सामग्री पर जाएँ

छन्दोमञ्जरी

विकिस्रोतः तः
छन्दोमञ्जरी
[[लेखकः :|]]

छन्दोमञ्जरी
'प्रभा' 'रुचिरा' संस्कृत-हिन्दीव्याख्योपेता
प्रथम स्तबकः
देवं प्रणम्य गोपालं वैद्यगोपालदासजः ।
सन्तोषातनयश्छन्दो गङ्गादासस्तनोत्यदः ।।1।।
विवर्तमानं जगदेकखण्डेऽप्यखण्डभूतं यदचिन्त्यसत्त्वम् ।
स्वात्मैकभानं निगमैकमानं वन्दामहे तच्चितिरूपतत्त्वम् ।।1।।
श्रीमान् सुधीनो हरिदत्तशास्त्री विद्वद्वरः शङ्करदेवशास्त्री ।
आवामुभौ स्वौ पितरौ प्रणम्य टीकां प्रभाख्यां तनुवो मनोज्ञाम् ।।2।।
प्रभा- नमो विघ्नविनाशाया। स्वेष्टदेवताप्रणतिरूपमङ्गलाचरणपुरः सरं ग्रन्थप्रणेता
स्वप्रतिपाद्यविषयं निदधाति- देवमिति। वैद्यः वैद्यकुलोद्भवः यो 'गोपालदास' इतिनामधेयः तस्माज्जात इति वैद्यगोपालदासजः, सन्तोषातनयः सन्तोषाख्यकामिनीपुत्रः, गङ्गादासः कविः, देवम् इष्टदेवं, गोपालं श्रीकृष्णं, प्रणम्य प्रणर्ति विधाय, अदः एतत्, छन्दः छन्दःशास्त्रं, तनोति विरचयति।
विमलबुद्धि वरशक्तिकर सुख सिख सुयश प्रदत्त ।
मन मधुकर तव पदकमल रत शंकर हरिदत्त।।
श्रीश ईश जगदीश जय जय जय करुणाकन्द ।
सफल कीजिये प्रभु तिलक,'रुचिरा' रुचिर अमन्द ।।
सन्ति यद्यपि भूयांसश्छन्दोग्रन्था मनीषिणाम् ।
तथापि सारमाकृष्य नवकार्थो ममोद्यमः ।।2।।
प्र0- ननु पिङ्गलादिकविकुलावतंसप्रणीतेषु छन्दः सूत्रादिषु सत्सु किमनेन श्रमेणेति शङ्कां निरस्यति- सन्तीति। यद्यपि मनीषिणां पूर्वाचार्याणां पिङ्गलादीनां, भूयांसः बहवः, छन्दोग्रन्थाः छन्दःशास्त्राणि, सन्ति विद्यन्ते, तथापि तेषु विद्यमानेष्वपि,सारं पिङ्गलादिभ्यस्तत्त्वभागम्, आकृष्य सङ्गृह्य, नवकार्थो बालव्युत्पत्त्यै, मम गङ्गादासस्य, उद्यमः श्रमः, अस्तीति शेषः ।
इयमच्युतलीलाढ्या सद्वृत्ता जातिशालिनी ।
छन्दसां मञ्जरी कान्ता सभ्यकण्ठे लगिष्यति ।।3।।
प्र0- ननु बालव्युत्पत्त्यर्थत्वादस्य ग्रन्थस्य विद्वत्सु किं प्रयोजनमिति तदाह-इयमच्युतेति। इयं वक्ष्यमाणा, अच्युतलीलाढ्या श्रीकृष्णकौंतुककमनीया, सद्वृत्ता मनोहारिपद्यपरीता, जातिशालिनी मात्रानियतपद्यमनोहारिणी, कान्ता रमणीया, छन्दसां मञ्जरी छन्दोमञ्जरीत्यर्थः सभ्यकण्ठे विद्वद्वृन्दगलभागे, लगिष्यति सङ्गता भविष्यति। गोपाललीलालावण्ययुतामिमां विद्वांसः सहृदयाः सम्मानं सम्प्रापयिष्यन्तीति भावः। अत्र कान्तापदेन काचिद्रमणीति ध्वन्यते। रमणीपक्षेअच्युतलीलाढ्या पूर्णविलासशोभिनी, सद्वृत्ता सच्चरित्रा, जातिशालिनी कुलीना, इयं मञ्जरी हारभूता हारिणी कोविदकण्ठमलङ्करिष्यतीति भावः।
पद्यं चतुष्पदी, तच्च वृत्तं जातिरिति द्विधा ।
वृत्तमक्षरसङ्ख्यातं जातिर्मात्राकृता भवेत् ।।4।।
प्र0- प्रतिपाद्यं तावत्प्रतिपादयति-पद्यमिति। श्लोकस्य चतुर्थो भागः पादः । 'मात्रिकस्य चतुर्भागः पाद इत्यभिधीयते' इत्युक्तत्वात्। मात्रिकस्य श्लोकस्य चतुष्पदी पादचतुष्टययुक्तं, पद्यं नाम निगद्यते। तच्च पद्यं, वृत्तं वृत्तनामकं, जातिः जात्याख्यमिति, द्विधा द्विप्रकारकं भवति। अक्षरसङ्ख्यातं वर्णपरिगणितं, वृत्तं वृत्तनामधेयं भवेत्। मात्राकृता ह्रस्वादिमात्रानिबद्धा,जातिः जातिनामकं भवेत्। एकमात्रो लघुवर्णः, द्विमात्रो गरूरिति ज्ञेयम्। तथा च-
एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते।
त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनञ्चार्धमात्रकम्।। इति।
सममर्धसमं वृत्तं विषमञ्चेति तत् त्रिधा ।
समं समचतुष्पादं भवत्यर्धसमं पुनः ।।5।।
आदिस्तृतीयवद् यस्य पादस्तुर्यो द्वितीयवत् ।
भिन्नचिह्नचतुष्पादं विषमं परिकीर्तितम् ।।6।।
प्र0- सममिति। तत्पूर्वोक्तं वृतं, समम् अर्धसमं विषमञ्चेति त्रिधा त्रिप्रकारकं भवति। समचतुष्पादं तुल्यचरणचतुष्टयं, समं समनामकं पद्यम्। यस्य पद्यस्य आदिः प्रथमपादः, तृतीयवत् तृतीयचरणसमानः, एवं तुर्यः चतुर्थः, पादः चरणः, द्वितीयवत् द्वितीयपादसदृशः, तत् पुनः अर्धसमं नाम पद्यं, परिकीर्तितं निगदितम्। भिन्नचिह्नचतुष्पादं विभन्नलक्षणपादचतुष्टयं, विषमं नाम वृत्तं, परिकीर्तितं कथितम्।
म्यरस्तजभ्नगैर्लान्तैरेभिर्दशभिरक्षरैः ।
समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ।।7।।
प्र0- साङकेतिकान् दश गणान् निर्दिशति- म्यरस्तेति। एभिर्निर्दिश्यमानैः, लान्तैः अन्ते लः येषां तैः, मश्च यश्च रश्च सश्च तश्च जश्च भश्च नश्च गश्च तैः म्यरस्तजभ्नगैः दशभिः दशसंख्याकैः, अक्षरैर्वर्णैः, समस्तं, निखिलं, वाङ्मयं वाग्रूपं छन्दःशास्त्रं, विष्णुना परमेश्वरेण, त्रैलोक्यमिव त्रिभुवनमिव, व्याप्तं युक्तम्। एभिर्दशवर्णैरेव समस्तच्छन्दांसि लक्षयिष्यन्त इति भावः।
मस्त्रिगुरुस्त्रिलघुश्च नकारो भादिगुरुः पुनरादिलघुर्यः ।
जो गुरुमध्यगतो रलमध्यः सोऽन्तगुरुः कथितोऽन्तलघुस्तः ।।8।।
प्र0- सङ्केतान् लक्षयति-मस्त्रीति। मकारादयो दशवर्णा एव दशगणा वेदितव्याः, यथा मगणः,यगण इत्यादि। त्रिगुरुः यत्र त्रयो वर्णा गुरवः, स मः मगणो भवति। त्रिलघुः यत्र त्रयो लगुवर्णाः, स नः नगणः। भादिगुरुः भ इति लुप्तप्रथमैकवचनम्, आदिगुरुः यत्र प्रथमो गुरुर्भवति, अपरौ द्वौ लघू, स भः भगणो भवति। पुनश्च, आदिलघुः यत्राद्याक्षरं लघु, द्वौ गुरू, स यः यगणः। गुरुमध्यगतः यत्र मध्ये गुरुवर्णः, आद्यन्तयोः लघू, स जः जगणो भवति। रलमध्यः, र इति लुप्तप्रथमैकवचनम्, लमध्यः यत्र मध्ये लघुः, आद्यन्तयोः
गुरू, स रः रगणः। अन्तगुरुः यत्रान्ते गुरुः, पूर्वौ द्वौ लघू, स सः सगणः। अन्तलघुःयत्रान्ते लघुः पूर्वौ द्वौ गुरू, स तः तगणः, कथितः निगदितः ।

गुरुरेको गकारस्तु लकारो लघुरेककः ।
क्रमेण चैषां रेखाभिः संस्थानं दर्श्यते यथा ।।9।।
प्र0- गुरुरिति। एको वर्णः, गुरुः गकारः। ग इत्युक्ते एको वर्णो गुरुरिति ज्ञेयम्।
एककः एको वर्णः, लघुर्लकारः। ल इत्युक्ते एको वर्णो लघुरिति ज्ञेयम्। एषां मकारादीनां गणानां,रेखाभिः चिह्नविशेषैः, संस्थानम् आकृतिः, दर्श्यते बोध्यते। यथा गुरुवर्णस्याकृतिः (ऽ)एवम्। लघोराकृतिस्तु (1)एवम्।
ज्ञेयाः सर्वान्तमध्यादिगुरवोऽत्र चतुष्कलाः ।
गणाश्चतुर्लघूपेताः प़ञ्चार्यादिषु संस्थिताः ।।10।।
प्र- इदानीं जातेर्गणान् निर्दिशति-ज्ञेया इति। अत्र चतुर्लघूपेताः लघुवर्णचतुष्टयसहिताः, सर्वान्तमध्यादिगुरवः गुरुशब्दस्य द्वन्द्वान्ते श्रुयमाणत्वात्प्रत्येकं सम्बन्धः। तेन सर्वगुरुः(ऽऽऽ), अन्तगुरुः(।।ऽ), मध्यगुरुः(।ऽ।), आदिगुरुः(ऽ।।),चतुर्लघुः(।।।।) एवम्प्रकाराः पञ्च, चतुष्कलाः, चतुर्मात्रारूपा गणाः, आर्यादिषु जातिछन्दःसु, संस्थिताः ज्ञेयाः ।
सानुस्वारश्च दीर्घश्च विसर्गी च गुरुर्भवेत् ।
वर्णः संयोगपूर्वश्च तथा पादान्तगोऽपि वा ।।11।।
प्र0- साम्प्रतं गुरुवर्णान् निर्दिशति- सानुस्वार इति। सानुस्वारः अनुस्वारसहितः स्वरः (अ, इ, उ, ऋ, लृ,) गुरुर्भवेत। दीर्घः (आ, ई, ऊ, ॠ, ए, ऐ, ओ, औ), विसर्गी विसर्गसहितः, संयोगपूर्वकः संयुक्तात्। पूर्वो वर्णः, पादान्तगः चरणस्यान्तिमो लघुवर्णो वा विकल्पेन गुरुर्भवेत्। वेत्यस्य व्यवस्थितत्वात् वृत्तेषु लघुर्वा गुरुर्भवेत्, जातिषु लघुर्गरुश्च वा गुरू भवत इति ज्ञेयम्। अनुस्वारस्योपलक्षणवाचित्वादन्ते। व्यञ्जनसद्भावेऽपि लघुर्गुरुः स्यात्।
अत्र पादान्तगो लघुर्गुरुर्भवेद्वा । यथा-
तरुणं सर्षपशाकं नवौदनं पिच्छिलानि च दधीनि।
अल्पव्ययेन सुन्दरि! ग्राम्यजनो मिष्टमश्नाति ।।
सुन्दरीति ग्राम्यशब्दे परे विकल्पेन लघुत्वम् ।
प्र0- पादान्तस्थस्य लघोर्विकल्पेन गुरुत्वमुदाहरति- तरुणमिति। हे सुन्दरि! ग्राम्यजनः ग्रामवासिलोकः, तरुणं नूतनं, सर्षपशाकं सिद्धार्थकशाकं, नवौदनं नूतनतण्डुलान्नं, पिच्छिलानि स्निग्धानि दधीनि च, मिष्टं मधुरं यथा स्तात्तथा, अल्पव्ययेन न्यूनधनेन, अश्नाति भक्षयति। अत्र आर्यावृत्तम् । तल्लक्षणं तु प्रथमपादे द्वादश मात्राः, द्वितीयपादे अष्टादश, तृतीयपादे पुनर्द्वादश, चतुर्थे तु पञ्चदश मात्राः। अत्र श्लोके द्वितीयचतुर्थपादयोरन्तिमवर्णयोर्लघ्वोर्गुरुत्वम्। तृतीयपादे पादान्तस्येकारस्य
ग्राम्येति संयुक्तात्पूर्वत्वेऽपि न गुरुत्वम्। एवं न छन्दोभङ्ग इत्यर्थः ।
  तथा मत्पितुः पारिजातहरणनाटके-
सिन्दूरपूरकृतगरिकरागशोभे शश्वन्मदस्त्रवणनिर्झरवारिपुरे ।
सङ्ग्रामभूमिगतमत्तसुरेभकुम्भकूटे मदीयनखराशनयो विशन्तु ।।
अत्र तृतीयचतुर्थपादान्तलघ्वोर्गुरुत्वम् ।
प्र0- पादान्तलघोर्गुरुत्वमुदाहरति- सिन्दूरेति। शक्रं प्रति क्रुद्धस्य गरुत्मत उक्तिरेषा। मदीयाः मामकीनाः नखराः नखा एव अशनयः वज्रानि, सिन्दूरपूरेण सिन्दूरसमूहेन कृता गौरिकरागस्य गौरिकसदृशलौहित्यस्य शोभा कान्तिर्यस्य तस्मिन्, शश्वत् नित्यं यत् मदस्त्रवणं दानरक्षणं तदेव निर्भरवारिपूरः प्रस्त्रवणसलिलसमूहः यतः तस्मिन्,
सङ्ग्रामभूमिगतः युद्धक्षेत्रेगतः यः मत्तः सुरेभः देवकुञ्जर ऐरावतः तस्य कुम्भ एव कूटं शिखरं तस्मिन्, विशन्तु प्रविशन्तु। एकदेशवर्तिरूपकालङ्कारः। उक्तं च 'यत्र कस्यचिदार्थत्वमेकदेशविवर्ति तत्' इति। वसन्ततिलकं वृत्तम्। अत्र तृतीयचतुर्थपादान्तस्थयोः 'म्भ' 'न्तु' वर्णयोर्लघ्वोरपि गुरुत्वम्।
   तथा ममाच्युतचरितेऽपि -
रक्तेन केशिदनक्षतसम्भवेन रेजे स मण्डिततरो हरिबाहुदण्डः ।
तद्दन्तसन्दलितभीमभुजप्रतापवह्नेरिव स्फुटकणप्रकरेण कीर्णः ।।
अत्र प्रथमतृतीयपादान्तस्यापि लघोर्गुरुत्वम् ।
प्र0- रक्तेनेति। सः हरिबाहुदण्डः हरेर्विष्णोर्बाहुरेव दण्डः, केशिदशनक्षतसम्भवेन
केशिनामकदानवदन्तव्रणजातेन, रक्तेन लोहितेन, मण्डिततरः भूषिततरः, तस्य केशिनः दन्तैदशनैः सन्दलितः कर्तितः यः भीमः भयङ्करः भुजः बाहुस्तस्य प्रतापः तेज एव वह्निः अग्निस्तस्य, स्फुटः प्रदीप्तः यः कणप्रकरः कणसमूहस्तेन सन्दीप्तस्फुलिङ्गसमूहेनेत्यर्थः,कीर्णः व्याप्त इव, रेजे शुशुभे। वसन्ततिलकं वृत्तम्। अत्र प्रथमतृतीयपादान्तस्थस्य 'नकारस्यपकारस्य'च गुरुत्वं बोध्यम्।
  'पह्ने वा' इति पुनः पिङ्गलमुनेर्विकल्पविधायकं सूत्रम्। उदाहरणं यथा कुमारे-
सा मङ्गलस्नानविशुद्धगात्री गृहीतप्रत्युद्गमनीयवस्त्रा ।
निर्वृत्तपर्जनन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे ।।
अत्र प्रशब्दे परे गुरोर्लघुत्वम् ।

प्र0- प्रह्ने वेति। प्रे अथवा ह्रे शब्दे परतः पूर्वो लघुर्विभाषया गुरूः स्यादित्यर्थः। परमेतत्सूत्र नाद्यत्वे प्रचलिते पिङ्गलछन्दःसूत्रे दृश्यते। सा मङ्गलेति। मङ्गलस्नानेन मङ्गलार्थाभिषेकेन विशुद्धगात्री पवित्रकलेवरा, गृहीतं धृतं प्रत्युद्गमनीयवस्त्रं पवित्रश्वेतवसनं यया सा, पार्वती, निर्वृत्तः सम्पन्नः पर्जन्यस्य जलदस्य जलेन सलिलेन अभिषेकः स्नानं यस्याः सा जलदजलक्लिन्नेत्यर्थः, प्रफुल्लकाशा विकसितकाशप्रसूना, वसुधा धरा इव, रेजे शुशुभे। उपजातिर्वृत्तम् । अत्र 'प्रे' तिसंयुक्तात्पूर्ववर्तिनस्तकारस्य न गुरुत्वम्। अतो न छन्दोभङ्गदोष इति।
प्राप्य नाभिह्रदमज्जनमाशु प्रस्थितं निवसनग्रहणाय।
औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम् ।।
अत्र ह्र शब्दे परे गुरोर्लघुत्वम् ।
प्र0- प्राप्येति। स्त्री काचित्कान्ता, आत्मकराभ्यां स्वहस्ताभ्यां, नाभिरेव ह्रदः तत्र मज्जनं प्राप्य आसाद्य, आशु त्वरितं, निवसनग्रहणाय वस्त्राकर्षणाय, प्रस्थितं प्रवृत्तम्, औपनीविकं नीविनिकटे समागतमित्यर्थः। वल्लभस्य प्रेयसः, करं हस्तम्, अरुन्ध रुरुधे। स्वागता वृत्तम् । अत्र नाभेरिकारस्य ह्रशब्दात्पूर्वस्य पूर्वनियमेन न गुरुत्वम्।

तीव्रप्रयत्नोच्चारणेनात्र लघुत्वमिति कण्ठाभरणः । यदुक्तम्-
यदा तीव्रप्रयत्नेन संयोगादेरगौरवम् ।
न च्छन्दोभङ्ग इत्याहुस्तदा दोषाय सूरयः ।।
प्र0- तीव्रेति। तीव्रः उत्कटः प्रयत्नः यस्मिन् तादृशं यत् उच्चारणं तेन गुरुरपि लघुर्भवतीति कण्ठाभरणकार आचार्यो वदति। संयुक्तात्पूर्वो गुरुरिति नियमो न सार्वत्रिक इति पूर्वाचार्याणां राद्धान्तं निरूपयति- यदेति। यदा तीव्रप्रयत्नेन द्रुतगत्या पठनेन, संयोगादेः संयुक्तपूर्ववर्णस्य, अगौरवं लाघवं भवति, तदा छन्दोभङ्गः, न दोषाय न दोषमावहति।
यतिर्जिह्वेष्टविश्रामस्थानं कविभिरुच्यते ।
सा विच्छेदविरामाद्यैः पदैर्वार्च्या निजेच्छया ।।12।।
प्र0- सम्प्रति यतिलक्षणं निर्दिशति- यतिरिति। जिह्वाया इष्टं विश्रामस्थानं स्थितिस्थानं, कविभिः यतिरुच्यते कथ्यते। यत्र जिह्वा स्वेच्छया विरमति तत्र यतिरित्यर्थः। सा यतिः, निजेच्छया उच्चारयितुरिच्छया, विच्छेदविरामाद्यैः विच्छेदविरामप्रभृतिभिः,पदैः शब्दैः, वाच्या बोधनीया। विच्छेदविरामविरतिप्रभृतयः शब्दा यतिपर्याया इत्यर्थः।
क्वचिच्छन्दस्यास्ते यतिरभिहिता पूर्वकृतिभिः ।
पदान्ते सा शोभां व्रजति पदमध्ये त्यजति च ।
पुनस्तत्रैवासौ स्वरविहितसन्धिः श्रयति तां
यथा कृष्णः पुष्णात्वतुलमहिमा मां करुणया ।।13।।
अयं च श्लोकश्छन्दोगोविन्दे मम गुरोः ।
प्र0- विशेषं निर्दिशति- क्वचिदिति। अयं 'क्वचि'दित्यादि श्लोको गुरोः पुरुषोत्तमस्य छन्दोगोविन्दनामधेयग्रन्थे वर्तते। पूर्वकृतिभिः पूर्वविद्वद्भिः, अभिहिता यतिः क्वचिच्छन्दसि छन्दोविषये आस्ते वर्तते, नतु सर्वत्रेति भावः। परन्तु या यतिः पदान्ते स्थिता सती, शोभां मनोहरत्वं, व्रजति प्रप्नोति, सैव यतिः पदमध्ये स्थिता सती, त्यजति सुश्रवतां विमुञ्चति। पदमध्यस्था यतिः कर्णकटुरिति भावः। पुनः किन्तु, तत्रैव पदमध्य एव, असौ यतिः, स्वरविहितसन्धिः स्वरकृतसन्धियुक्ता सती, तां शोभां, श्रयति समासादयति। तथा चोदाहरणम्-यथेति। अतुलः अनुपमो महिमा महत्त्वं यस्य स कृष्णः, करुणयाअनुकम्पया, मां पुष्णातु रक्षतु। अत्र शिखरिणी नाम वृत्तम् 'रसै रुद्रैश्छिन्ने'त्यादि लक्षणम्। पूर्वषडक्षरैर्यतिः कार्या। उदाहृते च पुष्णेत्यत्र यतिः दुःश्रवा, परन्तु पुष्णात्वतुलेति सन्धिसम्बन्धात् शोभां प्राप्नोति। कविकल्पलतायाम्-
एवं यथा यथोद्वेगः सुधियां नोपजायते।
तथा तथा मधुरतानिमित्तं यतिरिष्यते ।।
यस्मिन् यतिनिर्देशे सुश्रवता भवेत्सा यतिरादरणीयेति भावः।

श्वेतमाण्‍डव्यमुख्यास्तु नेच्छन्ति मुनयो यतिम् ।
इत्याह भट्टः स्वग्रन्थे गुरुर्मे पुरुषोत्तमः ।।14।।
प्र0- श्वेतेति। श्वेतमाण्डव्यमुख्याः श्वेतमाण्डव्यप्रभृतयो विद्वांसः, यर्ति न इच्छन्ति न अङ्गीकुर्वन्ति, इति मे गुरुरुपाध्यायः पुरुषोत्तमभट्टः, स्वग्रन्थे आह कथयति। न मनोरमं मतमेतत्, यतिभ्रंशदोषापत्तेः । यथाह काव्यादर्शे -
श्लोकेषु नियतस्थाने पदच्छेदं यर्ति विदुः ।
तदपेतं यतिभ्रष्टं श्रवणोद्वेजनं यथा।
नियतस्थाने यतिः कार्यैव अन्यथा दुःश्रवता सम्पद्येत ।

अत एव मुरारिः -
सन्तुष्टे तिसृणां पुरामपि रिपौ कण्डूलदोर्मण्डली-
लीलालूनपुनः प्ररूढशिरसो वीरस्य लिप्सोर्वरम् ।
याञ्चादैन्यपराञ्चि यस्य कलहायन्ते मिथस्त्वं वृणु
त्वं वृण्वित्यभितो मुखानि, स दशग्रीवः कथं कथ्यताम्।।
प्र0- संतुष्ट इति। मुरारिकृतोऽयं श्लोकः । जनकं प्रति रावणपुरोहितस्य शोष्कलस्य उक्तिरेषा। तिसृणां पुरां नगरीणां, रिपौ शत्रौ त्रिपुरारौ शिवे इत्यर्थः। सन्तुष्टे तपस्यया प्रसन्नेऽपि, कण्डूलया कण्डूयनपरया दोर्मण्डल्या बाहुसंहत्या लीलया क्रीडया लूनानि छिन्नानि पुनःप्ररूढानि भूयः समुत्पन्नानि शिरांसि मूर्घानो यस्य तथाविधस्य,वरं वाञ्छितं लिप्सोः प्राप्तुमिच्छेर्यस्य वीरस्य रावणस्य मुखानि,याञ्चादैन्यं
प्रार्थनासञ्जातदीनभावः तेन पराञ्चि अवनतानि सन्ति, अभितः उभयतः, त्वं वृणु त्वं वृणु इति, कलहायन्ते विवादं कुर्वन्ति। एवं स रावणो, यो वरयाञ्चायामपि कुण्ठितः, कथं कथ्यतां वर्ण्यताम्, एवं महामहिमाऽवर्णनीय एव। शार्दूलविक्रीडितं वृत्तम्। द्वादशाक्षरावसाने यतिर्नियता, सा तृतीयपादे कलहायन्त इति हावर्णान्ते न संलक्ष्यते।
जयदेवोऽपि --
साध्वी माध्वीक! चिन्ता न भवति भवतः शर्करे! कर्करासि
द्राक्षे! द्रक्ष्यन्ति के त्वाममृत!मृतमसि क्षीर!नार रसस्त ।
माकन्द!क्रन्द कान्ताधर ! धरणितलं गच्छ , यच्छन्ति यावद्
भावं श्रृङ्गारसारस्वतमयजयदेवस्य विश्वग्वचांसि ।।
प्र0- जयदेवकृतश्लोकोऽयम्- साध्वीति। हे माध्वीक! हे मधो! इह अस्मिन् संसारे, यावत् यत्कालपर्यन्तं, श्रृङ्गारसारस्वतमयजयदेवस्य श्रङ्गाररसभरभरितकवेर्जयदेवस्य, वचांसि सूक्तानि, विष्वक् समन्ततः, भावं प्रीर्तिं, यच्छन्ति वितरन्ति, तावत् भवतः चिन्ता निजसमादारविषयको विचारः,न साध्वी न मनोहरा भवति। हे शर्करे! त्वं, कर्करा असि कठिनासि। हे द्राक्षे ! त्वां के रसज्ञाः, द्रक्ष्यन्ति अवलोकयिष्यन्ति, दुर्गमदेशजातत्वान्नादरास्पदं त्वमित्यर्थः। हे अमृत! त्वं मृतमसि!न जीवन् कश्चित् त्वां प्राप्नोतीति भावः। हे क्षीर! ते तव, रसः नीरं, सलिलसदृशम्, आवर्तनात्पूर्वमस्वादुत्वात्। हे माकन्द! रसाल! त्वं, क्रन्द रुदिहि। हे कान्ताधर! त्वं, धरणितलं रसातलं, गच्छ प्रयाहि। पृथिव्यामवस्थानं न शोभनमित्यर्थः। जयदेवकृतकाव्यस्य माधुर्यातिशयं द्योतयितुं माध्वीकादितिरस्कारः । स्त्रग्धरावृत्तम्। अत्र तृतीयचरणे सप्तमाक्षरेण विहिता यतिः स्वसन्धिवशात् सुश्रवैव, किं तु चातुर्थपादे सप्तमचतुर्दशयोर्यतिदोष एवेति।
एवमन्येऽपि-
कत्यद्रिप्रतिरोधिताः कति नादीपाथोनिधिप्लावित
कत्येवाटवितां गतः कति न वा भूदेवदेवैर्वृत्ताः
भूम्यो भूमिपतीन्द्र! तावकयशःप्रस्तावनामण्डली
कोष्ठीकृत्य जगद्धनं कतिवराटीभिर्मुदं यास्यति।।
प्र0- कतीति। कस्यचित् नृपस्य प्रशस्थिरियम्- हे भूमिपतीन्द्र! महाराज! भवतः कति भूम्यः भूभागाः, अद्रिणा गिरिणा, प्रतिरोधिताः व्याप्ताः। कति भूम्यः कति नद्यः सरितः पाथोनिधयः सागराश्च तैः प्लाविताः आर्द्रीकृताः। कति एव च, अटवितां अरण्यत्वं, गताः प्राप्ताः। कति भूम्यः, भूदेवैर्ब्राह्मणैः देवैर्देवताभिश्च , न वृत्ताः न गृहीता इति काकुः, किं तु गृहीता एवेत्यर्थः। तावकयशःप्रस्तावनामण्डली त्वत्कीर्तिकीर्तनसन्ततिः, जगद्धनं संसारस्य वित्तं, कोष्ठीकृत्य विषयीकृत्य, कतिवराटीभिः कतिपयैर्वराटकैः, मुदं प्रसन्नतां, यास्यति प्राप्स्यति। सामान्यं जगद्धनं भवतो नोपयुक्तमिति मत्वा न सन्तोषं प्रयास्यति। शार्दूलविक्रीडितं वृत्तम्। अत्र चतुर्थपादे द्वादशा-
क्षरे यतिभङ्गः कविना स्वीकृतः।
आरभ्यैकाक्षरात् पादादेकैकाक्षरवर्धितैः ।
पादैरुक्थादिसंज्ञं स्याच्छन्दः षड्विंशतिं गतम् ।।15।।
उक्थाऽत्युक्था तथा मध्या प्रतिष्ठाऽन्या सुपूर्विका ।
गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च ।।16।।
त्रिष्टुप् च जगती चैव तथाऽतिजगती मता ।
शर्करी सातिपूर्वा स्यादष्ट्यत्यष्टी तथा स्मृते ।।17।।
धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः ।
विकृतिः संस्कृतिश्चैव तथाऽतिकृतिरुत्कृतिः ।।18।।
इत्युक्ताश्छन्दसां संज्ञाः क्रमशो वच्मि साम्प्रतम् ।
लक्षणं सर्ववृत्तानां मात्रावृत्तानुपूर्वकम् ।।19।।

इति छन्दोमञ्जर्यो मुखबन्धाख्यः प्रथमः स्तबकः ।
Iप्र- अक्षरलाघवगौरवेण समवृत्तानां नामभेदान् दर्शयति- आरभ्येति।
एकस्मिन् श्लोके चत्वारः पादा भवन्ति, एकाक्षरात् एकमक्षरं यस्मिन् तादृशात् पादात् आरभ्य, एकैकाक्षरवर्धितैः एकैकाक्षरेण वर्धितैः द्व्यक्षरैरित्यर्थः, पादैः चरणैः,षड्विंशतिं षड्विंशतिप्रकारतां, गतं छन्दः, उक्थादिनामकं स्यात्, भवेत्। यस्य वृत्तस्य प्रतिपादमेकमक्षरं, तदुक्थासंज्ञकं स्यात्। द्व्यक्षररचितपादस्य नाम अत्युक्थेति। एवं षड्विंशत्यक्षरं यावत् क्रमेण नाम ज्ञेयम्। तथा- (1)उक्था (2)अत्युक्था (3)मध्या (4)प्रतिष्ठा (5)सुप्रतिष्ठा (6)गायत्री (7)उष्णिक् (8)अनुष्टुप् (9)बृहती (
10)पंक्तिः (11)त्रिष्टुप् (12)जगती (13)अति जगती (14)शर्करी (15)अतिशर्करी (16)अष्टिः (17)अत्याष्टः (18)धृतिः (19)अतिधृतिः (20)कृतिः (21)प्रकृतिः (22)आकृतिः (23)विकृतिः (24)संस्कृतिः (25)अतिकृतिः (26)उत्कृतिः। पूर्वाचार्योक्ता एताश्छन्दसां संज्ञा उक्ताः। अनेनैव क्रमेण सर्ववृत्तानां लक्षणं लक्ष्यलक्षणप्रदर्शनपुरः सरं सर्वाणि वृत्तानि, मात्रावृत्तानुपूर्वकं मात्रावृत्तार्यादिलक्ष्यणप्रदर्शनपूर्वकं, साम्प्रतमिदानीं, वच्मि कथयामि।
इति छन्दोमञ्जरीटीकायां प्रभाख्यायां प्रथमः स्तबकः।

अथ दण्डकाः
यदिह नयुगलं ततः सप्त रेफास्तदा चण्डवृष्टिप्रपातो भवेद्दण्डकः ।।1।।
प्रलयघनघटामहारम्भमेघावलीचण्डवृष्टिप्रपाताकुलं गोकुलं
सपदि समवलोक्य सव्येन हस्तेन गोवर्धनं नाम शैलं दधल्लीलया ।
कमलनयन! रक्ष रक्षेति जल्पत्त्रसन्मुग्धगोपाङ्गनाऽऽलिङ्गनानन्दितो
गलदभिनवधातुधाराविचित्राङ्गरागो मुरारातिरस्तु प्रमोदाय नः ।।
प्र0- यदिहेति। यद् यदा, इह दण्डकजातौ, नयुगलं नगणद्वयं ततः सप्तरेफाः सप्त रगणाः स्युः, तदा चण्डवृष्टिप्रपातो नाम दण्डको भवति।
प्रलयेति। गोकुलं, प्रलये प्रलयकाले घनघटानां मेघवृन्दानामिव महान् आरम्भो यस्याः
तादृश्या मेघावल्याः चण्डवृष्टिप्रतापेन तुमुलवर्षणधारया आकुलं भीतं समवलोक्य दृष्ट्वा, सपदि सद्यः लीलया अनायासेन, सव्येन वामेन हस्तेन, गोवर्धनं नाम शैलं पर्वतं, दधत् धारयन्, गलन्तीभिरुपरि पतन्तीभिः अभिनवामिर्नूतनाभिर्धातूनां मनःशिलाऽऽदीनां
धाराभिर्विचित्रो नानावर्णः अङ्गानां रागो यस्य सः, विचित्रोऽङ्गारागो विलेपद्रव्यं वा यस्य सः, 'हे कमलनयन! पद्मपत्राक्ष! 'रक्षरक्षे'ति जल्पन्तीनां वदन्तीनां, त्रसन्तीनां भयभीतानां, मुग्धानां सुन्दरीणां गोपाङ्गनानां गोपवधूनाम्, आलिङ्गनेन आनन्दितो हर्षितः,मुरारातिः श्रीकृष्णः, नोऽस्माकं, प्रमोदाय हर्षाय अस्तु वर्तताम् ।
प्रतिचरणविवृद्धरेफाः स्युरर्णोऽर्णव ।
व्यालजीमूतलीलाकरोद्दामशङ्खादयः ।।2।।
जय जय जगदीश! विष्णो! हरे ? राम ! दामोदर ! श्रीनिवासाच्युतानन्त ! नारायण ! त्रिदशगणगुरो ! मुरारे ! मुकुन्दासुरारे ! हृषीकेश ! पीताम्बर ! श्रीपते ! माधव ! ।
गरुडगमन! कृष्ण! वैकुण्ठ! गोविन्द! विश्वम्भरोपेन्द्र! चक्रायुधादोक्षज! श्रीनिधे! बलिदमन! नृसिंह! शौरे! भवाम्भोधिघोरार्णसि त्वं निमज्जन्तमभ्युद्धरोपेत्य नाम् ।।
एवमर्णवादीनामप्युदाहरणानि बोध्यानि!
प्र0- प्रतिचरणेति। चरणे चरणे इति प्रतिचरणं प्रतिपादमित्यर्थः, विवृद्धो रेफो रगणो यत्र ते दण्डकाः अर्णोऽर्णवादयः स्युः। सर्वेषु दण्‍डकेषु आदौ नगणद्वयमावश्यकम्, ततः परं सप्तसु रेफेषु चण्डवृष्टिप्रपातो नाम दण्डकः। एकरेफविवृद्धौ अर्थाद् नगणद्वयानन्तरमष्टसु रेफेषु अर्णोनामा दण्डकोऽयम्। एवं नगणद्वयानन्तरं नवसु रेफेषु अर्णवः, दशसु व्यालः,एकादशसु जीमूतः, द्वादशसु लीलाकारः, त्रयोदशसु उद्दामः, चतुर्दशसु शङ्खः दण्डको भवति। आदिपदेन आरामसङ्ग्रामादयो दण्डका ज्ञेयाः।
जयेति। हे जगदीश!विष्णो! त्वं, जय जय सर्वोत्कर्षेण वर्तस्व, हे शौरे! त्वमुपेत्य समीपमागत्य, भवः संसार एव अम्भोधिः समुद्रः तस्य धोरे भीषणेऽर्णसि जले, निमज्जन्तम् ब्रुडन्तं माम्, अभ्युद्धर ततो निष्कासय। संसारार्णवान्मामुद्धारयेत्यर्थः ।

प्रचितक समभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिर्येः ।।3।।
मुरहर! यदुकुलाम्भोधिचन्द्र! प्रभो! देवकीगर्भरत्न! त्रिलोकैकनाथ!
प्रचितकपटसुरारिव्रजोद्दामदन्तावलस्तोमविन्द्रावणे केसरीन्द्र !
चरणनखऱसुधांशुच्छटोन्मेषनिः शेषितध्यायिचेतोनिविष्टान्धकार!
प्रणतजनपरितापोग्रदावानलोच्छेदमेघ! प्रसीद प्रसीद प्रसीद ।।
प्र0- प्रचितकेति। नगणद्वयात् परिवर्तिभिः सप्ताभः यगणैः रचितः, धीरधीभिः छन्दोविद्भिः, प्रचितकसमभिधस्तन्नामा दण्डकः, स्मृतः कथितः ।
 मुरहरेति। हे मुरहर! मुराख्यैदेत्यहन्तः! यदुकुलं यदुवंश एव अम्भोधिः सागरः तस्य चन्द्र, आनन्ददायकत्वात् तत्सम्बोधने हे यदुकुलाम्भोधिचन्द्र। हे प्रभो! हे देवकीगर्भरत्न! हे त्रिलोकैकनाथ! लोकत्रयस्वामिन्! प्रचितः प्रवृद्धः कपटः छलं यस्य तथाभूतोयः सुरारिव्रजो दानवसमूहः स एव उद्दामो निरर्गलः दन्तावलस्तोमः हस्तिसमूहः तस्य विद्रावणे विनाशे, केसरीन्द्र! सिंहश्रेष्ठ! चरणनखररूपा ये सुधांशवश्‌चन्द्राः
तेषां छटोन्मेषेण ज्योत्स्नांप्रकाशेन निःशेषितः समाप्तिं नीतः ध्यायिनां ध्यानवतांभक्तानां चेतोनिविष्टः चित्तस्थितोऽन्धकारोऽज्ञानं येन सः तत्सम्बोधनम्, प्रणतजनानां भक्तानां यः परितापः खेदः स एव उग्रः प्रचण्डः दावानलो वनाग्निः तस्य उच्छेदे निवारणे मेघस्वरूप! प्रसीद, प्रसीद, प्रसीद, अस्मान् प्रतीति शेषः ।

सगणः सकलः खलु यत्र भवेत्तमिहप्रवदन्ति बुधाः कुसुमस्तबकम् ।।4।।
विरराज यदीयकरः कनकद्युतिबन्धुरवामदृशः कुचकुड्मलगो
भ्रमरप्रकरेण यथाऽऽवृतमूर्तिरशोकलताविलसत्कुसुमस्तबकः ।
स नवीनतमालदलप्रतिमच्छवि बिभ्रदतीव विलोचनहारि वपु-
श्चपलारुधिरांशुकवल्लिधरो हरिरस्तु मदीयहृदम्बुजमध्यगतः ।।
 प्र0- सगण इति। यत्र यस्मिन् छन्दसि पादे वा, सकलः समस्तः, सगण एव भवेत्, अर्थाद् यस्य सप्तविंशत्यक्षरघटितपादस्य दण्डकस्य सर्वोऽपि पादः सगणेनैव घटितः स्यात्, बुधाः विद्वांसः, तं कुसुमस्तबकं नाम दण्डकं प्रवदन्ति।
विरराजेति। यदीयकरः यदीयहस्तः, कनकद्युतिवत् स्वर्णकान्तिवद् बन्धुरा मनोहारिणी या वामदृक् ललना तस्याः, कुचकुड्मले स्तनकोरके गच्छति तिष्ठतीति कुचकुड्मलगः कुड्मलाकारकुचोपरि स्थित इत्यर्थः, भ्रमरप्रकरेण मिलिन्दवृन्देन, आवृता आच्छादिता मूर्तिः स्वरूपं यस्य तथाभूतः, अशोकलतायाः विलसन् शोभमानः कुसुमस्तबकः पुष्पगुच्छः, यथा इव,
विरराज शुशुभे, नवीनमचिरोद्गतं यत् तमालदलं तमालपत्रं तत्प्रतिमा तत्तुल्या छविः कान्तिर्यस्य तादृशम्, अतीव अत्यन्तम्, विलोचनहारि नेत्राकर्षकं, वपुः शरीरं, विभ्रद धारयन्, चपलावद् विद्युदिव रुचिरा मनोज्ञा या अंशुकवल्लिः उत्तरीयवसनलता तां धरतीति तथाभूतः, स हरिः, मदीयं हृदयमेव अम्बुजं कमलं तस्य मध्यगतः तत्र सन्निहितः, अस्तु वर्तताम् ।
यत्र रेफः परं स्वेच्छया गुम्फितः स स्मृतो
दण्डको मत्तमातङ्गलीलाकरः ।।5।।
हेमगौरं वसानोंऽशुकं शक्रनीलासिते वर्ष्मणि स्पष्टदिव्यानुलेपाङ्किते
तारहारांशुवक्षोनभश्चित्रमालाऽञ्चितो भव्यभूषोज्ज्वलाङ्गः समं सीरिणा ।
अञ्जनाभाम्बरेणेन्दुकुन्दाभदेहेन लीलापरीहासहासोर्मिकौतूहलैः
कंसरङ्गाद्रिगः पातु नश्चक्रपाणिर्गतिक्रीडया मत्तमातङ्गलीलाकरः ।।
प्र0- यत्रेति। यत्र दण्डके प्रतिपादं स्वेच्छया परं केवलं, रेफो रगणः, गुम्फितो निबद्धः स्यात्, स मत्तमातङ्गलीलाकरो नाम दण्डको भवेत्।
 हेमेति। शक्रनीलासिते इन्द्रनीलमणिवत् श्यामवर्णे, स्पष्टः सुप्रकटः दिव्योऽलौकिकः योऽनुलेपोऽङ्गरागस्तेनाङ्किते चिह्निते, वर्ष्मणि देहे, हेमगौरं काञ्चनाभम्, अंशुकं वसनं, पीताम्बरमित्यर्थः वसानो धारयन्, तारोऽत्युच्चो यो हारस्तस्यांशवो यत्रतादृशं वक्ष एव नभ आकाशं तस्मिन् चित्रमालया विविधवर्णमालया अञ्चितोऽलङ्कृतः,
भव्या रमणीया या भूषाऽलङ्कारस्तया उज्ज्वलं रम्यमङ्गं यस्य सः, अञ्जनाभं कज्जलाभं नीलमित्यर्थः अम्बरं वस्त्रं यस्य तेन नीलाम्वरेणेत्यर्थः, इन्दुश्चन्द्रः कुन्दं
माध्यं पुष्पं तदाभः तत्समवर्णो देहः शरीरं यस्य तेन, सीरिणा वलरामेणा, समं सह, लीला विलासः परीहासो नर्मवचनं हासो हास्यं तेषामूर्मिभिः परम्पराभिः कौतूहलैश्चोपलक्षितः, कंसस्य रङ्गो युद्धभूमिरेव अद्रिः पर्वतः तत्र गच्छतीति तथोक्तः, गतिक्रीडया गमनविलासेन हेतुना, मत्तस्य मदोन्मत्तस्य मातङ्गस्य किरणो लीलां विलासं करोतीति तथोक्तः, चक्रपाणिः सुदर्शनहस्तो विष्णुः, नोऽस्मान् पातु रक्षतु ।

लघुर्गुरुनिजेच्छया यदा निवेश्यते तदैष दण्डको भवत्यनङ्गशेखरः ।।6।।
उदेत्यसौ सुधाकरः पुरो विलोकयाद्य राधिके९! विजृम्भमाणगौरदीधिती-
रतिस्वहस्तनिमितः कलाकुतूहलेन चारुचम्पकैरनङ्गशेखरः किमु? ।
इति प्रमोदकारिणीं प्रियाप्रसादलक्षणां गिरं समुद्गिरन्मुरारिरद्भुतां
प्रदोषकालसङ्गमोल्लसन्मना मनोजकेलिकौतुकी करोतुः नः कृतार्थताम् ।।
प्र0- लघुरिति। यदा निजेच्छया प्रथमं लघुस्ततो गुरुर्वर्णः क्रमेण निवेश्यते। स्थाप्यते, तदा एषः अनङ्गशेखरे नाम दण्डको भवेत्।
उदेत्यसाविति। हे राधिके! अद्य इदानीं, पुरः सम्मुखे पूर्वस्यां दिशि वा, विजृम्भमाणाः समुल्लसन्त्यो गौरवर्णा दीधितयः किरणा यस्य तथोक्तः, असौ सुधाकरः चन्द्रः, उदेति, इति विलोकय पश्य। असौ पुरो दृश्यमानश्चन्द्रः, कलाकुतूहलेन निर्माणशिल्पकौतुकेन हेतुना, चारुचम्पकैः मनोहरचम्पकपुष्पैः करणभूतैः, रत्या कामपन्त्या स्वहस्तेन
निर्मितः रचितः, अनङ्गस्य कामदेवस्य शेखरः शिरोभूषणं किमु? इति प्रमोदकारिणीं हर्षप्रदां, प्रियाया राधिकायाः प्रसादः प्रसन्नता तल्लक्षणाम्, अद्भुतं विचित्रां, गिरंवाचं, समुद्गिरन् कथयन्, मनोजस्य कामस्य या केलिः क्रीडा तत्र कौतुकी उत्सुकः रन्तुं समुत्सुक इत्यर्थः, प्रदोषकाले रजनीप्रारम्भे यः सङ्गमः सुरतं तस्मिन् उल्लसद् आसक्तं मनो यस्य तथाभूतः, मुरारिः श्रीकृष्णः, वो युष्माकं, कृतार्थतां कृतकृत्यतां करोतु।
यत्र दृश्यते गुरोः परो लघुः क्रमात्स उच्यते बुधैरशोकपुष्पमञ्जरीति ।।7।।
मूर्ध्नि चारुचम्पकस्त्रजा सलीलवेष्टनं लसल्लवङ्गचारुचन्द्रिका कचेषु
कर्णयोरशोकपुष्पमञ्जरीवतंसको गले च क्रान्तकेसरोपक्लृप्तदाम ।
फुल्लनागकेसरादिपुष्परेणुरूषणं तमौ विचित्रमित्युपात्तवेश एष
केशवः पुनातुः नः सुपुष्पभूषितः सुमूर्तिमानिवागतो मधुर्विहर्तुमत्र ।।
प्र0- यत्रेति। यत्र यस्मिन् दण्डके, क्रमाद् गुरोः, परो लघुर्वर्णो दृश्यते, स बुधैः छन्दोविद्भिः, अशोकपुष्पमञ्जरी नाम दण्डकः कथ्यते।
मूर्घ्नीति। मूर्घ्नी शिरसि चारु मनोहरा या चम्पकस्त्रक् चम्पकपुष्पदामतया सलीलं सविलासं वेष्टनं बन्धनम्, कचेषु केशेषु, लसन्ति शोभमानानि लवङ्गानि लवङ्गकुसुमानि चारुचन्द्रिका मनोहरमल्लिकाकुसुमं च, कर्णयोः अशोकपुष्पमञ्जरीवतंसकः अशोकपुष्पमञ्जरीकृतभूषणं, गले कण्ठे, कान्तं मनोहरं केसरोपक्लृप्तं बकुलपुष्पविरचितं दाम माल्यं, तनौ शरीरे,फुल्लानां विकसितानां नागकेसरादिपुष्पाणां रेणुभिः परागैः रूषणं रञ्जनम्, इति एवम्प्रकारेण, विचित्रमद्भुतं यथा स्यात्तथा उपात्तो गृहीतो धृत इति यावत्, वेशो येन तथाभूतः, सुपुष्पैः शोभनकुसुमैर्भूषितोऽलङ्कृतः, अत्र कानने, विहर्तुमागतः मूर्तिमान् शरीरी, वसन्त इव प्रतीयमानः केशवः, नोऽस्मान्, पातु रक्षतु।
अत्रैते दण्डकाः पुस्तकान्तरेष्वधिका दृश्यन्ते -
यकारैः कवीच्छाऽनुरोधान्निबद्धैः प्रसिद्धो
विशुद्धोऽपरोदण्डकः सिंहविक्रान्तनामा ।।1।।
स्वेच्छ्या रजौ क्रमेण सन्निवेशयत्युदारधीः क-
विः स दण्डकः स्मृतो जगत्यशोकमञ्जरी ।।2।।
यत्र रेफान् कविः स्वेच्छया पाठसौकर्यसापेक्षया रोपय -
त्येष धीरैः स्मृतो दण्डको मत्तमात्तङ्गलीलाकरः ।।3।।
इति छन्दोमञ्जर्या समवृत्ताख्यो द्वितीयः स्तबकः ।
प्र0- यकारैरिति। कवेरिच्छाऽनुसारं स्थापितैर्यगणैः सिंहविक्रान्तनामकोऽन्यो विख्
यातः शुद्धो दण्डको भवति।।1।।
   स्वेच्छयेति। उदारबुद्धिः कविर्यदि यदृच्छया यथाक्रमं रगणजगणौ वृत्ते स्थापयति, तर्हि सः अशोकमञ्जरीनामदण्डकः कथितः।।2।।
यत्रेति। यस्मिन् वृत्ते कविः पठनस्य सुकरतामपेक्ष्य स्वेच्छाऽनुसारं रगणान् कल्पयति, स विद्वद्भिः मत्तमाताङ्गलीलाकरनामको दण्डकः कथितः ।।3।।
इति छन्दोमञ्जरीटीकायां प्रभाऽऽख्यायां द्वितीयः स्तबकः ।

तृतीय स्तबकः अर्धसमवृत्तम् ।
अर्धसमवृत्तम् ।
विषमे यदि सौ सलगा दले, भौ युजि भाद् गुरुकावुपचित्रम् ।।1।।
द्विरावृत्त्या पूरणीयः श्लोकः ।
मुरवैरिवपुस्तनुतां मुदं, हेमनिभांशुकचन्दनलिप्तम् ।
गगनं चपलामिलितं यथा, शारदनीरधरैरुपचित्रम्र
प्र0- विषमे यदीति। यदि विषमे प्रथमे तृतीये च, दले पादे, सौ सगणद्वयं सलगाः सगणो लघुर्गुरूश्च स्यात्, युजि द्वितीये तुरीये च पादे, भाद्भगणानन्तरं, भौ भगणद्वयं, गुरुकौ द्वौ गुरू च स्याताम्, तदा उपचित्राभिधं वृत्तं भवति।
  मुरवैरिवपुरिति। हेमिनिभं स्वर्णसदृशं पीताभमंशुकं यत्र चन्दनैर्लिप्तं च यत्, पश्चात् कर्मधारयः, मुरवैरिवपुः श्रीकृष्णस्य शरीरं, चपलता सौदामिन्या मिलितं सहितं,
शारदनीरधरैः शरत्कालिकवारिधरैः, उपचित्रं चित्रितं, गगनं, व्योममण्डलं, यथा इव, मुदम् आनन्दं तनुतां कुरुताम्। चन्दनचर्चितं पीताम्बरं श्रीकृष्णवपुः शारदजलधरधरं वि
द्युद्युक्तं नीलाकाशमिव मनो मोदयतीत्यर्थः, पूर्णोपमाऽलङ्कृतिः ।

विषमे प्रथमाक्षरहीनं, दोधकमेव हि वेगवती स्यात् ।।2।।
स्मरवेगवती व्रजरामा, केशववंशरवैरतिमुग्धा ।
रभसान्न गुरुन् गणयन्ती, केलिनिकुञ्जगृहाय जगाम ।।
प्र0- विषम इति। एकादशाक्षरवृत्तवर्णनावसरे 'दोधकमिच्छति भत्रियाद् गौ' इति दोधकवृत्तलक्षणमकारि। तदेव दोधकं यदि विषमे प्रथमे तृतीये च पादे प्रथमाक्षरहीनं पूर्ववर्णरहितं स्यात्, तदा वेगवतीत्याख्यं वृत्तं स्यात्।
  स्मरेति। स्मरस्य कामस्य यो वेगस्तद्वति कामार्ता, काचिद् व्रजरामा व्रजवासिनी कामिनी, केशवस्य मुरलीधरस्य वंशरवैः मुरलीनिनदैः, अतिमुग्धा अत्यन्तं व्यामुह्यन्ती, गुरून् श्वशुरादीन्, न गणयन्ती उपेक्षमाणा, दूरीकृतशालीनताद्यङ्गनाकुलोचितगुणा
धृतधार्ष्ट्या इत्यर्थः, केलिनिकुञ्जगृहाय क्रीडार्थकलतादिपिहितोदरभवनाय, रभसाद् वेगात्, जगाम गता।

अयुजि प्रथमेन विवर्जितं द्रुतविलम्बितकं हरिणप्लुता ।।3।।
स्फुटफेनचया हरिणाप्लुता, बलिमनोज्ञतटा तरणेः सुता ।
        कलहंसकुलारवशालिनी, विहरतो हरति स्म हरेर्मनः ।।
प्र0- अयुजिप्रथमेनेति। द्वादशवर्णवृत्तलक्षणोपन्यासावसरे द्रुतविलम्बितलक्षणं 'द्रुतविलम्बितमाह नभौ भरौ' इत्युक्तम्। तदेव द्रुतविलम्बितम् अयुजि प्रथमे तृतीये च पा
दे, यदि प्रथमाक्षरेण विवर्जितं रहितं स्यात्, तदा हरिणप्लुताख्यं वृत्तं भवेत्।
  स्फुटफेनचयेति। स्फुटः फेनचयः फेनविसरो यस्याः सा, हरिणानां मृगाणां प्लुतम् उप्लत्य गमनं यत्र सा, वलिभिः अर्ध्यसाधनाक्षतपुष्पचन्दनादिभिर्मनोज्ञं मनोहंर तटं कूलंयस्याः सा, कला रुचिरा ये हंसास्तेषां कुलानाम् आरवैर्ध्वनिभिः शालिनी शोभिनी, तरणे
ः सूर्यस्य, सुता कन्या यमुना, विहरतः कूले विहारं कुर्वतः, हरेः श्रीकृष्णस्य मनः हरति स्म जहार ।

अयुजि ननरला गुरुः समे, तदपरवक्त्रमिदं नजौ जरौ ।।4।।
स्फुटसुभधुरवेणुगीतिभि, स्तमपरवक्त्रमवेत्य माधवम् ।
मृगयुवतिगणैः समं स्थिता, व्रजवनिता धृतचित्तविभ्रमाः ।।
प्र0- अयुजीति। यस्य वृत्तस्य अयुजि विषमे प्रथमे तृतीये च पादे, ननरलाः नगणद्वयी रगणो लघुः, गुरुश्च स्यात्, समे द्वितीये चतुर्थे च पादे, नजौ नगणजगणौ, जरौ जगणरगणौ च भवेताम्, तदिदं वृत्तम् अपरवक्त्राभिधेयं स्यात्।
 स्फुटसुमधुरेति। स्फुटा अभिव्यक्ताः सुमधुरा मधुरिमधुरां बहन्त्यश्च या वेणुगीतयः वंशीध्वनयस्ताभिः, नास्ति परं यस्मात्तदपरम् असामान्यं वक्त्रं मुखं यस्य तं, माधवं श्रीकृष्णम्, अवेत्य ज्ञात्वा, असामान्यवंशीवादकोऽयं वंशोधर इत्यवगत्य, धृतः चित्तविभ्रम आश्चर्यं याभिस्ताः, व्रजवनिता व्रजाङ्गनाः, मृगयुवतिगणैः समं हरिणीसमूहैः सार्धं स्थिताः, व्रजवनिताश्चेतोहारिणं मुरलीध्वर्निनिशम्य तन्मयतामवाप्ताः 'पशुभिःसार्धं स्थितिर्न गरीयसी'त्यविजानत्यो मृगीकदम्बकैः समं स्थिताः। मृग्योऽपि भयादिकमपहाय स्वप्राणानगणयन्त्यस्तत्रैव स्थिता इति।

अयुजि नयुगरेफतो यकारो, युजि च नजौ जरगाश्च पुष्पिताग्रा ।।5।।
वैतालीयं पुष्पिताग्राञ्चेच्छन्त्यपरवक्त्रकम्
करकिसलयशौभया विभान्ती, कुचफलभारविनभ्रदेहयष्टिः ।
स्मितरुचिरविलासपुष्पिताग्रा, व्रजयुवतिव्रततिर्हरेर्मुदेऽभूत् ।।
प्र0- अयुजीति। अयुजि प्रथमे तृतीये च पादे,नयुगरेफतः नगणद्वयरगणानन्तरं, यकारो यगणः, युजि द्वितीये चतुर्थे च पादे, नजौ नगणजगणौ, जरगाश्च जगणः रगणः गुरुश्च स्युः, तदा पुष्पिताग्रानामकं वृत्तं भवेत्।
वैतालीयं पुष्पिताग्राऽभिधञ्च लक्ष्यमाणावृत्तं वृत्तान्तरत्वेनाननुमन्यमानाः केचन अपरवक्त्रमेव तयोः संज्ञेति, इच्छन्ति कामयन्ते ।
करकिसलयेति। करा एव किसलयानि पल्लवानि तेषां शोभया कान्त्या, विभान्ती विराजमाना,
कुचावेव फले तयोः भारेण विनम्रा नममशीला गात्रयष्टिर्यस्याः सा, स्मितस्य यो रुचिरोरमणीयो विलासः स एव पुष्पं तत् स़ञ्जातमस्य, 'तारकादिभ्य इतच्' इति इतच्, स्मितरुचिरविलासपुष्पित तदेवाग्रं वदनं यस्याः सा, व्रजयुवतिर्व्रजाङ्गनैव्रततिर्लता, 'वल्ली
 तु व्रततिर्लता' इत्यमरः, हरेः श्रीकृष्णस्य मुदेऽभूत् अनन्दाय सञ्जाता। अत्र रूपकालङ्कृतिः ।

आयुजोर्यदि सौ जगौ युजोः, सभरा ल्गौ यदि सुन्दरी तदा ।।6।।
यदवोचत वीक्ष्य मानिनी, परितः स्नेहमयेन चक्षुषा ।
अपि वागधिपस्य दुर्वचं, वचनं तद्विदधीत विस्मयम् ।।
प्र0- अयुजोरिति। यदि अयुजोः प्रथमतृतीयपादयोः, सौ सगणद्वयं, जगणो गुरुश्च, युजोः द्वितीयचतुर्थयोः, सभराः सगणभगणरगणाः ल्गौ लघुः गुरुश्चैकः स्यात्, तर्हि सुन्दरीनामकं वृत्तं स्यात्।
यदवोचतेति। मानिनी स्वकुलाभिमानवती द्रौपदी, स्नेहमयेन प्रेमप्रचुरेण, चक्षुषा लोचनेन, परितः वीक्ष्य सर्वतः अवलोक्य, यदवोचत यदुदाजहार, हिताहितं पर्यालोच्य यज्जगाद, वागधिपस्य बृहस्पतेरपि, दुर्वचं वक्तुमशक्यं तद्वचनं,विस्मयमाश्चर्यं विदधीत कुर्वीत, का कथाऽन्येषाम्?
एतानि छन्दांस्यधिकानि दृश्यन्ते वृत्तरत्नाकरे तत्परिशिष्टे च भत्रयमोजगतं गुरुणी चेद्, युजि च नजौ ज्ययुतौ द्रुतमध्या ।।1।।
       ओजे तपरौ जरौ गुरुश्चेत्, म्सौ ज्गौ ग् भद्रविराड् भवेदनीजे ।।2।।
असमे सजौ सगुरुयुक्तौ , केतुमती समे भरनगाद् गः ।।3।।
आख्यानकी तौ जगुरू ग ओजे, जतावनोजे जगुरू गुरुश्चेत् ।।4।।
जतौ जगौ गो विषमे समे चेत्, तौ ज्गौ ग एषा विपरीतपूर्वा ।।5।।
स्यादयुग्मके रजौ रयौ समे चेत्, जरौ जरौ गुरुर्यवात्परामतीयम् ।।6।।
सौं लगौ विषमे यदि, सजजा गुरुर्ललिता समे ।।7।।
ओजे तपरौ जरौ जगौ गुरू समे र्जौ र्यौ,
कीर्तिता बुधैरियं तु षट्पदाख्या ।।8।।
रो जरौ जसंयुतौ पदेऽसमेऽथ, युग्मे तरौ जरौ गुरुर्मृगीयवानी ।।9।।
अयुजि ननभभाः समकेऽपि तु, नयुगरयुगलं तदा कौमुदी ।।10।।
यदि विषमे भवतो नजौ जरौ, सजयाः समे तु रलौ गो मञ्जुसौरभम् ।।11।।
विषमे ससजा यदा गुरू चेत्, सभरा येन तु कालभारिणीयम् ।।12।।
इति छन्दोमञ्जर्याम् अर्धसमवृत्ताख्यस्तृतीयः स्तबकः ।
प्र0- भत्रयमिति। ओजगतं विषमपादगतं, चेद् यदि, भत्रयं त्रयो भगणाः गुरुद्वयञ्च स्यात्, युजि समे पादे, ज्ययुतौ जगणयगणयुतौ, नजौ नगणजगणौ च स्यातां, तदा द्रुतमध्याभिधं
वृत्तं स्यात्।।1।।
ओजे इति। यदि विषमे पादे तगणानन्तरं जगणः, रगणः गुरुश्च स्यात्, समे पादे मगणसगणजगणानन्तरं गुरुद्वयं स्यात्, तदा भद्रविराडाख्यं वृत्तं भवेत्।।2।।
असमे इति। यदि असमे पादे सगणगुरुयुक्तौ, सजौ सगणजगणौ स्यातां, समे च पादे भगणरगणनगणानन्तरं गुरुद्वयं स्यात्, तर्हि केतुमतीनामकं वृत्तं ज्ञेयम्।।3।।
आख्यानकीति। यदि विषमे पादे तगणद्वयं, जगणः गुरुद्वयञ्च स्यात्, समे च जगणतगणौ जगणोगुरुद्वयञ्च भवेत्, तर्हिं आख्यानकीनामधेयं वृत्तं ज्ञेयम्।।4।।
जताविति। विषमे जगणतगणजगणाः गुरुद्वयञ्च, समे तगणद्वयं, जगणः गुरुद्वयञ्च यदि स्यात्, तर्हिं विपरीतपूर्वा आख्यानकी इति वृत्तं, विपरीताख्यानकीति यावद्, भवेत्।।5।।
स्यादिति। अयुग्मके प्रथमे तृतीये च पादे, रगणजगणौ, रगणयगणौ च स्याताम्, समे पादे च जगणरगणौ पुनश्च जगणरगणौ गुरुश्चैकः स्यात्, तर्हि इयं यवाद् यवशब्दात् परा मती, यवमतीत्यर्थः, भवेत्।।6।।
र्साविति। यदि विषमे पादे रगणसगणौ, लघुर्गुरुश्च स्यात्, समे पादे सगणजगणजगणा गुरुश्चैकः स्यात्, तर्हि ललितानामकं छन्दो भवति।।7।।
ओज इति। यदि विषमे पादे तगणजगणौ, रगणजगणौ गुरुत्रयञ्च स्यात्, समे पादे रगणजगणौ रगणयगणौ च स्याताम्, तर्हि छन्दःशास्त्रकोविदैरिदं षट्पदाख्यं वृतं कीर्तितम् ।।8।।
र इति। विषमे पादे रगणो, जगणरगणौ?,, जगणः पुनरेकः स्यात्, समे पादे तगणरगणौ, जगणरगणौ गुरुश्चैकः स्यात्, तर्हि मृगीयवानीनामकं छन्दो भवेत्।।9।।
अयुजीति। विषमे पादे नगणद्वयं भगणद्वयं चेत्स्याम्, समे च नगणद्वयं रगणद्वयं भवेत्,तदा कौमुदीनामकं वृतं स्यात्।।10।।
यदीति। यदि विषमे पादे नगणजगणौ जगणरगणौ च भवेतां, समे च सगणजगणयगणा, रगणो लघुर्गुरुश्चैकः स्यात्, तदा मञ्जुसौरभनामकं छन्दः स्यात्।।11।।
विषम इति। विषमे पादे सगणयुगं, जगणः गुरुद्वयञ्च स्यात्, समे च सगणभगणरगणा यगणश्च स्यात्, तर्हि कालभारिणीनामकं वृत्तं जायेत।।12।।
  इति छन्दोमञ्जरीटीकायां प्रभाऽऽख्यायां तृतीयः स्तबकः ।

चतुर्थः स्तबकः
अथ विषमवृत्तम् ।
प्रथमे सजौ यदि सलौ च, नसजगुरुकाण्यनन्तरम् ।
यद्यथ भनभगाः स्युरथा, सजसा जगौ च भवतीयमुद्गता ।।1।।
विललास गोपरमणीषु, तरणितनया प्रभोद्गता ।
कृष्णनयनचकोरयुगे, दधती सुधांशुकिरणोर्मिविभ्रमम् ।।
प्र0- प्रथम इति। यदि प्रथमे पादे सगणजगणौ, सगणो लघुश्च भवेयुः, द्वितीये चरणे नगणसगणजगणा गुरुश्च भवेयुः, तृतीये पादे भगणनगणभगणा गुरुश्च स्युः, चतुर्थपादे च सगणजगणसगणजगणा गुरुश्च भवेयुः, तदा उद्गताऽभिधं वृत्तं जायते।
विललासेति। प्रभया कान्त्या उद्गता प्राप्तोत्कर्षा, तरणितनया कालिन्दी, गोपरमणीषु गोपिकासु सतीष्वपि, ता अधरीकृत्य, कृष्णनयनचकोरयुगे कृष्णनयनरूपिणि चक्रवाकयुगले,
सुधांशोरभृतसूतेः, किरणोर्मिविभ्रमं रश्मितरङ्गभ्रमं, दधती कुर्वती, विललास शुशुभे। यथा चकोरः सर्वमनादृत्य सुधाकरकरनिकरे स्वीयां सतृष्णां नयनवृत्तिं निबघ्नाति, तथा श्रीकृष्णोऽपि गोपीर्विहाय शमनस्वसारं यमुनामेव भूयो भूयो लुलोके ।

प्रथमे सजौ यदि सलौ च, नसजगुरुकाण्यनन्तरम् ।
        यद्यथ भनजलगाः स्युरथो, सजसा जगौ च भवतीयमुद्गता ।।2।।
अथ वासवस्य वचनेन, रुचिरवदनस्त्रिलोचनम् ।
क्लान्तिरहितमभिराधयितुं. विधिवत्तपांसि विदधे धनञ्जयः ।।
इति भारवावुद्गताभेदः ।
प्र0- प्रथम इति। यदि प्रथमे सगणजगणसगणाः लघुश्च, द्वितीये नगणसगणजगणाः गुरुश्च, तृतीये भगणनगणजगणाः लघुर्गुरुश्च तथा चतुर्थे सगणजगणसगणजगणाः गुरुश्च भवेयुः, तर्हि उद्गताऽभिधेयं वृत्तं जायते।
अथेति। अथ इन्द्रप्रयाणानन्तरं, वासवस्य सुराधिपस्य, वचनेन कथनेन, रुचिरवदनो हर्षितमुखः, धनञ्जयः अर्जुनः, क्लान्तिरहितं शिवस्वरूपं, त्रिलोचनं शिवम्, अभिराधयितुं प्रसादयितुं, विधिवद् विधिपूर्वकं, तपांसि विदधे चकार। क्लान्तिरहितमिति क्रियाविशेष-णं वा, क्लान्तिरहितं यथा स्यात्तथा अगणितक्लेशमित्यर्थः ।

त्रयमुद्गतासदृशमेव, पदमिह तृतीयमन्यथा ।
जायते रनभगैर्ग्रथितं, कथयन्ति सौरभकमेतदीदृशम् ।।3।।
परिभूतफुल्लशतपत्र-वनविसृतगन्धविभ्रमा ।
कस्य हृन्न हरतीह हरे!, मुखपद्मसौरभकला तवाद्भुता ।।
प्र0- त्रयमिति। पदत्रयपुद्गतासदृशं, तृतीयञ्च पदं रगणनगणभगणौस्तथा गुरुणा युक्तं स्यात्, तदा सौरभकनामकं छन्दः स्यात्।
परिभूतेति। हे हरे! परिभूतस्तिरस्कृतः फुल्लशतपत्रवनस्य विकसितकमलपटलस्य विसृतगन्ध-विभ्रमः विसृ वरसौरभप्रसारो यया सा, त्तव भवतः, मुखपद्मसौरभकला वदनकमलसौगन्ध्यकला, अद्भुता विचित्रा, कस्य हृद् हृदयं,न हरति? अपि तु सर्वेषामेव हृदयानि समावर्जयति।

नयुगं सकारयुगलञ्च, भवति चरणे तृतीयके ।
तदुदितमुरुमतिभिर्ललितं, यदि शेषमस्य सकलं यथोद्गता ।।4।।
व्रजसुन्दरीसमुदयेन, मुदितमनसा स्म पीयते ।
हिमकरगलितमिवामृतकं, ललितं मुरारिमुखचन्द्रविद्रुतम् ।।
प्र0- नयुगमिति। यदि तृतीये पादे नगणद्वयं सगणद्वयञ्च भवतः शेषञ्च सर्वमुद्गतावद् भवति, तदा ललितनामकं वृत्तं जायते।
व्रजसुन्दरीति। व्रजसुन्दरीसमुदयेन व्रजाङ्गनासमुदायेन, मुदितमनसा हर्षित्तचेतसा,
मुरारिमुखचन्द्रात् श्रीकृष्णाननेन्दोः विद्रुतं गलितं, ललितं सुन्दरम् अमृतकं हिमकरात् चन्द्राद् गलितमिव स्त्रुतमिव, पीयते स्म आस्वाद्यते स्म।

भवत्यर्धसमं वक्त्रं विषमञ्च कदाचन ।
तयोर्द्वयोरुपान्तेऽत्र छन्दस्तदधुनोच्यते ।।5।।
प्र0- भवतीति। वक्त्रम् एतन्नामकं वृत्तं, कदाचन जातुचित्, अर्धसमं विषमञ्च भवति। इदानीं तयोरुभयोरपि, उपान्ते अन्तिमवर्णात् पूर्वस्मिन् वर्णे, छन्दः छन्दोनियम इति यावत्, उच्यते कथ्यते। उपान्तवर्ण एव नियमविशेषो नान्यत्र ।

वक्त्रं युग्भ्यां मगौ स्याता, मव्धेर्योऽनुष्टुभि ख्यातम् ।।
वक्त्राम्भोजं सदा स्मेरं, चक्षुर्नीलोत्पलं फुल्लम् ।
बल्लवीनां मुरारातेश्चेतोभृङ्गं जहारोच्चैः ।।
प्र0- वक्त्रमिति। अनुष्टुभि एतन्नामधेयेऽष्टवर्णात्मके वृत्ते, अब्धेः चतुर्थवर्‌णात्परः यगणः स्यात्, तथा युग्भ्यां द्वितीयचतुर्थपादयोरिति यावत्, मगणो गुरुश्च स्याताम्,तदा वक्त्रनामकं छन्दः ख्यातं प्रसिद्धम् ।
वक्त्राम्भोजमिति। बल्लवीनां व्रजाङ्गनानां, सदा स्मेरत् ईषद्धास्यच्छटाशोभमानं, वक्त्राम्भोजं वदनकमलं, फुल्लं विकसितं, चक्षुर्नीलोत्पलं नेत्ररूपं कृष्णकमलं, मुरारातेः श्रीकृष्णस्य, चेतोभृङ्गं मानसरूपं भ्रमरम्, उच्चैः अत्यधिकं जहार।

युजोश्चतुर्थतो जेन, पथ्यावक्त्रं प्रकीर्तितम् ।।6।।
रासकेलिसतृष्णस्य, कृष्णस्य मधुवासरे ।
आसीद् गोपमृगाक्षीणां, पथ्या वक्त्रमधुस्त्रुतिः ।।
प्र0- युजोरिति। युजोः द्वितीयचतुर्थपादयो, चतुर्थतः चतुर्थवर्णादनन्तरं, जेन जगणेन, पथ्यावक्त्रं नाम छन्दो भवति। द्वितीयचतुर्थपादयोः पञ्चमसप्तमौ वर्णौ लघू षष्ठश्च गुरुः स्यादित्यर्थः। प्रथमतृतीययोस्तु यगण एव।
रासकेलीति। रासस्य या केलिः क्रीडा तस्यां सतृष्णस्य इच्छुकस्य कृष्णस्य, मधुवासरे वसन्तदिवसेषु, गोपमृगाक्षीणां गोपीनां, वक्त्राद् वदनाद् या मधुस्त्रुतिः सुधानिः
सृतिः मधुमधुरवाग्धारानिर्गमः सैव, पथ्या अनुकूला आसीत्।

पञ्चमं लघु सर्वत्र, सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च जानीयात् (1) शेषेष्वनियमोः मतः ।।7।।
प्रयोगे प्रायिकं प्राहुः केऽप्येतद्वृत्तलक्षणम् ।
लोकेऽनुष्टुबिति ख्यातं तरयाष्टाक्षरता मता ।।8।।
इति छन्दोमञ्जर्यां विषमवृत्ताख्यश्चतुर्थः स्तबकः ।
प्र0- पञ्चममिति। अत्रेति शेषः। अत्र वक्त्रनामके वृत्ते, सर्वत्र सर्वचरणेषु, प़ञ्चममक्षरं लघु, द्वितीयचतुर्थयोः पादयोः सप्तमं लघु षष्ठं च गुरु जानीयात्। शेषेष्व-
क्षरेषु कोऽपि नियमो नास्ति। केचन मनीषिण एतल्लक्षणकमपि वृत्तं न स्वीकुर्वते, तेषामेतस्य वृत्तस्याष्टाक्षररूपत्वं मतम्। लोके च तस्य नाम अनुष्टुप् इति।।
इति छन्दोमञ्जरीटीकायां प्रभाऽऽख्यायां चतुर्थः स्तबकः ।

पञ्चमः स्तबकः
अथ मात्रावृत्तम् ।

लक्ष्मै तत् सप्त गणा गोपेता भवति नेह विषमे जः ।
षष्ठो जश्च नलघु वा प्रथमेऽर्धे नियतमार्यायाः ।।1।।
षष्ठे द्वितीयलात् परके न्लो मुखलाश्च सयतिपदनियमः ।
चरमेऽर्धे पञ्चमके तस्मादिह भवति षष्ठो लः ।।2।।
कृष्णः शिशुः सुतो मे बल्लवकुलटाभिराहृतो न गृहे ।
क्षणमपि वसत्यसाविति जगाद गोष्ठ्यां यशोदाऽऽर्या ।।1।।
बृन्दावने सलीलं वल्गुद्रुमकाण्डनिहिततनुयष्टिः ।
स्मेरमुखार्पितवेणुः कृष्णो यदि मनसि कः स्वर्गः ?।।2।।
प्र0-अथार्यामादौ लक्षयति- लक्ष्मैतदित्यादिना। अन्ते गुरुणा उपेताः संयुक्ताः, सप्त गणा आर्यायाः प्रथमेऽर्धे भवन्ति। इह च विषमे प्रथमतृतीयपञ्चमसप्तमेषु गणेषु, 'जो गुरुमध्यगतः' इति लक्षणो जगणो न भवति। षष्ठो गणः जः जगणः स्यात्, यदि वा नलघु नगणो लघुश्च स्यात्। इत्येतत्सर्वम् आर्यायाः प्रथमेऽर्धे नियतम्।
'ज्ञेयाः सर्वादिमध्यान्तगुरवोऽत्र चतुकलाः ।
गणाश्चतुर्लघूपेताः प़ञ्चार्यादिषु संस्थिताः ।।'९
इत्यादिना ये चतुर्मात्रात्मका गणाः प्रोक्तास्त एवात्र गणशब्देन गृह्यन्ते। एवञ्च 'एकमात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घ उच्यते' इति नियमेन चतुष्कलात्मकस्य गणस्य त्रयः प्रकाराः सम्भवन्ति-गुरुद्वयं लघुचतुष्टयं लघुद्वयसहित एको गुरुश्चेति । कृष्णः (ऽऽ)1, शिशुःसु (।ऽ।)2,तोमे (ऽऽ)3,बल्लव (ऽ।।)4,कुलटा (।।ऽ)5,भिराहृ (।ऽ।)6,तोनगृ (ऽ।।)7,हे (ऽ)इति चान्ते गुरुणा युक्तो भवति। एवमेव सप्तानामपि गणानां गणना कार्या। केचन च साहित्यविद 'गोपेता' इति मात्राद्वयोपलक्षणमित्यभिदधते। तेन चान्ते लघुद्वयप्रयोगेऽपि तेषां मते न काचिदस्ति क्षतिः। परं ये हि 'गोपेता' इति शब्दस्य मात्राद्वयोपलक्षणत्वे कमपि मानमनुपलभमानास्तच्छब्दं स्वरूपपरक्रमेव व्याचक्षते, तेषां मते चान्ते गुरुवर्णस्य नैयत्यम्।
इदानीं लक्षणस्वरूपनिरूपणानन्तरं यतिनियमं चिकीर्षति-षष्ठ इत्यादिना। षष्ठे गणे न्ले नगणलघुसहिते चतुर्लघुरूपे सति, द्वितीयलाद् द्वितीयलघोः पूर्वमेव, यतिनियमः। परके सप्तमे गणे चतुर्लघुरूपे सति, मुखलात् प्रथमलघोः पूर्वं, यतिनियमः। अनेन च विस्पष्टमेतत्, यत्-चतुर्लघुरूपे षष्ठे गणे सति तस्मिन्नेव गणे प्रथमलघौ यतिः, सप्तमे च चतुर्लघुरूपे षष्ठगणान्त एव यतिरिति। चरमेऽर्धे अवशिष्टार्धे षष्ठो गणः लः केवलो लघुवर्णरूपो भवति। पञ्चमके च गणे चतुर्लघुरूपे सति, तस्मादेव प्रथमलघुवर्णादेवयतिर्भवति। आर्यायामेको गणश्चतुष्कल इति प्रतिपादितपूर्वम्। परमत्र षष्ठगणस्य केवलंलघुवर्णस्वरूपत्वान्मात्रात्रयस्य ह्रासो न केषां मतिविषयः? तत्र चरमेऽर्धे सप्तविंशतिमात्रा, प्रथमेऽर्धे च त्रिंशन्मात्राः। एवञ्च-सप्तपञ्चाशन्मात्रामात्रनियतार्या भागद्वयात्मिका, तत्रैव च यतिर्युक्ता। केचन चास्या भागचतुष्टयत्वं व्याख्यान्ति, तत्र च युक्तायुक्तविवेचना विद्वन्मनोऽधीना। आर्यायाश्च बहवो भेदास्ते चास्मिन्नेव ग्रन्थेऽन्यत्र लिख्यन्ते। ये चाप्यत्र नोट्टङ्कितास्तेऽपि स्वाध्यायशीलैर्ग्रन्थान्तरतः स्वयमेव द्रष्टव्याः।
कृष्ण इति। आर्या श्रेष्ठगुणाढ्या, यशोदा नन्दजाया, गोष्ठ्यां रमणासमाजे, इति वक्ष्यमाणं, जगाद व्यजहार-शिशुरबोधः, मे सुतः, वल्लवकुलटाभिः पुंश्चलीभिर्गोपीभि, आहृतोऽन्यत्र क्वापि नीतः, अतः क्षणमपि कदाचिदपि, गृहे, न वसति न तिष्ठति। अत्र च चतुष्कलात्मकगणविच्छेदः प्रदर्शित एव। एषा च जगणषष्ठार्या ।
वृन्दावने इति। वृन्दावने, वल्गुद्रुमकाण्डनिहिततनुयष्टिः मनोज्ञमहीरुहस्कन्धाधिरोपितगात्रयष्टिः, स्मेरमुखे अर्पितः कृत इति यावत्, वेणुर्येन असौ कृष्णो यदि मनसि चित्ते स्यात्, तदा स्वर्गः कः स्वर्गेण किं प्रयोजनम्? एषा च नलघुषष्ठार्या ।

        पथ्या विपुला चपला मुखचपला जघनचपला च ।
गीत्युपगीत्युद्गीतय आर्यागीतिश्च नवधाऽऽर्या ।।3।।
प्रथमगणत्रयविरतिर्दलयोरुभयोः प्रकीर्तिता पथ्या ।
जय जय नाथ! मुरारे! केशव! कंसान्तकाच्युतानन्त ।
कुरु करुणामिति भणितिः पथ्या भवरोगदुःस्थानाम् ।।
 प्र0-पथ्येति। पथ्याविपुलाऽऽदिभेदेन नबविधा आर्या मता। तत्र चोभयोरर्धयोरन्तरे यदि चतुष्कलात्मकगणत्रयानन्तरं, विरतिर्यतिः स्यात्, तदा पथ्या नाम भवति।
 जय जयेति। हे नाथ! मुरारे! केशव! कंसान्तक! अच्युत! अनन्त! जय जय सर्वोत्कर्षेण वर्तस्व, करुणां दयां, कुरु विधेहि-इत्युक्तिः भवरोगदुःस्थानां संसारक्लेशदुर्दशाग्रस्तानां मानवानां कृते, पथ्या हितकारिणी।

संलङ्घ्य गणत्रयमादिमं शकलयोर्द्वयोर्भवति पादः ।।4।।
यस्यास्तां पिङ्गलनागा विपुलमिति समाख्याति ।
पुंसां कलिकालव्यालहतानां नास्त्युपहतिरल्पाऽपि ।
वीर्यविपुला मुखे चेत् स्याद् गोविन्दाख्यमन्त्रकला ।।
 प्र0- संलङ्घ्येति। यस्या आर्यायाः, द्वयोः शकलयोरुभयोरपि अर्धयोः, आदिमं प्राग्भवं गणत्रयं, संलङ्घ्य विहाय, पादो भवति, तां पिङ्गलनागो विपुलामिति विपुलाऽऽख्यया, समाख्याति कथयति।
 पुंसामिति। कलिकाल एव व्यालः सर्पस्तेन हतानां दष्टानां, पुंसां मनुष्याणाम्, अल्पाऽपि उपहतिर्हानिः नास्ति, यदि वीर्यविपुला महावीर्या, गोविन्दाख्यो 'गोविन्द' इति यो मन्त्रस्तस्य कला, वदने मुखे स्यात्। गोविन्दनामोच्चारणपरायणो भवेद् यः कश्चिन्मनुजः, स कलिकालेऽपि न दुरवस्थामाप्नुयादिति भावः ।

दलयोर्द्वितीयतुर्यौ गणौ जकारौ तु यत्र चपला सा ।।5।।
चपला न चेत् कदाचिन्नृणां भवेद् भक्तिभावना कृष्णे ।
धर्मार्थकाममोक्षास्तदा करस्था न सन्देहः ।।
 प्र0- दलयोरिति। यस्या आर्यायाः, दलयोः द्वयोरप्यर्धयोः, द्वितीयतुर्यै द्वितीयचतुर्थौ गणौ, जकारौ जगणौ स्यातां, साऽऽर्या चपलानाम्नी भवति।
चपलेति। चेद् यदि कदाचित्, नृणां मनुष्याणां, कृष्णे भक्तिभावना, चपला चञ्चला न स्यात्, तर्हि धर्मार्थकाममोक्षाः समस्तोऽपि चतुर्वर्गः, करस्थाः हस्तगता भवेयुः, अत् र सन्देहः संशयो नास्ति।

आद्यं दलं समस्तं भजेत लक्ष्म चपलागतं यस्याः ।
शेषः पूर्वजलक्ष्मा मुखचपला सोदिता मुनिना ।।6।।
        नन्दसुत! वञ्चकस्त्वं दृढं न ते प्रेम गच्छ तत्रैव ।
यत्र भवति ते रागः क्वापि जगादेति मुखचपला ।।
 प्र0- आद्यमिति। यस्या आर्यायाः, आद्यं दलं प्रथमोऽर्धः, चपलागतं लक्ष्म भजेत् चपलासदृशं स्यात्, शेषः द्वितीयोऽर्धः, पूर्वजलक्ष्मा पूर्वोक्तार्यानिभः स्यात्, तदा सा मुनिना पिङ्गलेन, मुखचपला उदिता कथिता।
 नन्दसुतेति। हे नन्दसुत! कृष्ण! त्वं वञ्चकः प्रतारकोऽसि, ते प्रेम दृढं स्थिरं, न नास्ति, यत्र क्वापि कुत्रापि, ते रागोऽनुरागः, भवति विद्यते, तत्रैव गच्छ, इति काऽपि मुखचपला गोपी जगाद ।

प्राक् प्रतिपादितमर्धे प्रथमे प्रथमेतरे च चपलायाः ।
लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जघनचपला ।।7।।
कृष्णः श्रृङ्गारपटुर्यौंवनमदरागचपलललिताङ्गः ।
आसीद् व्रजाङ्गनानां मनोहरो जघनचपलानाम् ।।
 प्र0- प्रागिति। या प्रथमेऽर्धे प्राक्प्रतिपादितं पूर्वोक्तम्, आर्याया लक्ष्म लक्षणं, प्रथमेतरे द्वितीये च, चपलाया लक्षणम्, आश्रयेत अवलम्बेत, सा विशुद्धधीभिर्विद्वद्भिः, जघनचपलेति कथिता।
कृष्ण इति। यौवनस्य तारुण्यस्य मदरागाभ्यां चपलं चञ्चलं ललितं मनोहरञ्च अङ्गं शरीरं यस्य सः, श्रृङ्गारपटुः श्रृङ्गं मन्मथोद्भेदम् आसमन्ताद् राति ददाति करोतीति श्रृङ्गारस्तस्मिन् पटुः सम्भोगचतुरः कृष्णः, जघनचपलानां नर्तनशीलानां, व्रजाङ्गनानां गोपीनां मनोहरः चित्ताकर्षको मनःप्रिय आसीत्।

आर्याप्रथमार्धसमं यस्या अपरार्धमाह तां गीतिम् ।
केशववंशीगीतिर्लोकमनोहरिणहारिणी जयति ।
गोपीमानग्रन्थेर्विमोचनी दिव्यगायनाश्चर्या ।।
 प्र0- आर्येति। यस्या अपरार्धमुत्तरार्धम्, आर्यायाः प्रथमार्धेन पूर्वार्धेन समं सदृशं स्यात्, तां गीतिमाह कथयति, पिङ्गलनाग इति शेषः।
केशवेति। केशवस्य कृष्णस्य वंशी तस्या गीतिर्ध्वनिः, लोकानां मन एव मुग्धत्वसाम्याद् हरिणस्तस्य हारिणी हरणशीला, गोपीनां मानग्रन्थेश्च, विमोचनी शिथिलयित्री, दिव्यगायनाना गन्धर्वादीनामपि समुत्पादितम् आश्चर्यं यया सा, जयति सर्वोत्कर्षेण वर्तते।

आर्यापरार्धतुल्ये दलद्वये प्राहुरुपगीतिम् ।।8।।
नवगोपसुन्दरीणां रासोल्लासे मुरारातिम् ।
अस्मारयदुपगीतिः स्वर्गकुरङ्गीदृशां गीतेः ।।
  प्र0- आर्येति। दलद्वये, आर्याया अपरार्धतुल्ये उत्तरार्धसदृशे सति, उपगीतिं प्राहुः ।
नवगोपेति। रासस्य उल्लासे रासक्रीडायां, नवा या गोपसुन्दर्यस्तासाम्, उपगीतिर्गानं,मुरारातिं कृष्णं, स्वर्गकुरङ्गीदृशां स्वर्गाङ्गनानां, गीतेः अस्मारयत्। व्रजाङ्गनागानध्वनिः स्वर्गाङ्गनागानसन्निभि इति भावः। 'अधीगर्थदयेषां कर्मणि, इति गीतेरित्यत्र कर्मणि षष्ठी।

आर्याशकलद्वितये विपरीते पुनरिहोद्गीतिः ।
नारायणस्य सन्ततमुद्गीतिः संस्मृतिर्भक्त्या ।
अर्चायामासक्तिर्दुस्तरसंसारसागरे तरणिः ।।
 प्र0- आर्येति। आर्यायाः शकलद्वितीये, अर्द्धद्वये, विपरीते सति अर्थात् पूर्वार्धस्य स्थाने उत्तरार्धे उत्तरार्धस्य स्थाने च पूर्वार्धे सति, उद्गीतिर्भवति ।
नारायणस्येति। नारायणस्य सन्ततं निरन्तरम्, उद्गीतिर्गानम्, भक्त्या संस्मृतिः स्मरणम्, अर्चायां पूजायाम्, आसक्तिश्च, दुस्तरः अपारः संसार एव सागरस्तस्मिन्, तरणिः नौका भवति। नारायणस्य कीर्तनेन भक्त्या स्मृत्या पूजया च नूनं तरीतुमर्होऽयं दुस्तरः संसारसागरो भवतीत्यर्थः।

आर्याप्राग्दलमन्तेऽधिकगुरु तादृक् परार्धमार्यागीतिः ।।9।।
क)हर्षाश्रुस्तिमितदृशः प्रमोदरोमाञ्चकञ्चुकाञ्चितदेहाः ।
आर्या गीतिं भक्त्या गायन्ति श्रीपतेश्चरितसम्बद्धाम् ।।
ख)चारुसमीरणरमणे हरिणकलङ्ककिरणावलीसविलासा ।
आबद्धराममोहा वेलामूले विभावरी परिहीणा ।।
इति भट्टौ ।
 प्र0- आर्येति। आर्यायाः प्राग्दलं पूर्वार्द्धं, यदि अन्ते अधिको गुरुर्यस्य एतादृशं स्यात् तादृगेव च परार्धमुत्तरार्धं स्यात्, तदा आर्यागीतिर्भवति।
(क)हर्षेति। हर्षाश्रुभिः स्तिमिता आर्द्रा दृक् दृष्टिः येषां ते,प्रमोदरोमाञ्चैरेव कञ्चुकैः समाच्छादनवस्त्रविशेषैः अञ्चित आच्छादितो देहो येषां ते, आर्याः श्रेष्ठगुणशालिनः, भक्त्या श्रीपतेः विष्णोः, चरितसम्बद्धां चरित्रविषयां, गीतिं गानं गायन्ति।
(ख)चारुसमीरणेति। चारुसमीरणेन मान्द्यसौगन्ध्याशैत्यगुणविशिष्टेन सुन्दरेण पवनेन रमणे मनोहरे, वेलामूले सागरतीरान्तिके, हरिणकलङ्कस्य चन्द्रमसः किरणावलीभिः रश्मिसमूहैः सविलासा विलाससहिता, आबद्धः कृतः रामस्य मोहः वैचित्त्यं यया सा,विभावरी निशा, परिहीणा व्यतीता।

अथ वैतालीयम् ।
ष़ड् विषमेऽष्टौ समे कला, स्ताश्च समे स्युर्नो निरन्तराः ।
न समात्र पराश्रिता कला, वैतालीयेऽन्ते रलौ गुरुः ।।1।।
घुसृणेन मदेन चर्चितं, तव यन्निन्दति राधिके! कुचम् ।
मुदमातनुतेऽत्र पाकिमं, वैतालीयमिदं फलं हरेः ।।
प्र0- षडिति। वैतालीये छन्दसि, विषमे पादे प्रथमतृतीयपादयोरित्यर्थः, षट् कलाः मात्रा, समे द्वितीयचतुर्थपादयोरिति यावत्, अष्टौ कलाः स्युः, तासमन्ते रगणो लघुर्गुरुश्च प्रयोज्यः। समे पादे प्रयुक्ताश्चाष्टौ कलाः, निरन्तराः सर्वाः, लघ्व्यो गुर्व्यश्च न भवेयुः। अत्र च सर्वास्वपि कलासु समा कला, पराश्रिता तत्पूर्वया तदुत्तरया च सम्बद्धा, न करणीया। एवञ्च विषमपादयोश्चतुर्दश मात्राः समपादयोश्च षोडश मात्रा भवन्ति।
घुसृणेनेति। हे राधिके! घुसृणेन कुङ्कुमेन, मदेन कस्तूरकिया च चर्चितं लिप्तं तव कुचं (कर्म), यत् तालीयं तालवृक्षसम्बन्धि, इदं फलं निन्दति, अत्र अस्मिन् काले, पाकिमं पक्कं तदेव फलं,श्रीकृष्णस्य मुदभातनुते हर्षं करोति। वे पादपूरणे ।

तत्रैवान्तेऽधिके गुरौ स्या, दौपच्छन्दसिकं कवीन्द्रहद्यम् ।।2।।
आतन्वानं सुरारिकान्तास्वौपच्छन्दसिकं हृदो विनोदम् ।
कंसं यो निर्जघान देवो वन्दे तं जगतां स्थितिं दधानम् ।।
प्र0- तत्रैवेति। तत्रैव वैतालीये छन्दसि, अन्ते एकस्मिन् गुरौ वर्णेऽधिके सति, कवीन्द्राणां हृद्यं मनोहरम्, औपच्छन्दसिकं नाम छन्दः स्यात्।
आतन्वानमिति। यो देवः दिव्यगुणः, सुरारीणां राक्षसानां कान्तासु कामिनीषु, औपच्छन्दसिकम् अभिलाषानुरूपं, हृदश्चित्तस्य, विनोदमातन्वानं कुर्वाणं कंसं, निर्जघान गतासुं चकार, तं जगतां सर्वलोकलोकान्तराणां, स्थितिं सत्तां, दधानं धारयन्तं कृष्णं वन्दे नमामि।

अथ पज्झटिका
प्रतिपदयमकितषोडशमात्रा, नवमगुरुत्वविभूषितगात्रा ।
पज्झटिका पुनरत्र (?) विवेकः, क्वापि न मध्यगुरुर्गण एकः ।।1।।
तरलवतंसाश्लिष्टस्कन्ध, श्चलतरपज्झटिकाकटिबन्धः ।
मौलिचपलशिखिचन्द्रकवृन्दः कालियशिरसि ननर्त मुकुन्दः ।।
प्र0- प्रतिपदेति। प्रतिपदं प्रतिचरणं यमकिता युग्मविच्छिन्नाः षोडश मात्रा यत्र सा,नवममात्राया गुरूत्वेन विभूषितं गात्रं यस्याः तादृशी, पज्झटिका भवति। अस्मिन् पज्झटिकानान्मि वृते क्वापि एकोऽपि, मध्यगुरुर्गणः अर्थात् जगणो न स्यात्, इति विवेकः सिद्धान्तः।
तरलवतंसेति। तरलेन चञ्चलेन वतंसेन कर्णपूरेण आश्लिष्टः स्षृष्टः स्कन्धो यस्य सः, चलतरा अत्यन्तचञ्चला याः पज्झटिकाः क्षुद्रघण्टिकास्ताभिः कटिबन्धः कटेर्बन्धनं यस्यसः, मौलौ मस्तके चपलं शिखिनां मयूराणां चन्द्रकवृन्दं यस्य तादृशः, मुकुन्दः कृष्णः, कालियशिरसि कालियनाम्नो नागस्योपरि, ननर्त नृत्यं चकार।

नवमगुरुत्वं व्यभिचरति च ।।2।।
रणधरणीजितरजनिविहारी ।
प्र0- नवमेति। नवममात्राया गुरुत्वस्य क्वापि व्यभिचारोऽपि दृश्यते। अयमभिप्रायो यत् पज्झटिकायां नवमवर्णस्य गुरुतया शोभाया उत्कृष्टतैव भवति। तस्य लक्षणघटकता च न स्वीकरणीया।
तदेव प्रदर्शयति-रणेति। रणधरण्यां सङ्ग्रामाङ्गणे जितो रजनिविहारी निशाचरो येन सः।

मात्रात्रयोदशकं यदि, पूर्वं लघुकविरामि ।
पश्वादेकादशकन्तु(1), दोहडिका द्विगुणेन ।।3।।
राई दोहडि पठण सुणि हसिओ कण्ण गोआल ।
विन्दावणघणकुञ्जघर चलिओ कमण रसाल (1) ।।
 इति छन्दोमञ्जर्यां मात्रावृत्ताख्यः पञ्चमः स्तबकः ।
प्र0- दोहडिकां लक्षयति-मात्रेति। पूर्वं प्रथमं चरणं, त्रयोदशमात्रामयं लघुकविरामि विरामे लघुवर्णयुक्तम्, द्वितीयचरणे च एकादश मात्राः विरामे च लघुवर्णः स्याद् यदि तदा दोहडिकानाम वृत्तं स्यात्। द्विरावृत्त्या पूर्यते। अर्थात् तृतीयचतुर्थचरणे प्रथमद्वितीय चरणसदृशे भवतः।
राईति। कमलरसालः रसिकः कामुकश्च गोपालो राधिकानां गीति निशम्य हसितवान् वृन्दावनघनकुञ्जभवनं च गतवानित्यर्थः। गोपीनां गीतेर्दोहडिकेति संज्ञा।
इति छन्दोमञ्जरीटीकायां प्रभाऽऽख्यायां पञ्चमः स्तबकः।

षष्ठः स्तबकः
पद्यं गद्यमिति प्राहुर्वाङ्मयं द्विविधं बुधाः ।
प्रागुक्तलक्षणं पद्यं गद्यं सम्प्रति गद्यते ।।1।।
अपादः पदसन्तानो गद्यं तत्तु त्रिधा मतम् ।
चूर्णको (2)त्कलिकाप्रायवृत्तगन्धिप्रभेदतः ।।2।।
अकठोराक्षरं स्वल्पसमासं चूर्णकं विदुः ।
तत्तु वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेद् ।।3।।
भवेदुत्कलिकाप्रायं समासाढ्यं दृढाक्षरम् ।
वृत्तैकदेशसम्बन्धाद् वृत्तगन्धि पुनः स्मृतम् ।।4।।
प्र0- पद्यमित्यादि। बुधाः काव्यतत्त्वविदो विद्वांसः,वाङ्मयं वाक्यात्मकं काव्यं पद्यं गद्यमिति च द्विविधं द्विप्रकारकं, प्राहुर्वदन्ति। तत्र पद्यं 'पद्यं चतुष्पदी'त्यादिना प्रागुक्तलक्षणम्। सम्प्रति गद्यं गद्यते विशदीक्रियते
अपाद इत्यादि। मात्राक्षरनियमानुसारं विनिबद्धो भागः पादः, तद्रहितः पदसमूहः सुबन्ततिङन्तशब्दानां समूहो गद्यं, तत्तु त्रिधा त्रिप्रकारकमित्यर्थः। चूर्णकम्, उत्कलिकाप्रायं वृत्तगन्धि चेत्येतानि तेषां नामानि ।
अकठोराक्षरमित्यादि। तत्र अकठोराक्षरं सुकुमारवर्णं स्वल्पसमासं दीर्घसमाससङ्घटनारहितं, चूर्णँकं विदुः समाम्नातवन्तः। तच्च चूर्णकं वैदर्भरीतिस्थं वैदर्भीरीतिसङ्घटितं, हृद्यतरं बहुमनोमोदकरं भवेत्।
'माधुर्यव्यञ्जकैर्वर्णै रचना ललितात्मिका ।
अवृत्तिरल्पवृत्तिर्वा वैदर्भी रीतिरिष्यते ।।'
इति साहित्यदर्पणे वैदर्भीरीतिलक्षणम् ।
भवेदित्यादि। समासाढ्यं दीर्घकठोरसमाससङ्कुलं, दृढाक्षरं कठोरवर्णघटितं गद्यम् उत्कलिकाप्रायं भवेत्। ओजसि चास्य विशेषेण प्रयोगः। वृत्तस्य एकदेशसम्बन्धाच्च वृत्तागन्धीति तृतीयः प्रभेदः।

चूर्णंकं यथा-
स हि त्रयाणामेव जगतां गतिः परमपुरुषः पुरुषोत्तमो दृप्तदानवभरेण भङ्गुराङ्गीमवनिमवलोक्य करुणार्द्रहृदयस्तस्या भारमवतारयितुं रामकृष्णस्वरूपेणांशतो यदुवंशेऽवततार। यस्तु प्रसङ्गेनापि स्मृतोऽभ्यर्चितो वा गृहीतनामा पुंसा संसारसागरपारमवलोकयति ।
प्र0- सहीति। गतिः आश्रयः परमपुरुषो विष्णुः, दृप्तः गर्वितः, भङ्गुराङ्गी भङ्गोन्मुखीम्, अवतारयितुम्, अपहर्तुम्, अंशतः कलया, अवलोकयति दर्शयति, पुंसां पुम्भ्य इत्यर्थः, सम्बन्धसामान्ये षष्ठी। कोमलवर्णबाहुल्यादल्पसमासघटितत्वाच्च चूर्णकमिदम्i
उल्कलिकाप्रायं यथा-
प्रणिपातप्रवणसप्रधानाशेषसुरासुरादिवृन्दसौन्दर्यप्रकटकिरीटकोटिनिविष्टस्प-ष्टमणिमयूखच्छटाच्छुरितचरणनखचक्र ! विक्रमोद्दामवामपादाङ्गुष्ठनखरशिखरखण्डितब्रह्याण्डविवरनिस्सरच्छरदमृतकरप्रकरभासुरसुरवाहिनीप्रवाहपवित्रीकृतविष्टपत्रितय कैटभारे !
?क्रूरतरसंसारसागरनानाप्रकारावर्तविवर्त्तमानविग्रहं मामनुगृहाण ।
प्र0- प्रणिपातप्रवणेत्यादि। प्रणिपातप्रवणाः प्रणामोन्मुखाः ये प्रधानेन इन्द्रादिना सहिताः अशेषाः सुरासुरादयः तेषां वृन्दस्य सौन्दर्येण प्रकटानां भासुराणां किरीटानां मुकुटानां कोटिषु अग्रभागेषु निविष्टा जटिताः स्पष्टाः प्रकाशमानाश्च ये मणयः तेषां मयूखच्छटाभिः किरणकान्तिभिः छुरितं व्याप्तं चरणनखचक्रं पदनखसमुदायो यस्य तत्सम्बुद्धौ, विक्रमोद्दामस्य पराक्रमोद्धतस्य वामपादस्य अङ्गुष्ठनखरशिखरेण अङ्गुष्ठनखाग्रेण खण्डितं यद् ब्रह्माण्डविवरं ततः निस्सरन्ती निर्गच्छन्ती या शरदभृतकरस्य शरच्चन्द्रस्य करप्रकरवद् मयूखमालावद् भासुरा दीप्ता सुरवाहिनी गङ्गा तत्प्रवाहेण पवित्रीकृतं विष्टपत्रितयं लोकत्रयं येन तत्सम्बुद्धौ, कैटभारे!हे विष्णो! क्रूरतरस्य अतिदुस्तरस्य संसारसागरस्य आवर्तेषु जलभ्रमेषु विवर्तमानः विग्रहो यस्य तम्। स्पष्टमन्यत्।

वृत्तगन्धि यथा-
जय जय जनार्दन! सुकृतिमनस्तडागविकस्वरचरणपद्म! पद्मपत्रनयन! पद्मापद्मिनीविनोदराजहंस! भास्वरयशःपटलपूरितभुवनकुहर! हरकमलासनादिवृन्दारकवृन्दवन्दनीयपदारविन्दद्वन्द्व! द्वन्द्वनिर्मुक्तयोगीन्द्रहृदयमन्दिराविष्कृतनिरञ्जनज्योतिः स्वरूप! विश्वरूप! अनाथनाथ! मामनवधिभवदुः खव्याकुलं रक्ष ।
प्र0- जयेत्यादि। जननामकासुरविशेषमर्दनकारिन्! सुकृतिनां पुण्यकारिणां मनांस्येव तडागाः पद्माकरास्तेषु विकस्वरं प्रफुल्लं चरणपद्मं यस्य तत्सम्बुद्धौ, पद्मपत्रे इव नयने नेत्रे यस्य तत्सम्बुद्धौ, पद्मा कमला सैव पद्मिनी कमलिनी तस्यां विनोदकारी यो राजहंस इव राजहंसस्तत्सम्बुद्धौ, भास्वरं प्रकाशमानं यद् यशःपटलं तेन परिपूरितं व्याप्त भुवनकुहरं ब्राह्माण्डं येन तत्सम्बुद्धौ, हरः शिवः कमलासनो ब्रह्मा एतौ आदौ प्रारम्भे येषां तथाभूता ये वृन्दारका देवास्तेषां वृन्देन समूहेन वन्दनीयं प्रणमनीय पदारविन्दद्वन्द्वं यस्य तत्सम्बुद्धौ, द्वन्द्वैः सुखदुःखादिभिर्निर्मुक्ता विरहिताः ये योगीन्द्रास्तेषां हृदयमन्दिरे आविष्कृतं प्रकाशितं निरञ्जनम् अव्यक्तं ज्वोतिःस्वरूपं तेजोमयं रूपं यस्य तत्सम्बुद्धौ, विश्वं जगदेव रूपं यस्य तत्सम्बुद्धौ, अनाथानाम् असहायानां नाथः रक्षकः तत्सम्बुद्धौ, जगतां लोकानां नाथः स्वामी तत्सम्बुद्धौ, अनवधि निःसीमं यद् भवदुःखं संसारक्लेशः तेन व्याकुलं, मां, रक्ष पालयेत्यर्थः। अत्र 'सुकृतिमनस्तडाग' इति रुचिरावृत्तस्य। 'पद्मपत्रनयन' इति स्वागतावृत्तस्य'पद्मिनीविनोदराजहंस' इति तूणकस्य, 'वृन्दारकवृन्दवन्दनीयपदारविन्दद्वन्द्व' इत्यत्र शार्द्रूलविक्रीडितस्य, 'द्वन्द्वनिर्मुक्तयोगीन्द्रे'ति अनुष्टुभश्चैकदेशो दृश्यते।
व्यवहारोचितं प्रायो मया छन्दोऽत्र कीर्तितम् ।
प्रस्तारादि पुनर्नोक्तं केवलं कौतुकं हि तत् ।।5।।
प्र0- व्यवहारेति। अत्र छन्दोमञ्जर्यां, मया प्रायः व्यवहारोचितं लोककार्योपयोगि, छन्दः कीर्तितं कथितम्। किन्त्वत्र प्रस्तारादि नोक्तं, यतस्तत् केवलं कौतुकं लीलैवेत्यर्थः।

सर्गैः षोडशभिः समुज्ज्वलपदैर्नव्यार्थभव्याशयै
र्येनाकारि तदच्युतस्य चरितं काव्यं कविप्रीतिदम् ।
कंसारेः शतकं दिनेशशतकद्वन्द्वं च, तस्यास्त्वसौ
गङ्गादासकवेः श्रुतौ कुतुकिनां सच्छन्दसां मञ्जरी ।।6।।
इति छन्दोमञ्जर्यां गद्यप्रभेदो नाम षष्ठः स्तबकः ।
प्र0- सर्गैरिति। येन गङ्गादासेन, समुज्ज्वलानि चमत्कारकराणि पदानि येषु तैः नव्यार्था नूतना अर्था भव्याशयाः सुन्दरा अभिप्रायाश्च येषु तादृशैः, सर्गैः कविप्रीतिदं कवीनां प्रमोदकरं, काव्यं महाकाव्यम् 'अच्युतचरितं' नाम अकारि कृतम्, तथा कंसारेः शतकं कृष्णस्य शतश्लोकी, दिनेशशतकस्य सूर्यशतकस्य द्वन्द्वं द्वयं दिनेशद्विशती,यद्वा भिन्नमेव शतकद्वयम्, अकारि प्राणायि, तस्य गङ्गादासकवेः असौ सच्छन्दसां मञ्जरी छन्दोमञ्जरीत्यर्थः, कुतुकिनां छन्दःश्रवणकौतुकभृतां, श्रुतौ कर्णे कर्णालङ्कारभूतेति यावत्, अस्तु भवतु।
हरिशङ्कुरयोरियं कृतिः सुरवाणीजननीवचोऽन्विता।
विदधातु मनःप्रसन्नता वटुवृन्दस्य सदा नवां नवाम् ।।
इति छन्दोमञ्जरीटीकायां प्रभाऽऽख्यायां षष्ठः स्तबकः ।

उपसंहारः
यत्तातः प्रथितः स पण्डितमणिः श्रीलालमण्याख्यया
माता श्रीहरदेविका च समभूद्यज्जन्मसम्पत्तये ।
सोऽयं शंकरदेवपाठकवरो विद्वत्सुहृच्छ्रीहरेः ।
साहाय्याद्रुचिरां प्रभाविलसितां टीकां समापूरयत् ।।1।।
नत्वा रामप्रियान्वितस्य बहुशः पादारविन्दद्वयं
विद्वत्तल्लजभीमसेनसुपितुः श्रीशङ्करे साक्षिणि ।
हिन्दीसंस्कृतभाषयोररचयट्टीकां प्रभानामिकां
सद्भावां रुचिरां च पण्डितवरो दत्तान्त्यशब्दो हरिः ।।

इति शिवम्


छन्दो मञ्जरी
द्वितीयः स्तबकः
अथ समवृत्तम्।
(1) उक्ता (एकाक्षरा वृत्तिः)।

 ग् श्रीः।।1।।
       श्रीस्ते। सास्ताम्।।
प्र0-
(2)अत्युक्ता(द्व्यक्षरा वृत्तिः)।
ऽऽ
  गौ स्त्री।।1।।
       गोपस्त्रीभिः। कृष्णो रे मे।।
प्र0-
(3) मध्या (त्र्यक्षरा वृत्तिः)।
ऽऽऽ
  मो नारी।।1।।
       गोपानां नारिभिः। श्लिष्टोऽव्यात् कृष्णो वः।।
प्र0-
ऽ।ऽ
    रो मृगी।।2।।
       सा मृगीलोचना। राधिका श्रीपतेः।।
प्र0-
(4) प्रतिष्ठा (चतुरक्षरा वृत्तिः)।
ऽऽऽऽ
ग्मौ चेत् कन्या।।1।।
      भास्वत्कन्या सैका धन्या। यस्याः कूले कृष्णोऽखेलत्।
प्र0-
।।।ऽ
 नगि सती।।2।।
       मुररिपो! तव पदम्। नमति सा ननु सती।।
प्र0-
(5) सुप्रतिष्ठा (पञ्चाक्षरा वृत्तिः)।
ऽ।।ऽऽ
भ्‌गौ गिति पङ्क्तिः।।1।।
      कृष्णसनाथा तर्णकपङ्क्तिः। यामुनकच्छे चारु चचार।।
प्र0-
।।ऽ।ऽ
सलगैः प्रिया।।2।।
       व्रजसुभ्रुवो विलसत्कालाः। अभवन् प्रिया मुरवैरिणः।।
प्र0-
(6) गायत्री (षडक्षरा वृत्तिः)।
ऽऽ । ।ऽऽ
त्यौ चेत् तनुमध्या।।1।।
     (1) मूर्तिर्मुरशत्रोरत्यद्भुतरूपा। आस्तां मर्म चित्ते नित्यं तनुमध्या।।
     (2) नश्यन्ति ददर्श बृन्दानि कपीन्द्रः। हारीण्यबलानां हारीण्यबलानाम्।।
प्र0-
।।।।ऽ
शशिवदना न्यौ।।2।।
      शशिवदनानां व्रजतरुणीनाम्। अधरसुधोर्मि मधुरिपुरैच्छत्।।
प्र0-
।ऽऽ।ऽऽ
 द्विधा सोमराजी।।3।।
      हरे!सोमराजीसमा ते यशःश्रीः। जगन्मण्डलस्य भिनत्यन्धकारम्।।
प्र0-
ऽऽऽऽऽऽ
विद्युल्लेखा मो मः।।4।।
      क्वचित्पुस्तके विद्युल्लेखा नाम छन्दो न दृश्यते।
प्र0-
(7)उष्णिक् (सप्ताक्षरा वृत्तिः)।
।।। ।।। ऽ
   ननगि मधुमती।।1।।
      रविदुहितृतटे वनकुसुमततिः। व्यधित मधुमती मधुमथनमुदम्।
प्र0-
।ऽ। ।।ऽ ऽ
कुमारललिता ज्स्गाः।।2।।
      मुरारितनुवल्ली कुमारललिता सा। व्रजैणनयनानां ततान मुदमुच्चैः।।
प्र0-
ऽ ऽ ऽ । । ऽ ऽ
म्सौ गः स्यान् मदलेखा।।3।।
उदाहरणम्-
ऽ ऽ ऽ । । ऽ ऽ ऽ ऽ ऽ । । ऽ ऽ
रङ्गे बाहुर्विरुग्णाद् दन्तीन्द्रान्मदलेखा।
ऽ ऽ ऽ । । ऽ ऽ ऽ ऽ ऽ । । ऽ ऽ
?B लग्नाऽभून्मुरशत्रौ कस्तूरीरसचर्चा।। (छन्दो0)
प्र0-
(8)अनुष्टुप्-(अष्टाक्षरा वृत्तिः)।
ऽ । । ऽ । । ऽ ऽ
भौ गिति चित्रपदा गः।।1।।
ऽ । । ऽ । । ऽ ऽऽ । । ऽ । । ऽ ऽ
उदाहरणम्- यामुनसैकतदेशे गौपवधूजलकेलौ।
कंसरिपोर्गतिलीला चित्रपदा जगदव्यात्।। (छन्दो0)
प्र0-
ऽ । । ऽ ऽ । । ऽ
भात्तलगा माणवकम् ।।2।।
ऽ । । ऽ ऽ । । ऽऽ । । ऽ ऽ । । ऽ
उदाहरणम्- चञ्चलचूडं चपलैर्वत्सकुलैः केलिपरम्।
ध्याय सखे स्मेरमुखं नन्दसुतं माणवकम्।। (छन्दो0)
प्र0-
ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ
मो मो गो गो विद्युन्माला।।3।।
ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ
उदाहरणम्- वासोवल्ली विद्युन्माला बर्हश्रेणी शाक्रश्चापः।
यस्मिन्नास्तां तापोच्छित्त्यै गोमध्यस्थः कृष्णाम्भोदः।। (छन्दो0)
प्र0-
ऽ । ऽ । ऽ । ऽ।
गलौ रजौ समानिका तु।।4।।
ऽ । ऽ । ऽ । ऽ। ऽ । ऽ । ऽ । ऽ।
उदाहरणम्- यस्य कृष्णपादपद्ममस्ति हृत्तडागसद्म।
धीः समानिका परेण नोचिताऽत्र मत्सरेण।। (छन्दो0)
प्र0-
। ऽ । ऽ । ऽ । ऽ
प्रमाणिका जरौ लगौ।।5।।
। ऽ । ऽ । ऽ । ऽ। ऽ । ऽ । ऽ । ऽ
उदाहरणम्- (क)पुनातु भक्तिरच्युता सदाच्युताङ्घ्रिपद्मयोः।
श्रुतिस्मृतिप्रमाणिका भवाम्बुराशितारिका।। (छन्दो0)
(ख) मतल्लिका मचर्चिका प्रकाण्डमुद्घतल्लजौ।
प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः।।
इत्यमरकोषे।
प्र0-
।।। ऽ।।।ऽ
      नभलगा गजगतिः।।6।।
(क) रविसुतापरिसरे विहरतो हशि हरेः।
      व्रजवधूगजगतिर्मुदमलं व्यतनुत।।
(ख) अवतु वो गिरिसुता शशिभृतः प्रियतमा।
      वसतु मे हृदि सदा भगवतः पदयुगम्।।
ऽऽऽ।।।ऽऽ
 म्नौ गौ हंसरुतमेतत्।।1।।
ऽऽ। ऽ।ऽ ।ऽ
      नाराचिका तरौ लगौ।।2।।
      हंसरुतं, नाराचिका छन्दश्च क्वचिन्न हश्येते।
प्र0-
    (9)बृहती (नवाक्षरा वृत्तिः)
।।। ।।। ऽऽऽ
भुजगशिशुभृता नौ मः।।1।।
।।। ।।। ऽऽऽ।।। ।।। ऽऽऽ
उदाहरणम्- ह्रदतटनिकटक्षौणी भुजगशिशुभृता याऽऽसीत्।
मुररिपुदलिते नागे व्रजजनसुखदा साऽभूत्।। (छन्दो0)
प्र0-
ऽ।। ऽऽऽ । ।ऽ
स्यान्मणिमध्यं चेद्भमसाः।।2।।
      कालियभोगाभोगगतस्तन्मणिमध्यस्फीतरुचा।
      चित्रपदाभो नन्दसुतश्चारु ननर्त स्मेरमुखः।।
प्र0-
।।ऽ ।ऽ। ऽ।ऽ
      सजरैर्भुजङ्गसङ्गता।।3।।
      तरला तरङ्गरिङ्गितैर्यमुना भुजङ्गसङ्गता।
      कथमेति वत्सचारकश्चपलः सदैव तां हरिः।।
प्र0-
ऽ।ऽ ।।। ।। ऽ
रान्नसा विह हलमुखी।।1।।
ऽ।ऽ ।।। ऽ।ऽ
      भद्रिका भवति रो नरौ।।2।। इति छं0.पं0।।
।।। ।।। ।।ऽ
      द्विगुणनगणसहित,
          सगण इह हि विहितः।
      फणिपतिमतिविमला
           क्षितिप!भवति कमला।।3।। इति छं0.पं0।।
 ऽऽऽ ऽऽऽ ऽऽऽ
      अङ्कोन्माना वर्णा यत्र स्युः
            सर्वे दीर्घाः सर्पेशेनोक्तम्।
      रूपामालीसंज्ञं तद् वृत्तं
            यस्मिंश्चेतः केषामुद्वृत्तम्।।4।। छं0
प्र0-
(10) पङ्क्तिः(दशाक्षरा वृत्तिः)।
ऽ । । ऽ ऽ ऽ । । ऽ ऽ
रुक्मवती सा यत्र भमस्‌गाः।।1।।
ऽ । । ऽ ऽ ऽ । । ऽ ऽऽ । । ऽ ऽ ऽ । । ऽ ऽ
उदाहरणम्- कायमनोवाक्यैः परिशुद्धैर्यस्य सदाकंसद्विषि भक्तिः।
राज्यपदे हर्म्यालिरुदारा रुक्मवती विघ्नः खलु तस्य।। (छन्दो0)
प्र0-
ऽ ऽ ऽ ऽ । । । । ऽ ऽ
ज्ञेया मत्ता मभसगसृष्टा।।2।।
ऽ ऽ ऽ ऽ । । । । ऽ ऽऽ ऽ ऽ ऽ । । । । ऽ ऽ
उदाहरणम्- पीत्वा मत्ता मधु मधुपाली, कालिन्दीये तटवनकुञ्जे।
उद्दीव्यन्ती व्रजजनरामाः कामासक्ता मधुजिति चक्रे।। (छन्दो0)
प्र0-
।।। ।ऽ। ।।। ऽ
त्वरितगतिश्च नजनगैः।।3।।
(क) त्वरितगतिर्व्रजयुवतिस्तरणिसुताविपिनगता।
         मुररिपुणा रतिगुरुणा सह मिलिता प्रमदमिता।।
(ख) क्षितिविजितिस्थितिविहितिव्रतरतयः परगतयः।
         उरु रुरुधुर्गुरु दुधुवुर्युधि कुरवः स्वमरिकुलम्।।
प्र0-
।।। ऽ।ऽ ।ऽ। ऽ
नरजगैर्भवेन्मनोरमा।।4।।
।।। ऽ।ऽ ।ऽ। ऽ ।।। ऽ।ऽ ।ऽ। ऽ
उदाहरणम्- तरणिजातटे विहारिणी व्रजविलासिनीविलासतः।
मुररिपोस्तनुः पुनातु वः सुकृतशालिनां मनोरमा।। (छन्दो0)
प्र0-
ऽ ऽ ऽ । । ऽ ।ऽ ।ऽ
म्सौ ज्गौ शुद्धविराडिदं मतम्।।1।।
ऽ ऽ ऽ । । । । ऽ ऽ ऽ
म्नौ य्‌गौ चेति पणवनामेदम्।।2।।
ऽ । ऽ । ऽ । ऽ । ऽ ऽ
र्जौ रगौ मयूरसारिणी स्यात्।।3।।
ऽ ऽ । । ऽ । । ऽ । ऽ
त्जौ जो गुरुणेयमुपस्थिता।।4।। इति वृत्तरत्नाकरे।।
ऽ।। ऽऽऽ ।ऽ। ऽ
         दीपकमलां भ्मौ मता जगौ।।5।।
ऽऽऽ ऽ।। ।।। ऽ
         ज्ञेया हंसी मभनगयुता।।6।। इति तत्परिशिष्टे।।
प्र0-
(11) त्रिष्टुप् (एकादशाक्षरा वृत्तिः)।
ऽ ऽ । ऽऽ। ।ऽ। ऽऽ
स्यादिन्द्रवज्रा यदि तौ जगौ गः।।1।।
ऽ ऽ । ऽऽ। ।ऽ। ऽऽऽ ऽ । ऽऽ। ।ऽ। ऽऽ
उदाहरणम्- गोष्ठे गिरिं सव्यकरेण धृत्वा रुष्टेन्द्रवज्राहतिमुक्तवृष्टौ।
यो गोकुले गोपकुलञ्च सुस्थं चक्रे स नो रक्षतु चक्रपाणिः।। (छन्दो0)
प्र0-
। ऽ। ऽऽ । । ऽ । ऽ ऽ
उपेन्द्रवज्रा जतजास्तस्तो गौ।।2।।
। ऽ। ऽऽ । । ऽ । ऽ ऽ। ऽ। ऽऽ । । ऽ । ऽ ऽ
उदाहरणम्- उपेन्द्रवज्रादिमणिच्छटाभिर्विभूषणानां छुरितं वपुस्ते।
स्मरामि गोपीभिरुपास्यमानं सुरद्रुमूले मणिमण्डपस्य।। (छन्दो0)
प्र0-
अनन्तरोदीरितलक्ष्मभाजौ
पादौ यदीयावुपजातयस्ताः।
इत्थं किलान्यास्वपि मिश्रितासु
वदन्ति जातिध्विदमेव नाम।।3।।
(क) काचिन्मुरारेर्वदनारविन्दं सङ्क्रान्तमालोक्य जले नवोढा।
     व्यक्तं सलज्जा परिचुम्बितुं तत्तदर्थमेवाम्भसि निर्ममज्ज।।
(ख)मुखारविन्दैर्व्रजसुन्दरीणामामोदमत्युत्कटमुद्गिरद्भिः।
    अहारि चित्तेन समं मुरारेर्हेमाम्बुजेभ्योऽपि मधुव्रतौघः।।
(ग)तोयेषु तस्याः प्रतिबिम्बितासु व्रजाङ्गनानां नयनावलीषु।
    स्वबन्धुपङ्क्तिभ्रमतोऽतिमुग्धा गोष्ठीं शफर्यो रचयाम्बभूवुः।।
तथा गोपालशतके-
(घ)वनेषु कृत्वा सुरभिप्रचारं प्रकाममुग्धो मधुवासरेषु।
    गायन्कलं क्रीडति पद्मिनीषु मधूनि पीत्वा मधुसूदनोऽसौ।।
एवमनयोर्नानाविधा अप्युपजातयो बोद्धव्याः।
तथा वंशस्थबिलेन्द्रवंशयोरित्थमुदाहार्यम्-
(ङ) इत्थं रथारश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद्वहिः।
प्रस्थानकालक्षमवेशकल्पनाकृतक्षेपमुदैक्षताच्युतम्।।
इति माघे
प्र0-
।।।। ऽ।। ऽ।। ऽ
नजजलगैर्गदिता सुमुखी।।4।।
उदाहरणम्- तरणिसुतातट-कुञ्जगृहे
वदनविधुस्मितदीधितिभिः।
तिमिरमुदस्य वृतं सुमुखी
हरिमवलोक्य जहास चिरम्।। (छन्दो0)
प्र0-
ऽऽऽ ऽऽ। ऽऽ। ऽऽ
शालिन्युक्ता म्तौ तगौ गोब्धिलोकैः।।5।।
उदाहरणम्- अंहो हन्ति ज्ञानवृद्धिं विधत्ते
धर्मं दत्ते काममर्थं च सूते।
मुक्तिं दत्ते सर्वदोपास्यमाना
पुंसां श्रद्धाशालिनी विष्णुभक्तिः।। (छन्दो0)
प्र0-
ऽऽऽ ऽ।। ऽऽ। ऽऽ
वातोर्मीयं गदिता म्भौ तगौ गः।।6।।
उदाहरणम्-
ध्याता मूर्तिः क्षणमप्यच्युतस्य
श्रेणी नाम्ना गदिता हेलयापि।
संसारेऽस्मिन् दुरितं हन्ति पुंसां
वातोर्मी पोतमिवाभ्योधिमध्ये।। (छन्दो0)
प्र0-
ऽऽऽ ऽ।।। ।।। ऽ
मो गो नौ गो भ्रमरविलसिता।।7।।
उदाहरणम्- मुग्धे! मानं परिहर न चिरात्
तारुण्यं ते सफलयतु हरिः।
फुल्ला वल्ली भ्रमरविलसिताऽ-
भावे शोभां कलयति किमु ताम्।। (छन्दो0)
प्र0-
ऽ।। ऽऽ। ।।। ऽऽ
स्यादनुकूला भतनगगाश्चेत्।।8।।
उदाहरणम्- वल्लववेशा मुररिपुमूर्ति-र्गोपमृगाक्षीकृतरतिपूर्तिः।
वाच्छितसिद्ध्यै प्रणतिपरस्य स्यादनुकूला जगति न कस्य।।
प्र0-
ऽ।ऽ ।।। ऽ।ऽ ।ऽ
रात् परैर्नरलगै रथोद्धता।।9।।
उदाहरणम्- राधिका दधिविलोडनास्थिता
कृष्णवेणुनिनदै रथोद्धता।
यामुनं तटनिकुञ्जमञ्जसा
सा जगाम सलिलाहृतिच्छलात्।। (छन्दो0)
प्र0-
ऽ।ऽ ।।। ऽ।। ऽऽ
स्वागता रनभगैर्गुरुणा च।।10।।
उदाहरणम्- यस्य चेतसि सदा मुरवैरी
वल्लवीजनविलासविलोलः।
तस्य नूनममरालयभाजः
स्वागतादरकरः सुरराजः।। (छन्दो0)
प्र0-
ऽ।। ऽ।। ऽ।। ऽऽ
दोधकमिच्छति भत्रितयाद् गौ।।11।।
उदाहरणम्- देव!सदोध!कदम्बतलस्थ!,
श्रीधर!तावकनामपदं मे।
कण्ठतलेऽसुविनिर्गमकाले,
स्वल्पमणि क्षणमेष्यति योगम्।। (छन्दो0)
प्र0-
ऽऽ। ।ऽ। ।ऽ। ।ऽ
स्यान्मोटनकं तजजाश्च लगौ।।12।।
रङ्गे खलु मल्लकलाकुशलश्चाणूरमहाभटमोटनकम्।
यः केलिलवेन चकार स मे संसाररिपुं परिमोटयतु।।
प्र0-
ऽ।ऽ ।ऽ। ऽ।ऽ ।ऽ
श्येनिका रजौ रलौ गुरुर्यदा।।13।।
उदाहरणम्-यस्य कीर्तिरिन्दुकुन्दचन्दन
श्येन्यशेषलोकपावनी सदा।
जाह्नवीव विश्ववन्द्यविभ्रमा
तं भजामि भावगम्यमच्युतम्।। (छन्दो0)
प्र0-
।।। ।।। ।।ऽ ऽऽ
ननसगगुरुरचिता वृत्ता।।1।।
।।। ।।। ऽ।ऽ ।ऽ
ननरलगुरुभिश्च भद्रिका।।2।।
।ऽ। ।।ऽ ऽऽ। ऽऽ
उपस्थितमिदं ज्सौ ताद् गकारौ।।3।।
।ऽ। ।।ऽ ऽऽ। ऽऽ
शिखण्डितमिदं ज्सौ त्गौ गुरुश्चेत्।।4।।
।।ऽ ।।ऽ ।।ऽ ।ऽ
उपचित्रमिदं सससाल्लगौ।।5।।
।।। ।।। ऽ।ऽ ऽऽ
कुपुरुषजनिता ननौ र्गो गः।।6।।
।।।। ऽऽऽ ।। ऽऽ
अनवसिता न्यौ भ्गौ गुरुरन्ते।।7।।
ऽऽ। ऽऽ। ऽऽ। ऽऽ
विध्वङ्कमाला भवेत्तौ तगौ गः।।8।।
ऽ।। ऽऽ। ।।। ऽ।
सान्द्रपदं स्यात् भतनगलैश्च।।9।।
ऽ।ऽ ।ऽ। ।।ऽ ।ऽ
रेण जेन सेन लगयोर्द्रुता।।10।।
।।। ऽ।ऽ ऽ।ऽ ।ऽ
नररलैर्गुराविन्दिरा मता।।11।।
प्र0-
(12) जगती (द्वादशाक्षरा वृत्तिः)।
ऽ।ऽ ।।। ऽ।। ।।ऽ
चन्द्रवर्त्म गदितन्तु रनभसैः।।1।।
चन्द्रवर्त्म पिहितं घनतिमिरैः
राजवर्त्म रहितं जनगमनैः।
इष्टवर्त्म तदलङ्कुरु सरसे,
कुञ्जवर्त्मनि हरिस्तव कुतुकी।। (छन्दो0)
प्र0-
।ऽ। ऽऽ। ।ऽ। ऽ।ऽ
वदन्ति वंशस्थबिलं जतौ जरौ।।2।।
विलासवंशस्थविलं मुखानिलैः
प्रपूर्य यः पञ्चमरागमुद्‌गिरन्।
व्रजाङ्गनानामपि गानशालिनां
जहार मानं स हरिः पुनातु नः।। (छन्दो0)
प्र0-
ऽऽ। ऽऽ। ।ऽ। ऽ।ऽ
तच्चेन्द्रवंशा प्रथमेऽक्षरे गुरौ।।3।।
दैत्येन्द्रवंशाग्निरुदीर्णदीधितः पीताम्बरोऽसौ जगतां तमोऽपहः।
यस्मिन्ममज्जुः शलभा इव स्वयं ते कंसचाणूरमुखा मखद्विषः।।
प्र0-
।ऽ। ।।ऽ ।ऽ। ।।ऽ
जसौ जसयुतौ जलोद्धतगतिः।।4।।
यदीयहलतो विलोक्य विपदं कलिन्दतनया जलोद्धतगतिः।
विलासविपिनं विवेश सहसा करोतु कुशलं हली स जगताम्।।
प्र0-
।ऽऽ ।ऽऽ ।ऽऽ ।ऽऽ
भुजङ्गप्रयातं चतुभिर्यकारैः।।5।।
सदारात्मजज्ञातिभृत्यो विहाय स्वमेतं हृदं जीवनं लिप्समानः।
मया क्लेशितः कालियेत्थं कुरु! त्वं भुजङ्ग! प्रयातं द्रुतं सागराय।।
प्र0-
।।ऽ ।।ऽ ।।ऽ ।।ऽ
व द तो टकमब्धिसकारयुतम्।।6।।
यमुनातटमच्युतकेलिकलालसदङ्घ्रिसरोरुहसङ्गरुचिम्।
मुदितोऽट कलेरपनेतुमघं यदि चेच्छसि जन्म निजं सफलम्।।
प्र0-
ऽ।ऽ ऽ।ऽ ऽ।ऽ ऽ।ऽ
कीर्ति तैषा च तू रे फिका स्रग्विणी।।7।।
इन्द्रनीलोषलेनेव या निर्मिता शातकुम्भद्रवालङ्कृता शोभते।
नव्यमेघच्छविः पीतवासा हरेर्मूर्तिरास्तां जयायोरसि स्रग्विणी।।
प्र0-
ऽऽऽ ऽऽऽ ।ऽऽ ।ऽऽ
बाणाश्वैच्छिन्ना वैश्व देवी म मौ यौ।।8।।
अर्चामन्येषां त्वं विहायाऽमराणामद्वैतेनैकं विष्णुमभ्यर्च भक्त्या।
तत्राशेषात्मान्यर्चिते भाविनी ते भ्रातः! सम्पन्नाराधना वैश्वदेवी।।
प्र0-
।।ऽ ।ऽ। ।।ऽ ।।ऽ
प्रमिता क्ष रा स ज स सैः कथिता।।9।।
 (क)अमृतस्य शीकरमिवोद्गिरती रदमौक्तिकांशुलहरीच्छुरिता।
     प्रमिताक्षरा मुररिपोर्भणितिर्व्रजसुभ्रुवामधिजहार मनः।।
(ख) प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता।
     अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि।।
प्र0-
।।। ऽ।। ऽ।। ऽ।ऽ
द्रुतविलम्बितमाह नभौ भरौ।।10।।
तरणिजापुलिने नववल्लवी-
परिषदा सह केलिकुतूहलात्।
द्रुतविलम्बितचारु विहारिणं
हरिमहं हृदयेन सदा वहे।। (छन्दो0)
प्र0-
।।। ।।। ऽ।ऽ ऽ।ऽ
न न र रघटिता तु मन्दाकिनी।।11।।
(क)बलिदमनविधौ बभौ सङ्गता पदजलरुहि यस्य मन्दाकिनी।
     सुरनिहितसिताम्बुजस्रङ्निभा हरतु जगदधं स पीताम्बरः।।
(ख) सहशरधि निजं तथा कार्मुकं वपुरतनु तथैव संवर्मितम्।
     निहितमपि तथैव पश्यन्नसिं वृषभगतिरुपाययौ विस्मयम्।।
इति भारविः।
(ग) अतिसुरभिरभाजि पुष्पश्रियामतनुतरतयेव सन्तानकः।
तरुणपाभृतः स्वनं रागिणामतनुत रतये वसन्तानकः।।
इति माघः।
प्र0-
।।। ।ऽऽ ।।। ।ऽऽ
नयसहितौ न्यौ कुसुमविचित्रा।।12।।
उदाहरणम्-
विपिनविहारे कुसुमविचित्रा
कुतुकितगोपीमहितचरित्रा।
मुररिपुमूर्तिर्मुखरितवंशा
चिरमवताद्वस्तरलवतंसा।।
प्र0-
।।। ।ऽ। ।ऽ। ।ऽऽ
इह वद तामरसं नजजा यः।।13।।
स्फुटसुषमामकरन्दमनोज्ञं व्रजललनानयनालिनिपीतम्।
तव मुखतामरसं मुरशत्रो! हृदयतडागविकाशि ममास्तु।।
प्र0-
।।। ।ऽ। ।ऽ। ऽ।ऽ
भवति नजावथ मालती जरौ।।14।।
उदाहरणम्-
(क)इह कलयाऽच्युतकेलिकानने
मधुरससौरभसारलोलुपः।
कुसुमकृतस्मितचारुविभ्रमा
मलिरपि चुम्बति मालतीं मुहुः।।
(ख)अयि विजहीहि दृढोपगूहनं त्यज नवसङ्गमभीरु ! नल्लभम्।
अरुणकरोद्गम एष वर्तते वरतनु ! सम्प्रवदन्ति कुक्कुटाः।।
इति भारविः।
प्र0-
ऽऽ। ।ऽऽ ऽऽ। ।ऽऽ
त्यौ त्यौ मणिमाला च्छिन्ना गुहवक्त्रैः।।15।।
उदाहरणम्-
प्रह्वामरमौलौ रत्नोपलक्लृप्ते
जातप्रतिबिम्बा, शोणा मणिमाला।
गोविन्दपदाब्जे राजी नखराणा-
मास्तां मम चित्ते ध्वान्तं शमयन्ती।।
प्र0-
ऽऽऽ ऽ।। ।।ऽ ऽऽऽ
मो भः स्मौ चेज्जल धरमालाऽब्ध्यन्त्यैः।।16।।
या भक्तानां कलिदुरितोत्तप्तानां तापच्छेदे जलधरमाला नव्या।
भव्याकारा दिनकरपुत्रीकूले केलीलोला हरितनुरव्यात्सा वः।।
प्र0-
।।। ।।। ऽऽऽ ।ऽऽ
वसुयुगविरतिर्नौ म्यौ पुटोऽयम्।।1।।
।।। ऽ।। ।ऽ। ऽ।ऽ
भुवि भवेन्नभ जरैः प्रियंवदा।।2।।
ऽऽ। ऽ।। ।ऽ। ऽ।ऽ
धीरैरभाणि ललिता नभौ जरौ।।3।।
।।। ।।। ऽ।। ऽ।ऽ
ननभरसहिता गदितोज्ज्वला।।4।।
।।। ।ऽ। ऽ।। ।ऽऽ
इह नवमालिका नजभयैः स्यात्।।5।।
ऽ।। ऽऽऽ ।।ऽ ।।ऽ
पञ्चमुनी भ्मौ स्यात् सयुगा ललना।।6।।
।।। ।।। ऽऽऽ ऽ।ऽ
ललितमभिहितं नौ म्रौ नामतः।।7।।
।।। ऽ।। ।।। ।ऽऽ
द्रुतपदं भवति नभनयाश्चेत्।।8।।
ऽऽऽ ऽऽऽ ऽऽऽ ऽऽऽ
सर्वे मा यस्मिन् सोऽयं विद्याधारः स्यात्।।9।।
।ऽ। ऽ।ऽ ।ऽ। ऽ।ऽ
लघुर्गुरुर्वदन्ति पञ्चचामरम्।।10।।
ऽऽ। ऽऽ। ऽऽ। ऽऽ।
सारङ्गसंज्ञं समस्तैस्तकारैस्तु।।11।।
।ऽ। ।ऽ। ।ऽ। ।ऽ।
समस्तजमीर य मौक्तिक दाम।।12।।
ऽ।। ऽ।। ऽ।। ऽ।।
मोटकनाम समस्त भमीरय।।13।
।।। ।।। ।।। ।।।
रविलघु तरलनयनमिह।।14।।
प्र0-
(13) अतिजगती (त्रयोदशाक्षरा वृत्तिः)।
ऽऽऽ ।।। ।ऽ। ऽ।ऽ ऽ
त्र्याशाभिर्मन जरगाः प्रहर्षिणीयम्।।1।।
गोपीनामधरसुधारसस्य पानै-
रुत्तङ्गस्तनकलशोपगूहनैश्च।
आश्चर्यैरपि रतिविभ्रमैर्मुरारेः
संसारे मतिरभवत्प्रहर्षिणीह।।
प्र0-
।ऽ। ऽ।। ।।ऽ ।ऽ। ऽ
चतुर्ग्रहैरतिरुचिरा जभस्जगाः।।2।।
उदाहरणम्-
(क)पुनातु वो हरिरतिरासविभ्रमी
परिभ्रमन् व्रजरुचिराङ्गनान्तरे।
समीरणोल्लसितलतान्तरालगो
यथा मरुत्तरलतमालभूरुहः।।
(ख) अभून्नृपो विबुधसखः परन्तपः श्रुतान्वितो दशरथ इत्युदाहृतः।
गुणैर्वरं भुनवहितच्छलेन यं सनातनः पितरमुपागमत् स्वयम्।।
इति भट्टिः।
प्र0-
ऽऽऽ ऽऽ। ।ऽऽ ।।ऽऽ
वेदै रन्ध्रैर्म्तौ यसगा मत्तमयूरम्।।3।।
उदाहरणम्-
(क)लीलानृत्यन्मत्तमयूरध्वनिकान्तं
नृत्यन्नीपामोदिपयोदानिलरम्यम्।।
रासक्रीडाकृष्टमना गोपवधूभिः
कंसध्वंसी निर्जनवृन्दावनमाप।।
(ख)हा तातेति क्रन्दितमाकर्ण्य विषण्णस्तस्यान्विष्यन् वेतसमूढं प्रभवं सः।
शल्यप्रोतं वीक्ष्य सकुम्भं मुनिपुत्रं तापादन्तःशल्य इवासीत्क्षितिपोऽपि।।
इति रघुवंशे।
प्र0-
।।। ।।। ।।ऽ ।।ऽ ऽ
नयुगलसयुगलगैरिति चण्डी।।4।।
जयति दितिजरिपुताण्डवलीला कुपितकवलकरकालियमौलौ।
चरणकमलयुगचापलचण्डी पदनखरुचिजितभोगमणिश्रीः।।
प्र0-
।।ऽ ।ऽ। ।।ऽ। ऽ।ऽ
सजसा जगौ भवति मज्जुभाषिणी।।5।।
उदाहरणम्-
अमृतोर्मिशीतलकरेण लालयन्
तनुकान्तिरोचितविलोचनो हरे।।
नियतं कलानिधिरसीति वल्लवी-
मुदमच्युते व्याधित मञ्जुभाषिणी।।
प्र0-
।।। ।।। ऽऽ। ऽऽ। ऽ
ननततगुरुभिश्चन्द्रिकाश्चर्तुभिः।।6।।
उदाहरणम्-
(क)शरदमृतरुचश्चन्द्रिकाक्षालिते दिनकरतनयातीरदश हरिः।
विहरति रभसाद्वल्लवीभिः समं त्रिदिवयुवतिभिः कोऽपि देवो यथा।।
(ख)इह दुरधिगमैः किञ्चिदेवागमैः
सततमसुतरं वर्णयन्त्यन्तरम्।
अमुमतिविपिनं वेद दिग्व्यापिनं
पुरुषमिव परं पद्मयोनिः परम्।।
प्र0-
।।ऽ ।ऽ। ।।ऽ ।।ऽऽ
सजसा सगौ च कथितः कलहंसः।।7।।
यमुनाविहारकुतुके कलहंसो व्रजकामिनीकमलिनीकृतकेलिः।
जनचित्तहारिकलकण्ठनिनादः प्रमदं तनोतु तव नन्दतनूजः।।
प्र0-
।।ऽ ।ऽ। ।।ऽ ।ऽ। ऽ
सजसा जगौ च भवति प्रबोधिता।।8।।
शयिता मृषा चटुलमाननिद्रया रतिकेलिकुञ्जनिलये विलासिनी।
मुरवैरिणा श्रवणखर्जनादिना स्मितमाततान सपदि प्रबोधिता।।
प्र0-
।।। ।ऽ। ।ऽ। ऽ।ऽ ऽ
भवति मृगेन्द्रमुखं नजौ जरौ गः।।9।।
गुरुभुजवीर्यभरं हरिं मदान्धा युधि समुपेत्य न दानवा जिजीवुः।
क्षुधितमृगेन्द्रमुखं मृगा उपेत्य क्व नु खलु बिभ्रति जीवनस्य योगम्?।।
प्र0-
।ऽऽ ऽऽऽ ऽ।ऽ ऽ।ऽ ऽ
यमौ रौ विख्याता चञ्चरीकावली गः(1)।।1।।
।।। ।।ऽ ऽ।ऽ ऽ।ऽ ऽ
नसरयुगगैश्चन्द्ररेखर्तुलोकैः।।2।।
।ऽ। ।।ऽ ऽऽ। ।।ऽऽ
उपस्थितमिदं ज्सौ त्सौ सगुरुकं चेत्।।3।।
।ऽ। ऽऽ। ।।ऽ ।ऽ। ऽ
जतौ सजौ गो भवति मञ्जुहासिनी।।4।।
।ऽऽ ।ऽऽ ।ऽऽ ।ऽऽ ऽ
इदं कन्दुकं यत्र येभ्यश्चतुर्भ्योगः।।5।।
प्र0-
ऽऽ। ऽ।। ।।ऽ ।ऽ। ऽ
एते क्रमात्तभसजसंज्ञका गणा
      गश्चान्ततो यदि निहितो महीपते!।
वेदैर्ग्रहैश्च भवति यतिश्च शोभना
     नागाधिपो वदति तथा प्रभावतीम्।।1।।
                  इति वृत्तरत्नावल्याम्।
प्र0-
(14) शक्वरी (चतुर्दशाक्षरा वृत्तिः)।
ऽऽऽ ऽऽ ।।। ।।। ऽऽऽ
मो गौ नौ मश्चेच्छरनवभिरसम्बाधा।।1।।
उदाहरणम्-
वीर्याग्नौ येन ज्वलति रणवशात् क्षिप्ते
दैत्येन्द्रे जाता धरणिरियमसम्बाधा।
धर्मस्थित्यर्थं प्रकटिततनुसम्बन्धः
साधूनां बाधां प्रशमयतु स कंसारिः।।
प्र0-
ऽऽ। ऽ।। ।ऽ। ।ऽ। ऽऽ
ज्ञेयं वसन्ततिलकं तभजा जगौ गः।।2।।
फुल्लं वसन्ततिलकं तिलकं वनाल्या
लीलापरं पिककुलं कलमत्र रौति।
वात्येष पुष्पसुरभिर्मलयाद्रिवातो
यातो हरिः स मथुरां, विधिना हताः स्मः।।
प्र0-
उक्ता वसन्ततिलका तभजाजगौ गः
सिंहोन्नतेयमुदिता मुनिकाश्यपेन।
उद्धर्षिणीति गदिता मुनिसैतवेन
रामेण सेयमुदिता मधुमाधवीति।।
।।। ।।। ऽ।ऽ ।।ऽ ।ऽ
ननरसलघुगैः स्वरैरपराजिता।।3।।
उदाहरणम्-
यदनवधिभुजप्रतापकृतास्पदा
यदुनिचयचमूः परैरपराजिता।
व्यजयत समरे समस्तरिपुव्रजं
स जयति जगतां गतिर्गरुडध्वजः।।
प्र0-
।।। ।।। ऽ।। ।।। ।ऽ
ननभनलगिति प्रहरणकलिका।।4।।
उदाहरणम्-
व्यथयति कुसुमप्रहरण कलिका
प्रमदवनभवा तव धनुषि तता।
विरहविपदि मे शरणमिह ततो
मधुमथनगुणस्मरणमविरतम्।।
प्र0-
ऽऽऽ ऽऽ। ।।। ऽऽऽ ऽऽ
मात्तो नो मो गौ यदि गदिता वासन्तीयम्।।5।।
भ्राम्यद्भृङ्गीनिर्भरमधुरालापोद्गीतैः
      श्रीखण्डाद्रेरद्भुतपवनैमन्दान्दोला।
लीलालोला पल्लवविलसद्धस्तोल्लासैः
     कंसारातौ नृत्यति सदृशी वासन्तीयम्।।
प्र0-
ऽऽऽ ।।ऽ ऽऽऽ ऽ।। ऽऽ
द्विःसप्तच्छिदि लोला म्सौ म्भौ गौ चरणे चेत्।।6।।
मुग्धे ! यौवनलक्ष्मीर्विद्युद्विभ्रमलोला
त्रैलोक्याद्भुतरूपी गोविन्दोऽतिदुरापः।
तद्वृन्दावनकुञ्जे गुञ्जद्भृङ्गसनाथे
श्रीनाथेन समेता स्वछन्दं कुरु केलिम्।।
प्र0-
।।। ।।। ऽऽ। ऽऽ। ऽऽ
स्वरभिदि यदि नौ तौ च नान्दीमुखी गौ।।7।।
सरसखगकुलालापनान्दीमुखीयं
     लहरिभुजलया चारुफेनस्मितश्रीः।
मुरहर!कलयासत्तिमासाद्य किं ते
     प्रमुदितहृदया भानुजा नृत्यतीह?।।
प्र0-
(15) अतिशक्वरी (पञ्चदशाक्षरा वत्तिः)।
।।। ।।। ।।। ।।। ।।ऽ
गुरुनिधनमनुलघुरिह शशिकला।।1।।
उदाहरणम्-
मलयजतिलकसमुदितशशिकला
व्रजयुवतिलसदलिकगगनगता।
सरसिजनयनहृदयसलिलनिधिं
व्यतनुत विततरभसपरितरलम्।।
प्र0-
स्रगियमपि च रसनवरचितयतिः।।2।।
उदाहरणम्-
अयि सहचरि रुचिरतरगुणमयी
म्रदिमवसतिरनपगतपरिमला।
स्रगिव निवस विलसदनुपमरसा
सुमुखि मुदितदनुजदलनहृदये।।
प्र0-
वसुमुनियतिरिति मणिगुणनिकरः।।3।।
उदाहरणम्-
नरकरिपुरवतु निखिलसुरगति-
रमितमहिमभर-सहजनिवसतिः।
अनवधिमणिगुणनिकरपरिचितः
सरिदधिपतिरिव धृततनुविभवः।।
प्र0-
।।। ।।। ऽऽऽ ।ऽऽ ।ऽऽ
ननमयययुतेयं मालिनी भोगिलोकैः।।4।।
उदाहरणम्-
मृगमदकृतचर्चा पीतकौशेयवासा
रुचिरशिखिशिखण्डाऽऽबद्धधम्मिल्लपाशा।
अनृजुनिहितमंसे वंशमुत्क्वाणयन्ती
धृतमधुरिपुलीला मालिनी पातु राधा।।
प्र0-
ऽऽऽ ऽऽऽ ऽऽऽ ऽऽऽ ऽऽऽ
एकन्यूनौ विद्युन्मालापादौ चेल्लीलाखेलः।।5।।
(क)पायाद्वो गोविन्दःकालिन्दीकूलक्षोणीचक्रे
     रासोल्लासक्रीडद्गोपीभिः साधं लीलाखेलः।
मन्दाकिन्यास्तीरोपान्ते स्वैरक्रीडाभिर्लोलो
    यद्वद् देवानामीशः स्वर्वेश्याभिः खेलन्तीभिः।।
(ख)मा कान्ते ! पक्षस्यान्ते पर्याकाशे देशे स्वाप्सीः।
कान्तं वक्त्रं वृत्तं पूर्णं चन्द्रं मत्वा रात्रौ चेत्।
क्षुत्क्षामः प्राटंश्चेतश्चेतो राहुः क्रूरः प्राद्या-
त्तस्माद् ध्वान्ते हर्म्यस्यान्ते शय्यैकान्ते कर्तव्या।।
प्र0-
।।। ।।ऽ ।।। ऽ।ऽ ऽ।ऽ
विपिनतिलकं नसनरेफयुग्मैर्भवत्।।6।।
विपिनतिलकं विकसितं वसन्तागने
    मधुकृतमदमधुकरः क्वणद्भिर्वृतम्।
मलयमरुता रचितलास्यमालोकयन्
    व्रजयुवतिभिर्विहरति स्म मुग्धो हरिः।।
प्र0-
ऽ। ऽ।ऽ ।ऽ। ऽ। ऽ।ऽ ।ऽ
तूणकं समानिकापदद्वयं विनाऽन्तिमम्।।7।।
सा सुवर्णकेतकं विकासि भृङ्गपूरितं
    पञ्चबाणबाणजालपुर्णहेमतूणकम्।
राधिका वितर्क्य माधवाऽद्य मासि माधवे
    मोहमेति निर्भरं त्वया विना कलानिधे!।।
प्र0-
ऽऽऽ ऽ।ऽ ऽऽऽ ।ऽऽ ।ऽऽ
म्‌रौ मो यौ चेद्भवेतां सप्ताष्टकैश्चन्द्रलेखा।।8।।
उदाहरणम्-
विच्छेदे ते मुरारे पाण्डुप्रकाशा कृशाङ्गी
म्लानच्छायं दुकूलं न भ्राजते विभ्रती सा।
राधाम्भोदस्य गर्भे लीना यथा चन्द्रलेखा
किञ्चार्ता त्वां स्मरन्ती धत्ते धृतं जीवयोगम्।।
प्र0-
ऽऽऽ ऽऽऽ ऽऽऽ ।ऽऽ ।ऽऽ
चित्रा नाम च्छन्दश्चित्रं चेत्?त्रयो मा यकारौ।।9।।
गोपालीलीलालोलायद्वत् कलिन्दात्मजाऽन्ते
    खेलन्मुक्ताहाराऽऽरण्यस्रग्लसन्मूर्धचित्रा।
कंसारातेर्मूर्तिस्तद्वन्मे हृदि क्रीडतीयं
    कोऽन्यः स्वर्गो मोक्षो वाऽस्काद्विद्यते तन्न जाने।।
प्र0-
(16) अष्टिः (षोडशाक्षरा वृत्तिः)।
ऽ। ऽ।ऽ ।ऽ। ऽ। ऽ।ऽ ।ऽ।
चित्रसंज्ञमीरितं समानिकापदद्वयन्तु।।1।।
विद्रुमारुणाधरौष्ठशोभिवेणुवाद्यहृष्ट-
    वल्लवीजनाङ्गसङ्गजातमुग्धकण्टकाङ्ग।
स्वां सदैव वासुदेव!पुण्यलभ्यपाद! देव!
    वन्यपुष्पचित्रकेश! संस्मरामि गोपवेश!।।
प्र0-
ऽ।। ऽ।ऽ ।।। ।।। ।।। ऽ
भ्रत्रिनगैः स्वरात्खमृषभगजविलसितम्।।2।।
उदाहरणम्-
यो हरिरुच्चखान खरतरनखशिखरै-
र्दुर्जयदैत्यसिंहसुविकटहृदयतटम्।
किन्त्विह चित्रमेष यदखिलमपहृतवान्
कंसनिदेशदृप्यदृषभगजविलसितम्।।
प्र0-
ऽ।। ।।ऽ ऽऽऽ ऽऽ। ।।। ऽ
भात् समतनगैरष्टच्छेदे स्यादिह चकिता।।3।।
दुर्जयदनुजश्रेणीदुश्चेष्टाशतचकिता
     यद्भुजपरिघत्राता याता साध्वसविगमम्।
दीव्यति दिविषन्माला शश्वन्नन्दनविपिने
    गच्छत शरणं कृष्णं तं भीता भवरिपुतः।।
प्र0-
।ऽ। ऽ।ऽ ।ऽ ।ऽ। ऽ।ऽ ।ऽ
प्रमाणिकापदद्वयं वदन्ति पञ्चचामरम्।।4।।
सुरद्रुमूलमण्डपे विचित्ररत्ननिर्मिते
    लसद्वितानभूषिते सलीलविभ्रमालसम्।
सुराङ्गनाभवल्लवीकरप्रपञ्चचामर-
    स्फुरत्समीरवीजितं सदाऽच्युतं भजामि तम्।।
प्र0-
ऽऽऽ ऽ।। ।।। ऽऽऽ ।।। ऽ
म्भौ नो म्नौ गो मदनललिता वेदैः षड्ऋतुभिः।।5।।
विम्रष्टस्नग्गलितचिकुरा धौताधरपुटा
    ग्लायत्पत्रावलिकुचतटोच्छ्वासोर्मितरला।
राधाऽत्यर्थे मदनललिताऽऽन्दोलालसवपुः
    कंसाराते रतिरसमहो! चक्रेऽतिचटुलम्।।
प्र0-
।।। ।ऽ। ऽ।। ।ऽ। ऽ।ऽ ऽ
नजभजरैर्यदा भवति वाणिनी गयुक्तैः।।6।।
उदाहरणम्-
स्फुरतु ममाननेऽद्य ननु वाणि! नीतिरम्यं
तव चरणप्रसादपरिपाकतः कवित्वम्।
भवजलराशिपारकरणक्षमं मुकुन्दं
सततमहं स्तवैः स्वरचितैः स्तवानि नित्यम्।।
प्र0-
।ऽऽ ऽऽऽ ।।। ।।ऽ ऽ।ऽ ऽ
यमौ नस्रौ गश्च प्रवरललितं नाम वृत्तम्।।7।
भुजोत्क्षेपः शून्ये चलवलयझङ्कारयुक्तो
    मुधा पादन्यासः प्रकटिततुलाकोटिनादः।
स्मितं वक्त्रेऽकस्माद् दृशि पटुकटाक्षोर्मिलीला
    हरौ जीयादीदृक् प्रवरललितं वल्लवीनाम्।।
प्र0-
।।। ।।। ।।। ।।। ।।। ।
द्विगुणितवसुलघुभिरचलधृतिरिह।।8।।
तरणिदुहितृतटरुचिरतरवसति-
    रमरमुनिमुखजनविहितनुतिरिह।
मुररिपुरभिनवजलधररुचितनु-
    रचलधृतिरुदयति सुकृतिहृदि खलु।।
प्र0-
।।। ।ऽ। ऽ।। ।ऽ। ऽऽ। ऽ
गरुडरुतं नजौ भजतगा यदा स्युस्तदा।।9।।
अमरमयूरमानसमुदे पयोदध्वनि-
    र्गरुडरुतं सुरारिभुजगेन्द्रसन्त्रासने ।
धरणिभरावतारविधिडिण्डिमाडम्बरः
    स जयति कंसरङ्गभुवि सिंहनादो हरेः।।
प्र0-
ऽ।। ऽ।ऽ ।।। ऽ।ऽ ।।। ऽ
सङ्कथिता भरौ नरनगाश्च धीरललिता।।1।।
ऽ।। ऽ।। ऽ।। ऽ।। ऽ।। ऽ
पञ्चभकारयुताऽश्वगतिर्यदि चान्त्यगुरुः।।2।।
।।। ।ऽ। ऽ।ऽ ऽ।। ऽ।। ऽ
नजरभभेण गेन च स्यान्मणिकल्पलता।।3।।
ऽऽऽ ऽऽऽ ऽऽऽ ऽऽऽ ऽऽऽ ऽ
यस्मिन् सर्वे गा राजन्ते ब्रह्माद्यं तद्रूपं नाम।।4।।
ऽ।। ऽ।ऽ ।।ऽ ।।। ।।। ऽ
भो रयना नगौ च यस्यां वरयुवतिरियम्।।5।।
प्र0-
(17) अत्यष्टिः (सप्तदशाक्षरा वृत्तिः)।
।ऽऽ ऽऽऽ ।।। ।।ऽ ऽ।। ।ऽ
रसैः रुद्रैश्छिन्ना यमनसभला गः शिखरिणी।।1।।
उदाहरणम्-
करादस्य भ्रष्टे ननु शिखरिणी दृश्यति शिशो-
र्विलीनाः स्मः सत्यं नियतमवधेयं तदखिलैः।
इति त्रस्यद् गोपाऽनुचितनिभृतालापजनितं
स्मितं विभ्रद्देवो जगदवतु गोवर्धनधरः।।
प्र0-
।ऽ। ।।ऽ ।ऽ। ।।ऽ ।ऽऽ ।ऽ
जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः।।2।।
उदाहरणम्-
दुरन्तदनुजेश्वरप्रकरन्दुःस्थपृथ्वीभरं
जहार निजलीलया यदुकुलेऽवतीर्याशु यः।
स एष जगतां गतिर्दुरितभारमस्मादृशां
हरिष्यति हरिः स्तुतिस्मरणचाटुभिस्तोषितः।।
प्र0-
ऽ।। ऽ।ऽ ।।। ऽ।। ।।। ।ऽ
दिङ्‌मुनि वंशपत्रपतितं भरनभनलगैः।।3।।
उदाहरणम्-
(क)नूतनवंशपत्रपतितं रजनिजललवं
पश्य मुकुन्द मौक्तिकमिवोत्तममरकतगम्।
एव च तं चकोरनिकरः प्रपिबति मुदितो
वान्तमवेत्य चन्द्रकिरणैरमृतकणमिव।।
(ख)तम्प्रति लब्धजन्म शनकैः कथमपि लघुनि
क्षीणपयस्युपेयुषि भिदां जलधरपटले।
खण्डितविग्रहं बलभिदो धनुरिह विविधाः
पूरयितुं भवन्ति विभवः शिखरमणिरुचः।।
प्र0-
ऽऽऽ ऽ।। ।।। ऽऽ। ऽऽ। ऽऽ
मन्दाक्रान्ताऽम्बुधिरसनगैर्मो भनौ तौ गयुग्मम्।।4।।
उदाहरणम्-
प्रेमालापैः प्रियवितरणैः प्रीणितालिङ्गनाद्यै-
र्मन्दाक्रान्ता तदनु नियतं वश्यतामेति बाला।
एवं शिक्षावचनसुधया राधिकायाः सखीनां
प्रीतः पायात् स्मितसुवदनो देवकीनन्दनो नः।।
प्र0-
।।। ।।ऽ ऽऽऽ ऽ।ऽ ।।ऽ ।ऽ
नसमरसला गः षड्वेदैर्हयैर्हरिणी मता।।5।।
व्यथितं स विधिनेत्रं नीत्वा ध्रुवं हरिणीगणात्,
व्रजमृगदृशां सन्दोहस्योल्लसन्नयनश्रियम्।।
यदयमनिशं दूर्वाश्यामे मुरारिकलेवरे,
व्यकिरदधिकं बद्धाकांक्षे विलोलविलोचनम्।।
प्र0-
।।। ।ऽ। ऽ।। ।ऽ। ।ऽ। ।ऽ
यदि भवतो नजौ भजजला गुरु नर्कुटकम्।।6।।
उदाहरणम्-
व्रजवनितावसन्तलतिका विलसन्मधुपं
मधुपथनं प्रणम्रजनवाञ्छितकल्पतरुम्।
विभुमभिनौति कोऽपि सुकृतीमुदितेन हृदा
रुचिरपदावलीघटितनर्दटकेन कविः।।
प्र0-
हृय ऋतुसागरैर्यतियुतं यदि कोकिलकम्।।7।।
उदाहरणम्-
लसदरुणो क्षणं मधुरभाषणमोदकरं
मधुसमयागमे सरसकेलिभिरुल्लसितम्।
अलिललितद्युतिं रविसुतावनकोकिलकम्
ननु कलयामि तं सखि! सदा हृदि नन्दसुतम्।।
प्र0-
ऽऽऽ ऽ।। ।।। ऽऽऽ ।ऽऽ ।ऽ
वेदर्त्वश्वैर्मभनमयला गश्चेत्तदा हारिणी।।8।।
यस्या नित्यं श्रुतिकुवलये श्रीशालिनी लोचने
     रागः स्वीयोऽधरकिसलये लाक्षारसारञ्जनम्।
गौरी कान्तिः प्रकृतिरुचिरा रम्याङ्गरागच्छटा
     सा कंसारेरजनि न कथं राधा मनोहारिणी।।
प्र0-
ऽऽऽ ऽ।। ।।। ऽ।ऽ ।।ऽ ।ऽ
भाराक्रान्ता मभनरसला गुरुः श्रुतिषड्हयैः।।9।।
भाराक्रान्ता मम तनुरियं गिरीन्द्रविधारणात्
     कम्पं धते श्रमजलकणं तथा परिमुञ्जति।
इत्यावृण्वञ्जयति जलदस्वनाकुलबल्लवी-
     संश्लेषोत्थं स्मरविलसितं विलोक्य गुरुं हरिः।।
प्र0-
।।। ।।। ऽऽऽ ऽ।ऽ ।।ऽ ।ऽ
रसयुगहययुङ् नौ म्रौ सो लगौ हि यदा हरिः।।1।।
।ऽऽ ऽ।। ।।। ऽ।ऽ ।।ऽ ।ऽ
भवेत्कान्ता युगरसहयैर्यभौ नरसा लगौ।.2।
।।ऽ ।।ऽ ।ऽ। ऽ।। ।ऽ। ऽऽ
ससजैरतिशायिनी मता भजपरैर्गुरुभ्याम्।।3।।
प्र0-
(18) धृतिः (अष्टादशाक्षरा वृत्तिः)।
ऽऽऽ ऽऽ। ।।। ।ऽऽ ।ऽऽ ।ऽऽ
स्याद् भूतर्त्वश्वैः कुसुमितलता वेल्लिता म्तौ नयौ यौ।।1।।
उदाहरणम्-
(क)क्रीडत्कालिन्दी ललितलहरी वारिभिर्दाक्षिणात्यै-
र्वातैः खेलद्भिः कुसुमितलतावेल्लिता मन्दमन्दम्।
भृङ्गालीगीतैः किसलयकरोल्लासितैर्लास्यलक्ष्मीं
तन्वाना चेतो रभसतरलं चक्रपाणेश्चकार।।
(ख)ग्राम्याब्जानूपं पिशितलवणं शुष्कशाकं नवान्नं
गौडं पिष्टान्नं दधि सकृशरं निर्जलं मद्यमम्लम्।
श्वाना वल्लूरं समशनमथो गुर्वसात्म्यं विदाहि
त्वप्नं चारात्रौ श्वयथुगदवान् वर्जयेदङ्गनाञ्च।।
प्र0-
।।। ।ऽ। ऽ।। ।ऽ। ऽ।ऽ ऽ।ऽ
नजभजरैस्तु रेफसहितैः शिवैर्हयैर्नन्दनम्।।2।।
(क)तरणिसुतातरङ्गपवनैः सलीलमान्दोलितं
     मधुरिपुपादपङ्कजरजःसुपूतपृथ्वीतलम्।
मुरहरचित्रचेष्टितकलाकलापसंस्मारकं
     क्षितितलनन्दनं व्रज सखे! सुखाय वृन्दावनम्।।
(ख)अहृत धनेश्वरस्य युधि यः समेतमायोधनं
तमहमितो विलोक्य वियुधैः कृतोत्तमायोधनम्।
विभवमदेन निह्नुतह्रियाऽतिमात्रसम्पन्नकं
व्यथयति सत्पथादधिगताऽथवेह सम्पन्नकम् ?।।
प्र0-
।।। ।।। ऽ।ऽ ऽ।ऽ ऽ।ऽ ऽ।ऽ
इह ननरचतुष्कसृष्टन्तु नाराचमाचक्षते।।3।।
(क)दिनकरतनयातटीकानने चारुसञ्चारिणी
     श्रवणनिकटकृष्टमेणेक्षणा कृष्ण! राधा त्वयि।
ननु विकिरति नेत्रनाराचमेषाऽतिहृच्छेदनं
     तदिह मदनविभ्रमोद्भ्रान्तचित्तां विधत्स्व द्रुतम्।।
(ख)रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां
प्रेयसुहृदि विभीषणे सङ्गमय्य श्रियं वैरिणः।
रविसुतसहितेन तेनानुयातः ससौमित्रिणा
भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम्।।
प्र0-
ऽऽऽ ऽ।। ।।। । ऽऽ। ऽऽ। ऽऽ
मन्दाक्रान्ता नपरलघुयुता कीर्तिता चित्रलेखा।।4।।
शङ्केऽमुष्मिञ्जगति मृगदृशां साररूपं यदासी-
     दाकृष्येदं व्रजयुवतिसभा वेधसा सा व्यधायि।
नैतादृक् चेत्कथमुदधिसुतामन्तरेणाच्युतस्य
     प्रीतं तस्यां नयनयुगमभूच्चित्रलेखाद्भुतायाम्।।
प्र0-
ऽऽऽ ।।ऽ ।ऽ। ।।ऽ ऽऽ।। ।ऽ
मः सो जः सतसा दिनेशऋतुभिः शार्दूलललितम्।।5।।
कृत्वा कंसमृगे पराक्रमविधिं शार्दूलललितं
     यश्चक्रे क्षितिभारकारिषु दरं चैद्यप्रभृतिषु।
सन्तोषं परमं तु देवनिवहे त्रैलोक्यशरणं
     श्रेयो नः स तनोत्वपारमहिमा लक्ष्मीप्रियतमः।।
प्र0-
ऽऽऽ ।।ऽ ।ऽ। ।ऽ। ऽ।। ऽ।ऽ
मात्सौ जौ भरसंयुतौ करिबाणकैर्हरिणप्लुतम्।।1।।
ऽ।। ऽ।। ऽ।। ऽ।। ऽ।। ।।ऽ
पञ्चभकारयुताश्वगतिर्यदि चान्तसरचिता।।2।।
।ऽऽ ऽऽऽ ।।। ।।ऽ ऽऽ। ।।ऽ
सुधा तर्कैस्तर्कैर्भवति ऋतुभिर्यो मोनसतसाः।।3।।
ऽऽऽ ।।। ।।। ऽऽ। ऽऽ। ऽऽऽ
वर्णाश्वैर्मननततमकैः कीर्तिता चित्रलेखेयम्।।4।।
ऽ।। ऽ।ऽ ।।। ।।। ।।। ।।ऽ
भाद् रनना नसौ भ्रमरपदकमिदमभिहितम्।।5।।
ऽऽऽ ।।ऽ ।ऽ। ।।ऽ ऽ।ऽ ऽऽऽ
शार्दूलं वद मासषट्कयति मः सो जसौ रो मश्चेत्।।6।।
ऽऽऽ ऽ।। ।।। ।ऽऽ ऽ।ऽ ऽ।ऽ
अर्थाश्वाश्वैर्मभनयरयुगैर्वृत्तं मतं केसरम्।।7।।
ऽऽऽ ऽ।। ।।। ।ऽ। ऽ।। ऽ।ऽ
म्भौ न्जौ भ्रौ चेच्चलमिदमुदितं युगैर्मुनिभिः स्वरैः।।8।।
।।। ।।। ऽ।ऽ ऽ।ऽ ऽ।ऽ ऽ।ऽ
यदिह नयुगलं ततो वेदरेफैर्महामालिका।।9।।
प्र0-
(19) अतिधृतिः (ऊनविंशत्यक्षरा वृत्तिः)।
।ऽऽ ऽऽऽ ।।। ।।ऽ ऽ।ऽ ऽ।ऽ ऽ
रसर्त्वश्वैर्य्मौन्सौ ररगुरुयुतौ मेघविस्फूर्जिता स्यात्।।1।।
उदाहरणम्-
कदम्बामोदार्ढ्या विपिनपवनाः केकिनः कान्तकेकाः
विनिद्राः कन्दल्यो दिशि दिशि मुदा दर्दुरा दृप्तनादाः।
निशा नृत्यद्विद्युद्विलसितलसन्मेघविस्फूर्जिता चेत्
प्रियः स्वाधीनोऽसौदनुजदलनो राज्यमस्मात्किमन्यत्।।
प्र0-
।ऽऽ ऽऽऽ ।।। ।।ऽ ऽऽ। ऽऽ। ऽ
भवेत्सेवच्छाया तयुगगयुता स्याद् द्वादशान्ते यदा।।2।।
अभीष्टं जुष्टो यो वितरति लसद्दोश्चीरुशाखोज्ज्वलः
      स्फुरन्नानारत्नस्तबकिततनुश्चित्रांशुकालम्बितः।
न यस्याङ्घ्रैश्छायामुपगतवतां संसारतीव्रातप-
      स्तनोति प्रोत्ताप स जगदव्रतात् कंसारिकल्पद्रुमः।।
प्र0-
ऽऽऽ ।।ऽ ।ऽ। ।।ऽ ऽऽ। ऽऽ। ऽ
सूर्यास्वर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम्।।3।।
उदाहरणम्-
गोविन्दं प्रणमोत्तमाङ्ग! रसने!तं घोषयाऽहर्निशम्
पाणी! पूजयतं मनः! स्मर पदे तस्यालयं गच्छतम्।
एवं चेत् कुरुताखिलं मम हितं शीर्षादयस्तद्‌ ध्रुवं
न प्रेक्षे भवतां कृते भवमहाशार्दूलविक्रीडितम्।।
प्र0-
ऽऽऽ ऽ।ऽ ऽ।। ।।। ।ऽऽ ।।। ऽ
म्रौ भ्नौ यो नो गुरुश्चेत्स्वरमुनिकरणैराह सुरसाम्।।4।।
कामक्रीडासतृष्णो मधुसमयसमारम्भरभसात्
     कालिन्दीकूलकुञ्जे विहरणकुतुकाकृष्टहृदयः।
गोविन्दो वल्लवीनामधररससुधां प्राप्य सुरसां
     शङ्के पीयूषपानप्रचयकृतसुखं व्यस्मरदसौ।।
प्र0-
ऽऽऽ ऽऽ ।।। ।।। ऽऽ। ऽऽ। ऽऽ
मो गौ नौ तौ गौ शरहयतुरगैः फुल्लदाम प्रसिद्धम्।.5।।
शश्वल्लोकानां प्रकटितकदनं ध्वस्तमालोक्य कंसं
     हृष्यच्चेतोभिस्त्रिदिववसतिभिर्व्योमसंस्थैर्विमुक्तम्।
मुग्धामोदेन स्थगितदशदिगाभोगमाहूतभृङ्गं
     मौलौ दैत्यारेर्न्यपतदनुपमं स्वस्तरोः फुल्लदाम।।
प्र0-
ऽऽऽ ऽऽ। ।।। ।।ऽ ऽऽ। ऽऽ। ऽ
वृत्तं विभ्वाख्यं शरमुनितुरगैर्म्तोन्सौ ततौ चेत् गुरुः।।1।।
।ऽऽ ऽऽऽ ।।। ।।ऽ ।ऽ। ।ऽ। ऽ
रसैः षड्भिर्लोकैर्यमनसजजा गुरुर्मकरन्दिका।।2।।
।ऽऽ ऽ।। ।।। ।ऽऽ ।ऽ। ।ऽ। ऽ
इनाश्वैः स्याद् यभनयजजगाः कीर्तिता मणिमञ्जरी।।3।।
।ऽ। ।।ऽ ।ऽ। ।।ऽ ऽऽ। ऽ।। ऽ
गजाब्धितुरगैर्जसौ जसतभा गश्चेत् समुद्रलता।।4।।
प्र0-
(20) कृतिः (विंशत्यक्षरा वृत्तिः)।
ऽऽऽ ऽ।ऽ ऽ।। ।।। ।ऽऽ ऽ।। ।ऽ
ज्ञेया सप्ताश्वषड्भिर्मरभनययुता भ्लौ गः सुवदना।।1।।
उदाहरणम्-
प्रत्याहृत्येन्द्रियाणि त्वदितरविषयान्नासाग्रनयना
त्वां ध्यायन्ती निकुञ्जे परतरपुरुषं हर्षोत्थपुलका।
आनन्दाश्रुप्लुताक्षी वसति सुवदना यौगैकरसिका
कामार्ति त्यक्तुकामा ननु नरकरिपो!राधा मम सखी।।
प्र0-
।।ऽ ।ऽ। ।ऽ। ऽ।। ऽ।ऽ ।।ऽ ।ऽ
सजजा भरौ सलगा यदा कथिता तदा खलु गीतिका।।2।।
करताल चञ्चलकङ्कणस्वनमिश्रणेन मनोरमा
     रमणीयवेणुनिनादरङ्गिमसङ्गमेन सुखावहा।
बहुलानुरागनिवासराससमुद्भवा भवरागिणं
     विदधौ हरिं खलु बल्लवीजनचारुचामरगीतिका।।
प्र0-
ऽ।ऽ ।ऽ। ऽ।ऽ ।ऽ। ऽ।ऽ ।ऽ। ऽ।
वृत्तमीदृशन्तु नामतो रजौ रजौ रजौ गरुर्लघुश्च।।3।।
उदाहरणम्-
चित्रवृत्तिलीलया निसर्गरम्यदेहरूपविभ्रमेण
राजमानसद्वयोविलाससम्पदा कलाकुतूहलेन।
यः समं व्रजाङ्गनाजनैः सुराङ्गनानिभैः सुखं समेत्य
विष्णुरुल्ललासचित्तपद्मकोषषट्पदः समे सदाऽस्तु।।
प्र0-
।ऽऽ ऽऽऽ ।।। ।।। ऽ ऽ।ऽ ऽ।ऽ ऽ
रसाश्वाश्वैः शोभा नयुगगजठरा मेघविस्फूर्जिता चेत्।।4।।
सदा पूषोन्मीलत्सरसिजयुगला मध्यनम्रा फलाभ्यां
     तयोरूर्ध्वं राजत्तरलकिसलयाश्लिष्टसुस्निग्धशाखा।
लसन्मुक्तारक्तोत्पलकुवलयवच्चन्द्रबिम्बाञ्चिताग्रा
     महाशोभा मौलौ मिलदलिपटलैः कृष्ण! सा काऽपि वल्ली।।
प्र0-
(21) प्रकृतिः (एकविंशत्यक्षरा वृत्तिः)।
ऽऽऽ ऽ।ऽ ऽ।। ।।। ।ऽऽ ।ऽऽ ।ऽऽ
म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्।।1।।
व्याकोषेन्दीवराभा कनककषलसत्पीतवासाः सुहासा
बर्हैरुच्चन्द्रकान्तैर्वलयितचिकुरा चारुकर्णावतंसा।
अंसव्यासक्तवंशीध्वनिसुखितजगद्वल्लवीभिर्लसन्ती
मूर्तिर्गोपस्य विष्णोरवतु जगति नः स्रग्धरा हारिहारा।।
प्र0-
।।। ।ऽ। ऽ।। ।ऽ। ।ऽ। ।ऽ। ऽ।ऽ
नजभजजा जरौ यदि तदा गदिता सरसी कवीश्वरः।।2।।
(क) चिकुरकलापशैवलकृतप्रमदासु लसद्रसोर्मिषु
         स्फुटवदनाम्बुजासु विलसद्भुजबालमृणालवल्लिषु।
     कुचयुगचक्रवाकमिथुनानुगतासु कलाकुतूहलो
         व्यरचयदच्युतो व्रजमुगीनयनासरसीषु विभ्रमम्।।
(ख) तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः
         प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता।
परिचलतो बलानुजबलस्य पुरः सततं घृतश्रिय-
         श्चिरगलितश्रियो जलनिधेश्च तदाऽभवदन्तरं महम्।।
प्र0-
(22) आकृतिः (द्वाविंशत्यक्षरा वृत्तिः)।
ऽऽऽ ऽऽऽ ऽऽ ।।। ।।। ।।। ।।। ऽऽ
मौ गौ नाश्चत्वारो गो गो वसुभुवनयतिरिति भवति हंसी।।1।।
सार्ध कान्तेनैकान्तेऽसौ विकचकमलमधु सुरभि पिबन्ती
     कामक्रीडाकूतस्फीतप्रमदसरसतरमलघु रसन्ती।
कालिन्दीये पद्मारण्ये पवनपतनपरितरलपरागे
     कंसाराते! पश्य स्वेच्छं सरभसगतिरिह विलसति हंसी।।
प्र0-
ऽ।। ऽ।। ऽ।। ऽ।। ऽ।। ऽ।। ऽ।। ऽ
सप्तभकारयुतैकगुरुर्गदितेयमुदारतरा मदिरा।।2।।
माधवमासि विकस्वरकेसर पुष्पलसन्मदिरा मुदितै-
     र्भृङ्गकुलैरुपगीतवने वनमालिनमालि! कलानिलयम्।
कुञ्जगृहोदरपल्लवकल्पिततल्पमनल्पमनोजरसं
     तं भज माधविकामृदुनर्तकयामुनवातकृतोपगमा।।
प्र0-
ऽ।। ऽ।ऽ ।।। ऽ।ऽ ।।। ऽ।ऽ ।।। ऽ
भ्रौ नरना रनावथ गुरुर्दिगर्कविरमं हि भद्रकमिति।।1।।
ऽऽऽ ।।ऽ ऽ।ऽ ।।ऽ ऽऽ। ।ऽ। ।।। ऽ
लालित्यं भुजगेन्द्रेण भाषितमेतच्चेन्मसरस्तजनगुरु।।2।।
।।ऽ ।ऽ। ऽऽ। ।।। ।।ऽ ऽ।ऽ ऽ।ऽ ऽ
सजता नसौ ररौ गः फणितुरगहयैः स्यान्महास्रग्वराऽऽख्या।।3।।
प्र0-
(23) विकृतिः (त्रयोविंशत्यक्षरा वृत्तिः)।
।।। ।ऽ। ऽ।। ।ऽ। ऽ।। ।ऽ। ऽ।। ।ऽ
नजभजभा जभौ लघुगुरू बुधैस्तु गदितेयमद्रितनया।।1।।
(क) खरतरशौर्यपाकशिखापतङ्ग निभभग्नदृप्तदनुजो
        जलधिसुताविलासवसतिः सतां गतिरशेषमान्यमहिमा।
     भुवनहितावतारचतुरश्चराचरधरोऽवतीर्ण इह हि
        क्षितिवलयेऽस्ति कंस! शमनस्तवेति तमवोचदद्रितनया।।
(ख)विलुलितपुष्परेणुकपिशं प्रशान्तकलिकापलासकुसुमं
        कुसुमनिपातचित्रवसुधं सशब्दनिपद्द्रुमोत्कशकुनम्।
    शकुननिनादनादितककुब्विलोलविपलायमानहरिणं
        हरिणविलोचनाधिवसतिं बभञ्ज पवनात्मजो रिपुवनम्।।
प्र0-
ऽऽऽ ऽऽऽ ऽऽ ।।।।।।।।।।।।।। ऽ
मत्ताक्रीडं वस्विष्वाशायति मयुगगयुगमनुलघुगुरुभिः।।2।।
उदाहरणम्-
मुग्धोन्मीलन्मत्ताक्रीडं मधुसमयसुलभमधुरमधुरलसो
द्‌गाने याने किञ्चत्स्यन्दत्पदमरुणनयनयुगलसरसिजम्।
रासोल्लासक्रीडत्कम्रव्रजयुवतिवलयविहितभुजरसं
सान्द्रानन्दं वृन्दारण्ये स्मरत हरिमनघचरणपरिचयम्।।
प्र0-
(24)सङ्कृतिः (चतुर्विंशत्यक्षरा वृत्तिः)।
ऽ।। ऽऽ। ।।। ।।ऽ ऽ।। ऽ।। ।।। ।ऽऽ
भूतमुनीनैर्यतिरिह भतनाः स्भौ भनयाश्च यदि भवति तन्वी।।1।।
उदाहरणम्-
माधव!मुग्धैर्मधुकरविरुतैः कोकिलकूजितमलयसमीरैः
कम्पमुपेता मलयजसलिलैः प्लावनतोऽप्यविगततनुदाहा।
पद्मपलाशैर्विरचितशयना देहजसंज्वर भरपरिदूनै-
र्निश्वसती सा मुहुरतिपरुषं ध्यानलये तव निवसति तन्वी।।
प्र0-
(25)अतिकृतिः -
ऽ।। ऽऽऽ ।।ऽ ऽ।। ।।।।।।।।।।।। ऽ
क्रौञ्चपदा भ्मौ स्भौ नननान्गाविषुशरवसुमुनिविरतिरिह भवेत्।।1।।
उदाहरणम्-
क्रौञ्चपदाली चित्रिततीरा मदकलखगकुलकलकलरुचिरा
फुल्लसरोजश्रेणिविलासा मधुमुदितमधुपरवरभसकरी।
फेनविलासप्रोज्ज्वलहासा ललितलहरिभरपुलकितसुतनुः
पश्य हरेऽसौ कस्य न चेतो हरति तरलगतिरहिमकिरणजा।।
प्र0-
(26)उत्कृतिः (षड्विंशत्यक्षरा वृत्तिः)।
ऽऽऽ ऽऽऽ ऽऽ। ।।। ।।। ।।। ऽ।ऽ।।ऽ।ऽ
वस्वीशाश्वच्छेदोपेतं ममतनयुगनरसलगैर्भुजङ्गविजृम्भितम्।।1।।
उदाहरणम्-
हे लोदञ्चन्न्यञ्चत्पादप्रकटविकटनटनभरो रणत्करतालक
श्चारुप्रेङ्खच्चूडाबर्हः श्रुतितरलनवकिसलयस्तरङ्गितहारधृक्।
त्रस्यन्नागस्त्रीभिर्भक्त्या मुकुलितकरकमलयुगं कृतस्तुतिरच्युतः
पायाद्वश्छिन्दन् कालिन्दीहृदकृतनिजवसति बृहद्‌भुजङ्गविजृम्भितम्।।
प्र0-
ऽऽऽ ।।। ।।। ।।। ।।। ।।। ।।। ।।ऽ ऽऽ
मो नाः षट्‌सगगिति यदि नवरसरसशरयतियुतमपवाहाख्यम्।।1।।
प्र0-

      

"https://sa.wikisource.org/w/index.php?title=छन्दोमञ्जरी&oldid=404393" इत्यस्माद् प्रतिप्राप्तम्