चीवरवस्तु
चीवरवस्तु [[लेखकः :|]] |
चीवरवस्तु
चीवरवस्तुनि पिण्डोद्दानम्* ।
जीवको भाङ्गकश्चैव तथा दीर्घदशानि च ।
वर्षाछिन्नश्च विज्ञेयः
कालक्रिया उपनन्दो ग्लानो भवति पश्चिमः ॥
पिण्डोद्दानम्* ।
जीवकश्छिन्नकास्त्रीणि वर्षाशाटी निषीदनम्* ।
कण्डुसुगतकौशेया ऊर्णाशाणकक्षौमकाः ॥
उद्दानम्* ।
खण्डो गोपश्च सिंहश्च वैशालीगमनं तथा ।
चेला ऋषिकोपश्च आम्रपाल्यभयेन च ॥
श्रेष्ठीभार्या जीवकोत्पत्तिः वैद्यकस्य च आगमः ।
तक्षशिला भद्रङ्कर उदुम्बरः कार्षमापकः ॥
रोहितकः राजोद्यानं मथुरा मल्लस्त्रियाहि च ।
यमुना शिवपथिका वैशाल्यामक्षि शतपदी सप्त ।
राजगृहे पंचवस्तूनि जीवकवर्गः समुद्दितः ॥
विदेहेषु विदेहराजो (२४० १ = ग्ब्म् ६.७९२) राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च । तस्य खण्डप्रमुखानि पंचामात्यशतानि । खण्डोऽग्रामात्यो धर्मेण राज्यं कारयति न्यायतश्च व्यवहारान् पश्यति यतः सर्व एव जनकायस्तन्मुखोऽवस्थितः । तेन सदृशात्कुलात्कलत्रमानीतम्* । स तया सार्धं क्रीडति (म्स्विइ ४) रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः । तस्य त्रीणि सप्तकान्येकविंशति दिवसान् पूर्ववद्यावद्गोप इति नामधेयं व्यवस्थापितम्* । भूयोऽप्यस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः । तस्यापि पूर्ववद्विस्तरेण सिंह इति नामधेयं व्यवस्थापितम्* । गोपः सिंहश्च क्रमशस्तरुणौ संवृत्तौ । खण्डोऽग्रामात्यः पूर्वमेव शूरो विक्रान्तः पञ्चसु स्थानेषु कृतावि येनामात्यानामग्रः । यदा पुत्रबली जातस्तदा भूयस्या मात्रया सर्वामात्यानभिभूयावस्थितः । ततस्तेऽमात्या उपहततेजसः परस्परं संजल्पं कृत्वा संजातामर्षा राज्ञः सकाशं गताः । ततोऽवसरं ज्ञात्वा राजानमूचुः । देव को राजा । राजा कथयति । कुतो भवतां विमर्षोऽहं राजा कोऽन्य इति । ते कथयन्ति । देव खण्डो राजा न देवः । यदि तस्याभिरुचितं स्याद्देवं राज्याच्च्यावयित्वा स्वयमेव पट्टं बद्धा राज्यैश्वर्याधिपत्यं कारयेदिति । राजा संलक्षयति । सर्व एते तेनाभिभूतास्तेन भेदं कुर्वन्तीति । यावदपरेण समयेन राजा अमात्यगणपरिवृतस्तिष्ठति । खण्डश्चाग्रामात्योऽर्थिप्रत्यर्थिशतसहस्रपरिवृतो राजकुलं प्रविष्टः । पूर्णं तद्राजकुलमवस्थितम्* । यदा तु राजकृतिं कृत्वा निष्क्रान्तस्तदा तद्राजकुलं शून्यमवस्थितम्* । राजा कथयति । भवन्तः सर्व एवायं जनकायो निष्क्रामति । अमात्यैरवतारो लब्धः । ते कथयन्ति । साक्षात्कृतं देवेन यतो विज्ञापयामः । यदि (म्स्विइ ५) खण्डस्याभिरुचितं स्यादेव राज्याच्च्यावयित्वा स्वयमेव पट्टं बद्धा राज्यैश्वर्याधिपत्यं कारयेदिति । काकशङ्किनो हि राजानः । स संलक्षयति । यथैते कथयन्ति नूनमेवमिति । स तस्यावतारप्रेक्षी संवृत्तः । मित्रामित्रमध्यमा लोकाः । यावदपरैः खण्डस्यारोचितम्* । राजा तवावतारप्रेक्ष्यवतिष्ठते । क्षमं मन्यस्वेति । तस्य शंका समुत्पन्ना । स विचारयितुं प्रवृत्तः । क्व गच्छामीति । यदि श्रावस्तीं गामिष्यामि राजाधीना श्रावस्ती तत्राप्येष एवादीनवः । एवं वाराणस्यां राजगृहे चण्पायामेकाधीनत्वादेष एवादीनवः । वैशाली गणाधीना । यदृशानामभिप्रेतं तद्विंशतीनां नाभिप्रेतम्* । सर्वथा वैशालीं गच्छामीति । तेन वैशालकानां लिच्छवीनां दूतसंप्रेषणं कृतम्* । गच्छाम्यहं भवतां बाहुच्छायायां वस्तुमिति । तैरादरजातैः प्रतिसन्देशो दत्तः । इयमेव वैशाली स्वागतमागच्छेति । ततः खण्डेनाग्रामात्येन ज्ञातय आहूय उक्ताः । भवन्तो वैशालीं संप्रस्थितो येषां युष्माकमभिरुचितमिहावस्थानं ते (२४० १ = ग्ब्म् ६.७९३)ऽभितिष्ठन्तु येषां नाभिरुचितं ते सज्जा भवन्तु गच्छामः । गोपालकाः पशुपालकाश्चोक्ताः । यूयं गोमहिषीः येन वैशालीं तेन खटयत । पौरुषेया उक्ताः । सन्नाहयत वैशालीं गच्छाम इति । ततो जनकायमेवं प्रेरयित्वा राज्ञः सकाशं गतः पादयोर्निपत्य कथयति । देव किंचित्करणीयमस्ति । उद्यानं गच्छाम्य्(म्स्विइ ६) अवलोकितो भवेति । राजा कथयत्येवं भवतु गच्छेति । सोद्यानशोभां कारयित्वा सारादानं शकटेष्वारोप्य उपरि खादनीयभोजनीयेन आच्छाद्य संप्रस्थितः । अमात्यैः श्रुतम्* । खण्डो निष्पलायतीति । ते त्वरितं त्वरितं राज्ञः सकाशं गत्वा कथयन्ति । देव खण्डो निष्पलायतीति । राजा कथयति । भवन्तो गच्छत निर्वर्तयतेति । ते चतुरङ्गं बलकायं सन्नाह्य निर्गताः कथयन्ति । खण्ड देवो शब्दयतीति निवर्तयस्वेति । स कथयति । भवन्तो युष्माकं दीर्घरात्रमयमाश्वासकः । अहो बत खण्डः कालं कुर्यान्निष्पलायेत इति वा इति । स युष्माकमल्पकृच्छ्रेण परिपूर्णः
। गच्छत निष्पलायत्ययमिति । ते राज्ञश्चित्तानुरक्षया काण्डकाण्डिं कृत्वा निवृत्ता राज्ञः कथयन्ति । देव निष्पलायितः खण्डो अग्रामात्य इति । राजा कथयति । न शोभनमिति कृत्वा तूष्णीमवस्थितः । खण्डोऽप्यनुपूर्वेण वैशालीं गतः ।
तेन खलु समयेन वैशाली त्रिभिः स्कन्धैः प्रतिवसति । प्रथमे स्कन्धे सप्त कूटागारसहस्राणि सुवर्णमयैर्निर्यूहैर्मध्यमे स्कन्धे चतुर्दश रूप्यमयैर्निर्यूहैरधरिमे स्कन्धे एकविंशतिस्ताम्रमयैर्निर्यूहैस्तेषु यथायोगं मनुष्याः प्रत्वसन्ति । उत्तमा मध्यमा अधमा । वैशाल्यां गणेन क्रियाकारा व्यवस्थापिताः । या प्रथमे (म्स्विइ ७) स्कन्धे दारिका जायते सा प्रथम एव स्कन्धे दीयते न मध्यमे नाधरिमे । या मध्यमे सा प्रथमे स्कन्धे दीयते मध्यमे वा नाधरिमे । याधरिमे सा त्रिष्वपि स्कन्धेषु दीयते । कन्याया अनिर्वाहः नान्यत्र दीयते इति । वैशालीस्त्रीरत्नं न कस्यचिद्दीयते । गणसामान्यं परिभोज्यमेव । खण्डस्य प्रधानपुरुष इति कृत्वा प्रथमे स्कन्धे गृहं दत्तम्* । तत्र प्रतिवस्तुमारब्धः ।
यदा गणः संनिपतति तदासावाहूयमानोऽपि न संनिपतति । स वैशालकैरुच्यते । खण्ड कस्मात्त्वं न संनिपतसीति । स कथयति । संनिपतितादेव अयमादीनवः प्रादुर्भूतो नाहं संनिपतामीति । वैशालकाः कथयन्ति । खण्ड संनिपाते कोऽत्र आदीनवो भविष्यतीति । स संनिपतितुमारब्धः । मतं नानुप्रयच्छति । ते कथयन्ति । खण्ड मतमनुप्रयच्छेति । स कथयति । मतमपि नानुप्रयच्छामि यस्मान्मतादेव मे आदीनवाः प्रादुर्भूता इति । ते कथयन्ति । अनुप्रयच्छ मतम्* । कोऽत्रादीनवो भविष्यतीति । स च निगमे संनिपतति मतं चानुप्रयच्छति । पूर्वं वैशालका लिच्छवयो यस्य कस्यचिल्लेखमनुप्रेषयन्ति सकर्कशमनुप्रेषयन्ति । यदा तु खण्डो मतं दातुमारब्धस्तदा सानुनयं लिखन्ति । (म्स्विइ ८) येषां सानुनयो (२४१ १ = ग्ब्म् ६.७९४) लेखो नीतो भवति । ते परस्परं संजल्पं कुर्वन्ति । भवन्तः को योगो येन वैशालको गणः पूर्वं सकर्कशं लिखति इदानीं तु सानुनयमिति । अपरे कथयन्ति । अस्ति विशेषः । विदेहराजस्य खण्डो नामाग्रामात्य इहागतस्तस्य मतेनानुव्यवहरन्ति येनाधुना सानुनयं लिखन्तीति ।
खण्डेन गोपस्य सिंहस्य च निवेशनं कृतम्* । सिंहस्य क्रीडतो रममाणस्य परिचारयतो दुहिता जाता । तस्यापि विस्तरेण जातिमहं कृत्वा चेलेति नामधेयं व्यवस्थापितम्* । सा नैमित्तिकेन दृष्ट्वा व्याकृता पुत्रं जनयिष्यति । स पितरं जीविताद्व्यपरोप्य स्वयमेव पट्टं बद्ध्वा राज्यं कारयिष्यतीति । भूयोऽस्य क्रीडतो रममाणस्य परिचारयतो दुहिता जाता । तस्य अपि विस्तरेण जातिमहं कृत्वोपचेलेति नामधेयं व्यवस्थापितम्* । सापि नैमित्तिकेन व्याकृता पुत्रं जनयिष्यति लक्षणसंपूर्णमिति । गोपो व्याडो विक्रान्तो वैशालकानां लिच्छवीनामुद्यानानि विनाशयति । उद्यानपालैरुच्यते । वैशालका लिच्छवयो व्याडा विक्रान्ताः । मा तेषामुद्यानानि विनाशयेति । स निवार्यमाणोऽपि न संतिष्ठते । उद्यानपालैः खण्डस्यारोचितम्* । पुत्रस्ते वैशालकानां लिच्छवीनामुद्यानानि विनाशयति । निवारयैनम्* । लिच्छवयो व्याडा विक्रान्ता मास्यानर्थं करिष्यन्ति । स तेनाहूयोक्तः । पुत्र वैशालका लिच्छवयो व्याडा विक्रान्ता मा तेषामुद्यानानि विनाशय मा ते अनर्थं करिष्यन्तीति । स कथयति । तात एषामुद्यानानि सन्ति अस्माकं तु न सन्ति । स कथय्ति । पुत्र उद्यानस्यार्थाय गणं (म्स्विइ ९) विज्ञापयामीति । तेन गणो विज्ञप्तो मम पुत्रयोरुद्यानं नास्ति ।तदर्हं मम उद्याने प्रसादं कर्तुमिति । तैस्ताभ्यां जीर्णोद्यानं दत्तम्* । तस्मिन्महाशालवृक्षः । तत्रैकेन भगवतः प्रतिमा कारिता । द्वितीयेन विहारः प्रतिष्ठापितः । तथा स्थविरैरपि सूत्रान्ते उपनिबद्धं बुद्धो भगवान् वैशाल्यां विहरति गोपसिंहशालवने इति । गोपः अक्रियासहस्राणि करोति । लिच्छवयोऽवध्यायन्ति क्षिपन्ति विवाचयन्ति । ततः खण्डेनाहूयोक्तः । पुत्र गच्छ त्वममुक कर्वटं तत्र स्वाधिष्ठितान् कर्मान्तान् कारय । तिष्ठ मा गणप्रकोपो भविष्यतीति । स तत्र गत्वा स्वाधिष्ठितान् कर्मान्तान् कारयितुमारब्धः । यावदपरेण समयेन वैशाल्यां सेनापतिः कालगतः । तैः खण्डोऽग्रामात्यः सेनापत्ये स्थापितः । सोऽपि कंचित्कालं धर्मेण सेनापत्यं कारयित्वा कालगतः । वैशालको गणः संनिपतितः । कं सेनापतिं स्थापयाम इति । तत्र एके कथयन्ति । खण्डेनाग्रामात्येन गणः परिपालितः । तस्यैव पुत्रं स्थापयाम इति । अपरे कथयन्ति । तस्य पुत्रो गोपो व्याडो विक्रान्तः । यद्यसौ सेनापत्ये स्थाप्यते नियतं गणस्य भेदं करिष्यति यस्तु तस्य भ्राता सिंहः स सूरतः (२४१ १ = ग्ब्म् ६.७९५) सुखसंवासः शक्नोति गणस्य चित्तमारागयितुम्* । यदि गणस्याभिरुचितं तं सेनापतिं स्थापयाम इति । सर्वेषामभिरुचितम्* । ते संभूय सिंहस्य सकाशं गताः । सिंह सेनापतित्वं प्रतीच्छेति । स कथयति । मम (म्स्विइ १०) ज्येष्ठो भ्राता गोपस्तं सेनापतिं स्थापयतेति । ते कथयन्ति । सिंह न युष्माकं कुलक्रमागतं सेनापत्यं यो गणस्याभिरुचितः स सेनापतिर्भवति । यदि भवतो नाभिरुचितं वयमन्यं सेनापतिं स्थापयाम इति । स संलक्षयति । यद्यस्माकं गृहात्सेनापत्यमन्यत्र गमिष्यति नैतद्युक्तम्* । सर्वथा प्रतीच्छामीति । तेनाध्यवसितम्* । स तैर्महता सत्कारेण सेनापत्ये प्रतिष्ठापितः । वैशालकाः पूर्वं यस्य लेखमनुप्रेषयन्ति तस्य खण्डप्रमुखो गण आज्ञापयतीति लिखन्ति । यदा सिंहः सेनापतिः संवृत्तस्तदा सिंहप्रमुखो गण आज्ञापयतीति । यावदपरेण समयेन यस्मिन् कर्वटके गोपः स्वाधिष्ठितान् कर्मान्तान् कारयति तदा कर्वटकं लेखो गतः । गोपेनोद्घाट्य वाचितः । स कथयति । भवन्तः पूर्वं वैशालको
गणः खण्डप्रमुखो गण आज्ञापयतीति लिखन्ति । इदानीं सिंहप्रमुखो गणः आज्ञापयतीति लिखन्ति । किमस्माकं पिता कालगतः । ते कथयन्ति । कालगतः । स संजातामर्षो वैशालीं गत्वा कथयति । भ्रातः युक्तं नाम तव मयि ज्येष्ठतरे तिष्ठति सेनापत्यं कर्तुमिति । सिंहेन तस्य यथावृत्तमारोचितम्* । स वैशालकानां लिच्छवीनां संजातामर्षः संलक्षयति । मम वैशालकैरसत्कारः प्रयुक्तो गच्छामि राजगृहमिति । तेन रज्ञो बिम्बिसारस्य दूतप्रेषणं कृतम्* । इच्छामि देवस्य बाहुच्छायायां वस्तुम्* । तेनास्य लिखितम्* । स्वागतम्* । आगच्छेति । स राजगृहं गतः । ततो राज्ञा बिम्बिसारेण अग्रामात्ये स्थापितः । यावदपरेण समयेन राज्ञो बिम्बिसारस्याग्रमहिषी कालगता । स (म्स्विइ ११) करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । गोपेन स दृष्ट उक्तश्च । देव कस्यार्थाय देवः करे कपोलं दत्वा चिन्तापरो व्यवस्थित इति । स कथयति । अग्रमहिषी मे कालगता किमिति न चिन्तापरस्तिष्ठामि । अलं देव त्यज्यतां शोकः । अस्ति मम भ्रातुर्दुहितृद्वयं रूपयौवनसंपन्नं देवार्हमेव । तत्रैका व्याकृता पितृमारकं पुत्रं जनयिष्यतीति द्वितीया तु लक्षणसंपन्नमिति । तत्कतरां देवस्यार्थाय आनयामि । या सा व्याकृता लक्षणसंपन्नं पुत्रं जनयिष्यतीति । ततो गोपेन सिंहस्य लेखोऽनुप्रेषितः । राज्ञो बिम्बिसारस्याग्रमहिषी कालगता त्वमुपचेलामिह प्रेषयाग्रमहिषी भविष्यतीति । तेन तस्य प्रतिलेखो विसर्जितः । दूरमपि परमपि गत्वा त्वमेवास्माभिः प्रष्टव्यः । यद्भवता कृतं तत्परं प्रमाणमिति । त्वमेव जानीषे यथा गणेन क्रियाकारः कृतो नान्यत्र कन्या दातव्या ऋते वैशालकानिति । किं तु त्वमागत्योद्याने तिष्ठ अहमेनाम् (२४२ १ = ग्ब्म् ६.७९६) उद्यानं निष्काषयिष्यामि । त्वं गृहीत्वा गमिष्यसीति । ततो गोपो राजानमवलोक्य रथमारुह्य वैशालीं संप्रस्थितः । अनुपूर्वेण संप्राप्तः । उद्याने व्यवस्थितः । तेन खलु समयेन वैशाल्यां दौवारिकः कालगतोऽमनुष्यकेषूपपन्नः । तेन वैशालकानां निर्देशितम्* । अहममनुष्येषूपपन्नो मम यक्षस्थानं (म्स्विइ १२) कारयत घण्टां च ग्रीवायां प्रलम्बयत । यदि कश्चिद्वैशालकानां प्रत्यर्थिकः प्रत्यमित्र आगमिष्यति अहं तावद्घण्टाशब्दं करिष्यामि यावद्गृहीतो वा निष्पलायितो वेति । तैर्यक्षः प्रतिरूपं कृत्वा घण्टां च ग्रीवायां बद्ध्वा नृत्यगीतवादित्रशब्देन बलिमाल्योपहारेण द्वारकोष्ठके प्रतिष्ठापितः । गोपेन सिंहस्य संदिष्टम्* । अहमुद्याने तिष्ठामि निर्गच्छेति । स वैशालकं गणमवलोक्य गृहं गत्वा उपचेलामाह । त्वं राज्ञे बिम्बिसाराय दत्ता । अलंकुरुष्वेत्युक्ता । उद्यानं निर्गच्छ । सा अलंकर्तुमारब्धा । चेलया दृष्टा । सा कथयति । किमर्थमलंकरोषि । अहं दत्ता । कस्मै । राज्ञे बिम्बिसाराय । सा कथयति । अहं ज्येष्ठतरा त्वं कथं दत्ता । यद्येवं त्वमलंकुरु । सा चालंकरोति । घण्टा च रवितुमारब्धा । वैशालको गणः क्षुब्धः प्रत्यमित्रोऽस्माकं वैशालीं प्रविष्ट इति । सिंहः संत्रस्त उपचेलेति कृत्वा चेलामादाय लघु लघ्व्निर्गतः । गोपोऽपि संत्रस्तः चेलां रथे आरोप्य संप्रस्थितः । वैशालकैर्दृष्टः । ते तेन सार्धं संग्रामयितुमारब्धाः । स पंचसु
स्थानेषु कृतावी तेन पंच लिच्छविशतानि मर्मणि ताडितानि । स कथयति । भवन्तो मया युष्माकं पंचशतानि मर्मणि ताडितान्यवशिष्टं जीवितेनाच्छादयामि निवर्ततेति । ते कथयन्त्येकसत्वोऽप्यस्माकं न प्रघातितः मुंचत सन्नाहम्* । तैः सन्नाहो (म्स्विइ १३) मुक्तः । पंचशतानि भूमौ निपतितानि प्राणैश्च वियुक्तानि । ततस्ते पुरुषराक्षसोऽयमिति कृत्वा भीता निष्पलायिताः । वैशालीमागत्य संजल्पं कर्तुमारब्धाः । एतद्वैरमस्माभिर्भवन्तो बिम्बिसारपुत्राणां निर्यातयितव्यम्* । पत्रलेख्यं कृत्वा पेडायां प्रक्षिप्य जतुमुद्रातापं कृत्वा स्थापयतेति । तैस्तथा कृत्वा स्थापितं* । गोपोऽप्यनुपूर्वेण राजगृहमनुप्राप्तः कथयति । उपचेले अवतरेति । सा कथयति । तात नाहमुपचेला । चेलाहम् । किं त्वया मम नारोचितम्* । सा तूष्णीमवस्थिता । ततोऽसौ दुःखी दुर्मना राज्ञः सकाशं गतः । राज्ञा दृष्ट उक्तश्च । स्वागतं गोप । आगतोऽसि । आगतोऽस्मि देव । आनीता उपचेला । देव आनीता न आनीता च । किं कथयसि । उपचेलेति कृत्वा चेला आनीता । आनीयतां पश्यामः । सा प्रवेशिता । राज्ञा दृष्टा । अतीव रूपयौवनसंपन्ना हारी स्त्रीविषये । सहदर्शनादेव राजा आक्षिप्तः कथयति । भवन्तो यो हि पुत्रः पितरं घातयति स राज्यहेतोः । यदि मे पुत्रो भविष्यति तस्य जातस्यैवाहं पट्टबन्धं करिष्यामीति । ततस्तेन महता श्रीसमुदयेन परिणीता । विदेहविषयादानीता वैदेहीति (२४२ १ = ग्ब्म् ६.७९७) संज्ञा संवृत्ता । स तया सार्धं क्रीडति रमते परिचारयति । यावदपरेण समयेन राजा बिम्बिसारो मृगया निर्गतः । अन्यतमस्मिंश्चाश्रमपदे ऋषिः पंचाभिज्ञः प्रतिवसति । यावन्मृगः शरपरम्परया संत्रासितस्तस्य ऋषेर्(म्स्विइ १४) आश्रमपदान्निर्गतो राज्ञा शरेण मर्मणि ताडितः । ततोऽसौ ऋषिः क्रुद्धः कथयति । कलिराज मम चण्डमृगोऽप्याश्रमपदं परिहरति । त्वया तु शरणोपगतो मृगः प्रघातित इति । स च राजैवमृषिणा परिभाष्यते । बलकायश्चागतः कथयति । देव कोऽयं परिभाषते । राजा कथयति । अहं भवन्तः । यो राजानं परिभाषते तस्य को दण्डो देव । तस्य बधो दण्डः । यद्येवं परित्यक्तो मे अयमृषिः । स प्रघातितुमारब्धः । स प्रघात्यमानो मिथ्या प्रणिधानं करोति । यदहमनेन कलिराजेन अदूषणमकारि बध्यः । उत्सृष्टस्तत्रोपपद्येयं यत्रैनं जीविताद्व्यपरोपयेयम्* । पुनः संलक्षयति । राजान एते सुगुप्ताः सुगोपिताः । यद्यहमन्यत्रोपपत्तिं ग्रहिष्यामीति कदाचित्प्रत्ययं नारागयिष्यामि । सर्वथा अनेन मे प्रणिधानेन अस्यैवाग्रमहिष्याः कुक्षावुपपत्तिः स्यादिति । स मिथ्या प्रणिधानं कृत्वा चेलायाः कुक्षावुपपन्नः । यमेव दिवसं प्रतिसन्धिर्गृहीतस्तमेव दिवसं रुधिरवर्षं पतितम्* । चेलायाश्च दोहदः समुत्पन्नः । अहो बताहं देवस्य पृष्ठमांसान्युत्पाट्योत्पाट्य भक्षयेयमिति । एष च वृत्तान्तो राज्ञे निवेदितः । राज्ञा नैमित्तिका आहूय पृष्टाः । ते ऊचुः । देव योऽयं सत्वो देव्याः कुक्षिमवक्रान्तस्तस्यायमनुभाव इति । (म्स्विइ १५) राजा चिन्तापरो व्यवस्थितः । कथमस्या दोहदः प्रतिविनोद्यत इति । अपरैः कुशलजातीयैः समाख्यातम्* । देव तूलिकायां मांसपूर्णां प्रावृतिं देव्या आत्मानमुपनय इति । ततो राज्ञा मांसपूर्णया तूलिकया आत्मानं वेष्टयित्वा चेलाया उपनामितम्* । तया पृष्ठमांसमिति कृत्वा भक्षितम्* । ततस्तस्या यो दोहदः स प्रतिविगतः । भूयोऽप्यस्या दोहदः उत्पन्नः । अहो बताहं देवस्य रुधिरं पिबेयमिति । एतदपि राज्ञे निवेदितम्* । ततो राज्ञा पंचेङ्खिकाः शिरा मोचयित्वा रुधिरं पायिता । सोऽप्यस्या दोहदः प्रतिविगतः । यावत्परिपूर्णैर्
नवभिर्मासैः प्रसूता । दारको जातोऽभिरूपो दर्शनीयः प्रासादिकः । यस्मिन्नपि दिवसे जातस्तस्मिन्नपि रुधिरवर्षं पतितम्* । भूयो राज्ञा नैमित्तिका आहूय पृष्टास्ते कथयन्ति । देव यथा शास्त्रे दृश्यते नियतमयं दारकः पितरं जीविताद्व्यपरोप्य स्वयमेव पट्टं बद्ध्वा राज्यं कारयिष्यतीति । राजा संलक्षयति । सर्वथा राज्यार्थमयं मां जीविताद्व्यपरोपयति । तदस्मै स्वयमेव राज्यं दास्यामि । किमर्थं मां जीविताद्व्यपरोपयिष्यतीति ।
तेन खलु समयेन वैशाल्यां महानामो लिच्छविः प्रतिवसति । तस्योद्याने आम्रवनम्* । तस्मिन्नप्यकस्मादेव कदलीस्कन्धो (म्स्विइ १६) जातः । आरामिकेण च दृष्टः । तत्समनन्तरमेव पुष्पितः । (२४३ १ = ग्ब्म् ६.७९८) तेन विस्मयजातेन महानामाय निवेदितम्* । तेन नैमित्तिका आहूय पृष्टाः । ते कथयन्ति । देव प्रतिपाल्यताम्* । सप्तमे दिवसे स्फुटिष्यति । तन्मध्याद्दारिका भविष्यति । श्रुत्वा महानामो गृहपतिर्भूयस्या मात्रया विस्मयमापन्नस्तस्मिंश्चोद्याने आरक्षकान् पुरुषान् समन्ततः स्थापयित्वा दिवसान् गणयितुमारब्धः । यावत्सप्तमे दिवसे तस्मिन्नुद्याने अपगतपाषाणशर्करकठल्लं व्यवस्थापिते चन्दनवारिपरिषिक्ते सुरभिधूपघण्टिकोपनिबद्धे आमुक्तपट्टदामकलापे पुष्पावकीर्णे अनेकगीतवादित्रनिनादिते सुहृत्संबन्धिबान्धवजनपरिवृतो महता श्रीसमुदयेन अन्तःपुरसहितो निर्गतस्तस्य तस्मिंश्चोद्याने क्रीडतो रममाणस्य परिचारयतः कदलीस्तम्भः स्फुटितः । दारिका जाताभिरूपा दर्शनीया प्रासादिका सर्वाङ्गप्रत्यङ्गोपेता । ततो महानामस्याग्रमहिष्याः संन्यस्तः । सा कथयति । देवास्य नामधेयं व्यवस्थाप्यते । महानामः कथयति । इयं दारिकाम्रवनाल्लब्धा । भवत्वस्यामरपाली नामेति । यावन्महानामो गृहपतिरुद्यानात्स्वगृहं गत आम्रपाली दारिका उन्नीयते चर्यते पूर्ववद्यावन्महती संवृत्ता । तस्या वरा आगच्छन्ति क्रौञ्चाः शाक्याश्चान्ये नानादेशनिवासिनो राजपुत्राः । अमात्यपुत्राः । धनिनः । श्रेष्ठिनः । सार्थवाहाः । महानामो गृहपतिः (म्स्विइ १७) संलक्षयति । यस्यैव न दास्यामि तस्यैव द्विड्भविष्यामि । अपि तु गणेन क्रियाकारः कृतः । गणं तावदवलोकयिष्यामीति । तेन वैशालको गणः संनिपातितः । शृण्वन्तु भवन्तो ब्राह्मणा गृहपतयो ममोद्याने दारिका उत्पन्ना । सा मया आपायिता पोषिता संवर्धिता । तामहं स्वकुलवंशप्रतिरूपकस्य कस्यचिद्भार्यार्थमनुप्रयच्छामि । गण अवलोकितो भवत्विति । ते कथयन्ति । गृहपते गणेन पूर्वमेव क्रियाकारः कृतः कन्या अनिर्वाहा स्त्रीरत्नं गणभोग्यमिति । तदानीयतां तावदसौ । दारिकां पश्यामः कीदृशीति । सा तेन गणमध्यं नीता । तां रूपयौवनसंपन्नां दृष्टा सर्व एव गणो विस्मयोत्फुल्लदृष्टिः समन्ततो निरीक्षितुमारब्धः कतयति च । गृहपते स्त्रीरत्नमेतद्गणभोग्यं न कस्यचिद्देयमिति । ततो महानामो गृहपतिर्दुर्मनाः स्वगृहं गतः । स करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । आम्रपाल्या दृष्टः पृष्टश्च । तात किमसि चिन्तापरः । पुत्रि त्वं स्त्रीरत्नमिति कृत्वा गणभोग्या संवृत्ता । मम मनोरथो न परिपूर्णः । तात किं त्वं पराधीनः । पुत्रि गणेन पूर्वमेव क्रियाकारः कृतः स्त्रीरत्नं गणभोग्यमिति । त्वं च स्त्रीरत्नमतोऽहमनीश्वर इति । सा कथयति । समयोऽहं गणभोग्या भवामि यदि मे गणः (म्स्विइ १८) पंच वराननुप्रयच्छति । प्रथमे स्कन्धे गृहं ददाति । एकस्मिन् प्रविष्टे द्वितीयो न प्रविशति । यश्च प्रविशति स पंचकार्षापणशतान्य्(२४३ १ = ग्ब्म् ६.७९९) आदाय । यदा गृहविचयो भवति तदा मम गृहं सप्तमे दिवसे प्रत्यवेक्ष्यते । निष्कासः प्रवेशश्च मद्गृहं प्रवेक्ष्यतां न विचार्यत इति । महानामेन गणस्याम्रपालीसन्देशो निवेदितः । गणः कथयत्येवं भवतु । यत्कथयति प्रथमे स्कन्धे गृहमिति । स्त्रीरत्नमसावर्हत्येव प्रथमे स्कन्धे गृहम्* । यत्कथयत्येकस्मिन् प्रविष्टे द्वितीयेन न प्रवेष्टव्यमिति । एतदपि युक्तम्* । प्रतिक्रुष्टमेतद्वैराणां यदुत स्त्रीवैरम्* । यद्येकस्मिन् प्रविष्टे द्वितीयः प्रविशति नियतमन्योन्यविप्रघातिको भविष्यति । यत्कथयति यः प्रविशति तेन पंचकार्षापणशतान्यादाय प्रवेष्टव्यमिति । एतदपि युक्तम्* । अवश्यं तस्या वस्त्रालंकारेण प्रयोजनम्* । यत्कथयति सप्तमे दिवसे गृहविचयः कर्तव्य इत्येतदपि युक्तम्* । पूर्वं वा क्रियेत पश्चाद्वा कोऽत्र विरोधः । यत्कथयति निष्कासः प्रवेशो <वा> मनुष्याणां न विचारणीय इत्येतदपि युक्तम्* । वेश्यासौ । यदि पुरुषाणां निष्कासः प्रवेशो <वा> विचार्यते कस्तस्या गृहं प्रवेक्ष्यति । ततो गणेन तस्याः पंच वरा दत्ताः । गणभोग्या संवृत्ता । वैशालका लिच्छवयस्
तस्या गृहं प्रवेष्टुमारब्धाः परिचारयितुम्* । (म्स्विइ १९) तत्र केषांचिदुत्तप्तविटत्वात्सहदर्शनादेव रागो विगच्छति । केषांचित्स्पर्शनादेव । कश्चित्तया पुरुषकार्यं करोति । सा संलक्षयति । अपुमांस एते । उपायसंविधानं कर्तव्यमिति । तया नानादेशनिवासिनश्चित्रकरा आहूय उक्ताः । भवन्तो येन यादृशो राजा वा राजमात्रो वा धनी वा श्रेष्ठी वा वणिग्वा सार्थवाहो वा दृष्टः स तत्तादृशं भित्तौ लिखत्विति । तैर्यथा दृष्टा लिखिताः । तत आम्रपाली नानालंकारविभूषिता चित्रकर्म प्रत्यवेक्षते पृच्छति च । अयं भवन्तः कतरः । अयं राजा प्रद्योतः । अयमपरः कः । राजा प्रसेनजित्कोशलः । अयमपरः कः । उदयनो वत्सराजः । अयमपरः कः । राजा मागधः श्रेण्यो बिम्बिसारः । एवं सर्वे तया पृष्टास्तैरपि सर्वैः समाख्याताः । ततस्तस्या सर्वान् प्रत्यवेक्ष्य बिम्बिसारे दृष्टिर्निपातिता । सा संलक्षयति । यादृशोऽस्य पुरुषस्यारोहपरिणाहः शक्ष्यत्येष मया सार्धं परिचारयितुमिति । यावदपरेण समयेन राजा मागधः श्रेण्यो बिम्बिसार उपरि प्रासादतलगतोऽमात्यगणपरिवृतः सत्कथया तिष्ठति । भवन्तः केन कीदृशी वेश्या दृष्टा । गोपः कथयति । देव तिष्ठन्तु तावदन्याः । वैशाल्यामाम्रपाली नाम वेश्या अतीव रूपयौवनसंपन्ना चतुःषष्टिकलाभिज्ञा देवस्यैवोपभोग्या । स कथयति । गोपः यद्येवं गच्छामो वैशालीं तया सार्धं परिचारयामः । (म्स्विइ २०) स कथयति । देवस्य वैशालका लिच्छवयो दीर्घरात्रं बाधकाः प्रत्यर्थिनः प्रत्यमित्राः । मा ते अनर्थं करिष्यन्ति । राजा कथयति । भवति खलु पुरुषाणां पुरुषसाहसम्* । गच्छामः । स कथयति । यदि देवस्यावश्यनिर्बन्धो गच्छामः । स रथमभिरुह्य गोपेन सार्धं वैशालीं संप्रस्थितोऽनुपूर्वेण वैशालीं गतः । गोप उद्याने स्थितः । राजा आम्रपाल्या गृहं प्रविष्टः । यावद्घण्टा (२४४ १ = ग्ब्म् ६.८००) रटितुमारब्धा । वैशालका क्षुब्धाः । भवन्तः कोऽप्यस्माकममित्रकः प्रविष्टः । घण्टा रटतीति । उच्चशब्दो महाशब्दो जातः । राजा बिम्बिसार आम्रपालीं पृच्छति । भद्रे किमेतत्* । देव गृहविचयः क्रियते । कस्यार्थाय । देवस्य प्रतिपत्तव्यम्* । किं निष्पलाये । देव मा काहलो भव । सप्तमे दिवसे मम गृहविचय आपद्यते । सप्ताहं तावत्क्रीड रमस्व परिचारय सप्ताहस्यात्ययात्कालज्ञा भविष्यामीति । स तया सार्धं क्रीडति रमते परिचारयति यावदाम्रपाली आपन्नसत्वा संवृत्ता । तदा बिम्बिसाराय निवेदितम्* । देव आपन्नसत्वास्मि संवृत्तेति । तेन तस्या विरली अङ्गुलिमुद्रा च दत्ता । उक्ता च । यदि दारिका भवति तवैव । अथ दारकः । एतां विरलीं प्रावृत्य (म्स्विइ २१) अङ्गुलिमुद्रां च ग्रीवायां बद्ध्वा मत्सकाशं प्रेषयसि । <स> निर्गत्य गोपेन सार्धं रथमभिरुह्य संप्रस्थितः । घण्टा तूष्णीमवस्थिता । ते कथयन्ति । भवन्तोऽमित्रको निर्गतः समन्वेषयाम इति । पंच लिच्छविशतानि बद्धगोधाङ्गुलित्राणानि राज्ञो बिम्बिसारस्य पृष्ठतः समनुबद्धानि । गोपेन दृष्टानि । स कथयति । देव वैशालिका लिच्छवय आगताः । किमेभिः सार्धं देवो युध्यते । आहोस्विद्रथं वाहयसीति । स कथयति । अहं श्रान्तको रथं वाहयामि । त्वमेव एभिः सार्धं युध्यस्वेति । स तैः सार्धं योद्धुमारब्धः । वैशालकैः प्रत्यभिज्ञातः । ते कथयन्ति । भवन्तः स एवायं पुरुषराक्षसो निवर्तामह इति । ते प्रतिनिवृत्ता वैशालीं गताः संनिपत्य पुनः क्रियाकारं कृताः । भवन्त एतदपि वैरमस्माभिर्बिम्बिसारपुत्राणां निर्यातयितव्यमिति ।
यावन्नवानां मासानामत्ययादाम्रपाली प्रसूता । दारको जातः । अभिरूपो दर्शनीयः प्रासादिको यावदुन्नीतश्चरितो महान् संवृत्तः । स वैशालकैर्लिच्छविदारकैः सार्धं क्रीडंस्तैरप्रियमुक्तः । भवन्तोऽस्य दासीपुत्रस्य कः पिता । अनेकशतसहस्रनिर्जातोऽयमिति । स प्ररुदन्मातुः सकाशमुपसंक्रान्तस्तयोच्यते । पुत्र किमर्थं रोदिषीति । तेन सर्वं विस्तरेण समाख्यातम्* । सा कथयति । पुत्र यदि भूयः पृच्छन्ति वक्त्यव्यास्तादृशो मम पिता यो युष्माकमेकस्यापि नास्तीति । यदि कथयन्ति । कतर इति । वक्तव्या राजा बिम्बिसार (म्स्विइ २२) इति । यावत्स तैर्सार्धं भूयः क्रीडितुमारब्धः स तैस्तथैवोक्तः । स कथयति । तादृशो मे पिता यो युष्माकमेकस्यापि नास्तीति । कतरः । राजा बिम्बिसारः । ते भूयस्या मात्रया ताडयितुमारब्धाः । भवन्तो योऽस्माकं शत्रुः सोऽस्य पितेति । तेन रुदता यथावृत्तं मातुराख्यातम्* । सा संलक्षयति । वैशालका लिच्छवयो व्याडा विक्रान्ताः । स्थानमेतद्विद्यते (२४४ १ = ग्ब्म् ६.८०१) यदेनं प्रतिघातयिष्यन्ति । सा चैवं चिन्तापरा । संबहुलाश्च वणिजः पण्यमादाय राजगृहं संप्रस्थिताः । तया त उपलब्धा उक्ताश्च अनेनाङ्गुलिमुद्रेण भाण्डं मुद्रयित्वा गच्छत । अशुल्का गमिष्यथ । एतं च दारकं राजगृहं नयत । एतदङ्गुलिमुद्रकं ग्रीवायां बद्धा राजकुलद्वारे स्थापयिष्यथ । तैः प्रतिज्ञातम्* । एवं भवत्विति । पुत्रोऽपि मुक्ताहारं दत्वाभिहितः । पुत्र त्वया राज्ञोऽर्थाधिकरणे निषण्णस्य मुक्ताहारं पादयोः स्थापयित्वाभिरुह्योत्सङ्गे निषत्तव्यम्* । यदि कश्चित्कथयति नायं दारको बिभेतीति । स वक्तव्यः । अस्ति कश्चित्पुत्रः पितुर्बिभेतीति । स वणिग्भिः सार्धमनुपूर्वेण राजगृहं गतः । तैः स्नपयित्वाङ्गुलिमुद्रकेणालंकृत्य राजद्वारे स्थापितः । स येन राजा तेनोपसंक्रान्तः । उपसंक्रम्य मुक्ताहारं पादयोः स्थापयित्वोत्सङ्गमभिनिषण्णः । राजा कथयति । भवन्तो नायं दारको बिभेतीति । स कथयति । तात अस्ति कश्चित्पुत्रः पितुर्बिभेतीति । ततो राज्ञाभयशब्देन समुदाचरित इति । अभयो राजकुमारोऽभयो राजकुमार इति संज्ञा संवृत्ता ।
(म्स्विइ २३)
राजा बिम्बिसारोऽतीव परदाराभिरतः । उपैति हस्तिस्कन्धाभिरूढो नगरे रथ्याः । आलोलेक्षणोऽन्वाहिण्डते । तेन खलु समयेन राजगृहेऽन्यतरः श्रेष्ठी आढ्यो महाधनो महभोगी । तेन सदृशात्कुलात्कलत्रमानीतम्* । पूर्ववत्परिचारयति । सोऽपरेण समयेन पत्नीमामन्त्रयते । भद्रे गच्छामि पण्यमादाय देशान्तरमिति । सा कथयत्यार्यपुत्र एवं कुरुष्वेति । स पण्यमादाय देशान्तरं गतः । सोपसृष्टाम्बरवसना क्लेशैर्बाधितुमारब्धा । राजा बिम्बिसारो हस्तिस्कन्धाभिरूढस्तस्या गृहसमीपेन गच्छति । तया च वातायनस्थया राज्ञः स्रग्दामं क्षिप्तम्* । ततो राज्ञा दृष्टा उक्ता च । आगच्छेति । सा कथयति । देव जिह्रेमि । त्वमेव प्रविशेति । ततो राजा प्रविष्टः । स तया सार्धं परिचारयति । सा तस्मिन् समये कल्याणी ऋतुमती आपन्नसत्वा संवृत्ता । तय राज्ञे निवेदितम्* । देव आपन्नसत्वास्मि संवृत्ता । ततो राज्ञा तस्यापि अङ्गुलिमुद्रकञ्चित्रा च विरली दत्ता । उक्ता च । यदि तावद्दारको भवति । एतां विरलिकां प्रावृत्य अङ्गुलिमुद्रकं च ग्रीवायां बद्ध्वा मम प्रेषयिष्यसि । अथ दारिका तवैवेत्युक्ता । राजा प्रक्रान्तः । यावदसौ सार्थवाहः संपन्नार्थे राजगृहसमीपमागतः । तेन पत्न्यादि संदिष्टं भद्रे प्रामोद्यमुत्पादय । स्वस्तितः संपन्नार्थोऽहमागतः । कियत्तमैर्दिवसैर्(म्स्विइ २४) आगत एवेति । सा श्रुत्वा कथिता । मया एवं (२४५ १ = ग्ब्म् ६.८०२) रूपमकृत्यं कृतं स चागतः । कथमत्र प्रतिपत्तव्यमिति । तया एष वृत्तान्तो राज्ञे निवेदितः । ततो राज्ञा प्रतिदेशो दत्तः । निर्विशंका तिष्ठ । अहं तथा करिष्ये यथा न शीघ्रमागमिष्यतीति । राज्ञा तस्य दूतोऽनुप्रेषितः । सार्थवाह ममामुकेनामुकेन च रत्नेन प्रयोजनम्* । तेन विना त्वया इह न प्रवेष्टव्यमिति । स तेषां रत्नानामर्थाय दूरतरं प्रविष्टः । सापि नवानां मासानामत्ययात्प्रसूता । दारको जातः । अभिरूपो जातः प्रासादिकः । अशिक्षितपण्डितो मातृग्रामः । तया पेडायां प्रक्षिप्य घृतस्य मधुनश्चाप्यं पूरयित्वा अंगुलिमुद्रकं ग्रीवायां बद्ध्वा विरलिकया प्रच्छाद्य प्रेष्यदारिका अभिहिता । गच्छ त्वमेतां पेडां राजकुलद्वारं नीत्वा मण्डलकं कृत्वा प्रदीपं प्रज्वाल्य एकान्ते तिष्ठ यावत्केनचिद्गृहीत इति । तया यथाकृतं यावद्राजा उपरि प्रासादतलगतो अभयेन राजकुमारेण सार्धं तिष्ठति । तेन राजकुलद्वारे प्रदीपो दृष्टः । ततः पौरुषेयाणामाज्ञा दत्ता । पश्यत भवन्तः किमेष राजकुलद्वारे प्रदीपो ज्वलतीति । तैर्दृष्ट्वा निवेदितम्* । देव पेडा तिष्ठतीति । स कथयत्यानय इति । अभयेन च राजकुमारेणाभिहितम्* । देव यदत्र पेडायां तन्मम दातुमर्हसीति । राज्ञा प्रत्यभिज्ञात एवमस्त्विति । यावद्राज्ञा पेडा उपनामिता । राजा कथयत्युद्घाटयत । उद्घाटिता यावद्दारकः । राजा कथयति ।(म्स्विइ २५) किमयं जीवत्याहोस्विन्मृत इति । तैः समाख्यातं जीवतीति । ततो राज्ञा अंगुलिमुद्रकं विरलिकां च प्रत्यभिज्ञाय अभयाय स राजकुमाराय दत्तः । स तेनापायितः पोषितः संवर्धितः । राज्ञा जीवकवादेन समुदाचरितोऽभयेन च राजकुमारेण भृत इति जीवकः कुमारभृतो जीवकः कुमारभृत इति संज्ञा संवृत्ता । यावदपरेण समयेन जीवकः कुमारभृतो महान् संवृत्तः । सोऽभयेन सार्धं संगणिकया तिष्ठति । अजातशत्रुः कुमारोऽज्ञात एव राजत्वे व्याकृतः । वयमपि किंचिच्छिल्पं शिक्षामहे यदस्माकमुत्तरकालं जीविका भविष्यतीति । तौ चैवं मन्त्रयितौ । रथकारश्च शुक्लवासाः शुक्लवासोभिः पुरुषैः परिवृतो राजकुलं प्रविशति । सोऽभयेन राजकुमारेण दृष्टस्तेनान्ये च राजपुरुषाः पृष्टाः क एष इति । ते च कथयन्ति रथकारः । किमेष लभते । वृत्तिम्* । <स> संलक्षयति । अहमपि रथकारत्वं शिक्षे । देवमवलोकयामीति । स राज्ञः सकाशमुपसंक्रम्य कथयति । देव अहमपि रथकारत्वं शिक्षे इति । राजा कथयति । पुत्र किं तवैषा जीविका भविष्यतीति । तात राजपुत्रेण सर्वशिल्पानि शिक्षितव्यानि
। पुत्र यद्येवं शिक्षस्व । (२४५ १ = ग्ब्म् ६.८०३) रथकारत्वं स शिक्षयितुमारब्धः । जीवकेनापि वैद्यो दृष्टः शुक्लवासाः शुक्लवासोभिः पुरुषैः परिवृतो राजकुलं प्रविशन् । तेनापरे च पृष्टाः क एष इति । तैः समाख्यातम्* । वैद्यः । किमयं करोति । चिकित्साम्* । यद्यातुरो जीवत्यभिसारं लभते । (म्स्विइ २६) अथ प्रेतो न मार्ग्यो न पृच्छ्यः । स संलक्षयति । वैद्यकं शिक्षेय इति । स पितुः सकाशमुपसंक्रम्य कथयति । देव अनुजानीहि वैद्यकं शिक्षे इति । राजपुत्रस्त्वं किं वैद्यकत्वेन करोषि । देव राजपुत्रेण सर्वशिल्पानि शिक्षितव्यानि । पुत्र यद्येवं शिक्षस्व । स वैद्यकं शिक्षयितुमारब्धः । तेन वैद्यकं शिक्षितम्* । स कपालीमोचनीं तु विद्यां न जानाति । तेन श्रुतं तक्षशिलायामात्रेयो नाम वैद्यराजः । स कपालमोचनीं विद्यां जानीते इति । स राज्ञः सकाशमुपसंक्रम्य कथयति । देव गच्छामि तक्षशिलाम्* । किमर्थम्* । तत्रात्रेयो नाम वैद्यराजः । स कपालमोचनीं विद्यां जानीते । तां ग्रहीष्यामि । पुत्र किं नु तवैषा जीविका । देव वैद्यकोऽथवा न शिक्षितव्यः । अथवा शिक्षितः कर्तव्यः । पुत्र यद्येवं गच्छ । तेन राज्ञे पुष्करसारिणे संदिष्टम्* । एष मम पुत्रो वैद्यकं शिक्षितुमात्रेयस्य सकाशं गच्छत्यस्य सर्वयोगोद्वहनं कर्तव्यमिति । सोऽनुपूर्वेण तक्षशिलामनुप्राप्तः । पुष्करसारिणा च लेखं वाचयित्वा आत्रेयस्य समर्पितः । एष राजपुत्रस्त्वत्सकाशमुपेत्यागतो वैद्यकमेनं शिक्षयस्वेति । आत्रेयस्तस्योपदेशं करोति । सोऽल्पतरमुपदिशति जीवकः सविशेषं गृह्णात्याचरति । आत्रेयस्य यदा ग्लानावलोकको गच्छति तदा एकमादाय गच्छति । सोऽपरेण समयेन जीवकम् (म्स्विइ २७) आदाय गतः । तेनातुरस्य भैषज्यं व्युपदिष्टम्* । इदं चेदं दास्यथ । इत्युक्त्वा निष्क्रान्तः । जीवकः संलक्षयति । क्षीणोऽयमुपाध्यायः । यद्येष एतद्भैषज्यमुपयुंक्ते अद्यैव कालं करोति । न शोभनमुपाध्यायेन व्युपदिष्टम्* । उपायसंविधानं कर्तव्यमिति । स आत्रेयेण सार्धं निष्क्रम्य पुनः प्रविष्टः । कथयति । उपाध्याय एवमाह । यन्मया भैषज्यं व्युपदिष्टं तन्न देयमिदं चेदं च देयमिति । तैस्तथैव कृतम्* । स्वस्थीभूतः । यावदपरस्मिन् दिवसे पुनरप्यात्रेयस्य सकाशं गतः । पृच्छति का वार्ता । स्वस्थीभूतः । एवं पुनरप्येतदेव देयम्* । तत्किं यत्पूर्वमादिष्टम्* आहोस्वित्पश्चात्* । किं मया पूर्वमादिष्टं किं वा पश्चात्* । तैः समाख्यातमिदं त्वया साक्षाद्व्युपदिष्टमिदं जीवकेन संदिष्टमिति । स संलक्षयति । हम्* जीवकः प्राज्ञ इति विदित्वा कथयति यद्जीवकेन व्युपदिष्टं तद्दातव्यमिति । जीवकस्यान्तिके अनुनय उत्पन्नः । स यत्र गच्छति तत्र जीवकमादाय । तेऽन्ये माणवकाः कथयन्त्युपाध्याय त्वमस्य राजपुत्र इति कृत्वा यत्नतो (२४६ १ = ग्ब्म् ६.८०४) व्युपदेशं करोष्यस्माकं न करोषीति । स कथयति । जीवकः प्राज्ञः । अल्पं व्युपदिशामि यत्स्वशक्त्या विभजति । यूयं तु न तथेति । तेन कथयन्ति उपाध्याय कथं ज्ञायते । यद्येवाहं भवतां प्रत्यक्षीकरोमि । तेन ते माणवकाः सर्वे वीथीं प्रेषितास्त्वयामुकस्य द्रव्यस्य मूल्यं प्रष्टव्यं त्वयामुकस्येति । जीवकोऽपि (म्स्विइ २८) संदिष्टस्त्वयाप्यमुकस्येति । तैर्माणवकैर्यथासंदिष्टमेवानुष्ठितम्* । जीवको यथासंदिष्टं कृत्वा संलक्षयति । यद्युपाध्यायोऽन्यस्य द्रव्यस्य मूल्यं प्रक्ष्यति
किं मया वक्तव्यम्* । सर्वथा सर्वद्रव्याणां मूल्यं पृच्छामीति । ते सर्वे उपाध्यायसकाशमागत्य यथासंदिष्टं निवेदितवन्तः । आत्रेयोऽसंदिष्टस्य द्रव्यस्य मूल्यं प्रष्टुमारब्धः । माणवक अमुकस्य द्रव्यस्य किं मूल्यमिति । स कथयति । न जाने । अपरे पृष्टाः । कथयन्ति न जानीमह इति । जीवकः पृष्टः । तेन सर्वद्रव्याणां मूल्यं समाख्यातम्* । आत्रेयः कथयति । माणवकाः श्रुतं वः । श्रुतम्* । इत्यर्थमहं कथयामीति जीवकः प्राज्ञोऽहमल्पं व्यपदिशाम्ययं स्वशक्त्या विभजतीति । भूयोऽपि प्रत्यक्षीकरिष्यामि । ते तेनोक्ता गच्छत सरलकं पर्वतमभैषज्यमानयतेति । ते गतास्तेषां यद्यदभैषज्यमभिरुचितं तत्तेन गृहीतम्* । जीवकः संलक्षयति । नास्ति किंचिदभैषज्यमिति । तेन शरमूलं पाषाणवर्तिका च गृहीता । यावज्जीवकेनार्धपथे गोपांगना दृष्टा दधिघटकिटालपिण्डं चादायात्रेयसकाशं संप्रस्थितातीवाक्षिरोगार्ता । सा तेन पृष्टा । क्व गच्छसीति । तया समाख्यातम्* । तेन तस्यास्तस्मिन्नेव स्थाने संनिहितभैषज्यं व्युपदिष्टम्* । तया कृतम्* । सद्यः स्वस्थीभूता साभिप्रसन्ना कथयति । अयं ते दधिघटः किटालपिण्डकश्चेति । तेन किटालपिण्डको गृहीतो दधिघटस्तु तया एव दत्तः । स (म्स्विइ २९) किटालपिण्डमादाय संप्रस्थितः । यावत्तैर्माणवकैरन्तर्मार्गे हस्तिपदं दृष्टम्* । ते तं निरीक्षितुमारब्धाः । जीवकश्चागतः कथयति । किमेतत्* । हस्तिपदम्* । नैतद्धस्तिपदम्* । हस्तिन्या एतत्पदम्* । सा च दक्षिणकाणाद्यैव कलभकं जनयिष्यति । तत्र स्त्री अभिरूढा । सापि दक्षिणकाणा । गुर्विणी । अद्यैव पुत्रं जनयिष्यति । यावदात्रेयसकाशं गतः । येन यदानीतं तत्तेनोपदर्शितम्* । आत्रेयः कथयति । माणवकाः सर्वमेतद्भैषज्यमेतन् तावदुदकेनैवं विधिनामुकस्य रोगस्य । एवमन्यान्यपीति । जीवकः पृष्टः । त्वया किमानीतम्* । स कथयत्युपाध्याय सर्वमेव भैषज्यं नास्ति किञ्चिदभैषज्यम्* । अपि तु मया शरमूलमानीतं पाषाणवर्तिका किटालपिण्डश्चेति । किमेभिः प्रयोजनम्* । शरमूलैर्वृश्चिकविद्धस्य धूपो दीयते । किटालपिण्डेनोपनाहो दीयते । पाषाणशर्करया काले दधिघटका भिद्यन्ते । आत्रेयेण विपुष्पितम्* । माणवकाः संलक्षयन्त्युपाध्यायोऽस्य रुषित इति । ते कथयन्त्युपाध्याय किमेतदेव । अस्माभिरागच्छद्भिरन्तर्मार्गे हस्तिपदं दृष्टम्* । एष कथयति । हस्तिन्या एतत्पदम्* । सा च दक्षिणकाणा । गुर्विणी । अद्यैव प्रसविष्यति । कलभकं जनयिष्यति । स्त्री तत्राभिरूढा । सापि दक्षिणकाणा । गुर्विणी । अद्यैव प्रसविष्यति । पुत्रं जनयिष्यतीति । (म्स्विइ ३०) आत्रेयः पृच्छति सत्यम्* । सत्यमुपाध्याय । कथमेतद्* ज्ञायते हस्तिपदं हस्तिन्याः पदमिति । स कथयत्युपाध्याय वयं राजकुले संवृद्धाः (२४६ १ = ग्ब्म् ६.८०५) कथं न जानीमः । हस्तिपदं परिमण्डलं हस्तिन्यास्तु दीर्घम्* । कथं ज्ञायते दक्षिणकाणेति । वामेन पार्श्वेन चरन्ती गता । कथं ज्ञायते गुर्विणीति । पश्चिमौ पादौ निपीडयन्ति गता । कथं ज्ञायतेऽद्यैव प्रसविष्यतीति । सशुक्रप्रस्रावः कृतः । कथं ज्ञायते कलभकं प्रसविष्यतीति । भूयसा दक्षिणं पादमभिपीडयन्ती गता । कथं ज्ञायते तत्र स्त्री अभिरूढेति । अवतीर्य पादयोर्मध्ये प्रस्रावः कृतः । कथं ज्ञायते सापि दक्षिणकाणेति । वामेन पार्श्वेन पुष्पाण्युचिन्वन्ती गच्छति । कथं ज्ञायते सापि गुर्विणीति । भूयसा पार्ष्णिं निपीडयन्ती गता । कथं ज्ञायतेऽद्यैव प्रसविष्यतीति । सशुक्रप्रस्रावः कृतः । अपि तु यद्युपाध्यायस्य विमर्षः स सार्थोऽमुष्मिन् प्रदेशे तत्र कञ्चिन्माणवं प्रेषय । तेन माणवः प्रेषितः । सर्वं तथैव यथा जीवकेन समाख्यातम्* । आत्रेयो माणवकानामन्त्रयते । माणवकाः श्रुतं
वः । उपाध्याय श्रुतम्* । इदृशो जीवकः प्राज्ञः ।
जीवकेन सर्वं शिक्षितं स्थापयित्वा कपालमोचनीं विद्याम्* । यावदन्यतमः पुरुषः कपालव्याधिना स्पृष्ट आत्रेयसकाशं गतः कथयत्यात्रेय मम चिकित्सां कुरु । स कथयति । भोः पुरुष अद्य तावद्गर्तां खानय गोमयं च समुपानय । श्वोऽहं तव चिकित्सां करोमीति । जीवकेन श्रुतम्* । स तस्य पृष्ठतः समनुबद्धः । भोः (म्स्विइ ३१) पुरुष यत्किंचिदहं शिक्षे सर्वं तत्सत्वहितहेतोः । मया कपालमोचनी न शिक्षिता । स त्वं सम्प्रति गुप्ते स्थापय यथा तव कर्म क्रियमाणं पश्यामीति । स कथयति । तथा भवत्विति । स तेन प्रतिगुप्ते प्रदेशे स्थापितः । तत आत्रेयेणागत्य स पुरुषो गर्तायां निखातः । कपालमोचन्या विद्यया कपालं मोचितम्* । स तं प्राणकं संदंशेन ग्रहीतुमारब्धः । जीवकः कथयत्युपाध्याय मा साहसं करिष्यसि । अद्यैवायं कुलपुत्रः कालं करिष्यतीति । स कथयति । जीवक आगतोऽसि । स कथयति । उपाध्यायागतोऽहम्* । तत्कथमयं प्राणकैर्ग्रहीतव्यः । उपाध्याय संदंशं तापयित्वा पृष्ठे स्पृश । पादौ संकोचयिष्यति । ततोऽपनयिष्यसीति । तेन तथा कृतम्* । स्वस्थीभूतः । आत्रेयः कथयति । जीवक परितुष्टोऽहं स्नात्वागच्छ कपालमोचनीं विद्यां दास्यामीति । स स्नात्वागतः । तेन तस्य कपालमोचनी विद्या दत्ता । उक्तञ्च । जीवकास्माकं जीविकैषा न त्वयेह विषये प्रयोक्तव्या । उपाध्याय तथा भवतु । जीवक आत्रेयमुपामंत्र्य पुष्करसारिणो राज्ञः सकाशं गत्वोपामंत्रयति । मया वैद्यकं शिक्षितम्* । गच्छामीति । तेन खलु समयेन पुष्करसारिणो राज्ञः पाण्डवा नाम खषा विरुद्धाः । (म्स्विइ ३२) स कथयति । जीवक मम पाण्डवा नाम खषा विरुद्धांस्तावत्संनामय पश्चाद्यास्यसि । एवमस्माकं लोकयात्रा कृता भवति । यस्मात्त्वं प्राज्ञः शक्तश्चेति । तेन तस्य प्रतिज्ञातम्* । ततस्तेन चतुरंगं बलकायं दत्वा प्रेषितः । तेन ते पाण्डवाः खषाः सन्नामिताः । वन्दिगोग्रहकरप्रत्यायांश्च गृहीत्वा स्वस्तितः प्रत्यागतः । यथानीतं च राज्ञे उपनामितम्* । तेन परितुष्टेन तस्यैवानुमोदितम्* तेनापि आत्रेयाय दत्तम्* ।
ततो जीवकोऽनुपूर्वेण भद्रंकरं नगरमनुप्राप्तः । तत्रैव वर्षारात्रमवस्थितम्* । तत्र तेन सर्वभूतरुतं नाम शास्त्रं शिक्षितम्* । स भद्रंकरान्नगरात्संप्रस्थितः । (२४७ १ = ग्ब्म् ६.८०६) अन्यतमश्च पुरुषः काष्ठभारमादाय नगरं प्रविशत्यस्थिचर्मावशेषः समन्ताद्गात्रेणाधरतः । स जीवकेन दृष्ट उक्तश्च । भोः पुरुष केन ते ईदृशी समवस्था इति । स कथयत्यहमपि न जाने । अपि तु मया चैष चाष्ठभारको गृहीतो भवति । मम चेदृशी समवस्था इति । स दारुपरीक्षायां कृतावी । स कथयति । भोः पुरुष किमयं काष्ठभारको विक्रीयते । विक्रीयते । कियता मूल्येन । पंचभिः कार्षापणशतैः । तेनासौ क्रीतः । ततः प्रत्यवेक्षता सर्वभूतप्रसादनो नाम मणिर्दृष्टः । तस्येदृशः प्रभावो यदा व्याधितस्य पुरस्तात्स्थाप्यते तदा व्याधिर्यथाभूता च दृश्यते प्रदीपेणेव गृहगतं द्रव्यम्* ।
(म्स्विइ ३३)
सोऽनुपूर्वेण उदुम्बरिकामनुप्राप्तः । तत्रान्यतम आढकमापकः पुरुषः । स द्रोणं मापयित्वाढकेन शिरसि प्रहारं ददाति । जीवकेन दृष्टः उक्तश्च भोः पुरुष किमर्थमेव करोषि । शिरो मे अतीव कण्डूयते । आगच्छ पश्यामः । तेन तस्य निषद्य शिरो दर्शितम्* । ततो जीवकेन सर्वभूतप्रसादको मणिस्तस्य शिरसि स्थापितो यावत्पश्यति शतपदीम्* । ततः कथयति । भोः पुरुष तव शिरसि शतपदी तिष्ठतीति । स पादयोर्निपत्य कथयति चिकित्सां मे कुरुष्वेति । तेन प्रतिज्ञातम्* । जीवकः संलक्षयति । उपाध्यायस्यैवोपदेशेन चिकित्सामस्य करोमीति । स तेनोक्तः । भोः पुरुषाद्य गर्तं खानय पाषिं च समुपानय चिकित्सां करिष्यामीति । स पदयोर्निपत्य प्रक्रान्तः । जीवकेनाप्यपरस्मिन् दिवसे स पुरुषो गर्ते निखाते निखात्य कपालमोचन्या विद्यया कपालं मोचयित्वा सप्तेन संदंशेन शतपदी स्पृष्टा । तया पादाः संकोचिताः । ततस्तेन संदंशेन गृहीत्वा क्षिप्ता । स्वस्थीभूतः । तेन तस्य पंच कार्षापणशतानि दत्तानि । तेनात्रेयाय प्रेषितानि ।
ततो जीवको रोहीतकमनुप्राप्तः । रोहीतकेऽन्यतमस्य गृहपतेरुद्यानं पुष्पफलसलिलसंपन्नम्* । स तत्रातिवाध्यवसितः कालं कृत्वा तस्मिन्नेवामनुष्यकेषूपपन्नः । तस्य पुत्रो गृहस्वामी संवृत्तः । तेन तस्मिन्नुद्याने आरक्षकः पुरुषः स्थापितः । स तेनामनुष्यकेण प्रघातितः । द्वितीयः स्थापितः । सोऽपि प्रघातितः । तेन गृहपतिपुत्रेण (म्स्विइ ३४) तदुद्यानमुत्सृष्टम्* । यावदन्यतर उदरी मनुष्यः सर्ववैद्यप्रत्याख्यातस्तदुद्यानं गत्वा रात्रिं वासमुपगतः । अहो बत मामनुष्यकः प्रघातयेदिति । तस्मिन्नेव च जीवको रात्रिं वासमुपगतः । यावदसावमनुष्यकस्तमुदरिणमभिद्रवितुमारब्धः । स जलोदरो रोगो निष्क्रम्य कथयति । मयायं पूर्वं गृहीतः । किमर्थमेनमभिद्रवसि । नास्ति ते कश्चित्* छागसटाया धूपं दाता येन त्वं द्वादश योजनानि निष्पलायेरिति । सोऽपि कथयति । तवापि नास्ति कश्चिन्मूलकबीजमुदश्विना पिष्टा दाता येन त्वं खण्डं खण्डं विशीर्येथा इति । जीवकेन सर्वं श्रुतम्* । स कल्यमेवोत्थाय तस्य गृहपतेः सकाशं गतः । कथयति गृहपते उद्यानं पुष्पफलसलिलसंपन्नं किमर्थमुत्सृष्टमिति । गृहपतिनास्य यथावृत्तमारोचितम्* । स कथयति । गृहपते छागलसटाया धूपं देहि । (२४७ १ = ग्ब्म् ६.८०७) द्वादशयोजनान्यमनुष्यको निष्पलायति । गृहपतिना छागलसटाया धूपो दत्तः । अमनुष्यको द्वादश योजनानि निष्पलायितः । तेनापि गृहपतिना पंच कार्षापणशतानि जीवकाय दत्तानि । तान्यपि तेनात्रेयाय प्रेषितानि ।
ततो जीवकेन उदरी पृष्टः । भोः पुरुष किमर्थं त्वमत्रामनुष्यकाध्युषिते उद्याने तिष्ठसीति । तेनास्य यथावृत्तमारोचितम्* । (म्स्विइ ३५) जीविकेनाभितम्* । मूलकबीजमुदश्विना पिष्ट्वा पिव । स्वस्थो भविष्यतीति । तेन पीतम्* । स्वस्थीभूतः । तेनापि पुरुषेण पंच कार्षापणशतानि जीवकाय दत्तानि । तान्यपि तेनात्रेयाय प्रेषितानि ।
ततो जीवकोऽनुपूर्वेण मथुरामनुप्राप्तः । बहिर्मथुराया वृक्षमूले विश्रान्तः । यावन्मल्लेन मल्लो निहतः । तस्यान्त्राणि परावृत्तानि । स मृत इति बहिर्निष्कास्यते । तस्मिंश्च वृक्षे वृध्रिणी सपोतका तिष्ठति । सा तैः पोतकैरुच्यते । अम्ब मांसमनुप्रयच्छेति । सा कथयति । पुत्र कुतो मांसम्* । ते कथयन्ति । अम्ब एष मल्लो मल्लेन निहतः कालगतो नीयते । पुत्र जीवकोऽत्र वैद्यराज आगतः । स्थानमेतद्विद्यते यदेनं स्वस्थीकरिष्यति । अम्ब केनैष स्वस्थो भवति । यद्यस्य चूर्णैरन्त्राणि स्पृश्यन्ते । जीवकेन तत्सर्वं श्रुतम्* । ततोऽसावुत्थाय मृतसकाशं गत्वा पृच्छति भवन्तः किमेतदिति । ते कथयन्ति । मल्लेन मल्लो निहतः । कालगतः । जीवकः कथयति । स्थापयत । पश्यामि । तैः स्थापितम्* । ततो जीवकेन च सर्वभूतप्रसादकमणिः शिरसि स्थापयित्वा प्रत्यवेक्षितः । यावत्पश्यत्यन्त्राणि व्याकुलीकृतानि । तेन नाडिकायां चूर्णं प्रक्षिप्य मुखे वायुना प्रेरितम्* । चूर्णेनान्त्राणि स्पृष्टानि । स्वस्थीभूतः । तेनापि जीवकस्य पंच कार्षापणशतानि दत्तानि । तेनाप्यात्रेयाय प्रेषितानि ।
(म्स्विइ ३६)
मथुरायामन्यतमो गृहपतिः । तस्य पत्नी रूपयौवनसंपन्ना । स तस्यामत्यर्थमध्यवसितः कालगतः । तस्यामेव योनौ कृमिः प्रादुर्भूतः । सा येन सार्धं परिचारयति स कालं करोति । ततस्तया सार्धं न कश्चित्परिचारयति । तया श्रुतं जीवको वैद्य इहागतः इति । सा तस्य सकाशं गत्वा कथयति । जीवक मम व्याधिरस्ति । चिकित्सां कुरु । जीवकस्तां दृष्ट्वा कथालापं च श्रुत्वा संरक्तः कथयति । समयतः चिकित्सां करोमि यदि च मया सार्धं परिचारयसीति । सा कथयति । जिह्रेमि । स कथयति । नास्ति तेऽन्यथा चिकित्सा । नास्त्यात्मसमं प्रेम । तया प्रतिज्ञातम्* । ततस्तयात्मना नग्नीभूता । योनिद्वारे मांसपेशी दत्ता । ततोऽसौ कृमिस्तस्यां लग्नः । स तेन गृहीत्वा क्षिप्तः । स्वस्थीभूता । सा कामरागाध्यवसिता निमित्तमुपदर्शयति । स कर्णौ पिधाय कथयति भगिनी त्वं मम । तवैषा चिकित्सेति मयैवं कृतमिति । तया तस्मै पंच कार्षापणशतानि दत्तानि । तान्यप्य्तेनात्रेयाय प्रेषितानि ।
ततो जीवकोऽनुपूर्वेण यमुनातटमनुप्राप्तः । तेन तत्र मानुषकुणपं दृष्टम्* । तस्य मत्स्यैः पार्ष्णिप्रदेशं स्नायुजालमाकृष्यते । सोऽक्षिणी उन्मीलयति निमीलयति च । जीवकेन तत्सर्वमुपलक्षितं यथा सन्धिबन्धायाः स्नायुगुल्फादयः (२४८ १ = ग्ब्म् ६.८०८) एवमवस्थिता इति ।
(म्स्विइ ३७)
सोऽनुपूर्वेण वैशालीं गतः । यावन्मल्लेन मल्लस्य तलप्रहारेणाक्षिपेलांकोलंभितः । स जीवकस्य सकाशं गतः । तेन तस्यां पार्ष्ण्यां स्नायुजालमाकृष्य प्रवेशितम्* । तेन तस्य पंच कार्षापणशतानि दत्तानि । तेनाभयस्य मातुर्दत्तानि ।
वैशाल्यामन्यतमः पुरुषः । तस्य शतपदी कर्णं प्रविष्टा । सा तत्र प्रसुता । सप्तशतान्यपत्यानां जातानि । स कर्णशूलाभ्याहतो जीवकस्य सकाशं गतः । चिकित्सां कुरुष्वेति । जीवकः संलक्षयति । पूर्वं मया उपाध्यायोपदेशेन कर्म कृतमिदानीं स्वमतेन कर्म करिष्यामीति । तेनासौ पुरुषोऽभिहितः । गच्छ भोः पुरुष पत्रमण्डपं कारयत । नीलैर्वस्त्रैर्वेष्टयित्वास्याधस्ताद्भेरीं स्थापय । भृमिं च तापय इति । तेन यथासंदिष्टं सर्वमनुष्ठितम्* । ततो जीवकेन तं पुरुषं भूमौ निपातयित्वा सा भूमिरुदकेन सिक्ता । ततो भेरी पराहता । शतपदी प्रावृट्काल इति कृत्वा निष्क्रान्ता । ततो जीवकेन कर्णमूले मांसपेशी स्थापिता । सा पुनः प्रविष्यापत्यानि गृहीत्वा निर्गता । सहापत्यैर्मांसपेश्यां सिक्ता । ततो जीवकेन सा मांसपेशीच्छोरिता । स पुरुष स्वस्थीभूतः । तेन पंच कार्षापणशतानि दत्तानि । तान्यपि तेनाभयस्य मातुर्दत्तानि ।
(म्स्विइ ३८)
सोऽनुपूर्वेण राजगृहं गतः । राज्ञा बिम्बिसारेण श्रुतं यथा जीवक आगत इति । तेनाजातशत्रोः कुमारस्याज्ञा दत्ता पुत्र भ्राता ते आगच्छति प्रत्युद्गमको गच्छेति । स प्रत्युद्गतः । जीवकेन श्रुतं यथा अजातशत्रुः कुमारः प्रत्युद्गच्छतीति । स संलक्षयति । यद्यहमस्य प्रत्युद्गमनं स्वीकरिष्यामीति यदा राजा भविष्यति तदानर्थं मे करिष्यतीति । स परावृत्यान्येन द्वारेण प्रविष्टः । अपरेण समयेन जीवको महाजनकायपरिवृतो व्याक्षिप्तचित्तो गच्छति । तावदन्यतरो ब्राह्मणोऽक्षिरोगार्तो जीवकस्य सकाशं गतः । भैषज्यं मे व्यपदिशेति । तेन संजातामर्षेणोक्तः । भस्मना पूरय इति । तेन ऋजुकेन भस्मना पूरितम्* । स्वस्थीभूतः ।
अपरस्याप्यक्षिरोगः । स जीवकसकाशं संप्रस्थितः । तेन ब्राह्मणेन दृष्टः पृष्टश्च । भोः पुरुष क्व गच्छसीति । तेन यथाभूतमाख्यातम्* । स कथयति । किं ते जीवकेन । यत्तेन ममोपदिष्टं तत्कुरुष्वेति । श्रद्दधानोऽसौ । तेन भस्मना पूरिते अन्धीभूतः ।
अपरेण समयेन राज्ञो बिम्बिसारस्य मूर्ध्नि पिटको जातः । तेनामात्यानामाज्ञा दत्ता । भवन्त आहूयतां वैद्य इति । अमात्यैराहूतः । राज्ञाभिहितः । भवन्तो मूर्ध्नि पिटको जातः । चिकित्सां कुरुष्वेति । ते कथयन्ति । देव जीविके महावैद्ये <ऽव>तिष्ठमाने कथं वयं करिष्यामः । राजा कथयत्याहूयतां भवन्तो जीवकः । तैराहूतः । राजा कथयति । जीवक चिकित्सां कुरुष्वेति । जीवकः कथयति । देव समयतः करोमि यद्यहमेव देवं स्नपयामि । एवं कुरु । ततो (म्स्विइ ३९) जीवकेनामलकं ददता पाचनीयानि द्रव्याणि दत्तानि । पंच च घटशतानि पाचनीयैर्द्रव्यैर्भावितानि । यदा पक्वः तदा प्रच्छन्नं क्षुरेण स्पृष्टः स्फुटितः । ततो रोहिणीयानि द्रव्याणि दत्तानि । पंच घटशतानि रोहिणीयैर्द्रव्यैर्भावितानि । तद्व्रणं रूढं समच्छवि समरोमं संवृत्तम्* । राजा स्नातमात्रः कथयति । जीवक चिकित्सां कुरुष्वेति । स कथयति । देव भुंक्ष्व । (२४८ १ = ग्ब्म् ६.८०९) तावद्राज्ञा भुक्तम्* । जीवक चिकित्सां कुरु । देव कृता । स तदन्ते पाणिना परामार्ष्टि । न संजानीते कतरस्मिन् प्रदेशे व्रणमिति । आदर्शं गृहीत्वा व्यवलोकयति तथापि न पश्यति । देवीं पृच्छति । सापि न संजानीते कतरस्मिन् प्रदेशे व्रणमासीदिति । राजा परं विस्मयमापन्न अमात्यानां कथयति । भवतो जीवकस्य वैद्यराजाभिषेकं कुरुतेति । सोऽन्धः पुरुषः कथयति । देव किं पुत्रस्नेहादस्याभिषेकः क्रियते । आहोस्विद्वैद्यवैचक्षण्यादिति । स कथयति । वैद्यचैक्षण्यात्* । यद्येवमहमेवानेनान्धीकृतः । जीवकः कथयति । भोः पुरुष तवाहं दर्शनमपि न समनुपश्यामि कुतः स्वस्थीकरिष्यामि । स कथयति । सत्यमेतदपि तु यस्य त्वयोपदेशः कृतस्तेन ममोपदिष्टम्* । किमुपदिष्टम्* । अमुकम्* । जीवकः कथयति । तस्यान्यो धातुः । तवाप्यन्यः । इदानीमिदं चेदं च कुरु । स्वस्थीभविष्यसीति । तेन कृतम्* । (म्स्विइ ४०) स्वस्थीभूतः । कथयति । देव क्रियतामस्य वैद्यराजाभिषेक इति । स हस्तिस्कन्धाभिरूढो महता श्रीसमुदयेन वैद्यराज्येऽभिषिक्तः ।
राजगृहेऽन्यतमो गृहपतिर्गुल्मव्याधिना स्पृष्टः । सर्ववैद्यप्रत्याख्यातः । स संलक्षयति । जीवकस्य सकाशं गच्छामीति । यदि चिकित्सां करिष्यत्यतीव कुशलं नो चेदात्मानं घातयिष्यामीति । स जीवकसकाशं गतः । जीवक चिकित्सां मे कुरु । स कथयति । भोः पुरुष दुर्लभानि तव भैषज्यानीति । स संलक्षयति । जीवकेनाप्यहं प्रत्याख्यातः । किमत्र प्राप्तकाल आत्मानं घातयिष्यामीति । श्मशानं गतः । तत्र चितायां ज्वलन्त्यां बभ्रुनकुलश्चन्दनगोधा च युध्यमानौ पतितौ । तेन क्षुधार्तेन तावुभावपि भक्षितौ । देवश्च वृष्टः । श्मशानात्प्रघरत्तच्चितोदकं पीतम्* । श्मशानस्य नातिदूरे गोकुलम्* । तत्र गत्वा कोद्रवोदनं मथितं च पीतम्* । गुल्मः स्फुटितः । ऊर्ध्वमधश्च विरिक्तो यथा पौराणः संवृत्तः ।
अपरेण समयेन वैदेह्या गुह्यप्रदेशे पिटको जातः । तया राज्ञे निवेदितम्* । राज्ञा जीवकोऽभिहितः । अपरमातुश्चिकित्सां कुरुष्वेति । तेन प्रतिज्ञातम्* । ततः सत्कून् पिण्डीकृत्य धात्र्या दत्ताः । अस्यान्तिके निषादयितव्येति । तया सा निषादिता । जीवकेन सत्कुपिण्डं दृष्टा संलक्षितः । अमुष्मिन् प्रदेशे इति । ततः पाचनीयानि द्रव्याणि दत्तानि । पक्वं ज्ञात्वा सत्कुपिण्डमध्ये शस्त्रकं प्रक्षिप्य धात्र्याभिहिता । अस्यान्तिके ईषन्निषादयितव्या देवी । निषद्याकाशे धारयितव्येति । तया तथाकृतम्* । शस्त्रसंपातसमकालम् (म्स्विइ ४१) एव पिटकः स्फुटितः । ततो रोहणीयद्रव्यपरिभावितेन कषायाम्भसा शोचितः । रोहिणीयानि द्रव्याणि दत्तानि । स्वस्थीभूता । जीवको राज्ञः सकाशं गतः । राजा कथयति । जीवक कृता तेऽपरमातुश्चिकित्सा । देव कृता । मा ते विनग्ना दृष्टा । देव न दृष्टा । कथं कृता । तेन यथावृत्तमारोचितम्* । राजा परं विस्मयमापन्नः । तेनामात्या उक्ताः । द्विरपि जीवकस्य वैद्यराजाभिषेकं कुरुथेति । योऽसौ गुल्मी पुरुषो जीवकेनाभिहितो दुर्लभानि भैषज्यानीति स कथयति । देव किं पुत्रस्नेहादस्याभिषेकः क्रियते । आहोस्विद्वैद्यवैचक्षण्यात्* । वैद्यवैचक्षण्यात्* । यद्येवमहमनेन न स्वस्थीकृतः । जीवकः कथयति । भोः पुरुष न मया तव चिकित्सा कृता । अपि (२४९ १ = ग्ब्म् ६.८१०) तु मयोक्तं दुर्लभानि ते भैषज्यानीति । स कथयति । कीदृशानि मम भैषज्यानीति । जीवकः कथयति । यदि कृष्णचतुर्दश्यामेकपिण्डलः पुरुषः कालं करोति । तस्य श्मशाने ध्माप्यमानस्य बभ्रुनकुलश्चन्दनगोधा च चितायां पतितः । तौ त्वं भक्षयसि । महेन्द्रो देवो वर्षति । श्मशानाच्च प्रघरितं चोदकं पिबसि । ततः कोद्रवोदनं भुंक्षे मथितं च पिबसि एवं त्वं स्वस्थो भवस्येतन्मत्वा मयोक्तं दुर्लभानि ते भैषज्यानीति । स कथयति । साधु सुष्ठु परिज्ञातम्* । एतदेव मयोपयुक्तम्* । ततोऽभिप्रसन्नः कथयति । देव शक्योऽस्य वैद्यराजाभिषेकः । अभिषिच्यतामिति । द्विरपि वैद्यराज्येऽभिषिक्तम्* ।
(म्स्विइ ४२)
यदा अजातशत्रुणा देवदत्तकल्याणमित्रविग्राहितेन पिता धार्मिको धर्मराजो जीविताद्व्यपरोपितः तदास्य गुल्मरोगः प्रादुर्भूतः । तेन वैद्यानामाज्ञा दत्ता । चिकित्सां कुरुष्वेति । ते कथयन्ति । देव जीवकोऽनुत्तरो वैद्यराजो देवस्य भ्राता । तस्मिन् स्थिते का शक्तिरस्माकं चिकित्सां कर्तुमिति । तेनामात्यानामाज्ञा दत्ता । आहूयतां भवन्तो जीवक इति । तैराहूतः । जीवक गुल्मरोगो मे प्रादुर्भूतः । चिकित्सां कुरुष्वेति । देव करोमि । स संलक्षयति । द्वाभ्यां कारणाभ्यां गुल्मो भिद्यते । अत्यन्तहर्षेण वा अत्यन्तरोषेण वा । तदयं पापकारी सत्वः । कुतोऽस्यात्यन्तहर्षः । सर्वथा रोषयितव्य इति विदित्वा कथयति । देव समयेन चिकित्सां करोमि । यद्युदायिभद्रस्य कुमारस्य मांसं परिभुंक्ष्वेति । श्रुत्वा राजा रुषितः कथयति । शोभनम्* । मया पिता जीविताद्व्यपरोपितः । त्वमप्युदायिभद्रं जीविताद्व्यपरोपय । अहमपि स्वयमेव रोगेण कालं करिष्यामि । त्वमपि राजा भविष्यसीति । स कथयति । देव एषा चिकित्सा । न शक्यमन्यथा स्वस्थेन भवितुमिति । नास्त्यात्मसमं प्रेम । तेनाभ्युपगतम्* । ततो जीवकेन उदायिभद्र कुमारः सर्वालंकारविभूषितः कृत्वा राज्ञ उपनामितः । देव अयमुदायिभद्रः कुमारः सुनिरीक्षितमेनं कुरु । न भूयो द्रक्ष्यसीति । ततस्तेनोपदर्श्य गृहं नीत्वा स्थापितः । ततो जीवको मांसार्थी शीतवनं श्मशानं गतः । अशून्यं च शीतवनं श्मशानं मृतकुणपेन । (म्स्विइ ४३) ततस्तेन कुणपमांसं गृहीत्वोपकरणविशेषैः साधयित्वा भोजनकाले राज्ञ उपनामितम्* । ततो राजा अजातशत्रुः मांसशरावं गृहीत्वा भक्षयिष्यामीति जीवकेनाच्छिद्य कपोले प्रहारो दत्तः । पापकारिन् त्वया पिता धार्मिको धर्मराजो जीविताद्व्यपरोपितः । इदानीं पुत्रमांसमपि भक्षयसीति । स रुषितः कथयति । यद्येवं किमर्थं प्रघातितः । संजातामर्षस्य चास्य गुल्मः स्फुटितः ऊर्ध्वमधश्च विरिक्तः । स रुधिर एव मुखेनागतः । यं दृष्ट्वा मूर्च्छितः पृथिव्यां पतितः । ततो जलाभिषेकप्रत्यागतप्राणं स्नपयित्वा सांप्रेयभोजनं दत्तम्* । यथा पौराणः संवृत्तः । ततो जीवक उदायिभद्रं कुमारं सर्वालंकारविभूषितमादाय राज्ञः सकाशमुपसंक्रान्तः । पादयोर्निपत्य कथयति । देव अयमुदायिभद्रः कुमारो न शक्यं मया कुन्तपिपीलकमपि प्राणिनं जीविताद्व्यपरोपयितुं (२४९ १ = ग्ब्म् ६.८११) प्रागेव कुमारम्* । अपि त्वनेनोपायेन चिकित्सेति मयोपायसंविधानं कृतमिति । राजा परं विस्मयमुपगतः । तेनामात्यानामाज्ञा दत्ता । जीवकस्य वैद्यराजाभिषेकं कुरुष्वेति । अमात्यैर्हस्तस्कन्धाभिरूढो महता श्रीसमुदयेन त्रिरपि वैद्यराजाभिषेकेणाभिषिक्तः ।
(म्स्विइ ४४)
ततो जीवकस्य मद उत्पन्नः । न मया समः कश्चिद्वैद्योऽस्ति । अहं कायचिकित्सकानामग्रः । भगवानपि चित्तचिकित्सकानामग्र इति । सोऽपरेण समयेन भगवत्सकाशमुपसंक्रान्तः । स मदावलेपेन सत्यानि न पश्यति । भगवान् संलक्षयति । जीवको वैद्यराज आहृतकुशलमूलः किमर्थं सत्यानि न पश्यति । मदावलेपनात्* । मदापनयोऽस्य कर्तव्य इति । तत्र भगवान् जीवकं वैद्यराजमामन्त्रयते । दृष्टस्ते जीवक हिमवत्पर्वतराजः । नो भदन्त । गृहाण तथागतस्य चीवरकर्णकः । तेन गृहीतम्* । अथ भगवान् जीवकं वैद्यराजमादाय येन हिमवान् पर्वतराजस्तेनोपसंक्रान्तः । तत्र नानाविधौषधयो दीपवज्ज्वलन्ति । भगवां जीवकं वैद्यराजमिदमवोचत्* । गृहाण जीवक यथाभिप्रेता ओषधीः । भगवन् <बिभेमि> । तत्र भगवान् यक्षं वज्रपाणिमामन्त्रयते । गच्छ वज्रपाणे जीवकस्यारक्षां कुरु । स गतस्तेन नानाविधा ओषधयो गृहीताः । भगवान् कथयति । जीवक किं नामेयमोषधिः । स कथयति । भगवन्नमुका । अनेन विधानेनामुकस्य व्याधेरुपशमनीति । इयमप्यमुका । अमुकस्य व्याधेः प्रशमनीति । अपरासां नामानि न जानीते । यां न जानीते तां भगवान् कथयति । जीवक इयममुका । अमुकेन विधानेनामुकस्य व्याधेः प्रशमनी । इयमप्यमुकस्येति । जीवकः कथयति । वैद्यकमपि भगवान् जानीत इति । तत्र भगवान् जीवकं वैद्यराजमामन्त्रयते । चतुर्भिर्जीवकाङ्गैः समन्वागतो (म्स्विइ ४५) भिषक्छल्याहर्ता राजार्हश्च भवति राजयोग्यश्च राजाङ्गत्वे च संख्यां गच्छति । कतमैश्चतुर्भिरिह भिषक्छल्याहर्ता । आबाधकुशलो भवति । आबाधसमुत्थानकुशलश्च । उत्पन्नस्याबाधस्य प्रहाणकुशलः । प्रहीणस्यायत्यामनुत्पादकुशलः । कथमाबाधकुशलो भवति । इह भिषक्छल्याहर्ताबाधं जानात्ययमाबाध एवंरूपश्चैवंरूपश्चेत्येवमाबाधकुशलो भवति । कथमाबाधसमुत्थानकुशलो भवति । इह भिषक्छल्याहर्ताबाधं जानात्ययमाबाधो वातसमुत्थो वा विपत्तिसमुत्थो वा श्लेष्मसमुत्थो वात्मोपक्रमिको वा परोपक्रमिको वा सांनिपातिको वा ऋतुपरिणामिको वेत्येवमाबाधसमुत्थानकुशलो भवति । कथमुत्पन्नस्याबाधस्य प्रहाणकुशलो भवति । इह भिषक्छल्याहर्ताबाधं जानात्ययमाबाधोऽंजनेन वा प्रत्यंजनेन वा वामनेन वा विरेचनेन वोर्ध्वविरेचनेन वाधोविरेचनेन वा नस्तकर्मणा वा धूपदानेन वा स्वेदपरिकर्मणा वा प्रहास्यतीत्येवमुत्पन्नस्याबाधस्य प्रहाणकुशलो भवति । कथं प्रहीणस्याबाधस्यायत्यामनुत्पादकुशलो भवति । इह भिषक्छल्याहर्ताबाधं जानात्ययमाबाध (२५० १ = ग्ब्म् ६.८१२) एवंरूपाभिश्चैवंरूपाभिश्च सांप्रेयाभिः क्रियाभिः क्रियमाणाभिः प्रहीण आयत्यां नोत्पत्स्यत इत्येवं प्रहीणस्याबाधस्यायत्यामनुत्पादकुशलो (म्स्विइ ४६) भवति । एवं चतुर्भिरंगैः समन्वागतो भिषक्छल्याहर्ता राजार्हश्च भवति राजयोग्यश्च राजांगत्वे च संख्यां गच्छति । एवमेव चतुरंगैः समन्वागतस्तथागतोऽर्हन् सम्यक्संबुद्धोऽनुत्तरो भिषक्छल्याहर्ता इत्युच्यते । कतमैश्चतुर्भिः । इह जीवक तथागतोऽर्हन् सम्यक्संबुद्धः । इदं दुःखमार्यसत्यमिति यथाभूतं प्रजानाति । इदं दुःखसमुदय इदं दुःखनिरोध इदं दुःखनिरोधगामिनीप्रतिपदार्यसत्यमिति यथाभूतं प्रजानाति । न खलु जीवक भिषक्छल्याहर्ता जातिमूलकानां दुःखानां प्रहाणाय भैषज्यं जानाति । नापि जराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासमूलकानां दुःखानां प्रहाणाय भैषज्यं जानाति । तथागतस्तु जीवक जातिमूलकानां दुःखानां प्रहाणाय भैषज्यं जानाति । जराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासमूलकानां दुःखानां प्रहाणाय भैषज्यं जानाति । तस्मात्तथागतोऽर्हन् सम्यक्संबुद्धोऽनुत्तरो भिषक्छल्याहर्तेत्युच्यते । अस्मिन् खलु धर्मपर्याये भाष्यमाणे जीवकस्य कुमारभृत्यस्य विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम्* । अथ जीवकः कुमारभृतो दृष्टधर्मा प्राप्तधर्मा विदितधर्मा पर्यवगाढधर्मा तीर्णकांक्षस्तीर्णविचिकित्सोऽपरप्रत्ययोऽनन्यनेयः शास्तुः शासने धर्मेषु वैशारद्यप्राप्तः उत्थायासनादेकांसमुत्तरासंगं कृत्वा येन भगवांस्तेनांजलिं प्रणम्य भगवन्तमिदमवोचत्* । अभिक्रान्तोऽहं भदन्ताभिक्रान्तः । एषोऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसंघां
चोपासकं च । मां धारयाद्याग्रेण (म्स्विइ ४७) यावज्जीवं प्राणोपेतं शरणगतमभिप्रसन्नम्* । अथ जीवको वैद्यराजो भगवत पादौ शिरसा वन्दित्वा भगवतोऽन्तिकात्प्रक्रान्तः ।
हिमवान् पर्वतराजो हिमसंयोगान्नित्यं शीतलो भगवतः साभिष्यन्दं ग्लानमुत्पन्नम्* । जीवको वैद्यराजः संलक्षयति । स्वयमेवाहं भगवत उपस्थानं करोमि तद्यथा राज्ञश्चक्रवर्तिन इति । ततो जीवकेन द्वात्रिंशदुत्पलानि स्रंसनीयैर्द्रव्यैर्भावयित्वा भगवते दत्तानि । जिघ्रतु भगवानेतानीति । भगवता घ्रातानि । द्वात्रिंशदेवोत्थानानि लब्धानि । ततो भगवन्तं पृच्छति । कश्चिद्भगवान् सम्यग्विरिक्त इति । भगवानाह । सन्ति जीवक ते दोषाः । ये च्युता न स्रुताः सन्ति । स्रुता न च्युताः सन्ति । स्रुताश्च्युताश्च सन्ति । नैव स्रुता न च्युता इति । जीवकः कथयति । भगवन् यद्येवं गुडहरीतकीं भक्षय । मण्डानुपूर्वीं च कुरुष्वेति । भगवता तथाकृतम्* स्वस्थो जातः ।
आचरितं जीवकस्य यस्य कस्यचिद्राज्ञो वा राजमात्रस्य वा चिकित्सां करोति स तस्मै ग्रामं वा ग्रामवरं वा प्रयच्छति । यावदपरेण समयेन जीवकेन विदेहराजस्य चिकित्सा कृता । तेन तस्मै शतसहस्रमूल्यं बृहतिकाप्रावरणं दत्तम्* । स तमादाय (म्स्विइ ४८) येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्ते (२५० १ = ग्ब्म् ६.८१३) निषण्णो जीवकः कुमारभृतो भगवन्तमिदमवोचत्* । आचरितं भदन्त मम यस्य राज्ञो वा राजमात्रस्य वा चिकित्सां करोमि स मे ग्रामं वा ग्रामवरं वानुप्रयच्छति । तन्मया विदेहराजस्य चिकित्सा कृता । तेन मे शतसहस्रमूल्यं बृहतिकाप्रावरणं दत्तम्* । तदहं भगवतेऽनुप्रयच्छामि । तद्भगवान् प्रतिगृह्णात्वनुकम्पामुपादायेति । प्रतिगृह्णाति भगवां जीवकस्य कुमारभृतस्यान्तिकाच्छतसहस्रमूल्यं बृहतिकाप्रावरणम्* । तेन खलु समयेनायुष्मानानन्दो भगवतः पृष्ठतः स्थितोऽभूद्व्यजनं गृहीत्वा भगवन्तं वीजयन्* । तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते । गृहाणानन्द शतसहस्रमूल्यं बृहतिकाप्रावरणं ममार्थाय शस्त्रलूनं कुरुष्वेति । तत आयुष्मानानन्दो गृहीत्वा विस्तीर्णावकाशं पृथिवीप्रदेशं गत्वा मापयितुमारब्धः । पश्यति बहूनि चीवराणि संपद्यन्ते । ततस्तेन भगवतस्त्रिचीवरं कृतमात्मनः सान्तरोत्तरमायुष्मतश्च राहुलस्य कुसूलकः । तं खलु वर्षावासं भगवतः पंच पटशतानि संपन्नानि । भिक्षुसंघस्य चानेकानि । भिक्षवो न जानीते कथं प्रतिपत्तव्यमिति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । तस्मादनुजानामि । भिक्षुभिर्गृहपतिचीवरकाणि शस्त्रलूनानि दुर्वर्णीकृत्य धारयितव्यानि ।
(म्स्विइ ४९)
आचरितं रज्ञो बिम्बिसारस्य भिक्षुं वा भिक्षुणीं वा दृष्ट्वा हस्तिस्कन्धादवतीर्य पादाभिवन्दनं करोति । सोऽपरेण समयेन हस्तिनमभिरुह्य भगवतः पादाभिवन्दकः संप्रस्थितः । यावत्पश्यत्यन्तर्मार्गे आजीवकम्* । स तस्य जातसंभ्रमो हस्तिस्कन्धादवतीर्य पादयोर्निपतितः । तत्र ये अश्राद्धास्ते संलक्षयन्ति । न केवलं देवो भिक्षुष्वेवाभिप्रसन्नः । आजीवकेष्वप्यभिप्रसन्न इति । ये तु श्राद्धास्ते संलक्षयन्ति । नूनं देवो भिक्षुरिति कृत्वा ससंभ्रमोऽस्य हस्तिस्कन्धादवतीर्य पादयोर्निपतित इति । ते सन्दिग्धमनसो राजानमूचुः । कस्य देवेन वन्दना कृता । भगवतः श्रावकस्य । देव आजीवक एष न भगवतः श्रावकः । अथ राज्ञो बिम्बिसारस्यैतदभवत्* । एतदेव मे करणीयं भवत्विति । स येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः । एकान्तनिषण्णो राजा मागधः श्रेण्यो बिम्बिसारः भगवन्तमिदमवोचत्* । आचरितं मम भदन्त भिक्षुं वा भिक्षुणीं वा दृष्ट्वा हस्तिस्कन्धादवतीर्य तस्य पादाभिवन्दनां कर्तुम्* । तदहं संजातसंभ्रमो हस्तिस्कन्धादवतीर्य कृत्वा आजीवकस्य पादयोर्निपतितः । अहो बत भगवन्नार्यकाणां चीवरकेषु किंचिच्चिह्न प्रज्ञापयेदनुकम्पामुपादायेति । अधिवासयति भगवान् राज्ञो बिम्बिसारस्य तूष्णींभावेन । अथ राजा बिम्बिसारो भगवतस्तूष्णींभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा प्रक्रान्तः । तत्र भगवान् भिक्षूनामन्त्रयते स्म हंभो (म्स्विइ ५०) भिक्षवः स आजीव उपहतश्च येन दृष्टसत्यस्यान्तिकाद्वन्दना स्वीकृतेति । (२५१ १ = ग्ब्म् ६.८१४)
तेन खलु समयेनायुष्मानानन्दो भगवतः पृष्ठतः स्थितोऽभूद्व्यजनं गृहीत्वा भगवन्तं वीजयन्* । तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते । द्ष्टस्ते आनन्द वैदेहकः पर्वतः । नो भदन्त । गृहाण तथागतस्य चीवरकर्णकम्* । तेन गृहीतम्* । अथ भगवान् तत एव रिद्ध्या उपरि विहायसा प्रक्रान्तः । राजगृहेऽन्तर्हितो वैदेहके पर्वते प्रातिष्ठत । तेन खलु समयेन मागधकानां मनुष्याणां क्षेत्राणि समानि समोपविचाराणि आवलीविनिबद्धानि भक्तिरचनाविशेषविचित्राणि दृष्ट्वा च पुनरायुष्मन्तमानन्दमामन्त्रयते । दृष्टानि ते आनन्द एतानि क्षेत्राणि समानि समोपविचाराण्यावलीविनिबद्धानि भक्तिरचनाविशेषविचित्राणि । दृष्टानि भदन्त । तस्मादानन्द अनेनाकारेण भिक्षुभिश्चीवराणि छित्वा सेतव्यानि । स्थविरानन्देन भिक्षूणामारोचितम्* । युष्माभिरनेनाकारेण चीवरकानि पाटयित्वा सेतव्यानीति । भिक्षवः पाटयित्वा चीवराणि सेतुमारब्धाः । एकेन पार्श्वेन पत्रमुखानि पातयन्ति । न शोभन्ते । आयुष्मानानन्दः संलक्षयति । किंचापि भगवता नानुज्ञातम्* । (म्स्विइ ५१) स्थानमेतद्विद्यते यदेतदेव प्रत्ययं कृत्वा अनुज्ञास्यतीति । तेनोभयपार्श्वयोः पत्रमुखानि दत्तानि । तथाप्यनुपातं विना न शोभते इत्यनुपातो दत्तः । ततः कृतनिश्चितं भगवत उपनामितम्* । भगवानाह । साधु साध्वानन्द यन्मया नानुज्ञातं तत्त्वया विजातम्* । तस्मादनुजानामि भिक्षुभिरनेनाकारेण चीवराणि छित्वा सेवितव्यानि । भिक्षव एवैकं चीवरं छित्वा स्यूत्वा धावयितुं प्रवृत्ताः । अवशिष्टान्यच्छिन्नानि ।
ततो भगवान्मगधेषु जनपदेषु चारिकां चरन्नाटविकामनुप्राप्तः । आटविकायां विहरत्यग्राटविके दावे । आटविका नदी समीपसंयोगाच्छीतला प्रवाता च । भगवता प्रथमे यामे अन्तर्वासः प्रावृतः । मध्यमे यामे उत्तरासङ्गः । पश्चिमे यामे आयुष्मन्तमानन्दमामन्त्रयते । अनुप्रयच्छ मे आनन्द संघाटीमिति । तत आयुष्मतानन्देन हस्तौ प्रक्षाल्य भगवत उपरिष्टाद्दत्ता संघाटी । सा रात्रिर्भगवता त्रिचीवरेणातिनामिता । ततः प्रभातायां रजन्यां संलक्षयति । ये केचिल्लोके सुकुमारकाः सुखैषिणः । अहं तेषामग्रः । तदहं शक्नोमि त्रिचीवरेण यापयितुं किं पुनर्मे श्रावका इति विदित्वा भिक्षूनामन्त्रयते स्म । तस्मात्तर्हि भिक्षवो भिक्षुभिश्छिन्नं त्रिचीवरं धारयितव्यमिति ।
(म्स्विइ ५२)
उक्तं भगवता छिन्नं त्रिचीवरं धारयितव्यमिति । अन्यतमस्य भिक्षोस्त्रिचीवरं नास्ति । तस्य नमतं संपन्नम्* । स तच्छेत्तुमारब्धः । भगवाण्श्च तं प्रदेशमनुप्राप्तः पृच्छति । भिक्षो किमिदम्* । उक्तं भदन्त भगवता भिक्षुणा छिन्नं त्रिचीवरं धारयितव्यमिति । मम (२५१ १ = ग्ब्म् ६.८१५) तृतीयं चीवरं नास्ति । पर्येषमाणस्य मे इदं नमतं संपन्नम्* । छित्वा चीवरं करोमि । नैतद्भिक्षो छेदनार्हमपि त्वासीवकार्हम्* । सीवकं कृत्वा धारय । इत्युक्ता प्रक्रान्तः । भिक्षुसंघं सन्निपात्य पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । निषद्य भगवान् भिक्षूनामन्त्रयते स्म । अमुकस्य भिक्षवो भिक्षोश्चीवरं नास्तीति नमतं छेदयतीति । तस्मात्तर्हि भिक्षवः पंचाछेद्यानि । सर्वं नमतम् । सर्वं प्रावारकम् । सर्वं कोचवम् । सर्वं लेलोहितम् । सर्वं स्थूलकम्बलञ्चेति । आसीवकांस्तु दत्वा धारयितव्यम्* ।
श्रावस्त्यां निदानम्* । राज्ञः प्रसेनजितः कोसलस्य मृगारो नाम अग्रामात्यः । तेन सदृशात्कुलात्कलत्रमानीतम्* । स तया (म्स्विइ ५३) सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः । एवं यावत्सप्त पुत्राः जाताः । तत्र षण्णां यथाभिप्रेतव्यवस्थम्* । तेन नामानि व्यवस्थापितानि । यस्तु कनीयांस्तस्य विशाख इति नामधेयं व्यवस्थापितम्* । यावन्मृगारस्य पत्नी कालगता । तेन षण्णां पुत्राणां निवेशः कृतः । ते स्वकस्वकाभिः पत्नीभिः सार्धं मण्डनपरमा व्यवस्थिताः । गृहकार्यं न चिन्तयन्ति । मृगारो गृहपतिः करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । तस्य सप्रेमको ब्राह्मण आगतः । स तेन चिन्तापरो दृष्टः । स कथयति । गृहपते किमसि चिन्तापरः । ममामी पुत्राः स्वकस्वकाभिः पत्नीभिः सार्धं मण्डनपरमा व्यवस्थिताः । गृहकार्यं न चिन्तयन्ति । गृहमवसादं गमिष्यतीति । स कथयति । विशाखस्य कस्मान्निवेशो न क्रियते । को जानीयात्कदाचित्सोऽपि पापतरो भवेत्* । एतदपि न ज्ञायते कदाचिच्छोभनतरो भवेत्* । यदि तेऽनुमतं समन्वेषयामि दारिकम्* । एवं कुरु । स गवेषमाणोऽनुपूर्वेण चण्पामनुप्राप्तः ।
चण्पायां बलमित्रो नाम गृहपतिः । तस्य विशाखा नाम दुहिता रूपयौवनवती नयविनयसंपन्ना पण्डिता पटुप्रचारा । सा यथाभिप्रेतमनोहराभिर्दारिकाभिः सार्धमुद्यानभूमिं संप्रस्थिता । स च ब्राह्मणस्तं प्रदेशमागतः । तेन सा दारिका दृष्टा । स संलक्षयति । आसामेव तावत्परीक्षा कर्तव्येति । स च आसामवधानतत्परो मन्दगतिप्रचारतया पृष्ठोऽनुबद्धः । प्रायो नार्यश्चलत्स्वभावाः । (म्स्विइ ५४) तासां काचिद्धावति काचिदुत्पतति काचिन्निपतति काचिधसति काचिद्गात्रविक्षेपं करोति काचिद्गायति । इमानि चान्यानि च दुर्वृत्तचेष्टितानि कुर्वति । सा तु विनयसंपन्ना मन्दगतिप्रचारा ताभिः सार्धं गच्छति । यावदुद्यानं संप्राप्तास्ता दारिकाः पुष्करिण्यास्तीरे वस्त्राणि स्थापयित्वा सहसावतीर्य क्रीडितुमारब्धाः । सा तु यथा यथा पानीयमवतरति तथा तथा वस्त्रमुत्क्षिप्यावतीर्णा तथैव शान्तेनेर्यापथा यथा यथा व्युत्तिष्ठते तथा तथा वस्त्रमवतारयति । ततः स्नातप्रयता एकस्मिन् स्थाने स्थिता । ता दारिका आत्मना प्रथमतो भुक्त्वा परिजनं परिवेष्टुम् (२५२ १ = ग्ब्म् ६.८१६) आरब्धाः । सापि पूर्वं परिजनं परिवेष्य पश्चादात्मना परिभोक्तुमारब्धा । ततो भुक्तपीता उद्यानसुखमनुभूय संप्रस्थिता । यावदन्तर्मार्गे पानीयमुत्तर्तव्यं ता दारिका उपानहौ छोरयित्वोत्तीर्णाः । सा तु सोपानत्कैव पुनः संप्रस्थिता । तासामारामसंप्रवेशो जातः । सा छत्रमादाय आम्रवनमतिक्रान्ता । अन्याभिश्छत्राणि छोरितानि । ततो वातवर्षं प्रादुर्भुतम्* । तदा दारिका देवकुलं प्रविश्यावस्थिता । सा त्वभ्यवकाश एव । स ब्राह्मणस्तस्यास्तादृशलक्षणप्रचारान् दृष्ट्वा ततो जातकुतूहलस्तां दारिकां प्रष्टुमारब्धः । दारिके कस्य त्वम्* । बलमित्रस्य दुहिता । पुत्रि पृच्छामि । तेन किञ्चित्त्वया कोपः करणीयः । सा स्मितपूर्वंगमा कथयति । तात पृच्छ । कोऽत्र कोपः । पुत्रि सर्वा एव दारिका धावन्त्य उत्पतन्त्यो निपतन्त्यो गात्रविक्षेपं कुर्वन्त्य इमानि चान्यानि च दुर्वृत्तचेष्टितानि कुर्वन्त्यो गच्छन्ति त्वं पुनर्विनयसंपन्ना मन्दगतिप्रचारतया आभिः (म्स्विइ ५५) सार्धमुद्यानं गच्छसीति । सा कथयति । सर्वा दारिका मातापित्रोर्विक्रेयं द्रव्यम्* । यदि मम उत्पतन्त्या निपतन्त्या वा हस्तः पादो वा भिद्यते को मां प्रार्थयते । न त्वहं यावज्जीवमेव मातापित्रोः पोष्या भविष्यामि । पुत्रि शोभनं गतमेतत्* । इदमपरं पृच्छामि । एता दारिका वस्त्राण्येकान्ते स्थापयित्वा द्वितीयवस्त्रवियुक्ताः सहसावतीर्य क्रीडितुमारब्धाः । त्वं पुनर्यथा पानीयमवतरति तथा तथा वस्त्रमनयसि । तात ह्रीव्यपत्राप्यसंपन्नो मातृग्रामः । यदि मां कश्चित्पश्यत्यपावृतामयुक्तम्* । पुत्रि कस्त्वां तत्र पश्यति । तात त्वयैव तावदहं दृष्टा स्याम्* । पुत्रि शोभनमेतदपि गतम्* । इदमपरं पृच्छामि । एता दारिकाः पूर्वमात्मना भुक्त्वा पश्चात्परिजनं भोजयन्ति । त्वं पुनः पूर्वं परिजनं भोजयित्वा पश्चादात्मना भुंक्षे । तात वयं पुण्यफलोपजीविन्यः सततमेवास्माकं पर्व । एता कुस्थानफलोपजीविन्यः कदाचित्कर्हिचिदुदारभोजनं लभन्ते । पुत्रि शोभनमेतदपि गतम्* । इदमपरं पृच्छामि । सर्वलोकः शुष्के उपानहौ धारयन्ति । त्वं पुनः उदके । किमेतत्* । तात मूर्खो लोकः । उदक एव उपानहौ धारयितव्यौ । यत्कारणं स्थले स्थाणुर्दृश्यते कण्टकः पाशाणशर्करः शुक्तिशकलिका शंखसूके खण्डिका च । (म्स्विइ ५६) जले त्वेते न दृश्यन्ते । अतो जल एवोपानहौ धारयितव्या न स्थले । पुत्रि शोभनमेतदपि गतम्* । इदमपरं पृच्छामि । एता दारिका आतपे छत्रं धारयन्ति त्वं पुनरारामे वृक्षच्छायायाम्* । कात्र युक्तिः । तात मूर्खो लोकः । आराम एव छत्रं धारयितव्यम्* । यत्कारणं नित्यमारामः शाखामृगैः पक्षिभिराकीर्णः । पक्षिण उच्चारप्रस्रावं कुर्वन्ति । अस्थिखण्डं पातयन्ति । शाखामृगा उच्चारप्रस्रावं कुर्वन्ति । अर्धपरिभुक्तानि फलानि पातयन्ति । चलस्वभावत्वादितश्चामुतश्च शाखान्तरे संक्रामं कुर्वन्ति । काष्ठखण्डानि पातयन्ति । अभ्यवकाशे च तन्नास्ति । कदाचित्स्यात्तंतु लघुनिपाति । अत आराम एव छत्रं धारयितव्यं (२५२ १ = ग्ब्म् ६.८१७) नाभ्यवकाशे । पुत्रि शोभनमेतदपि गतम्* । इदमपरं पृच्छामि । एता दारिका वातवर्षे देवकुलं प्रविष्टास्त्वं पुनरभ्यवकाशे स्थिता । तात अभ्यवकाश एव स्थातव्यम्* । न देवकुलं प्रवेष्टव्यम्* । पुत्रि कात्र युक्तिः । तात एतानि शून्यदेवकुलानि नित्यमेव विटवातपुत्रधूर्तकैर्
अशून्यानि । यदि मम प्रविष्टाया कश्चिदंगप्रत्यंगानि परामृशति न त्वेवं मातापित्रोर्मे अयशस्यता भवति । वरमभ्यवकाशे प्राणवियोगः । न त्वेव शून्यदेवकुलप्रवेशः ।
(म्स्विइ ५७)
ततोऽसौ ब्राह्मणस्तत्प्रचारावर्जितजनितसौमनस्यो बलमित्रस्य गृहपतेर्निवेशनं प्रविश्य कन्याप्रतिलम्भतृष्णाया ससंभ्रमः स्वस्ति स्वस्तीत्युवाच । गृहपरिजनः कथयति । ब्राह्मण न तावद्भिक्षावेला । किं प्रार्थयसे । कन्याभिक्षाम्* । कस्यार्थाय । श्रावस्त्यां मृगारो नामाग्रामात्यः । तस्य पुत्रो विशाखो नाम । ते कथयन्ति । सदृशमस्माकं तत्कुलम्* । किं तर्हि । अतिविप्रकृष्टो देशः । स कथयति । दूर एव दारिका दातव्या । किं कारणम्* । यदि तावत्सुखिता भवति श्रुत्वा प्रामोद्यमुत्पादयिष्यति । अथ दुःखिता दानमानसत्कारक्रियया खेदमापद्यतेऽर्थापचयश्च भवति । ते कथयन्ति । यद्येवं दत्ता भवतु । ततो ब्राह्मणः स्वस्तीत्युक्त्वा प्रक्रान्तोऽनुपूर्वेण श्रावस्तीं गतः । मार्गश्रमं प्रतिविनोद्य मृगाराग्रामात्यस्य सकाशं गतः । ततो दारिकाया आहारविहारतां चेष्टां रूपयौवनशोभां वैचक्षण्यं च यथावदाख्याय कथयति । मया महता परिखेदेन नानादिग्देशाधिष्ठानान् पर्यटित्वा सा कृच्छ्रेण प्रतिलब्धा । गच्छेदानीं परिणयेति । ततो मृगारेणाग्रामात्येन दिवसतिथिमुहूर्तनक्षत्रप्रतिग्रहं कृत्वा चण्पामागत्य महता श्रीसमुदयेन विशाखस्य परिणीता ।
सा मात्रा गमनदेशकाले शिक्ष्यते । पुत्रि नित्यं त्वया सूर्याचन्द्रमसौ नमस्यौ । अग्निः परिचर्तव्यः । आदर्शो निर्मादयितव्यः । शुक्लानि वासांसि प्रावरितव्यानि । ग्रहीतव्यं न दातव्यम्* । वाणी (म्स्विइ ५८) रक्षितव्या । न कस्यचिदुत्थायासनं दातव्यम्* । मिष्टं भोक्तव्यम्* । सुखं स्वप्तव्यम्* । निःश्रेणी बद्धव्येति । ततो मृगारेण श्रुतम्* । स संलक्षयति । इयं दारिका मिथ्यादृष्टिर्ग्राह्यते । अहमेनां मिथ्यादर्शने विवेच्य सम्यग्दर्शनं ग्राहयिष्यामीति विदित्वा तामादाय संप्रस्थितः ।
ततोऽस्या माता स्नेहव्याकुलहृदया अश्रुव्याकुलेक्षणा कण्ठे परिष्वज्य सस्वरं रुदन्ती कथयति । पुत्रि इदं ते पश्चिमं दर्शनमिति । सा तामनुसंज्ञापयन्ती कथयति । अम्ब पृच्छामि । तावत्किं त्वमत्र जाताहोस्विज्ज्ञातिगृहे । <पुत्रि ज्ञातिगृहे ।> तत्तव गृहमाहोस्विदिदम्* । इदम्* । अहमपीह जाता । तत्र मया वस्तव्यम्* । संयोगो नियतं वियोगान्तः । तूष्णींभव । किमर्थं रोदिषि ।
ततो मृगारः स्थलेन संप्रस्थितः । विशाखा स्वामिना सार्धं स्वगृहलब्धेन च परिजनेन नौयानेन संप्रस्थिता । तत्र वडवा अचिरप्रसूता नावमधिरोह्यते । किशोरकः स्थले खेदम् (२५३ १ = ग्ब्म् ६.८१८) आपत्स्यतीति । सा यत्नेनापि नाभिरोहतीति कोलाहलो जातः । विशाखया श्रुतम्* । सा कथयति । किमर्थमयं कोलाहल इति । तैर्यथावृत्तमाख्यातम्* । विशाखा कथयति । किशोरकं पूर्वमभिरोहयत स्वयमभिरोक्ष्यतीति । तैस्तथा कृतम्* । अभिरूढा । ततो मृगारेण ते पृष्टाः । किमर्थं चिरेण यूयमागताः । वडवा (म्स्विइ ५९) नावं नाभिरोहति । अथ कथमभिरूढा । चाण्पेयिकया उपायसंविधानमाख्यातं किशोरकं पूर्वमभिरोहयत । पण्डिता चाण्पेयिका ।
यावदन्तर्मार्गो सार्था रात्रिं वासमुपगताः । मृगारस्य प्राग्भारे शय्या प्रज्ञप्ता । विशाखा दृष्ट्वा पृच्छति । कस्यैषा शय्या । मृगारस्य । अपनयत । किं कारणम्* । यदि सुप्तस्य प्राग्भार उपरि निपतति नियतमवष्टब्धः कालं करोति । मम यावज्जीवमयशस्यम्* । ईदृशी दारिका परिणीता यदन्तर्मार्ग एव श्वशुरः कालगतो गृहमपि न संप्राप्त इति । तच्च शयनासनमपनीतं प्राग्भारश्च पतितः । समन्तान्महाजनकायः प्रधावितो गृहपतिरवष्टब्धः इति । गृहपतिः कथयति । भवन्तो मा बिभीत । इहाहं तिष्ठामि । शय्यां प्रत्यवैक्षन्त । अपनीता शय्या । केन । विशाखया । पण्डिता चाण्पेयिका । पुनरपि जीर्णोद्याने वासमुपगताः । मृगारस्य शून्यदेवकुले शय्या प्रज्ञप्ता । विशाखया दृष्टा । पृच्छति । कस्यैषा शय्या । आर्यस्य । अपनयत । किं कारणाम्* । यदि देवकुलं पतति ततोऽवष्टब्धः कालं करोति । ननु मे पूर्ववद्यशस्यम्* । सा चापनिता । देवकुलं च पतितम्* । महाजनकायो प्रधावितः पूर्ववद्यावत्पण्डिता चाण्पेयिका ।
यावदनुपूर्वेण श्रावस्तीमनुप्राप्ता । मार्गश्रमे प्रतिविनोदिते सुहृत्संबन्धिबान्धवजने च प्रेषिते विशाखा स्वकुलानुरूपं गृहे (म्स्विइ ६०) कर्म कार्यते । मृगारस्य षट्स्नुषा वारेण वारं गृहजनस्य भक्तं संपादयन्ति । विशाखापि तथैव नियुक्ता । त्वयापि सप्तमे दिवसे वारः कर्तव्य इति । तस्या वार आगमिष्यतीति । ये श्वशुरश्वश्रूस्वामिनां गन्धा अवशिष्यन्ते चर्पटिकां कृत्वा प्रतिदिवसं शोषयति । यान् सक्तून् प्रतिदिनं लभते ततः प्रस्थानि विशाखा अपनीय स्थापयति । परिशिष्टं घृतेन मोदयति तत्प्रमाणा एव भवन्ति । मद्यपानागतस्तु श्वो वारो भविष्यतीति । यत्स्वामिनो निर्माल्यमात्मनश्च तच्छीतले स्थापितम्* । यावत्प्रभातायां रजन्यां कर्मकराणामामलकं दत्तं गन्धः पुष्पाणि भोजनं मद्यं च । ते परितुष्टाश्चिरेण वयं पुराणगृहपतिपत्न्या अवलोकिता इति । तैस्तस्मिन् दिवसे द्विगुणं कर्म कृतम्* । यावन्मृगारः कालवेलायां कर्मान्तानवलोकयन् पश्यति प्रभूतं कर्म कृतम्* । स पृच्छति । किं युष्माभिरपरे भृतकपुरुषा गृहीताः । न । केनचित्कोऽत्र योगो येनाद्य द्विगुणं कर्म कृतम्* । ते कथयन्ति । आर्या यादृशं भक्तं तादृशं कर्म । किमेतत्* । तैर्यथावृत्तं विस्तरेण समाख्यातम्* । मृगारपुत्रैस्स्वकस्वकानां पत्न्यः (म्स्विइ ६१) आरोचिताः । ताः कथयन्ति । वयमपि गृहादपहृत्य भृतकपुरुषाणां प्रियं कुर्याम । वयमप्यार्यस्य युष्माकं भृतकपुरुषाणां (२५३ १ = ग्ब्म् ६.८१९) च प्रिया भवेम यथा विशाखया कृतम्* । ततो मृगारेण विशाखा पृष्टा । पुत्रि कथं त्वया भक्तं प्रतिजागरितम्* । तया विस्तरेण समाख्यातम्* । मृगारस्तुष्टः । तेन सैव गृहव्यापारे नियुक्ता । अन्तर्जनश्च सर्वोऽभिहितः । यो युष्माकं विशाखया दत्तेन परितुष्यति तेन स्थातव्यमानुकूल्येन वा चरितव्यं यावदसौ गृहस्वामिनी संवृत्ता । साचारविहारतया सौरत्येन च सर्वमन्तर्जनं तोषयति । यावदपरेण समयेन विशाखाया गृहस्योपरिष्टाधंसा उत्तरकुरुद्वीपादकृष्टोप्तं तण्डुलफलशालिमादाय संप्रस्थिताः । राज्ञश्च गृहे हंसस्तिष्ठति । तेन तान् दृष्ट्वा कूजितम्* । तैरपि समयोनिविश्वासोद्वेगमसहमानैः कूजितम्* । राज्ञश्चरणकोष्ठे शालिबल्लर्यो निपतिताः । ततो राज्ञोऽमात्यानामेकैका दत्ता । मृगारेण स्वप्रत्यंशो विशाखाया दत्तः । तया समुद्गके स्थापयित्वा कार्षिकाणामाज्ञा दत्ता । तेऽपि सुतरां परितुष्टाः । तैः क्षेत्रस्तोकं सुपरिकर्षीकृत्य कालं ज्ञात्वा उप्तः । देवः कालवर्षी संवृत्तः । बीजानुरूपा संपत्तिर्जाता । अपरस्मिन् वर्षे प्रभूतं संपन्नमपरस्मिन्नपि वर्षे प्रभूततरम्* । (म्स्विइ ६२) एवं यावत्सर्वाणि कोष्ठागाराणि हंसाहृतकुशूलैः {म्स्<हंसाहृतकशालैः>} परिपूर्णानि । यावद्राज्ञः प्रसेनजितः कोसलस्य ग्लान्यमुत्पन्नम्* । तेन वैद्या आहूय प्र्ष्टाः । ते कथयन्ति । देव यदि हंसाहृतशालिः संपद्यते तेन मण्डं साधयितुमर्हसि । पीत्वा स्वस्थो भविष्यसीति । राज्ञा अमात्या आहूय पृष्टाः । भवन्तो मया युष्माकं हंसाहृतानि शालिशीर्षाणि दत्तानि । तानि युष्माभिः किं कृतानि । तत्र केचित्कथयन्ति । देव अस्माभिर्देवकुले दत्तानीति । अपरे कथयन्ति । अस्माभिरग्नौ प्रक्षिप्तानि इति । अपरे कथयन्ति । अस्माभिर्द्वारशालायां बद्धानीति । मृगारः कथयति । देव मया विशाखाया दत्तानि । पृच्छामि तावत्तया किं कृतानीति । तेन विशाखा पृष्टा । सा कथयति । तात किं हंसाहृतशालिना प्रयोजनम्* । राज्ञो ग्लान्यमुत्पन्नम्* । वैद्यैर्हंसाहृता शालिर्व्यपदिष्टा । ततो विशाखया सौवर्णं भाजनं हंसाहृतस्य तण्डुलस्य <मण्डेन> पूरयित्वा राज्ञः प्रेषितम्* । राज्ञा परिभुक्तम्* । स्वस्थीभूतः ।
अपरेण समयेन जानपदैः राज्ञे बडवाद्वयं प्रेषितम्* । माता च दुहिता च । तत्र न कश्चिज्जानीते कतरा माता कतरा दुहिता इति । राज्ञा अमात्यानामाज्ञा दत्ता । भवन्तः सुविचारितं कृत्वा मम निवेदयत इति । अमात्याः सकलदिवसं विचारयन्तः खिन्नाः । न निर्लोडितम्* । मृगारश्चिरकाले गृहं गतः । विशाखा (म्स्विइ ६३) पादयोर्निपत्य कथयति । तात किमद्य चिरेणागतः । तेन यथावृत्तं विस्तरेण समाख्यातम्* । विशाखा कथयति । तात किमत्र ज्ञातव्यम्* । ताभ्यां योग्याशनं समं देयम्* । या दुहिता सा शीघ्रं भक्षयित्वा मातुः प्रत्यंशं भक्षयिष्यति । या माता अपरिपन्थिनी मुखं निक्षिप्य स्थास्यति । एतच्चिह्नमिति । मृगारेण अमात्यानां निवेदितम्* । तैरपि यथा समादिष्टा परीक्षा कृता । ततः प्रभातायां रजन्यां राज्ञे निवेदितम्* । देव (२५४ १ = ग्ब्म् ६.८२०) इयं माता इयं दुहिता इति । राजा कथयति । कथं युष्माभिः परिज्ञातम्* । देव एवं चैवं च । ह्यस्तनिके न परिज्ञातम्* । देव का शक्तिरस्माकं परिज्ञातुम्* । विशाखया एवं संदिष्टम्* । राजा कथयति । पण्डिता चाण्पेयिकेति ।
अन्यतमः पुरुषस्तीर्थे कम्बलं स्थापयित्वा स्नाति । अन्यतमश्च पुरुष आगतः । स तेन कम्बलेन शिरो वेष्टयित्वा तत्रैव स्नातुमारब्धः । स पुरुषः स्नात्वोत्थितो न पश्यति कम्बलम्* । पुरुषः कथयति । भोः पुरुष किं समन्वेषसे । कम्बलम्* । कुतस्तव कम्बलम्* । स्याद्यथाहं शिरो वेष्टयित्वावतीर्णस्तथा त्वमप्यवतीर्णः स्या इति । स कथयति । एष एवासौ मदीयः कम्बलः । त्वदीयो मदीय इति तयोर्विवादो जातः । तौ राज्ञः सकाशं गतौ । राज्ञा अमात्यानामाज्ञा दत्ता । भवन्तः परीक्षित्वा यस्य सन्तकस्तस्यानुप्रयच्छत (म्स्विइ ६४) इति । ते परीक्षितुमारब्धाः । एकः पृष्टः । स कथयति मदीय इति । अपरः पृष्टः । स कथयति मदीय इति । त्वदीयो मदीय इति दिवसोऽतिक्रान्तः । अमात्याः खिन्नाश्चिरकाले अनिर्लोडयित्वैव गृहं गताः । विशाखया मृगारः पूर्ववत्पृष्टः । तेन यथावृत्तमारोचितम्* । विशाखा कथयति । तात किमत्र ज्ञातव्यम्* । तौ वक्तव्यौ । एकोऽपि अर्धं गृह्णात्वपरोऽप्यर्धमिति । यस्य सन्तकः स वक्ष्यति । किमर्थं मदीयः कम्बलश्छिद्यते इति । यस्य न सन्तकः स संलक्षयिष्यत्यर्धमपि तावन्मे भवतु । कोऽत्र मम व्यय इत्येषात्र परीक्षा इति । मृगारेण गत्वा अमात्यानां निवेदितम्* । देव पूर्ववद्यावद्राजा कथयति । पण्डिता चाण्पेयिकेति ।
राज्ञो यानपात्रकेण वणिजा चन्दनगण्डीरकः प्रावृतोऽनुप्रेषितः । तस्य न विज्ञायते कतरदग्रं कतरन्मूलमिति । राजा अमात्यानामाज्ञा दत्ता । विचारयथ इति । तैः कृत्स्नं दिवसं विचारितम्* । न परिज्ञातम्* । चिरकाले गृहं गताः । विशाखया पूर्ववद्यावन्मृगारः पृष्टः । तेन यथावृत्तं विस्तरेण समाक्यातम्* । विशाखा कथयति । तात किमत्र ज्ञातव्यम्* । उदके प्रक्षेप्तव्यः । यन्मूलं तदधस्ताद्भवति । यदग्रं तदुपरिष्टाद्भवति । एषा तत्र परीक्षेति । मृगारेण अमात्यानां निवेदितम्* । पूर्ववद्यावद्राजा कथयति । पण्डिता चाण्पेयिकेति ।
(म्स्विइ ६५)
अन्यतमस्मिन् कर्वटके गृहपतिः । तेन सदृशात्कुलात्कलत्रमानीतम्* । तस्य न पुत्रो न दुहिता । तेन पुत्राभिनन्दिना द्वितीया पत्नी आनीता । तस्याः प्रथमपत्न्या ईर्य्षाप्रकृत्या योनिविनाशनप्रयोगो दत्तः । तस्याः सुतरां योनिर्विशुद्धा आपन्नसत्वा संवृत्ता । यावन्नवानां मासानामत्ययात्प्रसूता । दारको जातः । सा संलक्षयति । प्रतिक्रुष्टमेतद्वैराणां यदुत सापत्नकम्* । नियतमेनमपरा माता येन वा तेन वोपायेन घातयति । किं मम स्वामी करिष्यति । किं वा अहम्* । कियन्तं च कालं रक्षितव्यः । सर्वथा अस्या एव दातव्य इति तया स्वामिना सह संप्रधार्य लब्धानुज्ञया सा प्रथमपत्नी उक्ता । भगिनि तवैवैष पुत्रो दत्तो मया । संवर्धय एनमिति । सा संलक्षयति । यस्याः पुत्रस्तस्या गृहम्* । संवर्धयामि । गृहस्वामिनी भविष्यामीति । (२५४ १ = ग्ब्म् ६.८२१) स तया संवर्धितः । पिता चास्य कालगतः । तयोर्गृहनिमित्तं विवादो जातः । एका कथयति । ममैव पुत्रो द्वितीया कथयति ममैष पुत्र इति । ते राज्ञः सकाशं गते । राज्ञा अमात्यानामाज्ञा दत्ता । गच्छत भवन्तो विचारयथेति । तेषां विचारयतां दिवसोऽतिक्रान्तो न निर्लोडितम्* । चिरकाले गृहं गताः । विशाखा मृगारं पृच्छति । पूर्ववद्यावत्किमत्र ज्ञातव्यम्* । ते वक्तव्ये न वयं जानीमः कस्य पुत्र इति या युवयोर्बलवती सा गृहीत्वा गच्छतु । ते बाहुद्वयेन गृहीत्वा आकर्क्ष्यतः । स दुःख्यमानो (म्स्विइ ६६) रोदिष्यति । यास्य माता सा सानुनया प्रतिमोक्ष्यति । जीवन्तमपि तावदेनं द्रक्षामीति । सान्या निर्दया न प्रतिमोक्ष्यति । यदा कषाभिस्ताडिता भवति तदा यथाभूतं करिष्यति । इयमत्र परीक्षेति । मृगारेणामात्यानामेवं निवेदितम्* । पूर्ववद्यावद्राजा कथयति । पण्डिता चाण्पेयिकेति ।
अथापरेण समयेन मृगारो ग्लानिपतितः । तस्य वैद्य एकं दिवसं भैषज्यं ददाति पुनर्ग्लानो भवति । विशाखा संलक्षयति । किमर्थं तात एकस्मिन् दिवसे स्वस्थो भवति द्वितीये दिवसे पुनर्ग्लानो भवति । यैर्भैषज्यैः स्वस्थो भवति तानि निमित्तीकृतानि । ततस्तया वैद्यानां द्वारं धारयित्वा स्वयमेव चिकित्सा कृता । स्वस्थीभूतः । मृगारः संलक्षयति । कोऽत्र योगो येनाहमेकस्मिन् दिवसे स्वस्थो भवाम्येकस्मिन् ग्लानः । यदा वैद्यो न प्रविशति तदा नित्यमेव स्वस्थ इति । तेन विशाखा पृष्टा । पूर्ववद्यावत्पण्डिता चाण्पेयिका ।
राज्ञः प्रसेनजितः कोसलस्य श्रीवर्धनो नाम हस्तिविश्वासिकः । सोऽपरेण समयेन राज्ञा अवसादितः । विशाखया श्रुतम्* । तया मृगार उक्तः । तात सर्वेषाममात्यानामन्त्यमवसादनम्* । अर्हसि श्रीवर्धनस्य देवं क्षमयितुम्* । स कथयति । पुत्रि क्षमयामि । ततस्तेन राजाभिहितः । देव श्रीवर्धनो देवस्य भक्तः । क्षम्यताम् (म्स्विइ ६७) अस्येति । राजा कथयति । क्षान्तम्* । देव यदि क्षान्तं तान्यस्य वृत्तिपदानि दीयन्ताम्* । एवं भवतु । दत्तानि । श्रीवर्धनेन विज्ञातं यथा विशाखया मम राजा क्षमापित इति । स तस्याः प्रत्युपकारबुद्ध्या स्थितः । अपरेण समयेन मृगारस्य पुरुषव्याधिरुत्पन्नः । विशाखा अस्योपस्थानं करोति । स जिह्रेति । सा कथयति । तात किमर्थं जिह्रेषि । किं न दुहिता पितुरुपस्थानं करोति । तथाप्यसौ जिह्रेति । सा संलक्षयति । नायं ममान्तिकादुपस्थानं स्वीकरोति । दारसंग्रहमस्य करोमीति । सा श्रीवर्धनस्य गृहं गता । तेन स्वागतवादेन समुदाचरित्वा आसनं दत्तम्* । निषण्णा श्रीवर्धनस्य दुहिता । सा तेनोक्ता । दारिके विशाखापादयोः गृहाणेति । विशाखा कथयति । स्थानमेतद्विद्यते यन्मयैवैषा पादयोर्ग्रहीतव्या भवतीत्युक्त्वा कथयति । स्वस्ति सुते इति । श्रीवर्धनः कथयति । किं प्रार्थयसे । कन्याभिक्षाम्* । कस्यार्थाय । सा कथयति । तातस्य । स तूष्णीमवस्थितः । श्रीवर्धनस्य पत्नी कथयति । वृद्धः । कथं तस्य दीयत इति । विशाखा कथयति । धनयौवने हि पुरुषाः । किं विचारेण दीयतामिति । श्रीवर्धनः कथयति । भद्रे अस्माकं विशाखोपकारिणी । दीयताम्* । यद्येवं दत्ता भवतु । ततो (२५५ १ = ग्ब्म् ६.८२२) मृगारेण महता श्रीसमुदयेन परिणीता । सा तस्योपस्थानं कर्तुं प्रवृत्ता । विशाखा न तथा ।
मृगारः कथयति । पुत्रि वाचमनुप्रयच्छेति । सा कथयति । सा कथयति । तात मा किञ्चित्परिहीयते । पुत्रि यस्त्वं मात्रा (म्स्विइ ६८) शिक्षिता तन्न किञ्चित्समादाय वर्तसे । तात सर्वं समादाय वर्ते । यत्कथयति सूर्याचन्द्रमसौ नमस्याविति । दारिकायाः सूर्याचन्द्रमसःस्थानीयौ श्वश्रूश्वशुरौ । तानहं नमस्यामि । यत्कथयति अग्निः परिचर्तव्य इति । स्त्रिया भर्ताग्निस्थानीयः । भर्तुरासन्नया भवितव्यम्* । नातिदूरस्थया । साहं स्वामिनमग्निवत्परिचरामि । यत्कथयत्यादर्शो निर्मादयितव्य इति । तद्गृहमादर्शस्थानीयं नित्यमुपलेप्तव्यं संमार्ष्टव्यं च । तदहं गृहसंस्कारमनुदिवसं करोम्येव । यत्कथयति शुक्लानि वासांसि प्रावरितव्यानीति । अन्यैर्वस्त्रैर्गृहपरिकर्म कर्तव्यम्* । शुक्लानि वस्त्राणि प्रावृत्य देवशुश्रूषा कर्तव्या स्वाभिसंस्कारं चोपसंक्रम्यमिति । एतदप्यहं करोम्येव । यत्कथयति ग्रहीतव्यं न दातव्यमिति । किं ग्रहीतव्यम्* । लोकसकाशाद्दुरुक्तवचनानि । न च किञ्चिद्दुरुक्तं वचनीयम्* । एतदप्यहं समादाय वर्ते । यत्कथयति वाणी रक्षितव्येति । गुह्यवचनं न प्रकटीकर्तव्यम्* । तन्मे वाक्संयमोऽस्त्येव । यत्कथयति न कस्यचिदुत्थायासनं दातव्यमिति । एवं कथयति । त्वं कुलवधू त्वया प्रतिगुप्ते स्थाने निषेत्तव्यम्* । साहं प्रतिगुप्त एव निषीदामि । यत्कथयति मृष्टं भोक्तव्यमिति । सुबुभुक्षितया भोक्तव्यमिति । साहं नित्यं गृहजने भुक्ते बुभुक्षिता च भुंजे । यत्कथयति सुखं शयितव्यमिति । सर्वं गृहकार्यं कृत्वा रात्रौ भाण्डं प्रतिशाम्य शय्या ते कल्पयितव्या यथा (म्स्विइ ६९) न पुनरुत्तिष्ठसि इदं सुनिहितमिदं दुर्निहितमिति । तदहमेवमेव करोमि । यत्कथयति निःश्रेणी बद्धव्येति । एवं कथयति । त्वं पूर्वकैर्दशभिः कर्मपथैः समन्वागता येन देवगतिं प्राप्य इह मनुष्यलोके उपपन्ना । तदियं कर्मभूमिः । इहापि त्वया दानानि दातव्यानि पुण्यानि कर्तव्यानि पापं न करणीयम्* । एषापि पुण्यमयी निःश्रेणी स्वर्गसोपानभूतेति । एतदप्यहं शक्त्या संपादयामि । साधु साधु विशाखे । पण्डिता तव माता । त्वं तु पण्डिततरा यया मातुः सन्धाय भाषितं विज्ञातम्* ।
अथ मृगारस्यैतदभवत्* । यदि भगवाननुजानीयादहं विशाखां मातरं घोषयेयमिति विदित्वा येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तमिदमवोचत्* । लभ्यं भदन्त स्नुषां मातरं घोषयितुमिति । भगवानाह । सचेत्पंचभिर्धर्मैः समन्वागतो भवति । कतमैः पंचभिः । ग्लानमुपतिष्ठति । प्रतिरूपेषु दारेषु प्रतिष्ठापयति । जीवितेनाच्छादयति । धनं रक्षति । प्रज्ञया च संविधानं करोति ।
अन्तरोद्दानम्* ।
ग्लानोपस्थानं दारा च जीवितस्य धनस्य च ।
प्रज्ञया उपसंहर्षी पञ्चैता मातरः स्मृताः ॥
अथ मृगारो येन राजा प्रसेनजित्कोसलस्तेनोपसंक्रान्तः । उपसंक्रम्य राजानं प्रसेनजितं कोसलमिदमवोचत्* । इच्छाम्यहं (म्स्विइ ७०) देव विशाखां मातरमुद्घोषयितुम्* । राजा कथयति । ममापि विशाखयोपस्थानं कृतमहमप्यार्यकां पृष्ट्वा तां भगिनीम् (२५५ १ = ग्ब्म् ६.८२३) उद्घोषयामि । तेनार्यका पृष्टा । सा कथयति । उद्घोषय मा वा । भगिन्येवासौ । कथं कृत्वा । पुरानु ब्रह्मदत्तोऽस्य {एद्. <ब्रह्मत्तोऽस्य>; म्स्: <अराडब्रह्मदत्तस्य>; भ्स्द्स्.व्. <पुराण>} प्रेष्यदारिकया सार्धं संवासं गतः । तस्याः पुत्रो जातः । तस्य बलमित्र इति नाम कृतम्* । स वृद्धराजेन कस्मिंश्चिदेवाधिकरणे प्रवासितः । चण्पां गत्वावस्थितः । तस्यासौ दुहिता । तव भगिनी भवति । ततो राज्ञा हस्तिस्कन्धे आरोप्य उद्घोषिता । इयं विशाखा मृगारस्य माता । राज्ञः प्रसेनजितो भगिनीति । तया पूर्वारामे विहारं कारयित्वा चातुर्दिशाय भिक्षुसंघाय निर्यातितम्* । तथा स्थविरैरपि सूत्रान्त उपनिबद्धम्* । भगवान् श्रावस्त्यां विहरति पूर्वारामे मृगारमातुः प्रासाद इति ।
अपरेण समयेन विशाखा द्वात्रिंशदण्डानि प्रसूता । मृगारः श्रुत्वा करे कपोलं दत्वा चिन्तापरो व्यवस्थितः । जनपदकल्याणी कीदृशोऽनर्थः प्रादुर्भूत इति । मृगारस्तानि च्छोरयितुमारब्धः । विशाखा कथयति । तात मा च्छोरय । भगवतस्तावदारोचयेति । तेन भगवत आरोचितम्* । भगवानाह । मा च्छोरयेति । तद्द्वात्रिंशत्पुटं (म्स्विइ ७१) कच्छपुटं कारयित्वा कुलस्योपरि एकैकमण्डं प्रत्येकं पुटेषु स्थापयेति । विशाखां च वद । त्रिष्कालं पाणिना परामृष । सप्तमे दिवसे स्फुटिष्यन्ति । द्वात्रिंशत्कुमारा भविष्यन्तीति । तेन तथा कृतम्* । सप्तमे दिवसे स्फुटितानि । द्वात्रिंशत्कुमारा जाताः । उन्नीता वर्धिता महान्तः संवृत्ता व्याडविक्रान्ताः । अपरेण समयेन ते रथाभिरूढा बहिर्निर्गताः प्रविशन्ति । पुरोहितपुत्रश्च रथाभिरूढो निर्गच्छति । यावदन्योन्यधुरातुण्डो लग्नः । पुरोहितपुत्रः कथयति । अपनयतेति । तेऽपि कथयन्ति । त्वमेवापनयेति । पुरोहितपुत्रोऽहमिति पुरुषं वक्तुमारब्धः । ततो विशाखापुत्रैः धुरातुण्डकेन गृहीत्वा क्षिप्तः । संकारकूटे पतितः । स भस्मावगुण्ठितशिराः पितुः सकाशं गतः । अश्रुपर्याकुलेक्षणः कथयति । तात विशाखापुत्रैर्मम ईदृशी समवस्था कृतेति । पुत्र किमर्थम्* । तेन विस्तरेण समाख्यातम्* । स कथयति । पुत्र यद्येवं क्रमघात्यास्ते । मा शोकं कुरु । उपायसंविधानं करिष्यामि । स तेषां रन्ध्रान्वेषणतत्परो व्यवस्थितः । अपरेण समयेन राज्ञः प्रसेनजितः कोसलस्य कार्वटिको विरुद्धः । तस्य राज्ञा एकं दण्डस्थानं प्रेषितम्* । हतप्रहतमागतम्* । एवं यावत्सप्तदण्डस्थानानि हतप्रत्याहतानि । राजा स्वयमेव चतुरंगेण बलकायेन निर्गच्छति । (म्स्विइ ७२) विशाखापुत्राश्च प्रविशन्ति । तैरसौ दृष्ट उक्तश्च । देवः संप्रस्थित कार्वटिकां सन्नामयितुमिति । तिष्ठतु देव । वयं गच्छामः । एवं कुरुथेति । तेन तेषां चतुरङ्गो बलकायो दत्तस्तैर्गत्वासौ कार्वटिकः सन्नामितः । वन्दिग्रहकरप्रात्यायांश्च गृहीत्वा आगताः । पुरोहितः कथयति । देव एते अतीव विक्रान्ताः । यद्देवस्य कृच्छ्रसाध्यं तदेषामल्पसाध्यम्* । देवेनैतच्चिन्तनीयमिति । काकशंकिनो हि राजानः । <तत्*> हृदि कृत्वा व्यवस्थितः । पुनः (२५६ १ = ग्ब्म् ६.८२४) पुरोहितं पृच्छति । कथमत्र प्रतिपत्तव्यम्* । स कथयति । देव किमत्र प्रतिपत्तव्यम्* । यद्येषामभिरुचितं देवं राज्याच्च्यावयित्वा स्वयमेव राज्यं कारयन्ति । राजा सुतरां खिन्नः संलक्षयति । स्यादेवम्* । कथं घातयितव्य इत्युपायसंविधानं चिन्तयति । न कंचित्पृच्छति । मा मन्त्रस्रावो भविष्यतीति स्वयमेवास्य विचारयतो बुद्धिरुत्पन्ना । इहैवोपनिमन्त्र्य घातयितव्या इति । तेन विशाखाया सन्दिष्टम्* । भागिनेयैश्च इह भोक्तव्यमिति । सा संलक्षयति । श्वो दारका मातुलस्य सकाशे भोक्ष्यन्ते । अहमपि बुद्धप्रमुखं भिक्षुसंघं भोजयामीति विदित्वा येन भगवांस्तेनोपसंक्रान्ता । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णा । एकान्तनिषण्णां विशाखां मृगारमातरं भगवान् धर्म्यया कथया पूर्ववद्यावत्संप्रहर्ष्य तूष्णीं<भूतः> । अथ विशाखा मृगारमाता उत्थायासनाद्येन भगवांस्तेनांजलिं प्रणम्य भगवन्तम् (म्स्विइ ७३) इदमवोचत्* । अधिवासयतु मे भगवान् पूर्ववद्यावत्पुरस्ताद्भिक्षुसंघस्य । प्रज्ञप्त एवासने निषण्णा । तेषां च राज्ञः सकाशाद्दूत आगतः । दारका आगच्छन्त्विति । ततो राज्ञा हालाहलेन विषेण च सहयोगेन विह्वलीकृताः । शिरांसि छिन्नानि । ततः पेडां पूरयित्वा ज्येष्ठपुत्रस्य शिर उपरि दत्वा जतुमुद्रया लक्षयित्वा विशाखायाः प्रेषिताः । विशाखा संलक्षयति । नूनं देवेन भागिनेयानामाच्छादनं प्रेषितम्* । अहमपि बुद्धप्रमुखं भिक्षुसंघमाच्छादयामीति । ततः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना
प्रणीतेन खादनीयभोजनीयेन पूर्ववद्यावद्भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रं पेडामुद्धाटयितुमारब्धा । भगवान् संलक्षयति । सचेद्विशाखा अदृष्टसत्या पुत्रबधं द्रक्ष्यति स्थानमेतद्विद्यते यत्सत्यानामभाजनीभविष्यतीति विदित्वा विशाखामाह । निषीद तावद्धर्मं शृणु । पश्चाद्यथाभिप्रेतं करिष्यसीति । सा भगवतः पादाभिवन्दनं कृत्वा पुरस्तान्निषण्णा धर्मश्रवणाय । ततो भगवता तस्या आशयानुशयं धातुं प्रकृतिं च जात्वा पूर्ववद्यावत्सत्यदर्शनं कृतम्* । ततो दृष्टसत्या सा पेडामुद्धाटित्वा पश्यति पुत्रशिरांसि । ततः कथयति । भगवनेवमनित्याः सर्वसंस्कारा इति । तत्र भगवान् भिक्षूनामन्त्रयते स्म । हंभो भिक्षवो राजा प्रसेनजित्कोसलो येन विशाखायाः पुत्राः प्रघातिताः । ते चेन्न (म्स्विइ ७४) प्रघातिताः स्युः । एभिरेव सहायैः कृत्स्ना तेन वसुमती करतले स्थापिता स्यादिति ।
अथ राजा प्रसेनजित्कोसलो रजसावचूर्णितगात्रो येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्तनिषण्णं राजानं प्रसेनजितं कोसलं भगवानिदमवोचत्* । कुतस्त्वं महाराजैतर्ह्यागच्छसि रजसावचूर्णितगात्रः । यानि तानि भदन्त राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां जनपदैश्वर्यस्था<म>वीर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्याध्यावसतां (२५६ १ = ग्ब्म् ६.८२५) पृथग्भवन्ति राजकृत्यानि राजकरणीयानि तान्यहं कृत्वा परिप्राप्य एतर्ह्यागच्छामि रजसावचूर्णितगात्रः । तेन हि महाराज त्वामेव प्रक्ष्यामि । यथा ते क्षमते तथैनं व्याकुरु । तद्यथा महाराज इह ते पूर्वस्यां दिशि पुरुष आगच्छेच्छ्रद्धितः प्रत्ययितः स्थेय अविसंवादितो लोकस्य । स एवं वदेत् । ततोऽहं तवैतर्ह्यगच्छामि पूर्वस्यां दिशि । सोऽहं तत्राप्राक्षम्* । महाशैलं पर्वतमखण्डमछिद्रमसुषिरं सुसंवृत्तमेकघनं यावच्च पृथिवी यावच्च नभोऽत्रान्तरे सर्वान् सत्वान् सर्वान् प्राणिनः सर्वाणि भूतानि सर्वं च तृणकाष्ठशाखापर्णशदम् (म्स्विइ ७५) अभिनिष्पेषयन्नागच्छति {म्स्: अभिनिष्पीषं नागच्छन्ति} । यत्ते देव कृत्यं वा करणीयं वा तत्कुरुष्वेति । एवं दक्षिणस्यां पश्चिमायामुत्तरस्यां दिशि पुरुष आगच्छेत्* । पूर्ववद्यत्कृत्यं वा करणीयं वा तत्कुरुष्वेति । एवं भूपते महाराज महति महाभये प्रत्युपस्थिते दारुणे पुरुषसंक्षये दुर्लभे मनुष्यप्रतिलंभे किं स्यात्करणीयम्* । एवं रूपे मे भदन्त महति महाभये प्रत्युपस्थिते दारुणे पुरुषसंक्षये दुर्लभे मनुष्यप्रतिलंभे किं स्यात्करणीयं नान्यत्रार्थचर्यायां धर्मचर्यायां पुण्यचर्यायां कुशलचर्यायां कल्याणचर्यायां बुद्धानां च शासने योगमापत्तुम्* । कस्मात्त्वं महाराज एवं वदसि । एवं रूपे मे महति महाभये पूर्ववद्यावद्बुद्धानां शासने योगमापत्तुमिति । यानि तानि भदन्त राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां जनपदैश्चर्यस्था<म>वीर्यमनुप्राप्तानां महान्तं पृथिवीमण्डलमभिनिर्जित्याध्यावसतां पृथग्भवन्ति हस्तिभिर्हस्तियुद्धान्यश्वैरश्वयुद्धानि रथै रथयुद्धानि पत्तिभिः पत्तियुद्धानि मन्त्रैर्मन्त्रयुद्धानि धनैर्धनयुद्धानि । तानि तेषां तस्मिन् समये अस्थामान्यबलान्यपराक्रमाणि युद्धाय । तस्मादहमेवं वदामि । एवं रूपे मे भदन्त महति महाभये प्रत्युपस्थिते पूर्ववद्यावद्बुद्धानां (म्स्विइ ७६) शासने योगमापत्तुमिति । एवमेव महाराज सततसमितमभिमर्दत एव प्राणिनो जरामरणम्* । एवं जरामरणाभिमर्दनेन महाराज पुरुषपुद्गलेन किञ्चित्स्यात्करणीयं नान्यत्रार्थचर्यायाः पूर्ववद्यावद्बुद्धानां शासने योगमापत्तुमिति विदित्वा तस्यां वेलायां गाथां भाषते ।
यथा महान्तो विपुला नभ आसाद्य पर्वताः
महान्तादनुसंयान्ति निष्पीषन्तो वसुन्धराम्* ।
न तत्र हस्तिनां भूमिर्न पत्तिरथवाजिनाम्*
न चापि मन्त्रयुद्धेन जयो लभ्यो धनेन वा ॥
एवं जरा च मृत्युश्च मनुष्यानभिमर्दति ।
क्षत्रियान् ब्राह्मणान् वैश्याञ्छूद्रांश्चण्डालपुक्वसान्* ।
दुःशीलाञ्छीलसंयुक्तान् गृहस्थान् गृहिणस्तथा ।
दहरांश्चैव वृद्धांश्च तथा मध्यमपौरुषान्* ॥
विमर्दयति सर्वान् हि न किञ्चिदनुरक्षति ।
तस्माद्धि पण्डितः पोषः संपश्यन्नर्थमात्मनः ।
बुद्धे निवेशयेच्छ्रद्धां धर्मे संघे चाप्यनुत्तरे ॥
स धर्मचारी कायेन वाचा वाप्यथ चेतसा ।
इह चानिन्दितो भवति प्रेत्य स्वर्गो च मोदते ॥
(म्स्विइ ७७)
अथ राजा प्रसेनजित्कोसलो भगवतो भाषितमभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वोत्थायासनात्प्रक्रान्तः ।
भिक्षवो संशयजाताः (२५७ १ = ग्ब्म् ६.८२६) सर्वसंशयछेत्तारं बुद्धं भगवन्तं पप्रच्छुः । किं भदन्त विशाखया मृगारमात्रा कर्म कृतम्* । यस्य कर्मणो विपाकेन द्वात्रिंशदण्डाः प्रसूताः । तेन द्वात्रिंशत्पुत्रा जाता व्याडा विक्रान्ताः संवृत्ता इति । भगवानाह प्रणिधानवशात्* । कुत्र प्रणिधानं कृतम्* ।
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यामन्यतमो गृहपतिपुत्रः कालगतः । तस्य सा पत्नी नित्यं पुत्राभिनन्दिनी । यदा भगवान् काश्यपः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयादिवाग्निर्निरुपाधिशेषे निर्वाणधातौ परिनिर्वृतः । तस्मिंश्च समये वाराणस्यां कृकिर्नाम राजा बभूव । तेन भगवतः काश्यपस्य सम्यक्संबुद्धस्य चतूरत्नमयस्तूपः प्रतिष्ठापितः । तत्र या सा अपुत्रा युवतिः पुत्राभिनन्दिनी सा वृद्धा संवृत्ता । तस्मिन् स्तूपे परिकर्म कृत्वा तिष्ठति । तया छन्दकभिक्षणं कृत्वा तस्मिन् स्तूपे पूजा कृता प्रणिधानं च । यन्मया भगवतः काश्यपस्य सम्यक्संबुद्धस्य <सत्>काराः कृताः । अनेन मम कुशलमूलेन बहवः पुत्रा भवेयुरिति कृत्वा प्रक्रान्ता नगरं प्रविष्टा । तत्रान्यतरा स्त्री प्रसूयमाना दुःखवेदनाभ्याहता विरौति । तया अपरा पृष्टा । किमर्थमेषा विरौति । तया यथावृत्तमारोचितम्* । सा संलक्षयति । (म्स्विइ ७८) यद्यहं प्रसूता भवेयमहमप्येवंविधं दुःखमनुभवेयम्* । यावत्पुनरपि द्वात्रिंशता गोष्ठिकैस्तस्मिन् स्तूपे पूजा कृता । सा युवतिस्तत्र सन्निहितैव । पूजां कृत्वा प्रणिधानं कृतम्* । अनेन वयं कुशलमूलेन महान्तोऽग्रबलिनः स्याम । ते तया पृष्टाः । पुत्राः किं युष्माभिः प्रणिधानं कृतम्* । ते कथयन्ति अम्ब इदं चेदं च । सा कथयति । पुत्राः यद्येवमहमेव युष्माकं माता भवेयम्* । ते कथयन्ति । अम्ब एवं भवत्विति । इत्युक्त्वा ते प्रक्रान्ताः । सा संलक्षयति । सा तावत्स्त्री एकवारं प्रसूयमाना दुःखवेदनाभ्याहता तथा विरौति अहं पुनर्द्वात्रिंशद्वारान् प्रसूयमाना कथं करिष्यामि इति । सा चैवं विकल्पयति । स्तूपसमीपे कुक्कुटी प्रसूता । सा मुहूर्तमात्रेण द्वात्रिंशदण्डानि प्रसुता न च विरौति । सा संलक्षयति । अयं शोभनप्रसवनोपाय इति विदित्वा तस्मिन् स्तूपे तीव्रेण प्रसादेन निपत्य प्रणिधानं कर्तुमारब्धा यथेयं कुक्कुटी मुहूर्तमात्रेण द्वात्रिंशदण्डानि प्रसूता एवमेव अहमपि सकृद्द्वात्रिंशदण्डानि प्रसूयेयेति ।
किं मन्यध्वे भिक्षवः । या सा वृद्धा युवतिरेषैव सा विशाखा । तेन कालेन तेन समयेन ये ते द्वात्रिंशद्गोष्ठिका एत एव ते द्वात्रिंशद्विशाखापुत्राः । यदनया तत्र प्रणिधानं कृतं तस्य कर्मणो विपाकेन द्वात्रिंशदण्डानि प्रसूतानि ।
किं भदन्त विशाखापुत्रैः कर्म कृतं यस्य कर्मणो विपाकेन अदूष्यनपकारिणो राज्ञा प्रसेनजिता प्रघातिताः । तेषां च शिरांसि (म्स्विइ ७९) पेडायां प्रक्षिप्य विशाखाया उपनामितानि । भगवानाह । एभिरेव भिक्षवः कर्माणि कृतान्युपचितानि पूर्ववद्यावत्फलन्ति खलु देहिनाम्* ।
भूतपूर्वं भिक्षवोऽन्यतमस्मिन् कर्वटके शौण्डिकः प्रतिवसति । संबहुलाश्(२५७ १ = ग्ब्म् ६.८२७) चौरा मद्यं पर्येषमाणाः तस्य सकाशमुपसंक्रान्ताः । अस्ति मद्यमिति पृच्छन्ति । शौण्डिकपत्न्याभिहिता अस्तीति । तेषां मद्यं दत्तम्* । अवद्रगो नास्ति । तया वृषो दर्शितः । एतं प्रघातयत । ते कथयन्ति । शस्त्रं नास्ति । तया बन्धकं गृहीतम्* । शस्त्रं दत्तम्* । ते तं प्रघातयितुमारब्धाः । स हन्यमानश्चेतनां पुष्णाति । यदहं घात्ये तत्सर्वमनया शौण्डिकपत्न्या । तत्रोपपद्येऽहं यत्रैषां शिरांसि छित्वा पेडायां पूरयित्वा एतस्यां प्रेषयेयमिति ।
किं मन्यध्वे भिक्षवः । योऽसौ वृष एष एवासौ राजा प्रसेनजित्कोसलः तेन कालेन तेन समयेन । ये ते चौरा एत एव ते विशाखापुत्राः । या सा शौण्डिकपत्नी एषैव सा विशाखा तेन कालेन तेन समयेन <इति> विस्तरः ।
बुद्धो भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे । तेन खलु समयेन पञ्चाभिज्ञस्य ऋषेराश्रमपदम्* । तेन तस्मिन् पर्यटता आश्रमपदस्य नातिदूरे चिरंखले भूप्रदेशे प्रस्रावः कृतः । दैवयोगात्तृषार्ता मृगी तं प्रदेशमनुप्राप्ता । तयासौ तृष्णार्तया पीतः (म्स्विइ ८०) स्त्रीन्द्रियं च घ्रातम्* । अचिन्त्यः सत्वानां कर्मविपाकः । आपन्नसत्वा संवृत्ता । यावदपरेण समयेन तस्मिन्नेव प्रदेशे आगत्य प्रसूता । दारको जातः । सा तं घ्रात्वा विसभागसत्व इति छोरयित्वा प्रक्रान्ता । यावत्तेन ऋषिणा तदाश्रमं पर्यटता स दारको दृष्टः । स समन्वाहर्तुं प्रवृत्तः कस्यायं पुत्र इति । यावत्पश्यत्यात्मानम्* । तेनासौ आश्रमपदं प्रवेशित आपायितः पोषितः संवर्धितः । तस्य मृगस्य यादृशं शिर इति मृगशिरो मृगशिर इति संज्ञा संवृत्ता । अपरेण समयेन स ऋषिः कालगतः । मृगशिरसा कपालाकोटनी विद्या शिक्षिता । स कपालमाकोट्य सर्वं व्याकरोति । यदि तावत्खंखटस्वरो भवति ऊर्ध्वगामी भवति देवोपपत्तिं व्याकरोति । अथ मध्यो भवति ऊर्ध्वगामी भवति मनुष्योपपत्तिं व्याकरोति । एतत्सुगतिनिमित्तम्* । <अथ> दुर्गतिनिमित्तम्* । यदि तावद्गद्गदस्वरो भवति अधोगामी भवति नरकोपपत्तिं व्याकरोति । अथ मध्यस्वरो भवति अधोगामी भवति तिर्यगुपपत्तिम् । अथ मृदुस्वरोऽधोगामी भवति प्रेतोपपत्तिम्* ।
ततो भगवता तस्य विनयकालं ज्ञात्वा आयुष्मानानन्द उक्तः । गच्छानन्द चत्वारि शिरांस्याधाय स्रोतआपन्नस्य सकृदागामिनोऽनागामिनोऽर्हतश्चेति । एवं भदन्तेत्ययुष्मानानन्दो भगवतः प्रतिश्रुतः । चत्वारि शिरांस्याधाय तस्य ऋषेः सकाशं गतः । व्याकुरुष्वेति । स स्रोतआपन्नस्येति कपालमाकोट्य कथयत्ययं देवेषूपपन्नः । सकृदागामिनोऽप्येवमेव । अनागामिनोऽप्येवमेव । अर्हतः कपालम् (म्स्विइ ८१) आकोत्य विषयं न जानाति न विजानाति । तस्यैतदभवत्* ।
भ्रष्टोऽस्मि तस्मादुपदेशतः किमथवा न चार्यकुले प्रसूतः ।
किं वा निमित्तानि न तादृशानि येनास्य न जानामि तं हि प्रचारम्* ।
आयुष्मानानन्दः कथयति ।
न सर्वविद्यासु कृतश्रमस्त्वं येनास्य जानासि तं हि प्रचारम्* ।
अधीष्व तावन्निखिलां विद्यां लोकस्य पश्चाद्व्यपदेक्ष्यसि त्वमिति ।
मृगशिराः (२५८ १ = ग्ब्म् ६.८२८) कथयति । अस्ति कश्चि<त्> त्वया सर्वविद्यासु कृतावी दृष्टः । स कथयति । अस्ति । तथागतोऽर्हत्सम्यक्संबुद्धः सर्वविद्यायां पारंगतः । अथ मृगशिरा येन बहगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवन्तमिदमवोचत्* ।
तिर्यक्प्रेतमनुष्यदेवनिरये जानासि जन्तोर्गतिम्*
शिष्टं नोपलभे च सत्वचरितं विद्यापराधे सति ।
आचक्ष्व त्रिभवार्णवस्य महतो विस्तीर्णपारं प्रभो
किं तत्सर्वपरप्रवादिविजय शिष्टं न विज्ञायते ॥ इति ॥
भगवानाह ।
अयोघनहतस्यैव ज्वलतो जातवेदसः
अनुपूर्वोपशान्तस्य यथा न ज्ञायते गतिः ।{च्f. उव्३०.३५}
(म्स्विइ ८२)
तथा सम्यग्विमुक्तानां कामपङ्कौघतारिणाम्*
प्रज्ञप्तं वा गतिर्नास्ति प्राप्तानामचलं पदम्* ॥ इति ॥
एवमुक्ते मृगशिरा भगवन्तमिदमवोचत्* । लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यामुपसंपदं भिक्षुभावं चरेयमहं भगवतोऽन्तिके ब्रह्मचर्यमिति । ततो भगवता प्रव्राजित उपसंपादितः । प्रव्राज्योपसंपाद्य यथाभिरम्यं राजगृहे विहृत्य येन श्रावस्ती तेन चारिकां प्रक्रान्तः । अनुपूर्वेण चारिकां चरन् श्रावस्तीमनुप्राप्तः । श्रावस्त्यां विहरति पूर्वारामे मृगारमतुः प्रासादे । अभ्यवकाशे चंक्रम्यमाणेन नक्षत्राणि विपरीतानि दृष्टानि । दृष्ट्वा च पुनरायुष्मन्तं मृगशिर<स>मामन्त्रयते । समन्वाहर मृगशिरः कियच्चिरेण देवो वर्षिष्यतीति । स कथयति । नष्टोऽयं भदन्त लोकः प्रनष्टोऽयम्* । यथा नक्षत्राणि व्यवस्थितानि द्वादशभिर्वर्षैः । भगवता नक्षत्राणि समान्यधिष्ठायोक्तोः । पुनर्जानीष्वेति । स कथयति । षड्भिर्वर्षैरेवम्* । भगवता पुनः पर्यनुयुक्तो ब्रवीति । पंचभिर्वर्षैः । एवं यावत्सप्तभिर्दिवसैरिति । तत्र भगवान् भिक्षूनामन्त्रयते स्म । शयनासनं भिक्षवश्छन्ने गोपयत । अद्यैव शलभसंनिपातेन देवो वर्षिष्यति । तत्र ये स्नास्यन्ति तेषामुत्पादगण्डपिटकानि न (म्स्विइ ८३) भविष्यन्तीति । इति हि मृगशिरो नक्षत्राणि चपलानि चंचलान्यनवस्थायीनि । जीवितमपि चंचलमनवस्थितमित्येवमुक्तः । मृगशिरा भगवतोऽभिप्रसन्नः । तथाभिप्रसन्नेन चार्हत्वं साक्षात्कृतम्* । ततो विमुक्तिप्रीतिसुखसंवेदी गाथा भाषते ।
गतिर्मृगाणां पवनमाकाशं पक्षिणां गतिः ।
गतिर्विरागिणां धर्मो निर्वाणं गतिरर्हताम्* ॥ इति ॥
अश्रौषीद्विशाखा मृगारमाता भगवान् कोसलेषु जन्पदेषु चारिकां चरन् श्रावस्तीमनुप्राप्तः श्रावस्त्यां विहरत्यस्माकमेवाराम इति । श्रुत्वा च पुनर्येन भगवांस्तेनोपसंक्रान्ता । (२५८ १ = ग्ब्म् ६.८२९) उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णा । एकान्तनिषण्णां विशाखां मृगारमातरं भगवान् धर्म्यया कथया संदर्शयति पूर्ववद्यावत्संप्रहर्ष्य तूष्णीम्* । अथ विशाखा मृगारमाता उत्थायासनाद्येन भगवांस्तेनांजलिं प्रणम्य भगवन्तमिदमवोचत्* । अधिवासयतु मे भगवां श्वोऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेति । अधिवासयति भगवान् पूर्ववद्यावदुदकमणिं प्रतिष्ठाप्य । भगवतः प्रेष्यदारिकया कालारोचिकया कलामारोचयति । यावदसौ प्रेष्यदारिका पूर्वारामं गत्वा पश्यति भिक्षून् कवाटविवरेण नग्नान् स्नायिनः । दृष्ट्वा च पुनः संलक्षयति । नूनमार्यकाः प्रक्रान्ताः एभिः पुत्रमोटिकापुत्रैराजीविकैरयं विहारोऽवष्टब्ध इति । सा (म्स्विइ ८४) त्वरितत्वरितमागत्य कथयति । यत्खल्वार्ये जानीया आर्याः प्रक्रान्ताः । पुत्रमोटिकापुत्रैराजीवकैरसौ विहारोऽवष्टब्ध इति । विशाखा संलक्षयति । अस्थानमनवकाशो यद्भगवानधिवास्याभुक्त्वा प्रक्रमिष्यति । नूनमनया भिक्षवो विनग्ना दृष्टा इति । तयान्यः कालारोचकः पुरुषः प्रेषितः । समयो भदन्त सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यत इति पूर्ववद्यावद्भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रम्* । वृद्धान्ते निषद्य भगवन्तमिदमवोचत्* । इच्छाम्यहं भदन्त अष्टौ महादानानि प्रज्ञापयितुम्* । आगन्तुके दानं गमिके दानं ग्लाने दानं ग्लानोपस्थायिके दानं ध्रुवं यवागुं ध्रुवं भैषज्यं भिक्षूणां वर्षाशाटीचीवरं भिक्षुणीनां चोदकशाटिकामिति । भगवानाह । किं पुनस्तद्विशाखे आनुशंसं समनुपश्यन्ती आगन्तुके दानं ददासि । आगन्तुको भदन्त भिक्षुर्न गोचरकुशलो भवति न वीथीकुशलः । स मदीयं पिण्डपातं परिभुज्य गोचरकुशलो भविष्यति । वीथीकुशलश्च । साधु साधु विशाखे गतमेतत्* । किमर्थं समनुपश्यन्ती गमिकदानं ददासि । गमिको भदन्त भिक्षुः पिण्डपातं पर्येषमाणः सार्थात्परिभृश्यते । यूथपरिभृष्टो विहन्यते । स मदीयं पिण्डपातं परिभुज्य सार्थान्न परिभृश्यते । नापि यूथपरिभृष्टो विहन्यते । साधु साधु विशाखे एतदपि गतम्* । किमर्थवशं समनुपश्यन्ती ग्लाने दानं ददासि । ग्लानो भदन्त भिक्षुः पिण्डपातं (म्स्विइ ८५) पर्येषमाणः क्लामेद्वा कालं वा कुर्यात्* । स मदीयं पिण्डपातं परिभुज्य ग्लान्यादुत्थास्यति सुखस्पर्शं विहरिष्यति । साधु साधु विशाखे एतदपि गतम्* । किमर्थवशं समनुपश्यन्ती (२५९ १ = ग्ब्म् ६.८३०) ग्लानोपस्थायिको दानं ददासि । ग्लानोपस्थायिको भदन्त भिक्षुरात्मार्थं पिण्डकं पर्येषमाणो ग्लानस्य कृत्यं हापयति । स मदीयं पिण्डपातं परिभुज्य संपादयिष्यति । साधु साधु विशाखे एतदपि गतम्* । किमर्थवशं समनुपश्यन्ती संघे ध्रुवयवागुं ददासि । सन्ति भदन्त भगवतः श्रावका दीप्ताग्नयो मन्दाग्नयश्च । तत्र ये मन्दाग्नयस्तेषामग्निसंरक्षणं ये तु दीप्ताग्नयस्तेषां बलोपचयः । साधु साधु विशाखे । एतदपि गतम्* । किमर्थवशं समनुपश्यन्ती संघे ध्रुवभैषज्यं ददासि । सन्ति भदन्त भगवतः श्रावका बह्वाबाधाः <स्वल्पाबाधाश्च> । तत्र ये बह्वाबाधास्तेषां कृतमेव तावत्* । ये त्वल्पाबाधास्ते परिभुज्य भूयस्या मात्रया सुखस्पर्शं विहरिष्यन्ति । साधु साधु विशाखे एतदपि गतम्* । किमर्थवशं समनुपश्यन्ती भिक्षूणां वर्षाशाटीचीवरं ददासि । अद्यैव मया भदन्त प्रेष्यदारिका कालारोचिका प्रेषिता । तया भिक्षवो दृष्टा नग्नाः स्नातुम्* । सा मे आगत्य कथयति । आर्यकाः प्रक्रान्ताः पुत्रमोटिकापुत्रैराजीविकैर्विहारोऽवष्टब्ध इति । ते मदीयेन वर्षाशाटीचीवरेण गुप्ताः स्नास्यन्ति । साधु साधु विशाखे एतदपि गतम्* । किमर्थवशं समनुपश्यन्ती भिक्षुणीनाम्
उदकशाटिकां ददासि । एकोऽयं भदन्त समयः संबहुलाश्च भिक्षुण्योऽजिरवत्यां नग्नाः स्नान्ति । (म्स्विइ ८६) ता गृहिण्यो विपुष्प्य विपुष्प्य भिक्षुणीनामङ्गुल्यग्रेण गुह्यस्थानान्युपदर्शयन्ति । ताः उपदर्श्यमानाः मद्गुवो भवन्ति । मदीयया तु उदकशाटिकया ता गुप्ताः स्नास्यन्ति । साधु साधु विशाखे यानि त्वया अष्टौ पुण्यक्रियावस्तूनि समाख्यातानि संदृश्यन्ते एतानि । सप्तस्वौपधिके<षु> पुण्यक्रियावस्तुष्वन्तर्गतान्येतानि । सप्तस्वौपधिकेषु पुण्यक्रियावस्तुषु <न> लभ्यं पुण्यस्य प्रमाणमुद्ग्रहीतुमेतावत्पुण्यं वा पुण्यफलं वा पुण्यफलविपाको वेति । अपि तु बहुत्वात्पुण्यस्य महापुण्यः पुण्यस्कन्ध इति संख्यां गच्छति ।
इदं चाहं भदन्त श्रोष्यामि । अमुको भिक्षुः स भगवता प्रतिपद्येव व्याकृताः । एषोऽपि भिक्षुस्त्रयाणां संयोजनानां प्रहाणात्स्रोतआपन्नो भवत्यविनिपातधर्मो नियतं संबोधिपरायणः सप्तकृत्वो भवपरमाः सप्तकृत्वो देवांश्च मनुष्यांश्च संधाय्य संसृत्य दुःखस्यान्तं करिष्यतीति । स कदाचित्श्रावस्तीमागमिष्यति पुनश्च गमिष्यति । स मदीयमागन्तुकभक्तं पूर्ववद्यावद्वर्षाशाटीचीवरं परिभोक्ष्यति । भिक्षुणी च यावदुदकशाटिकामिति । श्रुत्वा च पुनरधिगमिष्यामि प्रीतिप्रामोद्यमुदारं कुशलं नैष्क्रम्योपसंहितम्* । (२५९ १ = ग्ब्म् ६.८३१) अमुको भिक्षुः (म्स्विइ ८७) भगवता व्याकृतः । एष भिक्षुस्त्रयाणां संयोजनानां प्रहाणाद्रागद्वेषमोहानां च तनुत्वात्सकृदागामी भविष्यति । सकृदिमं लोकमागत्य दुःखस्यान्तं करिष्यतीति । सोऽपि कदाचित्* श्रावस्तीमागमिष्यति । स मदीयमागन्तुकभक्तं पूर्ववद्यावत्* वर्षाशाटीचीवरं भिक्षुणी चोदकशाटिकामिति । श्रुत्वा च पुनरधिगमिष्यामि प्रीतिप्रामोद्यमुदारं कुशलं नैष्क्रम्योपसंहितम्* । अमुको भिक्षुः स भगवता व्याकृतः । एष भिक्षुः पंचानामवरभागीयानां संयोजनानां प्रहाणादनागामी । भविष्यत्यनागन्ता पुनरिमं लोकमिति । सोऽपि कदाचित्* श्रावस्तीमागमिष्यति पुनश्च गमिष्यति । स मदीयमागन्तुकभक्तं पूर्ववद्यावद्वर्षाशाटीचीवरं भिक्षुणी चोदकशाटिकामिति । श्रुत्वा च पुनरधिगमिष्यामि प्रीतिप्रामोद्यमुदारं कुशलं नैष्क्रम्योपसंहितम्* । अमुको भिक्षुः स भगवता व्याकृतः । एष भिक्षुः सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृत्वा निरुपधिशेषे निर्वाणधातौ प्रवेक्ष्यतीति । सोऽपि कदाचित्* श्रावस्तीमागमिष्यति पुनश्च गमिष्यति । स मदीयमागन्तुकभक्तं पूर्ववद्यावद्वर्षाशाटीचीवरं भिक्षुणी चोदकशाटिकामिति । श्रुत्वा च पुनरधिगमिष्यामि प्रीतिप्रामोद्यमुदारं कुशलं नैष्क्रम्योपसंहितम्* । अथ भगवान् विशाखां मृगारमातरं धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात्प्रक्रान्तः ।
अथ भगवान् यथाभिरम्य श्रावस्त्यां विहरति । येन वैशाली तेन चारिकां प्रक्रान्तः । अनुपूर्वेण चारिकां चरन् वैशालीमनुप्राप्तः । वैशाल्यां विहरति मर्कटह्रदतीरे कूटागारशालायाम्* । अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय वैशालीं पिण्डाय प्राविक्षत्* (म्स्विइ ८८) तेन खलु समयेन संबहुला भिक्षव आरामद्वारे अशुचिम्रक्षितानि शयनासनानि शोचयन्त्यातापयन्ति प्रविषजन्ति । अद्राक्षीद्भगवान् संबहुलान् भिक्षूनारामद्वारे अशुचिम्रक्षितानि शयनासनानि शोचयत आतपयतः प्रविषजतः । दृष्ट्वा च पुनरस्यैतदभवत्* । यदपि श्राद्धा ब्राह्मणगृहपतयः प्रपीड्य प्रपीड्य त्वङ्मांसशोणितं दानानि ददति पुण्यानि कुर्वन्ति तदपि भिक्षवो मात्रया प्रतिसंख्याय परिभुंजन्त इति विदित्वा वैशालीं पिण्डाय चरित्वा कृतभक्तकृत्यः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिशामय्य पादौ प्रक्षाल्य विहारं प्राविक्षत्प्रतिसंलयनाय । अथ भगवान् सायाह्ने प्रतिसंलयनाद्व्युत्थाय पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । (२६० १ = ग्ब्म् ६.८३२) निषद्य भगवान् भिक्षूनामन्त्रयते स्म । इहाहं भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरमादाय वैशालीं पिण्डाय प्राविक्षम्* । अद्राक्षमहं भिक्षवः संबहुलान् भिक्षूनारामद्वारे अशुचिम्रक्षितानि शयनासनानि शोचयत आतपयतः प्रविषजतः । दृष्ट्वा च पुनर्मे एतदभवत्* । यदपि श्राद्धा ब्राह्मणगृहपतयः प्रपीड्य प्रपीड्य त्वङ्मांसशोणितं दानानि ददति पुण्यानि कुर्वन्ति तदपि भिक्षवो मात्रया प्रतिसंख्याय परिभुंजन्ते । साधु भिक्षवः श्रद्धादेयस्य मात्रापरिभोजितायाः काल<परि>भोजिताया वीचिपरिभोजितायाः संख्यापरिभोजिताया मितपरिभोजितायाः । (म्स्विइ ८९) अथ भगवाञ्छ्रद्धादेयस्य मात्रादिपरिभोजितानां वर्णं भाषित्वा भिक्षूनमन्त्रयते स्म । तस्मात्तर्हि भिक्षवो न विना प्रत्यास्तरणेन सांघिकं शयनासनं परिभोक्तव्यमशुचिम्रक्षितं शयनासनं च । तत्क्षणादेव शोचयितव्यमन्यथा सातिसारः ।
अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय वैशालीं पिण्डाय प्राविक्षदायुष्मतानन्देन पश्चाच्छ्रमणेन । अद्राक्षीद्भगवानन्यतरं पुरुषं कालकपृष्ठम्* । दूरादेव दृष्ट्वा च पुनरायुष्मन्तमानन्दमामन्त्रयते । पश्यसि त्वमानन्द एतं पुरुषं कालकपृष्ठम्* । एवं भदन्त । एष आनन्द पुरुषः काश्यपस्य सम्यक्संबुद्धस्य प्रवचने प्रव्रजित आसीत्* । तत्रानेन सांघिकं शयनासनं कल्पप्रत्यास्तरणेन मलप्रत्यास्तरणेन पट्टिकां सुरुचिकां लोढकं कृत्वा परिभुक्तम्* । तस्य कर्मणो विपाकेन पंच जन्मशतानि कालकप्र्ष्ठो जातः । यावदेतर्ह्यपि कालकपृष्ठो जात इति । विदित्वा वैशालीं पिण्डाय चरित्वा पूर्ववद्यावत्प्रतिसंलयनाद्व्यूत्थाय पुरस्ताद्भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । निषद्य भगवान् भिक्षूनामन्त्रयते स्म । अद्याहं भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरमादाय वैशालीं पिण्डाय (म्स्विइ ९०) प्रविष्टः । तत्राहमद्राक्षं पुरुषं कालकपृष्ठम्* । स काश्यपस्य सम्यक्संबुद्धस्य प्रवचने भिक्षुरासीत्* । तत्रानेन सांघिकं शयनासनं कल्पप्रत्यास्तरणेन पूर्ववद्यावत्पंच जन्मशतानि कालकपृष्ठो जातः । तस्मात्तर्हि भिक्षवोऽद्याग्रेण न भिक्षुणा कल्पप्रत्यास्तरणेन सांघिकं शयनासनं परिभोक्तव्यम्* । परिभुंक्ते । सातिसारः । अपि तु द्वाभ्यां प्रत्यास्तरणाभ्यां परिभोक्तव्यं घनेन वा एकपुटेन । पैलोत्तिकेन वा द्विपुटेन ।
भिक्षवश्चित्रोपचित्राणि प्रत्यास्तरणानि धारयन्ति दीर्घदशानि । ब्राह्मणगृहपतयोऽवध्यायन्ति क्षिपन्ति विवाचयन्ति । भगवानाह । नीलं कर्दमं कषायं वा प्रत्यास्तरणं शस्त्रलूनं कृत्वा धारयितव्यम्* । अन्यथा सातिसारः ।
<भिक्षवः कुण्डूरो>गेण (२६० १ = ग्ब्म् ६.८३३) बाध्यन्ते । तस्य चीवरकाणि पूयशोणितोपलिप्तानि दुर्गन्धितानि मक्षिकाकीर्णानि । स पिण्डपातं प्रविष्टः । तं दृष्ट्वा ब्राह्मणगृहपतयोऽवध्यायन्ति क्षिपन्ति विवाचयन्ति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । तस्मादनुजानामि कण्डूप्रच्छादनं धारयितव्यम्* । पंचभिः षड्भिर्वा दिवसैः शोचयितव्यम्* । अन्यथा सातिसारः ।
भिक्षवः कुष्ठरोगेण बाध्यन्ते । ते सांघिकानि शयनासनानि परिभुंजते । प्रासादेषु पुष्करिण्यां द्वारकोष्ठके परिषण्डायां चंक्रमेषु संस्थानवृक्षेषु तिष्ठन्ति । दुर्गन्धान्मक्षिकाभिराकीर्णान्* । (म्स्विइ ९१) तान् दृष्ट्वा ब्राह्मणगृहपतयोऽवध्यायन्ति क्षिपन्ति विवाचयन्ति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । कुष्ठरोगाभिभूतस्याहं भिक्षवो भिक्षोरासमुदाचारिकान् धर्मान् प्रज्ञापयिष्यामि । कुष्ठरोगाभिभूतेन भिक्षुणा सांघिकं शयनासनं लयनं च न परिभोक्तव्यम्* । प्रासादादिषु यथापरिकीर्तितेषु स्थानेषु स्थातव्यम्* । साम्घिकी प्रस्रावकुटी वर्चःकुटी च न प्रवेष्टव्या । प्रतिगुप्ते स्थाने संघेन तस्य वासो देयः । उपस्थानं च कर्तव्यम्* । कुष्ठरोगाभिभूतो भिक्षुर्यथाप्रज्ञप्तानासमुदाचारिकान् धर्मान्न समादाय वर्तते संघो वा सातिसारो भवति ।
आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति । लभ्यं भदन्त सुगतचीवरमतिरेकचीवरकल्पेन धारयितुम्* । न लभ्यमुपालिन्* । लभ्यं भदन्त कौशेयं चीवरं त्रिचीवराधिष्ठानेन अतिरेकचीवराधिष्ठानेन धारयितुम्* । लभ्यमुपालिन् यथेष्ठतः । एवं पूर्णकं शाणकं लभ्यम् ।
उद्दानम्* ।
भाङ्गेयं केशचीवरं नाग्न्यं केशलुचनं पर्णशाटीम्* ।
अजिनं सान्तरोत्तरं तिरीटिमङ्गनीलकम्* ।
श्रावस्त्यां निदानम्* । अथान्यतमो भिक्षुर्येन भगवांस्तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते (म्स्विइ ९२) अस्थात्* । एकान्तस्थितः स भिक्षुर्भगवन्तमिदमवोचत्* । इच्छाम्यहं भदन्त भाङ्गेयं चीवरं धारयितुम्* । भगवानाह । तीर्थिकध्वज एष मोहपुरुषः यदुत भाङ्गेयं चीवरम्* । तस्मान्न भिक्षुणा भाङ्गेयं चीवरं धारयितव्यम्* । धारयति सातिसारो भवति ।
अपरो भिक्षुर्गत्वा भगवन्तमिदमवोचत्* । इच्छाम्यहं भदन्त केशचीवरं धारयितुम्* । भगवानाह । तीर्थिकध्वज एष मोहपुरुषः । पूर्ववद्यावत्सातिसारो भवति ।
अपरो भिक्षुर्भगवन्तमिदमवोचत्* । इच्छाम्यहं भदन्त नाग्न्यं समादातुम्* । भगवानाह । तीर्थिकध्वज एष मोहपुरुषः यदुत नाग्न्यम्* । अपि तु त्रिचीवरं मयानुज्ञातं किमर्थं नाग्न्यं समाददासि । तस्मान्न भिक्षुणा नाग्न्यं समादातव्यम्* । समाददाति । आपद्यते स्थूलात्ययः । अथ स (२६१ १ = ग्ब्म् ६.८३४) भिक्षुर्नाग्न्यमलभमानः शिक्षां प्रत्याख्याय हानायावृत्तः । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । पश्य भदन्तासौ भिक्षुर्नाग्न्यमलभमानः शिक्षां प्रत्याख्याय हानायावृत्तम्* । भगवानाह । न भिक्षव एतर्हि यथा अतीतेऽप्यध्वनि अह्रीक्यदोषाद्दारिकां न लब्धवांस्तच्छ्रूयताम्* ।
भूतपूर्वं भिक्षवो धृतराष्ट्रो नाम हंसराजो बभूव । तस्य दुहिता स्वयंवरावतीर्णा । श्रुत्वा नानादिग्देशनिवासिनः पक्षिणः सन्निपतिताः । एकैकः संलक्षयति मां वरयिष्यतीति । तया (म्स्विइ ९३) दारिकया मयूरो दृष्टः । सा कथयति । एष मम भर्तेति । तस्यापरैः समाख्यातम्* । त्वमनया वृत इति । स कलापं पूर्वीकृत्य नर्तितुमारब्धः । स धृतराष्ट्रेण दृष्टः । कथयति । किमर्थमयं नृत्यतीति । अपरैः समाख्यातम्* । तव दुहिता वृता इति । स कथयति । ह्रीव्यपत्राप्यवियुक्तोऽयं नाहमस्मै दुहितरं ददामीति । स श्रुत्वा मयूरो धृतराष्ट्रसकाशं गत्वा गाथां भाषते ।
स्वरो मनोज्ञो रुचितरश्च वर्णो व्यामप्रमाणानि च वर्हकाणि ।
ग्रीवा च वैदूर्यमणेः समाना ददासि कस्मान्न भवान् सुतां मे ॥
धृतराष्ट्रः प्राह ।
स्वरो मनोज्ञो रुचितरश्च वर्णो व्यामप्रमाणानि च वर्हकाणि ।
ग्रीवा च वैदूर्यमणेः समानाह्रीक्यदोषात्तु न ते ददामि ॥ इति ॥
किं मन्यध्वे भिक्षवः । योऽसौ मयूरः एष एवासौ भिक्षुस्तेन कालेन तेन समयेन । तदाप्येष अह्रीक्यदोषाद्दारिकामलभमानो दुःखी दुर्मना पक्षिणमध्यादवक्रान्तः । एतर्ह्यप्यसौ नाग्न्यमल्भमानो दुःखी दुर्मना भिक्षुसंघमध्यात्प्रक्रान्तः ।
अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्* । इच्छाम्यहं भदन्त केशान् लुंचितुम्* । भगवानाह । मुण्डनं मया समनुज्ञातम्* । कस्मात्त्वं केशान् लुंचसि । तीर्थिकधृत एष मोहपुरुषः यदुत केशलुंचनम्* । तस्मान्न हि भिक्षुणा केशा लुंचितव्याः । लुंचति । सातिसारो भवति । (म्स्विइ ९४)
अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्* । इच्छाम्यहं भदन्त पर्णशाटिकां धारयितुम्* । भगवानाह । तीर्थिकधृतमेतन्मोहपुरुषः । पूर्ववद्यावत्सातिसारो भवति ।
अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्* । इच्छाम्यहं भदन्त अजिनं धारयितुम्* । भगवानाह । तीर्थिकध्वजमेतन्मोहपुरुषः । यदुत अजिनम्* । धारयति पूर्ववद्यावत्सातिसारो भवति ।
अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्* । इच्छाम्यहं भदन्त सान्तरोत्तरेण चीवरेण यापयितुम्* । त्रिचीवरं मया मोहपुरुष समनुज्ञातम्* । कस्मात्त्वं सान्तरोत्तरेण यापयसि । तस्मान्न भिक्षुणा सान्तरोत्तरेण चीवरेण यापयितव्यम्* । यापयति । सातिसारो भवति ।
अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्* । इच्छाम्यहं (२६१ १ = ग्ब्म् ६.८३५) भदन्त तिरीटिं धारयितुम्* । तिरीटि इति वल्कलः । भगवानाह । तीर्थिकध्वज एष पूर्ववद्यावत्सातिसारो भवति ।
अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्* । इच्छाम्यहं भदन्त अंगनाडिकां धारयितुम्* । भगवानाह । आगारिकधर्मस्तर्ह्येषाहो मोहपुरुषा यदुतांगनाडि<का> । पूर्ववद्यावत्सातिसारो भवति ।
(म्स्विइ ९५)
अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्* । इच्छाम्यहं भदन्त सर्वनीलं चीवरं धारयितुम्* । भगवानाह । आगारिका ह्येनं धारयन्ति । तस्मान्न भिक्षुणा सर्वनीलं चीवरं धारयितव्यम्* । पूर्ववद्यावत्सातिसारो भवति । एवं सर्वपीतं सर्वलोहितमवदातं न कल्पयत्येव ।
उद्दानम्* ।
दीर्घदशं छन्नदशं {म्स्<फणदशं>} कम्बुकोष्णीषवेष्टनम्* ।
कुतपमुष्ट्रकम्बलं प्लीहकानन्दः सान्तरोत्तरम्* ॥
अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्* । इच्छाम्यहं भदन्त दीर्घदशं चीवरं धारयितुम्* । भगवानाह । तीर्थिकध्वजः पूर्ववद्यावत्सातिसारो भवति ।
अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्* । इच्छाम्यहं भदन्त छन्नदशं {म्स्<फणदशं>} चीवरं धारयितुम्* । भगवानाह । तीर्थिकध्वज एष मोहपुरुष पूर्ववद्यावत्सातिसारो भवति ।
अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्* । इच्छाम्यहं भदन्त कम्बुकं धारयितुम्* । भगवानाह । आगारिकध्वज एष मोहपुरुष पूर्ववद्यावत्सातिसारो भवति ।
अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्* । इच्छाम्यहं भदन्त उष्णीषं धारयितुम्* । भगवानाह । आगारिकध्वज एष मोहपुरुष पूर्ववद्यावत्सातिसारो भवति । (म्स्विइ ९६)
अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्* । इच्छाम्यहं भदन्त शिरोवेष्टनं धारयितुम्* । भगवानाह । आगारिकध्वज एष मोहपुरुष पूर्ववद्यावत्सातिसारो भवति ।
अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्* । इच्छाम्यहं भदन्त कुतपं धारयितुम्* । भगवानाह । आगारिकध्वज एष पूर्ववद्यावत्सातिसारो भवति ।
अपरोऽपि भिक्षुर्भगवन्तमिदमवोचत्* । इच्छाम्यहं भदन्त उष्ट्रकम्बलं धारयितुम्* । भगवानाह । आगारिकध्वज एष पूर्ववद्यावत्सातिसारो भवति ।
आयुष्मान् प्लीहकानन्दः अन्यतमस्मिन्नभिक्षुके आवासे अकवाटके वर्षा उपगतः । तस्य बहिर्निगतस्य संघाट्युपहृता । एतद्यावद्भगवानाह । न भिक्षुणा अभिक्षुके आवासे अकवाटके वर्षा उपगन्तव्यम्* । न च विना संघाट्या क्वचिद्गन्तव्यम्* । गच्छति । सातिसारो भवति ।
आयुष्मान् प्लीहकानन्दो ग्लानः । तस्यायुष्मानानन्दो ग्लानोपस्थायकः । देवश्च वर्षितुमारब्धः । स नोत्सहते संघाटीं प्रावृत्य गन्तुम्* । (२६२ १ = ग्ब्म् ६.८३६) भगवानाह । सान्तरोत्तरेण गन्तव्यम्* ।
अपि तु संघाट्या पंचोपनिक्षेपणकल्पा । सभिक्षुक आवासः सकवाटः । देवो वर्षति । वर्षाशङ्के च । नदीपारं वा गन्तुकामो (म्स्विइ ९७) भवति । आस्तीर्णः कठिन आवासो भवति । संघेन संमतिर्दत्ता भवति ।
अन्तरोद्दानम्* ।
वार्षिकश्रमणोद्देशा उत्पादेनापि च द्वयम्* ।
कुलोपकाश्च कौकृत्यं संघलाभेन तस्य तत्* ॥
उक्तं भगवता भिक्षूणां चीवरपातो देय इति । भिक्षवः संघप्रवारित एव जनपदे चारिकां प्रक्रामन्ति । तेषां न कश्चिल्लाभं गृह्णाति । भगवानाह । भिक्षुमवलोकयित्वा गन्तव्यं योऽस्य लाभं गृह्णाति । अपरेऽपि भिक्षव अनवलोकिता एवं गृह्णन्ति । भिक्षूणां परस्परं विरोधो भवति । भगवानाह । न भिक्षुणा अनवलोकितेन लाभो ग्रहीतव्यः । गृह्णाति । सातिसारो भवति । अपरेऽपि भिक्षवः अवलोकिता अपि प्रतिज्ञाय न गृह्णन्ति । भगवानाह । ते सर्वं दाप्याः । श्रमणेराणां प्रक्रान्तानां न कश्चिल्लाभं गृह्णाति । भगवानाह । तेषामाचार्योपाध्यायैर्ग्रहीतव्यम्* । भिक्षवः कुलाभं (म्स्विइ ९८) भाजयन्ति । विप्रक्रान्तानां नानुप्रयच्छन्ति कुलाभ इति कृत्वा । भगवानाह । येऽवलोकितास्तैर्ग्रहीतव्यम्* । अपरेऽनवलोक्यैव गताः । तेषां न कश्चिद्गृह्णाति । भिक्षवः कौकृत्येन न गृह्णन्ति । भगवानाह । ग्रहीतव्यम्* । नात्र कौकृत्यं करणीयम्* । अपरं नैव शक्यते भाजयितुमल्पं कृत्वा । भगवानाह । अन्येन मिश्रीकृत्य विहारस्थैर्भाजयितव्यम्* । नात्र कौकृत्यं करणीयम्* । कुलाभमवलोकितो न गृह्णाति । पंच पणानुपादाय स्फुटं दापयितव्यम्* ।
अन्यतमस्मिन् कर्वटके गृहपतिः । तेन विहारः कारितः । तत्र यदि भिक्षुशतं प्रतिवसति पटकशतं ददाति । एवं यावदेकोऽपि भिक्षुः प्रतिवसति पटकशतमेव ददाति । यावदपरेण समयेन तस्मिन्नेव विहारे द्वौ महल्लौ वर्षोषितौ । तेन गृहपतिना पटकशतं प्रेषितम्* । तौ गृहीत्वा परस्परं विचारयतः । एकः कथयति संघस्यायं लाभः प्रतिपद्यत इति । द्वितीयः कथयति । अस्माकमेव प्रापद्य इति । यद्येवं गृहाण । स कथयति । मा परस्परविरोधः स्यात्* । यावदेकेनापि न गृहीतम्* । तौ पुनर्विचारयतः । कथमत्र प्रतिपत्तव्यम्* । एकः कथयति । भिक्षव आहूयन्ताम्* । तैः सह भाजयिष्यामः । द्वितीयः कथयति । एवं भवतु । को गच्छतु । यो नवकः । को वस्त्राणि गोपायति । यो नवकः । न शक्यमेवम्* (म्स्विइ ९९) यो नवकः स गच्छतु यो वृद्धः स वस्त्राणि गोपायतु । एवं भवतु । नवकः श्रावस्तीं गतो भिक्षूणामानयनाय । (२६२ १ = ग्ब्म् ६.८३७) आचरितं षड्वर्गिकाणाम्* । अशून्यं जेतवनद्वारमन्यतमान्यतमेन षड्वर्गिकेण । उपनन्दो जेतवनद्वारे तिष्ठति । तेनासौ दूरत एव दृष्टो बकाकारशिराः प्रलम्बभ्रूः । स संलक्षयति । कोऽप्ययं स्थविरो भिक्षुरागच्छति । प्रत्युद्गच्छामीति । स प्रत्युद्गतः । स्वागतं स्वागतं स्थविर । वन्दे आचार्य । स संलक्षयति । नायमाचार्यं जानीते नाप्युपाध्यायम्* । महल्लोऽयमिति विदित्वा कथयति । सालोहित कुतस्त्वमागच्छसि । अमुकस्मात्कर्वटकात्* । किं तत्र विहारः । विहारः । किमसौ विहार आहोस्विद्विघातः । तेन यथावृत्तं विस्तरेण समाख्यातम्* । त्वं किमर्थमागतः । भोजनाय भिक्षून्नयामि । यद्येवमहमेव युष्माकमनुकम्पार्थं गच्छामि । आचार्य शोभनम्* । उपनन्दः संलक्षयति । यद्ययं मत्सकाशादन्यत्र गमिष्यति महाजनप्रतिसंविदितं करिष्यति । सुरक्षितः कर्तव्य इति । स तेन प्रतिशामितः । अकालपानको दत्तः । कथासंलापेन तावाद्विधारितो यावद्विकालीभूतम्* । शय्या शोभना प्रज्ञप्ता । पादशौचं पादम्रक्षणं च दत्तम्* । तावच्चावस्थितो यावन्मिद्धमवक्रान्तम्* । तत उपनन्देन सा रात्रिः कृच्छ्रेणातिनामिता । मा मन्त्रस्रावः स्यादिति । ततः स रात्रमेवोत्थाय सालोहितमादाय त्वरितत्वरितं (म्स्विइ १००) संप्रस्थितः । अनुपूर्वेण कर्वटकमनुप्राप्तः । ततस्तेन द्वितीयेन सालोहितेन विहारस्थेन स्वागतवादसमुदाचारेण समुदाचर्य विश्रामितः । अथ त्रयोऽपि जना एकस्मिन् स्थाने निषण्णाः । उपनन्दः कथयति । भाजयामो लाभं स्थविराः । भाजयामः । उपनन्देनैको महल्ल उक्तः । सालोहित त्वं भाजय । स्थविर नाहं भाजयामि । किमर्थम्* । मा मे प्रत्यवायः स्यात्* । द्वितीयोऽप्युक्तः । सालोहित त्वं भाजय । सोऽप्येवमेव कथयति । उपनन्दः कथयति । युवां प्रत्यवायभीरुकौ किमिच्छथः । उपनन्द ऊर्ध्वपादोवाङ्मुखो नरकं गमिष्यतीति । उपनन्द संलक्षयति । सालोहितावेतौ महल्लौ भेत्तव्याविति । ततस्तयोर्ध्रुवप्रचारं कल्पकारं पृष्ट्वा एकस्य सकाशमुपसंक्रम्य पृच्छति । सालोहित त्वयात्र किं कृतम्* । स्थविर नित्यं मया विहारः सिक्तः संमृष्टः सुकुमारी गोमयकार्षी दत्तेति । सालोहित यदि सेचनेन संमार्जनेन वा लाभो लभ्येत उपनन्दः सर्वविहारान् सिञ्चेत्संमार्जयेच्च । अपि तु योऽत्र लाभः संपन्नः स तस्यान्यस्य सालोहितस्यानुभावात्* । सोऽस्मिन् विहारे कालानुकालं धर्मश्रवणं ददाति । धर्मश्रवणार्थिन्यो देवता औत्सुक्यमापन्नाः । (२६३ १ = ग्ब्म् ६.८३८) येऽत्र लाभसंपन्नाः । ततस्तस्यानुभा<वा>दयं लाभः संपन्नः । यमसौ ददाति <सः> ग्रहीतव्यो नो तु विचारयितव्यः । स तेनाभ्याहत इति प्रतिभिन्नस्(म्स्विइ १०१) तूष्णीमवस्थितः । ततो द्वितीयस्य सकाशमुपसंक्रम्य कथयति । सालोहित त्वयात्र किं कृतम्* । स्थविर मयात्र कालानुकालं धर्मश्रवणं दत्तम्* । सालोहित यदि धर्मश्रवणेन लाभो
लभ्येत उपनन्दस्तिष्ठन् गच्छन्निषण्णो निषण्णः सर्वकालं धर्मं देशयेत्* । यः कश्चिदयं लाभः संपन्नः सर्वोऽसौ तस्यान्यस्य सालोहितस्यानुभावात्* । तेनायं विहारो नित्यकालं सिक्तः संमृष्टः सुकुमारी गोमयकार्षी तु प्रदत्ता । उक्तं भदन्त भगवता पंचानुशंसाः संमार्जने । कतमे पंच । आत्मनश्चित्तं प्रसीदति । परस्य चित्तं प्रसीदति । देवता आत्तमनसो भवन्ति । प्रासादिकसंवर्तनीयं कुशलमूलमुपचिनोति । कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यत इति । तदत्र विहारे संमार्जनेन दानपतयोऽभिप्रसन्नाः । देवता चात्तमनसः संवृत्ताः । तेनात्र लाभसंपन्नाः । अतस्तस्यानुभावादयं लाभः संपन्नः । यमसौ ददाति स ग्रहीतव्यो नो तु विचारयितव्य इति । सोऽप्यभ्याहतः प्रतिभिन्नस्तूष्णीमवस्थितः । तौ निष्प्रतिभातौ कृत्वा कथयति । सालोहितावस्त्यन्य उपायः । ज्ञप्तिं कृत्वा भाजयामः । ज्ञप्तिकर्माकोप्यमुक्तं भगवतेति । तौ पूर्वमेवाभ्याहतौ कथयतः । स्थविर यथेच्छसि तथा कुरुष्वेति । तत उपनन्देन त्रयो भागाः कृताः । द्वयोर्भागयोर्मध्ये स्वयं निषण्णः । तयोर्द्वयोर्मध्ये एकं भागं स्थापयित्वा ज्ञप्तिं कर्तुमारब्धः । शृणुतं युवां सालोहितौ द्वौ । अयमेकः । इमौ द्वौ । अहमेक एव । तत्त्रयम् (म्स्विइ १०२) इत्येषा ज्ञप्तिः । ततो द्वौ भागावात्मना गृहीत्वा तयोरेको दत्तः । <तौ कथयतः> स्थविर स एवास्माकं कलिः संवृत्तः । त्वमेवास्माकं भाजय । स भाजयितुमारब्धः । तत्राप्येकः पटकोऽतिरिक्तः । तमप्यादाय पटकानां भारं बद्ध्वा संप्रस्थितः । ततोऽनुपूर्वेण श्रावस्तीमनुप्राप्तः । भिक्षुभिर्दृष्ट उक्तश्च । भदन्तोपनन्द कस्त्वया पश्चाच्छिराशयनो दृष्टः । तेन यथावृत्तं विस्तरेण समाख्यातम्* । ते कथयन्ति । कल्पते तवैवं कर्तुम्* । अमित्राणां पादं गले दत्वा । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् संलक्षयति । यः कश्चिदादीनवो भिक्षवः परकीये लाभे सन्निपतन्ति । तस्मान्न भिक्षुणा परकीये लाभे सन्निपतितव्यम्* । सन्निपतति । सातिसारो भवति । भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छति । पश्य भदन्त आयुष्मता उपनन्देन (२६३ १ = ग्ब्म् ६.८३९) तन्महल्लद्वयं धर्ममुखिकया व्यंसितम्* । भगवानाह । न भिक्षव एतर्हि यथा अतीतेऽप्यध्वन्यनेन महल्लद्वयं व्यंसितम्* । तच्छ्रूयताम्* ।
भूतपूर्वं भिक्षवोऽन्यतमस्मिन्नदीतीरे उद्रद्वयं प्रतिवसति । तद्यदा जलेन गच्छति तदा मत्स्याः स्थलमभिरुहन्ति । यदा (म्स्विइ १०३) तु स्थलेन गच्छति तदा मत्स्या जले निपतन्ति । न किञ्चिदघं साधयन्ति । ततस्तैः सामीचिः कृता । एकोऽस्माकं जलेन गच्छतु द्वितीयः स्थलेन । यत्संपद्यते तदस्मात्सामान्यमिति । तत्रैको जलेन संप्रस्थितो द्वितीयः स्थलेन । तत्र ये जलस्थेन मत्स्याः संत्रासिताः स्थलमभिरोहन्ति । तान् स्थलस्था प्रघातयति जलस्थाञ्जलस्थ एव । यावन्मत्स्यानां महानुराशिः संवृत्तः । एकः कथयति । त्वं भाजय । द्वितीयः कथयति । नाहं भाजयामि । किमर्थम्* । मा मे प्रत्यवायः स्यात्* । सोऽपि कथयति । यद्यप्येवं ममाप्येव एष दोषः । तौ चिन्तापरौ व्यवस्थितौ । यावत्पूर्णमुखो नाम शृगालस्तयोः सकाशमुपसंक्रान्तः । स कथयति । भागिनेयौ किं चिन्तापरस्तिष्ठतः । मातुल अस्माकं मत्स्याः संपन्नाः । किं न भाजयथः । मातुल प्रत्यवायभयात्* । युवां प्रत्यवायभीरूकौ किमिच्छथः । पूर्णमुख ऊर्ध्वपादोऽवाङ्मुखो नरकं पतिष्यतीति । पूर्णमुखः संलक्षयति । सहितावेतौ भेत्तव्याविति । ततस्तयोर्ध्रुवप्रचार कल्पकारं दृष्ट्वा एकस्य सकाशमुपसंक्रम्य पृच्छति । भागिनेय त्वयात्र किं कृतम्* । मातुलमहं जलेन गतः । ये मया जलेन गच्छता मत्स्याः संत्रासिताः स्थलमभिरूढाः ते अनेन प्रघातिताः । भागिनेय यदि जलगमनेन किञ्चित्संपद्येत पूर्णमुखो नित्यं जलेन यायात्* । तस्य जलेन गच्छता स्थाणुभयं कण्टभयं (म्स्विइ १०४) श्वापदभयं कूलपातभयम्* । अपि तु यद्यसौ न प्रतिघातयति किं त्वं त्रासयित्वा करोषि । सर्वथा येऽत्र मत्स्याः संपन्नास्ते तस्यानुभावान्न तव । यदसौ ददाति न ग्रहीतव्यो नो तु विचारयितव्यः । स तेनाभ्याहतः प्रतिभिन्नस्तूष्णीमवस्थितः । ततो द्वितीयस्य सकाशमुपसंक्रम्य कथयति । भागिनेय त्वयात्र किं कृतम्* । मातुलोऽहं स्थलेन गतो मया स्थलमभिरूढा मत्स्याः प्रतिघातिताः । भागिनेय यदि स्थलगमनेन किञ्चिल्लभ्येत पूर्णमुखो नित्यमेव स्थलेन यायात्* । तस्य जलेन गच्छता ऊर्मिभयं कूर्मभयं शिशुमारभयं कुम्भीरभयं जालभयम्* । अपि तु यद्यसौ न संत्रासयति कथं त्वं प्रघातयसि । सर्वथा ये तु मत्स्याः संपन्नास्ते तस्यानुभावात्* । यदसौ ददाति (२६४ १ = ग्ब्म् ६.८४०) स ग्रहीतव्यो नो तु विचारयितव्यः । स तेनाभ्याहतः प्रतिभिन्नस्तूष्णीमवस्थितः । पूर्णमुखो कथयति । भागिनेय अस्त्यन्य उपायः । गाथाभिगीतेन तान् भाजयामः । अकोप्यं भविष्यति । तौ पूर्वमेवाभ्याहतौ कथयतः । मातुल यथेच्छसि तथा कुरु । पूर्णमुखेन त्रयो भागाः कृताः । पुच्छानामेको मत्स्यराशिः <शिरसां> द्वितीयो मध्यमखण्डानां तृतीय इति । गाथां च भाषते ।
स्थलचारिणो हि लाङ्गूलं शिरो गंभीरचारिणः ।
यस्तु मध्यमको गण्डः धर्मस्थस्तं हरिष्यति ॥ इति ॥
(म्स्विइ १०५)
पूर्णमुखः संलक्षयति । व्यंसितावेतौ । संपन्नो मे लाभः । स महतो रोहितस्य मत्स्यस्य मध्यगण्डमादाय पितुः सकाशमुपसंक्रान्तः । ततोऽस्य माता परितुष्टा गाथाभिगीतेन परिपृच्छति ।
कुतस्त्वं पूर्णिक एषि कुत एषि सुपूर्णिक ।
अशिरस्कमलाङ्गूलं मत्स्यमादाय रोहितम्* ॥ इति
स कथयति ।
विवदन्ते येन मूढा धर्मा<ध>र्मेष्वकोविदाः ।
अल्पेच्छास्तेन जीवन्ति राजकोषश्च वर्धते ॥ इति ॥
सापि पुनर्गाथां भाषते ।
साधु ते सुपराक्रान्तं पूर्णिक प्रियदर्शन ।
त्वं च लाभेन संयुक्तस्तौ चापि परितोषितौ ॥ इति ॥
किं मन्यध्वे भिक्षवः । योऽसौ पूर्णमुखः शृगाल एष एवासौ उपनन्दः । तेन कालेन तेन समयेन यौ तावुद्रावेतौ तौ महल्लौ । तदाप्यनेन तौ व्यंसितावेतर्ह्यपीति ।
श्रावस्त्यां निदानम्* । अन्यतमस्मिन् कर्वटके <गृहपतिः> । तेन विहारः कारितः । तत्र भिक्षुशतं वार्षा उपगतम्* । तस्य गृहपतेर्बुद्धिरुत्पन्ना पटकशतं समुदानयामि । भिक्षुसंघं भोजयित्वा प्रत्येकमेकैकं भिक्षुं पटेनाच्छादयिष्यामीति । यावदुपनन्देन श्रुतम्* । अमुको गृहपतिर्भिक्षुसंघं भोजयित्वा प्रत्येकमेकैकं भिक्षुं पटेनाच्छादयिष्यतीति । श्रुत्वा च पुनः संलक्षयति । न भवाम्युपनन्दो यदि (म्स्विइ १०६) तस्मात्पटकं न निष्पादयामीति । सोऽनिमन्त्रित एष गतः । गृहपतिर्भिक्षुसंघं भोजयित्वा चारयति । उपनन्दः पटकं गृहीत्वा लघुलघ्वेव प्रक्रान्तः । यावदेकस्य भिक्षोः पटको नास्ति । गृहपतिः कथयत्यार्य पटकशतं मया सुगणितमानीतम्* । मा केनचिदार्येण पटद्वयं गृहीतं भवेदिति । भिक्षवः कथयन्ति । गृहपते कोऽसावेवं करिष्यति । अपि तु भदन्तोपनन्दस्त्वयोपनिमन्त्रितः । आर्य नाहमुपनिमन्त्रयामि । स तं पटकमादाय प्रक्रान्तः । ततोऽसौ गृहपतिरवध्यायितुमारब्धः । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । यः कश्चिदादीनवो भिक्षवोऽनिमन्त्रिताः परकीये (२६४ १ = ग्ब्म् ६.८४१) लाभे संनिपतन्ति । तस्मान्न भिक्षुणानिमन्त्रितेन परकीये लाभे संनिपतितव्यम्* । संनिपतति । सातिसारो भवति ।
भिक्षवः संशयजाताः । सर्वसंशयच्छेतारं बुद्धं भगवन्तं पप्रच्छुः । पश्य भदन्त आयुष्मानुपनन्दोऽनिमन्त्रित एव परकीये लाभे संनिपतित इति । भगवानाह । न भिक्षव एतर्हि । यथा अतीतेऽप्यध्वन्युपनन्दोऽनिमन्त्रितः परकीये लाभे संनिपतितः । तच्छ्रूयताम्* ।
भूतपूर्वं भिक्षवोऽन्यतमस्मिन् कर्वटके ब्राह्मणः पर्षन्महत्तरः । तेन माणवशतं त्रैमासीमुपनिमन्त्र्य माणवशतं भोजिताम्* । तस्य बुद्धिरुत्पन्ना प्रत्येकमेकैकं माणवकं पटेनाच्छादयिष्यामीति । (म्स्विइ १०७) तस्य नातिदूरे वृद्धो ब्राह्मणः प्रतिवसति । तेन श्रुतम्* । स प्रथमतरं वृद्धान्ते भुक्त्वा पटमादाय प्रक्रान्तः । गृहपतिना पटकाच्छोरिताः । यावदेकस्य माणवकस्य पटो नास्ति । स पृच्छति । भवन्तो मया पटकशतं सुगणितमानीतम्* । मा केनचिन्माणवकेन पटकद्वयं गृहीतं भवेदिति । ते कथयन्ति । क एवं करिष्यति । अपि तु त्वया वृद्धो ब्राह्मण उपनिमन्त्रितः । नाहमुपनिमन्त्रयामि । स तं पटकमादाय प्रथमतरं प्रक्रान्तः । स ब्राह्मणोऽवध्या<यि>तुमारब्धः ।
किं मन्यध्वे भिक्षवः । योऽसौ ब्राह्मणो वृद्धः एष एवासावुपनन्दस्तेन कालेन तेन समयेन । तदाप्येषोऽनिमन्त्रितः परकीये लाभे संनिपतित एतर्ह्यपीति ।
श्रावस्त्यां निदानम्* । अन्यतमस्मिन् कर्वटके गृहपतिः । तेन विहारः कारितः । तत्रैको भिक्षुर्वर्षा उपगतः । स उत्थानसंपन्नः । तेनासौ विहारः प्रतिदिनमुपलिप्तसंमृष्टः क्रियते । प्रतिपत्त्येवासौ विहारः शोभने विविक्तावकाशे च भूभागे प्रतिष्ठापितः नानावृक्षोपशोभिते हंसक्रौंचमयूरशुकशारिकाकोकिलाभिनिकूजिते विविधपुष्पफलोपशोभिते । यावद्विस्तीर्णविभवः सार्थवाहस्तस्मिन् विहारे रात्रिवासमुपगतः । तेन तां विहारशोभामुपवनशोभां च दृष्ट्वाभिप्रसन्नेनादृष्ट्वैव भिक्षुसंघमुद्दिश्य प्रभूतो लाभः प्रेषितः । स रात्रमेवोत्थाय प्रक्रान्तः । स भिक्षुः कौकृतिकः संघस्यायं लाभ इति कौकृत्या न गृह्णाति । भिक्षूनेव समन्वेषते भाजयितुम्* । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति भगवान् (म्स्विइ १०८) आह । गोमयगृहमपि चेद्भिक्षुर्निशृत्य वर्षा उपगतो भवति तत्र चेद्ब्राह्मणगृहपतयः संघमुद्दिश्य लाभमनुप्रयच्छन्त्यल्पं वा प्रभूतं वा यस्तत्र वसति एको वा द्वौ वा संबहुला वा तेषामेव सः । नात्र कौकृत्यं करणीयम्* ।
उद्दानम्* । (२६५ १ = ग्ब्म् ६.८४२)
भिन्नानां देयप्रत्यंशमृषिलस्य च चारिकाम्* ।
संघस्य चीवरं चैव अष्टौ लाभेन कारयेत्* ॥
श्रावस्त्यां निदानम्* । आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति । अन्तर्वर्षे भदन्त संघो भिद्येत । देयो लाभो न देयः । भगवानाह । कस्यचिदुपालिन् देयः कस्यचिन्न देयः । <कस्य देयः> । धर्मपाक्षिकस्य ॥ १ ॥ अन्तर्वर्षे भदन्त भिक्षुः शिक्षां प्रत्याख्याय हानायावर्तते । देयो लाभो न देयः । कस्यचिदुपालिन् देयः कस्यचिन्न देयः । कस्य देयः । यद्भूयोऽपि तस्य ॥ २ ॥ अन्तर्वर्षे भदन्त भिक्षुः कालं कुर्यात्* । देयो लाभो न देयः । कस्यचिदुपालिन् देयः कयचिन्न देयः । कस्य देयः । यद्भूयोऽपि तस्य ॥ ३ ॥
अन्यतमस्मिन् कर्वटके गृहपतिः । तेन विहारः कारितः सर्वोपकरणसंपन्नः । आयुष्मांश्च शारिपुत्रो जनपदचारिकां चरन् तं विहारमनुप्राप्तः । तेन गृहपतिना भोजयित्वा पंचभिः पटकशतैराच्छादितः । स तानि पंच पटकशतानि तस्मिन्नेव विहारे दत्वा प्रक्रान्तः । यावत्तस्य द्वौ सार्धंविहारिणौ ऋषिल ऋषिदत्तश्च जनपदचारिकां चरन्तौ तमेव कर्वटकमनुप्राप्तौ । तावपि तेन (म्स्विइ १०९) गृहपतिना भोजयित्वा पंचभिः पटशतैराच्छादितौ । तौ भिक्षुभिरुच्येते । आयुष्मन्तौ युवयोरुपाध्यायेन तस्य गृहपतेः सकाशात्पंच पटशतानि लब्धानि । तान्यस्माभिरेव भाजितानि । अधुनाप्येष लाभोऽस्माकमेव प्रापद्यते । तौ कथयतः । उपाध्यायो ज्ञातो महापुण्यः । तेन कदाचिद्युष्माकमेवानुमोदितः स्यात्* । ते प्रतिबोढुमारब्धाः । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । अष्टाविमे भिक्षवो लाभाः । कतमेऽष्टौ । सीमाहृतो लाभः । क्रियाहृतः । निश्रयाहृतः । संघप्रज्ञप्तः । भिक्षुप्रज्ञप्तः । वार्षिकः । संमुखः । प्रत्यादेशश्च ।
सीमाहृतो लाभः कतमः । यथापि तदेवावसथ एकः पोषधः । तयोर्विहारयोर्यो लाभः स उभयविहारप्रतिवासिनां भिक्षूणाम्* । तन्निवासिनो भिक्षवः कदाचिद्धि एकपोषधेन वर्षा उपगच्छन्ति । तत्र यो लाभः संपद्यते यमस्मिन्नेव विहारे दत्तस्तस्मिन्निवासिभिरेव भिक्षुभिः परिभोक्तव्यं हि । एकपोषधत्वात्* अयमुच्यते सीमाहृतो लाभः ।
क्रियाहृतो लाभः कतमः । यथापि तद्भिक्षव इदमेवंरूपं क्रियाकारं कृत्वा वर्षा उपगच्छन्ति । अमुकं कुलं युष्माकम्* । (म्स्विइ ११०) अमुकं कुलमस्माकम्* । रथ्यावीथीचत्वरशृङ्गाटका मध्यमिति । ते चेद्ब्राह्मणगृहपतयः (२६५ १ = ग्ब्म् ६.८४३) उपगतकानामावासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां लाभमनुप्रयच्छन्ति । उपगतकानामेव पानीयम्* । लाभः कस्य प्रापद्यते । उपगतकानामेव ॥ <१> ॥ उपगतकानामावासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां लाभमनुप्रयच्छन्ति । अनुपगतकानां पानीयम्* । लाभः कस्य प्रापद्यते । उपगतकानामेव ॥ <२> ॥ उपगतकानामावासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां पानीयमनुप्रयच्छन्ति । अनुपगतकानां लाभम्* । <लाभः> कस्य प्रापद्यते । उपगतकानामेव ॥ <३> ॥ उपगतकानामावासी उपगतकानुपगतकान् भिक्षून् भोजयित्वानुपगतकानां लाभमनुप्रयच्छन्ति । अनुपगतकानां पानीयम्* । लाभः कस्य प्रापद्यते ॥ उपगतकानामेव ॥ <४> ॥ उपगतकानामावासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा वृद्धान्ते लाभमनुप्रयच्छन्ति । उपगतकानां पानीयम्* । लाभः कस्य प्रापद्यते । उपगतकानामेव ॥ <५> ॥ उपगतकानामावासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां लाभमनुप्रयच्छन्ति । वृद्धान्ते पानीयम्* । लाभः कस्य प्रापद्यते । उपगतकानामेव ॥ <६> ॥ उपगतकानामावासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा वृद्धान्ते लाभमनुप्रयच्छन्ति । अनुपगतकानां पानीयम्* । लाभः कस्य (म्स्विइ १११) प्रापद्यते । उपगतकानामेव ॥ <७> ॥ उपगतकानामावासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा अनुपगतकानां लाभमनुप्रयच्छन्ति । वृद्धान्ते पानीयम्* । लाभः कस्य प्रापद्यते । उपगतकानामेव ॥ <८> ॥ उपगतकानामावासी उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानुपगतकानां लाभमनुप्रयच्छन्ति । वृद्धान्ते च पानीयम्* । लाभः कस्य प्रापद्यते । उपगतकानामेव ॥ <९> ॥
यथा उपगतकानामावासी उपगतकानुपगतकान् भिक्षून् भोजयित्वे<ति> नव पर्यायाः । एवमनुपगतकानामावासी उपगतकान् भिक्षून् भोजयित्वेति नव पर्यायाः ।
सचेत्ते ब्राह्मणगृहपतयः रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां लाभमनुप्रयच्छन्ति । उपगतकानामेव पानीयम्* । लाभः कस्य प्रापद्यते । उभयोरपि ॥ <१> ॥ रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां लाभमनुप्रयच्छन्ति । अनुपगतकानां पानीयम्* । लाभः कस्य प्रापद्यते । (२६६ १ = ग्ब्म् ६.८४४) उभयोरपि ॥ <२> ॥ रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा अनुपगतकानां लाभमनुप्रयच्छन्ति । उपगतकानां पानीयम्* । लाभः कस्य प्रापद्यते । उभयोरपि ॥ <३> ॥ रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकान् भिक्षून् भोजयित्वा अनुपगतकानां लाभमनुप्रयच्छन्ति । अनुपगतकानां पानीयम्* । (म्स्विइ ११२) लाभः कस्य प्रापद्यते । उभयोरपि ॥ <४> ॥ रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा वृद्धान्ते लाभमनुप्रयच्छन्ति । उपगतकानां पानीयम्* । लाभः कस्य प्रापद्यते । उभयोरपि ॥ <५> ॥ रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा उपगतकानां लाभमनुप्रयच्छन्ति । वृद्धान्ते पानीयम्* । लाभः कस्य प्रापद्यते । उभयोरपि ॥ <६> ॥ रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा वृद्धान्ते लाभमनुप्रयच्छन्ति । अनुपगतकानां पानीयम्* । लाभः कस्य प्रापद्यते । उभयोरपि ॥ <७> ॥ रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा अनुपगतकानां लाभमनुप्रयच्छन्ति । वृद्धान्ते पानीयम्* । लाभः कस्य प्रापद्यते । उभयोरपि ॥ <८> ॥ रथ्यावीथीचत्वरशृङ्गाटकेषु उपगतकानुपगतकान् भिक्षून् भोजयित्वा वृद्धान्ते <उपगतकानुपगतकानां> लाभमनुप्रयच्छन्ति । वृद्धान्ते च पानीयम्* । लाभः कस्य प्रापद्यते । उभयोरपि ॥ <९> ॥ अयमुच्यते क्रियाहृतो लभब्ः ।
निश्रयाहृतो लाभः कतमः । भिक्षुर्यं स्त्रीपुरुषपण्डकमुपनिश्रित्य वर्षा उपगच्छति स यं लाभं ददाति तस्यैव सः । अयमुच्यते निश्रयाहृतो लाभः ।
संघप्रज्ञप्तो लाभः कतमः । यो लाभो नियतोऽविपंचितः । अयमुच्यते संघप्रज्ञप्तो लाभः ।
(म्स्विइ ११३)
भिक्षुप्रज्ञप्तो लाभः कतमः । यो लाभो नियतोऽविपंचितः । लयने मठे वा कूटागारे वा प्रज्ञप्तः । तत्र यो भिक्षुः प्रतिवसति तस्यैव सः । अयमुच्यते भिक्षुप्रज्ञप्तो लाभः ।
वार्षिको लाभः कतमः । यो लाभो वर्षोषितस्य भिक्षुसंघस्य दायिकैः प्रज्ञप्तः । अयमुच्यते वार्षिको लाभः ।
संमुखलाभः कतमः । यो लाभोऽनियतोऽविपंचितः । अयमुच्यते संमुखलाभः ।
प्रत्यादेशलाभः कतमः । यो लाभो जातौ बोधौ धर्मचक्रे परिनिर्वाणे निर्यातितः । सचेन्न शक्यते चतुर्महाचैत्येषु एकस्मिन्नेव महाचैत्ये देयो नानयत्र । अयमुच्यते प्रत्यादेशलाभः ।
उद्दानम्* ।
कालं कुर्वन्त्युत्क्षिप्तका मिश्रकाणां च भाजनम्* ।
उत्क्षिप्तश्रमणोद्देशा (२६६ १ = ग्ब्म् ६.८४५) उसारयन्ति म्रियन्ते च ॥
श्रावस्त्यां निदानम्* । आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति । यथापि तद्भदन्त एकस्मिन्नावासे संबहुला उत्क्षिप्तकाः संबहुलाश्च प्रकृतिस्थकाः प्रतिवसन्ति । तेषामुत्क्षिप्तकः कालं करोति । तत्सन्तको मृतपरिष्कारो लाभः कस्य प्रापद्यते । प्रकृतिस्थकानाम् (म्स्विइ ११४) उपालिन् ॥ <१> ॥ द्वौ भदन्त उत्क्षिपकौ संबहुलाः प्रकृतिस्थकाः । उत्क्षिप्तकः कालं करोति । तत्सन्तको मृतपरिष्कारो लाभः कस्य प्रापद्यते । प्रकृतिस्थकानामेव ॥ <२> ॥ उत्क्षिपकाः संबहुलाः प्रकृतिस्थका अल्पाः । उत्क्षिप्तकः कालं करोति । <तत्सन्तको मृतपरिष्कारो> लाभः कस्य प्रापद्यते । प्रकृतिस्थकानामेव ॥ <३> ॥
यथापि तद्भदन्त एकस्मिन्नावासे संबहुला उत्क्षिप्तकाः संबहुलाश्च प्रकृतिस्थकाः प्रतिवसन्ति । तेषां प्रकृतिस्थकः कालं करोति । तत्सन्तको मृतपरिष्कारो लाभः कस्य प्रापद्यते । प्रकृतिस्थकानाम्* ॥ <१> ॥ संबहुला उत्क्षिप्तका द्वौ प्रकृतिस्थकौ । प्रकृतिस्थकः कालं करोति । तत्सन्तको मृतपरिष्कारो लाभः कस्य प्रापद्यते । तस्यैकस्य प्रकृतिस्थकस्य ॥ <२> ॥ संबहुला उत्क्षिप्तका एकः प्रकृतिस्थकः । <प्रकृतिस्थकः> कालं करोति । लाभः कस्य प्रापद्यते । उत्क्षिप्तकानां यः प्रथमं पापकं दृष्टिगतं प्रतिनिसृजति ॥ <३> ॥
उपगतकानामावासे अनुपगतकः श्रामणेरक आगत्य कालं करोति । उपगतकैरनुपगतकानां दूतोऽनुप्रेषयितव्यः । श्रामणेरो वः कालगतः । हरत तस्य पात्रचीवरमिति । उपगतका भाजयन्ति । अभाजितं दुर्भाजितम्* । अनुपगतका भाजयन्ति । भाजितं सुभाजितम्* । मिश्रका भाजयन्ति । अभाजितं दुर्भाजितम्* । चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति । सुपरिणामितम्* ॥ <१> ॥ (म्स्विइ ११५) उपगतकानामावासे अनुपगतकः श्रामणेरक आगत्य एवं वदेदोसारयन्तु मामायुष्मन्तः । उपगतको भविष्यामीति । स चानोसारितः कालं कुर्यात्* । उपगतकैरनुपगतकानां दूतोऽनुप्रेषयितव्यः । श्रामणेरो वः कालगतः । हरतास्य पात्रचीवरमिति । उपगतका भाजयन्ति । अभाजितं दुर्भाजितम्* । अनुपगतका भाजयन्ति । भाजितं सुभाजितम्* । मिश्रका भाजयन्ति । अभाजितं <दुर्भाजितम्* ।> चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति । सुपरिणामितम्* ॥ <२> ॥ उपगतकानामावासे अनुपगतको भिक्षुरागत्य कालं कुर्यात्* । उपगतकैरनुपगतकानां दूतोऽनुप्रेषयितव्यः । सब्रह्मचारी वः कालगतः । हरतास्य पात्रचीवरमिति । उपगतका भाजयन्ति । अभाजितं दुर्भाजितम्* । अनुपगतका भाजयन्ति । भाजितं सुभाजितम्* । मिश्रका भाजयन्ति । अभाजितं दुर्भाजितम्* । चातुर्दिशाय (२६७ १ = ग्ब्म् ६.८४६) भिक्षुसंघाय परिणामयन्ति । सुपरिणामितम्* ॥ <३> ॥ उपगतकानामावासे अनुपगतको भिक्षुरागत्यैवं वदेदोसारयन्तु मामायुष्मन्तः । उपगतको भविष्यामीति । स चानोसारित एव कालं कुर्यात्* । उपगतकैरनुपगतकानां दूतोऽनुप्रेषयितव्यः । सब्राह्मचारी वः कालगतः । हरतास्य पात्रचीवरमिति । उपगतका भाजयन्ति । अभाजितं दुर्भाजितम्* । अनुपगतका भाजयन्ति । भाजितं सुभाजितम्* । मिश्रका भाजयन्ति । अभाजितं दुर्भाजितम्* । चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति । सुपरिणामितम्* ॥ <४> ॥
(म्स्विइ ११६)
अनुपगतकानामावासे उपगतकः श्रामणेरक आगत्य कालं कुर्यात्* । अनुपगतकैरुपगतकानां दूतोऽनुप्रेषयितव्यः । श्रामणेरो वः कालगतः । हरतास्य पात्रचीवरमिति । अनुपगतका भाजयन्ति । अभाजितं दुर्भाजितम्* । उपगतका भाजयन्ति । भाजितं सुभाजितम्* । मिश्रका भाजयन्ति । अभाजितं दुर्भाजितम्* । चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति । सुपरिणामितम्* ॥ <१> ॥ अनुपगतकानामावासे उपगतकः श्रामणेर आगत्यैवं वदेदोसारयन्तु मामायुष्मन्तः । अनुपगतको भविष्यामीति । स चानोसारितः कालं कुर्यात्* । अनुपगतकैरुपगतकानां दूतोऽनुप्रेषयितव्यः । श्रामणेरो वः कालगतः । हरतास्य पात्रचीवरमिति । अनुपगतका भाजयन्ति । अभाजितं दुर्भाजितम्* । उपगतका भाजयन्ति । भाजितं सुभाजितम्* । मिश्रका भाजयन्ति । अभाजितं दुर्भाजितम्* । चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति । सुपरिणामितम्* ॥ <२> ॥ अनुपगतकानामावासे उपगतको भिक्षुरागत्य कालं कुर्यात्* । अनुपगतकैरुपगतकानां दूतोऽनुप्रेषयितव्यः । सब्रह्मचारी वः कालगतः । हरतास्य पात्रचीवरमिति । अनुपगतका भाजयन्ति । अभाजितं दुर्भाजितम्* । उपगतका भाजयन्ति । भाजितं सुभाजितम्* । मिश्रका भाजयन्ति । अभाजितं दुर्भाजितम्* । चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति । सुपरिणामितम्* ॥ <३> ॥ अनुपगतकानामावासे उपगतको भिक्षुरागत्यैवं वदेदोसारयन्तु मामायुष्मन्तः । अनुपगतको भविष्यामीति । स चानोसारितः कालं कुर्यात्* । अनुपगतकैरुपगतकानां दूतोऽनुप्रेषयितव्यः । सब्राह्मचारी वः कालगतः । हरतास्य पात्रचीवरम् (म्स्विइ ११७) इति । अनुपगतका भाजयन्ति । अभाजितं दुर्भाजितम्* । उपगतका भाजयन्ति । भाजितं सुभाजितम्* । मिश्रका भाजयन्ति (२६७ १ = ग्ब्म् ६.८४७) । अभाजितं दुर्भाजितम्* । चातुर्दिशाय भिक्षुसंघाय परिणामयन्ति । सुपरिणामितम्* ॥ <४> ॥
उद्दानम्* ॥
उपनन्दस्याधिष्टानं घातव्यं मध्यविक्षेपः ।
नास्ति ममात्ययाद्दानं विसृज्यो मनुष्यास्त्रयः ॥
श्रावस्त्यां निदानम्* । उपनन्दस्य मूर्ध्नि पिटको जातः । स वैद्यसकाशं गतः । भद्रमुख भैषज्यं मे व्यपदिशेति । स कथयति आर्य घृतस्य पानं पिब । स्वास्थ्यं ते भविष्यतीति । उपनन्दः संलक्षयति । सचेदद्यैव पास्यामि अद्यैव स्वस्थो भविष्यामि । श्वः कतरेण कल्पेन घृतं समाधापयिष्यामि वस्त्राणि वा । यावदिष्टं कल्पं समाधापयिष्यामि तावत्पश्चात्पास्यामीति । ज्ञातमहापुण्योऽसौ । तेन सार्धंविहार्यन्तेवासिकाः समन्तात्प्रेषिताः । तैः प्रभूता घृतघटका वस्त्राणि च व्रणबन्धनाय समाधापितानि । द्वितीये दिवसे वैद्य आगत्य पृच्छति । आर्य स्वस्थः । पीतं ते घृतम्* । भद्रमुख न पीतम्* । आर्य न शोभनं कृतम्* । अद्य द्विगुणं पिबेति । सार्धंविहार्यन्तेवासिन उक्ता । श्रुतं वो यद्वैद्येनाभिहितम्* उपाध्याय (म्स्विइ ११८) श्रुतम्* । ममायं रोगोऽभिवृद्धः । प्रभूतं घृतं वस्त्राणि च व्रणबन्धनानि स्माधापयतेति । तैः प्रभूततरं घृतं वस्त्राणि च समाधापितानि । तेनातिलोभात्* श्वः कल्पो भविष्यतीति तदपि दिवसे न पीतम्* । रोगोऽस्य प्रबलो जातः । यावत्पुनरपि वैद्य आगत्य पृच्छति । आर्य पीतं घृतम्* । भद्रमुख न पीतम्* । आर्य न शोभनं कृतम्* । स कथयति । भद्रमुख अद्य त्रिगुणं पिबामि । वैद्यः कथयति । आर्य यदि घृतमञ्जूषायामपि निमग्नस्तिष्ठसि तथापि ते नास्ति जीवितमिति । <स कथयति ।> यमदण्डिक यादृशस्त्वम्* । गले ते पादं दत्वा घृतं च पिबामि । जीवामि चेति । स वैद्यो हुमिति कृत्वा सामर्षः प्रक्रान्तः । तत उपनन्देन घृतस्य पात्रं पूरयित्वा पीतम्* । विषूचितः कालगतः । तस्य प्रभूतं सुवर्णं तिस्रः सुवर्णलक्षाः । एका पात्रचीवरात्* । द्वितीया ग्लानभैषज्यात्* । तृतीया कृताकृतात्* । अमात्यैः श्रुतम्* । राज्ञे निवेदितम्* । देव आर्योपनन्दः कालगतः । तस्य प्रभूतं सुवर्णमस्ति । तिस्रः सुवर्णलक्षाः । तदर्हस्याज्ञां दातुमिति । राजा कथयति । यद्येवं गच्छत । अस्य लयनं मुद्रयतेति । भिक्षवस्तमादाय दहनं गताः । तैरागत्य लयनं मुद्रितम्* । भिक्षवस्तमादहने संस्कार्य विहारमागताः । पश्यन्ति लयनं राजमुद्रामुद्रितम्* । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते । गच्छानन्द मद्वचनाद्राजानं (२६८ १ = ग्ब्म् ६.८४८) प्रसेनजितमारोग्यं (म्स्विइ ११९) <पृच्छ> । एवं च वद । यस्मिन्महाराज समये तव राजकरणीयं भवति । अवलोकयसि त्वं तस्मिन् समये उपनन्दं भिक्षुम्* । यस्मिन् वा ते समये आवाहो वा विवाहो व अवलोकयसि तस्मिन् समये उपनन्दम्* । कदाचिद्वा ते उपनन्दो यावज्जीवं प्रवारितः चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः । ग्लानस्य वा उपस्थानं कृतमिति । यदि ब्रूयान्नेति । स वक्तव्यः । पृथङ्महाराज गृहिणां गृहकार्याणि । पृथक्प्रव्रजितानाम्* । अल्पोत्सुकस्त्वं तिष्ठ । सब्रह्मचारिणामेष लाभः प्रापद्यते । निरस्तव्यापारो भवेति । एवं भदन्त इत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्य येन राजा प्रसेनजित्कोसलस्तेनोपसंक्रान्तः । उपसंक्रम्य यथासन्दिष्टं निवेदितवान्* । राजा कथयति । भदन्तानन्द यथा भगवानाज्ञापयति तथा भवतु । निरस्तव्यापारोऽहमिति । तत आयुष्मतानन्देन राज्ञः प्रतिसन्देशो भगवते निवेदितः । तत्र भगवान् भिक्षूनामन्त्रयते स्म । भाजयत यूयं भिक्षव उपनन्दस्य भिक्षोर्मृतपरिष्कारमिति । भिक्षुभिः संघमध्ये अवतार्य विक्रीय भाजितम्* । साकेतकैर्भिक्षुभिः श्रुतम्* । उपनन्दः कालगतः । तस्य प्रभूतं सुवर्णं तिस्रः सुवर्णलक्षा भिक्शुभिर्भाजिता इति । ते त्वरमाणाः श्रावस्तीमागताः कथयन्ति । अस्माकमपि भदन्तोपनन्दः सब्रह्मचारी । अस्माकमपि तत्सन्तको लाभः प्रापद्यत इति । भिक्षुभिः पातयित्वा तैः सार्धं पुनरपि भाजितः । एवं षण्(म्स्विइ १२०) महानगरनिवासिनो भिक्षवः सन्निपतिताः । वैशालकाः
वाराणसीयाः राजगृहेयकाः चांपेयिकाश्च । भिक्षुभिः पुनः पुनः पातयित्वा भाजितः । भिक्षवः पातयन्तो भाजयन्तश्च रिञ्चन्त्युद्देशं पाठं स्वाध्यायं योगं मनसिकारम्* । एतत्प्रकरणं भगवत आरोचयन्ति । भगवानाह । पञ्च करणानि लाभविभागे । कतमे पञ्च । गण्डी त्रिदण्डकं चैत्यं शीलाका ज्ञप्तिः पञ्चकम्* । यो मृतगण्ड्यामाकोट्यमानायामागच्छति तस्य लाभो देयः । एवं त्रिदण्डके भाष्यमाने चैत्यवन्दनायां क्रियमाणायां शीलाका<यामा>चर्यमाणायाम्* । तस्मात्तर्हि भिक्षवः सर्वं मृतपरिष्कारं ज्ञप्तिं कृत्वा भाजयितव्यम्* । अकोप्यं भविष्यति । एवं च पुनः कर्तव्यम्* । शयनासनप्रज्ञप्तिं कृत्वा पूर्ववद्यावत्सर्वसंघे सन्निषण्णे सन्निपतिते मृतपरिष्कारं वृद्धान्ते स्थापयित्वा एकेन भिक्षुणा वृद्धान्ते निषण्णेन ज्ञप्तिः कर्तव्या । शृण्वन्तु भदन्ताः संघाः । (२६८ १ = ग्ब्म् ६.८४९) अस्मिन्नावासे उपनन्दो भिक्षुः कालगतः । तस्येदं मृतपरिष्कारं दृश्यमदृश्यं चावतिष्ठते । सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघो यत्संघ उपनन्दस्य भिक्षोर्मृतद्रव्यं दृश्यमदृश्यं च मृतपरिष्कारिकमधितिष्ठेदित्येषात्र ज्ञप्तिः । एषा भिक्षवो मृतपरिष्कारविभागनिष्ठा यदुत ज्ञप्तिः । ज्ञप्तौ कृतायां यो भिक्षुरागच्छति लाभो न देय इति । आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति । यत्र यत्र भदन्त संघवृत्तः ज्ञप्तिकारको नास्ति तत्र मृतपरिष्कारिकं भाजयितव्यम्* । न भाजयितव्यम्* । उपालिन् (म्स्विइ १२१) पूर्वाचरमं कृत्वा <भाजयितव्यम्* ।> पूर्वाचरममपि भिक्षवो न जानन्ति । भगवानाह । एकं परिष्कारं विक्रीय ततः स्तोकं संघवृद्धाय संघनवकाय च दत्वा यथेष्टं भाजयितव्यम्* । नात्र कौकृत्यं करणीयम्* । ज्ञप्तौ च कृतायां पूर्वाचरमे वा मृतपरिष्कारिको लाभः सर्वबुद्धशिष्येभ्यः प्रापद्यत इति ।
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । पश्य भदन्तायुमानुपनन्दः अतिलोभेन विपन्नः । भगवानाह । न भिक्षव एतर्हि यथा अतीतेऽप्यध्वनि अतिलोभेन विपन्नः । तच्छ्रूयताम्* ।
भूतपूर्वं भिक्षवोऽन्यतमेन लुब्धेन हस्ती सविषेण शरेण मर्मणि ताडितः । ततस्तेन मर्मवेदनाभ्याहतेन शरानुसारेण गत्वा स लुब्धो जीविताद्व्यपरोपितः । यावद्दैवयोगा<त्*> पञ्चमात्राणि चौरशतान्यन्यतमं कर्वटकं मुषित्वा तं प्रदेशमनुप्राप्तानि । तैरसौ हस्ती दृष्टः । स कृच्छ्रकालो वर्तते । ते कथयन्ति । भवन्तः संपन्नमिदं मांसम्* । अर्धतृतीयानि शतानि हस्तिनं विशस्य मांसं पचन्तु । अर्धतृतीयानि शतानि पानीयमानयन्त्विति । तत्र ये विशसन्ति पचन्ति च तेषाम् (म्स्विइ १२२) एतदभवत्* । भवन्तोऽस्माभिरीदृशं कर्म कृतम्* । इदं च लोप्त्रं प्रभूतं संपन्नकम्* । यावदाप्तं मांसं भक्षयित्वा अवशिष्टं विषेण दूषयिष्यामः । किमर्थं तेषामनुप्रयच्छामः । लोप्त्रमस्माकं भविष्यति । ते विषदूषितं मांसं भक्षयित्वा प्राणैर्वियोक्ष्यन्तीति । तैर्यावदाप्तं मांसं भक्षयित्वावशिष्टं विषेण दूषितम्* । येऽपि पानीयस्य गातास्तैरप्येवमेव विचार्य यावदाप्तं पानीयं पीत्वावशिष्टं विषेण दूषितमदायागताः । यैर्मांसं भक्षितं तैः पानीयं पीतम्* । यैरपि पानीयं पीतं तैरपि मांसं भक्षितम्* । सर्वे ते कालगाताः । यावदन्यतमः शृगालः कालपाशपाशितस्तं प्रदेशमनुप्राप्तम्* । तेन ते सर्वे मृता दृष्टाः । ततो लोभसौमनस्यः संलक्षयति । संपन्नो मे प्रभूतो लाभः । आनुपूर्वी कर्तव्या इति । स धनुषो (२६९ १ = ग्ब्म् ६.८५०)ऽटनिं मुखे प्रक्षिप्य स्नायुं भक्षयितुमारब्धः । ततः स्नायुश्छिन्ना । अटन्या तालु च्छिद्रितम्* । कालगतः ।
देवता गाथां भाषन्ते ।
संचयः खलु कर्तव्यो न कार्यस्त्वतिसंचयः ।
पश्य संचयलोभान्धो हतश्च येन जम्बुकः ।
किं मन्यध्वे भिक्षवो योऽसौ जम्बुक एष एवासावुपनन्दस्तेन कालेन तेन समयेन । तदाप्येषोऽतिलोभेन विपन्नः । एतर्ह्यपि एषोऽतिलोभेन विपन्न इति ।
श्रावस्त्यां निदानम्* । तेन खलु समयेनान्यतमो भिक्षुराबाधिको दुःखितो बाढग्लानः तस्य भिक्षुणा उपस्थानं कृतम्* । (म्स्विइ १२३) तथापि कालगतः । तस्य पात्रचीवरं वृद्धान्ते नीतम्* । तत्रैकं चीवरं केनापि नाशितम्* । मक्षिकाभिराकीर्णम्* । ततश्चीवरभाजकेनासावुपस्थायिकोऽभिहितः । आयुष्मन्नलसस्त्वम्* । न त्वयैतच्चीवरं शोचितम्* । शोचय । स कथयति । त्वं परिष्कारं भाजयिष्यसि । अहं शोचयिष्यामि । त्वमेव शोचय । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । ग्लानोपस्थायिकस्य षट्परिष्कारा दातव्याः । अवशिष्टं भिक्षुभिर्भाजयितव्यम्* । उपस्थायिकाश्चेद्बहवो भवन्ति सर्वैः षट्परिष्काराः सामान्यं भाजयितव्याः ।
अपरे भिक्षवो ज्ञातमहापुण्याः कालं कुर्वन्ति । तेषां बहवः परिष्काराः श्रामण्यपरिष्कारा जीवितपरिष्काराश्च । वृद्धान्तेऽभिरोहिताः । उक्तं भगवता । उपस्थायकेन षट्परिष्कारा ग्रहीतव्या इति । स विचार्य विचार्य प्रणीतानि गृह्णाति । भगवानाह । न प्रणीतानि दातव्यानि । भिक्षवो लूहानि ददति । भगवानाह । न लूहानि दातव्यानि । अपि तु मध्यानि दातव्यानिति ।
ग्लानाः असंविदिता एव सांघिके शयनासने कालं कुर्वन्ति । भगवानाह । ग्लानोपस्थायकेन ग्लानस्य निमित्तं कुशलेन भवितव्यं मुहुर्मुहुः प्रत्यवेक्षितव्यः कृत्यस्य न हापयितव्यम्* । शरीरावस्थां ज्ञात्वा पौद्गलिके शयनासने व्याजेनावतार्य शायितव्य इति ।
(म्स्विइ १२४)
श्रावस्त्यां निदानम्* । अन्यतमो भिक्षुर्ग्लानस्तेन शरीरावस्थां परिच्छिद्य भिक्षुरभिहितः । यावदहं जीवामि तावदुपस्थानं कुरु । मदीयं पात्रचीवरं मृते मयि तव यथासुखमिति । स तस्योपस्थानं कर्तुमारब्धः । यावदसौ भिक्षुः कालगतः । ततश्चीवरभाजकेनासौ उक्तः । आनय तस्य भिक्षोः पात्रचीवरम्* । भाजयामि । स कथयति । ममैव तेन यथासुखं कृतमिति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । जीवन्नेवासौ भिक्षवो न ददाति । कुतः पुनर्मृतो दास्यति । (२६९ १ = ग्ब्म् ६.८५१) नास्तीदं दानं ममात्ययादस्य भविष्यति । गृहीत्वा भाजयितव्यम्* । तस्यात्र भिक्षवो सुप्रत्यंशो देय इति ।
तेन खलु समयेनान्यतमो भिक्षुराबाधिको दुःखितो बाढग्लानः । स चाल्पज्ञातः । तस्य भैषज्यं नास्ति । तेन शरीरावस्थां परिच्छिद्य उपस्थायिकोऽभिहितः । मम नास्ति किंचित्* । मामुद्दिश्य पूजां कुरुष्वेति । तेन प्रतिज्ञातम्* । स कालगतः । अपायेषूपपन्नः । अथ भगवान् भिक्षूनामन्त्रयते स्म । योऽसौ भिक्षवो भिक्षुः कालगतः किं तेनोपस्थायिकोऽभिहितः । तैर्यथावृत्तमाख्यातम्* । विनिपतितोऽसौ भिक्षवो भिक्षुः । यदि तस्य सब्रह्मचारिभिः रत्नत्रयपूजा कृताभविष्यत्* चित्तमस्याभिप्रसन्नमभविष्यत्* । तस्मान्न भिक्षुणा ग्लानसब्रह्मचारी अध्युपेक्षितव्यः । ग्लानोपस्थायिको दीयते । तद्यद्यस्य भैषज्यं नास्ति तं पृष्ट्वा (म्स्विइ १२५) दानपतयः समादापयितव्याः । सचेत्संपद्यत इत्येवं कुशलम्* । नोचेत्संपद्यते सांघिकं देयम्* । सचेत्संपद्यत इत्येवं कुशलम्* । नोचेत्संपद्यते बुद्धाक्षयनीविसन्तिकं देयम्* । सचेतपि न संपद्यते यत्तथागतचैत्ये वा गन्धकुट्यां वा छत्रं वा ध्वजं वा पताका वा आभरणकं वा संघेन दानीयं दातव्यमिति । उपस्थायिकेन विक्रीयोपस्थानं कर्तव्यं शास्तुश्च पूजा । स्वस्थीभूतस्यारोचयितव्यं यद्बुद्धसन्तकं तवोपयुक्तमिति । यद्यस्य विभवोऽस्ति । तेन यत्नमास्थाय दातव्यम्* । सचेन्नास्ति यदस्योपयुक्तम्* । अर्हति पुत्रः पैतृकस्य । नात्र कौकृत्यं करणीयमिति ।
श्रावस्त्यां निदानम्* । अन्यतमो भिक्षुराबाधिको दुःखितो बाढग्लानो वेदनाभिभूतः । तस्य पात्रं शोभनम्* । स तस्मिनतीवाध्यवसितः । उपस्थायकमाह । आनय मे पात्रमिति । तेन न दत्तम्* । स तस्यान्तिके चित्तं प्रदूष्य पात्रेऽध्यवसितः कालगतः । स तस्मिन्नेव पात्रे आशीविषो <भूत्वा> उत्पन्नः । भिक्षवस्तमादहनं नीत्वा संस्कार्य विहारमागताः । भिक्षुः संनिपतितः । चीवरभाजकेन मृतपरिष्कारिकं वृद्धान्तेऽभिरोहितम्* । तत्र भगवानायुष्मन्तम् (म्स्विइ १२६) आनन्दमामन्त्रयते स्म । गच्छानन्द । भिक्षूणामारोचय । न केनचित्तस्य भिक्षोः पात्रस्थविका मोचयितव्या । तथागत एव मोचयिष्यति । आयुष्मतानन्देन भिक्षूणामारोचितम्* । ततो भगवता स्वयमेव मोचितः । आशीविषो महान्तं फणं कृत्वावस्थितः । ततो भगवता ऋच्छटाशब्देन प्रबोध्याभिहितः । गच्छ मोहपुरुष । त्यजैनं पात्रम्* । भिक्षवो भाजयन्तु इति । स कुपितो यथेष्टगतिप्रचारतया वनगहनं (२७० १ = ग्ब्म् ६.८५२) प्रविष्टः । स तस्मिन् क्रोधाग्निना प्रज्वलितः । तद्वनगहनं प्रदीप्तम्* । तत्रैव दग्धो भिक्षूणामन्तिके चित्तमभिप्रदूष्य नरकेषूपपन्नः । तत्र भगवान् भिक्षूनामन्त्रयते स्म । निर्विद्यतां भिक्षवः सर्वभवेभ्यो निर्विद्यतां सर्वभवोपपत्तिकरणेभ्यः । यत्र नामैकस्य सत्वस्य त्रिषु स्थानेषु कायो दह्यते । वनगहने क्रोधाग्निना । नरके नारकेण । श्मशाने प्राकृतेन । तस्मान्न भिक्षूणा परिष्कारेऽत्यर्थमध्यवसानमुत्पादयितव्यम्* । यस्मिन्नुत्पद्यते तत्परित्यक्तव्यम्* । न परित्यजति । सातिसारो भवति । अपि तु यदि ग्लानः स्वं परिष्कारं याचते । उपस्थायकेन लघुलघ्वेव दातव्यम्* । न ददाति । सातिसारो भवति ।
श्रावस्त्यां निदानम्* । तेन खलु समयेनान्यतमो भिक्षुर्ग्लानो लयने कालगतः । अमनुष्यकेषूपपन्नः । चीवरभाजको भिक्षुस्तं लयनं प्रवेष्टुमारब्धः । पात्रचीवरं भाजयामीति । स तीव्रेण पर्यवस्थानेन लगुडमादायोत्थितः कथयति । यावन्मामभिनिर्हरथ (म्स्विइ १२७) तावत्पात्रचीवरं भाजयथेति । स संत्रस्तो निष्पलायितः । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । पूर्वं तावन्मृतो भिक्षुरभिनिर्हर्तव्यः पश्चात्तस्य पात्रचीवरं भाजयितव्यमिति ।
श्रावस्त्यां निदानम्* । तेन खलु समयेनान्यतमो भिक्षुर्कालगतः । भिक्षवस्तमभिनिर्हृत्य एवमेव श्मशाने छोरयित्वा विहारमागतः । चीवरभाजकस्तस्य लयनं प्रविष्टः । पात्रचीवरं भाजयामीति । सोऽमनुष्यकेषूपपन्नः । लगुडमादायोत्थितः । स कथयति । यावन्मम शरीरपूजां कुरुथ तावत्पात्रचीवरं भाजयथेति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । भिक्षुभिस्तस्य पूर्वं शरीरपूजा कर्तव्येति । ततः पश्चात्पात्रचीवरं भाजयितव्यम्* । एष आदीनवो <न> भविष्यतीति ।
श्रावस्त्यां निदानम्* । तेन खलु समयेनान्यतमो भिक्षुर्ग्लानो लयने कालगतः । स भिक्षुरादहनं नीत्वा शरीरपूजां कृत्वा दग्धः । ततो विहारमागतः । चीवरभाजकस्तस्य लयनं प्रविष्टः । स लगुडमादायोत्थितः । तत्तावन्मामुद्दिश्य धर्मश्रवणमनुप्रयच्छथ तावच्चीवरकाणि भाजयथेति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । तमुद्दिश्य धर्मश्रवणं दत्वा दक्षिणामुद्दिश्य पश्चाच्चीवरकाणि भाजयितव्यानीति ।
उद्दानम्* ।
ग्लानकश्चाथ श्रेष्ठी च प्रतिवस्तु नवकर्मिकः ।
सीमा चतुष्किकां कृत्वा अष्टौ दूतेन कारयेत्* ।
(म्स्विइ १२८)
श्रावस्त्यां निदानम्* । तेन खलु समयेनान्यतमेन (२७० १ = ग्ब्म् ६.८५३) गृहपतिना बुद्धप्रमुखो भिक्षुसंघोऽन्तर्गृहे भक्तेनोपनिमन्त्रितः । भिक्षुसंघः प्रविष्टः । भगवानौपधिकेऽस्थादभिनिर्हृतपिण्डपातः । पंचभिः कारणैर्बुद्धा भगवन्तः औपधिके तिष्ठन्त्यभिनिर्हृतपिण्डपाताः । कतमैः पंचभिः । प्रतिसंलातुकामा भवन्ति । देवतानां धर्मं देशयितुकामा भवन्ति । शयनासनं प्रत्यवेक्षितुकामा भवन्ति । ग्लानमवलोकयितुकामा भवन्ति । श्रावकाणां विनयशिक्षापदं प्रज्ञपयितुकामा भवन्ति । अस्मिंस्त्वर्थे द्वाभ्यां कारणाभ्यां बुद्धो भगवानौपधिकेऽस्थादभिनिर्हृतपिण्डपातः ।
अथ भगवानचिरप्रक्रान्तं भिक्षुसंघं विदित्वा अपावरणीं गृहीत्वा आरामेणारामं विहारेण विहारं परिगणेन परिगणं चंक्रमेण चंक्रममनुचंक्रम्यमाणोऽनुविचरति । अनेनान्यतमो महल्लको विहारस्तेनोपसंक्रान्तः । तत्र भिक्षुर्बाढग्लानः अल्पज्ञातः स्वे मूत्रपुरीषे निमग्नो भगवन्तं दृष्ट्वापरस्वरमकार्षीत्* । अनाथोऽस्मि भगवन्* । अनाथोऽस्मि सुगत इति । भगवानाह । कस्मात्त्वं भिक्षो मां त्रैलोक्यनाथमुद्दिश्य प्रव्रजित एवं विरौषि । अनाथोऽस्मि भगवन्* । अनाथोऽस्मि सुगत इति । न मे भदन्त कश्चित्सब्रह्मचारी उपस्थानं करोत्यवलोकयति वा । अस्ति त्वया भिक्षो कस्यचित्(म्स्विइ १२९) सब्रह्मचारिण उपस्थानं कृतमवलोकितं वा । नो भदन्त । अत एव ते इयं समवस्था । भगवां लौकिकचित्तमुत्पादयति । अहो बत शक्रो देवेन्द्रोऽनवतप्तान्महासरः पानीयमादाय गन्धमादनाच्च पर्वतान्मृत्तिकामानयेदिति । धर्मता खलु यस्मिन् समये भगवां लौकिकं चित्तमुत्पादयति तस्मिन् समये शक्रब्रह्मादयोऽपि देवा भगवतश्चित्तमाजानन्ति । ततः शक्रो देवेन्द्रः अनवतप्तान्महासरसः अष्टांगोपेतस्य पानीयस्य सौवर्णं भृङ्गारमादाय गन्धमादनाच्च पर्वतान्मृत्तिकां लघुलघ्वेव भगवतः पुरस्तादस्थात्* । एवं चाह । तिष्ठतु भगवानहमस्योपस्थानं करोमि । भगवानाह । नैष कौशिकमुद्दिश्य प्रव्रजितः किं तु माम्* । अपि तु किं त्वयैष पूर्वं न दृष्टः । तिष्ठ त्वम्* । शुचिकामा देवाः । अहमेवास्योपस्थानं करोमि । ततो भगवता चीवरं बद्ध्वा चक्रस्वस्तिकनन्द्यावर्तेनानेकपुण्यशतनिर्जातेन भीतानामाश्वासनकरणकरेणासौ भिक्षुर्गृहीत्वा मूत्रपुरीषादुद्धृत्य एकान्ते स्थापितः । वंशविदलिकया निर्लिखितः । पाण्डुमृत्तिकया उद्वर्तितः स्नापितः । ततः <स्थापितः ।> (२७१ १ = ग्ब्म् ६.८५४) <चीव>रकाण्यस्य प्रक्षालितानि । तस्मिन् प्रदेशे सुकुमारी गोमयकार्षी दत्ता । ततो हस्तपादौ संप्रशोध्य शक्रं देवेन्द्रं ग्लानोपस्थानपूर्विकया (म्स्विइ १३०) धर्मदेशनया सन्देश्य समादाप्य विहारं प्रविष्टः । <आयुष्माना>नन्दः पिण्डपातनिर्हारकः पिण्डपातमादाय भगवत्सकाशमुपसंक्रान्तः । धर्मता खलु बुद्धा भगवन्तः पिण्डपातनिर्हारकं भिक्षुमनया प्रतिसंमोदनया प्रतिसंमोदन्ते । कच्चिद्भिक्षो प्रणीतं भक्तं संतर्पितो भिक्षुसंघ इति । प्रतिसंमोदते भगवानायुष्मन्तमानन्दम्* । कच्चिदानन्द प्रणीतं भक्तं संतर्पितो भिक्षुसंघ इति । तथ्यं भदन्त । प्रणीतं भक्तं संतर्पितो भिक्षुसंघः । ततो भगवानुपार्धपिण्डपातमादायायुष्मन्तमानन्दमामन्त्रयते । गच्छ आनन्द अमुष्मिन् विहारे बाढग्लानो भिक्षुः । तस्मै <दे>यमुपार्धपिण्डपातम्* । यद्भूंक्ते चैनं वक्तव्यः । शास्त्रा ते आयुष्मन् स्वयमेवोपस्थानं कृतम्* । उपार्धपिण्डपातेन च संविभागः कृत इति । एवं भदन्त इत्यायुष्मानानन्दो भगवतः प्रतिश्रुत्योपार्धपिण्ड<पात>मादाय तस्मै दत्वा यथासन्दिष्टमारोचितवान्* ।
अथ तस्य भिक्षोरेतदभवत्* । मम त्रैलोक्यगुरुणा स्वयमुपस्थानं कृतमुपार्धपिण्डपातश्च दत्तः । न मम प्रतिरूपं स्याद्यदहं श्रद्धादेयं परिभुज्य कौसीद्येनातिनामयेयम्* । यन्वहं पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्तो विहरेयमिति । तेन पूर्वरात्रापररात्रं जागरिकायोगमनुयुक्तेन विहरता इदमेव च पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतिं शतनपतनविकिरणविध्वंसनधर्मतया (म्स्विइ १३१) पराहत्य सर्वक्लेशप्रहाणादर्हत्वं साक्षात्कृतमिति । अर्हन् संवृत्तः । त्रैधातुके वीतरागः समलोष्ट्रकांचनः आकाशपाणितलसमचित्तो वासीचन्दनकल्पोऽविद्याविदारिताण्डकोशो विद्याभि<ज्ञः> प्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपरांमुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्योऽभिवाद्यश्च संवृत्तः ।
तत्र भगवान् भिक्षूनामन्त्रयते । एषां भिक्षवो ग्लानानां न माता न पिता न चान्यो बन्धुः नान्यत्र यूयमेव सब्रह्मचारिणः । तस्मात्सब्रह्मचारिभिः पस्रस्परमुपस्थानं करणीयम्* । उपाध्यायेन सार्धंविहारिणः । सार्धंविहारिणा उपाध्यायस्य । आचार्येणान्तेवासिनः । अन्तेवासिना आचार्यस्य । समानोपाध्यायेन समानोपाध्यायस्य । समानाचार्येण समानाचार्यस्य । आलप्तकेनालप्तकस्य । संलप्तकेन संलप्तकस्य । (२७१ १ = ग्ब्म् ६.८५५) संस्तुकेन संस्तुकस्य । सप्रेमकेन सप्रेमकस्य । यः पर्षद्विनिर्मुक्तोऽल्पज्ञातश्च तस्य संघेनोपस्थायिको देयः । ग्लानावस्थां परिच्छिद्य एको वा द्वौ वा संबहुला वा । अन्ततः सर्वसंघेनोपस्थानं करणीयम्* ।
भिक्षवः संशयजाताः सर्वसंशयच्छेतारं बुद्धं भगवन्तं पप्रच्छुः । पश्य भदन्त भगवता तस्य भिक्षोः स्वयमेवमुपस्थानं कृतम्* । तेन चार्हत्वं साक्षात्कृतमिति । भगवानाह । न भिक्षव एतर्हि (म्स्विइ १३२) यथा अतीतेऽप्यध्वनि तस्य मया उपस्थानं कृतम्* । तेन च पञ्चाभिज्ञाः साक्षात्कृताः ।
भूतपूर्वं भिक्षवोऽन्यतमस्मिन्नाश्रमपदे पुष्पफलसलिलसंपन्ने नानावृक्षोपशोभिते ऋषिः प्रतिवसति पञ्चाभिज्ञः । तेन शिष्यस्योपस्थानं कृतम्* । स्वस्थीभूतः । ततस्तेन पञ्चाभिज्ञाः साक्षात्कृताः । किं मन्यध्वे भिक्षवः । योऽसौ तेन कालेन तेन समयेन ऋषिरासीदहं सः । योऽसौ तस्य ऋषेः शिष्य एष एवासौ भिक्षुः । तदाप्यस्य मया उपस्थानं कृतमेतर्ह्यप्यस्य मया उपस्थानं कृतम्* ।
पुनरपि भिक्षवो बुद्धं भगवन्तं पप्रच्छुः । पश्य भदन्तातीव भगवतो ग्लानकः प्रिय इति । भगवानाह । न भिक्षव एतर्हि यथा अतीतेऽध्वनि ममातिव ग्लानकाः प्रियाः । तच्छ्रूयताम्* ।
भूतपूर्वं भिक्षवः शिवघोषायां राजधान्यां सिविर्नाम राजा राज्यं कारयति । ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च । तस्य नास्ति किंचिदपरित्याज्यं याचनकेभ्यो विशेषतस्तु ग्लानेभ्यः । यावदन्यतमो गृहपतिर्ग्लानः सर्ववैद्यप्रत्याख्यातो राज्ञः सकाशं गतः । देव चिकित्सां मे कारय इति । ततो राज्ञा वैद्यानामाज्ञा दत्ता । भवतोऽस्य चिकित्सां कुरुतेति । ते कथयन्ति । देव दुर्लभान्यस्य भैषज्यानीति । राजा कथयति । कीदृशानि पुनस्तानि भैषज्यानि । देव यः कदाचिज्जन्मनः प्रभृति <न> कस्यचिद्रुषितपूर्वस्तस्य रुधिरेण यवागूः षण्मासान् दातव्या । एवमस्य स्वास्थ्यं भवति । नान्यथेति । राजा कथयति । सत्यं दुर्लभमस्य <भैषज्यम्* । स आ>त्मनः (म्स्विइ १३३) प्रचारं परिच्छेत्तुमारब्धः । दुःखमात्मनः प्रचारः परिच्छिद्यते । स धात्रीं प्रष्टुमारब्धः । अम्ब अस्त्यहमियता कालेन कस्यचिद्रुषितपूर्वः । कुमार यदा त्वं ममांसगतस्तदाहमपि न कस्य<चिद्रुषितपूर्वा प्रागेव त्व>मिति । ततो जनन्याः सकाशमुपसंक्रान्तः । कथयति । अम्ब अस्त्यहं कस्यचिद्रुषितपूर्वः । कुमार यदा त्वं मम कुक्षिगतस्तदाहमपि न कस्यचिद्रुषितपूर्वा प्रागेव त्वमिति । स संलक्षयति (२७२ १ = ग्ब्म् ६.८५६) । लब्धं भैषज्यमिति विदित्वा तेन वैद्याना<मा>ज्ञा दत्ता । भवन्तो मयात्मा परीक्षितः । अहं न कदाचित्कस्यचिद्रुषितपूर्वः । मम पंचेङ्खिकशिरावेधं कुरुत । देव वयं प्राकृतपुरुषस्यार्थाय देवस्य काये शस्त्रं <न> निपातयामः । कुशला भवन्ति बोधिसत्वास्तेषु तेषु शिल्पस्थानकर्मस्थानेषु । राज्ञा स्वयमेव शिरावेधः कृतः । तेन च रुधिरेण षण्मासान् प्रतिदिनं तस्मै यवागूर्दत्ता । स्वस्थो जातः । किं मन्यध्वे भिक्षवः । योऽसौ राजा अहं स तेन कालेन तेन समयेन । तदापि मे ग्लानकाः प्रियाः प्रागेवेदानीम्* ।
पुनरपि शिवे राज्ञः पुत्रस्य पार्श्वशोषो जातः । राज्ञा वैद्यानामाज्ञा दत्ता । भवन्तोऽस्य कुमारस्य चिकित्सां कुरुतेति । ते कथयन्ति । देव सर्वसारं घृतं पच्यताम्* । इति विदित्वा द्वादशभिर्वर्षैः सर्वद्रव्याणि समुपानीतानि । अद्यापि जीवजीवकमांसं न लभ्यते । वैद्यैः शाकुन्तिकानामाज्ञा दत्ता । आगच्छत । आदर्शकं (म्स्विइ १३४) कुक्कुटकं च गृहीत्वा समुद्रतटं गच्छत । तत्र पाशान् पातयित्वा कुक्कुटकस्य पुरस्तादादर्शं स्थापयत । कुक्कुटः स्वं प्रतिबिम्बं दृष्ट्वा कुक्कुटोऽयमिति रविष्यति । कौतूहली जीवजीवकः कुक्कुटशब्दं श्रुत्वा कुक्कुटसमीपमागमिष्यति । अयं तस्य बन्धनोपाय इति । तैस्तथा कृतम्* । यावत्कर्मपाशितो जीवजीवकः प्राणी बद्धः । ते तमादाय संप्रस्थिताः । धर्मता ह्येषा अचिरव्यतिवृते लोकसन्निवेशे तिर्यञ्चोऽपि वाक्प्रव्याहरणसमर्था भवन्ति । जीवजीवकः प्राणी कथयति । भवन्तः कुत्र मां नयथ । तैर्यथावृत्तं समाख्यातम्* । स कथयति । मुंचत मुंचत माम्* । मांसबलो नाम औषधी कथयसि रत्नानि वेति । ते कथयन्ति । उपदर्शय तावत्पश्यामः कीदृशास्ता ओषधय इति । तेन समाख्यातम्* । मदीयस्नानोदकं मांसबलम्* । तदादाय गच्छ । इमानि च रत्नानीति । ते राज्ञः शंकिताः । रत्नान्यपास्य तमेव जीवजीवकमादाय संप्रस्थिताः । अनुपूर्वेण शिवघोषां राजधानीमनुप्राप्ताः । तैर्जीवजीवकप्राणी राज्ञ उपनामितः । यच्च तेनौषधमादिष्टं तच्च कथितम्* । ततो राज्ञा जीवजीवकः पृष्टः । कथयति । देव मम स्नानोदकं मांसबलमिति । राज्ञा सप्त उदकमणयः शोभनाम्भसः पूर्णाः स्थापिताः । स तेषु यावत्स्नातो यावत्सुविश्रान्तो जातः । ततः कायस्य बलं ज्ञात्वा सहसा उत्फ्लुत्य शरणपृष्ठमभिरूढो विगतभयभैरवो गाथां भाषते ।
(म्स्विइ १३५)
पूर्वं तावदहं मूर्खः पश्चाच्(२७२ १ = ग्ब्म् ६.८५७) छाकुन्तिका इमे ।
ततो राजा च वैद्याश्च संपूर्णं मूर्खमण्डलम्* ॥
इत्युक्त्वा प्रक्रान्तः । ततो राज्ञा <वैद्या> आहूय पृष्टाः । भवन्तः सत्यम्* । भवन्तः जीवजीवकस्य स्नानोदकं तन्मांसेन समबलमिति । ते कथयन्ति । देव सत्यम्* । पचत घृतम्* । तैः सर्वसारं घृतं पक्वम्* । राजपुत्र उपयोक्तुं प्रवृत्तः । यावदन्यतमस्मिन् हिमवत्कन्दरे पंच प्रत्येकबुद्धशतानि प्रतिवसन्ति तत्रैकस्य पार्श्वशोषो जातः । स तैः प्रत्येकबुद्धैरभिहितः । आयुष्मन् जनपदान् गत्वा वैद्यं पृष्ट्वा भैषज्यं सेव<स्व> । स्वस्थो भविष्यसीति । कथयति । आयुष्मन्त आगमिष्यन्ति । स धर्मो बहुजनानिष्टो बहुजनाकान्तो बहुजनाप्रियो बहुजनामनापः सर्वसत्वाधारणः यदुत मरणं नाम यो मां स व्याधिना नेष्यति । कस्यार्थाय ग्रामान्तमवसरामीति । ते कथयन्ति । आयुष्मन् यद्यप्येवं यथापि यावच्छीलवान् पुरुषपुद्गलश्चिरं जीवति तावद्बहुपुण्यं प्रसूयते । यावद्बहुपुण्यं प्रसूयते तावच्चिरं स्वर्गेषु मोदते । स तैरुपरुध्यमानो जनपदादवतीर्णः । अनुपूर्वेण शिवघोषां राजधानीमनुप्राप्तः । ततो मार्गश्रमं प्रतिविनोद्य <वैद्य>सकाशं गतः । भद्रमुख ममेदृशो रोगः । भैषज्यं व्यपदिश इति । स कथयति । आर्य यादृश एवायं तव रोगस्तादृश एव राज्ञ पुत्रस्य । द्वादशभिर्वर्षैः सर्वसारं घृतं पक्वम्* । गत्वा प्रार्थय । यद्यप्येतत्ते मण्डमपि (म्स्विइ १३६) भाग्यविशेषात्प्रतिलभ्यसे तेन ते याप्यं भविष्यतीति । स राजकुलद्वारं गत्वावस्थितः । आचरितं तस्य राज्ञः । घण्टा द्वारे नित्यं प्रलम्बिता । याचनकजननिवेदी । यदा याचनको द्वारे तिष्ठति तदासौ रौति । यावदसौ घण्टा प्रत्येकबुद्धमागतं निवेदयन्ती रटितुमारब्धा । ततो राजपुत्रः कथयति । अम्ब तात यावनकोऽभ्यागतः । विचार्यतां किं प्रार्थयतीति । तौ कथयतः । पुत्र अस्माभिर्द्वादशभिर्वर्षैर्द्रव्यसंहारं कृत्वा इदं घृतं पक्वम्* । पिब तावत्पश्चाद्याचनकं प्रवेशयामः । विचारयिष्यामः किं प्रार्थयतीति । तस्य कृतकुतूहलस्वस्त्ययनस्य घृतं पातुकामस्य याचनकभाजनाशामर्मसंघट्टितशरीरस्य तद्वृत्तं न रोचते । कथयति च । अम्ब तात न तावपरिभोक्ष्ये यावद्याचनकः प्रविशत इति । राज्ञा दौवारिकस्याज्ञा दत्ता । याचनकं प्रवेशय इति । स प्रवेशितः । राजपुत्रेण दृष्टः । कायप्रासादिकश्चित्तप्रासादिकश्च शान्तेनेर्यापथेनावतीर्णः । स कथयति । आर्यकेण किं प्रयोजनम्* । तेन विस्तरेण समाख्यातम्* । स कथयति । आर्य त्वमेव मण्डार्हो नाहम्* । गृहाण । ददामीति । तेन पात्रं प्रसारितम्* । राजपुत्रेण तीव्रेणाशयेन (२७३ १ = ग्ब्म् ६.८५८) तस्मै तन्मण्डो दत्तः । तेनापि महात्मना सर्वसत्वहितानुगतं राजपुत्रेण चित्तमुत्पादितम्* । ऋध्यति शीलवतश्चेतःप्रणिधानम्* । तच्च विशुद्धत्वाच्छीलस्येति । उभावपि स्वस्थौ संवृत्तौ । किं मन्यध्वे भिक्षवो योऽसौ राजकुमारः (म्स्विइ १३७) अहमेव स तेन कालेन तेन समयेन । तदापि मे ग्लानकाः प्रियाः प्रागेवेदानीम्* ।
किं भदन्त तेन राजपुत्रेण तेन च प्रत्येकबुद्धेन कर्म कृतं येन तयोर्युगपद्व्याधिरुत्पन्नो युगपच्च व्युपशान्तिरिति । भगवानाह । तस्यामेव भिक्षवः पूर्वमन्यासु जातिषु कर्माणि कृतान्युपचितानि लब्धसंभाराणि परिणतप्रत्ययान्योघवत्प्रत्युपस्थितानि अवश्यंभावीनि । न भिक्षवः कर्माणि कृतान्युपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते । नाब्धातौ । न तेजोधातौ । न वायुधातवपि । भूधातुष्वेव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्यशुभानि च ।
न प्रणश्यन्ति कर्माणि अपि कल्पशतैरपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा बभूव । तस्य द्वौ पुत्रौ । तयोर्यः कनीयान् स राज्याभिनन्दी । पुरोहितस्यापि द्वौ पुत्रौ । तयोरपि कनीयान् स पौरोहित्यं प्रार्थयते । धातुश<ः> सत्वा<ः> संस्यन्दन्त इति तयोः परस्परं सख्यमुत्पन्नम्* । राजपुत्रः कथयति । क उपायः स्याद्येनाहं राजा भवेयम्* । स कथयति । अस्त्युपायः । यदि त्वं मां पौरोहित्ये स्थापयसि (म्स्विइ १३८) कथयामीति । स कथयति । एवं भवतु । कथय । स्थापयामीति । स कथयति । अहं तव भ्रातरं व्यंगं करोमि । त्वं राजा भवसीति । तेनानुमोदितम्* । ततस्तेन तस्य ज्येष्ठस्य राजपुत्रस्य भैषज्यं दत्तम्* । व्यंगीभूतम्* । अपरेण समयेन राजा कालगतः । अमात्यैः स व्यंग इति कृत्वा कनीयान् राज्येऽभिषिक्तः । तेनाप्यसौ कनीयान् पुरोहितपुत्रः पौरोहित्ये प्रतिष्ठापितः । यावदपरेण समयेन राजा पुरोहितेन सार्धं संलापेन तिष्ठति । राज्ञासौ भ्राता व्यंगो दृष्टः । तस्य तं दृष्ट्वा विप्रतिसार उत्पन्नः । न शोभनं मया कृतं यद्राज्यहेतोर्भ्राता व्यंगीकृत इति । पुरोहितः कथयति । देव ममापि विप्रतिआर उत्पन्नः । यदि देवस्याभिमतं पुनरप्येवं यथापौराणं करोमीति । स कथयति । कुरुष्वानुजाने । तेन तस्य भैषज्यं दत्तम्* । स्वस्थीभूतः । ततस्तौ प्रत्येकबुद्धे कारान् कृत्वा प्रणिधानं कर्तुमारब्धौ । यदावाभ्यामेवंविधे सद्भूतदक्षिणीये काराः कृता अस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जायेयहि । अस्य च पापस्य व्यंगीकरणस्य कर्मणो विपाकमनुभवेयमिति (२७३ १ = ग्ब्म् ६.८५९) । किं मन्यध्वे भिक्षवः । योऽसौ राजपुत्रः अहमेव स तेन कालेन तेन समयेन । योऽसौ पुरोहितपुत्रः एष एवासौ प्रत्येकबुद्धः । यत्ताभ्यां संजल्पं कृत्वा राजकुमारस्य भैषज्यं दत्तं तेन युगपद्व्यंगौ संवृत्तौ । यत्तु विप्रतिसाराभ्यां विचार्य पुनर्भैषज्यं दत्तं तेन युगपत्स्वस्थीभूतौ । इति हि (म्स्विइ १३९) भिक्षवः एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकः । एकान्तशुक्लानामेकान्तशुक्लः । व्यतिमिश्राणां व्यतिमिश्रः । तस्मात्तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्यपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्वेव कर्मस्वाभोगाः करणीयः । इत्येवं वो भिक्षवः शिक्षितव्यम्* ।
श्रावस्त्यां निदानम्* । तेन खलु समयेन श्रावस्त्यां श्रेष्ठिनामा गृहपतिराढ्यो महाधने महाभोगे विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात्कुलात्कलत्रमानीतम्* । सोऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीनन्यांश्च देवताविशेषानायाचते । तद्यथा आरामदेवता वनदेवताश्चत्वरदेवताः शृंगाटकदेवता बलिप्रतिग्राहिका देवताः सहजाः सहधर्मिका नित्यानुबद्धा अपि देवता आयाचते । अस्ति चैष लोकप्रवादः । यदायाचनहेतोः पुत्रा जायन्ते दुहितरश्चेति । तच्च नैवम्* । यद्येवमभविष्यदेकैकस्य पुत्रसहस्रमभविष्यत्तद्यथा राज्ञश्चकरवर्तिनः । अपि तु त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायन्ते दुहितरश्च । कतमे त्रयाणाम्* । मातापितराउ रक्तौ भवतः । सन्निपतितौ । माता कल्या भवति ऋतुमती । गन्धर्वश्च प्रत्युपस्थितो भवति । एषां त्रयाणां स्थानानां संमुखीभावात्पुत्रा जायन्ते दुहितरश्च । यदास्य देवताराधनेनापि न पुत्रो न दुहिता तदा सर्वदेवताः प्रत्याख्याय भगवत्यभिप्रसन्नः । यावदन्यतमस्य भिक्षोः सकाशमुपसंक्रान्तः । आर्य इच्छामि (म्स्विइ १४०) स्वाख्याते धर्मविनये प्रव्रजितुम्* । भद्रमुख एवं कुरु । स तस्यानुपूर्व्या केशावतरणं कृत्वा शिक्षापदानि ग्राहयितुमारब्धः । प्रव्रज्यान्तरायकरेण च महता ज्वरेणाभिभूतः । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । उपस्थानमस्य करणीयम्* । न तावच्छिक्षापदानि देयानि यावत्स्वस्थः संवृत्तः । इत्युक्तं भगवता । तस्योपस्थानं कर्तव्यमिति हि भिक्षवो न जानन्ते केन कर्तव्यमिति । भगवानाह । भिक्षुभिः । वैद्यास्तस्य दिवा भैषज्यं कुर्वन्ति । रात्रौ (२७४ १ = ग्ब्म् ६.८६०) ग्लान्यं वर्धते । ते कथयन्ति । आर्य वयमस्य दिवा चिकित्सिकां कुर्मः रात्रौ ग्लान्यं वर्धते । यद्येष गृहं नीयते वयमस्य रात्रौ चिकित्सां कुर्याम इति । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । गृहं नीयतां तत्राप्यस्योपस्थायिकाननुप्रयच्छत । तस्य तद्ग्लान्यं दीर्घकालीनं सम्वृत्तम्* । केशास्तस्य दीर्घदीर्घा जाताः । तस्य मुण्डो गृहपतिरिति संज्ञा संवृत्ता । स यदा मूलगण्डपत्रपुष्पफलभैषज्यैरुपस्थीयमानो न स्वस्थीभवति तदा तेनात्मा परिच्छिन्नो मृतोऽहमिति । ततस्तेन मरणकालसमये सर्वं सन्त<क>स्वापतेयं पत्राभिलेख्यं कृत्वा जेतवने प्रेषितम्* । स च कालगतः । अमात्यैः राज्ञः प्रसेनजितः कोसलस्यारोचितम्* । देव मुण्डो गृहपतिरपुत्रः कालगतः । प्रभूतं चास्य हिरण्यसुवर्णमस्ति हस्तिनोऽश्वा गावो महिष्यः सन्नाहानि च । एतच्च सर्वं पत्राभिलिखितं कृत्वा जेतनवनमार्यसंघाय प्रेषितम्* । राजा कथयति । आर्योपनन्दसन्तकमेव मया अपत्राभिलिखितं (म्स्विइ १४१) न प्रतिलब्धं प्रागेव पत्राभिलिखितं प्रतिलप्स्ये । अपि तु यद्भगवाननुज्ञास्यति तद्ग्रहीष्ये । एतत्प्रकरणं भगवत आरोचयन्ति । भगवानाह । किं तत्र भिक्षवः संविद्यन्ते ।
अन्तरोद्दानम्* ।
वस्तुशयनासनप्रावरणमयोलोहं च चन्दनम्* ।
कुम्भानि पीतभक्षादि रंजनं यष्टिजम्बुकम्* ॥
द्विपदा चतुष्पदा याव<त्*> अन्नपानं च भैषज्यम्* ।
दासो वा प्रस्तरं लेख्यं यथायोगेन भाजयेत्* ॥
हिरण्यं च सुवर्णं च यच्चाप्यन्यत्कृताकृतम्* ।
समग्रः संघो भाजयेदिति प्रोक्तं महर्षिणा ॥
भिक्षुभिः समाख्यातम्* । भगवानाह । यथायोगेन भाजयितव्यम्* । तत्र क्षेत्रवस्तु गृहवस्त्वापणवस्तु । शयनासनमयस्कारभाण्डं लोहकारभाण्डं कुम्भकारभाण्डम्* । कुण्डिकाकरण्डकविवर्जितं तक्षभाण्डं वरुटभाण्डम्* । दासीदासकर्मकारपौरुषेयानामन्नपानं व्रीहयश्चाविभाज्याः । चातुर्दिशाय भिक्षुसंघाय साधारणाः स्थापयितव्याः । शाटकाः पटका चर्मभाण्डमुपानहस्तैलकुतुपाः कुण्डिकाकरकाश्(म्स्विइ १४२) च समग्रेण संघेन भाजयितव्याः । यष्ट<यो या> आयतास्ता जम्बूच्छायिकाः प्रतिमाया ध्वजवंशाः कारयितव्याः । याः स्वल्पास्ताः खंखरकाः कृत्वा भिक्षूणां दातव्याः । पुत्रदार<कं> संघे<न> यथासुखमविक्रीय यथाभिप्रसादलब्धेन मोक्तव्याः । चतुष्पदानां हस्तिनोऽश्वा उष्ट्राः खरा वेसराश्च राज्ञ उपयोगाः । महिष्यः अजा एडकाश्चातुर्दिशाय भिक्षुसंघाय (२७४ १ = ग्ब्म् ६.८६१) साधारणा अविभाज्याः । यश्च सन्नाहो यच्चान्यत्र राजोपयोज्यं तत्सर्वं राज्ञ उपनामयितव्यम्* । स्थापयित्वायुधानि तैः शस्त्रकैः सूच्यः खंखरकाश्च कारयित्वा संघे चारयितव्याः । रंगाणां महारंगः कंकुष्टहिंगुलुकराजपट्यादयस्ते गन्धकुट्यां प्रक्षेप्तव्याः प्रतिमोपयोगिकाः । खंखटिकं गौरिकं नीलिश्च संघेन भाजयित्व्या । मद्यं मृष्टयवान् प्रक्षिप्य भूमौ निखातव्यम्* । शुक्तत्वे परिणतं परिभोक्तव्यम्* । शुक्तत्वानुपयोज्यं तु छोरयितव्यम्* । मां भिक्षवः शास्तारमुद्दिशद्भिर्मद्यमदेयमपेयमन्ततः कुशाग्रेणापि । भैषज्यानि ग्लानकल्पिकशालायां (म्स्विइ १४३) प्रक्षेप्तव्यानि । ततो ग्लानकैर्भिक्षुभिः परिभोक्तव्यानि । रत्नानां मुक्ता वर्जयित्वा मणिवैडूर्यदक्षिणावर्तपर्यन्तानि तु द्वौ भागौ कर्तव्यानीति । एको धर्मस्य । द्वितीयः संघस्य । यो धर्मस्य तेन बुद्धवचनं लेखयितव्यम्* । सिंहासने चोपयोक्तव्यम्* । यः संघस्य स भिक्षुभिर्भाजयितव्यः । पुस्तकानां बुद्धवचनपुस्तका अविभज्य चातुर्दिशाय भिक्षुसंघाय धारणकोष्ठिकायां प्रक्षेप्तव्याः । बहिःशास्त्रपुस्तका भिक्षुभिर्विक्रीय भाजयितव्याः । पत्रलेख्यं यच्छीघ्रं शक्यते साधयितुं तस्य द्रव्यविभागे तद्भिक्षुभिर्भाजयितव्यम्* । न शक्यते तच्चातुर्दिशाय भिक्षुसंघाय धारण । कोष्ठिकायां प्रक्षेप्तव्यम्* । सुवर्णं च हिरण्यं चान्यच्च कृताकृतं त्रयो भागाः कर्तव्याः । एको बुद्धस्य । द्वितीयो धर्मस्य । तृतीयः संघस्य । यो बुद्धस्य तेन गन्धकुट्यां केशनखस्तूपेषु च खण्डछुट्टं प्रतिसंस्कर्तव्यम्* । यो धर्मस्य तेन बुद्धवचनं लेखयितव्यं सिंहासनेन वा उपयोक्तव्यम्* । यः संघस्य स भिक्षुभिर्भाजयितव्यः ।
श्रावस्त्यां निदानम्* । यदा राज्ञा प्रसेनजिता कोसलेना तोयिकामहः प्रस्थापितस्तदा तत्र भिक्षुभिक्षुण्युपासकोपासिकानां महासन्निपातो भवति । तेन खलु समयेन मूलफल्गुनो भिक्षुर्भिक्षुणीभावनीयः । तोयिकामहे प्रत्युपस्थिते संबहुलाभिर्भिक्षुणीभिरुक्तः । आर्य उपनिमन्त्रितो भव । तोयिकामहं गमिष्याम इति । स कथयति । कोऽत्र मम पात्रचीवरं स्थापयतीति । (म्स्विइ १४४) द्वादशवर्गिकाभिर्भिक्षुणीभिरुक्तः । आर्य अल्पोत्सुको भव । वयं स्थापयामः । तेन तासां समर्पितम्* । तत्ताभिरपि महाप्रजापत्ये संन्यस्तम्* । महाप्रजापत्यापि आयुष्मत आनन्दस्य । आयुष्मताप्यानन्देनान्यतमस्मिन् विहारे स्थापितम्* । तत आयुष्मान्मूलफल्गुनस्तोयिकामहं गतः । स तत्र भिक्षुणीभिरुपनिमन्त्रितः । एका कथयति । आर्येण ममाद्य पूर्वाह्णिका कर्तव्या । अपरया पूर्वाह्णिकया उपनिमन्त्रितः । अपरापि । अपरा कथयति । आर्येण ममान्तिकाद्भोक्तव्यमिति । अपरापि । एवमेव कथयत्यपरापि । अपरा कथयति । आर्येण ममान्तिके कालपानकं पाययितव्यमिति । अपरापि । एवमेव कथयत्यपरापि । तेन तासामनुरक्षया स्तोकस्तोकं गृहीत्वा पूर्वाह्णिका कृता । ततैव वेलायां भुक्तमकाले पानकं च पीतम्* । ततः स्तोकस्तोकेन (२७५ १ = ग्ब्म् ६.८६२) प्रभूतं संपन्नम्* । स चाध्वपरिश्रान्तः । तेन प्रभूतं भुक्तम्* । सः अजीर्णो जातः । विषूचितः कालगतः । स भिक्षुभिः श्मशानं नीत्वा दग्धः । धर्मश्रवणं दत्तम्* । अनुपूर्वेण विहारः प्रविष्टः । चीवरगोपकेन ग्लानोपस्थायिकः अभिहितः । आनय तस्य पात्रचीवरमिति । स कथयति । द्वादशवर्गिकानां हस्ते स्थापितम्* । ताः प्र्ष्टाः । कथयन्ति । अस्माभिर्महाप्रजापत्या हस्ते स्थापितम्* । महाप्रजापतिः कथयति । मया आनन्दस्य संन्यस्तमिति । आयुष्मानानन्दः कथयति । मया अमुष्मिन् विहारे स्थापितम्* । इत्येतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । (म्स्विइ १४५) भगवानाह । आनन्देन स्थापितं भिक्षुणा प्रतिवस्तु मृतपरिष्कारिकमधिष्ठातव्यम्* । एवं च पुनरधिष्ठातव्यम्* । शयनासनप्रज्ञप्तिं कृत्वा गण्डीमाकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्* । शृणोतु भदन्तः संघः । अस्मिन्नावासे मूलफल्गुनो भिक्षुः कालगतः । तस्य पात्रचीवरं सचीवरचीवरिकमानन्दस्य हस्ते तिष्ठति । सचेत्संघस्य प्राप्तकालं क्षमेतानुजानीयात्संघः । यत्संघो मूलफल्गुनस्य भिक्षोः पात्रचीवरं सचीवरचीवरिकमानन्देन भिक्षुणा प्रतिवस्तु मृतपरिष्कारिकमधितिष्ठेदित्येषा ज्ञप्तिः । आयुष्मानुपाली बुद्धं भगवन्तं पृच्छति । अन्यत्र भदन्त भिक्षुः कालं कुर्यादन्यत्रास्य पात्रचीवरमन्यत्र प्रतिवस्तुकः । तत्पात्रचीवरं कस्य प्रापद्यते । योऽत्र उपालिन् प्रतिवस्तुको भिक्षुर्गृही वा ।
स्रावस्त्यां निदानम्* । तेन खलु समयेन नवकर्मिको भिक्षुः कालगतः । भिक्षवस्तस्य पात्रचीवरं कौकृत्यान्न भाजयन्ति । एतत्प्रकरणं भगवत आरोचयन्ति । भगवानाह । सर्वसंघं सन्निपात्यासौ लक्षितव्यः । किं सम्भिन्नकारी न वा इति । यदि संभिन्नकारी । सांघिकं स्तौपिकं करोति । स्तौपिकं वा सांघिकम्* । (म्स्विइ १४६) एवमधार्मिकम्* । तस्य पात्रचीवरं सचीवरचीवरिकं त्रीन् भागान् कर्तव्यम्* । बुद्धस्य । धर्मस्य । संघस्य । सांघिको भिक्षुभिर्भाजयितव्यः । बुद्धसन्तकेन बुद्धपूजा वा गन्धकूट्यां स्तूपे वा नवकर्म कर्तव्यम्* । धर्मसन्तकेन बुद्धवचनं वा लेखयितव्यम्* । सिंहासने वा उपयोक्तव्यम्* । न चेत्सम्भिन्नकारी सर्वमेव भिक्षुभिर्भाजयितव्यम्* । नात्र कौकृत्यं करणीयम्* ।
श्रावस्त्यां निदानम्* । तेन खलु समयेन संबहुला भिक्षवो जनपदचारिकां चरन्तोऽनुपूर्वेण स्रावस्त्यामुपनगरमनुप्राप्ताः* । तन्मध्यादेको भिक्षुः कालगतः । ते संलक्षयन्ति । बहिर्विहारस्य भाजयामः । विहारं प्रविष्टानां सब्रह्मचारिणोऽपि भागं प्रार्थयिष्यन्तीति । श्रावस्ती तन्निवासिभिर्गोपालकैः पशुपालकैस्तृणहारकैः काष्ठहारकैः पथाजीवैरुत्पथाजीवैश्च मनुष्यैः समन्तादाकीर्णा । ते यत्र यत्र निषीदन्ति भाजयाम इति तत्र तत्र महाजनेन परिवार्यन्ते । ते संलक्षयन्ति । विहारसमीपे भाजयाम इति । ते विहारसमीपे भाजयितुमारब्धाः (२७५ १ = ग्ब्म् ६.८६३) । उपधिवारिकेण दृष्टा उक्ताश्च । आयुष्मन्तः किं कुरुथ । तैर्यथावृत्तं समाख्यातम्* । स कथयति । अहमपि सीमाप्राप्त इति । तैस्तस्य विवाचयतो न दत्तम्* । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । (म्स्विइ १४७) भगवानाह । अन्तःसीमायामन्तःसीमासंज्ञिनो मृतपरिष्कारं भाजयन्ति । अभाजितं दुर्भाजितम्* । पुनरपि सीमाप्राप्तैः सह भाजयितव्यम्* । अन्यथा सातिसाराः । एवमन्तःसीमायां वैमतिका भाजयन्ति । अभाजितं दुर्भाजितम्* । पुनरपि सीमाप्राप्तैः सह भाजयितव्यम्* । अन्यथा सातिसाराः । बहिःसीमायामन्तःसीमासंज्ञिनो मृतपरिष्कारं भाजयन्ति । अभाजितं दुर्भाजितम्* । पुनरपि सीमाप्राप्तैः सह भाजयितव्यम्* । अन्यथा सातिसाराः । बहिःसीमायां वैमतिका भाजयन्ति । अभाजितं दुर्भाजितम्* । पुनरपि सीमाप्राप्तैः सह भाजयितव्यम्* । अन्यथा सातिसाराः भवन्ति ।
श्रावस्त्यां निदानम्* । तेन खलु समयेन भिक्षुणा भिक्षोर्हस्ते <भिक्षोश्ची>वराणि प्रेषितानि । तेन भिक्षुणा येन प्रेषितानि तस्य निश्वासेन परिभुक्तानि । एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवानाह । अविश्वासे भिक्षवस्तेन भिक्षुणा विश्वासमुत्पादितम्* । यस्य येन भिक्षुणा प्रेषितानि तस्य तेन विश्वासेन परिभुक्तानि ।
अपि तु भिक्षुर्भिक्षोर्हस्ते भिक्षोश्चीवरकाणि प्रेषयति । यस्य प्रेषितानि तस्य विश्वासेन परिभुंक्ते । सुपरिभुक्तानि । येन प्रेषितानि तस्य निश्वासेन परिभुंक्ते । दुष्परिभुक्तानि <॥ १ ॥> भिक्षुर्भिक्षोश्चीवराणि प्रेषयति । यस्य प्रेषितानि स कालगतः । येन प्रेषितानि (म्स्विइ १४८) तानि तस्य विश्वासेन परिभुंक्ते । दुष्परिभुक्तानि । यस्य प्रेषितानि तस्य कल्पेन तस्य मृतपरिष्कारिकमधितिष्ठति । स्वधिष्ठितानि <॥ २ ॥> भिक्षुर्भिक्षोश्चीवराणि प्रेषयति । येन प्रेषितानि स कालगतः । येन प्रेषितानि तस्य कल्पेन मृतपरिष्कारिकमधितिष्ठति । दुरधिष्ठितानि <॥ ३ ॥> भिक्षुर्भिक्षोश्चीवरकाणि प्रेषयति । यस्य प्रेषितानि तेन प्रतिक्षिप्तानि । येन प्रेषितानि तस्य विश्वासेन परिभुंक्ते । <सुपरिभुक्तानि ।> यस्य प्रेषितानि तस्य विश्वासेन परिभुंक्ते । दुष्परिभुक्तानि <॥ ४ ॥> भिक्षुर्भिक्षोश्चीवरकाणि प्रेषयति । यस्य प्रेषितानि स कालगतः । यस्य प्रेषितानि तस्य कल्पेन मृतपरिष्कारिकमधितिष्ठति । स्वधिष्ठितानि । <येन प्रेषितानि> तस्य कल्पेन मृतपरिष्कारिकमधितिष्ठति । दुरधिष्ठितानि <॥ ५ ॥> भिक्षुर्भिक्षोश्चीवरकाणि प्रेषयति । यस्य प्रेषितानि तेन प्रतिक्षिप्तानि । येन प्रेषितानि स च कालगतः । यस्य प्रेषितानि तस्य विश्वासेन परिभुंक्ते । दुष्परिभुक्तानि । येन प्रेषितानि तस्य कल्पेन मृतपरिष्कारिकमधितिष्ठति । स्वधिष्ठितानि <॥ ६ ॥> भिक्षुर्भिक्षोश्चीवरकाणि प्रेषयति । यस्य प्रेषितानि तेन प्रतिक्षिप्तानि । स कालगतः । येनापि प्रेषितानि स कालगतः । यस्य प्रेषितानि तस्य कल्पेन मृतपरिष्कारमधितिष्ठति । दुरधिष्ठितानि । येन प्रेषितानि तस्य कल्पेन मृतपरिष्कारिकमधितिष्ठति । स्वधिष्ठितानि <॥ ७ ॥>
॥ चीवरवस्तु समाप्तम्* ॥�