहा ।। ६१ ।।
नवकृत्तविलासिनीकर-
प्रसवोत्तंसविभूषितानना ।
नृशिरस्ततिमेखला-
गुणस्फुरणक्रूरकटुक्वणत्कटिः ।। ६२ ।।
परितः स्फुरदन्त्रपाश्यया
परिणद्धाकुलकेशसन्ततिः ।
घनशोणितपङ्ककुङ्कुम-
प्रविलिप्तस्तनकुम्भभीषणा ।। ६३ ।।
इति तामतिभीमदर्शना-
मभिवीक्ष्योभयतस्तपोधनम् ।
धनुषोरवनीभुजः सुतौ
सपदि न्यस्तशरावतिष्ठताम् ।। ६४ ।।
घृणिनो नृपतेरिदं वच-
स्तनयं वीक्ष्य जगौ कृतस्मयः ।
स वशिष्ठतनूजपातित-
क्षितिपस्वर्वसतिप्रदो मुनिः ।। ६५ ।।
इति सार्वजनीनसम्पदः
प्रलयं देशवरस्य तन्वतीम् ।
अनिहत्य शरेण सूरिभि-
स्त्वमधर्मी ध्रुवमेष गीयसे ।। ६६ ।।
शतमन्युरवर्णवृत्तये
न वधः स्त्रैण इति प्रचिन्तयन् ।
निजघान विरोचनात्मजां
कुलिशेन त्रिदिवस्य शर्मणे१ ।। ६७।।
वनितावपुषि द्विषज्जने
पुरुषाकारविशेषितेऽपि वा ।
नहि भद्रकरं शरीरिणां
प्रहृते करुणावलम्बनम् ।। ६८ ।।
युवतेरपि साधवः सुखे
जगतो लुप्तवतश्चिरस्थितिम् ।
तुलयन्ति न राम विक्रमं
द्विषतीतापमगुण्यवृत्तिभिः ।। ६९ ।।
अपि वित्थ इदं यशःश्रियं
भजते पौरुषरोषवित्तयोः ।
न तपोनिधनायिषा रणे
भवतोरभ्युदिते धनुर्भृतोः ।। ७० ।।
द्विजवृद्धनिषेवणक्षमं
युवयोरायुधयुद्धतन्त्रयोः ।
न विरोचनजन्मनो-
र्महतोः श्रौत्रमिदं१ विराजते ।। ७१ ।।
इति मुनिचोदितो हृदि सुकेतुसुतामिषुणा
रघुपतिरक्षिणोदशनिपातपटुध्वनिना ।
स्फुटितकुचान्तरस्रवदसृक्स्रुतिनः करणात्
प्रथममपाययुस्तदसवो नु शरो नु वहिः ।। ७२ ।।
ऋषिरिति विघ्नघातविधिसञ्चितसद्यशसं
तनुजमयोजयद्दशरथस्य सुरास्त्रगणैः ।
असुरनिशाचरक्षतजपानपरैर्विकस-
ल्लसितहुताशनद्युतिपिशङ्गितदिग्वदनैः ।। ७३ ।।
उपगतवन्ति राममथ तानि ततानि रुचा
वदनविनिर्गतज्वलितवह्निशिखाविततेः ।
शशधरखण्डकोणकुटिलस्फुटकोटिखरं
दशनचतुष्टयं पटु२ दधन्ति वहिः प्रसृतम् ।। ७४ ।।
रक्षोहव्यहविर्भुजं पथि तथा सन्धूप्य शस्त्रेन्धनैः
प्रत्युद्गम्य सुदूरमेव हरिणैरन्वीयमानो वहिः ।
छेदाय प्रसृतैरसेकिमलताजालप्रबालश्रियः
कूजत्कोकिलमाश्रमस्य निकटं सायम्प्रपेदे मुनिः ।। ७५ ।।
इति कुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
रामोत्पत्तिर्नाम चतुर्थः सर्गः ।
पञ्चमः सर्गः
ततस्ततं तापसकन्यकाजन-
प्रसिक्तसंवर्द्धितवृक्षमण्डलैः ।
सहस्रशस्तानितसामनिस्वन-
प्रवर्तिताखण्डशिखण्डिताण्डवम् ।। १ ।।
विहङ्गपानाय तले महीरुहां
निवेशिताम्भःपरिपूर्णभाजनम् ।
विशोषणार्थाहितपुण्यवल्कल-
प्रताननम्रीकृतवृक्षमस्तकम् ।। २ ।।
कृतासु नीवारविभागवृत्तिषु
स्वकीयमंशं मृदुहस्तसम्पुटैः ।
हरद्भिरालोहितगण्डमण्डलैः
प्लवङ्गमैः सेवितशैलकन्दरम् ।। ३ ।।
स्वमङ्कमारुह्य सुखं परिष्वपत्-
कुरङ्गशाबप्रतिबोधशङ्कया ।
चिरोपवेशव्यथितेऽपि विग्रहे
सुनिश्चलासीनजरत्तपोधनम् ।। ४ ।।
हिरण्यरेतःशरणानि सर्वतः
प्रवृत्तपुण्याहुतिधूमधूसरम् ।
बृहल्लतातानभृतः फलेग्रहे
रधस्तरोरासितशायितातिथि ।। ५ ।।
तपस्विवर्गस्य वधूषु वह्नये
वितन्वतीषु प्रकृतां बलिक्रियाम् ।
मृगाङ्गनाभिः परिलिह्य जिह्वया
विनोदितत्याजितरोदनार्भकम्१ ।। ६ ।।
बलिक्रियातानितलाजकर्षणे
समेतकीटप्रतिघातशङ्कया ।
कुशस्य मुष्ट्या शनकैस्तपस्विभिः
प्रमृज्यमानानलमन्दिरोदरम् ।। ७ ।।
महीरुहभ्रष्टविहङ्गपोतिका-
सुखोपवेशाय तपस्विसूनुभिः ।
इषीकतूलेन विधाय मार्द्दवं
क्वचित्समासज्जितनीडपञ्जरम् ।। ८ ।।
सवारिमृत्स्नापरिपूर्णकर्पर-
प्रजन्यमानाङ्कुरवीजमेकतः ।
प्रहृष्टसारङ्गकिशोरवल्गित-
प्रकीर्णपुञ्जीकृतशुष्यदिङ्गुदि ।। ९ ।।
समीरणैराहुतिगन्धपावनै-
र्वितानितोद्दामशिखण्डिनिस्वनम् ।
तपोवनं तत्तपसामधिश्रयः
कुमारयुग्मेन विवेश कौशिकः ।। १० ।।
ततः सुतं वैबुधलौकिकीमृषि-
र्विधित्सुरिष्टिं नृपतेरतन्द्रितं ।
समादिदेश प्रकृताय कर्मणे
चिराय तद्रक्षणरूप्यमादृतः ।। ११ ।।
तमग्निमिन्धन्स रिपोधिक्रतु
क्षमाभुजः सज्यशरासनः सुतः ।
रिरक्षिषुस्तं परितः परिभ्रमन्
हृतो जगादावरजं वनश्रिया ।। १२ ।।
अखातमाहावमनुप्त्रिमं परं
सदाफलं शस्यमिदं तपोजुषाम् ।
बिभर्ति नीवारवदम्बुजाकर-
श्रिया परीतं सततं तपोनम् ।। १३ ।।
सवेदवेदाङ्गविदस्तपस्विनो
विदन्ति यत्नेन पदं यमव्ययं ।
स लोककृत्यानि विचिन्त्य कानिचित्
तपस्यति स्मेह पुरातनःपुमान् ।। १४ ।।
सुदर्शनच्छिन्नसमाहृतेन्धनं
द्विजेन पक्षव्यजनेन वीजितम् ।
त्रिनेत्रमूर्त्यन्तरमादिपूरुषो
जुहाव हव्यैरिह हव्यवाहनम् ।। १५ ।।
तपस्यति स्वामिनि शत्रुशातने
समित्कुशच्छेदनमात्रतत्परः ।
सुसंयतो नाभिननन्द नन्दकः
सुरा१रिवक्षःक्षतजासवन्तदा ।। १६ ।।
रणं रणद्दुन्दुभि भैरवं तदा
गदा समभ्येत्य भयं वितन्वती ।
शिरस्यपध्वस्तशिरस्त्रजालके
निमज्य मज्जां न जघास विद्विषाम् ।। १७ ।।
भियः स्वकोशाहृतवारिधारया
वनं तरूणामनुगृह्णता नवम् ।
रणेषु शुशष्काशनिभैरवैरवै-
र्न पाञ्चजन्येन जनस्य तेनिरे ।। १८ ।।
सलीलमुद्दण्डसरोजविष्टरे
निषद्य पादेन पुरोऽवलम्बिना ।
परिस्पृशन्त्या चलवीचिमस्तकं
कलं किलागायि तदा न पद्मया ।। १९ ।।
फणावतामुद्धरणेषु वारिधि-
प्रवाहसिक्तावुदयाचलस्थितः ।
वितत्य पक्षावधिपः पतत्त्रिणां
व्यशोषयन्न प्रति सूर्यमायतम् ।। २० ।।
विहारमारण्यकमिष्टवस्तुदं
विहाय वल्केन जटा१ वितूस्तयन् ।
इतः किल क्रोधपराहतो हरिः
पुरा प्रतस्थे बलिबन्धसिद्धये ।। २१ ।।
ततः प्रभृत्येव२ गुणस्य सम्पदा
हिरण्यगर्भस्य विधूतहिंसया ।
निषेव्यते श्वापदसम्पदा पदं
तपस्विनामृद्धमिदं शमावहम् ।। २२ ।।
विलोकय द्द्वीपिनमेनमग्रतः
प्रगृह्य पुच्छे शिशवस्तपस्विनाम् ।
मषीपयःसेककृतानिवासितान्
यदङ्गबिन्दून् गणयन्ति चापलात् ।। २३ ।।
इमौ हरी संहृतरोषशङ्कितौ
नितान्ततप्तौ तपनस्य दीप्तिभिः ।
तलं गजस्य स्रुतगण्डसम्पदः
फणातपत्रं फणिनश्च वाञ्छतः ।। २४ ।।
तथा गिरं व्याहरतैव रोदसी
वितत्य यातं पवनेन रंहसा ।
विधूनयत्तद्विपिनं द्विषद्बलं
ध्वजैरुपालक्ष्यत काकलाञ्छनैः ।। २५ ।।
कृपाणपत्रे शरदम्बरत्विषि
प्ररोषरक्षःप्रतिबिम्बविग्रहं
विगृह्णतां जीवितपानलिप्सया
स्थितः समास्थाप्य यमो यथा बभौ ।। २६ ।।
पिशाचरक्षस्ततिभिर्निरन्तरं
कृतान्धकारं रथचक्ररेणुभिः ।
असंख्यगृह्या अपि तत्र सैनिका
जगज्जगुः सत्त्वरजस्तमोमयम् ।। २७ ।।
चकार लक्षं१ प्रथमो नभः श्रितं
बलं क्षितिस्थामनुजो बलोत्तरः ।
द्रवत्तुरङ्गामतिदन्तयद्विभुं
जघान पङ्क्तिं पदिकोऽपि द्विषाम् ।। २८ ।।
युधि द्विपा रामशरेण दारिताः
कृतत्वराधोरणमुक्तकन्धराः ।
यतो धरण्यामनुकृष्टवारिदं
दिवः पतन्तो रुरुजुः स्वसैनिकान् ।। २९ ।।
शरासने वर्त्मनि लक्ष्यभेदने
परैरुपालक्ष्यत नेषुसन्ततिः ।
ऋतेऽपि हेतोरिव दीर्णवक्षसो
निपेतुरस्य प्रधने सुरद्विषः ।। ३० ।।
तथाऽस्य योद्धुर्द्धनुषो विनिःसृता१-
जवे विशेषं विदधुःशिलीमुखाः ।
यथा गुणस्य ध्वनयः समुद्ययु-
र्निपातशब्देन समं युधि द्विषाम् ।। ३१ ।।
सुरारिहस्तच्युतशस्त्रजालका-
न्यलब्धलक्ष्याणि चिरं नभस्तले ।
विशुष्कपत्रप्रतिमानि तच्छर-
प्रतानवातोपहतानि बभ्रमुः ।। ३२ ।।
प्रसर्पतामाहितपक्षतिध्वनि-
क्रतुद्विषो राजसुतस्य पत्रिणाम् ।
प्रभञ्जनेन प्रतिलोममाहृतैः
शरैर्निजैरेव दृढं निजघि्नरे ।। ३३ ।।
क्षतं पृषत्केन पतत्त्रिणां
पथः पतत्तत्तनयस्य भूभृतः ।
निपातखेदादशिवे भुवस्तले
भियेव तूर्णं जहुरन्तरासवः ।। ३४ ।।
शिताङ्कुशन्यासविधूतमस्तकाः
शिरःसमीपे विनिविष्टबाहवः ।
ध्रुवं नदन्तो युधि तं प्रहारिणं
भयादयाचन्त यथाऽरिदन्तिनः ।। ३५ ।।
द्विपं करीरीयुगमूलखण्डित-
प्रशीर्णदन्तं समदेन पश्यता ।
स्मरा१ वतारव्यथितेन चेतसि
क्षणं विचक्रे निकटेऽरि२ दन्तिना ।। ३६ ।।
परं प्रहर्त्तुं प्रतिहृत्य रंहसा
करं करी यातमुदग्रविग्रहः ।
शरेण भित्त्वा निखिले निकीलिते
शशाक मोक्तुं न भुजस्य मण्डले ।। ३७ ।।
दृढं विभिद्योरुयुगं कु३रङ्गमे
निकीलिते रामशरेण वेगिना ।
कृतेऽपि दोषे भयमूढवृत्तिना
हयेन कश्चिद्विचचाल नासनात् ।। ३८ ।।
रिपोरपूर्णेन्दुमुखेन कश्चन
स्थिरासनः पत्रियुगेन राक्षसः ।
निकृत्तयोरप्यधिजानु पादयोः
पपाप वेगेन यतो न वाजिनः ।। ३९ ।।
वधाय धावन्नभिशत्रु विद्विषः
शरेण कृत्तच्युतमस्तकोऽपरः ।
हृतायुरप्यादिकृतेन कानिचि-
त्पदानि वेगेन जगाम राक्षसः ।। ४० ।।
जवेन कश्चिज्जवनाम्बुदोपमं
विहायसा वाहयदाशु दन्तिनम् ।
क्षणं सिताभ्रैः कृतकर्णचामरम् ।
निपत्य कुम्भे तरसा द्विधा गतैः ।। ४१ ।।
पृषत्कभिन्नोदररन्ध्रनिर्गतं
स्वमान्त्रमुत्कृत्य खुराग्रपातनैः ।
दिशि क्षिपन्तं युधि वेगधारया-
ऽपरो भुवं वाहयति स्म वाजिनम् ।। ४२ ।।
निकृत्य सौमित्ररथाङ्गधारया
क्षपाचरः स्वं तरसाऽपवर्णितं ।
क्रुधाऽऽयुधीकृत्य भुजं महीभुजः
सुतं जघान ध्वनिकम्पितचलः ।। ४३ ।।
परेण शत्रोरुपदण्डमस्तकं
न्यमज्जदर्द्धेन रथाङ्गमीरितम् ।
तमेव दण्डं परशुं विधाय तं
शिरस्यरातिर्निजघान सस्वनम्१।। ४४ ।।
स्वपाणियन्त्रच्युतशस्त्रसादितं
विधाय वृन्दं बहुधा सुरद्विषाम् ।
रणाय कोशादसिमीशितुः सुत-
श्चकर्ष कृष्णं विवरादिवोरगम् ।। ४५ ।।
परस्य सौमित्रिकृपाणपाटित-
द्विधाऽभवद्देहभृतो निकीलयन् ।
शरेण पार्श्वे नृहरिः समग्रतां
व्यधत्त रोषेण नु लीलया नु सः ।। ४६ ।।
करं रणाय प्रतिहृत्य धावति
द्विपे निजघ्ने तनयेन भूभुजः ।
बहूनि खण्डानि विधित्सुनाऽसिना
समेत्य सम्पिण्डित एव तत्करः ।। ४७ ।।
कृपाणकृत्तस्य दृढोरुयन्त्रितं
न पश्चिमार्द्धं निपपात सादिनः ।
तुरङ्गवल्गादृढसक्त१मुष्टिना
परेण भागेन च लम्बितं पुरः ।। ४८ ।।
परेण खड्गेऽनुपपात पातिते
सुरारिरुत्तानविसृष्टविग्रहः ।
अपि व्यपाये सति सत्त्वमानयो-
र्द्विषे न दित्सन्निव पृष्ठमाहवे ।। ४९ ।।
परिक्षरच्छोणितसिक्तमूर्तयो
निमग्नखड्गे जठरे सुरद्विषः ।
परस्परस्य प्रसभं समुच्छ्वस-
त्प्रहारवातेन पुनर्विशोषिताः ।। ५० ।।
ततस्ततासृक्स्रवलोहिताम्बरः
श्रियं जयस्थामुपयन्तुमुद्यतः ।
यथेप्सपानाशनतृप्तचेतस-
श्चकार राजन्यवरश्चिरं द्विजान् ।। ५१ ।।
ततो मरुत्पावकशस्त्रनिर्द्धुत-
प्रदग्धमारीचसुबाहुविग्रहः ।
बलं बलीयानबलीकृतं भिया
ततं दिगन्तं स निनाय नायकः ।। ५२ ।।
रणे दधानो हृदयं दयाऽऽहृतं
सलीलमायम्य धनुर्द्धनुर्द्धरः ।
पराङ्मुखानां शनकैः शिलीमुखै-
र्द्द्विषद्द्विपानां जघने जघान सः ।। ५३ ।।
भृशं न सेहे युधि राममाशुग-
प्रतानशुष्काशनिपातभीषणम् ।
युगान्ततिग्मद्युतितिग्मतेजसं
द्विषो बलं भ्रातृबलं बलीयसः ।। ५४ ।।
स्थित्वा गुणे महति तत्क्षणलब्धमोक्षाः
सुश्लिष्टयुक्तिसफलाननसम्पदस्ते ।
शाक्या इवास्य विशिखा रिपुसैनिकेभ्य-
श्चक्रुस्त्रिविष्टपसभागमनोपदेशम् ।। ५५ ।।
हुतभुजि निधनाख्ये शत्रुहव्यानि हुत्वा
परिणयति जयश्रीवीरकन्यां नृवीरे ।
समरपटहघो१षे तत्र नृत्तं कबन्धै
र्बहलरुधिरपङ्कस्फारिसिन्दूरलेपैः।। ५६ ।।
मध्ये निकृत्तरजनीचरपूर्वकाया-
श्छेदैः स्थिता भुवि निपत्य भयं वितेनुः ।
रक्षःसु युद्धविमुखेषु विभिद्य भूमि-
मर्द्धोत्थिता इव पुनः समराय दैत्याः ।। ५७ ।।
रामायुधव्यथितराक्षसरक्तधारा-
स्पर्शेन लोहितरुचो मुहुरम्बुवाहाः ।
गौरीपतिप्रणतिसम्भ्रमलाभवन्ध्यां
सन्ध्यामकालघटितां गगने वितेनुः ।। ५८ ।।
सङ्क्रीडद्रथतुरगद्विपाभ्रवृन्द-
व्युत्क्रान्तौ विरतपृषत्कपातवृष्टि ।
निस्त्रिंशस्फुरिततडिद्वियुक्तमाप
व्यक्तार्कद्युति शरदीव तन्नभः श्रीः ।। ५९ ।।
रक्षोवसापिशितपूरितकुक्षिरन्ध्रः
काकुत्स्थबाणहतहस्तिमुखाधिरूढः ।
पर्यन्तलग्नरुधिराणि मृदुप्रणाद-
स्तुण्डानि वायसगणो रदने ममार्ज ।। ६० ।।
राजात्मजौ मुनिसुताक्षिभिराहितार्घ्यौ
प्रत्युद्गतौ मृगकुलैरुटजानि गत्वा ।
आवर्ज्जिते विदधतुः शिरसी सुबाहो२
र्बाणव्रजेन गुरुणी गुरुपादमूले ।। ६१ ।।
इति कुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
मारीचसुबाहुवधो नाम पञ्चमः सर्गः
षष्ठः सर्गः

उच्चचाल ततः स्रष्टा जगदंशस्य मैथिलम् ।
अनुग्रहीतुमग्रण्यं गृहिणामाहितक्रतुम् ।। १ ।।
बिभ्रत् सन्ध्याविधिस्नानसंवर्द्धितरुचो जटाः ।
ज्वाला इव तपोवह्नेः शालिशूकाग्रपिङ्गलाः ।। २ ।।
तेजसा तपसा दीप्तः स्निग्धश्च करुणागुणात् ।
समं सन्दर्शितादित्यचन्द्रोदय इवार्णवः ।। ३ ।।
शिरःप्रदेशलम्बिन्या कुर्वन् रुद्राक्षमालया ।
फलिता इव तीर्थाम्भःसेकपुष्ट्या जटालताः ।। ४ ।।
देवताभिररण्यस्य स प्रयुक्तबलिमङ्गलः ।
ज्वलन्निरगमत्सत्राद्ब्रध्नो मेघिदव व्रती ।। ५ ।।
निनाय सह यत्नेन प्रस्थितं हरिणवृजम् ।
स्वयं संवर्द्धितं रुध्वा बाष्पापूरितलोचनौ ।। ६ ।।
गमनव्याहृतारम्भप्रणामेषु महर्षिभिः ।
पाणिभिः शिरसि स्पृष्टौ हव्यधूमसुगन्धिभिः ।। ७ ।।
वैखानसबधूहस्तलम्भितार्घ्यकृताशिषौ ।
तौ द्रष्टुकामौ मेदिन्या ईश्वरस्य सुतौ धनुः ।। ८ ।।
ततश्चिरपरित्यक्तं गौतमस्य तमोनुदः ।
विवेश विश्वभुग्धाम्नो धाम वर्त्मवशाद्वशी ।। ९ ।।
स्थपुटासु कुटीरस्य निकटाङ्गनभूमिषु ।
प्ररूढदर्भसन्दर्भघासग्रासोद्यतद्विपम् ।। १० ।।
क्वचिदुद्देहिकाऽऽलीढजीर्णवल्कलमन्यतः ।
आरण्यतुटुमच्छिन्नशीर्णकृष्णमृगाजिनम् ।। ११ ।।
तलस्थितजरत्कुम्भमुखान्निर्गच्छताऽहिना ।
आवर्जितपयस्तिम्यद्वृक्षमूलमिव क्वचित् ।। १२ ।।
क्वचिद्विष्णुप्रतिच्छन्द१ कुक्षिस्थविवराननात् ।
नकुलैरन्त्रवत्कृष्टवेष्टमानसरीसृपम् ।। १३ ।।
तस्मन्निजपदस्पर्शत्याजितग्रावविग्रहम् ।
पप्रच्छ स्त्रीमयं तेजो रामः शापस्य सम्भवम् ।। १४ ।।
शुनासीरं निगद्यासौ व्रीडानम्रीकृतानना ।
न्यवीवददनुक्वैव यौवनाविनयं पुरा ।। १५ ।।
ययौ रामोऽथ तं देशं मरुतामास वेगिनाम् ।
पुरुहूतहतभ्रूणच्छेदेभ्यो यत्र सम्भवः ।। १६ ।।
ददृशुर्लङ्घिताध्वानस्ते तोरणमणित्विषा ।
लेखर्षभधनुर्लेखपरीतमिव तत्पुम् ।। १७ ।।
सिद्धप्रदेशदेशीयं तं निरूप्य तपस्यता ।
अभि राममतिप्रीत्या तेन व्यातेनिरे गिरः ।। १८ ।।
मत्तमातङ्गसन्दानदामनिर्दलितत्वचः ।
अजय्यत्वं वदन्तीव यस्य पर्यन्तभूरुहः ।। १९ ।।
यत्र प्राकारचक्रस्य नभोमध्यस्थमण्डलः ।
ताराव्रजस्पृशो याति पिधानत्वं निशाकरः ।। २० ।।
मध्ये कुवलयाक्रान्तमहापद्मविभूषणः ।
अवतीर्णघनालिश्रीर्यत्खातः सागरायते ।। २१ ।।
वप्राजगरभोगेन वेष्टमानः समन्ततः ।
पिण्डीभूत इव त्रासाद्द्वनो यद्गृहसञ्चयः ।। २२ ।।
यद्गोपुरविटङ्काग्रचन्द्रकान्तमणिस्रवम् ।
रसयन्ति स्यदश्रान्ताः शीतदीधितिवाजिनः ।। २३ ।।
विटङ्कभुजसम्प्राप्तसहस्रकरमूर्तिना ।
विग्रहेण यदावाससन्तानो भार्गवायते ।। २४ ।।
यद्देवगृहशृङ्गस्थपद्मरागप्रभाऽऽहतम् ।
व्योममध्यं प्रपद्यापि बिम्बं बालायते रवेः ।। २५ ।।
हर्म्यशृङ्गेषु निर्द्धूतध्वान्ता यत्र मणित्विषः ।
ज्यौत्स्नः कृष्ण इति ज्ञानं जने रुन्धन्ति पक्षयोः ।। २६ ।।
यत्र वातायनासन्नवारमुख्यामुखेन्दवः ।
रथ्यासञ्चारिणो यूनः स्खलयन्ति पदे पदे ।। २७ ।।
श्रुत्वा यत्सौधपृष्ठेषु विमानशिखिनिस्वनम् ।
याति शैथिल्यमुष्णांशुहयभोगीन्द्रबन्धनम् ।। २८ ।।
सोपानरत्ननिर्भिन्नतमश्छेदेन दर्शिताः ।
ग्लायन्ति यत्र न सरश्चक्रवाका निशास्वपि ।। २९ ।।
यस्य हर्म्यसमासन्नतिग्मदीधितिवाजिनः ।
मन्दं व्रजन्ति सङ्गीतवीणाऽऽवर्जितचेतसः ।। ३० ।।
मैथिलस्य परं धाम पुरं वज्रभृतः पुरीम् ।
विधत्ते पौरसन्दोहभोगस्येदमधः श्रिया ।। ३१ ।।
इति व्याहरतैवाथ तेन स्थानं महीयसः ।
पुरं सत्रपतेर्ॠद्धं निन्याते नेतुरात्मजौ ।। ३२ ।।
कृतपाद्यो भुवो भर्त्तुः स व्रती प्रमदाश्रुभिः ।
विष्टरं परिजग्राह सिंहचर्म्मोत्तरच्छदम् ।। ३३ ।।
स्तुत्याऽऽसुतीवलं सत्रे जगादोत्साहयन्मुनिः ।
स्तुतिर्भ्राजत एवाग्रे निःस्पृहेण प्रभोरपि ।। ३४ ।।
यः सप्ततन्तुभिस्तन्तुर्धर्मस्य सगरादिभिः ।
धृतः स एव सम्राजा सम्यगालम्बितस्त्वया ।। ३५ ।।
विस्रसायामविस्रस्तां सत्यामपि तव श्रियम् ।
विक्रमस्य वदन्तीव सत्रसम्भारसम्पदः।। ३६।।
कृतवेलाव्यतिक्रान्तिस्त्वरासङ्कोचिताम्बरा ।
साभिसारेव ते कीर्तिर्दूरमाक्रामदाशया ।। ३७ ।।
स्वार्थे क्रतुरयं स्वर्ग्यस्तव क्वचित्फलस्पृहाम् ।
विनैव प्रथते निःस्वर्गम्प्रति वदान्यता ।। ३८ ।।
आदाय करमाढ्येभ्यः कीकटेष्वभिवर्षसि ।
वारि प्रपीय सिन्धुभ्यः स्थलेष्विव घनाघनः ।। ३९ ।।
नवे वयसि राज्यार्थं प्रविधाय जरां गतान् ।
अक्षमत्वेऽपि ते भृत्यान्कच्चित्पुष्णासि सादरम् ।। ४० ।।
त्विद्विक्रमेण वैधव्यं प्रापिता रिपुयोषितः ।
बालत्राणार्थिनीः कच्चित्सम्यग्रक्षसि बन्धुवत् ।। ४१ ।।
त्रिवर्गस्य द्वयेनादौ साम्यं गतश्चिरम् ।
सहाद्य वयसो वृद्ध्या कच्चिद्धर्मोऽपि वर्द्धते ।। ४२ ।।
इति प्रश्नावकाशस्य विरामे रामलक्ष्मणौ ।
मुनेर्विवेद वैदेहो द्रष्टुकामौ निजं धनुः ।। ४३ ।।
एकमुद्रेचितं तस्य भ्रूचापमनुजीविभिः ।
चापस्यानयने हेतुः क्षणमास क्षमापतेः ।। ४४ ।।
वरवक्त्रेन्दुबिमबत्विड्ग्रासगृध्नुग्रहं परम् ।
सीताविवाहसंयोगसुखरोधार्गलान्तरम् ।। ४५ ।।
अहिर्बुध्नपरित्यागतीव्रशोकभरादिव ।
मध्ये लोहसमुद्गस्य निश्शब्दं शयितं चिरम् ।। ४६ ।।
अमार्द्दवमतिस्तब्धं गुणेनापि न नामितम् ।
दर्शितस्नेहमीशेन जनं नीचमिवाग्रहम् ।। ४७ ।।
तद्दाशरथिरादाय सीताक्रयधनं धनुः ।
चक्रीचकार कर्णान्तावतंसितनखद्युतिः ।। ४८ ।।
ततस्त्रासकरो नादश्चापभङ्गसमुद्भवः ।
दिशः ससर्प रामस्य यशोघोषणडिण्डिमः ।। ४९ ।।
सीतया सहिता वप्रैः सद्यः फलवती वृता ।
क्षेत्रभूमिर्गुणस्यासौ प्रचकम्पेऽखिला पुरी ।। ५० ।।
रोमोद्भेदापदेशेन हर्षमङ्कुरितं हृदि ।
सिञ्चन्नश्रुप्रवर्षेण१ मुनिमाह महीपतिः ।। ५१ ।।
रुणद्धि वयसि प्रायः प्रौढेऽपि तपसि स्पृहाम् ।
यच्चापभङ्गदेयं मे प्रार्णं सीमन्तिनीधनम् ।। ५२ ।।
तद्रामस्य गतं दाश्यं विक्रमक्रयलम्भितम् ।
न्यस्तामस्य द्वितीयेऽस्मिन्नूर्मिलामपि विद्धि मे ।। ५३ ।।
तपस्यन्न्यस्य वैदेह्या विवाहपरिलम्बजम् ।
अस्तुकारेण शोकाख्यं हृच्छल्यं निचकर्ष सः ।। ५४ ।।
अथ दूतास्थितः प्रायाद्राजद्वयमनोरथः ।
अयोध्यामन्यराजन्यप्रीतिप्रशमनो रथः ।। ५५ ।।
लालाट्यज्वलनरयेण भूतभर्त्रा
नैरात्म्यं हृदयभुवः शिवाय सृष्टम् ।
यन्नासीद्रघुपतिरूपनिर्ज्जितोऽसौ
वैलक्ष्यक्षतकृतसम्मदावसादः ।। ५६ ।।
पीनांसो नियतमुरस्तटो विशालः
क्षामं तद्व्यथयति मध्यमं शरीरम् ।
धात्रेति स्वयमनुचिन्त्य लम्बबाहु-
स्तम्भाभ्यां दृढमिव यन्त्रितोऽस्य देहः ।। ५७ ।।
तेनोष्णाद्युतिकरकुङ्कुमानुलिप्त-
व्याकोशारुणवनजप्रभाविशेषः ।
नेत्रान्ताधरकरपल्लवप्रभाभि-
र्निर्जित्याहित इव पादयोरधस्तात् ।। ५८ ।।
ज्ञानं विलोचनमिति प्रथिते तदीये
नेत्रे उभे विमलवृत्तिगुणस्वभावे ।
एकं तयोः श्रुतिपथस्य समीपमात्रं
यातं प्रपन्नमखिलश्रुतिपारमन्यत् ।। ५९ ।।
इत्थं वराश्रयकथेषु जनेषु सीता
नम्रेण वर्मसलिलास्पदगण्डलेखा ।
तस्थौ मुखेन शशिनिर्मलदन्तकान्ति-
ज्योत्स्नानिषिक्तदशनच्छदपल्लवेन ।। ६० ।।
इति कुमारसदासस्य कृतौ जानकीहरणे महाकाव्ये
मिथिलाप्रवेशो नाम षष्ठः सर्गः ।
सप्तमः सर्गः
ततो धरित्रीतनयाऽविलङ्घ्यं
सा शासनं प्राप्य गुरोर्गरीयः ।
स्थपत्यशुद्धान्तजनैः परीता
जगाम कर्त्तुं व्रतिनो नमस्याम् ।। १ ।।
नत्वा सुखेन द्विपकुम्भपीन-
स्तनावकृष्टा चरणौ महर्षेः ।
तमेव भूयो भरमुद्वहन्ती
समुन्ननाम प्रतिपद्य यत्नम् ।। २ ।।
यत्सत्यमस्यां प्रविभाव्यरागो
दृष्टिप्रवेकः खलु कृष्णवर्त्मा ।
स्नेहेरितो येन ददाह भर्तु-
र्धैर्येन्धनं तद्धनदोपमस्य ।। ३ ।।
मनोभुवस्तद्धृदयोपकार्या
विन्यस्तपीनस्तनहेमकुम्भा ।
स्वेदाम्बुभिस्तत्प्रथमप्रवेशे
सिक्ताऽपि नैवात्र रजः शशाम ।। ४ ।।
तुष्टो नु शैवस्य सुबाहुशत्रुं
चापस्य भङ्गादविपन्नधाम्नः ।
स्मरस्तमालिङ्ग्य तया प्रयुक्त-
श्चक्रे विहस्तं नु विशालदृष्ट्या ।। ५ ।।
विधातृमुख्यैरविमृश्यरूपं
रूपं निरूप्यार्द्धनिरीक्षितेन ।
एवं मनस्वी मनसैव भूम्ना
गुणान्स तस्या गणयाम्बभूव ।। ६ ।।
प्रसीद मैवं परिभूदखण्डं
ताराधिपं ते वदनामृतांशुः ।
इति प्रियायाः पतितेव पादे
ताराततिर्दीप्रनखच्छलेन ।। ७ ।।
गुर्वी नितान्तं कृशवृत्ति कृष्ट्या
मा स्मच्छिनन्मध्यमिति प्रचिन्त्य ।
श्रेणी तदूरुद्वयशातकुम्भ-
स्तम्भद्वयेनेव धृता विधात्रा ।। ८ ।।
सोष्मं प्रकृत्या कठिनं द्वयं यत्
तापं तनोति स्तनयोस्तदस्तु ।
मध्यस्थमप्येतदनिन्द्यवृत्ते-
र्वलित्रयं मान्दहतीति चित्रम् ।। ९ ।।
स्तनौ नु कुम्भप्रतिमौ सुदत्या
निःशेषवक्षस्तटबद्धबिम्बौ ।
पिण्डौ नु पीनौ नवयौवनस्य
न्यस्तौ शरीरादतिरिक्तवन्तौ ।। १० ।।
अन्योन्यबाधिस्तनमण्डलस्य
मध्यस्य तन्व्या नवरोमराजिः ।
शरीरजन्मानलधूमरेखा
सीमा विभक्तेव विभाति धात्रा ।। ११ ।।
चारुप्रकोष्ठस्य भुजद्वयस्य
तथा हि दाने मदनस्य शक्तिः ।
न्यासेन यत्रैष विवृद्धदीप्ति-
र्यात्यङ्गदोऽप्येवमनङ्गदत्वं ।। १२ ।।
वक्त्रेन्दुलीलामनुयातुमस्याः
कलान्तराणि प्रतिपद्य चन्द्रः ।
पूर्णोऽपि साधर्म्म्यविशेषशून्यः
क्रमेण शोकादिव याति हानिम् ।। १३ ।।
मृगाङ्गनानां नयनानि पूर्वं
विधाय नीलानि च नीरजानि ।
कृतप्रयोगेण पुनर्विधात्रा
सृष्टं नु नेत्रद्वयमायताक्ष्याः ।। १४ ।।
अन्वेति कान्त्या कमनियमस्या
युग्मं भ्रुवोरायतनम्रलेखम् ।
मध्ये निकृत्तस्य रुषा हरेण
च्छेदद्वयं मन्मथकार्मुकस्य ।। १५ ।।
भ्रुवौ नु वक्तुं तरलत्वमक्ष्णो-
र्भ्रूयुग्मकौटिल्यमिमे नु दृष्टी ।
असर्पतामापतितालकान्त-
पर्यस्तकान्तिश्रुतिमूलमस्याः ।। १६ ।।
तन्व्या मनोज्ञस्वरनैपुणेन
विनिर्जितो रोषविलोहिताक्षः ।
प्रसक्तचिन्ताऽऽहितमन्यपुष्टः
शोकेन कार्ष्ण्यं वहतीति मन्ये ।। १७ ।।
चित्रीयते तन्न यदात्मयोने-
स्तीव्रा मयि व्याहृ१तिरायुधानाम् ।
पुष्पायुधः स्वात्मनि शस्त्रपातान्
कुर्वीत सीताऽऽकृति वीक्ष्य रत्नम् ।। १८ ।।
इ१ति स्म तस्यातिगुरुप्रतर्के
चेतस्यथ प्राह मुनिं नरेन्द्रः ।
प्रणम्य शुद्धान्तमुपैति पादौ
तीर्थादनूनौ भवतः स्नुषेति ।। १९ ।।
कलत्रभारेण कुचद्वयस्य
स्थाम्ना तथा मन्थरविक्रमायाः ।
आसीदसौ राजसुतस्तृतीय-
स्तस्यास्तु हेतुर्गतिमन्थरत्वे ।। २० ।।
अनुव्रजन्तं किल नाम किञ्चित्
प्रव्याहरन्ती परिबर्हवर्गम् ।
तिर्यग्विवृत्ताननचन्द्रबिम्बा
रामं जघानार्द्धनिरीक्षितेन ।। २१ ।।
भर्त्ता भुवः संयमिनं गतायां
तस्यां ततस्तं सह राघवाभ्याम् ।
द्रष्टुं निनाय स्वयमृद्धिसारं
सत्रस्य विप्रैरकृशं ततस्य ।। २२ ।।
दूरोऽपि देहेन वियोगवह्नेः
प्रवर्द्धिताधिः स्फुटतीति भीतः ।
तद्रक्षणाये२व कृतप्रयत्नो
मुमोच तस्या हृदयं न रामः ।। २३ ।।
याते च रामे नयनाभिरामे
दृष्ट्वा दिशः किं फलमस्ति शून्याः ।
इतीव पद्मायतलोचनाया
विलोचने नेत्रजलं रुरोध ।। २४ ।।
कृते च पाणिग्रहणे मयेयं
बाला परत्राहितरागवृत्तिः ।
जातेति रोषेण यथा कृशाङ्ग्या-
स्तस्याः कराग्रं वलयं ससर्ज ।। २५ ।।
सन्तापवह्निर्हृदि सन्नताङ्ग्याः
कामाहितः खेदविलोहितेन ।
नेत्रद्वयेनेव बहिःप्रवृत्त-
ज्वालावलिः संविविदे सखीभिः ।। २६ ।।
याता नु सा तानवमङ्गजाग्नि-
तप्ते चिरं तद्धृदये निवासात् ।
उत स्वकीये हृदि तं निविष्ट-
मूढ्वा तनुत्वं श्रमजं गता नु ।। २७ ।।
दूरेऽपि रामः परिकल्पवृत्त्या
किं दृश्यते मे किमथः प्रवासः ।
स्थितेऽपि तस्मिन्प्रतिभाति पापा-
दित्यास तस्या विविधो विकल्पः ।। २८ ।।
मृदुप्रवालास्तरणेऽपि तन्वी
शिलातले नैव धृतिं सिषेवे ।
असृक्स्रवार्द्रे शरतल्पमध्ये
सा पुष्पकेतोरिव वर्तमाना ।। २९ ।।
तुषाररश्मेरुदयेऽपि तस्या
नेत्रोत्पलं नो मुकुलीबभूव ।
चन्द्रे मुखच्छद्मनि दीर्घकाल-
मभ्यासतो नु प्रियचिन्तया नु ।। ३० ।।
सशीकरं गर्भदलं कदल्या
न्यस्तं नताङ्ग्या हृदये सखीभिः ।
बबन्ध भिन्नस्फटिकावदातं
पुष्पेषु बाणव्रणपट्टशोभाम् ।। ३१ ।।
स्वपादसेवाभिरतेऽपि किं तत्
कस्यापि दृष्ट्या मयि यद्विरागः ।
अतानि तन्नूपुरयोरमन्दं
युग्मेन शैथिल्यमितीव तस्याः ।। ३२ ।।
सखीसमीपेऽपि सखेदवृत्ति-
श्चन्द्रातपैरप्यनुतापभाजा ।
देहेन वैदेहसुता कथञ्चिन्-
निनाय दीना कतिचिद्दिनानि ।। ३३ ।।
सार्द्धं द्विजैः पावनसोमपान-
निर्द्धूतपाप्मन्यथ सत्रनाथे ।
मखस्य कोटिं प्रकृतस्य मुख्ये
क्षितिक्षितामीयुषि वीतविघ्नम् ।। ३४ ।।
सुमन्त्रसूतः सुतयुग्ममन्यत्
ततः समादाय समग्रशक्तिः ।
जनाधिनाथो जनकस्य राज्ञः
पुरं प्रपेदे पुरुहूतकल्पः ।। ३५ ।।
क्षत्रस्य नक्षत्रमदोषदुष्टं
वैवाहिकं वाहितशत्रुवीरः ।
पुरोहितेनाभिहितं निशम्य
सम्पादयामास विधिं विधिज्ञः ।। ३६ ।।
अच्छेदवत्पावनतीर्थतोये
धिष्ण्यं नृपस्य प्रसृते समन्तात् ।
स्नातद्विजारूढमदद्विपेन्द्र-
स्कन्धस्थकार्तस्वरकुम्भपङ्त्या ।। ३७ ।।
तिरोदधाने गगनं सुगन्धौ
कर्पूरकृष्णागरुसारधूपे ।
रथ्योभयान्ताहितशातकुम्भ-
कुम्भस्थपङ्केरुहगन्धविद्धे ।। ३८ ।।
चरत्सु वन्द्यानननिःसृतेषु
नरेन्द्रसूनोर्जयघोषणेषु ।
प्रध्मातशङ्खध्वनिबृंहितेषु
ध्वनत्सु तूर्येषु च मङ्गलाय ।। ३९ ।।
लाजा जलं दर्भमिति प्रसक्त-
माविष्कृताम्रेडितशीघ्रनादे ।
आहूय सम्पादयतोऽपि भृत्यान्
प्रत्युद्व्रजत्याकुलभृत्यवर्गे ।। ४० ।।
वृत्तिं मुहुर्यामघटीजलस्य
ज्ञातुं प्रयुक्ते च गतागताभ्याम् ।
धावत्युरोघातनिपातितार्ध-
मार्गस्थलोके नृपदाशबृन्दे ।। ४१ ।।
आसन्नभूतो महितो मुहूर्त्तः
किं स्थीयते तावदिति प्रगल्भम् ।
वृद्धेषु वंशद्वितयस्य धीरं
स्नानाय सद्यस्त्वरयत्सु रामम् ।। ४२ ।।
उच्चैहृतान्यस्वरमुच्चरत्सु
समं समाविष्कृतमङ्गलेषु ।
आपूरिताशेषककुम्मुखेषु
पटुप्रसक्तं पटहध्वनेषु ।। ४३ ।।
आहत्य तत्रानुपयोगवन्ति
वेत्रेण हुङ्कारकृता मुखेन ।
निरस्यमाने च जने दिदृक्षु-
बृन्दानि वेत्रग्रहणाधिकारे ।। ४४ ।।
तत्रैव पर्यस्य यथा सुताया
नृपस्य वित्तानि जनो विधिज्ञः ।
आद्यं विवाहस्य ततान शच्या
नामान्तरेण प्रथितं विधानम् ।। ४५ ।।
हुङ्कारमात्रप्रथितैरमर्षै-
स्तिर्यक्कराग्रस्य विकम्पितेन ।
निवारयन्तो मुखरं जनौघं
माशाब्दिका वेश्मनि तत्र चेरुः ।। ४६ ।।
क्रियासु दक्षाः कुशलेतरेभ्यो
भृत्या विधातुं विधिमुद्यतेभ्यः ।
वस्तूनि वैवाहिककर्मयोग्या-
न्याच्छिद्य केचिद्विदधुर्विधानम् ।। ४७ ।।
आकल्पमन्ते विधिवद्विधाय
स्नानस्य रत्नाभरणेन दीप्तम् ।
वधूरुपान्तं विधुरा स्मरेण
वेद्या ययौ वेदविदा कृतार्घ्यम् ।। ४८ ।।
अथोपनिन्ये नयकोविदेन
महेन्द्रसख्यास्तनुजेन तन्वी ।
लज्जाविधेया विधवेतराभि-
र्विभूषिताऽसौ विभुनन्दनाय ।। ४९ ।।
तस्याः कुमारः सुकुमारसन्धिं
वामेतरं वामविलोचनायाः ।
समाददे सम्मदभिन्नधैर्यः
पाणिं फणीन्द्राङ्गगुरुप्रकोष्ठः ।। ५० ।।
सदिन्धने शीलधनेन तेन
प्राज्यं ततः प्राज्ञतरेण हव्यम् ।
आवर्जितं वर्जितदुष्कृतेन
विधातृधाम्ना विधिवत्कृशानौ ।। ५१ ।।
प्रदक्षिणीकृत्य विवाहसाक्षी-
कृतं कृशानुं सह राघवेण ।
तन्वी ततो वेदविदा नियुक्ता
वेद्यामनंसीदनवद्यवृत्तिः ।। ५२ ।।
गण्डस्य विम्बं दुहितुर्द्धरित्र्या
घर्माम्भसां बिन्दुरलञ्चकार ।
चेतःस्थकन्दर्पकृशानुना वा
तस्योष्मणा वा परमार्थवह्नेः ।। ५३ ।।
चकार चक्राङ्कतलेन पाणौ
करेण भर्त्त्राभिनिपीड्यमाने ।
सीत्कारमाकुञ्चितदीर्घदृष्टिः
स्पर्शेन वह्नेः किल नाम सीता ।। ५४ ।।
द्विजेन तेन द्विजराजवक्त्रा
व्यापारिता वाङ्मयपारगेण ।
बाला कृशानौ कृशगात्रयष्टि-
र्भावानभिज्ञाऽथ जुहाव लाजान् ।। ५५ ।।
पत्युः करस्पर्शकृते कृशाङ्ग्या
हर्षैः सखीभिः प्रविभाव्यमाने ।
आचारधूमागमलब्धजन्मा-
न्यश्रूणि तत्संवृतये बभूवुः ।। ५६ ।।
भोक्तुर्भुवो विप्रवरेण रामः
कृत्वा नमस्यामनुपूर्वमुक्तः ।
समेतजानिर्जनकस्य राज्ञो
वन्दिस्तुतस्याङ्घ्रियुगं ववन्दे ।। ५७ ।।
पश्यन्सुतं पाशभृतो दधानं
गङ्गाकरासक्तकरस्य कान्तिम् ।
तस्थौ नृपः स्तब्धविशालदृष्टि-
रश्रुस्रवक्षालितपक्ष्मरेखः ।। ५८ ।।
कक्षान्तरे दत्तसितातपत्रं
रत्नासनस्थामथ पौरमुख्याः ।
भर्त्तुः सुतामेत्य वरं च तस्या
बाष्पप्रकाशप्रणयाः प्रणेमुः ।। ५९ ।।
रामो विवाहोत्सवसम्भृतेन
सुखेन नीत्वा कतिचिद्दिनानि ।
ततः कदाचित्समयावबोध-
दृप्तेन विद्धो हृदि मन्मथेन ।। ६० ।।
गौरीमिवाचारगुणेन गुर्वीं
करे गृहीत्वा करभोपमोरूम् ।
सतल्पभूभागमनल्पशोभं
भवप्रभावो भवनं विवेश ।। ६१ ।।
भुवि विरचितमग्रे तल्पमालोक्य बाला
नृपतिभवनरत्नस्तम्भमालिङ्ग्य दोर्भ्याम् ।
स्पृशति मनसि भीतिं साश्रुपातस्थितां तां
रघुपतिरुपगुह्य प्रापयद्भूमिशय्याम् ।। ६२ ।।
इति कुमारदासस्य कृतौ जानकीहणे महाकाव्ये
सीताविवाहवर्णनो नाम सप्तमः सर्गः ।
अथाष्टमः सर्गः
आचरन्नथ हठं स योषितः
सा च वामचरिताऽनुरागिणः ।
अप्यनीप्सितविधानचेष्टितौ
तेनतुः सपदि सम्मदं मिथः।। १ ।।
सप्रयत्नमुपवेशिताऽप्यसौ
कामिना समुपगुह्य बालिका ।
साध्वसेन चपला मुहुर्मुहु-
र्वाञ्छति स्म समुदेतुमङ्कतः ।। २ ।।
राघवेण परिरभ्य पृष्ठतः
सस्पृहं निगदिते मनोरथे ।
व्रीडयाऽवनतवक्त्रपङ्कजा
धीरमस्मयत चारुहासिनी ।। ३ ।।
अङ्गुलीषु परिगृह्य राघवे
वेधयत्युरसि रागिभिर्नखैः ।
सस्मितं विवलिताङ्गुलिर्बला-
दात्मनः करमुदास मानिनी ।। ४ ।।
किन्नु वक्ति कुपितेति वेदितुं
कामिना निधुवनेषु स्वग्रहम् ।
याचितैनमभिकोपजिह्मित-
प्रेरितेक्षणकटु व्यलोकयत् ।। ५ ।।
पुष्पकेतुहृतधैर्यबन्धनं तस्य
भावमधिगम्य निर्गमैः ।
सावकाशमथ कुर्वतीः सखीः
संरुरोध वसनान्तसङ्गिनी।। ६ ।।
विप्रयोगसमये मनोभुवा
सन्निधौ नृपसुतस्य लज्जया ।
इच्छति स्म भृशमाकुलीकृता
कामिनी न विरहं न सङ्गमम् ।। ७ ।।
मेखलागुणसमीपसङ्गिनं तस्य
हस्तमबला व्यपोहितुम् ।
मन्दशक्तिररतिं न्यवेदय-
ल्लोलनेत्रगलितेन वारिणा ।। ८ ।।
तत्र राजदुहितुर्बलात्क्रिया-
माचरत्युदितलोचनाम्भसः ।
आगमिष्यदनुचिन्त्य खण्डनं
भीतवद्भृशभकम्पताधरम् ।। ९ ।।
न स्पृशामि रशनागुणं पुन-
र्निर्दयं भुजयुगेन पीडितः ।
इत्युवाच नृपसूनुरर्थिनीसा
ततान परिरम्भमस्फुटम् ।। १० ।।
अन्तरीयहरणे कृतत्वरं
तत्पटान्तपरिधानरक्षिता ।
पृष्ठतस्तमपयान्तमङ्गना
संरुरोध परिरभ्य राघवम् ।। ११ ।।
अंशुकस्य निशि रक्षणाकुला
हस्तयुग्मधृतनीविबन्धना ।
अप्रमादकृतविघ्नमन्तरा
स्वापमाप शयने पराङ्मुखी ।।१२।।
यद्ररक्ष दृढवस्त्रबन्धनैः
स्वापकालमवगम्य भर्तरि ।
तत्प्रमृष्टवति सङ्गतस्मृतिः
सा रुरोद मुषितेव सस्वरम् ।।१३।।
आननेन परिघट्य बोधितं
राजहंस इव पद्मकुड्मलम् ।
यत्नगम्यमथ मैथिलीमुखं
सोऽनुभूय नहि तृप्तिमाययौ ।। १४ ।।
यत्तदीयमधरोष्ठपल्लवं
प्रेमवेगदृढदंशपीडितम् ।
तद्दयार्द्रहृदयः पिबन्शनैः
स क्षणेन विनिनाय वेदनाम्।। १५ ।।
स्वाधरं नृपतिशक्रसूनुना
ग्राहितं विविधचाटुचेष्टितैः ।
पानवर्जितमदन्तविक्षतं
भूय एव सृजति स्म मानिनी ।।१६।।
त्वं नितम्बमपवाहितांशुकं
व्याकुला रहसि पश्यति प्रिये ।
प्रार्थनामपि विनैव पल्लव-
स्निग्धरागमधरं स्वयं ददौ ।।१७।।
सा मदेन मदनेन लज्जया
साध्वसेन च विमिश्रचेष्टिता ।
आययौ सपदि तादृशीं दशां
या न वक्तुमपि शक्यविभ्रमा ।। १८ ।।
त्याजनाय सुरतस्य भामिनी
वाञ्छति स्म पटुचाटुचेष्टितम् ।
यत्तदेव समजायत स्वयं
योषितो निधुवनस्य वृद्धये ।। १९ ।।
अश्रुणा रतिषु खेदमात्मनः
सम्मदं च पुलकेन कामिनी ।
भावनृत्तकुशलेव नर्तकी
व्याजहार न तु लज्जया गिरा ।। २० ।।
यद्यदास तरसाभियोजितं
योषितो रतिषु खेदवृत्तये ।
तत्तदेव मृदु साधितं पुनः
कामिनाऽपनयति स्म तच्छ्रमम् ।। २१ ।।
मैथिली निधुवनेन विश्लथं
केशहस्तमथ बद्धुमुद्यता ।
बाहुमूलगतलोचने प्रिये
सस्मितं विनमति स्म लज्जया ।। २२ ।।
इत्यनङ्गशिखिना हते हृदि
क्ष्माधिपस्य दुहितुर्निविष्टया ।
वासरेषु विगतेषु लज्जया
तानवं कतिपयेषु शिश्रिये ।। २३ ।।
हस्तमस्य विरलीकृतत्रपा
नीविबन्धनमतीत्य संस्थितम् ।
निद्रया किल हृता नृपात्मजा
शर्वरीषु न बलादपाहरत् ।। २४ ।।
कातरा किल भयं भयानक-
स्वप्नदर्शनकृतं प्रपद्य सा ।
राघवं कुचतटावुरस्स्थले
सन्निधाय परिषस्वजे दृढम् ।। २५ ।।
ज्ञातमन्मथरसा मदातुरे
कामिनि क्षिपति नीविबन्धनम् ।
अञ्जलिं किल भयेन कुर्वती
सा जहार करयुग्ममंशुकात् ।। २६ ।।
सम्मताऽपि भुवनस्य मेधया
राघवे निधुवनोपदेशिनि ।
व्याजहार गुणितस्य विस्मृतिं
भूरिशस्तदुपदेशवाञ्छया ।। २७ ।।
स्वेदबिन्दुनिचिताग्रनासिका
धूतहस्तलतिका ससीत्कृतिः ।
सोढमन्मथरसा नृपात्मजा
राघवस्य न बभूव तृप्तये ।। २८ ।।
चोदयत्यवनिपालनन्दने
शिक्षितुं युवतिकृत्यनैपुणम् ।
देहजन्मशरखण्डितत्रपा
सा ययौ रहसि कर्मकर्तृताम् ।। २९ ।।
यज्जगाद मदनेन पीडिता
तत्सहासरसमूचिषि प्रिये ।
सस्मितं वलितदेहशोभिनी
तत्तदस्फुटमुवाच लज्जिता ।। ३०।।
रत्नतल्पनिकटस्थिते शुके
सङ्गतौ हृदि निधाय भाषितम् ।
निःसहास्मि विसृजेति जल्पति
व्रीडिता परिजघान पञ्जरम् ।। ३१ ।।
रामवक्त्रगलितैः श्रमाम्बुभि-
श्छिद्रितं कुचयुगस्य कुङ्कुमम् ।
सा निरीक्ष्य हसिते सखीजने
सस्मितं व्यपजगाम सम्मुखात् ।। ३२ ।।
स्वानुवृत्तिविधिवन्ध्यमीर्ष्यया
चोदितोद्यत इवाथ चेतसः ।
मैथिलस्य दुहितुर्मनोभवो
लज्जितं निरवशेषमाक्षिपत् ।। ३३ ।।
दीर्घिकाजलतरङ्गनिर्धुत-
त्यक्तपुष्पमयमण्डनौ क्वचित् ।
चाटुरम्यमितरेतराश्रया-
स्तेनतुः प्रमदकानने मृजा ।। ३४ ।।
यावकं तरुणपल्लवप्रभे
योषितश्चरणपङ्कजद्वये ।
तुल्यरागमपि स न्यपातय-
च्चाटुमात्रकरणप्रयोजनः ।। ३५ ।।
अङ्घ्रियुग्ममनुलिम्पतः
स्वयं कुङ्कुमेन तरुणार्करोचिषा ।
आरुरोह करयुग्ममस्य
तद्दूरमेव परिवृद्धवेपथुः ।। ३६ ।।
मेखलामधिनितम्बमर्पयं-
स्तत्र तत्र करमादधे मुहुः ।
किञ्चिदत्र परमं नु कांक्षितं
दुर्नहो नु मणिमेखलागुणः ।।३७।।
आचरन्नथ विलेपनक्रियां
सस्पृहं पुलकितेन पाणिना ।
अस्पृशत्कुचयुगं पुनः पुन-
श्चन्दनेन परिलिप्तमप्यसौ ।। ३८ ।।
चुम्बति प्रियतमे विलोचनं
योषितः स्वयमुपाहिताञ्जनम् ।
कर्णगं निजमशोकपल्लवं
प्राप रागमविकासि चक्षुषा ।।३९।।
पत्त्रमानमिततर्जनीशिरः
स्पृष्टकर्णलतिकः समर्पयन् ।
पूर्वमर्धमुकुलीकृतेक्षणं
तन्मुखं सुरभिगर्भमन्वभूत् ।। ४० ।।
आत्मनैव स तदा कृतं कृतं
यावकं युवतिदन्तवाससि ।
उज्जहार मुदितः पुनः पुन-
र्निष्पिबन्नधरपानलोलुपः ।।४१।।
पुष्परत्नविभवैर्यथेप्सितं
सा विभूषयति राजनन्दने ।
दर्पणं न तु चकांक्ष मण्डनं
स्वामिसम्मदफलं हि योषिताम् ।। ४२ ।।
तामनङ्गकृतचारुविभ्रमां
निर्दयं समुपगुह्य चुम्बितुम् ।
वीक्षितुं च समकालमप्रभु-
र्व्याकुलो मुहुरिवास राघवः।। ४३ ।।
प्रार्थिताऽपि न चकार कानिचि-
त्कानिचित्स्वयमपि व्यधत्त सा ।
अन्वभूद्धृदयरत्नविक्रय-
क्रीतमेनमबला यथेप्सितम् ।। ४४ ।।
येन येन हरति स्म तामसौ
तत्तदेव पुनराप योषितः ।
सज्जनेषु विहितं हि यच्छुभं
सद्य एव फलबन्धि जायते ।। ४५ ।।
कर्मणि स्वमुखपद्मविच्युत-
स्वेदबिन्दुहतकान्तवक्षसि ।
तस्य चक्षुरुपकाञ्चि सञ्चर-
द्वीक्ष्य वक्षसि मुमोच सा तनुम् ।। ४६ ।।
भर्तरि प्रणयमौनमास्थिता
जल्पयत्यधरदंशनिग्रहैः ।
नो चकार वचनानि तादृशं
निग्रहं चिरमवाप्तुमिच्छया ।। ४७ ।।
स स्तनौ हृदि निधाय बालया
दत्तमास्यकमलं प्रसादने ।
प्राप्तुमिच्छुरपि दोषतो विना
रोषमाविरकरोन्मुहुर्मुहुः ।। ४८ ।।
अल्पदोषविषयेऽपि दम्पती
जग्मतुः प्रणयकोपवामताम् ।
स्नेहजातिरतिवृद्धिमागता
जायते सुलभरोषसव्रणा ।। ४९ ।।
अश्रुषु प्रणयकोपवह्निना
लोहितत्वमुपनीय पायितः ।
धैर्यमस्य निचकर्त सुस्थिरं
तत्कटाक्षविशिखो निपातितः ।। ५० ।।
कोपिता चिरनिवृत्तसङ्गतिः
सुप्तमेत्य परिबोधशंकिनी ।
हस्तरुद्धचलकुण्डला धृत-
श्वासवृत्ति शनकैश्चुचुम्ब सा ।। ५१।।
कैतवेन कलहेषु सुप्तया
विक्षिपन्वसनमात्तसाध्वसः ।
चोर इत्युदितहासविभ्रमं
स प्रगल्भमधरे विखण्डितः ।। ५२ ।।
सङ्गतस्य परिहृत्य चारिणौ
मानमेत्य कुहचित्परस्परम् ।
अन्ययातनयनौ किलोरसा
तौ निहत्य कलहं वितेनतुः ।। ५३ ।।
एकदाऽरिकदनः स कान्तया
सार्धमर्धशशिमौलिसन्निभः ।
आरुरोह परिसंहृतातपं
द्रष्टुमिद्धरुचिसौधमम्बरम् ।। ५४ ।।
वासरस्य विगमे समीरणै-
र्मन्दनर्तितसुगन्धिकुन्तलाम् ।
सौधपृष्ठमवितस्मृषीमिदं
राघवो वच उवाच जानकीम् ।। ५५ ।।
सन्निगृह्य करसन्ततिं क्वचि-
त्प्रस्थितोऽपि रविरेष रागवान् ।
अस्तमस्तकमधिश्रितः
क्षणं पश्यतीव भुवनं समुत्सुकः ।। ५६ ।।
दिङ्मुखादपसरन्तमातपं
नष्टतेजसमनुव्रजन्मुहुः ।
भानुना समवबध्य रश्मिभिः
कृष्यमाणमिव लक्ष्यते तमः ।। ५७ ।।
भूय एव रविमण्डले रुचि-
र्लीयते जलधिमध्यवर्तिनी ।
अन्तराणि तमसः प्रयच्छति
स्रष्टरीव जगती युगक्षये ।। ५८।।
सागरे निहितमण्डलं रविं
ध्वान्तजालमुपयाति सर्वतः ।
वारिभिः पिहितदण्डमायतं
भृङ्गचक्रमिव फुल्लमम्बुजम् ।। ५९ ।।
उत्पतत्यविकले निशाकरे
धातुपङ्कपरिदिग्धमण्डलम् ।
चक्रमेकमिव राजते नभः
स्यन्दनस्य रविबिम्बमस्तगम् ।। ६० ।।
संहृतात्मकिरणं यथा यथा
वृद्धिमुद्वहति मण्डलं क्रमात् ।
सागराम्भसि रविस्तथा तथा
गौरवादिव शनैर्निमज्जति।। ६१ ।।
उन्मुखा दिनकरस्य रश्मयः
सागरान्तरितमण्डलश्रियः ।
भान्ति तोयमभिभूय निर्गता
वाडवस्य शिखिनः शिखा इव ।। ६२ ।।
पूर्वदिङ्मुखगतं घनं तमः
सन्ध्यया च परिरुद्धमन्यतः ।
भाति सिन्धुजलभिन्नमेकतः
प्रावृषीव सलिलं पयोनिधेः ।। ६३ ।।
सन्ध्ययाऽरुणितपत्रसंचयं
पल्लवैरिव निरन्तरं वनम् ।
पश्य तत्तमसि सर्पति क्रमा-
द्विन्दतीव परिणामसम्पदम् ।। ६४ ।।
अन्धकारनिकरेण सर्वतः
कृष्णसर्पमलिनेन सर्पता ।
रुध्यमानविषयाः समन्ततः
सङ्कुचन्ति परितो यथा दिशः ।। ६५ ।।
भाति मत्तशिखिकण्ठकर्बुरं
ध्वान्तजालपरिरुद्धमम्बरम् ।
अर्कदीपकृततापसम्भृत-
प्रौढकज्जलमलीमसं यथा ।। ६६ ।।
पश्य दीप्तरुचि पूर्वमुद्गतं
ज्योतिरेतदसितोरगत्विषः
दूरमग्नरविरश्मिभासुरं
छिद्रमेकमिव विष्णुवर्त्मनः ।। ६७ ।।
पश्चिमे नभसि भान्ति लोहिता-
स्तारका रविरथस्य वेगिनः ।
लोहचक्रहतमेरुमस्तका-
दुद्गता इव हुताशविप्रुषः ।। ६८ ।।
उन्मिषन्ति दिनकृत्करात्यये
दिङ्मुखैकरचनाः समन्ततः ।
तारका रविभयेन मीलिता
रश्मिधामहतलोहिता इव ।। ६९ ।।
पूर्ववारिनिधिपृष्ठतः क्रमा-
द्दर्शयन्हिमरुचिः फलान्तरम् ।
एकपक्षसुलभक्रमामसौ
वृद्धिमद्य मुहुरेव विन्दति ।। ७० ।।
पश्य भृंगपटलासितप्रभं
पूर्वतः सपदि निर्गतं तमः ।
यत्करेण जघने हिमांशुना
तुद्यमानमिव याति पश्चिमम् ।। ७१ ।।
हारशुभ्रनिजरश्मिसञ्चयः
क्षीरवारिनिधिना विवर्धिना ।
प्लाव्यमानवदसौ शनैः शनै-
रुत्पतत्युदयतो निशाकरः ।। ७२ ।।
क्षिप्यमाणघनतामसोत्करं
शीतरश्मिकिरणस्य सर्वतः ।
दातुमन्तरमिव प्रसर्पतो
दूरमुत्सरति मण्डलं दिशाम् ।। ७३ ।।
क्षीयमाणवपुरिन्दुरुद्गमे
वर्धमानकिरणः समन्ततः ।
अर्कतप्तगगनानुबन्धिना
तेजसेव परितो विलीयते ।। ७४ ।।
बद्धरागमुदितो निशाकरः
सन्त्यजन्दिशमसौ बलिद्विषः ।
कार्श्यमेति वपुषा मुहुर्मुहुः
शोकदीन इव पाण्डुरोचिषा।। ७५ ।।
पश्य पीतमलिबृन्दमेचकं
ध्वान्तमस्य सकलं हिमत्विषः ।
स्वच्छविग्रहतया शशाकृति-
च्छद्मना बहिरिवोपलक्ष्यते ।। ७६ ।।
विप्रयुक्तवनितामुखाम्बुज-
प्रोद्धृतद्युतिचयेन चन्द्रमाः ।
नूनमेव पुनरात्ममण्डलं
पूरयत्यसितपक्षकर्शितम् ।। ७७ ।।
अन्धकारनिकरं करैरिमं
भिन्दतः शशधरस्य मण्डले ।
क्षोभवेगपतितः शशाकृति-
र्धूलिपुञ्ज इव भाति तामसः ।। ७८ ।।
गुल्मलीनमलिकर्बुरं तमः
क्रष्टुकाम इव शर्वरीकरः ।
सर्वतो विटपजालरन्ध्रकैः
प्रेरयत्युदयशेखरः करान् ।। ७९ ।।
सुप्तकोकिलकुलैश्च षट्पदै-
रुल्लसत्कुमुदगन्धसम्भृतैः ।
चन्द्ररश्मिनिहतोऽपि सञ्चयः
सावशेष इव भाति तामसः ।। ८० ।।
पत्त्रजालशतरन्ध्रविच्युतः
सामिसिक्त इव भूरुहस्तले ।
स्थण्डिले निरवशेषमिन्दुना
भाति युक्त इव रश्मिसंचयः ।। ८१ ।।
उल्लसत्सु कुमुदेषु षट्पदाः
सम्पतन्ति परितो हिमांशुना ।
भिद्यमानतमसो नभस्तला-
द्विच्युता इव तमिस्रबिन्दवः।। ८२ ।।
तारका रजतभङ्गभासुरा
दिग्वधूभिरुदयादुदेष्यतः ।
वर्त्मनि ग्रहपतेः समन्ततः
तानिता इव विभान्ति लाजकाः।। ८३ ।।
सुप्तपद्मविनिमीलितेक्षणा
वृद्धशान्तकलहंसकूजिताः ।
मित्रनाशपरिरोदिताश्चिरं
मूर्छिता इव विभान्ति दीर्घिकाः ।। ८४ ।।
सैकते शशिमरीचिलेपने
सुप्तमिन्दुकरपुंजसन्निभम् ।
राजहंसमसमीक्ष्य कातरा
रौति हंसबनिता सगद्गदम् ।। ८५ ।।
तिग्मरश्मिविरहे सरोजिनी
लोकमिन्दुकिरणावगुण्ठितम् ।
नाभिवीक्षितुमिव क्षपागमे
मीलयत्यसितवारिजेक्षणम् ।। ८६ ।।
जृंभमाणचलपत्रसंहतेरन्तरं
कुमुदषण्डसम्पदः ।
संविधातुमिव पद्मसन्ततिः
सङ्कुचत्यनतिदूरवर्तिनी ।। ८७ ।।
लक्षणं मृगमयं हिमद्युतिर्भाति
बिभ्रदसितोत्पलप्रभम् ।
श्यामलावदनबिम्बकान्तिभि-
र्विद्धमध्य इव रूप्यदर्पणः ।। ८८ ।।
यौवनोपहितपांडुकान्तिना
त्वन्मुखेन विजितो निशाकरः ।
लज्जयेव घनमेघसन्ततौ
रुद्धरश्मिनिवहो निलीयते ।। ८९ ।।
निष्पतत्यसितवारिदोदरा-
दंकितः शशमयेन लक्ष्मणा ।
मध्यलग्नमिव मन्दमुद्वहन्
कृष्णमेघशकलं निशाकरः ।।९०।।
वेधसा रचयितुं तव प्रिये
कुन्दगौरदशनावलीमिमाम् ।
उद्धृतद्युतिरिवैष मध्यतो
भाति कृष्णमृगलक्षणः शशी ।। ९१ ।।
तत्कलङ्कममृतद्युतेरयं
त्वन्मुखावजितमण्डलश्रियः ।
वीक्ष्य शीतकरकान्ततोरणः
शोकबाष्पमिव वारि मुञ्चति ।। ९२ ।।
इति सपदि वदन्वदान्यवर्यः
शयनशिलातलमिन्दुपादधौतम् ।
अलसतरगतिर्नरेन्द्रकन्या-
मनुगमयन्मदमन्थरः प्रपेदे ।। ९३ ।।
अथ सुरतमखे सुखं समाप्ते
मदनहुताशनदग्धमानहव्ये ।
चषकमधुनि सन्निविष्टबिम्बं
मुखमनयद्दयितासखः स सोमम् ।। ९४ ।।
दुहितुरवनिभर्तुरुन्मयूखं
मणिचषकं परिमण्डलं विहाय ।
प्रियमुखपरिभुक्तधामवाञ्छा
करकमलं नयति स्म हेमशुक्तिम्।। ९५ ।।
नियतमिह पतन्ति दन्तधारा
मदमदनोद्धतयोरितीव भीत्या ।
अधरकिसलये विहाय यूनो-
र्मधुपिबतोर्नयनान्युपास्त रागः ।। ९६ ।।
युवतिमुखमसंशयं यदेतत्ी् –
सरसिरुहं परमार्थतः स तस्मात् ।
मुहुरपि मधुपः सुगन्धिहृद्यं
न विरमति स्म पिबन्विवृद्धतृष्णः ।। ९७ ।।
अधरमितवतो मधुस्रवेण
स्फुटरचितभ्रुकुटिर्व्रणस्य दाहात् ।
अचकमत मधु प्रियामुखेन
क्षितिपसुतः प्रणयादसौ वितीर्णम् ।। ९८ ।।
इति सपदि निशां विनिन्यतुस्तौ
विलुलितकेशसमर्पितं दधानौ ।
रतिकलहकचग्रहेण माल्यं
प्रविधुतकौसुमभक्तिसूत्रशेषम् ।। ९९ ।।
अथ हदयङ्गमध्वनितवंशमृदङ्गकृतानुगमै-
रनुगतवल्लकीमृदुतरक्वणितैर्ललनाः ।
तमुषसि भिन्नषड्जविषयीकृतमन्द्ररवैः
शयितमबोधयन्विविधमङ्गलगीतिपदैः ।। १०० ।।
शयनममुच्यत प्रियमनु प्रमदोत्तमया
हृदयनिपीडनोद्धृतपयोधरकुङ्कुमया ।
रतिषु दधानया दशनखण्डितमोष्ठमणिं
चिरकृतजागरारुणितमन्थरलोचनया ।। १०१ ।।
इति श्रीमत्सिंहलकवेः कुमारदासस्य कृतौ
जानकीहरणे महाकाव्येऽष्टमः सर्गः ।।
नवमः सर्गः
इति प्रवृत्तस्य सुखेन केषुचि-
द्गतेषु मासेषु सुतस्य भूपतिः ।
पुरं प्रतस्थे वनितापरिग्रहै-
स्त्रयं सुतानामितरत्समस्य सः ।।१।।
उपेत्य पत्या सह शोकसम्पदा
कलत्रभारेण च मन्थरक्रमा ।
पितुः प्रयाणाभिमुखी भुवः सुता
ततान पादावुदबिन्दुभिर्दृशोः ।। २ ।।
ततः समालम्व्य मतिं पुरस्कृतां
गुणैरपत्यं गुणपक्षपातिनीम् ।
गिरं गुरुः साधु गरीयसीमसौ
जगौ सतीनामुचितव्रताश्रयाम् ।। ३ ।।
परः प्रकर्षो वपुषः समुम्नति-
र्गुणस्य तातो नृपतिर्नवं वयः ।
इति स्म मा मानिनि मानमागमः
पतिप्रसादोन्नतयो हि योषितः ।। ४ ।।
स्त्रियो न पुंसामुदयस्य साधनं
त एव तद्धामविभूतिहेतवः ।
तडिद्वियुक्तोऽपि घनः प्रजृम्भते
विना न मेघं विलसन्ति विद्युतः ।। ५ ।।
गताऽपि भर्त्रे परिकोपमायतं
गिरोऽकृथा मा परुषार्थदीपनीः ।
कुलस्त्रियो भर्तृजनस्य भर्त्सने
वदन्ति मौनं परमं हि साधनम् ।। ६ ।।
करोति शीलेन पतिं पतिव्रता
गुणस्पृहं वश्यमवश्यमंगना ।
पराभवं भर्तुरुपैति दुस्तरं
बिनष्टचारित्रगुणा गुणैषिणः ।। ७ ।।
कृतं त्वयि व्याहृतिविस्तरेण
तत्कुरुष्व यन्मे चरितं त्वदाश्रयम् ।
श्रुतिं प्रयातं जरसैव जर्जरं
सहस्रधेदं हृदयं न दारयेत् ।। ८ ।।
वृथाऽद्य दैवादपि नाम नो
भवेदयं त्वदेकप्रवणो मनोरथः ।
इति प्रवक्तुर्वचनानि मन्युना
निगृह्य कण्ठं जरतो निरासिरे ।। ९ ।।
उदग्रभासः शिखया शिखामणेः
स्रजा च धम्मिल्लकिरीटदष्टया ।
प्रमृज्य पादौ जनकस्य दम्पती
क्षयादयातामथ लम्भिताशिषौ ।। १० ।।
कृतो वियोगेन शुचत्समुद्भवः
समर्पितः साधु वरेण सम्मदः ।
मनस्यवस्थाननिमित्तमीशितुः
क्षणं विवादानिव तस्य चक्रतुः ।। ११ ।।
हलायुधाभस्य गतिं सकाहलः
पयोधिनिर्घोषगभीरभैरवः ।
रवः प्रगल्भाहतभेरिसम्भवः
प्रकाशयामास ततः समन्ततः ।। १२ ।।
भयं वितन्वन्भवनेषु पक्षिणां
गजेन्द्रघण्टाघटितश्च निस्वनः।
करेणुनादैरुपबृंहितो मुहुर्दिशः
ससर्पाथ समं समुद्धतः ।।१३।।
समारुरोहाथ रथं महारथः
सहेमचित्रं सह राजकन्यया ।
दिनादिसन्ध्यानुगतां पिशङ्गितां
स्वरश्मिदीप्त्येव दिवं दिवाकरः ।। १४ ।।
शिरःप्रदेशस्थसमुद्गपेटिका
गृहीतवीणाशुकपञ्जरादयः ।
स्त्रियोऽप्यनुस्यन्दनमस्य
निर्ययुः सवेत्रहस्तैः स्थविरैरधिष्ठिताः ।। १५ ।।
मदान्धमातङ्गघटाऽद्रिसङ्कटे
परिक्वणन्ती बलकायनिम्नगा ।
पुरः प्रतस्थे पुरुहूततेजसः
तरङ्गिता वल्गुतुरङ्गरङ्गितैः ।। १६ ।।
स्वदृष्टिरोधिश्रवणाग्रमारुतै
रजो रथोत्थं यदि नाहरिष्यत ।
विनिर्गताभिर्न पुरो मदस्रुता
घटाभिरद्रक्ष्यत वर्त्म दन्तिनाम् ।। १७ ।।
व्यतीतरथ्येऽथ रथे कपोलयो-
र्विलासवत्या लसदंशुजालयोः ।
पपात तस्याः पुरगृह्यदीर्घिका-
समीरणानर्तितपद्मजं रजः।। १८ ।।
प्रियं पथि प्रस्तरभेदकोटिभि-
र्हतस्य चक्रे चलनं वरूथिनः ।
विधाय तत्संवरणं वराङ्गना
तमाललम्बे बलसन्निधावपि।। १९ ।।
रथध्वनिप्रापितसम्भ्रमं गवां
कुलं समुत्पुच्छयमानमुन्मुखम् ।
उदग्रकर्णं परिधावदेकतो
ददर्श सीताऽथ वनान्तवर्तिनी ।। २० ।।
विनिद्रपद्मा मृदुभिः समीरणै-
र्विसारयन्त्यः कलहंसिकागिरः ।
स्वदेशसीमासरितो विलंघिताः
शुचं वधूचेतसि साधु सन्दधुः ।। २१ ।।
विवृत्य दृष्टा विषयव्यतिक्रमा-
च्छनैर्निमज्जन्त इवावनीतले ।
स्वजन्मभूमौ गिरयो नृपात्मजा-
कपोलमातेनुरजस्रमश्रुभिः ।। २२ ।।
गजेन्द्रदन्ताहतवन्यसल्लकी-
कषायगन्धिः पथि तत्र योषिताम् ।
शनैर्विधून्वन्नलकाग्रवल्लरी-
र्मुखानि पस्पर्श वनान्तमारुतः ।। २३ ।।
पथि प्रतानो नृवरस्य तामसः
ततान भीमं भयमादिशन्दिशः ।
प्रसह्य वैरोचनरोचिषामथ
क्षिपन्क्षपाया विगमेऽपि संहतिम्।। २४ ।।
अरिष्टसन्तापविरूपदर्शना-
स्तमोऽभिभूताः प्रतिकूलमारुताः ।
अविप्रसन्नानि मुखानि भेजिरे
दिशो विनाशोपगता इव क्षणम् ।। २५ ।।
अथ प्रकाशीभवदग्रतो दिशं
क्षणादुदीचीमवभास्य दीप्तिभिः ।
बलेन तेजः पुरुषाकृतिश्रिया
विभक्तमुत्पातमनु व्यदृश्यत ।। २६ ।।
ततो दधानः श्रवणान्तसङ्गिनीं
विशुष्कपङ्केरुहबीजमालिकाम्
विनिद्ररक्तोत्पलशङ्कया ततां
विलोचनोपान्त इवालिसन्ततिम्।। २७ ।।
विशालवामांशतटावलम्बिनीं
समुद्वहन्द्वीपितनुं तनूदरः ।
परिज्वलत्तीव्रतपोहुताशन-
स्फुलिङ्गपातैरिव बिन्दुचित्रिताम्।। २८ ।।
भुजेऽतिभीमे सशरं शरासनं
निधाय वामे निधनावहं द्विषाम् ।
करेऽपरस्मिन्परदुर्गपारगं
परं स बिभ्रत्परशुं परासुहा ।। २९ ।।
तपोऽभिधानस्य सितेतराध्वनः
शिखा इवादित्यमयूखपिङ्गलाः ।
समीरणैरात्मरयेण सम्भृतैर्जटा
विधून्वन्वलिताः समन्ततः ।। ३० ।।
प्रभुर्भृगूणामथ तद्बलं वली
हसेन धून्वञ्जलनं वितन्वता ।
निरुष्य रामेण रुषावृता गिरः
परोऽवतारो जगदे जगत्प्रभोः।। ३१ ।।
विधीयतामन्यमिव क्षितिक्षितं
न राम रामं युधि जेतुमुद्यमः ।
सरित्तटीपाटनपाटवस्पृशं
न गोपतिं प्राप्य नगो विशीर्यते।। ३२ ।।
रघोरपत्ये जगतीपतिद्विषो
वृथा तव स्यादिह विक्रमक्रमः ।
अलं विसारिग्रसनस्थपाटवो
न दन्दशूकप्रभवे विहङ्गमः ।।३३ ।।
तव प्रयोगे धनुषोऽनुशासितुः
शरासने भूघरनाथधन्वनः ।
इतः प्रवृत्ताऽपि न नूनमागता
विपत्त्वदीयश्रवणस्य गोचरम्।। ३४ ।।
इतीरितं तस्य निशम्य तद्वचः
परस्य वृद्धिं यशसो वितन्वतीम् ।
वृथा विधित्सन्धनुषो भिदामिदं
जगाद शिष्यो वचनं पिनाकिनः ।। ३५ ।।
नवेश्वर स्तब्धतरं धनुर्द्वयं
विधाय वन्ध्येतरबाणपातनम् ।
विशामधीशे किल विश्वकर्मणा
पुरन्दराख्याय पुरा व्यतीर्यत ।। ३६ ।।
तयोरथैकं च रथाङ्गधारिणे
विसृज्य पूर्वं दनुजारये धनुः ।
अदायि चैकं त्रिदशाधिपेन
तत्त्रिलोचनाय त्रिपुरं दिधक्षवे ।। ३७ ।।
व्यधत्त यत्नेन तथा मरुत्पति-
र्विवित्सया तद्गतजन्यतेजसः ।
यथाऽहवो हव्यवहोग्रतेजसा-
ेरजय्यशक्त््योरजयोरजायत ।। ३८ ।।
समासहस्राणि समेतसाहसं
दिशो दशापि प्रतिरुध्य पत्त्रिभिः।
विहाय चक्रादि चकार देवयो-
र्युगं महेष्वासयुगेन संयुगम्।। ३९ ।।
अथो विकृष्टं मृदुभूतमीश्वरः
ससर्ज यच्चापमभेदि तत्त्वया ।
अगादृचीकाय वितीर्णमक्षतं
क्रमेण हस्तं मम वैष्णवं धनुः।। ४० ।।
उभौ गुणावस्य तयोर्जगच्छ्रुतिं
जहाति नैको दृढतेति विश्रुतः ।
असंशयं ज्येति निरूढिमागतः
परो ममैव श्रवणान्तगोचरः ।। ४१ ।।
अपाङ्गभागावधि चापपूरणं
सुदुष्करं तिष्ठतु विष्णुगोचरम् ।
गुणं यदि प्रापयसीह जिह्मतां
बलोपपन्नेषु ततस्त्वमग्रणीः।। ४२ ।।
निधाय बाणं धनुषीह पूरिते
वधः स्वहस्तेन तवैष सत्क्रिया ।
इतीरयित्वा तनयस्य भूपते-
र्मुमोच हस्ते सशरं शरासनम् ।। ४३ ।।
ततः स शून्यामिव मुष्टिमानयन्
अपाङ्गदेशं दशकण्ठसूदनः ।
बलादविज्ञातविकर्षणश्रम-
श्चकर्ष गुञ्जद्गुणबन्धनं धनुः ।। ४४ ।।
गुणद्वयेनातिसमुन्नतिद्वयं
प्रसह्य नेमे कलहे महीयसा ।
अकम्प्यमेकेन शरासनं बल-
प्रकर्षगम्येन परेण भार्गवः ।।४५ ।।
स तेन मुक्तः किल सायको
दिवः पदं तपस्यद्वृषभस्य वाञ्छतः।
द्वितीयवर्णस्य निहन्तुरात्मनो
विधाय नीशारमथ व्यतिष्ठत ।। ४६ ।।
रिपोरजय्यस्य जयेन मानवैः
सभाज्यमानो बहुमानमन्त्रणैः ।
मनोज्ञवासे पथि मैथिलीसखः
सुखेन नीत्वा कतिचिद्दिनानि सः ।। ४७ ।।
व्यपावृतद्वारमुखेन सन्ततं
बलेन भूम्ना विशता कृतध्वनिः ।
पुरीमुदन्वन्तमुदग्रनिस्वनं
तनुं पिबन्तीमिव कुम्भजन्मनः ।। ४८ ।।
नरेन्द्ररथ्योभयभागचारित-
प्रसारिकालागरुधूपवासिताम् ।
ततामनन्तैरुपरत्नतोरणं
सपङ्कजाष्टापदकुम्भमण्डलैः ।।४९।।
वितन्वतीमुष्णघृणेरुदर्चिषः
परिक्वणत्काञ्चनकिङ्किणीगुणैः ।
सुगन्धिना गन्धवहेन ताडितै-
र्भ्रमत्पताकानिकरैः करच्छिदाम् ।। ५० ।।
मधुव्रतव्रातविरावकिङ्किणी-
रुतेन रम्यं मणितोरणस्रजाम् ।
चयं पताकानुकृतानि बिभ्रतो
घृतं दधानामनिलस्य रंहसा ।। ५१ ।।
विवेश तामंजलिबद्धसम्पदा
नरेन्द्रसूनुर्मुकुलानि सर्वतः ।
मुहुर्मुखेन्दोरुदयेन कल्पय-
ञ्जनस्य हस्तारुणपङ्कजानि सः ।। ५२ ।।
गुरूनपृष्ट्वैव कुमारमीक्षितुं
जवेन वातायनमीयुरङ्गनाः ।
न ता न सत्यो न च मूढवृत्तय-
स्तथाहि वंशस्य रघोर्विनीतता ।। ५३ ।।
रराज वातायनसन्ततिर्वृता
विलोलनेत्रैर्वनितामुखांबुजैः ।
तता विनिद्रोत्पलपत्रसम्पदा
सरोजिनी तिर्यगिव व्यवस्थिता ।। ५४ ।।
द्युतिं दधौ जालगवाक्षसङ्गिनी
नितम्बिनीनां चलदृष्टिसन्ततिः ।
ततेव पङ्केरुहनालजालकैः
परिस्फुरन्ती शफरीपरम्परा ।। ५५ ।।
पदं पुरन्ध््रयामविशुष्कयावकं
समर्पयन्त्यामविलम्बिविक्रमम् ।
बभूव सोपानविमर्दसम्भवः
स्वराग एवांघ्रियुगस्य यावकः ।। ५६ ।।
कयाचिदालोकपथं मुखाकुलं
समेत्य घर्मस्रुतपत्त्रलेखया ।
सखीकपोलाहितगण्डभागया
कृतस्तदीयेऽपि मुखे विशेषकः ।। ५७ ।।
प्रसाधनव्यापृतयाऽपि रामया
प्रदेशिनीपर्वविकृष्टकर्णया ।
उपायये वामकरस्थपत्रया
रयेण वातायनजालमन्यया ।। ५८ ।।
द्रुतप्रयाणश्लथकेशबन्धना
सघर्मवारिस्रुति बिभ्रती सुखम् ।
श्रमातुरोरुद्वयमन्थराऽपरा
ययौ सपत्न्याः परिशङ्कनीयताम् ।। ५९ ।।
भृशाल्पवातायनयातमन्ययो-
र्नितान्तमेकीकृतगण्डभागयोः ।
प्रभासुरं कुण्डलमेकमेव त-
न्मुखद्वयं मण्डयति स्म रामयोः।। ६० ।।
प्रियोपभुक्ताधरमर्धलक्षितं
विधाय काचित्प्रथमं तु लज्जया ।
प्रयाति दूरं नृपतौ दिदृक्षया
चकार वातायनबाह्यमाननम् ।। ६१ ।।
अतिष्ठदेका कुचयुग्मसम्पदा
निरुध्य वातायनमुन्नतस्तनी ।
सखीजनो यत्कृशमध्यभागतः
पताकिनीमन्तरमाप वीक्षितुम् ।। ६२ ।।
प्रसह्य काचित्तनयं तनूदरी
निधाय वातायनदेहलीतले ।
महीभुजे बालकमञ्जलिं बला-
दकारयत्पङ्कजकोशकोमलम् ।। ६३ ।।
नृपः सुमित्रातनयो वधूरिति
स्वयं करैर्निर्दिशति प्रियाजने ।
तलप्रभापाटलभागभागिनो
नखांशुजाला अपि चेरुरम्बरे ।। ६४ ।।
नृपात्मजं वर्धयितुं न शक्नुव-
ञ्जयेन शालीनतया वधूजनः ।
पदं विधत्स्वाविधवाजनोचिते
पथीति पत्न्यै गिरमाशिषं जगौ ।। ६५ ।।
नरेन्द्रसेना विविशुः समन्ततो
विवृद्धतोया इव यत्समुद्रगाः ।
महार्णवस्येव बभूव तत्कृतः
पुरस्य पूरो न च नातिरिक्तता।। ६६ ।।
द्विधागतं द्वारमुपेत्य तद्बलं
निबध्यमानाञ्जलि शासिता भुवः ।
नृपाङ्गणस्योभयभागसंश्रितं
दृशाऽनुगृह्णन्स विवेश मन्दिरम् ।। ६७ ।।
देशं युधाजिति जितं तनुजे तपोऽर्थी
विन्यस्य केकयपतिर्विपिनं विविक्षुः ।
दूतेन तेन तनयं दुहितुर्दिदृक्षुः
कालस्य कस्यचिदथेन्द्रसखं ययाचे ।। ६८ ।।
अथ स युधाजिति स्वविषयं सति नीतवति
प्रथितगुणे गुणप्रचयलाभरतं भरतम् ।
इतरसुताहितप्रियशताहततद्विरह-
प्रभवशुचोऽनयन्नयशुचिः सुचिरं दिवसान् ।। ६९ ।।
इति श्रीमत्कुमारदासस्य कृतौ जानकीहरणे
महाकाव्ये नवमः सर्गः ।।
दशमः सर्गः

नयेन नयतस्तस्य राज्यं राजीवचक्षुषः ।
ततः शक्रसमानस्य समानामयुतं ययौ ।। १ ।।
अथालक्ष्यत तद्देहे काठिन्यरहितत्वचि ।
पलितं विस्रसावल्लीपुष्पहास इव क्वचित् ।। २ ।।
पलितच्छद्मना दोषा सर्वकालसमुन्नते ।
जरसा शिरसि स्पृष्टो न विषेहे महारथः ।। ३ ।।
अङ्कमन्यतरेद्युः स्वं समारोप्य बलाद्वली ।
नाथो भुवः समज्यायां सुतं ज्यायांसमब्रवीत् ।। ४ ।।
मामियं प्राणनिर्याणवैजयन्ती पुरःसरी ।
रक्ताक्षवाहनादेशदूती संसेवते जरा ।। ५ ।।
अङ्गानि जरसा तात स्पृहा कामेषु निर्विदा ।
तुल्यमेवोपनीतानि शैथिल्यं नः शनैः शनैः ।। ६ ।।
निवर्तन्ते हि कामेभ्यो भद्रा राघवदन्तिनः ।
कालेन शिरसि न्यस्तैः श्वेतकेशशिताङ्कुशैः ।। ७ ।।
उभे वक्षसि वश्यानां तिष्ठतो रक्तकर्कशे ।
यौवने वनिता वल्कसन्ततिर्वार्धके च नः ।। ८ ।।
कृतशस्त्रो न यो जिष्णुर्यश्चाढ्यो यज्ञनिःस्पृहः ।
कामी यश्च जरन्नेते क्षत्रवंशेषु कत्त्रयः ।। ९ ।।
पादशेषेऽपि वैराग्यं न यस्य पुरुषायुषि ।
लक्ष्यते कीदृशी तस्य जनस्य हृदयालुता ।। १० ।।
नातिविस्त्रसया भिन्ने देहे ना तप्यते तपः ।
इतरत्र तपस्यायाश्चिरं जीर्णे हता गतिः ।। ११ ।।
मन्दशक्तीन्द्रियश्च्योतलालाविच्छुरिताधरः ।
अस्फुटस्मृतिचेष्टाभिर्बालवृत्तमिवाचरन् ।। १२ ।।
मृणालवलयच्छेदतन्तुजालसमत्विषः ।
दधानो यौवनोद्दाहभस्मेव पलितच्छटाः ।। १३ ।।
प्रत्याशा जीविते जीर्णवयसो मे मुमूर्षतः ।
प्रथयन्निव नास्तीति मूर्ध्रस्तिर्यग्विकम्पनैः ।। १४ ।।
दन्तकुन्तशतैरुग्रैर्मृत्योः सङ्कटमाननम् ।
प्रवेष्टुमिव बिभ्राणः कायसङ्कोचखर्वताम् ।। १५ ।।
बिभ्रदातङ्कनिर्मांसव्यक्तलक्ष्यसमुद्गमाः ।
वीचीरिव जरानद्याः पर्शुकास्थिपरम्पराः ।। १६ ।।
निर्दन्तत्वादसंस्कारं मिथो मोहादसंहितम् ।
मुष्टिन्धय इवास्पष्टं वदन्नम्बूकृतं वचः ।। १७ ।।
भिन्नभ्रुवमुदस्तास्रां किञ्चित्कम्पितमस्तकाम् ।
नम्रो गद्गदितालापामनुनेतुं जरामिव ।। १८ ।।
विधित्सन्नप्यशक्तिष्ठः स्वदेहवहनेऽपि सः ।
वार्धक्ये धर्मतो मूढः तपः कीदृग्विधस्यति ।। १९ ।।
यतो यातुस्तपस्यायामरण्यवसतिं त्वया ।
मा जन्यश्रुप्रवर्षेण प्रत्यूहो मे विरागिणः ।। २० ।।
अनुशिष्टिः प्रकृत्यैव भद्रे भवति कीदृशी ।
प्रीतये मनसः स्नेहकातरस्य निगद्यते ।। २१ ।।
औदासीन्यं यतः शत्रुरुदासीनश्च मित्रताम् ।
मित्रं भक्तिदृढत्वं च याति तद्वक्तुमर्हसि ।। २२ ।।
लोकसंग्रहकामेन शत्रुभावमनिच्छता ।
निन्दनीयं न तत्तस्य ख्यातिं यो येन वाञ्छति ।। २३ ।।
सुभगङ्करणीवृत्तिः साम्नः स्वपररञ्जनी ।
नायःशूलिकतेत्याहुर्नये निष्णातबुद्धयः ।। २४ ।।
जिघांसुभिरपि प्राज्ञैः योक्तुं सामैव साम्प्रतम् ।
रञ्जयन्ति मृगान् गीतैः बिभित्सन्तो मृगायवः१ ।। २५ ।।
साम शाठ्यं जनो वेत्ति दानादत्यन्तवर्जितम् ।
औशनं साम दानस्य युक्तं तत्साधुमात्रया ।। २६ ।।
मा दा रहितसम्मानं त्यक्ष सत्कारसामनी ।
दूषितः कृतिनो नीतौ वित्तं विश्राणितं विदुः ।। २७ ।।
नेता निहन्ति दुर्धर्षं शत्रुगृह्येण शात्रवम् ।
घनेनेव स्फुलिङ्गार्चिःप्रावृतं पिण्डमायसम् ।। २८ ।।
उपजापहृते स्वामिस्नेहसीमि्न पराश्रयम् ।
मौले वाच्छति मेदिन्याः पत्युः पातो न संशयः ।। २९ ।।
इतरोपायदुःसाध्ये चण्डदण्डो महीपतिः ।
अदुष्टायत्यसौ नीतेरश्नाति विपुलं फलम् ।। ३० ।।
न दण्डेन विना शक्या गौरव्याहति रक्षितुम् ।
इति प्रत्येति मुग्धोऽपि वल्लवः किमु राजकम् ।। ३१ ।।
त्यक्तदण्डः पदं वांछन्नगृहीतजगत्करः ।
क्षोणीपतिः पतत्याशु जराक्रान्त इव ध्रुवम् ।। ३२ ।।
युक्तिमित्थमुपायानां कुर्वाणस्य चतुष्टयीम् ।
परैरिन्दुप्रभागौरं व्रजत्यक्षय्यतां यशः ।। ३३ ।।
शूरं पुरुषसारज्ञं नीतौ पटुमलम्पटम् ।
वर्धयन्ति नृपं कोशैः सम्यक्संरक्षिताः प्रजाः ।। ३४ ।।
लम्भनीयः पदं नोच्चैर्गुण्योऽप्यन्वयवर्जितः ।
रत्नाढ्यमपि कुर्वीत मूर्घि्न कः पादमण्डनम् ।। ३५ ।।
गुणैः कैरप्यविख्यातो वंशेनैव विभावितः ।
मूर्खो वर्ज्यः कुलीनोऽपि मातङ्गः इव भूभुजा ।। ३६ ।।
तद्युक्तमुपधाशुद्धमन्वयेन गुणेन च ।
साचिव्यं लम्भयन्मौलं न प्रमाद्यति भूपतिः ।। ३७ ।।
यस्मिन्कृत्यानुरोधेन सौहृदं वितनोति यः ।
स तं त्यजति कृत्यान्ते तीर्णतोय इव प्लवम् ।। ३८ ।।
यौ तु निष्कारणामुक्तस्नेहपाशौ सुहृत्तमौ ।
मृत्युनैव तयोर्भेदो देहजीवितयोरिव ।। ३९ ।।
जगद्रक्षन्ति कीनाशराजराजपिनाकिनः ।
दण्डद्रविणदुर्गैकसङ्गिनः किमु राजकम् ।। ४० ।।
इति प्रकृतिवर्गादिनिर्णयेषु नयाश्रयः ।
क्षपितान्तर्बहिःशत्रुः शाधि साधु वसुन्धराम् ।। ४१ ।।
इत्थं वादिनि राजेन्द्रे रामो मौनमधिश्रितः ।
शोकेन हदयं वाष्पैर्ववर्ष हृदयाविधा ।। ४२ ।।
ततो भद्रासने भद्रं स निधाय निधिः श्रियः ।
निर्भरीकृतसम्भारः प्राभिषिक्तो महीपतिः ।। ४३ ।।
रुरुषे पृष्ठसंविष्टग्रन्थिमन्थरयातया ।
स्मारयित्वा वरो वीरं राज्यं मन्थरया तया ।। ४४ ।।
चतुर्दश दशग्रीवशत्रुमिन्द्रसमः समाः ।
आदिदेश ततो वस्तुं वनेषु वनजेक्षणम् ।। ४५ ।।
अनिन्द्यजानिनारूढो निर्जगाम पुरः पुरः ।
कृतप्रस्थानसौमित्रिः स्फुरत्केतुरथो रथः ।। ४६ ।।
अश्रुभिर्हृदयं सीता निजमेव न केवलम् ।
प्रेक्षितस्य१ जनस्यापि चकारार्द्रं वनाध्वनि ।। ४७ ।।
जगन्नेत्राभिरामस्य रामस्य रहितागसः ।
शक्लस्य२ त्यागिनं देवं घृणयेवासवो जहुः ।। ४८ ।।
न्यवर्तत परित्यज्य क्षत्ताऽथ क्षत्रियत्रयम् ।
ऊढाश्रु वलितग्रीवं चिरं तेनैव वीक्षितः ।। ४९ ।।
द्वित्राण्येव रथं त्यक्वा पदान्याधाय निःसहा ।
येय३मद्य कियद्दूरमिति पप्रच्छ मैथिली ।। ५० ।।
रामहस्तस्थशाखाग्रकल्पितातपवारणम् ।
प्रस्थानमभवत्तस्यास्तदग्रेसरलक्ष्मणम् ।। ५१ ।।
ययुर्भागीरथीतीरं पश्यन्तः सोत्पलाम्भसः ।
इक्षुशाकटशालेयेक्षेत्रानुत्तरकोसलान् ।। ५२ ।।
अथानासाद्य कालिन्दीमुल्लंघ्य सरितं दिवः ।
भरद्वाजाश्रमं पुण्यं चित्रकूटस्य चाध्वनः ।। ५३ ।।
उक्वा नदनदीदेशैश्चिह्नं वृक्षक्षमाधरः ।
याते राजन्यभोगीने राघवोऽपि गुहे गृहम् ।। ५४ ।।
सपत्न्यौ सरितां पत्युः सुमित्रात्मजधीवरैः ।
चित्रकूटमकूटज्ञः प्रीतः प्रोत्तारितो ययौ ।। ५५ ।।
ततः सीतामुखाम्भोजभ्रमरत्वे कृतस्पृहम् ।
नष्टैकदृष्टिमस्त्रेण बलिपुष्टं चकार सः ।। ५६ ।।
ततः प्रकृतिसङ्घाटो वीरः केकयवंश्यजः ।
शोकद्विगुणितं बिभ्रद्ययौ रामाश्रमं श्रमम् ।। ५७ ।।
निर्घृणो राजघः कश्चित्सम्प्राप्त इति साधवे ।
कथ्यतामिति तद्वाक्यं द्वारि शुश्राव राघवः ।। ५८ ।।
अनुज्ञातोऽनुजस्तेन पर्णशालामथाविशत् ।
द्वारबन्धातिरिक्तेन किञ्चत्तिर्यक्कृतोरसा ।। ५९ ।।
भरतः शोकसन्तप्तो राममादाय पादयोः ।
उक्वार्येति सकृद्दीनः पुनर्नोवाच किञ्चन ।। ६० ।।
ततः श्रुत्वा गुरोरन्तं स दुःखेन हदिस्पृशा ।
साभिषेकमिवास्रेण चक्रे कर्मौर्ध्वदैहिकम् ।। ६१ ।।
शपमानमथ स्वस्मै भरतं भूतिनिःस्पृहम् ।
गर्हयन्तं च कैकेयीं रामो वक्तुं प्रचक्रमे ।। ६२ ।।
न स्मरामि गुरोराज्ञां ज्ञात्वा जातु विलंघिताम् ।
यतस्तातस्य नो हन्तुं सदृक्षं समयं हि नः ।। ६३ ।।
समयस्य गुरोरिन्द्रलोकस्थस्य विलङ्घने ।
बुद्धिर्जनि पुनर्मैव निर्विशङ्का च तावकी ।। ६४ ।।
पूजनीया च ते देवी पत्युः सत्यानुपालिनी ।
दूषयिष्यति पूज्येषु पूजावैमुख्यमायतिम् ।। ६५ ।।
स्वयंकृतेन दोषेण गुरुर्यो येन लज्जते ।
तेन तत्सन्निधौ तद्वानन्योऽपि न विनिन्द्यताम् ।। ६६ ।।
इति व्याहृत्य नम्राय ददौ दीनाय पादुके ।
मर्माविधि मरौ घर्मे वारि वारीष्यते यथा ।। ६७ ।।
द्विधाकारमिव ज्यायान्भरतं हदयं चिरम् ।
दर्शयन्तं परिष्वङ्गप्राप्तसान्त्वं व्यसर्जयत् ।। ६८ ।।
ततस्तं त्यजता शैलं विराधो रावणारिणा ।
दृष्टस्तनूनपादर्चिर्बभ्रुः पञ्चवटीपथे ।। ६९ ।।
हरन्तमथ वैदेहीं तं निहत्य निशाचरम् ।
विवरिष्यत्कथावस्तुं सङ्खिप्येव व्यदर्शयत् ।। ७० ।।
ववृते विवृते तस्य रङ्गत्सारङ्गशावकैः ।
पञ्चवट्याश्रमे रम्ये वासो वासववर्चसः ।। ७१ ।।
अथ रामं वृषस्यन्ती प्रपेदे नैकसीसुता ।
प्रचिन्तेव दरिद्रस्य स्थूललक्षं नरेश्वरम् ।। ७२ ।।
सीताविद्रावणक्रुद्धश्चकर्त कृपया समम् ।
लक्ष्मणस्तन्मुखाम्भोजकर्णिकामथ नासिकाम् ।। ७३ ।।
भ्रातृद्वये तथाहूते शस्त्रैर्वर्षति राघवौ ।
पर्यवारयतां क्षिप्रं क्षुरप्रप्रकरैर्बलम् ।। ७४ ।।
खरदूषणयोर्युद्धे धारामेकधनुर्धरः ।
अदीधपत गृध्राणां व्रातं सत्यव्रतोऽसृजः ।। ७५ ।।
सीता मस्करिणं कञ्चिद्ददर्शाश्रममागतम् ।
दाण्डाजनिकमुत्तुङ्गजटामण्डितमस्तकम् ।। ७६ ।।
मृगव्याहृतराजन्यो वर्णिलिङ्गी निशाचरः ।
उग्ररूपो निजं रूपं घोरं प्रादुरबीभवत् ।। ७७ ।।
दशानामुग्रतेजस्कं रूपधेयमधिश्रितम् ।
शिरसामस्य पश्यन्ती भीत्या कम्पत मैथिली ।। ७८ ।।
प्रदीपमिव तत्तेजःपरिष्कृतदशाननम् ।
असोढमरुतं द्रष्टुं नात्यासन्नं शशाक सा ।। ७९ ।।
रामारत्नमसौ रामनामाक्रन्दिदं वचः ।
जगाद जगदीशस्य क्षेपदुष्टं क्षपाचरः ।। ८० ।।
सारङ्गाक्षि शरस्तस्य केवलं तु खरे खरः ।
न त्रिलोक्याविभौ भद्रे रणे दूषणदूषणः ।। ८१।।
लब्धाभया बलनिरीक्षणदोहदेन
द्वारि स्थिता निजपुरप्रवरस्य सिद्धाः ।
ऐरावतद्विपगतेन सहासगर्वं
दृष्टा मया सुरपुरं व्रजता कटाक्षैः ।। ८२ ।।
अन्यायितोऽहमहमप्यनुवृत्य सेवां
निर्जीविको मम हृतं भवनं पिशाचैः ।
इत्युन्नदन्भ्रमति मत्प्रतिहारमेत्य
राजाङ्गणे सुरगणः सह लोकपालैः ।। ८३ ।।
स्पष्टोत्पिष्टवृहत्त्रिविष्टपबलं बाहुं बहुक्षोभित-
क्ष्मापातालतलं तलेन दलितश्वेताचलेन्द्रं मम ।
नो वांछत्युपधानभूतमबले धन्या सुरस्त्रीषु का
तल्पेनल्पविकल्पजल्पमधुरक्रीडारसे सेवितुम् ।। ८४ ।।
उर्वश्या परिवीजनेषु मधुरं नृत्तं यथा हेलया
तन्वन्त्या जितशारदेन्दुकिरणच्छायोलसच्चामरम् ।
आसज्य स्वयमङ्गदस्य शिखरे निर्मोचयन्त्या पुनः
स्नेहस्विन्नविवेपमानकरया सोऽयं भुजः स्पृश्यते ।। ८५ ।।
एकस्मिंछयने मया मयसुतामालिङ्गघ निद्रालया-
मुन्निद्रं शयितेन मच्चरणयोः सम्बाहनव्यापृता ।
पादाग्रेण तिलोत्तमा स्तनतटे सस्नेहमापीडिता
हर्षावेशसमर्पितानि पुलकान्यद्यापि नो मुञ्चति ।। ८६ ।।
अक्षान्दीव्यति दानवेन्द्रसुतया सार्धं स्मरार्ते मयि
क्रीडायत्नपरिश्रमः पण इति श्रुत्वा गतात्सह्यताम् ।
द्यूतं कारयति प्रयोगचतुरा रम्भोरुरम्भाह्वया
मत्तो मन्मथवस्तुसंहितविधौ वृद्धौ विवृद्धस्पृहा ।। ८७ ।।
सर्वस्वर्गवराङ्गनाधृतिहृति प्रेमप्रधानं मयि
त्रैलोक्याधिपतौ विधाय हदयं याया जगत्पूज्यताम् ।
नारीमाश्रयसम्पदेव नयति श्रेयस्करीमुन्नतिं
मान्या मानिनि कस्य धूर्जटिजटाजुष्टा न जह्नोः सुता ।।८८ ।।
हस्तौ पल्लवकोमलौ करयुगेनादाय वासः शनै-
रन्येन व्यपनीय पाणियुगलेनामृश्य काञ्च्यास्पदम् ।
मय्यालिङ्गति बाहुभिः सुबहुभिः शेषैर्विलक्षस्मित-
ज्योत्स्नासेकमनोहराधरपुटं वक्त्रं स्वयं दास्यसि ।। ८९ ।।
इत्युक्वादाय रक्षःपतिरवनिसुतामुत्प्लुतो मीनजालै-
श्चित्रं व्योमाम्बुराशिं घनपवनरयास्फालगुञ्जद्घनोर्मिम् ।
पोतेनेव प्रकम्पध्वनिनिवहमसौ बिभ्रता पुष्पकेण
स्फूर्जत्सीतेन यात्रामनुपहतजवव्यापिनीमाललम्बे ।। ९० ।।
इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
दशमः सर्गः समाप्तः ।।
एकादशः सर्गः
अथ विकम्पितपक्षसमीरण-
प्रसभनर्तितदीधितिमालिना ।
विदिततद्गमनेन समुत्प्लुतं
सरभसं समराय जटायुना ।। १ ।।
जनकराजसुतामनुकर्षतः
सुररिपोः पथि गृध्रसमागमः ।
अवनिमित्तमवेदयदस्य तं
नृपवधूहरणप्रभवं वधम् ।। २ ।।
पतगपक्षपराहतिनर्तित-
स्वभवनोदरमध्यपरिच्युतः ।
उभयभित्तिविदारितमस्तक-
श्चिरमकम्पत विश्रवसस्सुतः ।। ३ ।।
विहगनाथवितीर्णपराभव-
प्रभवकोपविकम्पितचेतसा ।
सपदि पङ्किमुखेन समाददे
शरवितानकृतावरणो रणः ।। ४ ।।
क्षणमतिष्ठदुपाहितमण्डल-
स्थितिमनोहरविग्रहवन्धुरः ।
विपुलपक्षपुटद्वयकल्पित-
प्रहरणावरणः स विहङ्गमः ।। ५ ।।
प्रववृते धृतिसंहरणो रणः
पथि विहङ्गनिशाचरशासिनोः ।
विधुतपक्षधनुर्गुणसंहति-
ध्वनिनिनादितभूधरकन्दरः ।। ६ ।।
अथ खगेश्वरपक्षसभीरण-
प्रबलवेगनिवर्तितपातितैः ।
अपि निजैरतिवेगिभिरायुधै-
र्दृढमहन्यत संयति रावणः ।।७ ।।
प्रतिदिगन्तरदृष्टतनुः समं
नभसि मण्डलयन्नतिरंहसा ।
दशमुखं परितः स विहङ्गमः
स्ववपुषा परिवेषमिवादधे ।। ८ ।।
गगनसागरभोगधराङ्गना
बिसलता हरिपादसरोरुहः ।
पतगपक्षसमीरणरंहसा
सुरसरिद्विससर्प दिशो दश ।। ९ ।।
खगपतिर्निजपक्षसमूहितो-
पहितवारिदरुद्धदृशो मुहुः ।
शिरसि चंचुमदृष्टसमागमो
दशमुखस्य सवेगमपातयत् ।। १०
शिरसि तं प्रणिहत्य स मुष्टिना
भुवि निपातयति स्म निशाचरः ।
द्विजपतिः पुनरेव स वेगवान्
उपरि कन्दुकवद्ददृशे रिपोः ।। ११ ।।
नखशिखाशितकुन्तनिपातन-
स्फुटितरत्नपिशङ्गितदिङ्मुखम् ।
रिपुशिरश्चरणेन रणे रणन्
मुकुटकोटि जघान विहङ्गमः।। १२ ।।
अथ स कुन्तमुखेन शकुन्तपं
तमभयः समरे समदारयत् ।
द्विजवरोऽपि ततो नखरैः
खरैरपघनं घनमस्य जघान सः।। १३ ।।
हृदि समर्पितकुन्तमुखं मुहु-
र्विततपक्षनिरुद्धनभस्तलम् ।
खगपतेः समरोचत तद्वपु-
र्निहितदण्डमिवातपवारणम्।।१४।।
युधि विधूय तदायुधमुत्प्लुत-
श्चपलतुण्डविखण्डितमण्डनम् ।
विबुधशत्रुशिरस्तरसा रसन्-
अभिनिपत्य जघान पतत्पतिः।। १५ ।।
नखशिखाङ्कुशकोटिषु मस्तके
निपतितासु दशाननदिग्गजः ।
अभिननाद भृशं दशभिर्मुखै-
र्प्रबलनादनिनादितदिग्गजः।। १६ ।।
नखमुखोपहितायुधकर्मण
स्तनुतनुच्छदसन्ततिवर्मणः ।
रणमवेक्ष्य विहङ्गगतेर्जगुः
सपदि साधुवचः सुरकिन्नराः।। १७ ।।
अथ विदर्शितपूर्वपुरन्दर-
द्विरदकुम्भविपाटनपाटवम् ।
असिमसावसितोत्पलसप्रभं
सुररिपुः समराय समाददे ।।१८।।
सपदि मातुमिवास्य दिगन्तरं
विततपक्षयुगस्य पतत्रिणः ।
पृथुवितानमिवामरवर्त्मनो
विपुलमंसपुटं निजघान सः ।। १९ ।।
द्विजवरस्य तनुः कृतवेदिनः
सुरवधूनयनोदकसन्ततिः ।
कुसुमवृष्टिरिति त्रितयं ततः
समपतत्सममेव नभस्तलात्।। २० ।।
दशमुखेन कलत्रमपोहितं
विधिवशेन वशी समुपस्थितः ।
निजगदे शिथिलीभवदूष्मणा
रघुपतिः प्रभुणाऽथ पतत्रिणाम् ।। २१ ।।
समरशक्तिरियं मम तावती
हरति पङ्क्तिमुखः स्ववधूमिति ।
दशरथाय यथा गदितुं स्वयं
द्विजवरोऽधिरुरोह सुरालयम्।। २२ ।।
सशरचापधरेण कनीयसा
विगतशोकभरो रघुनन्दनः ।
अथ कबन्धमवैक्षत भीषणं
प्रविचरन्तमिवाद्रिवरं वने ।।२३।।
सपदि मातुमिवावनिमण्डलं
प्रसृतहस्तयुगं सुरविद्विषः ।
निशितखङ्गयुगेन नृपात्मजौ
लुलुवतुः कदलीमिव लीलया।। २४ ।।
नृपसुतः पवनात्मजलम्भितः
फलितवृक्षवनं वनजेक्षणः ।
अगमदृश्यपदादिमगोत्तमं
सपदि मूकममूकविहङ्गमम्।। २५ ।।
अकृत सख्यमसौ शिखिसन्निधौ
हनुमताऽभिहितं हरिसूनुना ।
अथ स वालिवधार्थितया हरि-
र्विपुलसालविभेदमकारयत्।। २६ ।।
कपिरजर्यमचिन्तितलम्भितं
समनुभूय विरोचनसम्भवः ।
रिपुमयाचत कौशिकवैरिणां
निहतये न न दुन्दुभिविद्विषः।। २७ ।।
उपकपीश्वरवासगुहामुखं
समधिगम्य रघूद्वहचोदितः ।
प्रतिनिनादवतः परिकम्पयन्
गुरु जगर्ज हरिर्जगतीधरान् ।। २८ ।।
अभिपपात रुषाऽमृणिताननः
कपिपतिः कपिलद्युतिमण्डनः।
नवविरोचनमण्डलमुद्वहन्
गिरिवरः शिरसेव हिरण्मयः ।।२९।।
प्रववृतेऽथ रणो धरणीभृतां
शिखरखण्डमहीरुहमण्डलैः ।
हरिहरिद्धयनन्दननर्दन-
प्रतिनिनादितभीमदरीमुखः ।। ३० ।।
पतितभूरुहभूरिभरस्फुटत्-
कठिनविग्रहविग्रहतेजितौ ।
अचरतामचिरेण परस्परच्छल-
निरूपणवीक्षणवीक्षणौ ।। ३१।।
शिरसि पातितभिन्नगिरिद्रुम-
क्षणनिरासलघूकृतहस्तयोः ।
अधरदंशपरिस्रुतशोणितं
बलितमुष्टिजवादुपसर्पतोः ।। ३२ ।।
सरभसं रिपुवक्षसि वक्षसा
समभिहत्य सहुङ्कृतिवल्गतोः ।
ललितमुक्तपटान्तमनोहर-
प्रचलपुच्छगुणद्वयशोभिनोः ।।३३।।
अथ बभूव भुजैः सुमहाहवो
रविपुरन्दरनन्दनमल्लयोः ।
करणबन्धनबद्धसमुच्छ्वस-
ज्जठरमुक्तमुखागतशोणितः ।। ३४ ।।
नभसि किं क्षिपतः कुलपर्वतान्
उत भुजेन विवर्तयतो महीम् ।
इति विवेश वितर्कमथैतयो-
र्नृपसुतः क्षिपतोरितरेतरम् ।।३५।।
बलपरीक्षणतत्क्षणकर्षण-
प्रसभतानितहुङ्कृतिगर्जितः ।
हरिगुरुं हरिदश्वसुतो मुहु-
र्विनमयन्निजनाम समाददे ।। ३६ ।।
अथ निवर्तितनिश्वसितातुरं
ग्रहणनिर्गतनिश्चललोचनम् ।
भुजभुजङ्गमबन्धनबन्धुरं
स्रवदसृग्रसरञ्जितकन्धरम् ।। ३७ ।।
भ्रमितपादयुगाहतपातित-
द्रुमशतं द्रुतमुक्तरवं रवेः ।
भ्रमयति स्म सुराधिपसम्भवः
सुतवरं वरविक्रमम्बरे ।। ३८ ।।
इति पपात वितन्वति पौरुषं
परुषवह्निशिखोद्गमनिष्ठुरः ।
रिपुदृढाङ्गविदालिनि वालिनि
क्षितिपनन्दनबाणमहाशनिः।। ३९ ।।
अकृत बाणनिकृत्ततनुः कृती
चिरविनिन्दितराघवलाघवः ।
पदमधिक्षयमक्षयसम्पदः
सुरपुरस्य पुरन्दरनन्दनः ।। ४० ।।
सदनुजे दनुजेशरिपौ नगे
स्थितवतीतवतीन्द्रसुते दिवम् ।
स्तुतनये तनयेऽशिशिरद्युते-
र्निपतितां पतितां पुनरास्थिते।। ४१ ।।
ऋतुरनारतभास्वदिरम्मदा-
रुचिपिशङ्गितवारिदमण्डलः ।
प्रचलवातविधूतपरिभ्रमत्-
सितविहंगमदन्तुरदिङ्मुखः ।। ४२ ।।
उदितसारवसारवदम्बुदः
पथिकरोदकरोदकशीकरः ।
उपययौ वनयौवनसम्पदः
प्रजनकोऽमलकोमलकन्दलः ।। ४३ ।।
मुखपटः समराय गमिष्यतः
क्षितिपनन्दनविक्रमदन्तिनः ।
जलधरः पवनेन वितानित-
स्तपनमण्डलकेशरिपंजरः ।।४४।।
मलयमन्दरविन्ध्यमहीभृतां
शिखरयष्टिसमर्पितमायतम् ।
जगति मेघवितानमरोचत
प्रततशीकरशुक्तिजमण्डनम् ।।४५।।
भुवनतापनघर्मजयोत्सवः
समुदितः परिनृत्यत बर्हिणः ।
इति जघान यथा समयस्तडित्-
कनकदण्डशतैर्घनदुन्दुभिम्।। ४६ ।।
प्रथममश्रुमुखीमपहाय तां
पथिक सम्प्रति किं परिदूयसे ।
इति यथा विजहास वनस्थली
प्रविकशद्दलकन्दलशोभिनी।। ४७ ।।
स्मरहितं रहितं प्रदिधक्षुणा
रुचिरभाऽचिरभाऽसितवर्त्मना ।
अतनुनाऽतनुना घनदारुभिः
प्रखचिता खचिता न न दीपिता ।। ४८ ।।
शुशुभिरे कुलिशायुधगोपका
जलदकालविवर्घिततेजसः ।
मनसिजस्य शरव्यथितात्मनां
विरहिणामिव शोणितबिन्दवः।। ४९ ।।
घनपरिस्रवणा गिरयो बभुः
सतडिदम्बुदसन्ततिसंवृताः ।
कनकचित्रकुथावृतमूर्तयः
स्नुतमदा इव दानवदन्तिनः ।।५०।।
मुरजनादगभीरमनोहरैः
प्रमुदितेन पयोधरनिस्वनैः ।।
उपरिवृष्टिभयादिव तानितः
प्रचलपिच्छचयो विशदभ्रुवा ।। ५१ ।।
मुहुरुदग्रपयोदमतङ्गज-
श्रवणचामरभावमुपेतया ।
गगनसागरशङ्खवपुःश्रिया
विचरितं प्रमदेन बलाकया ।।५२।।
अविकलं विकलङ्कतनुच्छदं
समदनं मदनम्रतनुश्रियम् ।
सकलहं कलहंसगणं जहौ
कमलिनी मलिनीकृतकन्ततिः।। ५३ ।।
दिशि बभौ नववारिदसञ्चय-
स्त्रिदशनाथशरासनरंजितः ।
जलनिधिर्बहुवर्णमणिद्युति-
प्रकरवानिव तिर्यगवस्थितः ।। ५४ ।।
जलधरस्य तटे तडितो बभु-
र्ग्रहगणग्रसनानि वितन्वतः ।
उदरमाशु विभिद्य विनिर्गता
रविकरा इव काञ्चनरोचिषः ।। ५५ ।।
विमलवारि निपीय नदीगतं
सलिलभारनिरन्तरितोदरः ।
क्लममिवाभिवहन्नतिपानजं
गिरितटे निषसाद पयोधरः।। ५६ ।।
सलिलविच्युततैलसमप्रभं
प्रतिनवोदितमस्फुटमम्बुदे ।
विरहिणीभिरलक्ष्यत मन्युना
विबुधनाथशरासनखण्डकम्।। ५७ ।।
न न चकार ततारततारका
भरितसर्वनदा वनदावली ।
प्रमदसारमितं रमितं गिरौ
मदमयूरवरं रवरंहसा ।। ५८ ।।
वनदमण्डलदत्तपदश्चिरं
समभिपत्य पतङ्गहरिद्व्रजः ।
जलधरे पवनेन हृतेऽग्रतः
कचिदतिष्ठदुपाहितसम्भ्रमः ।। ५९ ।।
पिहितविष्णुपदस्य पयोमुचः
पटलरन्ध्रविभावितमण्डलः ।
दिनकरः कचिदन्वगमद्रुचा
जलनिधौ वडबानलसंहतिम् ।। ६० ।।
जलधिवारि निपीतवतो भृशं
वनमुचो रुधिरस्रवलोहिताः ।
अतिभरस्फुटितोदरनिर्गता
विबभुरान्त्रलता इव विद्युतः ।। ६१ ।।
भुवनदृष्टिनिरोधिकृतं कृतं
रविकरानुपरुष्य मया तमः ।
विलसितेन निहन्ति मुहुर्मुहु-
स्तडिदतीव ररास रुषा घनः।। ६२ ।।
दिशि निवेशितताम्रविलोचना
नवघनानिलकम्पितकुन्तलाः ।
विससृजुः सह वारिदशीकरै-
र्नयनवारि चिरं पथिकाङ्गनाः।। ६३ ।।
विततपावनके वनकेतकी-
सुरभिगन्धवहे धव हे पथि ।
शिखिगिरं सहसे सहसेरिता-
मितिरवैरुदिता रुदिताः स्त्रियः।। ६४ ।।
नभसि नूतनकन्धरजृम्भित-
स्थगिततिग्मकरद्युतिसम्पदि ।
व्यपगतेन पदं शुचितेजसा
हृदि वियोगवतामिव सन्दधे।। ६५ ।।
शिशिरशीकरवाहिनि मारुते
चरति शीतभयादिव सत्वरः ।
मनसिजः प्रविवेश वियोगिनी-
हृदयमाहितशोकहुताशनम्।। ६६ ।।
प्रथमपीतजलाहितमेचक-
प्रभमनङ्गकृपाणमिवाम्बुदम् ।
विमलधारमुदीक्ष्य समुद्गतं
विरहिणीहृदयं न न विव्यथे।। ६७ ।।
विरहभीतिमहन्यपि निर्विशन्
विततमेघतमिस्रवृता दिशः ।
समवलोक्य निशागमशङ्कया
मृदु रुराव रथाङ्गसमाह्वयः ।। ६८ ।।
पथिकमानसमानसमुन्नति
स्थितिनिबर्हकबर्हकलापिनि ।
जगति रासितरासितवारिद-
प्रसृतकन्धृति कं धृतिराश्रिता ।। ६९ ।।
नवपयोधरकुंजरमस्तके
तडिदसौ पतिते परितश्च्युताः ।
विससृपुः प्रकरा इव मौक्तिकाः
स्फटिकभङ्गरुचो जलबिन्दवः ।। ७० ।।
बलनिषूदनजालविदा यथा
नभसि देवनगोलकवृत्तयः ।
जलधरेण कृता रवितारका
ग्रसननिर्वमणक्षणयन्त्रिताः ।। ७१ ।।
अधिरयेण समीरणवाहिता
विबुधवर्त्मनि वारिददन्तिनः ।
श्रमकृतानिव घर्मपयःकणान्
अविरतं मुमुचुर्जलशीकरान्।। ७२ ।।
जलदशाखिनि लोलतडिल्लता-
क्रकचपत्त्रनिपातविदारिते ।
प्रवितता इव चूर्णचया बभुः
पवनवेगधृता जलरेणवः।। ७३ ।।
महिषधूसरितः सरितस्तटः
परिगतो विपदा विपदाचितः ।
धुतमहाककुभः ककुभः पतन्न्न्
अकृत भीमरुता मरुताकुलाः।। ७४ ।।
हविषि बृष्टिमये बलशत्रुणा
रविकराहिततेजसि भूतले ।
उपहिते समरोचत लाङ्गली
समुदितेव कृशानुशिखावली।। ७५ ।।
नवविबोधमनोहरकेतकी-
कुसुमगर्भगतः सह कान्तया ।
अविदितानिलवृष्टिभयागमः
सुखमशेत चिराय शिलीमुखः ।। ७६ ।।
अभिविसृज्य वनानि कृतावना
मनुजलोकसमीपनिषेविणः ।
तडिदलातशतैरभिताडिता
वनगजा इव सस्वनुरम्बुदा ।। ७७ ।।
समयवृष्टिहतेऽपि दवानले
भ्रमरधूमभृता नवलाङ्गलीः ।
समभिवीक्ष्य कृशानुसमप्रभा
न मुमुचुर्भयमेव मृगाङ्गनाः।। ७८ ।।
कमलधामहतो महतो भृशं
विविधहंसहितः सहितः खगैः ।
प्रविदधौ कमलं कमलं रुजन्
निपतितः सरसः सरसस्तटः ।। ७९ ।।
प्रवितता नु पुरन्दरगोपका
विविधवर्णरसेन विधातरि ।
रचयतीन्द्रधनुश्चलतूलिका-
गलितधातुजलस्य नु बिन्दवः ।। ८० ।।
पतति वृष्टिरियं नु निरन्तरं
रजतरज्जुशताकृतिरायता ।
जलघरस्य पतद्भुवि मण्डलं
स्फटिकदण्डशतैर्नु विधारितम्।। ८१ ।।
रचयतः समयस्य सुरायुषं
करशतं नु सुधातुरसारुणम् ।
विगलितं नु ततः शकलं
तडिल्लसितशस्त्रनिपातनतक्षितात्।। ८२ ।।
समुदयो नु विकाशकृतद्युते-
र्विततवह्निशिखाकुसुमश्रियः ।
इति नृणामभवज्जलदोदये
ग्रथितभूरिवितर्कपरं मनः ।।८३।।
अथ सुबाहुरिपुः सुबहुस्पृशन्
स्मरधनञ्जयजय्यतनुः शुचम् ।
निहितवृष्टिरवोचत वारिदे
हरिशरासनलक्ष्मणि लक्ष्मणम् ।। ८४ ।।
विघुतनीपवनैः पवनैस्ततं
मदनविभ्रमदं भ्रमदम्बुदम् ।
जलविकाशमयं समयं कथं
धृतिगुणे स हते सहते भवान्।। ८५ ।।
प्रविचरन्ति मदद्विपदाधिपै-
रभिहता रिपुकुंजरशङ्कया ।
अधिमहीधरकन्दरमम्बुदाः
समदगर्जितनिस्वनसुन्दरम् ।। ८६ ।।
प्रवितरन्ति परं नयनोत्सवं
त्रिदशनाथशरासनकान्तयः ।
गिरितटे लुठनेन पयोमुचि
प्रणिहिता इव धातुरजश्छटाः ।। ८७ ।।
वनकृशानुशिखा निहता वप-
ुस्त्वयि तदीयमिदं प्रतिपाद्यते ।
जलमितीव विमुञ्चति लाङ्गली-
कुसुमहस्ततले जलदोदयः ।। ८९ ।।
दिशि लसन्ति खरानिलरंहसि
क्षिपति मेघमहीधरसंहतिम् ।
ततपरस्परघातसमुद्भव-
ज्वलितवह्निशिखा इव विद्युतः ।। ८९ ।।
तरुतले विषमारुतमारुत-
क्षततनुर्न लतावति तावति ।
विरतिरज्जरसं प्रति सम्प्रति
स्वमलिसंहतिरक्षति रक्षति ।। ९०।।
धावन्नकाण्डविहितध्वनिरम्बरस्य
त्यागं विधाय विलसन्निकटे जनस्य ।
निघ्नञ्छिलाभिरुदकेन जगन्निषिञ्च-
न्नुन्मत्तवद्भ्रमति वायुवशात्पयोदः ।। ९१ ।।
वारिप्रवाहपरिलङ्घितभूमिपृष्ठं
धारान्धकारहतदिक्प्रविभागवृत्ति ।
मेघप्रतानविहिताद्रि जगत्समन्तात्
ग्रस्तं समस्तमिव भाति घनागमेन ।। ९२ ।।
एतानि भान्ति हरिगोपकमण्डलानि
प्रावृटि्च्छ्रयो जगति सम्प्रति सञ्चरन्त्याः ।
भूमौ पदानि रचितानि यथोदबिन्दु-
स्पर्शद्रुतोपहितयाबकमण्डनानि ।। ९३ ।।
स्वादूनि सिन्धुसलिलानि निपीय कामं
गर्जन्नसौ गिरितटे विहितोपवेशः ।
अत्यन्तभूरिजलभारगुरूदरत्वा-
दुद्गारनादमिव मुञ्चति वारिवाहः ।। ९४ ।।
निरस्तगृहसङ्गति भ्रमत एव तन्व्यास्तव
स्तनद्वयमियद्वपुः पथिक जातमुद्यौवनम् ।
इतीव वदति स्फुटत्कुसुमहस्तमुद्यम्य सा
भ्रमद्भ्रमरमण्डलक्वणितपेशला लाङ्गली ।। ९५ ।।
प्रणाशो मित्रस्य प्रसभमजनि ज्येष्ठविरहः
प्रवृत्तः शोकादित्यधिकतरतारं निनदतः ।
निराशस्योत्कस्य स्फुटति नवमेघस्य हदये
रयादुद्यद्धारा असृज इव निर्भान्ति तडितः ।। ९६ ।।
नभोवारीरुद्धं नवजलदवन्यद्विपकुलं
कृताभिज्ञानं यत्सुरपतिधनुर्धातुनिकरैः ।
नदत्युचैरेतत्कृतवनपरित्यागचपलं
स्फुरद्विद्युच्चक्रग्रहणविधिपाशे निपतति ।। ९७ ।।
अम्भोभिः सह पद्मरागसरणिर्ग्रासीकृता वारिधे-
रुद्वान्ता पुनरिन्द्रगोपककुलव्याजेन मेघैरिह ।
येनैषामुदरेषु रत्नविततिर्वान्तावशिष्टा नव-
प्रोद्यद्भासुरवृत्रसूदनधनुर्व्याजेन संलक्ष्यते ।। ९८ ।।
अनुत्तारं भूम्ना तिमिरचितमक्षय्यसलिलं
निशीथं कालेऽस्मिन्नहिमकरसञ्चारविभवम् ।
तरेयं सिन्धूनां पतिमिव यदि व्यायततरं
लभेयं वैदेह्याः कुचकलशसंघाटमुडुपम् ।। ९९ ।।
एवं सस्मरमन्तराकृतगिरस्तुङ्गं गिरिं गौरव-
व्यालम्बाम्बुदशक्रनीलकलशोद्वान्ताम्बुधौतोपलम् ।
रामस्यावसतः सतः स्रुतपयःपातक्वणन्निर्झरं
कालः कालपयोदगर्जितजिताम्भोधिध्वनिर्निर्ययौ ।।१००।।
इति श्रीमत्कुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
एकादशः सर्गः समाप्तः ।।
द्वादशः सर्गः
स्मरावहे राजसुताविनाकृतं
वनेऽथ लब्धावसरेव सेवितुम् ।
अफुल्लपङ्केरुहकर्कशस्तनी
शरत्प्रपेदे नृपवासवात्मजम् ।। १ ।।
सहस्ररश्मेरुपरोधनिर्गमात्
भस्यनाकुञ्चितरश्मिसम्पदः ।
ययुः खुरग्राहकमेघकर्दम-
व्यपायनिस्सङ्गसुखं तुरङ्गमाः ।। २ ।।
पयोदनिर्मोकमुदस्य भेजिरे
दिशो यदि स्वं प्रथमोचितं वपुः ।
जहौ किमिन्द्रायुधरत्नरञ्जित-
भ्रमत्तडिन्मण्डलमण्डनं नभः ।। ३ ।।
घनव्यपायेन सुदूरमुत्सृताः
परिक्वणत्सारसपङ्क्तिभूषणाः ।
समुद्रकान्ता इव निर्मलत्विषो
बभूवुरुत्तारमनोहरा दिशः।। ४ ।।
प्रपेदिरे शोषमशेषमम्भसः
क्षयेण केदारतलेषु शालयः ।
तपन्ति पादाश्रयिणामसंशयं
विपत्तयो हि स्पृशतः सशूकताम् ।। ५ ।।
निजेक्षणस्पर्धि निकृत्य पङ्कजं
दधुः शिरोभिः कलमस्य गोपिकाः ।
विपक्षमुद्धृत्य नयन्ति यत्नतः
पदं विशेषेण सदेव साधवः।। ६ ।।
सितच्छदे गायति तत्त्ववर्तिना
लयेन कालस्य कुशेशयाकरः ।
सरोजपाणावनुपूर्वमुल्लस-
द्दलाङ्गुलीभिः कलनामिवाददे ।। ७ ।।
प्रचण्डवातापगमेन निश्चलं
प्रसन्नमन्तर्जलदृष्टतारकम् ।
सहैव वृष्ट्या पतितं महीतले
सरो नभःखण्डमिव व्यराजत।। ८ ।।
मणिप्रभेषु प्रतिबिम्बशोभया
निमग्नया बालमृगाङ्कलखेया ।
विसाङ्कुरो वारिषु वञ्चितात्मना
न राजहंसेन पुनर्विचिच्छिदे।। ९ ।।
निपीड्य चञ्च्वा कमलस्य कुड्मलं
विबोधयामास बलेन सारसः ।
सुगन्धिगभं सुकुलीकृतं ह्रिया
पतिः प्रयत्नादिव कन्यकामुखम् ।। १० ।।
ततस्ततं धाम सुतो महीभुजः •
कृतस्मरोद्दीप्ति निरीक्ष्य शारदम् ।
ऋतोरिदं वैभवशंसि हारिणश्चकार
लक्षीकृतलक्ष्मणं वचः ।। ११ ।।
शिरोरुहेषु स्फटिकप्रभामुषः
पयोदकालस्य गतस्य विस्रसाम्
घनच्छलेन प्रथितेषु सर्वतः
फलन्ति पालित्यकृता इव त्विषः।। १२ ।।
प्रवासमालम्ब्य घनागमश्रियः
पयोधरस्पर्शवियोगनिःस्पृहः ।
महीधरः स्वं शिखरावसङ्गिनं
त्यजत्यसौ मत्तशिखण्डिशेखरम् ।। १३ ।।
विभान्त्यमी बालमृणालपाण्डुरा
विसृष्टधाराः शरदभ्रसंचयाः
सुरेन्द्रचापेन विधूय सञ्चिता
दिगङ्गनानामिव तूलराशयः ।। १४ ।।
असौ नभत्सागरवीचिसन्ततिः
प्रसन्नदिक्काननराजिलाङ्गली ।
प्रभाभिराम्रेडितशक्रकार्मुका
तनोति तोषं जगतः शुकावली।। १५ ।।
अमी समीराश्रयदूरपातिना
सरोजगन्धेन विकृष्टचेतसः ।
भ्रमन्ति हंसा हिमरश्मिरोचिषः
सिताभ्रखण्डा इव मारुतेरिताः ।। १६ ।।
कृतं प्रभावेन महद्भिरायतं
जगत्पराभावमपि प्रशंसति ।
यदेष पादेन सरोरुहाकरः
तनोति हासं विहतो विवस्वतः ।। १७ ।।
अमीषु वप्रस्य विपाण्डु बिभ्रतः
शुचेव शोचिः सलिलेषु शालयः ।
अलङ्घयमागामि विनम्रमस्तका
विचिन्तयन्तीव भयं शुकाननात् ।। १८ ।।
सरोजमेकं प्रथमं समुद्गतं
विभाति पद्माकरनाशनो घनः ।
गतो न वेतीक्षितुमम्बुजैः
परैरुदेतुकामैः कृतमग्रतो यथा ।। १९ ।।
शरद्घनासारनिषेकशीतलं
समुल्लसन्त्यो निजपत्त्रसञ्चयम् ।
प्रतारयन्तीव विशोषवाञ्छया
सरोजमालास्तरुणार्करश्मिभिः ।। २० ।।
न केवलं स्वं निरुणद्धि लुम्पतः
स्वनेन शस्यं कलमस्य गोपिका ।
विपाकभाजः पशुपक्षिणो गुणैः
हृदि प्रनुन्नानिह शालिसम्पदः ।। २१ ।।
नियम्य हारेण भिदामुदाहरत्
कृशस्य मध्यस्य बृहत्कुचद्वयम् ।
प्रमाणमुल्लङ्घ्य वपुर्विधित्सती
विलोचने च श्रवणस्य सम्पदा ।। २२ ।।
विपाण्डुनो धामनि रोचिषः शुभे
वलित्रये सङ्गतरोमसन्ततिम्
कुवद्वयेनाभिनिपीडितान्तरं
विवर्धमानेन सुदूरमेष्यतीम्।। २३ ।।
मृणालनालाधिकमार्दवे भृशं
प्रसद्य जङ्घे विपुलं पराभवत् ।
तटं नितम्बस्य च मेखलागुणै-
र्निबध्य पीनोरुयुगं निषेधति ।। २४ ।।
अमी निरस्ता युवतीभिरग्रतः
शुका विपन्नश्रियमप्यधिश्रिताः
सपल्लवं कुमलमण्डितं वपु-
र्वसन्तगम्यं गमयन्ति किंशुकम् ।। २५ ।।
इयं कवर्या शितिकंठसन्निभं
वपुर्वहन्त्या शरपाण्डुरत्विषि ।
त्रिकोपकण्ठेऽसितपद्मसंहति-
व्युदस्तबन्धच्युतया शिखण्डिनीम् ।। २६ ।।
रथाङ्गनामानमुदस्तवाससा
कुचेन तत्प्राणसमानुकारिणा ।
विसर्पतः स्तम्बकरैर्निरन्तरं
निगूढजानिं कमलस्य कानने ।। २७ ।।
अनुव्रजन्त्या वकुलं विपक्वं
समस्तवद्वारुणिमाधरश्रिया ।
शुकं प्रसक्तश्रवणेन शिक्षितस्य
यूथनिर्वासनवर्णसंहतिम्।। २८ ।।
कुरङ्गशाबं नवपल्लवश्रियं
तरोरशोकस्य करेण बिभ्रता ।
विलोभयन्ती निजशस्यसम्पदः
शनैरुदस्यत्यपरा पराभवम् ।। २९ ।।
नखेन कृत्त्वा नवचन्द्रसन्निभं
निधाय बन्धूकदलं कपोलयोः ।
प्रियाय कोपं समुपाहरत्यसौ
परस्य गोपी नखमार्गशङ्किने ।। ३० ।।
लिखन्खुरेण क्षितिमुग्रनर्दितः
करोति रेखा नु जयस्य सङ्ख्यया ।
पतिर्गवामेष विधित्सुराहवं
द्विषद्वृषानाह्वयते नु संज्ञया ।।३१।।
असौ चरन्ती बिसभास्यनिःसृतै-
स्तदङ्कुरैः कल्पितदन्तनिर्गमा ।
वराहधेनुस्तनयेन दूरतः
समीक्ष्यते मत्तवराहशङ्कया ।। ३२ ।।
श्रियं प्रवृत्तामिति साधु शारदी-
मुपेक्षते यः समरोद्यमक्षमाम् ।
स यातु हन्ता समयस्य वानरः
प्रबोधमित्थं प्रहतो वचश्शरैः।। ३३ ।।
विधाय सङ्गाहनिपातचूर्णितं
रणे शिरस्त्वां तनुजो मरुत्वतः ।
करं नयन्दण्डधरस्य पातितो
मया किमेतत्कलमस्य कर्मणः।। ३४ ।।
श्रियोपगूढः समये पयोमुचां
विधाय भोगे महति स्थितिं चिरम् ।
भवानपूर्वः खलु सेवते हरि-
र्न विप्रबोधं शरदोऽपि सङ्गमे ।। ३५ ।।
मदं नवैश्वर्यबलेन लम्भितं
विसृज्य पूर्वः समयो विमृश्यताम्
जगज्जिघत्सातुरकण्ठपद्धतिर्न
वालिनैवाहिततृप्तिरन्तकः।। ३६ ।।
कृतं गुणेषु स्पृहया गुणव्रतै-
रवस्तुभावं गमयन्नसज्जनः ।
असंशयं व्यर्थपरिश्रमाहित-
प्रकोपदुष्टैः पुनरेव हन्यते ।। ३७ ।।
गिरीन्द्रसारस्य गिरं गरीयसस्ततः
समाकर्ण्य मुहुः समाहितः ।
कृतव्यलीकस्य वलीमुखप्रभोर्ययौ
न यज्ञो भवनाय लक्ष्मणः।। ३८ ।।
अथ प्रमार्जन्निषुधिं महीभुजः
सुतस्य सन्देशमशेषमुद्धतः ।
स तं भ्रुकुट्या निजगौ कपीश्वरं
दहन्नमर्षानलधूमरेखया।। ३९ ।।
स्थितेन नीताविति वृत्तविक्रियं
नियुज्य रामस्य नमस्ययाऽनुजम् ।
उपाहरन्त्यः प्रशमं रुषः परं
सुतेन भानोरिति तेनिरे गिरः ।। ४० ।।
जयत्ययं ते भुवि भीतभीतिहृ-
द्भुजो भुजङ्गाधिपभोगसन्निभः ।
यदाश्रयाद्भूरिविभूतिमोहिता
विदन्ति नैवं समयं स्वयंकृतम्।। ४१ ।।
विलुप्तदुःखस्य तवाङ्गिसेवया
तवैव बाहुप्रतिबद्धसम्पदः ।
अयं प्रमादो मम सम्पदा
कृतः शशिप्रभं तानयतीव ते यशः।। ४२ ।।
कृतानभिज्ञेऽपि कृतं मयि त्वया
विचिन्त्य भूयः समुपैति मार्दवम् ।
अवैति नो वर्धयितारमङ्घ्रिप-
स्तथाऽपि तं वर्धयिताऽनुकम्पते ।। ४३ ।।
यदादिमत्तन्नियतं विनाशव-
द्वदन्ति विद्यापरिशुद्धवृद्धयः ।
भवादृशस्तत्क्षणजातमप्यहो
जनस्य शंसन्त्यविनाशि सङ्गतम्।। ४४ ।।
इहाधिपत्यं तव पादसेवया
मयाऽनुभूतं च नचेह विस्मयः ।
वने वृकेणापि मृगेन्द्रसेवने
न दुर्लभं हि द्विपराजशोणितम्।। ४५ ।।
मयि स्म माऽऽसीदवनेरधीशितुः
सुतेन तस्योपकृतस्य निष्क्रयः ।
जनो विपत्तौ भजते हि शक्तिभि-
र्विनाकृतः प्रत्युपकारमन्यतः ।। ४६ ।।
विनैव साधुः फलबन्धिलिप्सया
तनोति पादाश्रयिणामुपक्रियाम् ।
क्षपाकरः किं कुमुदानि बोधयन्
ततः फलं वाञ्छति किञ्चिदात्मनः ।। ४७ ।।
जनः स्थितस्तेजसि तादृशः परं
वृणोति कृत्ये न सहायमात्मनः ।
तमिस्रभेदाय दिशः परिभ्रमन्
न हि प्रदीपं वहति प्रभाकरः ।। ४८ ।।
विचिन्त्यमाने गुणदोषमिश्रिता
न वै न सर्वत्र जने विभाव्यते ।
गुणापराधेषु जनस्य योऽधिकः
स एव सद्भिः परिगृह्यते यतः ।। ४९ ।।
अनिन्द्यभक्तित्वमनन्यसङ्गतं
गुणं मदीयं विगणय्य दुस्त्यजम् ।
वसन्निहैवागमयस्व यावता
पतन्ति कालेन वने वनौकसः।। ५० ।।
इति प्रयुक्तैरनुनीय नीतिभिः
सुतं नरेन्द्रस्य वचोभिरुद्धतम् ।
दिनेषु यूथेन चचाल केषुचि-
द्गतेषु यूथाधिपतिर्वनौकसाम्।। ५१ ।।
नुनोद कोपं हृदि तस्य दुच्छिदं
पतिः कपीनामभिराममानतः ।
जनस्य चेतो दधतः समुन्नतं रुषः
प्रणीपातविधिः प्रतिक्रिया ।। ५२ ।।
गयगवयगवाक्षनीलधूम्रान्
पनसदरीमुखभीमवक्त्रतारान् ।
शरभवृषभकेशरीन्द्रजानून्
नलकुमुदाङ्गदगन्घमादनाद्यान् ।। ५३ ।।
इतरदपि कुलं कुलप्रधानः
समुपनमय्य कपिः कपीश्वराणाम् ।
स्वयमपि निगदन्ननाम नाम
क्षितिपसुताय सुतः समीरणस्य ।। ५४ ।।
शतबलिविनतौ भिषक्समीर-
प्रवरसुतौ विससर्ज वानरेन्द्रः ।
धनविबुधपयःपरेतनाथै-
र्जनकसुताविचये दिशः सुगुप्ताः।। ५५ ।।
निरुध्य दशदिङ्मुखं दशमुखस्य वेत्तुं गतिं
कपिप्रभुविसर्जितं जितमृगेन्द्रविस्फूर्जितम् ।
चचार जनकात्मजासमुपलब्धिचिन्ताकुलं
कुलं क्षितिधरौकसां तरलवीक्षणं तत्क्षणम् ।। ५६ ।।
इति श्रीकुमारदासस्य कृतौ जानकोहरणे
महाकाव्ये द्वादशः सर्गः समाप्तः ।।
त्रयोदशः सर्गः
अथ तत्र भूधरशिरस्यधिकां
विरहानलक्षततनुस्तनुताम् ।
समनुव्रजन्मनुकुलप्रभवो
गमयाम्बभूव निवसन्दिवसान् ।।१।।
अनिमीलितायतदृशोऽस्य चिरं
कतरः प्रहार इति चोदयतः ।
शतयामिका इव निशा विगताः
स्फुटतारकेन्दुकुमुदाभरणाः ।। २ ।।
नृपनन्दनेन विजितः प्रथमं
वपुषा मनोहररुचा मदनः ।
स तदाऽवधीदनुशयादिव तं
दयितावियोगजनितेऽवसरे ।।३।।
परिशुष्यतोऽपि नयनादधिकं
ववृते दशाननरिपोः सलिलम् ।
विजहौ विलोचनपयस्ततिभि-
र्हृदयं न तापमपि तं स्नपितम्।। ४ ।।
न ददर्श मारुतिगतामुदिते
नयनस्य वारिणि दिशं नृहरिः ।
न चकार राजदुहितुर्वचने
गुणकीर्तनानि च शुचा विवृते।। ५ ।।
जगतीपतेरथ सुतः प्रभुणा
विपिनौकसामभिशुचो मनसः ।
प्रविणोदनाय दयिताविरह-
व्यसनातुरो वच इदं जगदे ।। ६ ।।
हरिराजवंशवसतौ वसुभिः
परिपूर्णकन्दरदरीविवरे ।
जगतीधरे निपततामिह वः
सरसीरुहद्युतिमुषी नयने ।। ७ ।।
सततं समुन्नतवतः पतता
रविणा नु लङ्घनभिया शिरसः ।
हरिणः किमस्त्युपरि नेत्युदित-
स्तरसा नु वीक्षितुमयं शशिनः।। ८ ।।
अधिकुञ्जमस्य निपतद्धरितां
खुरधूतधातुकणिकानिकरैः ।
अनुरञ्जितः शुकमुखद्युतिभि-
स्तरुणायते परिणतोऽपि रविः।। ९ ।।
इममातपे रविमणिप्रभव-
ज्ज्वलनाभिदीपिततनुं रजनी ।
शशिकान्तरत्नविसृतैः सकलं
शिशिरीकरोति पयसां निकरैः।। १० ।।
प्रतिनाग इत्यवगतस्तरसा
मदहस्तिहस्तहतजर्जरितः ।
इह तत्प्रकोपहुतभुग्घतये
सलिलानि मुञ्चति यथा जलदः।। ११ ।।
स्फुटधातुलोहितदरीवदन-
स्थितहंसपङ्क्तिदशनद्युतिभिः ।
हसतीव खर्ववपुषः शिखरै-
रवजित्य सोऽयमितरानचलान्।। १२ ।।
अयमुद्वहत्यभिमुखापतिते
दशनाकृतौ हिमरुचः शकले ।
स्रुतधातुपङ्किततनुर्धरणी-
धरणक्षमो हरिवराहरुचम् ।। १३ ।।
इह धातुसानुषु निषण्णदृशः
शिरसि स्थितासितघनावलिषु ।
दवकृष्णपद्धतिभयं न चिरं
मृगयोषितो जहति मुग्धधियः।। १४ ।।
अधिशृङ्गमस्य रुचिभिः स्फुरित-
ग्रहबृन्दसक्तशिरसस्तरवः ।
जनयन्ति चेतसि मदं शिखिनां
परिफुल्लनीपतरुषण्डरुचाम्।। १५ ।।
शिखरेषु पङ्कजमणिप्रकर-
द्युतिरंजितच्छदभृतो दधते ।
इह भूरिभूरुहलताततयः
समये गतेऽप्यरुणपल्लवताम् ।।१६।।
अयमेष सोदकदरीवदन-
स्रुतधातुधौतकटुकावयवः ।
प्रविभात्यसृक्स्रवपिशङ्गितनु-
र्युधि दानवद्विप इव प्रहतः ।। १७ ।।
अयमर्कतापिततनुः शशिनः
परिपीय सामृतकणानचलः ।
पुनरुद्वमत्युरुदरीवदन-
स्रुतनिर्मरच्छलभृतः किरणान् ।।१८।।
भृशमस्य गोपतिमणिप्रभव-
ज्वलदग्निदग्धविपिने शिरसि ।
स्खलनादुपाहितमषीमलिनं
वहतीव शीतकिरणः करणम्।। १९ ।।
मददृप्तनीलगलसंहतिभि-
र्हतभीतपन्नगगुणं शिखरात् ।
रविवाहनं गमयति त्वरितं
तदितो महीधरपतेररुणः ।। २० ।।
अमितं निपीय सलिलं सरितां
स्रुतधातुलोहितममी जलदाः ।
उपकल्पयन्त्यरुणकान्तिभृतः
स्थिरसन्ध्यया परिगतं गगनम्।। २१ ।।
वनदन्तिनः प्रति रिपुद्विरवं
परिधावतः शिखरिणः शिखरे ।
पवनैर्जवादुपहितो वदने
भवति क्षणं मुखपटो जलदः।। २२ ।।
गजभिन्नगैरिकरसारुणिताः
सितपङ्कजैरनुगताः सरितः ।
नवबद्धरत्नरसनाकृतयः
प्रविभान्त्यमूर्गिरिनितम्बगताः।।२३।।
शिखरैकभागनिरतः पवनै-
रुपनीयतेऽयमुदधिं जलदः ।
अवगाहपानविधये समदः
प्रविमुच्य वृक्षत इव द्विरद ।। २४ ।।
रदनक्षतक्षितिधरक्षतज-
स्रवसन्निभैररुणिता रदिनः ।
कटकेषु धातुभिरिमे दधते
तरुणारुणावृतपयोदरुचः ।। २५ ।।
इति भास्वतः सुतवरे वदति
न्यपतत्पयोधरपथादभितः ।
मधुकाननं हृतमधुप्रसभं
प्रविधाय वेदितधृतिर्हनुमान् ।। २६ ।।
अशिवस्य जल्पनभिया नृपतौ
निभृते भुवो वरकपिर्दुहितुः ।
प्रथमं शिवं समनुवेद्य पुन-
र्वचनं सविस्तरमिदं विदधे ।। २७ ।।
भवदाज्ञया दिशि परेतपते-
स्तृणपर्णकान्यपि विवर्तयतः ।
जनकात्मजाविचयने विगता
शरदस्य मे शशधराभरणा।। २८ ।।
रविदग्धपक्षतियुगं विहगं
प्रतिपद्य रावणगमे विदिते ।
मलयादगामथ महेन्द्रमगं
मकराकरं सपदि लङ्घयितुम्।। २९ ।।
मयि कुर्वति क्रममथो चरण-
द्वयपीडिताग्रशिखरः शिखरी ।
स्त्रुतगैरिकोदकगुहावदनो
वमति स्म शोणितमिव व्यथितः।। ३० ।।
समरुष्यत क्रमभरोपहते
चलिते नगे मम समुत्पतनात् ।
इतरेतराहतिदलच्छिखर-
प्रभवेण वारिदपथो रजसा ।। ३१ ।।
चलताऽचलेन सरितस्तरसा
विधुता भुवि क्रमगती रुचिताः ।
प्रविहाय सागरजले नभसः
पतिता गुरुध्वनिहतश्रुतयः।। ३२ ।।
तमपश्यमुत्पतितवानचलं
तनुजायमानवपुषं क्रमशः ।
क्रमलब्धपीडितबृहच्छिखरं
प्रविशन्तमाश्विव महीमखिलम्।। ३३ ।।
उपविष्टकुञ्जरनिभा गिरय-
स्तरवस्तृणैरुपमिताकृतयः ।
प्रविलोकिता दिवि मया
पतता हलचर्मतुल्यवपुषः सरितः ।। ३४ ।।
विषमा महानदनदीगहनैः
समतामलक्ष्यत गता वसुधा ।
पृथुकन्दरस्थपुटिता मसृणा
वरणीभृतामवगता विततिः ।। ३५ ।।
अथ लङ्घने सुरसया जलधेः
क्षणविघि्नतो विहिततद्विजयः ।
पतितोऽहमद्रिशिखरे नखर-
क्रकचावपाटितशिलानिकरः।। ३६ ।।
दशकन्धरस्य भवनोपवनं
प्रविचिन्वता नृपसुता भवतः ।
सुचिरादलक्ष्यत मया विरह-
ज्वलनाहुतिस्त्रिजटयाऽनुगता।। ३७ ।।
मुखेन्दुमरुणत्विषी सततचिन्तया बिभ्रतं
कपोललुठितालकं विगलदश्रुणी लोचने ।
तदीयमवलोकयन्व्रजति मार्दवं चेतसि
क्षपाचरगणः श्रुतं सपदि शक्लमुत्प्रेक्षते ।। ३८ ।।
विकल्पधटितं स्वयं दिशि भवन्तमालोक्य सा
चिरेण खलु निर्घृणः स्मृतिपथे कृतोऽयं जनः ।
इति प्रजहतो मुहुर्विरचिताञ्जलिर्विष्टरं
करोति तव विद्विषश्चकितदृष्टिकृष्टायुधान् ।। ३९ ।।
भविष्यति पुनस्तव प्रियसमागमात्सम्मदं
शुचं परमचिन्तया हृतरतिः स्म मैवं गमः ।
इतीव रशनागुणः पतति पादयोर्निस्वन-
न्विहाय तव योषितः प्रतिपदं नितम्बस्थलीम् ।। ४० ।।
प्रयाति विरहाहितस्मरहुताशनेन व्यथा-
मिहोपरचितस्थितिः प्रियतमः पुरा तप्यते ।
इतीव हृदयं चिरस्तिमितलोचनान्तच्युतै-
स्तनोति नयनाम्बुभिः श्वसितभिन्नधराकणैः ।। ४१ ।।
इति व्यथितचेतसं समनुनीय पृथ्वीसुतां
धृतोच्छिखशिखामणिर्मणितपूरिताशामुखः ।
निहत्य तव विद्विषो गगनमुत्पतन्भोगिभि-
र्नियम्य हरिवैरिणा हुतभुजाऽहमादीपितः ।। ४२ ।।
सतैलपटवेष्टिता झटिति विस्फुरन्ती भृशं
समीरणरणच्छिखापटलपातपीतासृजा ।
ममावयवमंजरी क्षणमदाहि सख्या गुरोः
स्वकर्मनिरते जने नहि भृशायते सङ्गतम् ।। ४३ ।।
स्फुलिङ्गहतनिस्वनद्युवतिवृद्धरक्षोद्यत-
क्षपाचरकुलाकुलं क्षुभितभीतगुञ्जद्गजम् ।
गृहव्यपहताहितप्रचुररत्नरथ्यान्तरं
मया वियति वल्गता मुहुरकारि धाम द्विषाम् ।। ४४ ।।
हतीरितमथापदाममृतबिन्दुनिष्यन्दि त-
न्निशम्य वचनं परं शमनमुन्नतस्तेजसा ।
जगाम सह सेनया नृपसुतः पयोधेस्तटं
तटाचलगुहाऽऽहृतप्रहितवारिवृद्धध्वनिम् ।। ४५ ।।
भुवनमहितौ मर्यादासु स्थितेरनतिक्रमा-
ज्जनितयशसौ गाम्भीर्येण त्वरावदुपेयतुः ।
उदधिरिषुणा भिन्नस्तस्मिन्महाय महीयसि
प्रथितमहसि प्रेमाकृष्टो विभीश्च विभीषणः ।। ४६ ।।
इति श्रीकुमारदासस्य कृतौ जानकीहरणे त्रयोदशः सर्गः ।
चतुर्दशः सर्गः
अनुमतेन नृपोऽथ पयोनिधे-
र्नयधनैरभिमन्त्र्य हरीश्वरैः ।
नलमयोजयदूर्जितविक्रमं
सपदि सेतुविधौ विधिकोविदम्।। १ ।।
नृहरिणा हरिणाधिपगामिना
स्थितिभुजाऽतिभुजा गिरिदारणे
हनुमताऽनुमता सह निर्ययौ
कृतरसा तरसा कपिसंहतिः।। २ ।।
तलगतं श्रमवारि करद्वयक्षत-
शिलाशकलस्य रजःकणैः ।
समवधूय विधाय विधातरि
प्रकृतसिद्धिसुखाय नमस्क्रियाम्।। ३ ।।
रचितगर्जितमूरुमुरुं दृढं
समभिहत्य करेण सगर्वितम् ।
विपुलपुच्छगुणैरकृतान्तरं
पटु नियम्य कटिं कठिनायतैः।। ४ ।।
बलविशेषपरीक्षणकारणं
नदनदीशतनादिमहीभृतः ।
समभिहत्य तटं रटनस्फुट-
स्फुटितशीर्णशिलानिकरं करैः।। ५ ।।
समवितानितहुङ्कृतिवानरै-
र्विनमितस्य ररास महीभृतः ।
विपुलमूलविकम्पनकम्पिता
विनमदुन्नमदंशवरा धरा ।। ६ ।।
अथ विपाट्य नदीरुचिरं चिरं
दधतमग््रयलताभवनं वनम् ।
अभृत नित्यगतेरसुतः सुतः
प्रियतमो भुजबन्धनगं नगम् ।। ७ ।।
ग्रहगणः शिरसा दिशि पातित-
श्चलितमूलधुतं सरसातलम् ।
अवनिमण्डलमाशु जगत्त्रयं
मथितमुद्धरणे धरणीधरैः ।। ८ ।।
निकटभूधरपातरटत्तट-
स्फुटनसञ्जनितो गिरिनिस्वनः ।
बधिरतामनयद्वलवद्वल-
ध्वनितसंवलितो वलयं दिशाम् ।। ९ ।।
सगवयाऽगवया गिरिमेखला
स्वनवता नवताडितभूरुहा ।
द्विपतता पतता शिरसा मुहुः
शकलिता कलितापजलाशया।। १० ।।
विनमितः परिरभ्य महागिरिः
कपिभुजस्फुटपिष्टरटत्तटः ।
उदवमत्सवमुग्रमिवासृज-
श्चलितधातुजलं विवराननात् ।। ११।।
फणिनि मूलमघः परिकर्षति
प्रसभमुत्क्षिपति प्लवगे शिरः ।
मुरुरवं दिशि भैरवमुत्सृजन्
उपतटं त्रुटति स्म धराधरः।। १२ ।।
विनमितस्य करेण महाहरेः
क्षितिभृतो गुरुमूलतलोपलः ।
समुदियाय भुवस्तलमन्यतः
पटु विपाट्य सपत्तनकाननम्।। १३ ।।
सपदि गौरवगौरवसंहिता
भृशमकम्पत कम्पतदाकुला ।
क्षितिधरे चितरेचितनिर्झरे
रुतमतन्वति तन्वति कम्पिते।। १४ ।।
समुपगूढतटो हरिणा दृढं
क्षणमलम्बयदर्धविनिर्गतम् ।
निजमुदारदरीमुखतो
रसन्रसनमुग्रमिवाजगरं गिरिः ।। १५ ।।
अहिकुलं ददृशे मणिभास्वति
क्षितिधरोद्धृतिरन्ध्ररसातले ।
सरुधिरव्रणगर्भविभावितं
विपुलमन्त्रमिव स्फुरितं भुवः ।। १६ ।।
क्षणमुदस्य धृतस्य महीभृतः
चपलमूलशिफा इव भोगिनः ।
घनरसातलपङ्कवृतोपल-
श्रितबृहत्तनवो विललम्बिरे ।। १७ ।।
घनमिते नमिते गिरिसञ्चये
वरवयोरवयोगशुभद्रुमे ।
स्रुतदकं तदकम्पत मण्डलं
कृतरुतं तरुतन्त्रधरं भुवः ।।१८।।
स्फुरितपङ्कजरागमणित्विषि
व्यवहृताचलधामनि भैरवम् ।
हदयमांसमिवासृजि सम्प्लुतं
खनिरलक्ष्यत रत्नचिता क्षितेः ।। १९ ।।
शिखरिणः कपिसैन्यसमुद्धृताः
स्वपरिणाहनिराकृतमम्बरम् ।
अगमयन्निव दुर्धरविग्रहा
निजसमुद्धृतिरन्ध्ररसातलम् ।।२०।।
द्रुततरं ततरन्ध्रशताननै-
र्ध्वनिकरं निकरं धरणीभृताम् ।
गुरुतरं रुतरङ्गिमृगं घृत-
द्रुमवुरं मधुरं शिखिवल्गितैः ।। २१ ।।
रवितुरङ्गखुराहतमस्तकं
ध्वनिकृतः परिगृह्य वनौकसः ।
पदभरेण ययुस्तटमम्बुधे-
र्विनमितोन्नमितक्षितिमण्डलम् ।।२२ ।।
पिबति सर्वमसंख्यगुहामुखै-
र्नियतमेष पयोधिमगाधिपः ।
इति चिराय सविस्मयमीक्षितो
नृपसुतेन समीरणनन्दनः ।। २३ ।।
अथ ससर्ज ससर्जवनाकुलं
द्युतिमदभ्रमदभ्रमदद्विपम् ।
भयसरोगसरोगतपन्नगं
पथि घनस्य घनस्यदनादितम् ।।२४।।
तटयुगाततवारिदपक्षति-
र्गुरुदरीमुखलम्बितपन्नगः ।
अनुचकार पतत्पतिमुत्पतत्-
फणधरोद्धरणे धरणीवरः ।।२५।।
क्षितिभृताऽभिहतादथ वारिधेः
समुदिताऽभिनिहत्य विरोचनम्
अकृत मीनकुलाकुलितान्तरा
गुरुपयस्समितिर्शमितिध्वनिम् ।। २६ ।।
अभिहतो गिरिणा वडवानल-
प्रबलरोषधरो जलधिद्विपः ।
रचयति स्म सुवेलमहातरौ
नियमितस्थित एव गतागतम् ।। २७ ।।
उपलसङ्कटकैः कटकैस्तताः
कपिबलेन नगा न न गात्रगाः ।
कृतरवं समुदा समुदासिरे
पथि रवेरवितारविताण्डजाः ।।२८ ।।
प्रविदधुर्गिरिभङ्गसमुत्पत-
द्विविधधातुरजांसि मरुत्पथम् ।
सपदि चित्ररुचं घुणविक्षत-
त्रिदशचापकणा इव विच्युताः।। २९ ।।
कलकलैर्विलसन्नगपन्नग-
स्मितमतिः स्म वलारिणि वारिणि ।
उदधिरे वरसंहतिसंहति
क्षितिधरो मृति विध्यति विध्यति ।। ३० ।।
हतसमुत्पतितोदकसन्तति-
स्फटिकदण्डयुतं क्षणमाबभौ ।
किरणमौक्तिकजालवृतं तदा
सकलचन्द्रसितातपवारणम्।। ३१ ।।
प्रथममुद्गतवारिततिः पत-
द्गिरितटाहतकोटिरुदन्वतः ।
क्षणमरोचत वृष्टिषु बिभ्रतो
भुज इवाद्रिवरं मुरविद्विषः ।। ३२ ।।
हतकपोतकपोतगलच्छविः
परिततान तता नगसम्प्लवे ।
द्रुतवितानवितानमभिस्फुट-
त्तटपरागपरागततिर्नभः ।। ३३ ।।
पटुविकम्प्रविकम्पततान्नरै
रलवने लवनेन मनोहरैः ।
अभिससर्प ससर्पकुलानगैः
प्रहितवारितवारिततिस्तटात् ।। ३४ ।।
पतितशैलगुहाशतपूरणे
रजतशैलनिभो जलबुद्बुदः ।
जलनिमग्नसुरद्विपपुष्कर-
श्वसितसृष्ट इवाम्बुनि पप्रथे ।। ३५ ।।
प्रचलतुङ्गतरङ्गदलान्तर-
स्फुरितविद्रुमकेसरसम्पदि ।
क्षुभितसिन्धुसरोरुहकर्णिका-
वपुरुवाह पतत्कनकाचलः ।। ३६ ।।
कपिधुताचलधातसमुत्पत-
ज्जलधिखण्डनिरस्तनिपातितः ।
भुवि विवेष्टनपिष्टगिरिद्रुमः
पृथुतनुः स्फुरति स्म तिमिङ्गिलः ।। ३७ ।।
असमकं समकम्पत वारिधेः
स्वरचिता रचिता ततिरूर्मिभिः।
अहितताऽऽहिततालकृतध्वनि-
र्वलयिनी लयिनीव भुजावली।। ३८ ।।
विससृपुः सितशंखविभक्तयः
सलिलवेगधुताः परितस्तटम् ।
शिखरिणाऽभिहतस्य पयोनिधे-
र्विदलितास्थिलवा इव भूरिशः ।। ३९ ।।
गिरिहतक्षुभितो मकराकर-
स्तटभुवं परिलङ्घ्य कटु क्वणन् ।
अपससर्प नगोद्धरणाहित-
प्रकटरन्ध्रनिपीततनूकृतः ।। ४० ।।
द्रुततरङ्गतरङ्गमुखभ्रमन्-
भुजगराजतनुस्पृशमानवः ।
गगनगेन नगेन महार्णवः
परिननाद ननादरतोहतः ।। ४१ ।।
निहतये नु विरोचनतेजसः
शशिनि लक्ष्म नु मार्ष्टुमसङ्गिनी ।
उदपतत्कपिघूर्णमहीधर-
क्षुभितभिन्नमहार्णवकन्ततिः ।। ४२।।
क्षितिधराहतदूरसमुत्प्लुत-
प्रबलवारिरयेण निपातितः ।
तनुभरेण रुजन्विषवह्निना
तटवनानि ददाह महोरगः ।।४३।।
अधिपयोधि नभश्चरसंहति-
र्नभसि मीनततिर्भुवि तद्द्वयम् ।
इति जगत्त्रितयं कपिभिः क्षणा-
द्विवशजङ्गमवृत्ति विमिश्रितम् ।। ४४ ।।
उपनिषेदुरदृष्टतटद्वया
नभसि दीर्घपरिभ्रमणातुराः ।
सलिलवेगवशेन परिभ्रमन्
महिषशृङ्गवनेषु शिखण्डिनः ।।४५।।
प्रतरतो रदिनः पुनरादधौ
मकरकृत्तकरस्य करश्रियम् ।
क्षतजगन्धहतः सरसव्रण-
ग्रसनगृध्नुरहिस्तनुसम्पदा ।। ४६ ।।
निनदता नदताडितमेखलं
विगलताऽगलतावृतसानुना ।
असुभुजा सुभुजाऽसुरसंहतिः
प्रविदिता विदिता दिशि भूभृता ।। ४७ ।।
अथ निरीक्ष्य चिरं हरिचेष्टितं
सपदि वन्ध्यमवन्ध्यपराक्रमः ।
इदमुवाच गभीरतया जित-
क्षुभितसिन्धुरवं नृवरो वचः ।। ४८ ।।
त्यजत सेतुविधानमनोरथं
क्षुभितसम्पतितास्तिमिशङ्कया ।
इह मिलन्ति तिमिङ्गिलपङ्क्तयः
सलिलधौ तिमितं तिमितं नगम् ।। ४९ ।।
गिरिकुलानि कुलानि समीरण-
क्षुभितरङ्गितरङ्गिजलोच्छ्रयम् ।
शरभवन्ति भवन्ति न किञ्चन
द्विपहितानि हितानि महोदधिम् ।। ५० ।।
अयमुपाहितसेतुरकम्पित-
स्थितमहातिमिदेहमहीधरैः ।
नयतु वारिधिरेव परं तटं
बलमिदं सकलं शरताडितः।। ५१ ।।
मकरदन्तिगतो नृपलीलया
जलधिमुत्तरतु प्लवगेश्वरः ।
भुजगसैन्यवृतः स्फुटविद्रुम-
द्रुमवनं रदनेन विभञ्जयन् ।। ५२ ।।
मदितरोऽदितरोषधरै रण-
क्षमकरैर्मकरैर्गजसन्निभैः ।
ध्रुवदकं वद कम्पतिमाकुलं
तरति कोऽरतिकोपवृतासुरम् ।। ५३ ।।
इति गिरा चलितो दृढकीलन-
ध्वनितकम्पितदिग्विदिशो नलः ।
मलयकुञ्जदरीषु महीभृतः
पृथुरुतः प्रथमं समवेशयत् ।। ५४ ।।
धृढसमर्पितमूलनिबन्धनं
हरिवरः क्रमशो गिरिसङ्क्रमम् ।
सपदि बन्द्धुमभेदनमम्बुधौ
शिखरिणां निकरैरुपचक्रमे ।। ५५ ।।
तटसमर्पितमूलनिबन्धनः
पृथुधराधरसेतुरकम्पनः ।
जलनिधौ मलयस्य महीभृतः
प्रसरदङ्कुरवद्ववृधे शनैः ।। ५६ ।।
अभिहतो गिरिणा रवभैरवः
पतिरपामनिमेषविलोचनः ।
हदि जघान रुषेव महाकपिं
समुदितोदकसन्ततिबाहुना।। ५७ ।।
शमितरेणुकरेणुकटद्रव-
स्रुतिलवासितवासितकन्दरैः ।
कपिरशङ्कमशङ्कमधिक्षिपन्
्रविदधौ ततधौततटं नगैः ।। ५८ ।।
अधिपयोधि नलेन निपातितः
सलिलनादनिनादितदिङ्मुखः ।
धुततिमिङ्गिलपुच्छहतः पुन-
र्गगनमुत्पतितो जगतीधरः ।। ५९ ।।
भ्रमयति स्म चिरं हरिसैनिकैः
कृतरवैर्गुरुविस्मयमीक्षितः ।
कठिनपृष्ठतटे वपुरायतं
दधति कूर्मपतिः पतितं नगम्।। ६० ।।
मलयशैलमुखाहितबन्धनः
कपिभिरर्धकृतो गिरिसङ्क्रमः ।
जलनिधौ निहितो जलवाञ्छया
भुज इवास महासुरदन्तिनः।। ६१ ।।
अपहसन्निव फेनरुचा चिरं
गिरिहतोदितकन्ततिबाहुना ।
अभिजघान पयोनिधिरुद्धतः
कुसुमभाजि सुवेलशिरस्तटे।। ६२ ।।
परिसरस्थसरस्थपुटाचलक्षत-
विमानविमानमहोरगम् ।
विततरागतरागमणिप्रभा-
जनितरङ्गतरङ्गकृतध्वनिम् ।। ६३ ।।
विततधातुरसं धरणीधरक्षत-
कृतव्रणचक्रमिवाम्बुधेः ।
अभिचकर्त नलोऽनलभासुरः
सलिलपृष्ठतटं गिरिसेतुना।। ६४ ।।
अवसितो नगसेतुरलक्ष्यत
क्षिपति विष्णुवराहरदे भुवम् ।
विषमकृष्टतया जलपृष्ठतः
समुदितः क्षितिपार्श्व इवैकतः।। ६५ ।।
उदधिसेतुरगद्वयसङ्गतः
सरलपुच्छविदारितदन्तिनः ।
वपुरुवाह परं ग्रसितुं गजं
प्रसरतोऽजगरस्य गरीयसः ।। ६६ ।।
जलधिखातकृतान्तरसङ्गिनि
द्विरदयुद्धविधौ गिरिसङ्क्रमः ।
मलयतुङ्गसुवेलसुरद्विपद्वय-
बृहद्भुजबन्ध इवाबभौ ।। ६७ ।।
मलयकुञ्जसुवेलतटाश्रयः
स्थिरतरा नु धराधरसङ्क्रमः ।
उभयकोटिगतौ धरणीधरा
तुलयितुं नु तुला परिनिर्मिता ।। ६८ ।।
अपरसेतुपथस्य विधित्सया
कठिनकोटियुगे विनिवेशितौ ।
अजिनि काचवरो नु वनौकसा
गिरिवरावपनेतुमितोऽन्यतः ।। ६९ ।।
जलमुदस्य तिमिङ्गिलसम्पदः
प्रसभमुद्धरणाय पयोनिधेः ।
पृथुदुरुद्धरमन्तकधीवर-
प्रणिहितं नु दृढालिनिबन्धनम् ।। ७० ।।
उत भुवः कुलिशायुधविद्विष-
द्विषयचक्रनितम्बसमाश्रयम् ।
घटनसन्धिवलीततिमध्यमं
वलितमङ्गमगस्तनसम्पदः ।। ७१ ।।
प्रथमपश्चिमसागरविग्रहं
विपुलमद्रियुगेन महीयसा ।
अथ निवारयितुं दृढमन्तरा
विरचितं नु भुजद्वयबन्धनम्।। ७२ ।।
अतिनिमग्रमदीयमहाशर-
व्रणरुजाकृतकार्श्यविभावितम् ।
लवणसागरदानवदन्तिनः
प्रकटमस्थि नु वंशसमुद्भवम्।। ७३ ।।
प्रथिमनि प्रथिते कृतकौतुकै-
रुदधिमापनदण्ड उताहितः ।
इति चकार मनो मनुवंशज-
श्चिरविचारपरम्परमादृतः ।। ७४ ।।
समधिरूढसमीरणसम्भव-
प्रणयदत्तकरो रघुनन्दनः ।
अधिरुरोह धराधरसङ्क्रमं
भुवि निषण्णमिवासुरदन्तिनम्।। ७५ ।।
नृतिमिना दितनादितवीचिकं
शुभवयोधनयोधनयोऽर्णवम् ।
सपदि वानरवानरमत्यगात्
पिहितवेलसुवेलसुदम्भसः ।। ७६ ।।
तटविशालकपोलतले चलत्-
तपनमण्डलकुण्डलमण्डनम् ।
विविधभूरुहषण्डविनिर्जित-
त्रिदशनन्दननन्दनचन्दनम् ।। ७७ ।।
मदगजैरगजैरगनिर्झर-
ध्वनितबृंहितबृंहितसूचितैः ।
प्रविततं सततं सपयःकणैः
सरसितैरसितैरपि वारिदैः ।। ७८ ।।
निकषणेन युगस्य हिरण्मय-
ज्वलितरूपधरस्य विघृष्टया ।
रविगतिं प्रथयन्तमुदारया
कटकभित्तिषु काञ्चनरेखया।। ७९ ।।
हरिसमानसमानमृगान्वितं
स भवनोपवनोपवृतान्तरम् ।
तटगुहासु गुहासु समैर्विभिः
कृतरवं शरवंशवनावृतम् ।। ८० ।।
क्षणमवेत्य मृगं मृगलक्ष्मणः
रचयति क्रमबन्धमिभद्विषि ।
नखरधातभयेन विदूरतः
परिहृतं प्रसभं हिमकान्तिना ।। ८१ ।।
कृतदवारणवारणशोणित-
स्रवसदारुणदारुणलुव्धकम् ।
मकरसारससारसनिम्नगा-
ततमवारितवारितदिग्गजम् ।। ८२ ।।
अधिरुरोह सुवेलमगं विभु-
र्ज्वलितरत्नचयेन नभस्स्पृशा ।
प्रतिजनं जनयन्तमनारतं
गगनलग्नदवानलसंशयान् ।। ८३ ।।
तत्र स्थित्वा वरुणनिलयं वैद्रुमाणां द्रुमाणां
भास्वत्तोयं किरणनिकरन्यस्तरङ्गैस्तरङ्गैः ।
पश्यन्रेमे सततसलिलं ह्रासमुक्तं समुक्तं
शक्रत्रस्तक्षितिधरशतस्यानदन्तं नदन्तम् ।। ८४ ।।
इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
चतुर्दशः सर्गः समाप्तः ।।
पञ्चदशः सर्गः
अङ्गदाख्यमथ वानरवीरं
रक्षसां पुरमजीगमदीशः ।
वेदितुं चतुरुपायविधीनां
कस्य गम्य इति कौशिकशत्रुः ।। १ ।।
संसदं च विदितः सुरशत्रोः
प्राविशत्स रहितादरवृत्तिः
राक्षसानधिपथोपनिविष्टान्
संस्पृशन्सपदि पुच्छगुणेन ।। २ ।।
सन्निषद्य निभृतं स मुहूर्तं
स्वागतादिविधिलम्भितमानः ।
साधुरूढनयपद्धति पश्चा-
दाददे वच इदं विनयस्थः ।। ३ ।।
निर्गुणोपि यदि शौर्यविशिष्ट-
स्तत्र भक्तिमधिगच्छति लोकः ।
तद्द्वयेन परिदीपितवृत्ते-
र्दाशवद्भवति सर्वजनौघः ।। ४ ।।
त्वय्यनन्यजनखण्डितशक्तौ
सर्वगुण्यजनगीतगुणौघे ।
स्नेहबन्धनियतेन गुणज्ञ-
श्चेतसा ह्रियत एव कपीशः ।। ५ ।।
तद्वचांस्यवितथानि विपाके
कर्तृमिष्टफलवन्ति यतेथाः ।
वल्लभस्य नयविद्विषतो वा
सूक्तमेव हृदयेऽभिनिधत्ते ।। ६ ।।
निःस्पृहोऽथ पर एव हितानि
व्याहरत्यगणितप्रभुकोपः ।
निष्फलप्रियमुखस्तु न भृत्यः
पथ्यमाह पतिमानतवृत्तिः।। ७ ।।
स्वाभिमानपरिबोधनहेतो-
र्भावशून्यमभिधाय वचांसि ।
स्वामिनं युधि नियुज्य विमर्दं
द्रष्टुमप्युपसरन्ति न केचित्।। ८ ।।
वारितेऽपि कलहाय यतन्ते
दूरदृष्टरिपुकेतुशिखाग्राः ।
ताड्यमानशिरसोऽपि पुरस्तात्
न प्रयान्ति शरवृष्टिनिपाते ।। ९ ।।
मुञ्च घातमभितो भव वीरे-
त्यन्ययोधमभिधाय जिघांसुम् ।
लीलया युधि पुरोऽभिसरन्तः
पञ्चषा अपि न सन्ति पुमांसः ।। १० ।।
यत्स्वयं युवतिमित्रवतीषु
व्याहृतं मधुमदेन सभासु ।
तत्स्मरन्ति शरजालकरालं
केचिदेव रणमध्यमुपेताः ।। ११ ।।
के न सन्ति पुरुषस्य सहाया
भोक्तृमिद्धविभवस्य समृद्धिम् ।
युद्धमध्यवधमिच्छति तस्मिन्
दुर्लभाः सहकृतव्यवसायाः ।। १२ ।।
निर्व्यपेक्षमवधूय वच-
स्तत्सेवकैरभिहितं श्रुतिहारि ।
यन्नयेन न समेति विरोधं
तद्विचारनिपुणेन विधेयम् ।। १३ ।।
कर्म यद्विविघमागमविद्भि-
र्गीयते सुकृतदुष्कृतभेदात् ।
सिद्धिदेयगुणदोषवशात्
तद्भेदमेति पुनरेव चतुर्धा ।। १४ ।।
पक्षयुग्मगतसिद्धिविधेयं
तद्विचिन्त्य गुणदोषविशेषम् ।
यः करोति करणीयमनिन्द्यं
विद्धि नीतिफलमस्य करस्थम् ।। १५ ।।
दोषदुष्टफलनिन्द्यविरामं
योऽर्थमर्थविपरीतमुदस्य ।
सेवते सदनुबन्धविशुद्धं
धाम तत्र न तनोति विपत्तिः ।। १६ ।।
दुर्जयेन सह वैरमनर्थं
स्त्री परस्य न हिताय परत्र ।
तत्कलत्रमपहाय सुहृत्त्वं
राघवस्य मृगयस्व सुखार्थम् ।। १७ ।।
इन्द्रियाणि मतिमन्तमजय्यं
योजयन्ति विषयेषु विजित्य ।
तद्वशत्वमवधूय यशोभि-
र्यस्तनोति भुवनानि स धीरः ।। १८ ।।
यौवनं चलमपायि शरीरं
गत्वरं वसु विमृश्य विशिष्टः ।
नान्यजन्मगततिक्तविपाकं
दृष्टसौख्यमपि कर्म विधत्ते ।। १९ ।।
हेतुरन्यभवभोगविवृद्धे-
र्यद्यतश्च भवतीह विभुत्वम् ।
स्थास्नु यत्तु वितनोति यशस्तत्
साधनीयमितरत्तु न धीरैः ।। २० ।।
रूपवन्तमपि हन्ति जरार्तिः
सङ्गमे महति चास्ति वियोगः ।
याति दीर्घमपि विच्युतिमायुः
पुण्यमेव निरपायि भजध्वम् ।। २१ ।।
लोकयुग्मगतशर्मविनाशं
स्पर्शमस्य मनसाऽपि युवत्याः ।
दुर्जयस्य सुनितुल्यमहिम्नः
तद्विहाय सुखमेहि यशोभिः ।। २२ ।।
स प्रियावितरणेन कृतज्ञ-
स्तोषितः सफलहार्दविरोषः ।
स्वर्गिवर्गमवजित्य समस्तं
भृत्यवत्तव पुरीह विधत्ते ।। २३ ।।
ये भवन्तमतिवश्यममात्या
नूतनं पतिमिहाभिलषन्ति ।
कारयन्ति यदि नीतिविरुद्धं
मा तदीयमनुरोधि वचस्ते ।। २४ ।।
हेतुरस्ति नरवानरभावे
नैव दर्पविरहस्य चिरज्ञाः ।
यत्सुरेन्द्रकृतवीर्यसुताभ्या-
मस्तशक्तिमिह कश्विदुशन्ति ।। २५ ।।
शासनं यदि शिरोभिरुदग्रं
मौलिवन्नृपसुतस्य न धत्से ।
शैलशृङ्गगुरुमस्तकभार-
त्यागसौख्यमवगच्छ द्रुतं ते ।। २६ ।।
शक्रलोकजयदत्तमजय्यं
दिक्षु फुल्लमिव काशवनं तत् ।
रामधामदवपावकदीप्त्या
दग्धमेव समवैहि१ यशस्ते ।। २७ ।।
गर्वमस्य वचनानि वहन्ति
श्रोतुमन्तविरसानि मृदूनि ।
न प्रपद्य विततार विकारं
क्रोधबद्धमिव राक्षसलोकः ।। २८ ।।
अट्टहासनिनदोऽतिगभीरः
क्रोधगर्भमतिकायविमुक्तः ।
विष्फुलिङ्गनिकरेण सदस्तं
दीपयन्दशदिशोऽथ ससर्प ।। २९ ।।
कम्पनोऽपि परिकम्पितमूर्धा
दन्तकान्तिनिचिताधररागः ।
उन्नतैकचपलभ्रुकटाक्षं
विक्षिपन्द्विषति तत्र विरेजे ।। ३० ।।
आहतान्यथ परस्परमेव
क्रुध्यतस्त्रिशिरसोऽपि शिरांसि ।
धातविस्फुटितमौलिमणित्विड्-
द्योतिताम्बरतलानि विरेजुः ।। ३१ ।।
इन्द्रजित्प्रथमदानदशायां
दिग्द्विपेन्द्र इव गण्डतटाभ्याम् ।
निर्मुमोच मदसेकमनोज्ञं
घर्मवारि मदमन्थरनेत्रः ।। ३२ ।।
मानगर्भमवकर्णितदूत-
व्याहृतो भुवि नमय्य मुखेन्दुम् ।
भूमिभक्तिकुसुमेन निवेशं
मण्डलस्य विततान निकुम्भः ।। ३३ ।।
क्रोधवेगविधुतश्च तथाऽऽसी-
च्छोणिताक्षमुखतिग्ममरोचिः ।
यत्सदःस्थकिरणाधिपरत्न-
स्तम्भवह्निरपि तेन विवव्रे ।। ३४ ।।
रक्तपद्मरुचिहारिकराग्र-
प्रस्थितालिकुलरोचिषि कुम्भः ।
न्यस्यति स्म भुजवर्तिनि
मन्दं ज्याभिघातकिणवर्त्मनि चक्षुः ।। ३५ ।।
सेन्द्रनीलमथ वक्षसि हारं
चूर्णयत्सपदि पाणितलेन ।
बद्धकृष्णमृगचर्मवदासीत्
तद्रजस्तुविततेषु करालः ।। ३६ ।।
न्यस्य वक्त्रमधिपाणि विसृष्ट-
स्वेदबिन्दुविकटोऽपि चिराय ।
विस्मयेन किल दूतमनन्य-
व्यापृतेन नयनेन ददर्श ।। ३७ ।।
लोचनस्थघनरागशिखाभि-
र्व्यक्तरोषबडवानलराशिः ।
न्यस्तहस्तचलवीचिकरालः
क्षुभ्यति स्म दशकण्ठसमुद्रः ।। ३८ ।।
राक्षसेषु विकृतेषु न सद्यो
माल्यवानिति विकारमियाय ।
युक्तिमुक्तमपि वाक्यमभीष्टं
स्वीकरोति न हि दुर्जनलोकः ।। ३९ ।।
ईहिताहितमतीव विकारं
वीक्ष्य वीतधृति भर्तुरधीरः ।
बन्द्धुमिन्द्रसुतसूनुमथैकः
क्रोधनः समुदियाय सदस्तः ।। ४० ।।
आत्मपुच्छलतयैव स पश्चा-
द्वाहुसंयमनमिच्छति कर्तुम् ।
राक्षसे हतनिपातितशत्रुः
स्वं जगाम बलमम्बरवर्त्मा ।। ४१।।
राक्षसेष्वथ विलज्जितमेषु
प्रेक्ष्य नम्रवदनाम्बुजपुञ्जम् ।
रावणं स्म नयनिर्मलबुद्धि-
र्मातुलस्य गुरुराह वचांसि ।। ४२ ।।
उक्तमत्र हितमेव विधातुं
तत्क्षमस्व यदि वाक्यमहारि ।
औषधानि विरसानि विधाय
द्वेष्यभावमुपयाति न वैद्यः ।। ४३ ।।
अप्रियाणि रिपुराह गुरुर्वा
नष्टशीलमयमत्र विभागः ।
क्षेप्तुमेव कटु जल्पति पूर्वः
प्रेमगर्भमितरस्तु हितैषी ।। ४४ ।।
यत्त्वयाऽहमवकर्णितपूर्वं
व्याहुतोऽपि विरमामि न वक्तुम् ।
तत्र हेतुरितरैरसमान-
स्नेह एव न तु जीविततृष्णा ।। ४५ ।।
यस्य वृद्धिमधिगम्य समृद्धि-
र्जायते विपदि यस्य विपत्तिः ।
तं स एव हितमाह जनस्तु
श्रोत्रहारिवचनैरविदग्धः ।। ४६ ।।
स्वार्थरागपरिशुद्धमतीनां
सद्विवेकपटुदृष्टफलानि ।
यः शृणोति वचनानि गुरूणां
तं न जातु विपदेति न यज्ञम् ।। ४७ ।।
ऋश्यमूकमितवत्यरिवीरे
त्वं तदैव घटनामकरिष्यः ।
यद्युपेत्य कुलिशायुषसूनुं
नाभविष्यदियमत्र विपत्तिः ।। ४८ ।।
सम्पतन्ति कपयोऽस्य न यावत्
तावदेनमभिगम्य सवेगम् ।
विग्रहीतुमपि युक्तमभूद्व-
स्तत्कृतं न हदयेषु मदेन ।। ४९ ।।
आसनं तव रसातलमेत्य
स्तोककालमसुराधिपबन्धो ।
युक्तमत्र परिणश्यति याव-
ज्जीवितेन बलमप्रतिबन्धम् ।। ५० ।।
प्रेरणाय दिवसस्य नयज्ञै-
र्व्याहृतस्य भवताऽत्र विधातुम् ।
द्वैधमुग्ररिपुसैन्यसमुद्र-
ग्रस्तसर्वविषयेण न शक्यम् ।। ५१ ।।
सद्धनेन पणबद्धमरातौ
कल्पयन्ति बलभाजि नयज्ञाः ।
तत्प्रियावितरणेन यदि स्यात्
सिद्धिरत्र परमोऽयमुपायः ।। ५२ ।।
त्वय्यलङ्घ्यनलकूबरशाप-
क्रूरवज्रपतनं न न वेत्सि ।
केवलं तु कुलहिंसनहेतोः
पासि विष्णुतुलितस्य कलत्रम् ।। ५३ ।।
अस्ति काचिदिति नूनमनूना
राघवेऽपि तव दुर्जयशङ्का ।
येन वर्णिवपुरेत्य कलत्रं
तस्य हर्तुमभवत्तव यत्नः ।। ५४ ।।
तस्य दूतमपि वेत्सि च येन
पातितस्तव सुतोऽक्षकुमारः ।
इत्युदारमभिभाष्य स तूष्णी-
मास्त मौनमुचितं खलु मूर्खे ।। ५५ ।।
इतीरितं मातृगुरोर्वचस्तत्
प्रशंसतः संसदि यातुधानान् ।
अङ्गारवर्षेरिव लोचनानां
व्रातैः किरन्निन्द्ररिपुर्बभाषे ।। ५६ ।।
पथ्यं तथा तथ्यमयं व्यपेतं
वशी विशङ्कं वदतु प्रसह्य ।
निन्दन्ति ये तद्व्यपदेशलाभात्
तद्दत्त औष विनष्टिमुष्टिः ।। ५७ ।।
शङ्काकृतो मस्करिवेषलक्ष्म्या
वयं न संचस्करिमात्मरूपम् ।
मा योषितं नीनशदुग्रमग्रे
दृष्टं वपुस्तामिति गोपितं नः ।। ५८ ।।
विनोपभोगं भवने भवन्तु
सीतादयो मे वशगाश्च देव्यः ।
अनन्तकोशस्य नृपस्य रलं
शिखान्तमारोहति किञ्चिदेव ।। ५९ ।।
दिग्दन्तिदन्तायुधभिन्नरत्न-
केयूरबन्धज्वलितासपीठः ।
सोऽयं भुजो मे पणबन्धबुद्धिं
युद्धैकलुब्धो न ददाति कर्तुम् ।। ६० ।।
यं शक्रः प्रतिपद्य खण्डितबृहद्धामाऽऽनतो मानतो
विभ्रष्टैरुपवीज्यते प्रतिदिनं यश्चामरैश्चामरैः ।
कातर्यातुरचेतसः प्रति कथा च मानवान्मानवा-
न्विष्णुस्तं न जयेज्जितद्विरदराड्वैरावणं रावणम् ।। ६१ ।।
कर्तुं शक्तोऽहमाजौ शरभमुखगतं न्यङ्कुमारं कुमारं
नो वै मन्ये तृणाय त्रिभुवनमखिलं संहरन्तं हरं तम् ।
युद्धे वेदाम्बुनाथं प्रथमतरजितं पाशवन्तं शवं तं
काऽऽस्था जन्येषु भीत्या
तरलतरदृशी स्यां नरे वानरे वा ।। ६२ ।।
भीमं सङ्ग्रामभूमौ रिपुकुलजयसंयोगदाया गदाया
वक्षःशैलेन सोढ्वाऽचलितगुरुधृतिः कम्प्रहारं प्रहारम् ।
लीलोदस्तैकहस्तक्षतदलितमुखच्छिन्नदन्तं नदन्तं
सोऽहं नेतुं समर्थो भुजतरुघटनाबन्धने शं धनेशम् ।। ६३ ।।
एवं नेतुं न शक्त््यो नयविदुशनसा यः समोहं समोहं
निर्दोषो वः समूहे क्षितिपतितनयं यानवन्तं नवन्तम् ।
तद्यातेति प्रतस्थे कुलिशहतकृतव्यासमासे समासे
न्यस्य स्कन्धे पतन्तं त्रिदशजनवधूहासहारं स हारम् ।। ६४ ।।
इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
पञ्चदशः सर्गः ।।
षोडशः सर्गः
अथ दिवसविधेयमिन्द्रशत्रो-
र्निरवसितं प्रतिहारतो विदित्वा ।
अनुमतिमधिगम्य तस्य भानु-
र्गिरिमपरान्तमहार्णवस्थमीये ।। १ ।।
अरुणकरदृढावकृष्टरश्मि-
प्रणमितकन्धरभुग्नचारुघोणाः ।
दिवसकरहया गिरीन्द्रभित्ते-
र्जघनपतद्रथनेमयोऽवतेरुः ।। २ ।।
सरभसनिपतद्वनान्धकार-
भ्रमरकुलैरवलुप्यमानमूर्तिः ।
अपसरणविधौ समीहमानः
पयसि भयादिव मज्जति स्म भानुः ।। ३ ।।
अरुणितमथ सन्ध्यया मुहूर्तं
तदनु तमोभिरुपात्तकोशरन्ध्रम् ।
कुमुदमलिगणो ददर्श दूरा-
दरुणसितेतरवारिजाभिशङ्की ।। ४ ।।
सरसिजमणिवेदिकासु भिन्न-
प्रचुरतरङ्गकणावकीर्णपाते ।
उपवनसरसीरुहं दिनान्ते
हतमिव शीतरयेण संचुकोच ।। ५ ।।
द्रुतमपसरतैति भानुरस्तं
सरसिरुहेषु दलार्गलाः पतन्ति ।
भ्रमरकुलमिति ब्रुवन्निवालिः
क्वणितकलं विचचार दीर्घिकायाम् ।। ६ ।।
सति दिवसपरिक्षयस्य योगे
निपतितसद्वयसस्तमोऽभिभूताः ।
नमितचपलमस्तका बभूवुः
समुपहता जरसेव वृक्षगुल्माः।। ७ ।।
विगलितवति तिग्मभासि सन्ध्या-
परिगतलोहिततारकं नभस्तत्
त्रिदशशरशतव्रणावकीर्णं
हृदयमनुव्रजति स्म रावणस्य ।।८।।
दिवसकरभयादिवावलीनो
जलधिजलान्तरितस्तुषाररश्मिः ।
रविरपचलितो न वेति बोद्धुं
नभसि करानिव चारयाम्बभूव ।। ९ ।।
प्रथमगमितमन्वकारिभावं
पुनरतिपिङ्गलतारकं विधाय ।
भुवनमथ कलात्मना समस्यं-
स्त्रिनयनरूपमलम्भयत्प्रदोषः ।। १० ।।
दिवसविगमलम्बितस्य भानो-
रवनतिरुन्नतिरिन्दुमण्डलस्य ।
अविकलवपुषः समानकालं नभसि
तुलामधिरूढयोरिवास्ताम् ।। ११ ।।
उदयमरुणिमा परित्यजन्तं
प्रविसृजति स्म शशांकमच्छबिम्बम् ।
चषकममलमिन्द्रदिङ्मुखेन
स्फटिकमयं मधुनीव पीयमाने।। १२ ।।
शठमिव दयितं दिशः प्रदोषं
मुहुरघिगम्य रुषेव भिन्नवर्णाः ।
स्थितमुपरि पयोधरस्य सन्ध्या-
विलसितकुङ्कुममण्डनं ममार्जुः।। १३ ।।
क्षिपति दिशि पयोधरं निशान्ते
रहयति किं तिमिरोत्तरीयमाशा ।
इति रचितविपर्ययस्य साक्षि-
स्फुटमिव कौमुदमाततान हासम् ।। १४ ।।
परभृतरुचितामसं हिमांशो-
रुदयगिरेरुदितस्य मण्डलेन ।
अतिपटु पटलं विपाट्य विश्वं
विवरगते निहितं नु संहतं नु ।। १५ ।।
इह हरिणकलंककान्तिलेशैः
सह पतिता मृगलक्षणस्य कान्तिः ।
अलिभिरवनतैर्न्यधत्त वापी-
कुमुदवनैरिति शङ्कितं जनेषु।। १६ ।।
अचिरसमुदिताय हारगौरै-
र्हिमशिशिरैरनुगृह्णते करौघैः ।
उदकलवपरम्पराभिरर्घ्यं
शशिमणितोरणमिन्दवे ततान।। १७ ।।
द्युतिभिरवजितो निशाचरीणा-
महमतुलस्य न केवलं मुखस्य ।
अयमपि हरिणो जितः कटाक्षै-
रिति जगतामिव दर्शयन्मृगाङ्कः ।। १८ ।।
घृणिभिरधिपुरं पुरः सुवेल-
क्षितिधरमस्तकजर्क्षरैः पतद्भिः ।
प्रमदमथ मनो नितम्बिनीना-
मभिनवनिर्भरशङ्कया वितन्वन् ।। १९ ।।
मनसि मनसिजं मनस्विनीना-
मविरलमुन्नमयन्निजेन धाम्ना ।
द्विपदशनरुचिः पदं कलाना-
मुदयगिरेरुदियाय दिक्प्रदीपः ।। २० ।।
गगनसरसि चन्द्ररूप्यकुम्भे
व्यपसरति स्म निपातिते रजन्या ।
तदुपहिततरङ्गधूतनीली-
निकर इवातिघनस्तमःप्रवाहः ।।२१।।
सुरकरिण इवाहतः करेण
प्रविततसन्तमसाम्बुराशिरिन्दोः ।
अनुपहतगतिर्दिगन्तवेला-
वलयवनानि विलङ्घयन्प्रतस्थे ।। २२ ।।
प्रियविरहसमागमाश्रयाणां
मुखकमलानि निशा नितम्बिनीनाम् ।
उदितवति शशांकचन्द्रबिम्ब-
द्युतिभिरिवोडुपतावलञ्चकार ।। २३ ।।
पथिकयुवतिदृष्टयोऽनुजग्मुः
सरसिजरागमणिश्रियं रुचैव ।
शशिनि समुदिते शशाङ्ककान्तं
किरणवृतं क्रिययाऽपि दर्शयन्त्यः ।। २४ ।।
अपिहितसलिलेन निष्प्रदेशं
कुमुदवनेन कुमुद्वती विरेजे ।
घननिपतितभृङ्गचित्रभासा
मृगरिपुचर्मकृतावकुण्ठनेन ।। २५ ।।
निशि पयसि पदानि कुर्वतीषु
ग्रहनिकरप्रतिमासु मल्लिकाक्षः।
इतरमपि जलाशयं निकूजन्
समुपससार कुमुद्वतीति हष्टः ।। २६ ।।
इति तुहिनरुचौ विकीर्णधामि्न
प्रचुरतमोभिदुरस्यरश्मिजाले ।
मनसि मकरकेतनस्य यूनां
विलसितमात्मनि विक्रिया विवव्रुः ।। २७ ।।
स्वयमपि विरचय्य पत्त्रभङ्गी-
र्वदनहिमद्युतिलक्षणं कयाचित् ।
चिरयति हृदयेश्वरे रमण्या
नयनजलेन फलच्युता निरासे ।। २८ ।।
न भवति दयितस्य सन्निकर्षे
फलरहितो विरहे किमस्य रागः ।
इति मनसि निधाय यावकेन
व्यरचयदन्यतरा न दन्तवासः ।। २९ ।।
इतरयुवतिपादघातचिह्नं
सरससमर्पितयावकं पदं यत् ।
उरसि न दयितस्य तद्विवेद
स्फुटमणिकुण्डलरागरुद्धमन्या ।। ३० ।।
प्रियवचनविधायिनी न भर्तु-
श्चलदलकच्युतचूर्णलेशमक्ष्णोः ।
मदनसमुचिताङ्गसङ्गिदृष्टे-
र्व्यपनयति स्म मुखानिलेन काचित् ।। ३१ ।।
सुरपतिरिपवः प्रियानिरस्त-
श्रवणसरोरुहनिर्वृतेऽपि दीपे ।
रतिषु ददृशुरेव काञ्चिरत्नद्युति-
परिभिन्नतमिस्रमूरुमूलम् ।। ३२ ।।
विवसनविहितोपगूहनानां
घनजघनस्तनकुम्भकुङ्कुमेषु ।
अपि परिगलितेषु कामिनीनां
न विगलितानि तनूदराश्रयाणि ।। ३३ ।।
चरणतलसरोरुहेण यत्त्वं
प्रहृतवती शिरसि प्रिया हि कोपे ।
स किल परमनिग्रहः प्रसादे
हृदि रचिते तव कीदृशो नु लाभः ।। ३४ ।।
अधरपुटमिदं मदार्तरामारभस-
समर्पितदन्तखण्डितं ते ।
अयि शठ परिशान्तये रुजाया
नयनजलेन निषिञ्चसि प्रसक्तम् ।। ३५ ।।
करकिसलयगोपितं मुखं स्वं
किमिह विधाय वदस्यलं ममाग्रे ।
तिरयसि दशनक्षतं प्रियाया
वयमुत गौरवभाजनं किमेवम् ।। ३६ ।।
इति वचसि रुषा परिस्खलन्त्यः
प्रणयिषु राक्षसयोषितो विपक्षैः ।
परिमिलित१विसर्जितेषु रूक्षं
नयनजलग्रथितं वचो वितेनुः ।। ३७ ।।
अपि तव दयिते समीपभाजि-
श्वसितरयग्लपिताधरस्य कान्तिः ।
चरणनिपतिते निपातितस्ते
न च करुणापरिमन्थरः कटाक्षः ।। ३८ ।।
स्तनतटनिहितः करोऽवधूतः
परिगदिते समधिश्रितं च मौनम्
विहसितमपि सान्त्वने सरोषं
प्रणयिजने युवतेरयं हि दण्डः ।। ३९ ।।
सखि जहिहि रुषं हिनस्ति पश्चात्
तव तरलं हदयं पुरानुतापः ।
इति निपुणसखीगिरा निरासे
मनसि निशाचरयोषितोऽभिमानः ।। ४० ।।
यदि चिरयति दूति वल्लभो मे
भृशमजनि त्वयि किं रुषोऽवकाशः ।
निजमतिरभसं यतो विदश्य
क्षतिभिरिमं समयूयुजस्त्वमोष्ठम् ।। ४१ ।।
मधुकुसुमविलेपनादिभाग-
ग्रहणविदर्शितसौहृदस्य वृत्त्या ।
अयमपि च सखि स्वयं हतस्ते
प्रियपरिभोगसुखस्य संविभागः ।। ४२ ।।
दशनपदमतिस्फुटं विभाति
स्फुरति तनुश्रमवारिसिक्तमास्यम् ।
अवितथमभिधस्त्व कामिनि त्वां
कुटिलगतिर्ननु दष्टवान्भुजङ्गः ।। ४३ ।।
अवितथमिदमात्मनिर्विशेषा
सखि भवसीति वचः पुरा यदुक्तम् ।
अभिदयितमनुष्ठितं त्वया हि
स्वयमखिलं मम यत्नतो विधेयम् ।। ४४ ।।
इति रचितरुषः सहासगर्वं
श्रमजलबिन्दुचितं सुखं दधत्याः ।
श्रवणकटु निशाचरस्य वध्वा-
श्चलितधृतेरुपदूति वाग्जजृम्भे ।। ४५ ।।
श्वसितहतरुचिर्वराधरोष्ठः
करतलसङ्क्रमितश्च पत्रलेखः ।
निजगदतुरुपागते चिरेण
प्रणयिनि राक्षसयोषितः प्रचिन्ताम् ।। ४६ ।।
विफलपरिकरा विधाय दूती-
स्तदनु समेत्य च पृष्ठतो निलीनैः ।
युवतिनिगदितं सरोषगर्वं
परिहृषितैरुपशुश्रुवे तदीशैः ।। ४७ ।।
क्षतिरियमधरस्य यत्सुरासु
स्रुतसहकाररसाहिता तदस्तु ।
अतरलहृदयस्य गण्डबिम्बे
तव कतरोऽद्य नखक्षतस्य हेतुः।। ४८ ।।
युवतिनयनचुम्बितेषु पक्ष्म-
प्रविरचिता पटुरञ्जनस्य राशिः ।
तव चपल निरूपिता नवोद्यत्-
प्रविरलरोम्णि कथञ्चिदुत्तरोष्ठे ।। ४९ ।।
युवतिमुखगतेन लोचनेन
स्फुटमपि मे न शृणोषि जल्पितानि ।
मुखमधुर भुजङ्ग येन सत्यं
कुटिलगते नयनस्रवोऽसि जातः ।। ५० ।।
इति मनसिजचञ्चलं युवानं
रजनिचरप्रमदा निरूपयन्ती ।
अनिमिषनयना सहासगर्वं
प्रणयरुषा चतुरं वचो बभाषे ।। ५१ ।।
स्वतनुवितरणेन तं प्रलोभ्य
द्विपमिव वन्यमिहोपनेतुकामा ।
सखि गजगणिकेव चेष्टिताऽसि
स्फुरति हि सज्जन एव मित्रकृत्ये ।। ५२ ।।
अकरुणमधिगम्य तं मदर्थे
विशसनमेवमसह्यमास्थितायाः ।
क्षतमिदमधरस्य केवलं ते
मम हदयस्य सखि व्यथा तु तीव्रा ।। ५३ ।।
इति सखिहसिता कृतव्यलीका-
मरुणितलोचनवक्त्रचन्द्रबिम्बा
सुररिपुवनिताऽपदिश्य दूती-
मकृत गिरः परुषा रुषा परीताः ।। ५४ ।।
सरसिजमणिकुन्तलोपयुक्तं
मधु पपुरङ्गजमन्थरा युवत्यः ।
कथमपि परिनिस्सृतस्तदीयो
रस इति मुग्धतया विशङ्कमानाः ।। ५५ ।।
हृदयवदनलोचनेषु तासां
मधु मदगन्धवपुःश्रियं निधाय ।
श्रमसलिलकणच्छलेन शुद्धं
बहिरभवच्छरपाण्डुगण्डबिम्बात् ।। ५६ ।।
मुकुलयति सितेतरं सरोजं
शशिनि समग्रकलास्पदे तदीयः ।
असितकुवलयद्युतिं कुरङ्गः
प्रतिनिधिरत्र ततान शीधु पात्रे ।। ५७ ।।
प्रियगुणशतजर्जरेव पूर्वं
मधुषु चिरं परिपीतवत्सु लज्जा ।
न युवतिहृदये पदं विधातुं
मदनमदस्थितिसङ्कटे विषेहे।। ५८ ।।
अभिनवरविबिम्बलोहिनीभि-
र्द्युतिभिरभिन्नतया मनोहराभिः ।
सरसिजमणिशुक्तिषु प्रणष्टं
युवतिजनैर्मधु गौरवेण जज्ञे ।। ५९ ।।
स्वयमथ पवनेन सौधपृष्ठे
हतरजसि प्रतिहारचोदितेन ।
किरणमनुपहत्य शीतभासः
क्षणमुपगम्य पयोधरैर्निषिक्ते ।। ६० ।।
सुरयुवतिकदम्बकस्य गीतै-
रनुगततुम्बुरुवल्लकीनिनादैः ।
सपदि परिवृतः समन्मथेन
त्रिदशरिपुः प्रमदाजनेन रेमे ।। ६१ ।।
मधु विनमितशातकुम्भफुम्भ-
स्रुतमखिलाननसक्तहेमशुक्तिः ।
सपदि दशमुखः पिबन्विजिग्ये
सलिलनिधिं दशदिङ्नदीः पिबन्तम् ।। ६२ ।।
ततविततघनादिवाद्यजातै-
र्निजकरसन्ततिवादितैः स एकः ।
त्रिविधलयपरिग्रहेण वक्त्रै-
र्युवतिमवर्तयताष्टभिश्च गायन् ।। ६३ ।।
प्रतियुवतिविषक्तबाहुपङ्क्ति-
र्दशवदनागततन्मुखारविन्दः ।
सममथ परितः प्रिया निषण्णाः
परिरमयन्न ददौ रुषोऽवकाशम् ।। ६४ ।।
इतरयुवतिदष्टदन्तवासा
वदनततिस्थितसीकृतिः प्रियाभिः ।
नवसु मनसिजन्मना शिरःसु
क्षतधृतिभिर्दयितो रुषाऽभिजघ्ने ।। ६५ ।।
शठ यदि चषकीकृतं मुखं मे
किमधरमद्य विखण्डयस्यकाण्डे ।
भवति मधु निपीय भाजनाग्र-
ग्रसनरतिर्नहि कञ्चन प्रमत्तः ।। ६६ ।।
पिबति कथमिवापरा युवत्या
दशनपदैः परिमुद्रितं तवोष्ठम् ।
इति युवतिजनेन राक्षसेन्द्रः
स्फुटरचितभ्रुकुटीपताकमूचे ।। ६७ ।।
अथ कटकनिवासदृप्तनागः
प्रविततधातुविभूषितः सुमेरुः ।
द्युतिमभृत पुरत्रयस्य भेत्तुः
शिरसि मुहुः स्थितशीतरश्मिबिम्बः ।। ६८ ।।
त्रिभुवनभयरोगदानवन्तं
द्विपमिव निर्भयमेत्य दानवं तम् ।
नवशशधरकोटिधामदन्तं
दधतमगुः सुरमागधा महन्तम् ।। ६९ ।।
मेरोः शृङ्गं तुहिननिकरस्पर्शशीतः शशीतः
पृथ्वीभागोऽप्यरुणकिरणैर्व्यस्तमस्तः तमस्तः ।
धून्वन्पङ्क्तिं वहति कुमुदप्रेमलीनामलीना-
मस्यन्वीचीनिलयमनिलः सारसं तं रसन्तम् ।। ७० ।।
लब्ध्वा मुञ्चत्युदधिरुदकह्रासवेलां स वेलां
याता निद्राविगमविरुतीश्चाविरामा विरामाः ।
पाण्डुच्छायामुपयति दिशामानने तं न नेतं
ताराचक्रं विगतकिरणोद्भासमस्तं समस्तम् ।। ७१ ।।
ऋक्षश्रेण्यां पिहितपरिघोल्लङ्घनायां घनायां
सौमित्रौ चागतवति रिपुत्रासहेतो सहेतौ ।
को रामे च घ्नंति परभटं तत्सहस्ते सहस्ते
किं तत्सैन्ये प्रहरति रिपुच्छिद्यशेषेऽद्य शेषे ।। ७२ ।।
रक्षोलोकविनाशनेषु रहितच्छेदं सितो दंसितो
दृप्तः पाणियुगेन दुस्तरतरस्वर्हेतिना हेतिना ।
युद्धायोपगतः करोति मनसां कम्पं स नः पांसनः
सेयं मानद तावदश्रुतपुराक्रोशायिता शायिता ।। ७३ ।।
नक्तं नक्राबिवासं कुसुमशरशतत्रासितानां सितानां
क्रीडायामङ्गनानां धनकुचकलशैः कातरं तं तरन्तम् ।
उत्थाप्यैवं ततस्ते सततरतिसुखव्यासकामं सकामं
तूष्णीमासन्सशङ्खध्वनिपटहरवज्यानिशान्ते निशान्ते ।। ७४ ।।
इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
षोडशः सर्गः समाप्तः ।।
सप्तदशः सर्गः
प्रणम्य भक्त््याऽथ पितामहं महं
विधाय बद्धादरमग्नये नये ।
स्थितः सुवेलादचिरादगादगा-
दजस्य बन्धुः समरक्षमां क्षमाम् ।। १ ।।
द्विषोऽपि तस्यारिनिवारणे रणे
विधित्सवः पौरुषदर्पदं पदम् ।
हुताशनानि द्युतिभासुरेऽसुरे
विधिं वितेनुर्बलिसंहितं हितम् ।। २ ।।
अथाञ्जनक्ष्मावरपीवरो वरो
गतः सुहृद्वक्त्रविकासदः सदः ।
इमानि वाक्यानि दशाननो न नो
जगाद वह्निप्रविकासभां सभाम् ।। ३ ।।
यथा भवन्तो मयि धीरतारता
हिताह्वयं प्रेमसुशीभरं भरम् ।
वहन्ति नैवं जननी सती सती
प्रियात्मजे नाप्यनुकम्पिता पिता ।। ४ ।।
तदेतदस्मिंस्तु कथं भवे भवे-
दनेकशो यन्मयि नाहितं हितम् ।
असौ च कीर्तिर्भुवि सा नयानया
गणेन वो मामभिरक्षताऽक्षता ।। ५ ।।
प्रसह्य शक्त््या हृतवैभवं भवं
भयं विधातुं च विवस्वतः स्वतः ।
भवस्तु नित्यं ननु शक्तता तता
तथाऽपि मानेन न साधुनाऽधुना ।। ६ ।।
बलेन वस्तेन भयानकेन के
रणस्य भीमस्य बभञ्जिरेऽजिरे ।
प्रकम्पते येन कृते रवे रवे-
रनूनभामातलिसारथी रथी ।। ७ ।।
पुरेव यूयं युधि कातरेतरे
जनादितस्तीव्रमसुन्दरं दरम् ।
बले रणस्थे युगलोचनश्च नः
पिशाचिकाताण्डवलासकः स कः ।। ८ ।।
युधि प्रचेता विषवाहिनाऽहिना
जनस्य कण्ठे कृतशृङ्खलः खलः ।
सलीलवीक्षाविधितर्जितो जितो
भवद्भिराक्रोशहुताशनैः शनैः ।। ९ ।।
प्रकाशितक्रोधसमुद्भवो भवो
गणध्वजिन्या च समन्ततस्ततः।
प्रयात्यसौ भीतिमजय्यतो यतो
न कोऽपरस्त्रस्यति हस्ततस्ततः ।। १० ।।
परद्विपासृक्स्रवलोहितोहितो
निकृत्तविद्याधरचारणे रणे ।
उमासुतः शक्तिवियोजितो जितो
भवद्भिरभ्रध्वनिभैरवै रवैः ।। ११ ।।
जयन्त्यमित्रा युधि सन्नयं नयं
समुन्नतो यत्र च शूरता रता ।
तमप्यवश्यं मदवर्जितं जितं
गुरुं भवद्भिः क्षतविग्रहं ग्रहम् ।। १२ ।।
धनाधिपः संयति वामतो मतो
जहाति नित्योन्नतशासनः स नः ।
प्रपद्य सन्नीतिमहाबलं बलं
रणार्थिदीक्षाविघिसंवरं वरम् ।। १३ ।।
बलद्विषः प्रोच्छ्रितगोपुरं पुरं
जयद्भिरुन्मूलिततोरणे रणे ।
स्थितैर्भवद्भिर्बलधामदे मदे
न सङ्गृहीता रिपुभङ्गदा गदा।। १४ ।।
रणे हताखण्डलपौरुषो रुषो
रयेण तन्वन्महति स्वरं स्वरम् ।
सुरेषु को नारिभयङ्करं करं
व्यपातयद्यो जयभागुरुं गुरुम्।। १५ ।।
जिता न शक्त््या युधि भीमया मया
सविष्फुलिङ्गायुधसञ्चया च या ।
असौ भवद्भिः कृतयाचिता चिता
मरुच्चमूरङ्गिषु नामिताऽमिताः ।। १६ ।।
निरीक्षितः को जितदानवो नवो
नृपध्वजिन्या यमशङ्कया कया ।
असौ न लीना पतिशोकदा कदा
समेत्य वः स्वीकृतभीरुता रुता ।। १७ ।।
रणस्य युक्ता फणबन्धुरा धुरा
वितन्वती दर्शितरंहसं हसं ।
भुजङ्गसेना प्रियसंयता यता
बलेन वो वासुकिचोदिता दिता ।। १८ ।।
अनन्तनाम्नश्च फणावतोऽवतो
विषैरमित्रानभिहिंसतः सतः ।
स्थितस्य तेजस्यविखण्डितेडिते
रणे भवद्भिः स्फुरदीहता हता ।। १९ ।।
इति प्रतापैररितापदं पदं
श्रितैर्भवद्भिः सह सेनयाऽनया ।
स जीयतां संयति मानवो नवो
गृहीतमौञ्जीकृतमेखलः खलः ।। २० ।।
यमेत्य नष्टः कुलशेखरः खरः
कृतं च मे वैरमसाघुनाऽधुना ।
अनेन दर्पादभिभाविना विना
विनाशनीयो भुवि कोऽपरः परः ।। २१ ।।
यशोविनाशेन विलज्जितो जितो
रिपुप्रवीराङ्गविदारणे रणे ।
न सम्मुखं तिष्ठति वासवः स वः
कथैव चासम्भृतवानरे नरे ।। २२ ।।
यशस्युपेते मम तानवं नवं सहे
न दैन्यं बलहानिजं निजम् ।
करोमि यद्यङ्घ्रियुगानतं न तं
जुहोमि हस्तौ कटकोचितौ चितौ ।। २३ ।।
मुखं मदीयं मम षट्पदा पदा
विहन्यते फुल्लकुशशेयाऽशया ।
असौ दहन्ती स्मरधामनो मनो
हतं निरीक्षेत सदेवरं वरम् ।। २४ ।।
सुता नरेन्द्रस्य सबान्धवं धवं
निरीक्ष्य युद्धे महतीह तं हतम् ।
बलानुरक्ते मयि मद्विधा द्विधा
प्रयातु शोषं व्रजतो रसा रसाम्।। २५ ।।
सभैवमुक्ताऽवनिकम्पदं पदं
वितन्वती शात्रवमाकुलं कुलम् ।
विधातुकामा स्फुरदङ्गदाऽगदा
शुभाऽथ हारेण विवल्गता गता ।। २६ ।।
जगाम कश्चिन्निजवेश्मनो मनो
निधाय तन्त्या मृदुबालकेऽलके ।
भृशं किरन्त्याऽश्रु पयोधरेऽधरे
निरीक्ष्यमाणो बहुचिन्तया तया ।। २७ ।।
विलासिनीपायितसत्सुरोऽसुरो
वहन्नुरःकुङ्कुमचर्चितं चितम् ।
ययौ विमानादतिपानतो नतो
निगृह्य भूचुम्बनलम्पटं पटम् ।। २८ ।।
तथाऽपरः कङ्कटशोभितोऽभितो
घृतं विसर्पन्मदवासितं सितम्
रणाय बद्धांशुकसुन्दरोदरो
गजं जगामासुरयोनिजं निजम् ।। २९ ।।
द्रुतं दृढैर्वर्मभिराततस्ततः
समारुरोहाहवतत्परः परः ।
सृजन्तमाधोरणकामदं मदं
बलं दधानं मदवेगजं गजम् ।। ३०।।
कृता बलौघेन तथाऽयताऽयता
रजस्ततिः प्रावृतदिग्घना घना
यथा रवेरश्वपरम्पराऽपरा
ययौ निमज्जत्सुरमालयाऽलया ।। ३१ ।।
ततो विनिर्गम्य बलं पुरः
पुरःस्थितं ययौ विग्रहवद्विषं द्विषम् ।
कपीन्द्रमाजौ विहितत्वरं त्वरं
वहन्तमन्तःस्थितपन्नगं नगम् ।। ३२ ।।
उपेत्य गत्या मदमन्दयाऽदया
वनौकसः स्वीकृतशोभयाऽभयाः ।
प्रवालशोभाजितविद्रुमैर्द्रुमैर्दृढं
निजघ्नर्गिरिसन्निभानिभान्।। ३३ ।।
असृक्स्रवैराहवदारुणाऽरुणा चचार
दीप्ता निजवर्चसा च सा
पताकिनी वीतभयामयो मयो
विनिर्जिता संयतिमाययौ ययौ ।। ३४ ।।
द्विषद्भिरन्तःस्थमहोरगैरगै-
र्हतस्य कस्यापि समन्ततस्ततः ।
सचर्ममांसे हि विदारितेरिते
गतायुषः प्रस्फुरदस्थिता स्थिता ।। ३५ ।।
विभिद्य कश्चिद्विजखर्वटं वटं
शिखाभिरम्भोदवितानगं नगम्
मुमोच सैन्यस्य भयं दिशन्दिशं
निनादयन्संयति तारवै रवैः।। ३६ ।।
विपाट्य वेगादितरो नदं नदन्
निपात्य शैलं जितभूभुजैर्भुजैः।
रुरोध कस्यापि गदाकृतीः कृती
ययौ स भूमिं रथपक्षतः क्षतः ।। ३७ ।।
पतद्भिरस्त्रैरभिदारितोऽरितो
भुवो परः शोणितशीतले तले ।
अशेत सर्पद्दशनांशुना शुना
हतो विलुप्तः परिराविभिर्विभिः ।। ३८ ।।
तथाऽपरो भूरुहधारिणाऽरिणा
हतो दृढं कुङ्कुमपिङ्गले गले ।
विवृत्तदृष्टिर्युधि मोहितो हितो
महीतलं शोणितमिश्रितः श्रितः ।। ३९ ।।
बहून्निहत्य द्युतिभासिनाऽसिना
पपात पश्चादसुहारिणाऽरिणा
नगेन कुन्तस्थितभोगिनागिना
हतः स्फुरन्मस्तककर्परः परः ।। ४० ।।
निजैर्बलैरेव सुरक्षितौ क्षितौ
वितत्य तेजोजितभास्करौ करौ
अशेत कश्चिज्जितवैरिणाऽरिणा
हतो रणे विक्रमवस्तुतः स्तुतः ।। ४१ ।।
इति क्षताः फेनवसासृजोऽसृजो
रुचिप्रतानेन सुचारुणाऽरुणा
पिशाचसेना पुरमुद्रुतं द्रुतं
ययौ समेऽपि स्खलितापदा पदा ।। ४२ ।।
एवं सैन्यं निजमधिगतत्रासमस्तं समस्तं
श्रुत्वा रोषज्वलितवदनो भासमानः समानः ।
लङ्कानाथो नृपसुतमपानीतदारं तदाऽरं
हन्तुं युद्धे तनुजमवदद्भीमहासं महांसम् ।। ४३ ।।
इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
सप्तदशः सर्गः ।।
अष्टादशः सर्गः
सङ्ग्रामं शक्रजिद्यास्यत्प्रादक्षिणयदीश्वरम् ।
स्निग्धमालोकितः पङ्त्या तस्यैव परितो दृशाम् ।। १ ।।
प्रणम्य च ततो भक्त््या विज्ञाय समयं मयम् ।
निर्जगाम पुरः कर्षन्केतुभिः शबलं बलम् ।। २ ।।
क्वणन्तश्चक्रितैश्चापैरसृग्गन्धकृतौजसः ।
घोरेषुविततिं तत्र सृजन्तश्चक्रिरे रणम् ।। ३ ।।
गूढचतुर्थम् ।।
नगनिर्भिन्नमातङ्गघटाघटमुखोत्सितैः ।
युद्धमासीद्दुरालोकं स्नातयौधमसृग्जलैः ।। ४ ।।
रजस्सन्तमसाच्छित्त्वं विततार परिज्वलन् ।
ग्रावप्रहतमातङ्गःदन्तकोशोद्भवोऽनलः ।। ५ ।।
सारासिरुरुसूरूराः सारासारासुसूरसः ।
ससार सारा ससुरा सारिसार ससार सः ।। ६ ।। द्व्यक्षरम् ।।
एत्य शोणितसंसिक्तरजश्छेदेन दर्शितौ ।
बबन्ध रावणिर्वोरौ राघवौ भोगिपाश्यया ।। ७ ।।
विवेश पुरमेवाथ नद्धे तत्र निरादरः ।
गत्या विजितमातङ्गमन्थरक्रमहेलया ।। ८ ।।
दधानौ नृपती खिन्ने शतधा मनसी तया ।
दृष्टां विवशया नाति शतधाम न सीतया ।। ९ ।।
पादयमकम् ।।
विराजन्तमिदं दीप्त्या विराजन्तं स्मृतिक्षणे ।
सहसन्नासितो भ्रात्रा सहसन्नाख्यदागतम् ।। १० ।।
आदियमकम् ।।
पक्षिराज तयामेय हिंसारागहितान्तक ।
कन्तताहि गरासाहिं यमेयातजराक्षिपः ।। ११ ।।
प्रतिलोमम् ।।
इत्युक्तगरुडग्रस्तपन्नगाहितविस्मयैः ।
आस्फोटस्फोटितानीकथुतिरेसे कषोश्वरैः ।। १२ ।।
रुरोरारैररीरोरि हीहोहाहाहिहीहही ।
ततोतात्तुत्तितोतोतौ विववावववावव ।। १३ ।।
प्रासानुप्रासः ।।
कुम्भकर्णोऽथ रक्षोभिरबोधि हदि ताडितः ।
स्वयंकृतखरक्राथवातधूतैः कथञ्चन ।। १४ ।।
उपाविशत्पुरो वप्रभूधरस्य शिरस्तटान् ।
सङ्ख्ये दृष्टिं समासज्य क्रोधेन विकृताननः ।। १५ ।।
आसादितरसास्वादक्षतस्रुतिरगोत्किरः ।
ससार तरसा पादघातपातितगोपुरः ।। १६ ।।
गोमूत्रिका ।।
शिरांसि कृतटङ्कारं चर्वतोऽस्य वनौकसाम् ।
सिषेच शोणितं वक्षः सद्यः सन्त्यज्य सृक्वणीम् ।। १७ ।।
तच्छूलपातनिर्भिन्नपिष्टशिष्टा महाचमूः ।
अङ्गदेन पितुर्धीरं जगदे विद्रुता दिशः ।। १८ ।।
सुभासासाति यातात्ति भासुरा दर्पभाविता ।
साराधीरा सशोभाया सादरा युधि सर्पति ।। १९ ।।
अर्धभ्रमः ।।
इयं वः शात्रवी सेना रणे वैमुख्यमागतम् ।
छेत्तुमिछति पुच्छाग्रं कुम्भकर्णपुरःसरी ।। २० ।।
हनुमानातुरो भूत्वा मा गा युध्यस्व निर्भयम् ।
न नु स्कन्नादरोऽसौ त्वा वेगाद्विध्यति निर्दयम् ।। २१ ।।
गोमूत्रिका-मुरजबन्धः ।।
सुते संयति वैमुख्यं याते क्षीरोदजन्मनः ।
सुषेणे लम्भयेदन्यः कस्तत्रास रसज्ञताम् ।। २२ ।।
दोषपात्रपराधीन बलमेषवदक्षम ।
त्वं सशैलेन हस्तेन हीन किं हंसि राक्षसम् ।। २३ ।।
गूढसम्बन्धः ।।
ततं दर्पेण सततं परः सशमतत्परः ।
सत्वाढ्यो बाधते स त्वामरं तेजोजितामरम् ।। २४ ।।
आद्यन्तयमम् ।।
भुनक्ति भवति त्रासस्रस्तहस्तेऽद्य केसरी ।
नैऋतग्राहदन्ताग्रग्रासात्कोऽन्यो वनौकसः ।। २५ ।।
तेन ते सुरसाराशसमा भीतजिताहि न ।
नहिता जितभीमास शरासारसुतेन ते ।। २६ ।।
अर्धप्रतिलोमः ।।
नैकसेयकसन्त्रस्तः सम्पदः खलु हीयसे ।
राज्यं तव जयेनास्तु तदेव गहनं गिरेः ।। २७ ।।
सासारा ससरा सासा सा हसाव्यव्यसा हसा ।
रा सा पा त त पा सा रा स व्य त क्ष क्ष त व्य सः ।।
सर्वतोभद्रम् ।
चमूपतिर्बहिस्तस्थौ सेनया सह सासुरः ।
कुम्भकर्णं प्रतीक्ष्याथो सेनया सहसाऽसुरः ।। २९ ।।
अभिरामाशुगासन्ना सा सेना विभया सती ।
अभि रा मा शु गा सन्ना सा सेना विभया सती ।। ३० ।।
समुद्गयमकम् ।।
गृहेऽपि सुलभो मृत्युः शिवं युद्धेऽपि कस्यचित् ।
प्रभुं त्रासेन ते जन्ये यतस्त्यक्तुमसांप्रतम् ।। ३१ ।।
किं यासि कपिहास्यारं
हा मी त त्रास माकुकः ।
भ सा न र म या का शं
स वी क्ष्या र ण मा र्ग लः ।।
मुरजबन्धेन श्लोकद्वयम् ।।
किं सा सि र पि या स्या
शं हा वी त र स मा कु लः ।
भयानकमहाकारं समीक्ष्यात्राणमार्गकः ।। ३३ ।।
पतत्सु राघवे वैरिविशिखेष्वविशीङ्कितम् ।
पौरुषस्यापरं कालं किं सौमित्रिरुदीक्षते ।। ३४ ।।
हे य हा स र व स्था मा
न से ना वि हि ता र्द न ।
सा त चे त न षा ता सा-
ल व्या किं विभुनासिना ।। ३५ ।।
अनुलोम प्रतिलोमश्लोकद्वयम् ।।
नासिना भुवि किं व्यालसातापानतचेतसा ।
नार्दिता हि विनासेन मास्थावरसहाय हे ।। ३६ ।।
वृहत्फलकरश्रीमांस्तुङ्गको वरवारण ।
किं न गोपतिरेष त्वं प्रथने परमोदयम् ।। ३७ ।।
अर्धचतुष्टयवाची ।।
रणं सद्यशसः क्षेत्रं स्थितस्तेजस्यखण्डिते ।
सन्त्यजन्सह सैन्येन हरिराज न राजसे ।। ३८ ।।
निरोष्ठ्यम् ।।
नयाचारयुतो रामः प्रयासरहितोऽश्रमः ।
न याति रणतो भीमः श्रिया सारश्च्युतोपमः ।। ३९ ।।
जालकम् ।।
सङ्ख्ये१ सङ्ख्यमिहासङ्ख्यशस्त्रसम्पातभैरवे ।
विधत्स्व तस्य लोकोऽन्यः सर्वस्मिन्नसुखे सुखे ।। ४० ।।
यासि सक्षतमस्वाशं शंसिता त्रासमान्यस ।
सदद्धाधमसामास सस्मयागमनुद्धिया ।। ४१ ।।
जालकद्वयम् ।।
सि द्धि क्ष म म या शं स
ना सा – – स द न्य दः ।
स्वा न्यि त त्रा स मा या स
या स नु धा ग म स्म मा ।। ४२ ।।
त्रासेन जहतो जन्ये जनेशं तद्गुणाधिकम् ।
किं न भ्रस्यति शुभ्राभ्रविभ्रमं भवतो यशः ।। ४३ ।।
तरसानधमासारा सातायासवरा स्थिता ।
नरतानसमा धीरा मता हासस्वरानता ।। ४४ ।।
जालकद्वयम् ।।
त ता सा स ध रा सा ता
सा र या न व मा स्थि रा ।
न ता ता स स रा धी
ता म र हा न स्व मा न रा ।।४५।।
भ्रमद्भिर्भूरिभिर्भेरीरवैर्गम्भीरभैरवैः ।
भ्राम्यन्मन्दरमन्थस्थक्षुम्यत्सीरार्णवोपमा ।। ४६ ।।
से भा सु र द र स्व क्ष
ह ना सा प्रा त रा स्व ता ।
भा रा दा ना क पा
पा घ निभा वनधरस्वनः ।। ४७ ।।
जालकत्रयम्
स्व ता पा न स्व घ स्व क्ष
द रा क र ध वा त र ।
सु प्र दा न व ना सा र
सै ना हा हा नि रा ह हा ।। ४८ ।।
स्व पा स्व र स्व रा पा र
र त ना ध न क प्र दः ।
सु ना दा हा व रा सा हा
क्ष ता घ न नि भा ह से ।। ४९।।
कृपाणज्योतिरालोकस्फारदुर्दर्शना तता ।
प्रक्वच्छरसङ्घातसंराबविहितश्रुतिः ।। ५० ।।
सा राक्षसकरस्रस्त-
रामापात्रस्वसाध्वना ।
सा रा सा पा न या गा या भ
सा व न ध र स्व न म् ।। ५१ ।।
जालचतुष्टम् ।।
स्व ध्व गा स्व र या ना स्त
रा मा रा सा ह सा र सा ।
क्ष पा शा प र या सा र
स त्र पा न ष न स्व कः ।। ५२ ।।
स्व ना गा र स्व या ध्व स्त
क सा न र स या स्व र ।
क्ष त्र शा न व पा पा स
स मा सा सा भ रा र रा ।। ५३ ।।
स्व या ध्व र स्व गा गा र
स स्य पा ध न म त्र क ।
पा रा प रा क्ष मा शा सा-
स्त ना या र भ सा र सा ।। ५४ ।।
संहतिर्द्विषतामुग्रग्राववृष्टिप्रवर्षिणः ।
अभिलष्यत्यसौ क्रव्यग्रासगृध्नुर्वनौकसः ।। ५५ ।।
द्विषतामायुधैरेवमस्मदीया पताकिनी ।
विह्वला चलितादित्यद्युतिभिः प्रथने कृता ।। ५६ ।।
त ता ती ति त तो ती ता
ता त ता ता त्त त त्त तौ ।
त तो तो ति त तौ ते तौ
ता ते तु त्ति त ते त तिः ।। एकाक्षरः ।।
इति श्रुत्वा निववृते तां गिरं कपिभिर्दिशः ।
अपथत्याजने साधोर्निन्दा हि निशितोऽङ्कुशः ।। ५८ ।।
ते हिता सुकसत्राससत्रासकसुताहिते ।
तेनुरापदमत्याग गत्या मदपरानुते ।। ५९ ।।
पादप्रतिलोमः।।
आयातामायतां वृष्टिं शृङ्गीशृङ्गन्महीरुहाम् ।
कुम्भकर्णं किरन्तं तं नलनीलौ रणस्पृहौ ।। ६० ।।
अपि तु द्रुतमेत्यस्य नीलः सेहे न वै व्यथाम् ।
सहेति क्षितिजच्छिन्न प्रवीरः सक्षिति स्तुतः ।। ६१ ।।
मात्रापहारयथे-
ष्टमात्रदानाभ्यां श्लोकत्रयम् ।।
अपतद्रतिमत्यस्य नलः सह न वव्यथः ।
सहतः क्षतजच्छन्नः प्रवरः सक्षतः ततः ।। ६२ ।।
आपतद्रुतिमेत्यास्य नलः से होन विव्यथः ।
सुहितक्षितिजच्छन्न प्रवरः सा क्षतस्तुतिः ।। ६३ ।।
ततोहतहुताशात्मसम्भवं पतिते नले ।
प्रार्थयन्तं बलं शत्रोः क्रव्यमत्तुं निशाचराः ।। ६४ ।।
त ता री ति र ती ता ती
र न्ति ता र रु ते रि ता ।
त ता रा रि त ती रे ता
र त ता रा र तो र त म् ।। ६५ ।।
द्व्यक्षरानुप्रासः ।।
प्रत्यागत्य ततः क्रुद्धः कुम्भकाहतिमूर्छितः ।
विदश्य दशनैर्नासां नीयमानश्चकर्त सः ।। ६६ ।।
क्रोधादविदितस्वाङ्गमग्नतः शस्त्रमालिनी ।
राघवायुधपातेन पेते तस्याङ्गभूधरैः ।। ६७ ।।
सन्नयो सन्नयोरुद्धो दानदानाकुलालिभिः ।
नागैर्नागैरिवोच्छ्रायैः सन्नासन्नारिविक्रमः ।। ६८ ।।
आद्याम्रेडितम् ।।
नागाः सरसगण्डास्ते बिन्दुचित्रमुखान्विताः ।
सपताका धृतिभ्रंशं चक्रुः सन्नाटकोपमाः ।। ६९ ।।
शिलीमुखमुखक्षुण्णकुमुदं सप्लवङ्गमम् ।
सशरारिरणं रामो ग्रीष्मे ह्रदमिवाविशत् ।। ७० ।।
तन्मन्त्रसाधनादीनि व्यर्थयन्तो रिपुद्विपाः ।
तेन लुप्तैकरदनाः कृताः केचिद्विनायकाः ।। ७१ ।।
अन्ये पाटितसद्वंशवितानासनपुष्कराः ।
कृता दस्युबलक्षिप्तनृत्तरङ्गनेपमा द्विजाः ।। ७२ ।।
मुक्तासारा द्विजैः शुभ्रैर्भूषिता मेचकत्विषः ।
तेन केचित्क्षयं नीताः शरदेव पयोमुचः ।। ७३ ।।
शरैरुत्सारिता दूरं हत्वा रामस्य वेगिभिः ।
बभ्रमुर्झरैर्वंशैर्मातङ्गा निर्मदीकृताः ।। ७४ ।।
रक्षःसैन्यनगो रामबाणक्षिप्तजलोऽपि सः ।
अचलः शत्रुसेनायाः प्रपेदे नैव सह्यताम् ।। ७५ ।।
प्रहस्तशूलधूम्राक्षप्रजङ्घनृसुरान्तकान् ।
विद्युज्जिह्वमहापार्श्वमकराक्षमहोदरान् ।। ७६ ।।
हत्वा भूयः स्वलाङ्गूलैर्वेष्टयित्वा दृढं कटिम् ।
स्थितेष्वङ्घ्रिपहस्तेषु यूथपेषु वनौकसाम् ।। ७७ ।।
नाशमिन्द्रजितः श्रुत्वा निर्जगाम दशाननः ।
कृती सेनाकृतेनाथ रुन्धन्रोदेन रोदसी ।। ७८ ।।
रावणस्याभवत्तत्र रणः सौमित्रितापनः ।
व्याप्तसर्वदिगाभोगज्याघोषजयघोषणः ।। ७९ ।।
सौमित्रिपत्त्रिणाऽमित्रः क्रुद्धो धनुषि खण्डिते ।
वधाय विद्विषो भीमशक्तिः शक्तिं समाददे ।। ८० ।।
ततः क्रोधहतश्चक्रे चक्रे शत्रुभयङ्करम् ।
करं युद्धे पतन्नागे पतन्नागेन्द्रगौरवः ।। ८१ ।। सन्दष्टम् ।।
चक्रे रणं वानरकान्तकारी
चक्रे रणं वा नरकान्तकारी ।
च क्रे र णं वा न र का न्त का री
च क्रे र णं वा न र का न्त का री ।। ८२।।महायमकम् ।।
युद्धेतिजेये तरसा रसन्तं
यु द्धे ति जे ये त र सा र स न्त म् ।
परं ससाराहत शक्तिहेत्या
प रं स सा रा ह त श क्ति हे त्या ।। ८३ ।।
समुद्गयमकम्
सविता रविना परमस्तमितं
स निरीक्ष्य भुवं प र म स्तमितम् ।
चरितुं कवचैः शबलं स्वबलं
निजगौ मनुजेशबलं स्वबलम् ।। ८४ ।।
म ह ता म ह ता स म रे स म रे
वि भ या वि भ या स हि ता स हि ता ।
वि श दा वि श दा शु भ या शु भ या
ज न ता ज न ता न हि ता न हि ता ।। ८५ ।।
यमकावलिः ।।
व्युदस्तधरणीधरक्षितिरुहायुधं विद्रुत-
प्रधानकपिसर्पतश्चपलदृष्टि तद्विह्वलाम् ।
न कश्चिदपि रक्षितुं युधि शशाक शाखामृगः ।
सुरारिकवलीकृतं हतबलं प्रियादात्मनः ।। ८६ ।।
पिङ्गं शोणितनिर्गमेन करणं भिन्नं सुरेन्द्रद्रुहा
यत्नं प्राप्य दधानया विकलितेष्वोजःसु चञ्चदृशा ।
तिग्मांशोस्तनयस्य पूर्वकलनामुल्लङ्घ्य यान्त्या भिया
यातं कापि विहाय संयति रतिं हानिस्पृशा सेनया ।। ८७ ।।
चक्रम् ।।
बिभ्राणं वदनं सरोरुहमणिक्षोदारुणं दारुणं
देहैर्भीषणमुग्रवक्त्रदशनैरासन्नखैः सन्नखैः ।
रामोऽथ स्वबलं प्रसह्य समरे सन्त्रस्यतोस्त्रस्यतो-
र्बाणेनोपरुरोध वर्त्मनि करच्छन्नादिना नादिना ।। ८८ ।।
इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
अष्टादशः सर्गः ।।
एकोनविंशः सर्गः
अथारिणा मर्मणि कालनेमिना
रयादयश्चक्रनिभेन निर्वृतः ।
कथञ्चिदेनं विनिगृह्य मारुतिः
समुद्वहन्भूधरशृङ्गमाययौ ।। १ ।।
हरिर्भिषग्भूधरसानुतो नुतो
महौषधं प्राप्य मुदा ततस्ततः ।
चकार रामावरजं हृतक्लमं
पुनः समुन्मीलितवीक्षणं क्षणात् ।। २ ।।
ततो रथः सारथिना मरुत्वतो
मरुन्नदीमारुतकम्पितध्वजः ।
अरान्तरासक्तपयोदखण्डकः
प्रभोरुपानीयत सूनवे भुवः ।। ३ ।।
सुरेश्वरप्राजितृहस्तसङ्गिना
करेण सव्येन स वासवोपमः ।
तदन्यहस्तस्थशरासनः शनैः
समारुरोह प्रधृतं वरूथिनम् ।। ४ ।।
रणं दिदृक्षुः सुरसंहतिर्घनं
समाक्षिपत्ससम्मुखमागतं रुषा ।
परस्पराघातनिवृत्तवृत्ति
तद्वलं च तस्थौ निहितेक्षणं तयोः ।। ५ ।।
पुरन्दरारातिमरातिसूदनः
शरं सलीलं शरधेः समुद्धरन् ।
उपाययौ सायकदष्टकार्मुकं
रणे रथस्थं रथिको महारथः।। ६ ।।
शरं सृज त्वं प्रथमं प्रतीच्छ
वेत्युदीरणानन्तरमिन्द्रविद्विषः ।
विपाटयन्तः श्रुतिमस्य निस्वनै-
र्निपेतुरुग्रैरभिराममाशुगाः।। ७ ।।
विभिद्य रामच्छलमादिपूरुषं
हृता यथा दुष्प्रसहेन पाप्मना ।
प्रपद्य तिर्यग्गतिमस्य सायकाः
क्षणेन पातालमभि प्रपेदिरे ।। ८ ।।
मुखैरसक्तं दशभिर्दशाननो
नदत्तटित्सन्निभहेमभूषणः ।
युगान्तमेघप्रतिमो महेषुभि-
स्ततान धाराभिरिवान्तरं दिवः ।। ९ ।।
वनं ततस्तत्र शरप्रभञ्जन-
क्षतावनम्रीकृतभूरुहौषधि ।
महापगापातपरास्तनामित-
स्फुटत्तटीकाननकान्तिमाददे ।। १०।।
न केवलं वारिणि वारिधेरगै-
र्नरेन्द्रसूनुर्विजयाय विद्विषः ।
बबन्ध भानोरपि सेतुमायतं
पथि प्रतानेन घनेन पत्त्रिणाम् ।। ११ ।।
ससर्ज पूगं विजयं यथा रिपु-
र्नृपाय यावद्वयसं पतत्रिणाम् ।
क्षणादवाप द्विगुणं ततः स्वयं
कृतानि साधोर्हि फलन्ति भूरिशः ।। १२ ।।
निरन्तराकर्षणसृष्टसम्पदः
प्रसक्तसंचारविधिर्धनुर्गुणः ।
ररक्ष वक्षो नृवरस्य रक्षसः
कृतप्रणादं पततोऽस्य पत्त्रिणः ।। १३ ।।
शरस्य मोक्षः प्रथमं महीभुज-
स्ततश्च तद्वैरिशरीरविक्षतिः ।
इति क्रमोऽगादनुमानगम्यता-
मलक्ष्यवेगेषु शरेषु धन्विनः ।। १४ ।।
असौ शरातानमयं मरुन्नदी
विधाय रूपं पतिता नु सस्वना ।
जयश्रियः सङ्क्रमणाय भास्वतः
पथि प्रयुक्तो नु महेषुसङ्क्रमः ।। १५ ।।
कटु क्वणन्तस्तपनस्य दीधितिं
तिरोदधाना निकरेण पत्त्रिणः।
विहाय बाणासनमस्य विद्विषः
स्वयं विहन्तुं नु नभः समुद्गताः ।। १६ ।।
बृहत्पृषत्कग्रथिता मरुत्पथे
मृगं ग्रहीतुं द्विजराजशायिनम् ।
प्रसारिता नु प्रसरं निरुन्धती
रविप्रभाया गुरुवागुराततिः ।।
विधाय नाराचमयं समन्ततः
सृजन्ति धारानिकरं नु वारिदाः ।
इति क्षणं क्षीणमुखेन तत्र
तद्वलेन तीव्रं मुमुहे महाहवे।। १८ ।।
अशेषमन्तःकृतसैनिकं तयो-
र्बृहद्भुजस्तम्भनिबद्धमायतम् ।
निरस्ततिग्मद्युतिरश्मि भूयसा
रुरोध तद्वाणवितानमम्बरम् ।। १९ ।।
चकर्त शत्रोरधिजत्रु राघवः
शरेण बाहुं शरसन्ततिच्युतः ।
बभार तच्छेदविनिर्गतो मुहुर्दृढं
करोऽन्यो निपतच्छरासनम् ।। २० ।।
ततस्ततं घर्मजलस्य रेखया
रिपुर्महेन्द्रस्य सुतस्य भूभुजः ।
लुठज्जटासन्ततिवेल्लितं ज्वलत्तटं
ललाटस्य बिभेद पत्त्रिणा ।। २१ ।।
अथ भ्रुवोरन्तरलक्ष्यहाटक-
प्रदीप्तपुङ्खेण शरेण राघवः ।
श्रियं ज्वलत्पिङ्गललाटतारका-
मुवाह रूपस्य विरूपचक्षुषः ।। २२ ।।
शरैरुपाक्रोशपदे नृपात्मजः
शिरो रिपोरच्छिनदर्धभाषिते ।
प्रणादतः शेषमुदीरयन्मुहुः
शिरोऽपरं प्रादुरभूदविक्षतम् ।। २३ ।।
ददर्श भल्लाभिनिपातपातित-
प्रशीर्णमौलीनि समुद्गताननः ।
मुखानि दन्तक्रकचक्षताधर-
प्रवर्तितासृञ्जि निजानि राक्षसः ।। २४ ।।
बृहद्विषत्सक्तपूषत्कपातित-
स्वमस्तकप्रस्तरणे रथे स्थितः ।
स युध्यमानो महिमानमाहवे
विदर्शयामास नृलोकदुर्लभम् ।। २५ ।।
तयोरयोवाणरयोपबृंहितस्फुट-
द्ध्वनिस्फोटितकर्णमाहवम् ।
गरुत्मदाशीविषपातदुःसहं
निरीक्षितुं कोऽपि शशाक तत्समम् ।। २६ ।।
अथो हिताय प्रथितं मरुत्वता
सुरद्विषो मर्म निगद्य मातलिः ।
नरेन्द्रपुत्राय तनुत्रभेदिनं
विचित्रपत्त्रं विततार पत्त्रिणम् ।। २७ ।।
विकर्षणादस्य मरुन्मरुत्सख-
प्रसन्नससुत्पुङ्खफलेन वेगिना ।
स्वयं च तन्मर्म विवक्षुणा
यथा शरेण मूलं श्रवणस्य शिश्रिये ।। २८ ।।
स तेन भीमं रसता भुजान्तरे
गिरीन्द्रसारेण शरेण मर्मणि ।
हतः सुराणामहितो महीयसा
पपात भीमेन रवेण रावणः ।। २९ ।।
निकृत्य रक्षोऽधिपमर्म मार्गणः
पपात पातालतले महीयसः ।
कृतापराधो भुवनत्रयाधिपं निहत्य
भीत्येव तिरोबुभूषया ।। ३० ।।
अथ क्षितिस्तत्क्षणबद्धनिस्वनं
चचाल भीतेव शरेण ताडिता
पपात वृष्टिः कुसुमस्य राघवे
दिवो निवृत्तेव रिपोर्यशस्ततिः ।। ३१ ।।
सुता नरेन्द्रस्य परासुरीश्वरस्त्वया
विपक्षक्षतवृत्तिरीक्षिता ।
इतीव काञ्च्या विनिपत्य पादयो-
र्निरुध्यमानाऽपि ययौ रणाजिरम् ।। ३२ ।।
द्विधा न यातं निजमिन्द्रजिद्गुरौ
सुता मयस्योपततेऽपि वैशसम् ।
शुचा नु रोषेण नु मुक्तनिस्वनं
रुरोज पाणिद्वयपातनैरुरः।। ३३ ।।
नृपात्मजासङ्ग्रहविग्रहेण यद्
बभूव यत्नादपि तेन दुर्लभम् ।
तमिन्द्रशत्रुश्चिरवाञ्छितं
क्षणादवाप देव्या मृदुबाहुबन्धनम् ।। ३४ ।।
हृदि प्रियाऽभावकृशानुदीपिता
भिदामुपैतीति यथाऽविशङ्किनी ।
विलोचने तामनुतापविह्वला-
मसिञ्चतामश्रुजलेन सन्ततम् ।। ३५ ।।
प्रियस्य बाणव्रणरन्ध्ररोधिनं
महीरजस्सञ्चयमश्रुवर्षिणी ।
प्रिया परासोरपि खेदशङ्कया
सकम्पहस्ता शनकैरपाहरत् ।। ३६ ।।
मयात्मजाया नयने मुहुर्मुहुः
प्रियेण पूर्वं परिचुम्ब्य लालिते ।
तदाऽश्रुभिश्चक्षुपुटान्तनिस्सृतै-
र्हतस्य तोयाञ्जलिमस्य तेनतुः।। ३७ ।।
पुराऽनुरक्तो रतिदायिनि प्रियः
प्रियामुखस्यावयवेषु यत्र सः ।
तदा तदापत्कृतशोकशोषितः
स एव सावेगमकम्पताधरः ।। ३८ ।।
कृशोदरी काञ्चनकुम्भसन्निभं
कुचद्वयं रावणमित्रमात्मनः ।
गते दिवं तत्र विलोचनच्युतै-
र्जलैरपस्नानविधावयोजयत् ।। ३९ ।।
शुचं मुखेन व्यपनीतरोचिषा
सुता मयस्य व्यथिताऽनुबन्धिनी ।
विलापमेवं करुणं समाददे दिशि
क्षिपन्ती कृपणे विलोचने ।। ४० ।।
प्रियस्य सोऽयं पिशिताभिकाङ्खिभिर्वृकै-
र्विकृष्यावयवोऽपि कम्पितः ।
प्रहर्षमाशाविषयं विधाय मे पुन-
र्यथाऽर्थावगमे निरस्यते ।। ४१ ।।
त्रिलोकभर्तुर्वनितासु तादृशी
न काचिदासीदनवद्यलक्षणा ।
अलक्षणायामपि यत्प्रसादतः स्थितिं
लभेताविधवायशोमयीम् ।। ४२ ।।
इयानलं विग्रह एव मानिनां
धुरि व्यवस्थापयितुं विचेतसाम् ।
प्रियं सुरारिक्षतविग्रहेऽपि यद्यशो
हरन्ति श्वसितं न साधवः।। ४३ ।।
पुरन्दरानेन पुरा पराभवं कृतं
कृथाभ्रेतसि माऽतिमानिना ।
मुखादिमं दण्डधरस्य तेजस-
श्च्युतं नमन्तं तव पाहि पादयोः ।। ४४ ।।
प्रवेपमानाधरपत्त्रसन्ततिं
विलोलदृष्टिभ्रमरं त्वदिष्टये ।
स्मरासिना देव निकृत्तमुज्वल-
त्रिलोकभर्तुर्मुखपद्मसञ्चयम् ।। ४५ ।।
विधाय वित्तस्य कृते कृती जनः
कुबेरवैरं सह बन्धुभिर्बुघः ।
सति प्रवृत्ते परतः पराभवे
कुलस्य कुल्यः कुरुते सहार्थताम् ।। ४६ ।।
गुरुर्गुरोरस्य गुरुप्रसादने
चतुर्मुख त्वं चतुरस्य नेक्षसे ।
विकीर्यमाणं भुवि विष्ण्वरे-
रिमं शिखासमूहं मणिवन्मनस्विनः ।। ४७ ।।
तथाऽतिदीनैः परिदेविताक्षरैर्न
लोकपालेषु गतेषु विक्रियाम् ।
अतः प्रमाणेन च शब्दमात्र-
मित्युदीरितं तत्र जनेन देवताः ।। ४८ ।।
विपाण्डुगण्डाधरबिम्बसंश्रया
विशेषकालक्तकमण्डनश्रियम् ।
सखीव तत्कालविधेयवेदिनी
ममार्ज तस्या नयनाम्बुसन्ततिः ।। ४९ ।।
जने विधिज्ञे विधिमौर्ध्वदैहिकं
सुरद्विषः तन्वति तस्य वह्निना ।
प्रिया ततः स्नानविधौ जलाशयं
बलेन नीता परिगृह्य बन्धुभिः ।। ५० ।।
असौ विभिन्ने चरमे च कर्मणि
कृशानुतामाकरदाहगाहने ।
अभिन्नवृत्त्योरिह युक्तिमावयो-
र्भृशं भजेते इति नादमाददे ।। ५१ ।।
शिखापरिस्पृष्टशिरोऽवकुञ्चनात्
करेषु मुष्टिं वलयन्तुमानिनः ।
हतेऽपि सम्यग्ज्वलितं नभस्वता
न भीतभीतेन हिरण्यरेतसा ।। ५२ ।।
पुमानमित्रस्य पुरं पुरातनः
प्रविश्य मायामनुजो विभीषणे ।
निसृष्टराज्यो रजनीचरैरसौ
सभां स भेजे परितः सभाजितः ।। ५३ ।।
निधिं कलानामथ लक्ष्मणान्वितं
हितावहन्तं कुमुदस्य सैनिकाः ।
प्रणेमुरिन्द्रद्विषदास्यनिर्गतं
शिवेन रामाह्वयमिन्दुमादृताः ।। ५४ ।।
कृतास्पदं धामनि कौशिकद्विषो
जयेन दीप्तं दशकण्ठसूदनम्
हृताऽनुरागेण जगाम वीक्षितुं
सुता नृपस्य त्रिजटादिभिर्वृता ।। ५५ ।।
विपाण्डुनो धूसरवेणिरोचिषः
पदं दधत्या वपुरीक्षितुं मनः ।
तया शुचःस्थानमुपाहिता रतिं
प्रियस्य चक्रे गलदश्रुधारया ।। ५६ ।।
भयं विमृश्य प्रतिसंहृतेक्षणे
जनापवादादथ रावणद्विषि ।
मनस्विनी मन्युनिरन्तरा गिरः
परिस्खलन्तीरिति दीनमाददे ।। ५७ ।।
अयं सरोजस्य परम्परा भवन्वपु-
र्विनिद्रस्य कटाक्षषट्पदः ।
निपातितस्ते यशसो विपर्ययं
मयि स्वयं पुष्यति वीर कीदृशम् ।।५८ ।।
अविच्छिदामस्य विवृद्धिमेयुष-
स्तवाननादर्शनजन्मनस्त्वया ।
चिरप्रवृत्तस्य कृतं कृतात्मना
कथं न विच्छेदनमात्रमश्रुणः ।। ५९ ।।
दुःखासितामसुतरां सुतरां प्रपद्य
वैवर्ण्यसम्पदमिता दमिता तपोभिः ।
तस्थौ गुणैरविकलं विकलङ्कमेव-
मुक्वा वचः क्षतमदान्तमदान्तमृत्युम् ।। ६० ।।
शोकं तयाऽनुपरमं परमं प्रपद्य
प्रोक्तं कृपारसहितं सहितं स बाष्पैः ।
श्रुत्वा विशुद्धिजननं जननन्दनार्थं
चक्रेनलं तरुचितं रुचितं प्रियायै ।। ६१ ।।
आत्मप्रभावरमितैरमितैरुदस्रं
दृष्टाऽथ वानरबलैरबलैनमग्निम् ।
क्षत्रौजसा कृतरसा तरसा विविक्षुः
सा सत्यवाग्रसमयं समयं चकार ।। ६२ ।।
क्रोधाकृष्टत्रिदशवनितोत्तंसमच्छेदशास्यं
चेतस्यस्मिन्विनिहितपदं तं समच्छे दशास्यम् ।
नाथाकर्षं यदि हतमहासत्व सा राम दाहं
गच्छेयं तद्रिपुहतमहासत्वसारामदाऽहम् ।। ६३ ।।
स्यप्नेनापीन्द्रशत्रुर्यदि सह न मया जातु वै श्वा न रेमे
दाहः स्वल्पोऽपि मा भूत्तत इह सुमहत्यद्य वैश्वानरे मे ।
वाक्यं स्मैवं सुदीना बहुविगलितदृग्वारिसत्याह तेन
क्रूरं धाम स्वकीयं सपदि हुतभुजाऽवारि सत्याहतेन ।। ६४ ।।
इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
एकोनविंशः सर्गः ।।
विंशः सर्गः
अथ स्फुरत्काञ्चनभित्तिपुष्पकं
सजानिरारुह्य विभीषणान्वितः ।
समं सुमित्रात्मजवानरेश्वरैः
खमुत्पपात स्वपुरीयियासया ।। १ ।।
ललाटविन्यस्तकराग्रवारित-
प्रभाकरांशुस्रवजिह्मितेक्षणैः ।
निशाचरैरस्य विमानमीक्षितं
विवेश भृङ्गोदरसन्निभं नभः।। २ ।।
चिरप्रवासानलधूमसन्ततिं
करेण वेणीमवमोचयन्त्ययम् ।
उदस्तचक्षुः परिरभ्य वक्षसा
मिथः प्रियामेवमुवाच राघवः ।। ३ ।।
जनेन रामाकृतिरत्नमीदृशं
समीयते नाकृतपुण्यकर्मणा ।
इति स्वयं चिन्तयतः पदे पदे
मम स्फुरत्यात्मनि भूरि गौरवम् ।। ४ ।।
जगद्द्वयं द्वावधितिष्ठतः प्रिये
पतिव्रतालाभविभूतिगर्वितौ ।
अहं भवत्या भृतको महीतलं
महामुनिः स्वर्गमरुन्धतीपतिः।। ५ ।।
पतिव्रतायास्तव देवि तेजसा
हतप्रभावो निहतो निशाचरः ।
मनुष्यमुक्तः कथमन्यथा शरः
क्रमेत लोकत्रितयस्य जेतरि।। ६ ।।
इदं विधायोचितमङ्कमासनं
भुजेन मत्कच्छतटावलम्बिनी ।
समीरणाकम्पितपक्ष्मसन्तती
दृशौ मुहुः पातय देवि दिङ्मुखे ।। ७ ।।
दिगङ्गना हारिवृहत्पयोधरा
दृशो दहन्ती वडवामुखेने नः ।
शुभाशुभैरश्वमुखीव सेविता
गुणैरियं दण्डधरेण रक्ष्यते ।।८।।
अमूमधः पश्य जवेन पुष्पके
नभः समाक्रामति ते वियोगतः ।
समुद्भवच्छोकरयेण तापिना
कृशीभवन्तीमिव विद्विषः पुरीम् ।। ९ ।।
पयोधिरत्नालयमीक्ष्यते समं
समुन्नमद्वीचिविभिन्नमप्यदः ।
निमज्जतीवाम्बुनिघौ समन्ततः
क्रमेण लङ्का सहशैलकानना ।। १० ।।
विशालशृङ्गः शिखरैरधिष्ठितो
विभाति वल्मीक इवैष भूधरः।
यतः स्रवन्त्यः सरितः समन्ततः
परिस्फुरन्त्यः कुटिला इवोरगाः ।। ११ ।।
सचन्दनेयं मणिचित्रमेखला
परिस्फुटन्नीलतमालकानना ।
हदि प्रियेव प्रमदं तनोति नः
सुवर्णकूटानुगशैलसन्ततिः ।। १२ ।।
क्रमादतिक्रामति पुष्पके घनं
स्वविग्रहोल्लङ्घनशङ्कया यथा ।
तिरोदधानं गगनं समन्ततः
प्रवर्धते मण्डलमुष्णदीधितेः ।। १३ ।।
निधाय पादौ दृढमक्षपाटके
विसृज्य देहं गगने सकौतुकम् ।
अमी समीषागतमेघभित्तिषु
स्पृशन्ति विद्युद्वलयं वलीमुखाः ।। १४ ।।
परिक्वणत्काञ्चनकिङ्किणीगुणं
विमानमग्रे दशनस्य पुष्करम् ।
निधाय कर्णौ विनियम्य निश्चलं
सकौतुकं दिग्गज एष वीक्षते ।। १५ ।।
इदं समासन्नरविप्रदीपितं
दधानमुष्णद्युतिकान्तमण्डनम् ।
भ्रमत्युपाहत्य करोति निस्वनं
विमानमम्भस्मृतिमन्तमम्बुदम् ।। १६ ।।
सदैव पूर्णो बहुरत्नसम्पदा-
मुपान्तभागस्थिततालभूषणः ।
अयं समुद्रः परिकर्षति श्रियं
प्रचेतसो रत्नसमुद्गसम्भवाम् ।। १७ ।।
हरौ हृतेऽसौ हरितुल्यतेजसः
क्रतुप्रसङ्गे सगरस्य सागरः ।
विभिद्य तत्सम्भववीरबाहुभि-
र्गभीरभावं किल भूरि लम्भितः।। १८ ।।
अयं त्वदर्थे गिरिसेतुराहितः
प्रमित्सुनेव प्रथिमानमम्बुधेः ।
सकौतुकेनावनिमण्डलेन यः
प्रसारितो बाहुरिवावभासते ।। १९ ।।
समुत्प्लुतस्योदधिदन्तिनो मुखे
शरीरभागेव विभिन्नसंहतिः ।
विभाति सा भक्तिविधानभासुरा
सितेव भूतिर्नवफेनसन्ततिः ।। २० ।।
शिखिप्रभाभासुरविद्रुमद्रुम-
प्रताननिर्भिन्नतरङ्गसंहतिः ।
अयं पयःशोषविशेषनिःस्पृहं
द्वितीयमौर्वं वहतीव वारिधिः ।। २१ ।।
बिभर्ति शङ्खप्रकरावतंसकः
प्रवालरत्नाकर एष वारिधेः ।
परिभ्रमन्मन्दरकोटिखण्डितः
व्रणश्रियं प्रस्फुरदस्थिदन्तुराम् ।। २२ ।।
अपूर्वसोमार्धविभावनस्फुर-
त्फणालपाशाङ्ककपालभूषणः ।
ककुप्प्रदेशोऽयमुपैति पश्चिमः
सरूपभावं वपुषः पिनाकिनः ।। २३ ।।
असौ निजोत्सङ्गलुठत्पयोधरा
पतद्द्विजासन्नतरत्रिविष्टपा ।
विदूरिता बृद्धतरेव कामिनी
विवर्जिता मेखलयाऽद्रिसन्ततिः ।। २४ ।।
हृताम्बरोऽसाबुपकण्ठनीलतां
समुद्वहन्निन्दुविषक्तमस्तकः ।
बिभर्ति कान्तावृतभागसुन्दरः
श्रियं प्रिये देवि गिरिस्त्रिशूलिनः ।। २५ ।।
परिभ्रमन्तो मनुजा महीतले
विदूरभावादतिसूक्ष्मदर्शनाः ।
विभान्त्यमी वर्त्मनि शुक्लवाससो
मुखाहिताण्डा इव कीटपङ्क्तयः ।। २६ ।।
विवर्धमानः किल सोऽयमायतं
निरन्तरत्वं प्रसभं दिशन्दिशाम् ।
हतः पदा पातितगर्वखर्वता-
मगादगस्त्येन रयादगाधिपः ।। २७ ।।
अयं नगः सङ्गतनन्दकः सदा
मनोज्ञपद्माकरसक्तपादकः ।
अनन्तनागासनबन्धबन्धुरो
हिरण्यगर्भो मधुसूदनायते ।। २८ ।।
मनोज्ञसौगन्धिकजातिरञ्जितः
सपद्मरागारुणतोयसंहतिः ।
अयं कुपालो बहुसागरः प्रिये
विराजते नैकविराजिमण्डनः ।। २९ ।।
परिस्फुरत्काञ्चनकान्तिरन्तिक-
प्रयाततारो हरिसैन्यसेवितः ।
दिवाकराचुम्बिततुङ्गन्मस्तको
विभाति सुग्रीव इवैष मन्दरः।। ३० ।।
सदप्सरोभिः परितोऽभिवेष्टितः
समीपवर्तिद्विजराजमण्डलः ।
बिभर्ति पीताम्बर एष भूधरः
श्रियं मुरारेरपि रूपसंश्रयाम् ।। ३१ ।।
इहानुगेहं निशि चन्द्ररश्मिभि-
र्निषेव्यमाणौ सुरतश्रमान्तरे ।
प्रियेऽभिजानासि मनोज्ञसङ्कथौ
तटे चरिष्याव उपान्तसैकते ।। ३२ ।।
पयःप्रवाहः सरितः सरित्पतिं
गिरिं च विन्ध्यं प्रथतेऽयमन्तरा ।
भुवं समालम्बितुमद्रिमस्तके
पयोधिना बाहुरिव प्रसारितः ।। ३३ ।।
अनेकपुष्पप्रकराधिवासिता
भुजङ्गविक्षोभितलोलमानसा ।
स्पृहावता वेशविलासिनी यथा
दिगुत्तराऽसौ धनदेन सेव्यते ।। ३४ ।।
निषेव्यमाणो हरिभिर्मतङ्गजक्षत-
क्षरद्भूरिनिषिक्तबाहुभिः ।
हिमालयः सानुजरत्नभूषणो
गुणश्रियाऽसावनुगच्छतीव माम्।। ३५ ।।
सधातुकूटं घृतबिश्वसम्पदं
शिवोपभोगप्रणयस्य भाजनम् ।
इमं तपत्सिद्धिसुखाय वृष्ण्वते
श्मशानकल्पं व्रतिनो विरागिणः ।। ३६ ।।
हतः समुद्रद्वितयेन वेगतः
तटोरसि प्रस्फुरदूर्मिबाहुभिः ।
बृहद्दरीनिस्सृतधातुनिर्झरो
मुखादयं प्रोद्गिरतीव शोणितम् ।। ३७ ।।
इह प्रवृत्तं रविरश्मिसङ्गमे
पतङ्गकान्तप्रभवं दबानलम् ।
निशासु निर्वापयति क्षपाकरः
प्रवाहिता चन्द्रमणिस्रवाम्बुना ।। ३८ ।।
अनेन शैलेन सुरालयस्पृशा
तिरोभवन्नैशतमिस्रसंचयः ।
विवस्वतो भीत इवोग्रतेजसः
परिभ्रमत्यञ्जनखण्डकर्बुरम् ।। ३९।।
निशि प्रवृत्तोदयया दवानले
तुषारवृष्ट्या शमितेऽपि सर्वतः ।
इहौषधिज्योतिषि दत्तदृष्टय-
स्त्यजन्ति भीतिं न कुरङ्गयोषितः ।। ४० ।।
अमुष्य शृङ्गे दुहितुर्महीभृत-
स्तपश्चरन्त्याः सविता समीपगः ।
शशाङ्कशोभामवहद्विलोचन-
प्रभाततिश्यामितमध्यमण्डलः।। ४१ ।।
पतिप्रसादादरमण्डितालका
गुहाननासक्तगलत्पयोधरा ।
अधित्यकाऽसौ हिमशैलसम्भवा
बिभर्ति गौरीव मनोहरं वपुः ।। ४२ ।।
असौ गुहाधातुपरिस्नवारुणा
विलुप्तपक्षस्य तटे महीभृतः ।
स्रवन्मुखस्य त्रिदशाधिपायुध-
व्रणस्य नालीव विभाति रावणी ।। ४३ ।।
स एष शीतद्युतिहासिनिर्झरो
विकीर्णवारिस्कटिकोपलोच्छ्रये
गुहानिबद्धप्रतिशब्दभैरवै-
रलक्षितोऽपि ध्वनिभिर्विभाव्यते।। ४४ ।।
शिखासु पुष्पप्रकरो महीरुहां मुहुः
किलाधोऽञ्जनशैलभित्तिषु ।
क्षणं विनष्टः स्फटिकोपले घनः
सितप्रभोऽयं मरुता विधूयते ।। ४५ ।।
विमुच्यमानः सितवारिदैरसौ
विभाति धातूपलराशिरुच्छ्रितः
समन्ततो भस्मनि भासुरप्रभः
प्रयाति वातैरिव वह्निसञ्चयः ।। ४६ ।।
घनस्य तिष्ठन्ति ततो धृताम्भसः
तटे पतन्तः शिरसो महीभृतः ।
अमी रवैरूर्ध्वमुखांशुवह्निना
पराहताः पादतलेषु किन्नराः।। ४७ ।।
विकृष्यमाणे सितमेघमण्डले
नभस्वता यो विसखण्डपाण्डुरः ।
विभाति निर्मोकमिव त्यजन्नितः
स एष कैलासतटो विलोक्यताम् ।। ४८ ।।
कुतः कुरङ्गः किरणस्य चन्द्रमाः
सदा शिरःस्पर्शकृतं बिभर्ति सः ।
स्वयं च तद्धर्षणजातनिष्पत-
द्धिमांशुधूलीकृतशुक्लिमाऽचलः ।। ४९ ।।
लतावितानावरणे शिलातले
गिरावमुष्मिन्तुरसिद्धयोषिताम् ।
सवृत्तकाञ्चीगुणसृष्टरेखया
विदन्ति वृत्तं सुरतं वनेचराः।। ५० ।।
उपागतोऽपि ग्रसितुं विलोचन-
प्रभानिषेकाहितमेचकद्युतिम् ।
मृगीसमूहः परिणामदूषितं
विशङ्क्य भूयस्त्वजतीव पल्लवम् ।। ५१ ।।
ननु विदधति पादपूरणानि
प्रथितरुचावचले किरातदेशाः ।
विशदमतिभिरीर्ष्यया प्रबन्धे
रचित इवार्थवतीह विप्रहीणाः ।। ५२ ।।
दुरुत्तरं विवरमुखस्थपन्नगं
वनश्रिया परिगतमुत्प्रवालया ।
इति स्तुवञ्जलधिमिवाथ भूभृतं
सुतो भुवं समवततार भूभुजः ।। ५३ ।।
महर्षयो नरपतिपौरसंहिता
मुखानि तं नुतिमुखराणि बिभ्रतः
उपस्थितश्रियमभिषेकसम्भृतिं
प्रगृह्य तं नृपतिसुतं प्रपेदिरे ।। ५४ ।।
रामो वृतो भरतलक्ष्मणतत्कनिष्ठै
र्बद्धाञ्जलिर्गुरुविधेयतयैव पृच्छन् ।
वीरश्चकार हदयं सहसा सतीव्र-
व्रीडावतारविधुरं भरतस्य मातुः ।। ५५ ।।
तस्यानुजद्वयकरस्थितशातकुम्भ-
कुम्भच्युतं तदिह मूर्धनि रावणारेः ।
श्वेतातपत्रतलभाजि निबद्धधारं
मातुर्ममार्ज भरतस्य कलङ्कमम्भः ।। ५६ ।।
दृष्ट्वा राज्यग्रहणविभवं
तं महान्तं महान्तं
गत्वा रामे विहितविनतिः
सत्सभार्ये सभार्ये ।
सिद्धैः क्रीडानुभवविधिभि-
र्मानितान्तं नितान्तम्
शैलं प्रायाद्गिरिरिव निरा-
तङ्कपीनः कपीनः ।। ५७ ।।
पारावारं नयनसलिलातानमस्यन्नमस्य-
न्रामं वर्णस्थितिपरिकरत्रासकान्तं सकान्तम् ।
तेन प्रायात्सुररिपुपतिः शोकसन्नः कसन्नः
खेदं मा गा इति कृतसमाश्वासमुक्तः स मुक्तः ।। ५८ ।।
चक्रे देवीमुपकृतमुनिस्थानयज्ञो नयज्ञो
वृत्तौ सक्तामविचलगुणाभ्याससत्यां ससत्याम् ।
क्रोधा हन्त्रीमपि बहुमतासृग्वसानां वसानां
ह्रीशौचाख्ये सततमहिते वाससी तां स सीताम् ।। ५९ ।।
ईर्ष्यामोहस्मयमदधनप्रमेहीनान्महीना-
कृत्वा भ्रातन्महति विभवे न्यस्यदासः तदा सः ।
रामोऽरक्षत्कृतपरहितस्वोदयायां दयायां
स्थित्वा पृथ्वीमविचलतया तत्समस्तां समस्ताम् ।। ६० ।।
नित्यं सद्गणभक्तिरिन्द्रयदमः
श्रीसंयतः संयतः
शस्त्रद्योतितमूर्ध्रि मुक्तहृदयो-
ऽभीसङ्गतः सङ्गतः ।
विद्वानस्य कवेः पिताऽऽर्यहृदयः
श्रीमानितो मानितो
लङ्कैश्वर्यभुजः कुमारमणिरि-
त्यासन्नयः सन्नयः ।। ६१ ।।
येनारिप्रकृतिं निराकृतवता
सन्मानितो मानितो
यस्य स्वाङ्गमभिघ्नतोऽरिषु भृशं
नाशोऽभितः शोभितः ।
श्रीमेघोऽस्य कवेरसौ किल वृह-
द्धामातुलो मातुलो
दृष्टस्त्रासजडं द्विषामधिगत-
त्रासेनया सेनया ।। ६२ ।।

श्रीमानेकः शरण्यः परिभवविपदां
भाजनानां जनानां
रूपेणानुप्रयातो दिवमतिसुभगं
रञ्जयन्तं जयन्तम् ।
भ्राता तन्मातुरन्यः शशिधवलयशः
कारणानां रणानां
कर्तुः पुत्रोऽग्रबोधिः जनशिरसि लस-
द्भासुराज्ञः सुराज्ञः ।। ६३ ।।
आदायैनं दशायां स्थितमपि
तदहः स्रस्तनाम्यां स्तनाभ्यां
तुष्टौ तस्मिन्गदाना-
मरिहतपितृके वारयन्तौ रयं तौ ।।
आत्मापत्याविशेषं पुपुषतुरहत-
प्रमेदान्तौ मदान्तौ
यत्सानाथ्यात् स काव्यं व्यरचय-
दसुरद्विण्महार्थं महार्थम् ।। ६४ ।।

इति श्रीसिंहलस्य कुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
विंशतिः सर्गः समाप्तिमगमत् ।।

"https://sa.wikisource.org/w/index.php?title=जानकीहरणम्&oldid=243242" इत्यस्माद् प्रतिप्राप्तम्