चित्रमीमांसा
चित्रमीमांसा [[लेखकः :|]] |
अप्पय्यदीक्षितप्रणीता
चित्रमीमांसा विषयसूची
I उपोद्धातः
1. ध्वनिकाव्यम् ...
2. गुणीभीतव्यङ्ग्यकाव्यम् ...
3. चित्रकाव्यम् ...
4. उपमालङ्कारः ...
1) विद्यानाथोक्तलक्षणम् ...
2) रुद्रटाभिप्रायखण्डनम् ...
3) भोजराजोक्तमतखण्डम् ...
4) सर्वस्वकारोक्तमतखण्डनम् ...
5) उपमासामान्यलक्षणम् ...
6) पूर्णेपमाभेदा ...
7) लुप्तोपमाभेदाः ...
8) मम्मटोक्तविभागदर्शनम् ...
9) संक्षेपेणोपमात्रैविध्यकथनम् ...
10) उपमादोषाः ...
5. उपमेयोपमालङ्कारः ...
6. अनन्वयालङ्कारः ...
7. स्मरणालङ्कारः ...
8. रुपकालङ्कारः ...
9. परिणामालङ्कारः ...
10. ससन्देहालङ्कगरः ...
11. भ्रान्तिमदलङ्कारः ...
12. उल्लेखालङ्कारः ...
13. अपह्नुत्यलङ्कारः ...
14. उत्प्रेक्षालङ्कगरः ...
15. अतिशयोक्त्यलङ्कारः ...
II लक्षण-सूत्र-श्लोकादीनाम् अकाराद्यनुक्रणी
III लक्ष्यश्लोकानाम् अकाराद्यनुक्रमणी ...
उपोद्धातः
श्रीमान् अप्पय्यदीक्षितः
आमुष्यायणो मनोजवसः भारध्वाजवंशमुक्तामणिः अप्पय्यदीक्षितः अनूचानः सर्वतन्त्रस्वतन्तः शताधिकप्रौढग्रन्थप्रणेता निखीलविद्यासिन्धुमुष्टिन्धयः अधिगतपरतत्त्वस्वरुपः परमभागवतः अनेकनरपालसभाजितः अनुभूतकनकाभिषेकः निरुपमस्वतिभाभास्वरवैदुषीसमधिगतविसृत्वरदिगन्तव्याप्तज्योत्स्नाविशदयशाः महाकविः विख्यातख्याख्याता चेति विश्वे विद्वांसो विजानते । तस्य कीर्तनीयं चरितं किञ्जिदद्य प्रतुष्टूषामि ।
अयमप्पयदीक्षितः तमिळनाडु-अन्तर्गत-आर्काड्मण्डलस्थिते अडयप्पलं नाम्नि ग्रामे जज्ञे । अदःकुलीयपूर्वपुरुषाः भारद्वाजगोत्राः पितृपितामहादयस्समेऽपिश्रोत्रियाः ज्योतिष्टोमादियागानामाहर्तारः सामवेदिनः । अद्वैतिनोऽपि भूत्वा प्रयशश्शिवभक्तिपरायणाः । अस्मद्दीक्षितस्य पितामहः आच्चान्दीक्षित इति वायवह्रयमाणः आयार्यदीक्षितः । अस्य द्वे भार्ये आस्ताम् । तयोरेका साम्प्रदायिकशैवकुटुम्बयोः वैवाहिकसम्बन्धः अद्यत्वे इव निषेध्यो नाऽभवत् । अप्पय्यदीक्षितजनकस्तु श्रीरङ्गराजाह्वयः । अयमपि स्वपितेव बहून् यज्ञानतानीत् । अद्वैतवेदान्तनिरूपकान् नैकगन् ग्रन्थान्निरमास्त । अप्पय्यदीक्षितस्य कनीयान् भ्राता (रङ्गराजद्वितीयतनयः) पितामहनाम्ना आच्चान् दीक्षित इति व्यवाह्रियत । (अयं साम्प्रदायिको व्यवहारः) अस्य सूनुः नारायणनामा । अस्यपुत्रः विश्रुतः बहुलप्रबन्धनिर्माता नीलकण्ठदीक्षितः । अस्य सोदरपौत्त्रत्वात् अप्पयदीक्षितस्यायं पौत्त्रवदेव भवति । अस्मद्ग्रन्थनायकपितामहस्य आचार्यदीक्षितस्य बिरुदनाम `वक्षःस्थलाचार्य' इति । अमुणंशं अप्पयदीक्षितः चित्रमीमांसायां निरदिशत् । अस्मत्कुलकूटस्थवक्ष)स्थलाच्र्यकृते वरदराजवसन्तोत्सवे इति वदन्-
"काञ्जित्काञ्जनगौराङ्गीं वीक्ष्य साक्षादिव श्रियम् ।
वरदः सशयापन्नो वक्षःस्थलमवैक्षत ।।" इति हृद्यं पद्यमुदाहार्षीत् ।
बिरुदसम्बन्धी वृत्तान्तस्तु इत्थम्-कदाचित्त विजयनगराधीश्वरः कविराजशेखरः श्रीकृष्णदेवरायः राज्ञीसहितः श्रीवरदराजस्वामिदर्शनसेवाकाङ्क्षी काञ्जीपुरमयासीत् । स च समयः वसन्तोत्सवमहितः । श्रीकृष्णदेवर्यस्य आस्थानपण्डितकविः आचार्यदीक्षितोऽपि नरपालमन्वगात् । तदा राजमहिषी सुवर्णप्रभया दीव्यन्ती भगवन्तं दिदृक्षमाणा अग्रतोऽवतस्थे । तं सन्निवेशं नेत्रसात्कुर्वन् आचार्यदीक्षितः पूर्वेक्तं श्लोकं जगौ । अभिव्यञ्जितभावचमत्कारं स्थलशब्दमभित्राय आच्चान् (आचार्य) दीक्षितं वक्षःस्थलाचार्यबिरुदेन सभाजयामास ।
असाय वक्षःस्थलाचार्यस्य प्रथमजायायां चत्वारस्तनया जज्ञिरे । द्वितीयभार्या तोताम्बीनाम्नी वैष्णवी । अस्यां जातः प्रथमपुत्त्रः रङ्गराजाध्वरी । इयं प्रस्तुतदीक्षितस्य पिता । अप्पय्यदीक्षितस्य नामकरणवेलायां पितृदत्तं नाम विनायक सुब्रझण्य इति । तच्च तन्मातदामहनामधेयं भवेत् । वर्षीयसो नामना बालकस्य आह्वाने गौरवभङ्गः स्यादिति भीया सङ्गचन्तो बाान्धवाः अप्पा, अप्पय, अप्पय्य इति वात्सल्यानुगुणं व्यवहारनाम पर्यकल्परन्निव । तदेव प्पय्येति नाम नामकरणनाम विस्मार्य स्थिरं समजनीष्ट । `अप्पय्य' इत्यस्य रूपान्तरे अप्पय अप्पा इति ।
तदीयं तेजो दृष्टवतां बहूनां विदुषां अयं साक्षाद्भगवत एव अवतार इति दृढो विश्वास उदियाय । दीक्षितस्य कनीयान् भ्राता आच्चान्दीक्षितनामा, ज्ञानाम्बिकानाम्नी कनीयसीस्वसा च अजनिषाताम् ।
अप्पयः कै शोोरे वयस्येव सकलविग्यानदिष्णः महाकविश्च बभूवेति सर्वेषां तत्र भगवदवतारबध्दिरजायतेति साम्प्रमेवेदम् । अस्य काव्यनाटकालङ्कारादिग्रन्थानामुपदेष्टा प्रथमो गुरुः रत्नेश्वरप्कसादनादिबहुग्रन्थकर्ता गुरुरमकविरेव । उपनयनसंस्कारादनन्तरं वेदवेदाङ्गशास्त्रादीनामुपदेशकः यायजूको वैदिकचूडामणिः पिता रङ्गराज एव । पण्डितराजजगन्नाथ इव अयमपि पितुर्महागुरोस्सक्शादेव सर्वाणि शास्त्राणि उध्यैष्ट ।
एवं स्थिते वेलूरुराजास्थानकवितल्लजः रङ्गराजाध्वरी पाञ्जभोोतिकं शारीरमोज्झत् । ततश्चिन्नबोम्मनायकस्य राजस्थानी रङ्गराजमखिनो वियोगात् विच्चाया भूत्वा स्वप्रतिष्ठां विसेभे । ततः चिन्नबोम्मक्षितीन्द्रः कौमारदशायां वरेतमानमपि लब्धवर्णेष्वग्रणीरिति लब्धप्रतिष्ठं अप्पय्यदीक्षितं आस्थानकविपदवीमलङ्कर्तुमाह्वत् । अयमपि प्रगल्भ इव तां पदवीं उरर्यकरोत् । अस्य शारदज्योत्स्नाविशदं यशः सर्वासु दिशासु आश्नुत । अयं सर्वत्र गोष्ठीषु सभासु च सम्मान्यनश्चकाशे । कालहस्ति-तञ्जापुरवेङ्कटगिरि-कार्वेटिनगरादिराज्याधिपतयः अप्पयदीक्षितमास्थानकविं विधाय तद्रद्वारा प्रख्यातिमुपलब्धुं प्रयेतिरे । परन्तु ख्यातेः परां काष्ठामध्यतिष्ठत् । क्रमशस्तारुण्ये पदं न्यस्य परिणयोचितं वयः प्राप । गाईस्थ्यस्वीक्रः प्राप्तकालः ।
तेषु दिवसेषु तूप्पिल्वंशमण्डनः, पाण्ड्यदेशप्रभुणा चन्त्रशेखरेण भृशं पूजितः पोषितश्च शतावधानिश्रीनिवासाध्वरिसमाह्वयः महाकविर्महाविद्वान् कश्चिदवर्तत । स च रत्नखेटदीक्षित इति पप्रथे । इदं बिरुदनाम । अस्य पुत्त्रो राजचूडामणिदीक्षितः, स्वकीये रुक्मिणीपरिणयमहाकाव्ये रत्नखेटबिरुदसम्बन्धिनीं कथामुदाजहार । श्रीनिवासाध्वरी सन्ध्याकालं विशिंषन् अद्भुतोल्लेखनामनोज्ञमेकं ळ्लोकमपाठीत्---
सन्ध्यासन्धुक्षिताम्भोधरनलिकगणादुद्गतानि सीसखडान्
ताराकारान्निरोध्दुं शशिरविकपटाद्बिभ्रतौ रत्नखेटौ ।
अन्योन्यं युध्यमानावुदयचरमभूभृत्प्रवीराविति द्रा-
गुक्त्या ख्यातापराख्यः श्क्षितिपतिवचसा `रत्नखेटाध्वरी'ति ।।
अद्भुतेदंश्लोकसंवेदिताचुम्बितभावभावनातरङ्गतान्तःकरणः पाण्ड्यप्रभुः तत्र स्थितं रत्नखेटपदं भावस्फोरकमिति तं कविं रत्नखेटदीक्षित इत्याख्ययाऽश्लाघि । अस्य रत्नखेटस्य मङ्लनायकीनाम्नी गुणोदारा तनया प्राप्तपरिणतवयास्समपद्यत । इयं मह्गलन्यकी अप्पयदीक्षितस्य धर्मपत्नीपदमविन्दत । तयोः परिणयः श्रीकामाश्रिदेव्येकाम्रनाथयोरनुग्रहेणैव निरवहि । तत्सम्बद्दा विस्मयजननी दिव्यकथा अभित्ज्ञैराश्राव्यमाणा अत्रानुसन्धेया ।
आकर्णितदीक्षितप्रतिभापाण्डित्यवैभवः पाण्ड्यप्रभुः कदाचित्प्रसङ्गवशात् स्वास्थानीविद्वांसं रत्नऱेटार्यां "अयि महाकवे, अप्पय्यदीक्षितस्य प्रतिभापाटवादि किमश्रौषीः" इत्यप्राक्षीत् । तदा श्रीनिवासमखी "अप्पय्यदीक्षितः आजन्मनस्सुधीरिति, कौमार एव चुलुकीकृतसकलग्सागर इति जाने । अत एव तज्जयाय तेन साकंं वादकेल्या अवकाशमन्वष्यामि " इति प्रत्यब्रवीत् । ततोऽयमध्वरी काञ्जीकामाक्षीदेव्यास्सन्निधिमेतेय `अप्पयं पराजेतु अपेक्षितां शातक्तिं मझं विश्राणय' इति पराशक्तिं प्रार्छयामास । सा देवी "दीक्षितःसाधारणो मनुज इति न मन्यस्व । स परमशिवावताररूपोऽजेयः" इत्यवादीत् । सैव देवता पुरा आराधनप्रसनाना भूत्वा " रत्नखेटदीक्षितं न कोऽपि नरो विजेतुंं शक्नुयात् " इत्यमोघाशिषा तमभ्यनन्दत् । व्यतिकरोऽयं विलश्क्षणस्सङ्कटहेतुश्चाऽऽसीत् । देवीवरमात्म्येन रत्नखेटोऽजेयः, भगवदवतारत्वेन अप्पयश्चाऽजेयः इति ते परस्परदुर्जयौ । देवी एतत्सङ्कटहरणाय उभयोरपि प्रतिष्ठां पातुं काञ्चन युक्तिं कल्पयामास । "रत्नखेटार्य! तव सुतां दीक्षिताय वराय देहि । तयोः पाणिपीडनेन पीडा परिह्रियेत । सर्वथा क्षेमं भविष्यति" इति तमवोचत् । कामाक्ष्या अयमभिसन्धिः । `अनेन विवाहबन्धेन रत्नखेटदीक्षितः श्वशुरो भविष्यति । श्वशुरश्च गुरुष्वन्यतम इति ज्यैष्ठ्यं साध्येत । अप्पय्यदीक्षितोोऽपि जामातेति तत्र पराजयबुध्दिरपास्येत । सर्वं शुभोदर्कं भूत्वा रत्नखेटदीक्षितस्य गौरवं सुरक्षितं भवति' इति । एवं स्थिते, एकाम्रनाथो भगवान् स्वप्ने प्रादुर्भूय "वत्स अप्पादीक्षित! काञ्जीपुरीं याहि । रत्नखेटस्तुभ्यं स्वतनयां दास्यति; तस्याः पाणिं गृह्णीष्व । तस्य जामाता भूयाः" इति दीश्क्षिताय हितमुपदिदेश । इत्थं दिव्यदम्पतिभ्यामेव सङ्कल्पितो निर्व्यूढश्चायमुद्वाहः उभयकुलक्षेमङ्करस्सम्बभूव ।
अप्पयदीक्षितसम्बन्धि वृद्धपरम्परागतमैतिझं किञ्जित् अत्र उपचिक्षिप्सामि । असौ जातुचिद्वाराणसीं गतः प्रभाते एव भागीरथ्यां स्नात्वा अनुष्ठितप्रतराह्निकः स्वावासाय प्रतिनिवर्तमानः मध्येमार्गं गङ्गातीरे एव कृतकामिनीकण्ठाश्लेषं, शयानं प्रावारकाच्छादितशरीरमपि किञ्जिद्बहिर्दृश्यमानलितकेशं कञ्जन पुरुषमैक्षिष्ट । वार्धकेऽपि जनसञ्जारबहुले पवित्रगङ्गाघट्टे सन्ध्यानुष्ठानवेलायामपि तदुपेक्ष्य निर्लज्जं चपलशृङ्गारानुभवपरं दृष्टवतोऽस्य हृदयंं कोपजुगुप्साकरुणादिभावशबलितं जायते स्म । सद्यस्तं कामुकद्दिश्य श्लोकार्धमेवं पपाठ--- "किं निश्शङ्कं शेषे वयसि त्वमागते मृत्यौ" इति । ततो व्यक्तिबुभुत्सया पटं किञ्जित्--- "अथवा सुखं शयीथाः निकटे जगार्ति जाह्नवी भववतः " इति । पापिनोऽपि दिवं प्रापयितुं समर्था स्वर्धुनी उपकण्ठे तिष्ठति, सुखं शेष्व इति सान्त्वयन्निव प्रतिबोोधयामास । जगन्नाथेन साकम् अकाण्डवाक्कलहादिकं परिहर्तुकामः अप्पय्य इत्थमकुरुत । इयं कथा केवलं किंवदन्ती असम्भवपराहता; यत् अप्पयदीक्षितजीवनकालः षोढशशताब्दी, शाहजहान्चक्रवर्तिना पण्डितराजबिरुदप्रदानपुरस्सरंं सभाजितस्य जगन्नाथस्य तु जीीवनकालः लप्तदशशताब्दीति कालविप्रकर्षत् सङ्घटनैषा विस्त्रम्भदवीयसी । अ्न्यदपि किञ्जित्कौौलीनं कुलीनस्य जगन्नाथस्य विषये अनुश्रूयते--- `अयं यवनीसंसर्गदूषितो व्रात्य' इति । महाकविकालिदासः महाकामुकः वेश्यालम्पट इति किंवदन्ती प्रचारपथं नीता वर्तते खलु । तादृश्येव इयमपि भवेत् । रघुवंश-कुमारसम्भवादिसत्काव्यप्रणेतरि अम्बिकाभक्ते प्रवादोऽयं तादात्विकैः असूयुभिः प्रवर्तितो भवत् ।
"यवनी नवनीतकोमलाङ्गी शयनीये यदि नीयते कदाचित् ।
अवनीतलमेव साधु मन्ये न वनी माधवनी विनोदहेतुः ।।"
इत्यादिश्लोकपरामर्शेन निन्दा पण्डितराजमूर्धनि निपातिता । आश्रयदातुः विलासप्रियस्य यवनप्रभोरुल्लासाय तादृशः श्लोको निबद्ध इति तर्कयामि । असौ गङ्गाघट्टे उच्चतमसोपाने उपविश्य गङ्गालहरीं निर्माय भागीरथीमभिष्टौति स्म । सा जाह्नवी सोपानक्रमेण उपर्युपरि प्रवहमाना जगन्नाथं प्रवाहे निमज्जयामास । एवं पण्डितराझः जलसमाधिं प्रप्नोत्- इतीमं वृत्तान्तमाकर्णयतां जगन्नाथे कलङ्कनिर्मुक्ता श्रद्धा वर्धेत ।
अप्पय्यदीक्षितस्य महामहिमत्वं, सम्भृतभक्तित्वञ्ज त्ज्ञापयितुं कञ्जनोदन्तमद्भुतं विज्ञापयामि । दीक्षितोऽयं कदाचिद्विषमामात्मापरीक्षां कर्तुमियेष । साधुरपी नरः उन्मत्तदशायां असङ्गतं प्रलपेत् । तद्दशायामात्मनो भक्तिपरिणतिं जिज्ञासमानः शिष्यानाहूयैवमवदत्- "अहं दुत्तूर(उन्मत्त)शलाटुरसं निपीय नितरामुन्मत्तो भविष्यामि । तदा यद्यदहं प्रलपिष्यामि तत्सर्वं युष्माभिः पत्रारूढं क्रियताम्" इति । तथा सम्पादितोन्मादेन दीक्षितेन यदुदीरितं तत् छात्रा लिलिखुः । तत् पञ्चाशच्छ्लोकात्मकमभवत् । अत एवाऽयं ग्रन्थः उन्मत्तपञ्चाशन्नाम्ना व्यवह्रियते । विषयदृष्ट्या तु आत्मार्पणस्तुतिरित्याख्या । भक्तियोगसिद्धं आत्मसमर्पणमेवाऽत्र प्रमेयम् । इदं पद्यकदम्बकं भक्तेः परां काष्ठां पिशुनयति । दीक्षितस्य भक्तिपरिणतमानसिकदशां बोधयति ।
पण्डितप्राग्रहरेण हरभक्तेन अमुना कर्तव्यं सकलमपि वयसः त्रिसप्ततितमं वर्षमनुभवता "कृतकृत्या निरीक्षन्ते मृत्युं प्रियमिवाऽतिथिम्" इत्युक्तरीत्या उदारवैराग्यपरिपूस्वान्तेन कश्चन श्लोको निरमायि-
"चिदम्बरमिदंपुरंप्रथितमेव पुण्यस्थलंसुताश्चविनयोज्ज्वलाः तुकृतयश्चत्कृताऋ ।
वयश्च मम सप्ततेरुपरि नैव भोगे स्पृहा न किञ्जिदहमर्थये शिवपदं दिदृक्षे परम्" ।। इति । तस्मिन्निमं श्लोकं पठति सति नटराजदिव्यपदारविन्दे तस्य पुरः प्रादुभूताम् । आनन्दपरवशः सः सन्तोषसागरनिमग्नः सद्यः मर्त्यशरीरं जहौ । त्तर सन्दर्भे परमाद्भुतवृत्तान्तः कश्चन सञ्जघटे । नटराजस्वाम्यालये तस्थिवांसो दीक्षिताः पञ्जाक्षरीसोपानपञ्चकमधिरुझ स्वामिसन्निधिमागच्छन्तं अप्पय्यदीक्षितमैक्षिषत । तेषु पश्यत्सु स च परमेश्वरहे निलिल्ये! अहो धन्यतमो भक्ताग्रणीः कविपण्डितशिखामणिः !
अस्य जीवनकालं प्रति मतभेदा वर्तन्ते । अत्र विषये तलस्पर्सं विमृश्य सर्वाणि मतानि तादात्त्विकराजचरितानि, ताम्रशासनानि, शिलालेखान्, जनश्रुतीः, ग्रन्थनिर्दिष्टवृत्तान्तान्, किं बहुना; यद्यत् चरित्रविमर्शकैः कर्तं शक्यते तत्सर्वं विधाय बहुभिर्विश्वसनीयैराधारैः (अस्य जीवनकालः) क्रिस्तोः पश्चात् द्वाविंशत्युत्तरपञ्जशताधिकसस्त्रतमवत्सरस्य ( 1522 A.D.)द्विनवत्युत्तरपञ्चशताधिकसहस्त्रतमवत्सरस्य च (1592 A.D.) मध्ये स्थितः कालः दीक्षितेन्द्रस्य जीवनकाल इत्यङ्गीकर्तुमुचितमिति डा. यन्. रमेशन् महाभागः (M.A., Ph.D., I.A.S) "Sri Appayya Dikshita" इति दत्तशीर्षके ग्रन्थे निश्चकाय ।
दीक्षितयरितस्य आधारग्रन्थाः
अप्पय्यदीक्षितसम्पूर्णचरित्रज्ञापनपर्याप्ताः सर्वथा प्रामामिकाः ग्रन्था यद्यपि न लभ्यन्ते तथापि त्तर कांश्चिदपि विषयान् बोोधयितुं प्रभूष्णवो ग्रन्थाः केचनाऽत्र निर्देशमर्हन्ति ।
1. श्रीवीरराघवकविना ग्रथितः आय्यान्दीक्षितेन्द्रक्षितेन्द्रवेशावलिनाम्ना सं स्कृतभाषात्मक एकोो ग्रन्थः ।
2. आश्रमस्वीकारात्पूर्वं शेषदीक्षितनामधेयस्य अप्पय्यदीक्षितवंश्यस्य महात्मनः शिवानन्दयोगिनः गीर्वाणभाषामयी कृतिरन्यतमा । अस्यां कृतौ दीक्षितसम्बन्धिन्यः साधारण्यः कथाः अद्धुतावहाः काश्च विद्यन्ते । अतोऽयं ग्रन्थः प्राधान्यमृच्छति । भहुमुखं वृत्तान्तं सम्पाद्य महत्या श्रद्धय् सङ्कलस्य यतिराडमुं व्यररचत् ।
3. अप्पय्यदीक्षितवंश्य एव श्रीसुब्रझण्यशास्त्री अप्पय्यदीक्षितेन्द्रविजयाह्वयं संस्कृतभाषामयं चरितकोशमेकं जग्रन्थ, यत्र च श्रीशिवानन्दयोगिना अवर्णितानपि विषयान् सञ्जग्राह । प्रबन्धोऽयं तिरुपतिपुरप्रकाशितं आन्ध्रभषात्मकं ग्रन्थमधीत्य नूतनानां द्वादशवृत्तान्तानां सूचनां विदधाति स्म ।
4. दीक्षितीयं सिद्धान्तलेशसङ्गहं व्याख्यान् भट्टश्री नारायणशास्री अप्पय्यदीक्षितजीवनसम्बद्धान् कांश्चन विषयान्प्रास्तावीत् ये तु चरीत्रदृष्ट्या प्रामाणिकतां न लभेरन्निति केचिदभिप्रयन्ति ।
5.कर्णाकर्णाकया श्रूयमाणजगन्नाथपण्डितराजवृत्तान्तपरिशीलनेन दीक्षितानुबन्धिन्यो वार्ताः अवबुध्यन्ते । केवलं किंवदन्तीरूपे तत्र विषये विस्त्रम्भो न भवत् । अप्पयदीक्षितः क्रीव्पव्षोडशशताब्द्यां, जगन्नाथस्तु सप्तदशशताब्द्यामवात्सीदिति स्मर्यमाणे सति तयोस्समकालिकतामभिमत्य कल्पितायां गाथायां कथङ्कारं विस्त्रम्भो बोभवीतु ?
6.दीक्षितेन्द्रग्रन्थपरिशीलनमात्रेणेदमवसीते यदयं सकलशास्त्रपारङ्गतो महाकविः ख्यातो व्याख्यातेति च । अत एवाऽयं वेलूर्पत्तनवास्तवेयेन शासित्रा चिन्नबोम्मनायकेन बहधा सम्मानितः । अन्यैश्च प्रभुभिः सभाजितः । तदा कृतज्ञताबद्धः दीक्षितः सभाजयितॄन् बहुधा प्राशंसीत् । असौ तत्र सन्दर्भे स्वपितृपितामहादिवृत्तान्तं प्रास्तावीत् । इदमपि गमनीयम् ।
7. दीक्षितसमकालिकग्रन्थकर्तृभिः, तद्वंशीयैश्च बहवोंऽशा ज्ञापिताः । तद्वंश्यस्य स्वीयसहोदरपौत्त्रस्य नीलकण्ठदीक्षितस्य गङ्गाधराष्टकम्, समहपुङ्गवकवे रचना शिवरहस्यम् इत्यादयः परीचेयाः ।
8. अडयप्पलग्रामस्थितशासनादिदमवगम्यते, यत् शिवार्कमणिदीपिकां श्रुत्वा परितुष्टो चिन्नबोम्मक्षितीन्द्रः आचार्यदीक्षितस्य कनकाभिषेकमचीकरदिति । अन्याश्च शिलालेखाः क्कतित्क्कचिदुपलक्ष्यन्ते, ये च प्रदेशा अनेन गमिकर्मिकृताः । चरित्रबोधे ताश्च लेखास्साझमाचरन्ति ।
पूर्वेक्तविषय्पेक्षया प्राधान्यमश्रुवानोऽन्यः कोशोऽस्ति, दीक्षितेन्द्रवंशाभरणाख्यः । अयञ्ज श्रीमन्नार्गुडि राजुशास्त्रिणा संस्कृतगिरा रचितः । अयं शास्त्रिवर्यः विविधविद्याविज्ञानखनिर्भूत्वा दीक्षितग्रन्थान् पाठं पाठं, देशं देशमाटमाटञ्ज एतत्सम्बद्धव्यक्तिभिस्साकं भाषं भाष़ञ्ज बहुमुखकौशलसङ्क्रोडितविषयपरामर्रोन बहून् विषयान् ज्ञायं ज्ञायञ्ज अद्भुतान् जीवनविशेषान् न्यवीविदत् । क्कचिद्व्याख्यायां दीक्षितवंशावलिञ्ज निरदिक्षत् । दीक्षितनिवासप्रान्तप्रदेशेषु प्रचारपथं नीताः बह्व्यो वार्ताः कर्णाकर्णि गोचरीभूताः उन्दताश्च दीक्षितजीवितविशेषान् विशदीकर्तुं प्रभवन्ति ।
ग्रन्थकर्ता अप्पय्यदीक्षितः
बहुभिर्विश्वसनीयैः प्रमाणैः आचार्यदीक्षिता ग्रन्थाः चतुश्शतमिति प्रायः प्रतीयते । चतुरधिकशतप्रबन्धनिर्वाहकः इति तद्बिरुदमपि तमंशं सत्यापयति । इतोऽप्यधिकतंख्याका एव ग्रन्था अनेन निरमायिषतेति के चिद्युक्तकूपमूहन्ते, वदन्ति च । एतदीयशक्तिव्युत्पत्त्योः परीशिल्यमानयोरिदं सङ्गतमेवेति भाति, ग्रन्थसंख्यां केवलं निरीक्षमाणानां न तत्र किञ्जिद्विस्मयनीयं विद्यते, यत् अद्यत्वेऽपि शताधिकग्रन्थकर्तारो दरीदृश्यन्ते, अपि तु प्रतिपाद्यमानशास्त्रसंख्याविस्तृतिं, व्यवस्थाप्यमानानां सिद्दान्तानामुच्चावचत्वं, निर्णेतानां विषयविशेषाणामगाधतां, क्षोदक्षमतां निरूपणप्रसित-प्रतिभापरिणाहञ्जोदिक्ष्य विदग्धैर्विस्मयाविष्टैर्भूयते । यद्यपि चतुश्शतप्रबन्धप्रणेतेति सुप्रतीतोऽसौ, तथाऽपि तदियेषु प्रबन्धेषु षष्टिकेव ग्रन्थाः सुष्ठु प्रत्यभिज्ञायन्ते । चतुश्चत्वारिंशत्प्रबन्दाः केवलं नामतो लभ्यमाना निर्देश्यन्ते । एते कयाचन अष्टधा विभागमर्हन्ति । ते यथा---
1. वेदान्तविषयकाः
1. सीद्धान्तलोशसङ्ग्रहः, 2. न्यायरक्षामणिः, 3. कल्पतरुपरिमलः, 4. मध्वतन्त्रमुखमर्दनम्, 5. मध्वमतविध्वंसनम्, 6. पूर्वेत्तरमीमांसावादनक्षत्रमाला, 7. न्यायमुक्तावली (द्वैतम्), 8. न्यायमयूखमालिका(विशिष्टाद्वैतम्), 9. न्यायमणिमाला (श्रीकण्ठमतम्), 10. न्यायमञ्जरी(शङ्कराद्वैतम्), 11. रामानुजशृङ्गभङ्गः (रामानुजमतखण्डनम्), 12. तत्त्वमुद्राविद्रावणम्(मध्वमतखण्डनम्) 13. रामानुजमततात्पर्यसङ्ग्रङ्गः, 14. एतद्ग्रन्थव्याख्या, 15. श्रीविद्यातत्त्वविवरणम्, 16. अधिकरणमाल् 17. अधिकरणसारावलिः, 18. तत्त्वमुक्तावली, 19. न्यायरत्नमाला, 20. तद्ग्रन्तव्याख्या, 21. मतसारार्थसङ्गहः,, 22. सिद्धान्तरत्नाकरः, 23. मणिमालिका, 24.न्यायमुक्तावलिव्याख्या, 25. अधिकरणपञ्जिकाचज ।
2. शिवाद्वैतपरायणाः
26. शिखरिणीमाला, 27. तस्या व्याख्या शिवतत्त्वविवेकः, 28. रामायणतात्पर्यसङ्ग्रहः, 29. एतस्य व्याख्यानम्, 30. भारततात्पर्यसङ्ग्रहः, 31. तस्य व्याखयानम्, 32. ब्रझतर्कस्तवः, 33. अस्य विवृतिः, 34। शिवध्यानपद्धतिः, 35. शिवपूजाविधिः, 36. शिवार्तनतन्द्रिका, 37. शिवकर्णामृतम्, 38. शिवार्कमणिदीपिका, 39. शिवाद्वैतनिर्णयः, 40.आनन्दलहरी, 41. तद्व्याख्या चन्द्रिका, 42. भस्मवादावलिः, 43. रत्नत्रयपरीक्षा, 44. इदमीया व्याख्या, 45. शिवमह्मकलिकास्तुतिः, 46. पञ्जरत्नस्तुतिः, 47. पञ्जरत्नस्तुतिव्याख्या, 48. वीरशैवम्, 49. शिवध्यानपद्धतिव्याख्यानम्, 50. शिवपुराणतामसत्वखण्डनम्, 51. शैवकल्पद्रुमः ।
3. मीमांसाशास्त्रम्
52. विधिरसायनम्, 53. सुखोपयोजिनी, 54. उपक्रमपराक्रमः, 55. चित्रपटम्, 56. मयूखावलिः, 57. तान्त्रिकमीमांसा, 58. धर्ममीमांसापरिभाषा ।
4. व्याकरणम्
59. पाणिनीयतन्त्रवादनक्षत्रमाला ।
5. काव्यव्याख्या
60. यादवाभ्युदयव्याख्या
6. अलङ्कारशास्त्रम्
61. कुवलयानन्दः, 62. चित्रमीमांसा, 63. वृत्तिवार्तिकम् ।
7. स्तोत्रवाङ्गयम्
64. वरदराजस्तवः, 65. इदंस्तवव्याखअया, 66. आत्मार्पणस्तुतिः, 67. अपीतकुचाम्बास्तवः, 68. मानसोल्लासः, 69. निग्रहाष्टकम्, 70. हरिहरर्तृतिः, 71. दुर्गाचन्द्रकलास्तृतिः, 72. एतत्स्तुतिव्याख्या, 73. आदित्यस्तोत्रम्, 74. तस्य व्याख्यानम्, 75. मार्गबन्धुपञ्जरत्नम्, 76. मार्गसहायलिङ्गस्तुतिः, 77. आदित्यस्तोत्रम्, 78. कृष्णध्यानपध्दतिः, 79. पादुकासहस्त्रव्याख्या, 80. अनुग्रहाष्टकम्, 81. कृष्णध्यानपद्धतिव्याख्या, 82. अरुणाचलेश्वरस्तुतिः, 83. जयोल्लासनिधिः, 84.मार्गसहस्तोत्रम्, 85. मार्गबन्धुचम्पूः (स्वकुलदेवतास्तुतिरूपा), 86. विषअणुतत्त्वहस्यम्, 87. शान्तिस्तवः, 88. स्तोतरत्नाकरः, 89. भक्तिशतकम्, 90. बालचन्द्रिका, 91. तद्व्याख्या, 92. नामसङ्गहमाला (अभिधानकोशः), 93. तस्याः व्याख्या, 94. शब्दप्रकाशः (कोशः), 95. प्राकृतचन्द्रिका(प्राकृतमणिदीपः), 96. अमरकोशव्याख्या, 97. तिङन्तशेषसङ्गहः, 98. पञ्जस्वरवृत्तिः, 99. प्रबोधचन्द्रोदयटीका, 100. वसुमतीचन्द्रसेनविलासनाटकम्, 101.हंससन्देशटीका, 102. लक्षणरत्नावलीव्याख्या, 103. हरिवंशसारचरितव्याख्या, 104. दशकुमारचरितसङ्गहश्च ।
अलङ्कारशास्त्रस्य उद्गमाभिवृद्धी
एतर्हि अलङ्कारशास्त्रमधिकृत्य किञ्जित्प्रस्तोतुमुत्सहे । यद्यप्यलङ्कारशब्दः योगरूढ्या अनुप्रासोपमादिशब्दर्छालङ्कारबोधको भवति तथाऽपि तादृशव्याप्यार्थे स शब्दः न वामनीकर्तव्यः । स त्रिविक्रमः क्रियताम् । `काव्यं ग्राझमलङ्कारात्', `सौन्दर्यमलङ्कारः' इति सूत्रद्वयार्थ सम्यक् परामृश्य अदो निश्चेतुं शक्यते, यत् काव्यशोभासंवर्धनसन्धात्री समग्राऽपि (काव्य) सामग्री अलङ्कार शब्दव्यपदेशमर्हतीति । अतो व्यापकोऽर्थोऽङ्गीकारार्हो भवति । अत एव न केवलमुपमाद्यलङ्कार एव, अपि तु "रसप्रधाना शब्दार्था गुणालङ्कारवृत्तयः, रीतयश्चेयती शास्त्रप्रमेयं काव्यपद्धतिः" इतियुक्तरीत्या शास्त्रप्रमेयभूता काव्यपद्धतिस्समग्राऽपि अलङ्कारशब्दव्यपदेश्या भवति । यथा प्रमाण-प्रमेय-संशय-प्रयेजन-दृष्टान्त-अवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रह-स्थानरूपाणां षोडशपदार्थनां प्रतिपादकमपि गौतमशास्त्रं, परार्थानुमानपर्यायस्य न्यायस्य सकलविद्यानुग्रहकतया सकलकर्मानुष्ठानसाधनतया च तत्र शास्त्रेप्रधानत्वेन, न्यायशास्त्रमिति व्यपदिश्यते `प्रादान्येन व्यपदेसा भवन्ती' ति न्यायात्, तद्वदेव समग्रकाव्यस्वरूपनिरूपणपराणामपि लक्षणग्रन्थानां काव्यप्रकाश-साहित्यदर्पण-प्रतापरुद्रशोभूषणादीनां अलङ्कारशास्त्रव्यवहारो युक्तरूपः ।
यद्यपीदमलङ्कारशास्त्रं, भरतनाट्यसास्त्रं, अग्निपुराणं वा आरभ्य बहुशाखाभिः प्रचण्डवेगेन प्रवर्धमानं, उच्चावचान् काव्यात्मवादान् सम्पुष्णत् ध्वन्यात्मतावादं तत्राऽपि रसात्मतावादञ्ज सिद्धान्तयदपि उपमाद्यलङ्कारप्रामुख्यं न ह्तुमलम्भूष्णु भवति । रसस्य प्रादान्यसौवादवसम्पादने अलङ्कारस्य प्रामुख्यमवश्याभ्युपेयमेव ।
"युवतेरिव रूपमङ्ग काव्यं स्वदते शुद्धगुणं तदप्यतीव ।
विहितं प्रणयं निरन्तराभिः सदलङ्कारविकल्पकल्पनाभिः ।।"
"न कान्तमपि निर्भूषं विभाति वनितामुखम्"
"अर्थालङ्काररहिता विधवेव सरस्वती"(न शोभते)
इत्यादिवचनैरलङ्कारप्राधान्यं व्यक्तं भवति ।
एतेऽलङ्कारा निगमा प्राचीनाः, यतो ऋगादिवेदा एव उपमारूपकोत्प्रेक्षादिनानालङ्कारपिरिष्कृताः प्रत्यक्षीक्रियन्ते । `आणि न (इव) रथ्यममृताधितस्थुः', `मृगो न(इव) भीमः कुचरो गिरिष्ठाः', `यथा पुष्पस्य सम्पुष्पितस्य दूराद्गन्धो वाति', `चत्वारि शृङ्गा त्रयो अस्य पादाः द्वे शीर्षे सप्त हस्तासो अस्य', `द्वा सुपर्णा सयुजा सखायौ.. अभिचाकशीति' इत्यादिस्थलेषु उपमोत्प्रेक्षातिशयोक्त्याद्यलङ्कारा विषयबोधनकुशला हृदयङ्गमाश्चानुभूयन्ते । `यज्ञस्यात्मा यजमानश्र्श्र द्धापत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हिर्वेदश्शिखा हृदयं यूपः काम आज्यं मन्युः पशुस्तपोऽग्निः' इत्याद्युपनिषद्वाक्ये मालारूपकालङ्कारोऽद्भुताकारो निर्व्यूढः ।
इथंवेदाः, आदिकाव्यां श्रीमद्रामायणं, वेदसम्मितो भारतेतिहासः, पुराणानि, काव्यान्यासङ्ख्येयानि च अलङ्कारसम्भृतान्यभूवन्। तानि लक्ष्याणि विमृश्य तत्र स्थितांश्चमत्कारातिशयान् स्वादम स्वादमं भावं भावञ्ज महानीषिभिरलङ्कारशास्त्रमुद्भाव्य समभ्यर्ध्यत । लक्षणग्रन्थनामाविर्भावः लक्ष्यग्रन्थनान्तरीयकः । सर्वस्याऽपि शास्त्रजातस्य एषैव रीतिः । प्रथमतो लक्ष्यं, पश्चात्तु लक्षणम् ।
"काव्यालापाश्च ये केचित् गीतकान्यखिलान्यपि ।
शब्दमूर्तिधरस्यैते विष्णोरंशा महात्मनः ।"
इति पराशरवचसा-
"स्वरूपरूपविभवगुणकर्माणि शार्ङ्गिणः ।
व्याचक्षीत निबध्नीयीत् शृणुयाद्विलिखेत्पठेत् ।।"
`तं धीरासः कवय उन्नयन्ति' (श्रुतिः)
इतियादिभिर्वचनैस्स एवार्थोऽ भिप्रेत इति तदर्थनिर्णयस्सुकरः । यथाश्रुतार्थग्रहणग्रहेण काव्यं त्याज्यमेवेति यद्यागृझते तदा महाननर्थः प्रसजेत् ।
"वेदवेद्ये परे पुसिं जाते दशरथात्मजे ।
वेदः प्राचेतसादासीत्साक्षाद्रामायणात्मना ।।"
श्रीमदप्पदीक्षितप्रणीता
चित्रमिमांसा
अभिवन्द्य चन्द्रशेखरमाद्यं गौरीसखं परं ज्योतिः ।
वितनोमि विपुलविषयां विशदार्थामर्थचित्रमीमांसाम् ।।
त्रिविधं तावत्काव्यम् ; ध्वनि - गुणीभूतव्यङ्ग्य - चित्रभेदात् ।
यत्र वाच्यातिशायि व्यङ्ग्यं स ध्वनिः ।
यथा -
स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।
वलषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः ।।
अत्र तपस्यन्त्या देव्या देहोपरि निपततां प्रथमवृष्टिबिन्दूनां क्रियास्वभाववर्णनेन देव्याः समाध्यिचितावस्थानाभिवायक्तिद्वारा चिरन्द्घतप्तहोपरि निपतनेन सुखपाकवश्यसम्भ्रमहेतौ प्रछमवृष्टावप्यहता समाध्यवस्था व्यज्यते ।
तथा हि -
नासाग्रन्यस्तनयनः संवृतास्यः सुनिश्चलं ।
ध्यायीत मनसा देवमुरो विष्टभ्य चाऽग्रतः ।।
इति समाध्युचितावस्थनमाहुः । तत्र पक्षमसु स्थिता इत्यनेन नासाग्रन्यस्तनयनतारूपमर्धनिमीलनं व्यज्यते । सर्वथोन्मीलने पक्ष्मणामूर्ध्वाग्रत्वेन, सर्वथा निमीलने ते षामधोऽग्रत्वेन च तेषु जलबिन्दूनां स्तित्यसम्भवात् । पक्षमभ्यश्च्युतानां तेषामास्याप्रवेशेन अधरोष्ठे निपत्य ततश्च्युतिकथन्न संवृतास्यत्वं व्यज्यते । ततश्च्युतानां तेषां स्तनोत्सेधनिपतनादिवर्णनेन तु उरोविष्टम्भः । अलसवत् अवनतावस्थाने हि स्तनयोरन्तस्सङ्कुचिताकारतय् तदुत्सेधयोस्तेषां पतनं न स्यात् । कथञ्जित्तयोः पतित्वा वलित्रयं प्राप्तानामपि वलीषु तिर्यगेव गमनं स्यात्, न नाभिदेशप्राप्तिः । नाभौ च संवृतायां प्रवेशो न स्यात् । पक्ष्माधरादिपतनक्रमकथनेन च निश्चलत्वं व्यज्यते । मुखादिचलने सति पक्ष्मपतितानां तेषाम् अधरपयोधरादिक्रमेण पतनासम्भवात् । किञ्च, एभिरेव विशेषणैर्देव्या लोकोत्तरं सौन्दर्यमभिव्यज्यते । स्थिता इत्यनेन पक्ष्मणामविरलतायाः, क्षणमित्यनेन तेषां मसृणतायाः, पक्ष्मपतनशिथिलवेगैरुदबिन्दुभिस्तीडनेक्त्या अधरस्यातिसौकुमार्यस्य, पक्ष्माधरपतनादिभिः शिथिलवेगानां तेषां स्चनोत्सेधे चूर्णेभाववर्णनेन तयोरतिकाठिन्यस्य, उरोविष्टम्भेऽपि वलीषु तेषां स्खलनोक्त्या वलीनां विस्पष्टतायाः, सर्वबिन्दूनां नाभावेव प्रवेशकथनेन नाभेरतिगभीरतायाश्च अभिव्यञ्जनात् एवञ्च वाच्यातिशायि व्यङ्ग्यमत्रेति ।
यथा वा -
"निशशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि, दूति, बान्धवजनस्याज्ञातपीडागमे,
वापीं स्नातुमितो गताऽसि न पुनस्तस्याधमस्यान्तिकम् ।।"
अत्र वापीं स्नातुं गताऽसि, न तु तस्सकाशमिति वाच्यार्थे स्थिते तत्सकाशमेव रन्तुं गताऽसीति अधमपदेन प्राधान्येते । तथा हि-अधमत्वमपकृष्टत्वम् । तच्च जात्या कर्मणा वा भवति । तत्र जात्याऽपकर्षं नोत्तमनायिका नायकस्य वदति । नापि स्वापराधपर्यवसायिदूतीसम्भोगादिहीनकर्मातिरिक्तेन कर्मणा । तादृश़ञ्च दूतीसम्भोगात्प्राचीनं सर्वं सोढमेवेति नोद्धाटनाईम् । अन्यथा, स्वयं दूतीसम्प्रेषणानुपपत्तेः । तदनन्तरञ्च स्वप्रेषितदूतीसम्भोगरूपमेव संनिहितैश्चिह्नैः ज्ञातुं शक्यं हीनकर्म सम्भवतीति तत्पर्यवसायिना ऽ धमपदेन तस्यान्तिकमेव रन्तुं गराऽसीति व्यज्यते । निश्शेषच्युतचन्दनं स्तनतटमित्यादीनि वाक्यानि सम्भोगचिह्नोद्धाटनेन तत्र साहायकमाचरन्ति । कथम् ? `निश्शेषच्युतचन्दनं स्तनतटम्' इत्यत्र तानत् वापीं स्नातुमितो गताऽसीति वाच्यार्थमुपपादयितुं उहोत्तरीयकर्षणेन चन्दनच्युतिरिति अन्यथासिद्धिपरिबाराय निश्शेषविशेषणं कृतम् । ततश्चन्दनच्युतेः स्ननसाधारण्यव्यावर्तनेन सम्भोगचिह्नोद्धपरिहाराय तटग्रहणम् । स्नाने हि सर्वत्र चन्दनच्युतिः स्यात् तव तुस्तनयोस्तटे उपरीभागे एव दृश्यते, इयमाश्लेषकृतैवेति । तथा निर्मृष्टरागोऽधर इत्यत्र ताम्बूलग्रहणविलम्बात् प्राचीनरागस्य किञ्चिन्मृष्टतेति अन्यथासिद्दिपरिहाराय निर्मृष्टराग इति रागस्य निश्शेषमृष्यतोक्ता । पुनः स्ननानसाधारण्यव्यावर्तनेन सम्भोगचिह्नद्धाटनाय अधरइति विशिष्य ग्रहणम्। उत्तरोष्ठे सरगेऽधरोष्ठमात्रस्य निर्मृष्टरागता चुम्बनकृतैवेति । नेत्रे दूरमनञ्जने इत्यत्र प्रातर्दत्तमञ्जनं कालविलम्बेन किञ्चिद्विलुप्तमिति अन्यथासिद्धिपरिहाराय दूरमित्युक्तम् । दूरमत्यर्थमिति आपाततोऽर्थः । एतेन कालान्यथासिद्धिनिरासः । पुनः स्नानसाधारण्यव्यावर्तनेन सम्भोगचिह्नोद्धाटनाय दूरं प्रान्ते इति हृदयस्थितोऽर्थः । वस्तुतस्तु कालतःस्नानेन वा सर्वतोऽञ्जनलोपः स्यात्, तव तु लोचनयोः क्कचित् प्रान्त एव अनञ्जनत्वमिदं चुम्बनकृतमेवेति । `पुलकिता तन्वी तवेयं तनुः' इत्यत्र आपाततः तन्वीति सहजतानवकीर्तनम् । पुलकितेति
स्नानचिह्नोपन्यासः । पुलकिताऽपि तन्वी वर्तत इति हृदि स्थितोऽन्वयः । तेन च स्नानेन पुलकिता तनुः किञ्जिदुच्छ्वसिता भवति, इयं तु न तथेति ततिक्येशजनितावेव तानवपुलकोद्गमाविति मर्मेद्दाटनम् । एवमेभिर्वाक्यैरुपस्कृतेन अधमपदेन तस्यान्तिकमेव रन्तुं गतासीति व्यज्यमाने प्राग्वाच्यार्तादशायां वापीं स्नातुं गताऽसीत्येतदनुगुणार्थतयाऽन्वितं, म्थ्यावादिनीति सम्बोधनमपि व्यङ्ग्यानुगुण एवाऽर्थे पर्यवस्यति । ततश्च न्यग्भावितवाच्यमस्याऽपि व्यङ्ग्यं वाच्यातिशायीति इदमपि ध्वनेरुदाहरणम् ।
यत्र व्यङ्ग्यं वाच्यानतिशायि तद्गुणीभूतव्यङ्ग्यम् ।
यथा-
"गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते
किन्त्वेवं विजनस्थयोईतजनः सम्भावयत्यन्यथा ।
इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसा-
माश्लिष्यन् पुलकोत्कराञ्जिततनुं गोपीं हरः पातु वः ।।"
अत्र गच्छाम्यच्युतेत्याद्यामन्त्रणेन त्वया रन्तुमेतावत्कालं स्थितं, तन्न लब्धमिति व्यङ्ग्यम् । तत्तु `इत्यामन्त्रणभङ्गिसूचितवृथानखेदालसाम्' इत्येतद्वाच्यस्य सिद्धिं करोतीति तदङ्गत्वान्न वाच्यातिशायि । अतो गुणीभूतव्यङ्ग्यमिदम् ।
यथा वा-
"प्रहरविरतौ मध्ये वाऽह्नस्तसोऽपि परेऽथवा
किमुत सकले याते वाऽह्नि प्रिय, त्वमिहैष्यसि ।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो
हरति गमनं बालाऽऽलापैः सबाष्गलज्जलैः ।।
अत्र सकलमहः परमावधिः, ततः परं प्राणान् धारयितुं न शक्नोमीति व्यङ्ग्यं प्रियगमननिवारणरूपस्य वाच्यस्य सिद्धिं करोतीति तदङ्गत्वाद्वाच्यानतिशयि । अत इदमपि गुणीभूतव्यङ्ग्यम् ।
यदव्यङ्ग्यमपि चारु र्ताच्चत्रम् ।
तत् त्रिविधम्; शब्दचित्रम् अर्थचित्रम् उभयचित्रमिति । शब्दचिज्त्रं यथा-
"नवपलाशपलाशवनं पुरः स्फुटपरागपरागतङ्कजम् ।
मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुरभिं सुमनोभरैः ।।"
अर्थचित्रं तथा-
"स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात् पवनावधूतः ।
अङ्गाशेषस्य हुताशनस्य पूर्वेत्थितो धूम इवाऽऽबभासे ।।"
उभयचित्रं यथा -
"वराहः कल्याणं वितरतु स वः कल्पविरमे
विनिर्धुन्वन्नौदन्वतमुदकमुर्वेमुदवहत् ।
खुराघातत्रुट्यत्कुलशिखरिकूटप्रविलुठ-
च्छिलाकोटिस्फोटस्फुटघटितमङ्गल्यपटहः ।।"
तदेवं त्रिविधे ध्वनिगुणीभूतव्यङ्ग्ययोरन्यत्रास्माभिः प्रपञ्जः कृतः । शब्दचित्रस्य प्रायो नीरसत्वान्नात्यन्तं तदाद्रियन्ते कवयः, न वा तत्र विचारणीयमतीवोपलभ्यत इति शब्दचित्रांशमपहाय अर्थचित्रमीमांसा प्रसन्नविस्तीर्णा प्रस्तूयते ।
चिन्त्येऽत्र चित्रवर्गे प्रदर्श्ययोर्लक्ष्यलक्षणयोः ।
प्राचीनानामेव श्लोकाः प्रायेण लिख्यन्ते ।।
इति चित्रमीमांसायां ग्रन्थारम्भप्रकरणम् ।।
अथोपमालङ्कारः
उपमैका शैलूषी सम्प्राप्ता चित्रभूमिकाभेदान् ।
रञ्जयति काव्यरङ्गे नृत्यन्ती तद्विदां चेतः ।।
`चन्द्र इव मुख' मिति सादृश्यवर्णनं तावदुपमा । सैवोक्तिभङ्गीभेदेन अनेकालङ्गारभावं भजते । तथा हि - `चन्द्र इव मुखं मुखमिव चन्द्र' इत्युपमेयोपमा । `मुखं मुखमिव' इत्यनन्वयः । `मुखमिव चन्द्र' इति प्रतीपम् । `चन्द्रं दृष्ट्वा मुखं स्मरामि `इति स्मरणम् । `मुकमेव चन्द्र' इति रूपकम् । `मुखचन्द्रेण तापः शाम्यति'
इति परिणामः । `किमिदं मुखम्, उताहो चन्द्र' इति सन्देहः । `चन्द्र इति चकोराः त्वन्मुखमनुधानन्ति' इति भ्रान्तिमान् । `चन्द्र इति चकोराः कमलमिति चञ्चरीकास्त्वन्मुखे रज्यन्ति' इत्यल्लेखः । `चन्द्रोऽयं न मुखम्' इत्यपह्नवः `नूनं चन्द्र' इत्युत्प्रेक्षा । `चन्द्रोऽय' मित्यतिशयोक्तिः । `मुखेन चन्द्रकमसे निर्जिते' इति तुल्ययोगिता । `निशि चन्द्रः त्वन्मुखञ्चहृष्यति' इति दीपकम् । `त्वन्मुख एवाऽहं रज्यामि, चन्द्र एव चकोरो रज्यते' इति प्रतिवर्तूपमा । `दिवि चन्द्रो भुवि त्वन्मुखेम्' इति दृष्टान्तः । `मुखं चन्द्रश्रियं बिभर्ति' इति निदर्शना । ` निष्कलङ्कं मुखं चन्द्रादतिरिच्यते' इति व्यतिरेकः । `त्वन्मुखेन समं चन्द्रो निशासु हृष्यति' इति सहोक्तिः । `मुखं नेत्राङ्करुचिरं स्मितज्योत्स्नोपशोभितम्' इति समासोक्तिः । `अब्जेन सदृसं वक्त्रं हरिणाहितसक्तिना' इति श्लेषः । `मुखस्य पुरतश्चन्द्रो निष्प्रभः' इत्यप्रस्तुतप्रशंसा । एवमुक्तानेकालङ्कारविवर्तवतीयमुपमा ।
तदिदं चित्रं विश्वं ब्रझज्ञानादिवोपमाज्ञानात् ।
ज्ञातं भवतीत्यादौ निरूप्यते निखिलभेदसहिता सा ।।
अस्यास्तावदेवं लक्षणमाहुः-
"उपमानोपमेयत्वयोग्ययोरर्थयोर्द्वयोः ।
हृद्यं साधर्म्यमुपमेत्युच्यते काव्यवेदिभिः" ।।
(31)
दृष्टञ्ज लोके सम्भावनापरत्वमिवशब्दस्य । `दूरे तिष्ठन् देवदत्त इव भाति' इति । कथं च स्वतस्सिद्धेनेत्यनेन उत्प्रेक्षाव्यावृत्तिः ?
`न नित्यमस्मिन् परिपूर्णतेति त्यक्त्वा नभः क्षोणितलावतीर्णः ।
आनन्दयन् इन्दुरिव स्वधाम्ना विभाति लोको नवकाकतीन्द्रः ।।'
इति तदीयोत्प्रेक्षोदाहरण एव उपमानस्य स्वतस्सिद्धत्वात् । इन्दुः क्षोणितलावतीर्णत्वाकारेण कविकल्पित इति चेच्चर्हि,
`चन्द्रबिम्बादिव विषं चन्दनादिव चानलः ।
परुषा वागितो वक्त्रादित्यसम्भावितोपमा ।।'
इत्युक्तायामसम्भावितोपमायामव्याप्तिः । विषानलयोः स्वतस्सिद्धत्वेऽपि चन्द्रचन्दनप्रभवत्वेन कविकल्पितत्वात् ।
`उभौ यदि व्योम्नि पृथक्प्रवाहावा3काशगङ्गापयसः पतेताम् ।
तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ।।'
इति कविकल्पितोपमानायामुपमायां सर्वथैवाव्याप्तिः ।
भिन्नेनेच्यनन्वयव्यावृत्त्यर्थमुपात्तमप्ययुक्तम् ।
`अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् ।
एको हि दोषो गुमसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ।।'
इत्यस्यामुपपादकोपमायामव्याप्तेः । तत्रोपमेयदोषगुणसामान्यान्तर्गतानां दोषगुणविशेषाणां कलङ्ककिरणानां तद्भिन्नत्वाभावात् । अथ उपमेयतावच्छे दक भिन्नोपमानतावच्छे दकाविच्छिन्नत्वमुपमानस्य तद्भिन्नत्वम्, एतदपि न युक्तम् ।
`अनवरतकनकवितरणभृतजललवकरतरङ्गतार्थिततेः ।
भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ।।'
इति रशनोपमायामव्याप्तेः, मतित्वाद्युपमानतावच्छेदकयोः उपयतावच्छेदकभिन्नत्वाभावात् । उपमेयोपमायाम् उपमानावच्छेदकयोर्द्वयोरपि तद्भिन्नत्वाभावेन उत्तविशेषणेनैव तद्व्यावृत्तिसिद्ध्या एकदेत्यस्य वैयर्थ्यापत्तेश्च ।
`रजोभिः स्यन्दनोद्धूतैर्गश्च घनसन्निभैः ।
भुवस्तलमिव व्योम कुर्वन् व्योमेव भूतलम् ।।'
इत्युपमेयोपमाप्रकरणोदाहरिष्यमाणपरस्परोपमायामव्याप्तेश्च ।
अथ स्वोपमेयतावच्छेदकभिन्नधर्मावच्छिन्नत्वमुपमानस्य तद्भिन्नत्वमिति विवक्षितम्, इदमपि न सम्यक् ।
"उपाददे तस्य सहस्त्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् ।
स तद्दुकूलादवुदूरमौलिर्बभौ पतढ्गङ्ग इवोत्तमाङ्गे ।।"
"द्वारं द्वारमटन् भिक्षुः शिक्षत्येवं नवं याचते ।
अदत्त्वा मादृशो माभूर्दत्वा त्वं त्वादृशो भव ।।"
छइतियाद्यभिन्नधर्मिकोपमासु अव्याप्तेश्च । तत्र परमेश्चरत्वादेः स्वोपमेयतावच्छेदकस्यैव उपमानतावच्छेद कत्वात् ।
श्लेषव्यावृत्त्यर्थं धर्मत इति विशेषणमप्ययुक्तम् । तत्र न शब्दसाम्यमात्रमिवेनोच्यते, किन्तु गुणसाम्यमपीति तदव्यावृत्तेः ।
ननु पुरे सकलकलत्वं कलकलशब्दसाहित्यं, सुधांशुबिम्बे कलासाकल्यमिति नैकोऽनिगतोो गुणो लभ्यते, मै वम् । श्लेषभित्तिकाभेदाध्यवसायमूलया भेदेऽभेद इत्येवंरूपयाऽतिशयोक्त्या धर्मसाधारणयलाभात् । न झुपमानोपमेययोरनुगतधर्मस्य मुख्यसाधारण्य एवोपमालङ्कारः ।
`पाण्ड्योऽयमंसार्पितलम्बहारः क्लप्ताङ्गरागो हरिचन्दनेन ।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ।।'
इत्यादौ हरिचन्दनबालापहारनिर्झरादीनां बिम्बप्रतिबिम्बभावेन निर्दिष््टानामपि साधारणधर्मत्वाङ्गीकारात् ।
ननु सकलकलमित्यादावपि गुणसाम्यं चेदुपमैव स्यादिति चेत् शब्दसाम्यमात्रञ्जेदपि किमित्युपमा न स्यात् । नहि शब्दान्यगुणादिसाम्यमेवोपमाप्रयोजकं न शब्दसाम्यमिति कुलधर्मः ।
`यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा ।
तथैव सोऽभूदन्वर्थे राजा प्रकृतिरञ्जनात् ।।'
इत्यत्रानुगतान्वर्थनामरूपशब्दसाम्येऽयुपमादर्शनात् । किन्तु श्लेषस्य अलङ्कारान्तरविविक्तविषयाभावेन निरवकाशतया बलवत्त्वेनालङ्कारान्तरबाधकत्वददुपमाप्रतिभानेऽपि तत्प्रतिभोत्पत्तिहेतुः श्लेष एव नोपमेति मङ्खकादिभिरभ्युपेयते । ततश्च यथा शब्दसाम्यमात्रमाश्रित्य उपप्रतिभाने तद्बाधकत्वं श्लेषस्य तथा श्लेषभित्तिकाभेदाध्यवसायलब्धाभेदगुणसाम्यमात्रमाश्रित्य उपमाप्रतिभाने तद्वक्तुं शक्यमिति तदनुरोधेन न तत्र गुणसाम्यपरीत्याघः ।
यत्तु रुदेरटेन `सकलकल' मित्यादावुपमां समर्थयमानेन -
`रुफुयमर्थालह्गारावेतापमासमुच्चयौ, किन्तु ।
आश्रित्य शब्दमात्रं सामान्यमिहाऽपि सम्भवतः ।।'
इति शब्दसाम्यमात्रमिहोक्तम्, तदन्ददः शब्दसाम्यमात्रमाश्रित्याऽपि उपमा समर्थयितं शक्येति भावेन, न त्वभेदाद्यवसायेनापि गुणसाम्यं न सम्भवतीति भावेन; श्लिष्टविशेषष्वपि अभेदाध्यवसायेन ऐक्यस्यालङ्करान्तरेषु सर्वेरपि समाश्रयणात् । तस्माध्दर्मत इत्यनेन न शमलेषो व्यावर्तयितुं व्यावर्तयितुं शक्यते ।
वस्तुतस्तु `सकलकल' मित्यादावुपमैवेति व्यर्थं धर्मत इति विशेषणम् । अलङ्कारान्तरविविक्तस्तु श्लेषस्य विषयस्तत्प्रकरणे दर्शयिष्यते । किञ्च, विविक्तविषयाभावेन अलङ्कारान्तरबाधकत्वमिति वाचोयुक्तिरप्ययुक्त । विषयसद्भावमात्रेण निरवकाशत्वहानेर्विविक्तविषयानपेक्षणात् । न झयमलङ्कारगोचरोो लोकन्यायो यद्विविक्तविषयो वक्तव्य इति । अरन्ध्ररत्नानां सुवर्णविविक्तविषयाभावेऽपि सुवर्णाश्रितानामेव चारुताहेतुत्वेन अलङ्कारान्तरत्वव्यवस्थितेः । अन्यथा न्रवकाशैररन्ध्रप्रत्युप्तरत्नैः सावकाशस्य तदाश्रयसुवर्णस्य अलङ्कारता बाध्येत । नाप्ययं वाक्यवित्सम्मतः शऱास्त्रीयान्यायः, पद् जुहोोतीत्यादीनामीव उत्तरार्धे जुहोोतीत्यादीनामाहवनीयशास्त्रादिविषयाभावेऽपि सविषयत्वमात्रेण प्रतिष्ठितत्वात् । नाप्यसाधारण्येन एतच्छास्त्रन्यायः सहोक्त्यादीनामतिशयोक्त्यादिविषयाभावेऽपि तदबाधेन अलङ्कारान्तरत्वव्यवहारात् । अविरोध इहाप्यविसिष्टः । तस्मादत्र उपमाप्रतिभोत्पत्तिहेतुः श्लेषालङ्कार इत्ययुक्तम् । प्रत्युत उपमैवाऽत्र श्लेषत्रतिभोत्पत्तिहेतुः । नहि पुरवर्णनप्रकरणे सकलासाकल्यलश्रणार्थान्तरप्रतिभा सम्भवति ।
प्रतीपव्यावृत्त्यर्थमन्येन वर्ण्यस्य साम्यमित्युत्तं तत्र अन्येनेत्ययुक्तम् । अन्येनेत्यस्य भिन्नविशेषणेन पौनरुक्त्यात् । किञ्च, वर्ण्यात्प्रकृतादन्येन अप्रकृतेन इति यद्यर्थस्तदा-
`इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु ।
रजांसि समरोत्थानि तच्छोणितनदीष्विव ।।'
इति समुच्चितोपमायामव्याप्तिः । तत्र समराङ्गत्वेन रजसां शोणितेषु पतनस्यापि वर्ण्यात्वात् । यदि तु स्वयं वर्ण्येनावर्ण्येन वा कु तश्चिद्वर्ण्या दन्येनेत्यर्थः, तदा़त्युत्कुष्टगुणत्वादुपमानभावमप्यसहमानस्य उपमानत्वकल्पनरूपे प्रतीपेऽतिव्याप्तिः । यथा-
`अहमेव गुरुस्सुदारुणानामिति हालाहल,तात, मा स्म दृप्यः ।
ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनान् दुर्जनानाम् ।।'
अत्र हि वर्ण्यानां दुर्जनवचसां हालाहलेनातिप्रकृष्टदोपमानभावमप्यसहमानेन साम्यनिबन्धनं प्रतीपम् ।
अत्र वर्ण्यस्येत्ययुक्तम्, `त्वत्कीर्तेः पुरतोो भाति ज्योत्स्ना ध्वान्तमलीमसा` इत्यप्रस्तुतप्रशंसासङ्कीर्णेपमायामव्याप्तेः । तत्र कीतेरेव वर्ण्यत्वेन ज्योत्स्नाया अवर्ण्यत्वात् । अपि च, `अन्येन वर्ण्यस्य साम्यं वाच्यम्' इति कोऽर्थः? किमन्यप्रतियोगिकत्वेन वर्ण्यगतं साम्यं वाच्यमिति, किं वा यताकथञ्चित् वर्ण्यानर्ण्योभयनिरूपितं साम्यं वाच्यम्, अथवा वर्ण्यानुयोगिकत्वेन साम्यं वाच्यमिति?- आद्ये (चकितहरिणलोललोचनायाः क्रुधि तरुणारुणतारहारकान्ति ।)`सरसिजमिदमाननञ्चतस्यः सममिति चेतसि सम्मदं विधत्ते' इत्युभयविश्रान्तसादृश्योपमायामव्याप्तिः । द्वितीये, प्रसिद्दप्रतीपेऽप्यतिव्याप्तिस्तदवस्था । एवं तृतीये वर्णस्य साम्यमित्येतावता विवक्षितार्छलाभादन्येनेत्यस्य वैयर्थ्यम् ।
उपमेयोपमाव्यावृत्त्यर्थमेकदेति विशेषणमप्ययुक्तम् । तेन `खमिव जलं जलमिव खम्' इत्यादौ पर्यायेण प्रवृत्तायामुपमेयोपमायामतिव्याप्तिन्रासेऽपि-
` तद्वल्गुना युगपदुन्मिषितेन ताव-
त्सद्यः परस्परतुलामधिरोहतं द्वे ।
प्रस्पन्दमानपरुषेतरतारमन्त-
श्चक्षुस्तव प्रचलितभ्रमरञ्च पझम् ।।'
इति युगपत्प्रवृत्तायां तस्यां अतिव्याप्त्यनिरासात् ।
अपि चैवम्,
`ज्योत्स्नेवं नयनानन्दः सुरेव मदकारणम् ।
प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी ।।'
इति भिन्नसाधारणधर्मायां मालोपम्यामव्याप्तिः, तत्रानेकदा साम्यप्रतिपादनात् । न च, बहूपमामेलनमेव मालोपमा नैका, तासु च प्रत्येकं लक्षणमस्त्येवेति नाच्यम् । तथा सति उपमेयोपमापि उपमाप्रतीपमेलनमेवेति तुल्यम् । एवमुपमेयोोपमाप्रकरणे उदाहरिष्यमाणायां `रजोभिः स्यन्दनोद्धूतैः' इति परस्परोपमायामव्याप्तिः ।
व्यङ्ग्योपमाव्यावृत्त्यर्थं वाच्यमित्युक्तमप्ययुक्तम् ।
`न पझं मुखमेवेदं न भृङ्गौ चक्षुषी इमे ।
इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमैव सा ।।'
इत्युक्तरूपायां तत्त्वाख्यानोपमायां साम्यस्यावाच्यत्वेन अव्याप्त्यापत्तेः ।
`त्वदाननमधीराक्षमाविर्दशनदीधिति ।
भ्रमद्भृङ्गमिवालक्ष्यकेसरं भाति पङ्कजम् ।।'
इत्यादौ विशिष्टोपमाद्याक्षिप्तविशेषणाग्यु पमायामव्याप्त्यापत्तेश्च । `शस्त्री श्याम्' इत्यादि वाचकलुप्तोपमायां, `चन्द्रसुहृन्मुखम्' इत्यादिसाम्यलक्षकपदवदुपमायाञ्च अव्याप्त्यापत्तेश्च ।
किञ्च, वाच्यमित्यत्र विधेयतया वाच्यतोच्यते, अनुवाद्यतया वा? आद्ये,
`स कर्षन्महतीं सेनां पूर्वसागागामिनीम् ।
बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ।।'
इत्यादावेव इदं लक्षणं स्यात् ।
`स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा ।
अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः ।।'
इत्यादौ न स्यात् । द्वितीये, यत्र व्यतिरेकालङ्कारे साम्यस्य निषेधायानुवाद्यता `मुकेन निष्कलङ्केन न समस्तव चन्द्रमाः' इत्यादौ, तत्रापीदं लक्षणं स्यात् । न च निषेधाप्रतियोगित्वेन वाच्यमिति विशेषणीयम् ।
`असिमात्रसहायोऽपि प्रभूतारिपराभवे ।
नैवान्यतुच्छजनवत्सगर्वेऽयं महाद्युतिः ।।'
इति व्यतिरेके तथाप्यतिव्याप्तेः । न च निषेधप्रतियोगिकोट्यननुप्रविष्टतया वाच्यमिति विशेषणीयम् ।
`वृथा चरसि किं भृङ्ग तत्र तत्र वनान्तरे ।
मालत्याः सदृशीं क्कापि भ्रमन्नपि न लप्स्यसे ।।'
इत्युपमानलुप्तायामव्याप्तेः । तत्र सदृशलाभनिषेधे साम्यस्यापि प्रतियोगिकोटिनिविष्टत्वात् ।
तस्माद्विद्यानाथोक्तलक्षणमप्ययुक्तम ।।
यत्तु सरस्वतीकण्ठाभरणोक्तं लक्षमम् -
`प्रसिद्धेरनुरोधेन यः परस्पसमर्थयोः ।
भूयोऽवयसामान्ययोगः सेहोपमा मता ।।'
इति । तदपि गुणक्रियादीनां परस्परसादृश्यवर्णनात्मिकायाम् -
`समञ्जुरश्वक्षुण्णानामेलानामुत्पतिष्णवः ।
तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः ।।'
इत्याद्युपमायामव्याप्तम् ।
`उद्गर्भहूणतरुणीरमणोपमर्द-
भुग्नोन्नतस्तननिवेशनिभं ह्मांशोः ।
बिम्बं कठोरबिसकाण्डकडारमेत-
द्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति'।।
`सद्यो मुण्डितमत्तहूणचिबुकप्रस्पर्धि नारङ्गकम्'
इत्यादौ प्रसिद्धिरहितोपमानायां, कल्पितोपमायाञ्च अव्याप्तम् ।
यत्त्वलङ्कारसर्वस्वकृतोक्तम् - `उपमानोपमेययोःसाधर्म्ये भेदाभेदतुल्यत्वे उपमा ।
साधर्म्ये त्रयः प्रताराः - भेदप्राधान्यं दीपक - तुल्ययोगिता - दृष्टान्त - प्रतिवस्तूपमा - सहोक्ति - व्यतिरेकादिषु । अभेदप्राधान्यं रूपक - परिणाम - भ्रान्तिमदुल्लेखादिषु । द्वयोस्तुल्यत्वं यथाऽस्यामुपमायाम् । अत्र हि उपमानोपमेययोरसाधारणरुपाभ्यां भेदः, साधारणधर्मेण अभेदश्चति द्वयोरपि तुल्यतैव' इति तदप्युपमेयोपमातिव्याप्त्यादिदुष्टमिति स्पष्टमेव । तस्माद्दुर्वचमस्या लक्षणमिति । अत्रोच्यते-
व्यापार उपमानाख्यो भवेद्यदि विवक्षितः ।
क्रियानिष्पत्तिपर्यन्तमुपमालङ्कृतिस्तु सा ।।
उपमानव्यापार उपमितिक्रियानिष्पादको व्यापारः सादृश्यवर्णना । सोऽयमुपमिति- क्रियानिष्पत्तिपर्यन्तं विवश्रितश्चेदुपमालङ्कार इत्यर्थः । तथा च व्यतिरेके वातिव्याप्तिः । तत्र सादृश्यवर्णनासत्त्वेऽपि `मुखेन निष्कलङ्केन न समस्तव चन्द्रमाः' इत्यादौ साश्रात्तस्यैव निषेधेन, `नै वान्यतुच्छजनवत्' इतियादौ तत्प्रयोजकधर्मनिषेधेन च उपमितिक्रियाया अनिष्पत्तेः । नाप्यनन्वयेऽतिव्याप्तिः । तत्रापि स्वेन स्वस्य सादृश्यस्य सदृशान्तरव्यवच्छेदे रुद्ररोदनवपोत्खननाद्यर्थवादेऽ सदर्थस्य निन्दास्तुत्योरिव द्वारमात्रतया वर्णमानत्वेन उपमितिक्रियाया अनिष्पत्तेः । अन्यथा स्वस्य तदेव फलं भामङादयः -
`यत्र तेनैव तस्य स्यादुपमानोपमेयता ।
असादृश्यविवक्षातो वदन्ति तमनन्वयम् ।।' इति ।
अत एव वर्ण्यमानमपि स्वस्य स्वस्मिन्साधर्म्यं नान्वेतीति अनन्वयपदव्युत्पत्ति- मलङ्कारसर्वस्वकारादयो वदन्ति । ततश्च यथाम्भसि कतकरजस्संयोजनेन रजोन्तव्यवच्छेदे सति कतकरजसोोोऽपि विलयनात्सर्वथाऽनाविलमम्भः सिध्यति तथा `रामरावणयोरिव' इत्यादौ स्वेन सादृश्यवर्णनया सदृशान्तरव्यवच्छेदे सति वस्तुतः स्वेनाप्युपमाया असम्भवादनुपमं रामरावणयोर्युद्धमित्यत्रैव कविसंसम्भ इति उपमितिक्रियाया अनिष्पत्तेर्नानन्वयेऽतिव्याप्तिशङ्कावकाशः । एवं प्रतीपेऽपि यत्रोपमित्यनिष्पत्तिः,
`आकर्णय सरोजाक्षि, वचनीयमिदं भुवि ।
शशाङ्कस्तव वक्त्रेण पामरैरुपमीयते ।।'
इत्यादौ, न तत्रातिव्याप्तिशङ्का; उपमितिक्रियानिष्पत्तिविरहात् ।
`गर्वमसंवाझमिमं लोचनयुगलेन किं वहसि भद्रे ।
सन्तीदृशानि दिशि दिशि सरस्सु ननु नीलनलिनानि ।।'
इत्यादिप्रतीपमुपमेयोपमा चेति उभयमपि सङ्ग्राझमेवेति न तद्व्यापनं लक्षणस्य दोषः । तथा हिउदाहृतप्रतीपं तावदुपमाविशेष एव । सादृस्यवर्णनस्य प्रकृतिषयत्व इव अप्रकृतविषयत्वेऽपि स्मृतिरूपणसन्देहभ्रान्त्यनेकधाग्रहणापह्नवसम्भावनाऽसमाभवद्वस्तुसम्बन्ध (निबन्धन) निर्दिष्टसमर्थनादीनामिव अलङ्कारान्तरत्वायोगात् । अन्यथा तेषामपि प्रकृतविषयत्व एव स्मरणरूपकससन्देहभ्रान्तिमदुल्लेखापह्नुत्युत्प्रेक्षानिदर्शनार्थान्तरन्यासाद्यलङ्कारत्वम्, अप्रकृतविषयत्वे च अलङ्कारान्तरत्वम् इति कल्पनाप्रसह्गाते । स्मृत्यादयश्च प्रकृतविषया इव अप्रकृतविषया अप्यलङ्कारभूतास्तत्र तत्र उदाहरिष्यन्ते । न चोपमायामयं नियमो यदप्रकृतेन प्रकृतसादृश्यवर्णनात्मनैव तथा भाव्यमिति । समुच्चयोपमाद्युदाहकणेषु प्रकृतयोरेव, अप्रकृतयोरेव वा सादृश्यवर्णनस्य उपमात्वाङ्गीकारात् । तद्वत् प्रकृतेनाप्रकृतस्य सादृश्यवर्णनमप्युपमैवेति युक्तम् । एवञ्चोपमेयोपमापि प्रकृताप्रकृतविषयोपमाणपरस्पसोपमाया न अलङ्कारान्तरतां भजते । अन्यथा तत्प्रकरणोदाहरिष्यमाणपरस्पसोपमाय अपि अलङ्कारान्तरत्वपेरसङेगैत् । परस्परभ्रमनिबन्धनादिष्वापि अलङ्कार्न्तरतापत्तेश्च । न चानन्वयप्रतीपोपमेयोपमासु सादृश्यवर्णनस्य पृथड्निरूपणस्य चाविशिष्यत्वेन अनन्वयस्य अनुपमात्वमितरयोरुपमात्वं त वक्तुमयुक्तमिति वाच्यम् । यत्रोपमितिक्रियानिषअपन्तिस्तत्रोपमाशब्दप्रवृत्तिनिम्त्तसद्भावेन, यत्र तदनिष्पित्तिस्तत्र तदाभावेन च वैषम्यस्य स्फुटत्वात् । इममेव विशेषम् अभिप्रेत्य ताव्यप्रताशिकादिलक्षणेषु अनन्वव्युदासार्थमेव यत्नः कृ तोो नोोपमेयोपमादिव्युदासार्थम् । उपमेयोपमादेरुपमान्तर्गतत्वेऽपि व्यङ्ग्यादिकृतवैचित्र्यविशेषेण पृछग्गणनं न विरुध्यते, रूपकपरिणामवत् । `उभौ यदि व्योम्नि पृथक्प्रनाङौ' इत्यादौ लक्षणाभावो न दोषः । यदि तथाभूतौ प्रवाहौ स्यातां तर्झुपमीयेत । न च तौ सम्भवतः । तस्मान्न के नाप्युपमीयत इति उपमापरर्यायोपमित्यनिष्पत्तेः । तथाप्युमात्वस्वीकारे तत्रोपमाशब्दस्य पारिभाषिकत्वापत्तेः । किन्तु तत्र ातिशयोक्तिविशेषोऽलङ्कारः । अत एव काव्यप्रकाशिकायां `प्रस्तुतस्य यदन्यत्वं यद्यर्थेक्तौ च कल्पनम्' इत्यतिशयोक्तिषु परिगणय्य यद्यर्थेक्तौ कल्पनस्य,
`राकायामकलङ्कं चेदमृतांशोर्भवेद्वपुः ।
तस्या मुखं तदा साम्यपराभवमवाप्नुयात् ।।' इत्युदाहृतम् ।
`पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
ततोऽनुकुर्याद्विशदस्य तस्याः ताम्रौष्ठपर्यस्तरुचः स्मितस्य ।।
इति तु कविकल्पितामानाया उत्पाद्योपमेति व्यवहृताया उदाहरणम् । तत्र यद्युत्पाद्यस्योपमानस्य सम्भाविततया तेनोपमितिनिष्पत्तेर्लक्षणमस्त्येवेति नाव्याप्तिः । न चैवं `चन्द्रबिम्बादिव विषम्' इत्यसम्भावितोपमायाम् अव्याप्तिः, तत्र असम्भावितेनैव उपमनानेन उपमितिक्रयानिष्पत्तेः कविना विवाक्षितत्वेन विवक्षानुसार्युपमितिक्रियानिष्पत्तिसद्भावात् । न हि `वसेतुसर्थनिबन्धनोपमितिक्रियानिष्पत्तिरुपमा' इति लक्षणमुच्यते, किन्तु कविविवक्षानिबन्धना । अत एव श्लोके विवक्षित इति विशेषणमर्थवतम । अन्यथा `चन्द्र अव मुखम्' इत्यादावपि लक्षणं न स्यात् । चन्द्रगतकान्त्यतिशयस्य वस्तुतो मुखेऽभावेन विवक्षानुसरणं विना गत्यभावात् । न चैवमनन्वयेऽपि कविविवक्षया स्वस्य स्वेन उपमितिक्रियानिष्पत्तिः सम्भवतीति वाच्यम् । सर्वथैवानुपमत्वद्योतने कविसंरम्भे सति तथा विवक्षानुदयात् । `वृथा चरसि किं भृङ्गग' इत्यादौ सादृश्याधिकरणस्य अनुपलमाभोक्त्या उपभ्यमानेषु सादृश्यनिषेधपर्यवसानेऽपि अनुपलभ्यमानगतसादृश्याभ्यनुज्ञानात् तत्रोपमितिक्रियानिष्पत्तिरस्तीति नाव्याप्तिः । अत एव विशिष्यानुपादानात् उपमानलुप्तता । एवम्,
निरूप्यमाणं कविना सादृश्यं स्वात्मनो न चेत् ।
प्रतिषेधमपादाय पर्यवस्यति सोपमा ।।
इत्यपि लक्षणमनुसन्धेयम् ।
उपमितिक्रियानिष्पत्तिमत्सादृश्यवर्णनमुपमा ।
स्वनिषेधापर्यवसायि सादृश्यवर्णनमुपमा ।
इति द्विविधमप्येतत् उपमासामान्यलक्षणम् । अलङ्काराभूतोपमालक्षणन्ति एतदेव अदुष्टाव्यङ्ग्यत्वविशेषितम् । विशिष्टोपमादिस्थले विशेषणाद्युपमानानां वाच्यभूतविशिष्टोपमादिसिद्ध्यङ्गत्वात्, वाच्यसिद्ध्यङ्गरूपगुणीभूतव्यङ्ग्यतैव तासां नालङ्कारतेति न तदव्यापनं दोषः । `न पझं मुखमेवेदम्' इत्यादौ नोपमालङ्कारः । किन्तु प्रतिषेधाक्षिप्तसक्तितया भ्रान्तिमान्, तदुपपादकतया उपमा चेत्युभयं व्यङ्ग्यम् । तथाऽपि भ्रान्तिमदादिकमपि साधर्म्यमूलत्वमात्रेण उपमामध्ये परिगणयता दण्डिना तत्त्वाख्यानोपमेति एतादृशव्यवहारः कृतः परमिति न तत्राप्यव्याप्तिर्दोष इति दिक् ।
सा चोपमा द्विविधा-पूर्णा, लुप्ता च । उपमानोपमेयसाधारणधर्मेपमावाचकानां चतुर्णामुपादाने पूर्णा । तेषामेकस्य द्वयोस्त्रयाणां वा लोपे सति लुप्ता ।
पूर्णाया क्कचित्साधारणधर्मस्य अनुगामितया निर्देशः । क्कचिद्वस्तुप्रतिवस्तुभावेन । क्कचिद्बिम्बप्रतिबिम्बभावेन । क्कचित् श्लेषेण । क्कचिदुपचारेण । क्कचित्समासान्तराश्रयेण । क्कचिदेषां यथासम्भवं मिश्रणेन । लुप्तायां तु नैवं भेदाः तस्यां साधारणधर्मस्य अनुगामित्वनियमात् । किन्तु प्रकरान्तरेण भेदा वक्ष्यन्ते । तत्र पूर्णायां धर्मस्यानुगामिता यथा-
`वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ।।'
औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध इति वागक्थयोर्नित्यसम्बन्धित्वं प्रसिद्धम् । उमामहेश्वरयोरप्यनयोर्न पृथग्भावः चन्द्रचन्द्रिकयोरित्यतिप्रसिद्धम् । तथा च नित्यसम्बन्धित्वरूपोऽत्र साधारणधर्मेऽनुगामितया निर्दिष्टः । यद्यप्युमामहेश्वरयोर्वागर्थवन्नित्यसम्बन्धित्ववर्णनेन तयोर्निरतिशयपरस्पसप्रेमशालित्वं महामहिमत्वमित्यादि व्यज्यते तथाऽपि न ध्वनिगुणीभूतव्यङ्ग्यव्यवहारः । न खलु व्यङ्ग्यसंस्पर्शप्रतिभासादेवाऽत्र चारुताप्रतीतिः, किन्तु वाच्यवैचित्र्यप्रतिभासादपीति प्रायस्तत्र तत्र सम्भवद्रलादिरूपं व्यङ्ग्यमलङ्कागान्तरञ्च अगणयित्वैव तत्तदलङ्कारा उदाह्रियन्ते ।
एकस्यैव धर्मस्य सम्बन्धिभेदेन द्विरुपादानं वस्तुप्रतिवस्तुभावः । स तु शुद्धो न सम्भवति । किन्तु विशेषणतया विशेष्यतया वा सर्वत्र बिम्बप्रतिबिम्बभावकरम्बितः । वस्तुतोो भिन्नयोर्धर्मयोः परस्परसादृश्यादभिन्नतया अध्यवसितयोः द्विरुपादानं बिम्बप्रतिबिम्बभावः । तत्र वस्तुप्रतिवस्तुभावस्य विशेषणता यथा-
`यान्त्या मुहुर्वलितकन्धरमाननं त-
दावृत्तवृन्तशतपत्रनिभं वहन्त्या ।
दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या
गाढं निखात इव मे हृदये कटाक्षः ।।'
अत्र बिम्बप्रतिबिम्बभावेन निर्दिष्टयोः कन्दरावृन्तयोः वलितावृत्तशब्दाभ्यामेक एव धर्मे विशेषणतया निर्दिष्टः । विशेष्यता यथा-
`सा तेन जगृहे साध्वी हठात्साध्वसकम्पिता ।
वानरेणातिलोलेन वाताधूतेव वल्लरी ।।'
अत्र साध्वसवातयोर्बिम्बप्रतिबिम्बभावापन्नयोः कम्पिताधूतशब्दाभ्याम् एक एव धर्मे विशेष्यतया निर्दिष्टः । शुद्धबिम्बप्रतिबम्बभावो यथा - `पाण्ड्योऽयमंसार्पितलम्बहारः' इतियादि । अत्र हरीचन्द्रनबालातपौ हारनिर्झरौ च बिम्बप्रतिबिम्बभीवेन निर्दिष्टौ ।
श्लेषो यथा -
`नरसिंह महीपाल समस्तोऽपि रिपुस्तव ।
पारावारसमानत्वं दधाति स्वपदच्युतः ।। '
उपचारो यथा -
`उद्भवन्तमुदितार्चिषं ततो भानुमन्तमिव हेमभूभृतः ।
पङ्कजैरिव कुमारमीक्षणैर्विस्मयेन वकचैः पपुर्जनाः ।।'
अत्र विकासः पुष्पधर्मः उपमेयेषु वीक्षणेषु उपचरितः ।
समासभेदाश्रयणं यथा -
`तया विवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या ।
प्रसन्नचेतस्सलिलः शिवोऽभूत् संसृज्यमानः शरदेव लोकः ।।'
अत्र विवृद्धाननचन्द्रकान्तयेति विशेषणं देव्यां शरदि च समासभेदेन प्रवर्तते । मिश्रणेषु अनुगामित्वबिम्बप्रतिबिम्बभावयोर्मिश्रणं यथा -
`भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् ।
अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः ।।'
अत्र अधृष्यत्वमभिगम्यत्वञ्च नृपगुणानां यादोरत्नानाञ्च बिम्बप्रतिबिम्बभावमपेक्ष्य लब्धात्मकं साधारणो धर्मः ।
अनुगामित्व-श्लेषयोर्मिश्रणं यथा-
`गते तव भ्रातरि वत्स,पञ्चतां चिराय नश्चान्द्रमसं कुलं महत् ।
अदृष्टसन्तानतया न शोभते वनं हरेः प्राङ्गथनादिवोदधेः ।।'
अत्र सन्तानशब्दश्लेषमपेक्ष्य लब्धात्मकं शोभारहितत्वं साधारणो धर्मः ।
अनुगामित्वोपचारयोर्मिश्रणं यथा-
`तटिटुज्ज्वलहेतिमुत्तरः कुरुराजध्वजिनीं विलोकयन् ।
प्रिययेव भिया सकम्पया परिरेभे धृतघर्मपाथसा ।।'
अत्र सकम्पत्वानुगामिधर्मपेक्षया लब्धचारिभावं परिरम्भकर्तृत्वं भीत्यामुपचतीतम् ।
अनुगामित्वसमासभेदाश्रयणयोर्मिश्रणं यथा-
`श्येनपक्षपरिधूसरालकाः सान्धमेघरुधिरार्द्रवाससः ।
अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः ।।'
अत्र श्येनपक्षपरिधूसरेत्यादिविशेषणयोः समासभेदाश्रयणेन साधारण्यमपेक्ष्य अनवलोकनक्षमत्वमनुगामिधर्मश्चारुतातिशयं पुष्णाति ।
वस्तुप्रतिवस्तुभाव-बिम्बबप्रतिबिम्बभावयोर्मिश्रणं यथा-
`लिङ्गैर्ममुदस्संवृतविक्रियास्ते ह्रदाः प्रसन्ना इव गूढनक्राः ।
वैदर्भमामन्त्र्य ययुस्तदीयां प्रत्यर्प्य पूजामुपदाच्छलेन ।।'
अत्र बिम्बप्रतिबिम्बभावापन्नयोः क्रोधनक्रयोः संवृतगूढशब्दाभ्याम् एक एव धर्म उक्त इति बिम्बप्रतिबिम्बभावकरम्बितवस्तुप्रतिवस्तुभावः । सन्तोषचिह्नप्रसादयोर्बिम्बभावश्च ।
श्लेष- बिम्बप्रतिबिम्बभावयोर्मिश्रणं यथा-
`पार्थनाशमुदिता नृपात्मजा बाष्पमूहुरभिनीतमन्यवः ।
आतपक्कथितपाथसो बहिः शीतगर्भसलिला इव ह्रदाः ।।'
अत्र बाष्पशब्दे श्लेषस्य नृपात्मजह्रदविशेषणानां बिम्बप्रतिबिम्बभावमवेक्ष्य चारुता ।
उपचार-बिम्बप्रतिबिम्बभावयोर्मिश्रणं यथा-
`सा किलाऽष़श्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ ।
उद्ववामेन्द्रसिक्ता भूर्बिलमग्नाविवोरगौ ।।'
अत्राऽऽश्वासितेन्द्रसिक्तेत्यनयोर्वरोरगणात्र्य बिम्बप्रतिबिभावमपेक्ष्योद्वमन- मुपमानोपमेययोर्द्वयोरप्युपचरितम् । मुख्यार्थस्य द्वयोरप्यसम्भवात् । मुख्यार्थे तस्य ग्राम्यत्वाच्च । चदाहुः-
`निष्ठ्यूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् ।
अतिसुन्दरमस्यत्तु (त्र) ग्राम्यकक्षां विगाहते ।।' इति ।
एवमन्यदपि द्वयोोर्मिश्रणमूझम् ।
अनुगामित्वबिम्बप्रतिबिम्बभावसमासभेदाश्रयणानां मिश्रणं यथा-
`नृपं तमावर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूर्भवित्री ।
महीधरं मार्गवशादुपेतं स्त्रोतोोवहा सागरगामिनीव ।।'
अत्र व्यत्यगादिति अनुगामिधर्मः । अन्यवधूर्भवित्री-सागरगामिनीत्यनयोर्बिम्बप्रतिबिम्बभावः । आवर्तमनोज्ञनाभिः इत्यत्र समासभेदाश्रयणमित्येतेषां मिश्रणम् ।
अनुगामित्वश्लेषोपचाराणां मिश्रणं यथा-
`असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः ।
वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ।।'
अत्रातुरदृष्टिवीक्षित इत्यादावनुगामिता । रामादिशब्दे श्लेषः । चम्बितशब्दस्य वसन्तपक्षे उपचारः -इत्येतेषां मिश्रणम् । एवमन्येऽपि मिश्रणोदाहरणभेदाः स्वयमेव द्रष्यव्याः । बिम्बप्रतिबिम्बभीवोदाहरणेषु कश्चिद्विशेषः । क्कचित्प्रसिद्दसाधर्म्यतया प्रतीयमानसाधर्म्ययोः बिम्बप्रतिबिम्बभावः । यथा- `पाण्ड्योऽयमंसार्पितलम्बहारः' इत्यादौ । क्कचिदप्रसिद्धसाधर्म्यतया येन के नचित्प्र कारेण उपात्तसाधारणधर्मयोः बिम्बप्रतिबिम्बभीवः, यथा - `तया विवृद्धाननचन्द्रकान्त्या' इतियीदौ । अत्र हि शरदर्णयोः स्वतोऽप्रसिद्धसाधर्म्ययोर्विवृद्धाननेत्यादिना समासभेदाश्रयणेन उपात्तसाधारणधर्मयोरेव बिम्बप्रतिबिम्बभीवः । यथाकथञ्चित् साधर्म्यप्रतीतिं विना बिम्बप्रतिबिम्बभावो न सम्भवत्येव ।
ननु,
`यथा त्वं गुणवाँल्लोके तथा ते निर्गुणो रिपुः ।
इतीदमुपमानन्तु विपरीतमिति स्मृतम् ।।'
इत्युक्तरूपाया विपरीतोपमायाः कथं निर्वाहः तत्र हि सगुणत्वनिर्गणत्वयोः नपात्तेन , न वा प्रतीयमानेन धर्मेण साधर्म्यप्रतीतिरस्ति । नैष दोषः तत्रापि आत्यन्तिकस्वाभाविकत्वादिधर्मेण प्रतीयमानेन तयोः साधर्म्यप्रतीतेः । अन्यथा यथाशब्दोदितस्य सादृश्यस्य सर्वथा निरालम्बनत्वप्रसङ्गात् । एवं पूर्णाया दिगुदाहृता ।
लुप्ताष्टविधा - वाचकलुप्ता, धर्मलुप्ता, उपमानलुप्ता, वाचकोपमानलुप्ता, धर्मेपमानलुप्ता, धर्मवाचकलुप्ता, वाचकोपमेयलुप्ता, धमोपमानवाचकलुप्ता चेति । क्रमेणोदाहरणानि-
`कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूष्ठम् ।
अवेहि मां किङ्करमष्टमूर्तेः कुम्भोदरं नाम निकुम्भतुल्यम् ।।'
अत्र कैलासगौरमित्यत्र वाचकलोपः । निकुम्भतुल्यमित्यत्र धर्मलोपः । वाचकलोपः सर्वत्र समासविधारकशास्त्रकृतः । धर्मसोपस्त्वैच्छिकः प्रभावादिना निकुम्भतुल्यमित्यपि वक्तुं शक्यत्वात् ।
`यच्चोराणामस्य च समागमो यच्च तैर्वधोोऽस्य कृतः ।
उपतनमेतदकस्मात् आसीद्बत! काकतालीयम् ।।'
इत्यत्र काकतालशबदौ वृत्तिविषये काकतालसमवेक्रियावर्तिनौ । तेन काकागमनमिव तालपतनमिव काकतालमिति इवार्थे `समासाच्च तद्विषय्त्' इति ज्ञापकात् सुप्सुपेति समासः । उभयत्रोपमेयं क्रमेण देवदत्तागमनं दस्यूपनिपातश्च । तेन देवदत्तदस्युसमागमः काकतालमागमसदृश इति फलति । ततः काकतालमुव काकतालीयमिति द्वितीये इवार्थे `समासाच्च तद्विषयात्' इति छप्रत्ययः । ततश्च पतता तालफलेन यथा काकस्य वधः एवमुपनिपतितैर्दस्युभिरेदेस्युभिर्देत्तस्य वध इत्यर्थः । यथाह भगवान् भाषअयक्रः । - `एव तर्हि द्वाविवार्थौ काकगमनमिव तालपतनमिव काकतालं, काकतालमिव काकतालीयम्' इति । तच्च विवृतं कैयटेन-
`तत्र काकागमनं देवदत्तागमनस्य उपमानम् तालपतनं दस्यूपनिपातस्य । तालेन तु यः काकस्य वधः स देवदत्तस्य वधस्योपमान' मिति । अकस्मादुपनमत्वञ्च समानो धर्मः । तदाह वृत्तिकारः - `तेन काकतालीयं नाम अकस्मादुपनतं चित्रीकरणमुच्यते' इति । ततश्चात्र काकागमनतालपतनसमागमरूपस्य पतत्तालकृतकाकवधरूपस्य चोपमानस्यानुपादानात् छप्रत्यार्थेपमायां उपमानलोपः । समासार्थेपमायां वाचकोपमानलोपः । अत्रैव `किमिकि ब्रूमो वयमिदम्' इति तृतीयपादपाठे प्रत्ययार्थेपमायां धर्मेपमानलोपः । समासार्थेपमायां धर्मेपमानवाचकलोपः । अत्र धर्मलोपमात्रमैच्छिकम् ।
`यं त्वं पालयसे धर्मं धृत्या च नियमेन च ।
स वै राघवशार्दूल, धर्मस्त्वामभिरक्षतु ।।'
अत्र साघवः शार्दूल इवत्यर्थे `उपमितं व्याघ्राद्भिः सामान्याप्रयोगे' इति समासे धर्मवाचकलोपः । अत्र वाचतलोपवद्धर्मलोपोऽपि शास्त्रीयः । सामान्याप्रयोग एव एतत्समासानुशासनात् । धर्मवाचकलुपर्तायां धर्मलोपस्य ऐच्छिकत्वमपि सम्भवति । यथा-
`नृणां यं सेवमानानां संसारोऽप्यपवर्गति ।
तं जगत्यभजन्मर्त्यश्चञ्चा चन्द्रकलाधरम् ।।'
अत्र अपवर्ग इवाचरतीत्यर्थे अपवर्गतीत्यत्र आचारार्थस्य क्किपो लोपात् वाचकवद्धर्मस्यापि लोपः । चञ्चा इत्यत्र चञ्चा तृणपुरुष इवेत्यस्मुन्नर्ते `इति (अधिकारस्थितेन संज्ञायाञ्चत्यनेन) विह्तस्य कनो `लुम्मनुष्ये' इति लुब्विधानात् वाचकलोपो धर्मलोपश्च । अस्य श्लोकस्य-
इति पाठेनोभयत्रापि धर्मस्य श्रवणमपि सम्भवति ।
`रूपयोवनलावण्यस्पृहणीयतराकृतिः ।
पुरतो हरिमाक्षीणामेष पुष्पायुधीयति ।।'
अत्र वाचकोपमेययोर्लेपः । रूपयौवनेत्यादिस्वविशेषणसामर्थ्यात् स्वात्मानं पुष्पायुधमिवाचरतीति अस्यार्थस्य गम्यमानत्वात् स्वात्मन उपमेयस्य लोपः कवेरैच्छिकः न च एष इत्युपमेयस्य उपादानमस्तीति शङ्क्यम् । तस्य कर्मविभक्त्यभावेन पुष्पायुधीयतित्यत्र उपमेयासमर्पकत्वात् । एत्रैव हरीणस्याक्षिणी इव आयते अक्षिणी आसामिच्यस्मिन्नर्थेऽनुशिष्टे हरिणश्रीणामिति पदे धर्मेपमानवाचकानां लोपः शर्वेऽप्ययं `सप्तम्युपमानपूर्वपदस्य' इत्यादिशास्त्रकृत एव लोपः त्रिलोपे धर्मलोपस्तु ऐच्छिकोऽपि सम्भवति । यथा- `यच्चोताणामस्य च' इति श्लोकस्य द्वितीयपाठे समासार्थेपमायाम् । एवं लुप्ताया अष्टौ विधाः प्रदर्शताः ।
काव्यप्रकाशिकाकारादिभिस्तु पूर्णायाः षङ्किधाः, लुप्तायास्तु धर्मलुप्तादिषु अवान्तरभेदेन कैश्चिदेकोनविंशतिः, अन्यैर्विंशतिर्विधाः प्रदर्शिताः । तत्रायं वलिभागः - पूर्णा तावद् द्विविधा श्रौती, आर्थी च । सादृश्यमात्रवाचकयथेवादिशब्दवती श्रौती । सादृश्यविशिष्टधर्मिपर्यन्ततुल्यसदृशासङ्काशादिशब्दवती आर्थी । द्विविधापि वाक्ये समासे तद्धिते चेतेयेवं षङ्विधा पूर्णा । धर्मलुप्तापि पूर्णावदेव विभागवती । किन्तु श्रौती तद्धते न सम्भवतीत्येवं पञ्चविधा । वाचकलुप्ता कर्मकर्तणमुलोः कर्माधिकरणक्यचोः क्यङि णिनौ समासे चेत्येवं सप्तविधा । उपमानलुप्ता वाक्यसमायोर्द्विविधा । धर्मवाचकलुप्ता क्किप्समासयोर्द्विविधा । धर्मेपमानलुप्ता वाक्यसमासयोर्द्विविधा । उपमेवाचकलुप्ता क्यचि एकविधा । धर्मवाचकोपमानलुप्ता समास एवैकविधेति । यद्हुः-
"पूर्णा लुप्ता च सा द्वेधा श्रौत्यार्थे चेति ते पुनः ।
द्विविधे प्रथमा वाक्ये समासे तद्धिते भवेत् ।।
तद्वल्लुप्तापि धर्मस्य लोपे श्रौती न तद्धिते ।
इवादिलोपे द्विविधे णमुलि क्यचि च क्यडिं ।।
तथा णिनौ समासे च सप्तधा परिकीर्तिता ।
उपमानस्य लोपे तु द्विधा वाक्यसमासयोः ।।
इवादिधर्मलोपेऽपि द्विविधा क्किप्समासयोः ।
धर्मेपमानयोर्लेपे वाक्यगा च समासग ।।
इनादेरुपमेस्य द्वयोर्लेपे भवेत्क्यचि ।
इवादिधर्मेपमानलोपे त्वेषा समासग" इति ।
अत्रोदाहरणानि तन्मतरीत्या सङ्गृझास्माभिर्लिख्यन्ते-
"यस्याज्ञा शिरसोझते सुमनसां बृन्दैर्यथा मालिका
बद्ध्वा मुञ्चति यः पशूनिव जनान्यस्याभ्रवद्वैभवम् ।
हृद्यं शेवधिना समं हृदि भजन्त्यानन्दसारोपमं
यं धन्याः शशिवत्प्रसन्नवपुषे तस्मै नमश्शम्भवे ।।"
अत्र षङ्विधाऽपि पूर्णा दर्शता । तत्र प्रथमवाक्ये वाक्यगा श्रोोती । द्वितीये वाक्ये वाक्ये समागगा श्रोती । `इवेन समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वञ्च' इति वार्तिककृद्वचनेन पशूनिवेत्यस्य समासपदत्वाता् तृतीयवाक्ये तद्धितग श्रौती । अभ्रवत् इति षष्ठीसमर्थाद्वतेः `तत्र तस्येव' इचि सूत्रेण इवार्थे विहितत्वात् । `हृद्यं शेवधिनासमं हृदि भजन्ति' इत्यत्र वाक्यगा आर्थी । आनन्दसारोपमंंं समासग आर्थी । हृद्यमितिविशेषणमत्रापि अपेक्ष्यते । अन्यथा धर्मलुप्तैव स्यातु; न पूर्णा । शशिवदित्यत्र तद्धितगा आर्थी । तत्रत्यवतेः `तेन तुस्यं क्रिया चेद्वतिः' इति तुल्यार्थी विहितत्वात् ।
"मूर्तिर्यथा नवसुधा बलभिन्मणीव
कण्ठप्रभा सुसदृशश्च जटास्तटिद्भिः ।
शङ्खाक्षि काञ्चननिभं पदमब्जदेश्यं
यस्यैष मेऽस्तु हृदि दैवतसार्वभौमः ।"
अत्र पञ्चविधाऽपि धर्मलुप्ता दर्शिता । तत्र मूर्तिथा नवसुधेति वाक्यगा । भसभिन्मणीव कण्ठप्रभेति समासगा श्रौती । उभयत्रापि भातीत्याक्रियाप्रयोगे सैव साधारणो धर्म इति धर्मसुप्ता न भवेत्, अतस्तदप्रयोगः । श्रौती तु धर्मसुप्ता तद्धिते न सम्भवति षष्ठीसमर्थात्सप्तमीसमर्थाद्वा इवार्थे विहितस्य वतेः धर्मेपादान विवाऽन्वयसौकर्यभावात् । न च नाच्यं `इवे प्रतिकृतौ' इत्यधिकारे इवार्थे विहितस्य तद्धितसस्य धर्मेपादानं विना नैराकाङअक्ष्यमस्ति, `कुशाग्रीया बुद्धिः', `शैलेयं दधि', `पौण्जरीकं मुखम्' इति दर्शनात् । अतस्तत्र श्रौती धर्मलुप्ता तद्धिते उदार्तुं शक्यते इति, `इवे प्रतिकृतौ' इत्यधिकारे विहितप्रत्ययानां तुल्यार्थे एव विधानात् । अन्यथा ते षां सादृश्यविशिष्टधर्मिपर्यन्तत्वाभावेन `कशाग्रीया बुद्धि' रित्याद्युपमेयसामानाधिकरण्यदर्शनादिति सूत्रे इवग्रहणं न विरिध्यते । सुसदृशशमचेत्यादिवाक्यत्रये क्रमेण आर्थी वाक्यगा समासगा तद्धितगा च । अब्जदेश्यम्त्यत्र ईषदसमाप्तौ विहितोऽपि देश्यप्रत्ययः सादश्ये प्रयुजायते; सोऽपि सामानाधिकरण्यात् सदृशपर्यवसायी । ननु सदृशादिशब्दप्रयोगे सादृश्यविशिष्टधर्मिपर्यन्तत्वात् आर्थीति युक्तम् । सादृश्यादिशब्दप्रयोगे कथम्, किं श्रौती, उत आर्थी? यथा-
`परस्पराक्षिसादृश्यमदूरोज्झितवर्त्मसु ।
मृगद्वन्देषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ।।'
इत्यादौ आर्थ्यव । तत्र तद्दितप्रकृत्या धर्मिपर्यन्ताभिधानपूर्वकमेन, भावप्रत्ययेन सादृश्यस्याभिधानात् । वस्तुतः श्रौत्येवेति ब्रूमः तत्र दद्धितप्रकृत्या धर्मिपर्यन्ताभिधानेऽपि प्रधानाप्रत्ययाभिहितस्य सादृश्यस्यैव वाक्यार्थान्वयित्वात् ।
"यं पश्यन्दीपदर्शं सपदि मनसिजः कीयनाशं स नष्टः
स्वान्ते योऽन्तःपुरीयत्यतिभजनकृतस्तं कुमारीयति द्राक् ।
मूलस्तम्भायते यस्त्रिभुवनभवने कोकिलालापिनी यं
वामाङ्गे कल्पवल्ली श्रयति कुवलयश्यामला, तं भजामि ।।"
अत्र सप्तविधापि वाचकलुप्ता दर्सिता । तत्र दीपमिव पश्यन्नित्यर्थे दीपदर्शमिति कर्मणमुलि, कीट इव वष्ट इत्यर्थे कीयनाशं नष्ट इति कर्तृणमुलि, स्वान्ते।्न्तःपुरे इवाचरतीत्यर्थे अन्तःपुरीयतीति अधिकरणक्यचि, कुमारं स्कन्दमिवाचरतीति कर्मक्यचि, त्रिभुवनस्योत्पत्तौ मूलस्तम्भ इवाचरतीत्यर्थेे मूलस्तम्भायते इति कर्तृक्यङि, कोकिल इवासपतीत्यर्थे कोकिलालापिनीति णिनौ, कुवलयमिव श्यामलेत्यर्थे कुवलयश्यामलेति समासे च क्रमेण वाचकलुप्ता द्रष्टव्या ।
`पूजनं पुररिपोस्तनोतु मे चित्तमन्यदपहाय चापलम् ।
यत्समं प्रियहितं न दृश्यते येन नापि सदृशं निशम्यते ।।'
अत्र यत्सममिति समासे, येन सदृशमिति वाक्ये च उपमानलुप्ता द्विविधाऽपि दर्शिता ।
"वृथा मम भ्रमत्यहो! मनः स्थिते महेश्वरे
श्रुतोऽस्ति तेन किं समः स्मृतोऽथवाऽस्ति तत्समः ।
षडङ्घ्रयत्वदस्सदा तदङ्घ्रपङ्कजद्वये
चकोरकीयतु स्थिरं तदानने शशिप्रभे ।।"
अत्र सप्तविधापि वाचकलुप्ता दर्शिता । तत्र दीपमिव पश्यन्नित्यर्थे दीपदर्शमिति कर्मणमुलि, कीट इव नष्ट इत्यर्थे कीटनाशं नष्ट इति कर्तृणमुलि, स्वान्तेऽन्तःपुरे इवाचरतीत्यर्थे अन्तः पुरीयतीति अधिकरणक्यचि, कुमारं स्कन्दमिवाचरतीति कर्मक्यचि, त्रिभुवनस्योत्पत्तौ मूलस्तम्भ इवाचरतीत्यर्थे मूलस्तम्भायते इति कर्तृक्यङि, कोकिल इवालपतीत्यर्थे कोकिलालापिनीति णिनौ, कुवलयमिव श्यामलेत्यर्थे कुवलयश्यामलेति समासे च क्रमेण वाचकलुप्ता द्रष्टव्या ।
एवमयं पूर्णालुप्ताविभागो वाक्यसमासप्रत्ययविशेषगोचरतया शब्दशास्त्रव्युत्पत्ति- कौशलप्रदर्शनमात्रप्रयोजनो नातीवासङ्कारशास्त्रे व्युत्पाद्यतामर्हति । न वा लुप्तानामयं सामस्त्येन विभागः ।
तथथा हि - धर्मलुप्ता वाक्यसमासतद्धितेषु दर्शिता द्विर्भावेऽपि दृस्यते- `पटुपटुर्ेवदत्त' िति । अत्र हि `प्रकारे गुणवचनस्य' इति सादृश्ये द्विर्भावविधानात्, पटुसदृश इत्यर्थः । यो हि शास्त्रादिष्वपटुरेव पटुवदभिनयति स उच्यते पटुपटुरिति । न तावदियं वाक्ये धर्मलुप्ता । `कर्मधारयवदुत्तरेषु' इति समासवद्भावविधानेनैकपद्यसिद्धेः । अत एव न समासेऽपि धर्मलुप्तेयम् । वाचकलुप्ता णिनिं विना कैश्चित् षह्किधा दर्शिता । णिनिना सह अपरैस्सप्तविधा, क्किप्तद्धितयोरपि दृश्यते-
`यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति ।
तं शम्भुमभजन्मर्त्यश्चञ्चैव स्वहिताकृतेः ।।'
इति । विवृतमेतदधस्तात् । वाक्यसमासयोरूपमानलुप्ताऽपि दर्शिना, `उपनतमेतदकस्मात् आसीद्बत! काकतालीयम्' इति तद्धितेऽपि दृश्यते । वाचकोपमानलुप्ता स्वरूपत एव नोदाहृता । साऽपि काकतालीयमिति प्रकृतिभूते समासे दृस्यतते । धर्मेपमानलुप्तापि तद्धित काकतालीयामित्यत्र दृश्यते । धर्मवाचकलुप्ता क्किप्-समासयोपरिव तद्धितेऽपि दृश्यते । `तं जगत्यभजन्मर्त्यश्चञ्जा चन्द्रकमलाधरम्' िति हि प्रागुदाहृतम् । तस्माल्लुप्ताविभागे दिङ्मात्रप्रदर्शनमेवेदं प्राचां न तु सामस्त्येन विभागः । ये चान्चे काव्यालोोकादिषु उपमायां प्रकारभेदा र्शितास्ते सर्वे तेष्वेव द्रष्टव्याः । दर्शिताश्चेहापि लेशतो सक्षणविचारप्रस्तावे । रूपकप्रकरणे चास्याः प्रकारभेदान् कांश्चित्प्रदर्शयिषअयामः ।
पुनश्चेयमुपमा संक्षेपतस्त्रिधा । क्कचित् स्ववैचित्र्यमात्रविश्रान्ता यथा - `स च्छिन्नमूलः क्षतजेन रेणुः' इत्यादौ । क्कचिदुक्तार्थेपपादनपरा यथा- `अनन्तरत्नप्रभवस्य' इतियादौ । यता वा-
`विस्त्रब्धघातदोष स्ववधाय खलस्य वीरकोपकरः ।
वनतरुभङ्गध्वनिरिव हरिनिद्रातस्करः करिणः ।।'
क्कचिद्व्यङ्ग्यप्रधाना सा व्यङ्ग्यस्य वस्त्वलङ्काररसरूपतया त्रैविधा । तत्र वस्तुध्वनिर्यथा-
"दर्पान्धगन्धगजकुम्भकपाटकूट-
सङ्क्रान्तिनिध्नघनशोणिचशोणरोचिः ।
वीरैर्व्यलोकि युधि कोपकषायकान्तिः
कालीकटाक्ष इव यस्य करे कृपाणः ।।"
अत्र कृपाणस्य कुपितकालीकटाक्षसादृश्यवर्णनेन सकलरिपुबलक्षयः क्षणादेव करिष्यत इति वस्तु व्यज्यते ।
अलङ्कारध्वनिर्यथा -
`यशासि तव विकसिते नृप, हिमकरकिरणच्छटाधवले ।
भ्रमर इव पुण्डरीके विराजते विष्णुपदमेतत् ।।'
अत्रोपमालङ्कारेण यशसः पुण्डरीकद्वैपुल्यस्य, गगनस्य च भ्रमरवदल्पत्वस्य प्रतीतेराश्रयाश्रयिणोरनानुरूप्यलक्षणोऽधिकालङ्कारो व्यज्यते । रसध्वनिः वागर्थाविव इत्यत्रोदाहृतः ।
क्कचिदेकत्रैव त्रिविधोऽपि ध्वनिर्दृश्यते यथा -
`पश्यात्र नलिनीपत्रे बलाका परिदृश्यते ।
हरिन्मणिमये पात्रे शुक्तिकेव प्रतिष्ठिता ।।'
किमावयोः सङ्केस्थानं भविष्यतीति प्रष्टुमनसो जनसमक्षमपृच्छतश्च प्रच्छन्नकामुस्य अभिप्रायमिङ्गितेन विदितवत्या विदग्धायाः सङ्केतस्थानसूचनार्थमिदं वचनम् । अत्र पझपत्त्रस्थितबलाकाया मरकतपात्रप्रतिष्ठितशिकासादृश्यवर्णनेन तस्यस्तद्वन्निश्चलत्वप्रतीतेराश्वस्तवं व्यज्यते । तेन तत्प्रदेशस्य निर्तनत्वं व्यज्यत इति वस्तुध्वनिः । ततश्च तदेव सङ्कतस्थानमावयोरिति प्रकाशनात् संलक्षितसूक्ष्मार्थप्रकाशवनरूपसूक्ष्मालङ्कारध्वनिः । एवं तदभिप्रायानुरूप्रायानुरूपवर्णनात्परस्परमं रतिभावे व्यज्यत इति रसध्वनिश्च ।
ननु रसादिध्वनिरसंलक्ष्यक्रम इति प्रसिद्धिः; कथमत्र तस्यानुरणनेन व्यङ्ग्यतोच्यते ? मैवम् । यत्र विभावानुभावादिवशादासु भाविनि रसाभिव्यक्तिस्तत्राऽसंलक्ष्यक्रमता । अन्यत्र तु रसादिध्वनिरपि संलक्ष्यक्रम एव । तदुक्तमभिनवगुप्तपादाचार्यैः- `यद्यपि रसभावादिरर्थे ध्वन्यमान एव, न वाच्यः कदाचिदपि, तथाऽपि न सर्वेऽसंलक्ष्यक्रमस्य विषयः' इति । अत एव ध्वनिकातोऽपि-
`एवं वादिनि देवर्षो पार्श्चे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती ।।'
इत्यत्र लज्जाख्यं सञ्चारिभावमनुरणनव्यङ्ग्यमुदाजहार ।
अथोपमाव्यङ्ग्यप्रसङ्गादुपमाध्वनयः प्रदर्श्यन्ते । तत्र शब्दशक्तिमूलोपमाध्वनिर्यथा-
`किरत् प्रकरं गवां प्रकामं सुमनस्स्वच्चतरं निधौ कलानाम् ।
कतिचित्कलयन्ति यत्प्रबोधं कतिचिन्नेति स तत्स्वबाव एव ।।'
एकस्माद्गुरोर्विद्यां शिश्क्षमाणानां केचित्प्रगल्भन्ते नान्य इति विशेषो बोधकस्य गुरोस्तेषु तेषु बोधनविशेषकृतो न भवति, किन्तु तत्स्वभावकृत इत्यस्मिन्नर्थे प्रकृतेऽप्रकृतार्थस्य उपमानत्वकल्पनया अत्रैवमुपमा व्यत्यते यथा चन्द्रे किरणानां प्रकरमविशेषेण सर्वपुष्पेषु विकिरति कानिचिद्विकसन्ति, नान्यानीति एष विकिरति तेष बोधाबोधविशेषोऽपि तत्तत्स्वभावकृत एवति । अत्र श्लिष्टानांं गोसुमनःकलानिधिशब्दानां वागादिपर्यापरिवृत्त्यसहिष्णुत्वात् शब्दशत्तिमूलानुरणनरूुध्वनिः ।
अर्थशक्तिमूलो वस्तुनोपमाध्वनिर्यथा -
`वाहि वात, यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश ।
त्वयि मे गात्रयंस्पर्शश्चन्द्रे दृष्टिसमागमः ।।'
अत्रार्तशक्त्या चन्द्रे दृष्टिसमागम इत्यनेन चन्द्रे सीतामुखसादृश्यं व्यज्यते । अलङ्कारेण उपमाध्वनिर्यथा-
"यैर्दृष्टोऽसि तदा ललायपतितप्रसप्रहारो युधि
स्फीतासृक्स्त्रुतिपाटलीकृतपुरोभगः परान्दारयन् ।
तेषां दुस्सहकामदेहदहनप्रोद्भूतनेत्रानल-
ज्वालालीभासुरे पुररिपावस्तं गतं कौतुकम् ।।"
अत्र अन्यत्कार्यं प्रकुर्वतोऽशक्यान्यवस्तुकरणात्मको विशोफालङ्कारः, उक्तरूपं त्वां पश्यतो यथोोक्तविशेषणविशिष्टपुररीपुदरिशनमासीदिति निबन्धनात् । करणस्य क्रयासामानायात्मनो दर्शनेऽपि सध्भावात । यद्यपि अयमर्थे न वाच्यस्तथाऽपि तस्मिन् कौतुकास्तमयवर्णनाद्व्यङ्ग्यः । तेन तदा त्वं तथाभूतः पुरपुरिव स्थितोऽसिति उपमा व्यज्यते । एवमुपमादिगुदाहृता ।
अथोपमादोषाश्चिन्त्यन्ते - न्यूनत्वमधिकत्वं लिङ्गभेदोो वचनभेदोोोऽसादृश्यमसम्भव इत्यस्याः षट् दोषानाहुः । तत्रोपमेयादुपमानस्य अप्रकृष्टत्वं न्यूनत्वम् । उत्कृष्टत्वमाधिक्यम् । द्वयमपि जात्या प्रमाणेन धर्मतो वेता प्रत्येकं त्रिविधम् ।
तत्र जातिप्रमाणगतन्यूनत्वाधिक्ये यथा -
"चण्डालैरिव युष्माभिः साहसं परमे कृतम्" ।
"वह्निस्फुलिङ्ग इव भानुरयं चकास्ति ।"
"अयं पझासनासीनश्चक्रवाको विराजते ।
युगादौ भगवान्वेधा विनिर्मित्सुरिव प्रजाः ।।"
"पातालमिव नाभिस्ते पर्वताविव च स्तनौ ।
वेणीदण्डः पुनरयं कालिन्दिपातसन्निभः ।।"
अत्र चण्डालादिभिरुपमानैः प्रस्तुतोऽर्थेऽत्यन्तमेव कदर्थित इति अनुचितार्थतायामिये न्यूत्वाधिक्ये पर्यस्यतः । धर्मतो न्यूनत्वाधिकपदत्वरूपौ दोषौ यथा -
"स मुनिर्लाञ्छितो मौञ्ज्या क़ष्णाजिनपटं वहन् ।
व्यराजन्नीलजीमूतभाश्लिष्ट अवांशुमान् ।।"
"स पीतावासाः प्रगृहीतशार्ङ्गे मनोज्ञभीमं वपुराप कृषणः ।
शतह्रन्द्रायुधवान्निशायां संसृज्यमानः शसिनेव मेघः ।।"
अत्राद्ये उपमानस्य मौञ्जीप्रतिबिम्बस्तङिल्लक्षणधर्मे न निब ध्द0 इति न्यूनत्वम् । द्वितिये उपमेयस्य शङ्खादेरनिर्देशव शशिनो ग्रहणतिरिच्यत इत्याधिक्यम् ।
लिङ्गवचनभेदो यथा-
"भाग्यभावात्करस्थोऽपि चिन्तारत्नमिव च्युतः ।
सक्तवो भक्षिता देव शुद्धाः कुलवधूरिव ।।"
इमौ प्रक्र णभङ्गान्तर्भूतौ । कथम्? करच्युतत्वादिरत्र साधारणधर्मे भवितुं नाईति । उपमानोपमेययोर्मध्ये यत्र लिङ्गवचनसारूप्यं तत्रैवाऽस्य समन्वयेन उभयान्वयाभावात् । तथा चोपात्तविशेषणविष्टस्यैव उपमानत्वमुपमेयत्वं वा भवेत् । प्रतीयमानेन तु धर्मान्तरेण उपमा निर्वाझा । ततश्चोपमानोपमेययोः कस्यचित्सविशेषणत्वं, अन्यस्य न - इत्येवं विशेषणप्रक्रमभङ्गरूपता ।
केचित्त कालपुरुषसोढर्थादिभेदमपि दोोषमाहुः । यथा -
"तस्यापनोदाय फलप्रवृत्तावुपस्थितायामपि निर्व्यपेक्षः ।
त्यक्ष्यामि वैदेहसुतां पुरस्चास्कमुद्रनेमिं पितुराज्ञयेव ।।"
अत्र समुद्रनेमिमत्यजमिमत्यन्वेति, न तु त्यक्ष्यामिति । पुरुषभेदो यथा-
"शरीकमात्रेण नरेन्द्र तिष्ठन् आभासि तीर्थप्रतिपादितर्द्धिः ।
आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः ।।"
नीवारे आभातीत्यन्वेति, न त्वाभासीति ।
विध्यादिभेदो यथा-
"आशास्यमन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते ।
पुत्रं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ।।"
भवन्तमलभतेत्यन्वेति, न तु लभस्वेत्याशीः ।
असादृश्यासम्भवौ उपमायां अनुचितार्थतायां पर्यवस्यतः । असादृश्यं यथा-
"ग्रथ्नामि क्वायशशिनं विततार्थरश्मिम्"
काव्यस्य शशिना सादृश्यमप्रसिद्धम् । यद्यर्थानां रश्मीनाञ्च सादृश्यं प्रसिद्धं स्यात्, तदा तदीयबिम्बप्रतिबिम्बभावेन काव्यशशिनोः सादृश्यमप्रसिद्धमपि आनीयेत । न च तदप्यस्ति । यथा वा -
"एष विन्ध्याचलस्सान्द्रकुञ्जोच्चलितनिर्झरः ।
भालेक्षणस्फुरद्वह्निशिखाटोप इवेश्वरः ।।"
असम्भवो यथा -
"बाष्पदिग्धेक्षणं वक्त्रं तरुण्याः परुदृश्यते ।
तुषारसिक्तच्छदनं तरङ्गिण्या इवोत्पलम् ।।"
अत्र बाष्पदिग्धेक्षणं तुषाकसिक्तच्छदनमिति अनयोर्बिम्बप्रतिबिन्बभावेन सादृश्यसम्भवेऽपि उत्पलस्य मपखं प्रति उपमानत्वाप्रसिद्धिरेव दोषः ।
अथैषां दोषाणां यथासम्भवमपवादाः प्रदर्श्यन्ते । कविसमयसम्मतेषु जात्या प्रमाणेन च न्यूनत्वाधिक्ये न दोषौ । यथा -
"तवननसमश्चन्द्रः चन्द्रतुल्यं त्वदाननम् ।
द्व्यणुकं मद्यसदृशं मध्यं द्व्यणुकसन्निभम् ।।"
अत्र कविसमयप्रसिद्देर्न किञ्चिदनौचित्यम् ।
उपमेयो पमानगताधिकधर्मेपादानस्य एकै क धर्म काने को पमार्थत्वेन वा साधारण धर्मवत्तासम्पादनार्थत्वेन वा धर्मिस्वरूपविशेषलाभार्थत्वेन वा विधान्तरेण वां प्रस्तुतकार्यान्तरार्थत्वे धर्मतो न्यूनत्वाधिक्ये न दोषौ । यथा-
" क्षीरोदवेलेव सफेवपुञ्जा पर्याप्तचद्रेव शरत्त्रियामा ।
नवं नमक्षौमनिवासिनी सा भूयूयो बभौ दर्पणमादधाना ।।"
इत्यत्रोपमेयगतक्षौमदर्पणरूपाधिकविशेषणोपादानस्य एक्कैविशेषणकानेकोपमानार्थत्वात् ।
"क्षीरोदवेला च सफेनपुञ्जा पर्याप्तचन्द्रा च शरत्त्रियामा ।
अनुव्यधात् क्षौमनिवासिनीं तामच्छप्रभं दर्पणमादधानाम् ।"
इत्यस्यैव श्लोकस्य पाठे उपमानगतानेकधर्मेपादानमैकैधर्मकोपमाद्वयार्थमिति उपमानस्य धर्मत आधिक्यं न दोषः ।
"इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः ।
क्षणमात्रम़षिस्तस्थौ सुप्तमीन इव ह्रदः ।।"
अत्र विज्ञापितविशेषणं ध्यानस्तिमितलोचन इति साधारणधर्मवत्तासम्पादनार्थमिति न्यूनत्वं न दोषः ।
54
"ज्यानिनादमभिगृह्णती तयोः प्रदुरास बहुलक्षपाच्छविः ।
ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ।।"
अत्र निबिडेति विशेषणं कालिकायां बहुलक्षपाच्छविरिति साधारणधर्मवत्तासम्पादनार्थमिति आधिक्यं न दोषः ।
"अतिथिं नाम काकुत्स्थात् पुत्रमाप कुमुद्वती ।
पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना ।। "
अत्र अतिथिं नामेति विशेषणं धर्मिस्वरूपविशेषलाभार्थमिति न्यूनत्वं न दोषः ।
"रसान्तराण्येकरसं यथा दिव्यं पयोऽश्रुते ।
देशे देशे गुणोष्वेवमवस्थास्त्वमविक्रियः ।। "
अत्र द्व्यमिति विशेषणं धर्मिविशेषलभार्थमिति आधिक्यं न दोषः । एवं प्रकृतकथासङ्घटनचमत्कारादिकार्यान्तरार्थत्वेऽपि द्रष्टव्यम् ।
एवञच प्रस्तुतकार्यान्तरोपयोगरहितनां बिम्बप्रतिबिम्बभावेन साधारणधर्मतैकप्रयोजनताया सम्भाव्यमानानामुपमेयोपमानविशेषणानां प्रतिविसेषणानिर्देश एव न्यूनत्वमधिकत्वञ्च दोषः ।
कार्यान्तरार्थानामपि अनुगामितया प्रतिविशेषणनिर्देसेन वा साधारणीकरणे त्वधिकोगुणः । यथा- "ज्यानिनादमभिगृह्णती" इति श्लोके ज्यानिनादमभिगृह्णतीति उपमेयविशेषणं ताढका स्वयमेव जिघांसया प्रादुर्भय प्रथममभिद्रुतवती रामेण हतेति स्त्रीवधावोचित्यपरिहारार्थत्वेऽप्युपमानसाधारणम्, कालिकायामपि गर्जितसालिन्यामतिशयोक्त्या तद्विशेषणानुवृत्तेः । तथा - "नृपं तमावर्त" इति श्लोके "अन्यवधूर्भवित्री" इत्यस्य व्यतिक्रमणार्थत्वेऽपि सागरगामिनीति तत्प्रतिविशेषणनिर्देशः कृतः ।
यत्र लिङ्गवचनभेदेऽपि सामान्याभिधायिपदं स्वरूपभेदं नापद्यते तत्र न दोषः, उभयानुगतिक्षमत्वात्; यथा- `भीमकान्तैर्नृपगुणैः'।
"तद्वेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः ।
दधते स्म परां शोभां तदीया विभ्रमा इव ।।"
सामान्य्भिधायिपदस्य स्वरूपभेदापत्तावपि लिङ्गवचनभेदो महाकविप्रयोगेषु दृश्यते ।
" द्वेष्योऽपि सम्मतश्शिष्टस्तस्यार्तस्य यथौषधम् ।
त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ।।"
"प्रवृद्धो हीयते चन्द्रस्समपद्रोऽपि तथाविधः ।
सतु तत्समवृद्धिश्च न चाऽभूत्ताविव क्षयी ।।"
इत्यादौ । कालादिभेदे तु भूयांस्युदाहरणानि । "एतादृशीषु लोकसीद्धत्वाल्लिङ्गदिभेदो न दोषः" इति वामनः । एवं गुणदोषव्यवस्थायां सहृदयहृदयमेव प्रमाणम् । उक्तं हि दण्डिना-
"न लिङ्गवचने भिन्ने न हीनाधिकते अपि ।
उपमादूषणायालं यत्रोद्वेगो न धीमताम् ।।
स्त्रीव गच्छति षण्डोऽयं वक्त्येषा स्त्री पुमानिव ।
प्राणा इव प्रियोऽयं मे विद्या धनमिवार्जिता ।।
भवानिव महीपाल, देवराजो विराजते ।
अलमंशुमतः तक्षामारोढुं तेजसा नृपः ।
इत्येवमादि सौभाग्यं न जहात्येव जातुचित् ।।
अस्ति च क्कचिदुद्वेगः प्रयोगे वाग्विदां यथा ।
हंसीव धवलश्चन्द्रः सरासीवामलं नभः ।।
भर्तृभक्तो भटः श्ववे खद्योतो भाति भानुवत् ।।
ईदृशं वर्ज्यते सद्भिः कारणं तत्र चिन्त्यताम् ।।" इति ।
कविसमयप्रसिद्धौ सत्यामसादृश्यं न दोषः । यथा- `चन्द्रधवला कीर्तिः' इत्यादौ । उपमेयगतासम्भावितत्वविवक्षायामुपमानस्यासम्भवो न दोषाय; यता - चन्द्रबिम्बादिव विषम्' इत्यादौ । श्लिष्टसाधारणधर्मायामन्यत्रापि सहृदयहृदयाह्लादिन्यां कल्पितोपनायामुपमायामप्रसिद्धित्वं न दोषः; यथा-
"कविमतिरिव बहुलोहा सुघटितचक्रा प्रभातवेलेव ।
हरमूर्तिरिव हसन्ती भाति विधूमानलोपेता ।।"
"सद्योमुण्डितमत्तहूणचिबुकप्रस्पर्धि नारङ्गकम् ।"
इत्यादौ । एवमन्येऽपे दोषापवादप्रकारा विद्वद्भिश्चन्तनीयाः ।
इति चित्रमीमांसायामुपमाप्रकरणम् ।
अथोपमेयोपमा निरूप्यते
उपमानोपमेयत्वं द्वयोः पर्यायतो यदि ।
उपमेयोपमा सा स्याद् द्विविधैषा प्रकीर्तिता ।।
यदि द्वयोर्यद्वर्ण्यते सोपमेयोपमेत्युच्यते तदा तुल्ययोगितायामतिव्याप्तिः । तत्र -
"जनस्य तस्मिन् समये विगढे बभूवतुर्द्वौ सविशेषकान्तौ ।
तापापनोदक्षमपादसेवौ स चोदयस्थो नृपतिः शशी च ।।"
इति द्वयोर्नृपशशिनोर्युगपदेकधर्मान्वयवर्णनात् । अतः पर्यायेणेत्युक्तम् । तथाऽपि-
"तस्य द्विपानां मदवारिसेक्त् खुराभिघाताच्च तुरङ्गमाणाम् ।
रेणुः प्रपेदे पथि पङ्कभावं पङ्कोऽपि रेणुत्वमियाय नेतुः ।।"
इत्यत्रातिव्याप्तिः । तत्र रेणुपङ्कयोः पर्यायेण पङ्करेणभाववर्णनात् । अत उपमानोपमेयत्वमित्युक्तम् । द्वत्यर्यदुपमानोपमेयत्वं वर्ण्यते सोपमेयोपमेत्युक्तेऽपि 'व्यष्टं प्रयाणं चज वियोगवेदनाविदूननारीकमभूत्समं तद्' इतियुभयविश्रान्तसादृश्यायाम् उपमायाम् अतिव्याप्तिः । न च तत्र उभयोरपि सादृश्याश्रयत्वरूपस्योपमेयत्वस्यैव प्रतिपादनमस्ति न सादृश्यपर्तियोगित्वरूपस्योपमानत्वस्य, अतो नातिव्याप्तिरिति वाच्यमिति लक्षणे विवक्षितं व्यङ्ग्योपमेयोपमासङ्ग्रहाभावप्रसङ्गात् । अतः पर्यायेणेत्युक्तम् । एवमपि `भणितिरिव मतिर्मतिरिव मतिर्मतिरिव चेष्टा' इतियादिरशनोपमायां मतिचेष्टयोः पर्यायभेदेनोपमानत्वस्य उपमेयत्वस्य च सत्त्त्वेन अतिव्याप्तिपरिहाराय एकस्मिन् पर्याये यं प्रत्युपमानत्वं तं प्रत्येव पर्यान्तरे उपमेयत्वं विवक्षणीयम् ।।
द्विविधैषेत्युक्तम् । द्वैविध्यं धर्मस्य साधारण्यवस्तुभावाभ्याम्-
"सुगन्धि नयनानन्दि मदिरामदपाटलम् ।
अम्भोजमिव ते वक्त्रं त्वद्वक्त्रमिव पङ्कजम् ।।"
"सच्छायाम्भोजवदनाः सच्छायवदवाम्बुजाः ।
वाप्योऽङ्गना इवाऽऽभान्ति यत्र वाप्य इवाङ्गनाः ।।"
इति क्रमेणोदाहरणे ।
अत्रेदं विचार्यते । लक्षणस्य "तद्वल्गुना युगपदुन्मिषितेन तावत्" इति प्रागुदाहृतायां युगपदुपमेयोपमायामव्याप्तिः । न च, इयमुपमेयोपमा न भवति, कन्तु उभयविश्रान्तोपमामात्रमिति शाङ्कनीयम् । परस्परतुलामित्यनेन द्वयोरपि प्रतियोगित्वस्याऽपि प्रतिपाद्यमानतया उपमेयेन उपमेति अवयवार्थस्याविशिष्टत्वात् । अर्थादपि सिध्यतः परस्परप्रतियोगित्वस्य मुखतः प्रतिपादनेन तृतीयसदृशव्यवच्छेदरुपफललाभाच्च । किञ्ज `रजोभिः स्यन्दनोद्धूतैः' इति प्रागुदाहृतायां परस्परोपमायामतिव्याप्तिः । न च तत्रप्युपमेयोपमा; तृतीयसदृशव्यवच्छेदाप्रतीतेः । `द्विविधैषा प्रकीर्तिता' इति विभागासामञ्जस्यप्रसङ्गाच्च । न झत्र धर्मस्य साधारण्यं वस्तुप्रतिवस्तुभावो वाऽस्ति । गगनस्य भूतलेन सादृश्ये रजोव्याप्तत्वं साधारणधर्मः । भूतलस्य गगनेन सादृश्ये गजानां मेघानाञ्च बिम्बप्रतिबिम्बभाव इति अत्यन्तविलक्षणत्वात् । अत एवात्र तृतीयसब्रझचारीव्यवच्छेदरूपं फलति । कस्यचेत् केनचित् सादृश्ये विर्णिते तस्याप्यन्येन सादृश्यर्थसिद्धमपि वर्ण्यमानं तृतीयसदृशव्यवच्छेदार्थं भवतीति हि तत्फलकत्वे बीजम् । न च एतत् धर्मसाधारण्य इव धर्मभेदेऽपि लभ्यते । रजोभिर्गगनस्य भूतलसादृश्यवर्णनेन भूतलस्य मेघाकारैर्गजैर्गगनसादृश्यस्य अर्थतः सिद्ध्यभावात् ।
अपि च -
"पिता समाराधनतत्परेण पुत्रेण पुत्री यथैव तेन ।
पुत्रस्तथैवाधिकवत्सलेन स तेन पित्रा पितृमान् बभूव ।।"
इति व्यत्यस्तधर्मिबिम्बप्रतिबिम्बकोपमातिव्याप्तिः । अत्र हि पुत्रः पिता चेति उभावुपमानोपमेयभूतौ धर्मिणौ । तयोस्तावेव पितृमत्त्वं पुत्त्रत्वमिति साधारणधर्मकोटिप्रविषटतयोपात्तौ । तयोश्च बिम्बप्रतिबिम्बभावरूपसाधारण्यापादको धर्मे मतुबिनिप्रत्ययोपात्तं प्रशस्त्यम् । प्रशंसायां झत्र तौ प्रत्ययौ । पुत्त्री पितृमानित् सम्बन्धमात्रस्यावक्तव्यत्वात् । एवञ्च पुत्रस्य पितुश्च प्रशस्तपितृमत्त्वं, प्रशस्तपुत्त्रवत्त्वञ्च बिम्बप्रतिबिम्बकरम्बितेन वस्तुप्रतिवस्तुभावेन सादारणधर्म इति लभ्यते । तयोश्च पितापुत्रयोः प्राशस्तपुत्त्रवत्वञ्च बिम्बप्रतिबिम्बकरम्बितेन समाराधनतत्परेणेति च विशेषणे । ततश्च धर्म्युपमायां यः पिता पुत्रस्योपमानं स एव तस्य तदुपपादके बिम्बप्रतिबिम्बनिर्देशे उपमेय इति लक्षणस्य वर्तनं तावत्स्पष्टम् । न चेयमुपमेयोपमा । पुत्रपित्रोर्धर्मिणोरुपमायां प्रशस्तपितृमत्त्वं प्रशस्तपुत्रवत्त्वञ्च वस्तुप्रतिवस्तुभावेन ब्म्बप्रतिबिम्बभावकरम्बितेन साधारणो धर्मः । पितापुत्त्रयोस्तु धर्मकोटिनिविष्टयोर्वात्सल्यभक्त्यतिशयकृतं प्राशस्त्यं अनुगकसाधारणधर्म इति पूर्वेदाहरणसारूप्यात् । समुच्चयोपमया पुत्त्रोऽपि पितृभक्त्या प्रशस्तः, पितापि पुत्त्रवात्सल्येन प्रशस्त इत्यर्थलाभेऽपि तृतियसब्रझचारिव्यवच्छेदालाभाच्च । न चात्र इवशब्दद्वयादियुक्तपर्ययद्वयाभावात् पर्यायविशेषणे नैवातिव्याप्तिनिरासः स्यादिति वाच्यम् । वाच्यकक्षयां पुत्रपित्रोरुपमा, व्यङ्ग्यकक्षायां पितापित्त्रयोरिति पर्यायद्वयसत्त्वात् । नहि पर्यायद्वयस्यापि वाच्यत्वमत्र विवक्षितम्, येनेवशब्दद्वययुक्तपर्यायद्वयाभावात् अतिव्याप्तिर्निरस्येत । तथा सति हि व्यङ्ग्योपमेयोपमासाधारण्यं न स्यादित्युक्तम् । न चात्र धर्मिणोरेवोपमा, धर्मयेस्तु उपमानोपमेयसाधारण्यार्थमभेद एव प्रतीयते, नोपमेयते वाच्यम् ।
'नलिन्या इव तन्वङ्ग्यास्तस्याः पझमिवाऽऽननम् ।
मया मधुकरेणेव पायंपायमकृप्यत ।।"
इत्यादौ बिम्बप्रतिबिम्बभावापन्नयोस्तन्वीनलिन्यादिकयोरुपमाया अपि दर्शनेन धर्मयोः सादृश्येन साधारणीकस्यापि उपमाप्रयोजकत्वात् । तस्मात्तत्र अतिव्याप्तिशङ्का दुर्वारा । अतोऽनुपपन्नमेवेदं लक्षंणं लक्ष्यते । अत्र ब्रमः -
अन्योन्येनोपमा बोध्या व्यक्त्या वृत्त्यन्तरेण वा ।
एकधर्मश्रया या स्यात् सोपमेयोपमा मता ।।
अन्योन्येनेति विशेषणात् न रशनोपमायाम् अतिव्याप्तिः । व्यक्त्या वृत्त्यन्तरेण वा इति विशेषणाच्च न उभयविश्रान्तसादृश्योपमायाम् अतिव्यातिः । परस्परप्रतिक्षेपकविकल्पार्थन वाक्रेण हि या परस्परप्रतियोगिकत्वविशिष्टोपमा तद्विषयवृत्त्यन्तरनिरपेक्षव्यक्तिबोध्या तद्विषय- व्याक्तिनिरपेक्षवृत्त्यन्तरबोध्या वा भवति सोपमेयोपमेति । ततश्चोभय-विश्रान्तसादृश्योपमायाम् अन्योन्यप्रतियोगिकत्वांशेव्यक्तिः, सादृळ्यरूपोपमांशे वृत्त्यन्तरमिति तयोः करम्बितत्वान्नातिव्याप्तिशङ्का । सामान्यलक्षणसिद्ध्यर्तं च व्यक्तिवृत्त्यन्तरयोन्यप्रतिक्षेपकत्वेन क्रोडीकृतयोर्ग्रहणम् । एवं ही `तया गृहीतं नु मृगाङ्गनाभ्यः' इत्यत्र वृत्त्यन्तरानपेक्षव्यक्तिबोध्यायां अनलङ्कारभूतायां व्यक्तिनिरपेक्षवृत्त्यन्तरबोध्यायामलङ्कारभूतायां चोपमेयोपमायां लक्षणमनगतं भवति । यद्यपि व्यङ्ग्यायामुमेयोपमायां शब्दस्य सहकारित्वेन तद्रतशक्तेरप्यपेक्षितत्वात् `खमिव जलं जलमिव खम्' इत्यादौ वात्यायामपि गम्यसाधारणधर्मायां तस्या धर्मंशे व्यक्तेरपेक्षितत्वात् परस्परनैरपेक्ष्यमसम्भवि, तथाप्यन्योन्यप्रतियोगिकत्वविशिष्टसादृश्यविषयवृत्त्यन्तरनिपेक्षकत्वं व्यक्तेः, ताद्विषयव्यक्तिनिरपेक्षत्वं वृत्त्यन्तरस्य च अस्त्येव । इदमेव च व्यक्तिपतानपेक्षया अलङ्कारारूपाया विशेषलक्षणम्पि । तत्र व्यक्तिपदपरुत्यागे वृत्त्यन्तरमात्रबोध्येति एतद्विशेषणं पर्यवस्यति । ततश्चोभयविश्रान्तसादृश्योपमाव्यावृत्तिः । न च तस्यामेकस्यैवोपमानत्वं न तु द्वयोरिति अन्योन्यपदेनैव व्यावृत्ताविदं व्यर्तमिति वाच्याम् । प्राकरणिताप्राकरणिकयोस्सादृश्यवर्णनेऽप्राकरणिस्यैव उपमानत्वलाभेऽपि उभयोरपि प्राकरणिकत्वे विनिगमनाविरहेण परस्परोपमानत्वप्रतीतेः । एकधर्मश्रयत्वविशेषणात् `रजोभिस्स्यन्दनोद्धूतैः' इति परस्परोपमायां नातिव्याप्तिः । उक्तविशेषणबलादेव `पिता समाराधनतत्परेण' इत्युमायामपि नातिव्याप्तिः । उभयत्रापि उपमयोर्भिन्नधर्माश्रयत्वात् । एकधर्माश्रयेत्यसेय चायमर्थः । कस्यचिदन्येनोपमायां यो धर्मर्साधारणो वर्तुप्रदिवस्तुधावापन्नो वा स एवान्यस्य तेनोपमायामपीति । न त्वनुगामिधर्माश्रयेत्यर्थः बिम्बप्रतिबिम्बभावगक्भवस्तुप्रवस्तुभावनिर्देशे तदभावादिति दिक् ।
इदन्तूपमेयोपमात्वप्रयोजकं लक्षणम् । अनुगतानतिप्रसक्तलक्षणन्तु-
सदृशल्य तृतीयस्य व्यवच्छदोय यद् द्वयोः ।
अन्योन्येनोपमेयत्वं सोपमेयोपमा मता ।।
इति द्रष्टव्यम् । अत्रान्योन्येनेति विशेषणं `अहमेव गुरुः सुदारुणानाम्' इति प्रतीपविशेषव्यावृत्त्यर्तम् ।
अथोदाहरणानि । तत्र धर्मस्य (अनुगामितया) साधारण्ये यथा-
"खमिव जलं जलमिव खं हंसश्चन्द्र इव चन्द्रः ।
कुमुदाकारास्तारास्ताराकाराणि कुमुदानि ।।"
इयं प्रतीयमानसाधारणधर्मा । वाच्यसाधारणधर्म यथा - `सुगन्धि नयनानन्दि' इत्यादि ।
यथा वा -
"गिरिरिव गजराजोऽयं गजराज इवेच्चकैर्विभाति गिरिः ।
निर्झर इव मदधारा मदधारेवास्य निर्झरः स्त्रवति ।।"
अत्र उपमेयोपमाद्वयस्य परस्परानुगृहीतत्वेन विच्छित्तिविशेषोऽधिकः । वस्तुप्रतिवस्तुभावो यता - `सच्छायाम्भोजवदना' इत्यादि ।
इदं वस्तुप्रतिवस्तुभावस्य बिम्बप्रतिबिम्बविशेषणत्वं उदाहरणं तु - `तद्वल्गुना युगपदुन्मिषितेन' इत्यादि ।
तत्रापि यथासम्भवं पूर्वेक्ता भेदा उन्नेयाः ।
इत्युपमेयोपमाप्रकरणम् ।
******
अथानन्वयः
एकस्यैवोपमानोपमेयत्वेऽनन्वयो मतः ।
एवकारबलादेकस्यामेव उपमितिक्रियायामिति गम्यते । तेनोपमेयोपमायां रशनोपमायाञ्च नातिव्याप्तिः । उदाहरणम्-`गगनं गगनाकारं सागरः सागरोपमः' । अयं प्रतीयमानधर्मः ।
निर्दिष्टधर्मे यथा -
"न केवलं भाति नितान्तकान्तिर्नितम्बिनी सैव नितम्बिनीव ।
यावद्विलासायुधलास्यवासास्ते तद्विलासा इव तद्विलासाः ।।"
ननु-
"पितुर्नियोगाद्वनवासमेवं निस्तीर्य रामः प्रतिपन्नराज्यः ।
धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिम् ।।"
इत्यत्रैकस्यैव रघुपमानत्वमुपमेयत्वञ्च न च तत्रानन्वयः । समुच्चयेपमया तस्य धर्मार्थकामेषु अनुजेषु च समवृत्तिमात्रस्यैव प्रतिपाद्यतया सदृशान्तरव्यवच्छेदे तात्पर्याभावात् । तथा- `त्यक्ष्यामि वैदेहसुतां पुरस्तात्सद्रनेमिं पितुराज्ञयेव' इत्यत्राप्यस्ति स्वस्यैवोपमानत्वमुपमेयत्वञ्च । तत्राऽपि नानन्वयः । "पितृनियोगात्क्षितित्यगे इव अपवादात्सीतात्यागे च न प्रतिषेद्दव्योऽह" मित्येतावतैव तात्पर्येण सदृशान्तरव्यवच्छेदे तात्पर्याभावात् । एवम्-
"उपाददे तस्य सहस्त्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् ।
स तद्दुकूलादविदूरमौलिर्बभौ पतद्रङ्ग इवोत्तमाङ्गे ।।"
इत्यादावप्येकस्यैव उपमानोपमेयभावः स्पष्टः । न च, एतेषु क्कचित् धर्मादिषु वृत्तेऽवरजेषु वृत्तेश्च उपमानोपमेयभावः । अन्यत्र क्षितित्यागस्य सीतात्यागस्य च, अपरत्र गङ्गापतनस्य दुकूलसंनिधानस्य च। न तु क्कचिदप्येपस्यैव धर्मिण उपमानोपमेयभावः । विशिष्टान्वयिनोऽपि विशेषणसङ्कमौचित्यात् इति वात्यम् । यथा धर्मर्थकामेषु समवृत्तिं प्रपेदे तथा अवरजेषु इत्यादिप्रकारेण एकस्यैव उपमानोपमेयभावे निबद्धेऽपि तस्य विशेषणसङ्कान्तिकल्पने `पाण्ड्योऽयमंसार्पित- लम्बहारः' इत्यादीनाम् अपि हारनिर्झरादीनाम् इव उपमानोपमेयभावः स्यादिति बिम्बप्रतिब्म्बदाहरणमात्रविलोपप्रसङ्गात् । `रामरावणयोर्युद्दम्' इत्यादौ अभेदेऽपि उपमानोपमेयभावमभ्युपगच्छतामालङ्कारिकाणां विशेष्यबाधस्य' अपरिहरणीयत्वाच्च । तस्मादत्र `सविशेषणे हि' इति न्यायोपन्यासो वाक्यमीमांसकानां शोभते नालङ्कारिकमीमांसकानाम् । वाक्यमीमांसका हि अभेदे उपमानोपमेयभावनिर्देश एव नास्तीति मन्यमाना `रामरावणयोर्युद्धम्' इत्यादावद्यतनस्य पूर्वेद्युस्तनं युद्धमुपमानम् । एतत्कल्पगगनस्य कल्पान्तरगगनमुपमानमित्यादि कल्पयन्ति । तस्मादालङ्कारिकमते एतेष्वेकस्यैव उपमानोपमेयभाव इति लक्षणमतिव्याप्तमिति चेत् -
अत्र ब्रूमः -
स्वस्य स्वेनोपमा या स्यादनुगाम्येकधर्मिका ।
अन्वर्थनामधेयोऽयमनन्वय इतीरितः ।।
स्वस्य स्वेनेति विशेषणादुपमेयोपमायां रशनोपमायाञ्च नातिव्याप्तिः । अनुगाम्येकधर्मिकेति विशेषणादुदाहृतोपमाविशेषेषु नातिव्याप्तिः । यद्यपि समां वृत्तिं प्रपेदे इत्याद्यंशे अनुगामिधर्मप्रवेशः । तथाप्येको न भवति । धर्मत्थकामावरजादिबिम्बप्रभावकरम्बितत्वात् । अत एव एकग्रहणमप्यर्थवत् । अन्वर्तनामधेय इति तु न लक्षणान्तर्गतम् । किन्तु स्वेन स्वस्योपमापि अनुगाम्येकधर्मा चेदेव अनन्वयो नान्यथेत्यत्र उपपत्तिमात्रपरम् । धर्मैक्ये हि स्वस्य स्वेनोपमा नान्वेतीति अनन्वय इत्यन्वर्थं नाम भवति । अन्वय्यर्थनिबन्धनवशाच्च अनुपमत्वद्योतनफलपर्यन्तं धावेत् । धर्मभेदे तु एकधर्मावच्छिन्नेन स्वे नै व धर्मान्तरावच्छिन्नस्य स्वस्योपमान्वेतीति न तत्रान्वर्तं नाम, न वा अनन्वय्यर्थ- निबन्धनाधीनानिपमत्वफललाभः । इदम् अनन्वयत्वप्रयोजकं लक्षणम् । लक्षणमात्रं तु - `यत्र तेनैव तेनैव तस्य स्यात्' इति भामहक्तमनुसन्धेयम् । `उबौ यदि व्योम्नि पृथक्प्रवाहौ' इत्यतिशयोक्तिविशेषे, अनुपमत्वद्योतनफलकसाम्यकस्पनात् तत्र अतिव्याप्तिनिसालाय तेनैव तस्येति विशेषणम् ।
अयमनन्वयो व्यङ्ग्योऽप्यस्ति । यथा-
"अद्य या मम गोविन्द जाता त्वयि गृहागते ।
कालेनैषा भवत्प्रीतिस्तवैवागमनात्पुनः ।।"
अत्र गृहागतं श्रीकृष्णं प्रति विदुरवाक्ये इयं त्वदागमनप्रभवा प्रीतिर्बहुकालव्यवहितेन पुनरपि त्वदागमनेनैव भवेत्, नान्येनेत्युक्तिभङ्ग्या त्वदागमनप्रभवप्रितेः सैव सदृशी न त्वितरप्रभवेति व्यज्यते । एतादृशव्यावृत्त्यर्थमनन्वयालङ्कारलक्षणेऽव्यङ्ग्यत्वशेषणं पूर्ववद्द्रष्टव्यम् ।
इत्यनन्वयप्रकरणम्
*****
अथ स्मरणालङ्कारः
स्मृतिस्सादृश्यमूला या वस्त्वन्तरसमाश्रया ।
स्मरणालङ्कृतिस्सा स्यादव्यङ्ग्यत्वशेषिता ।।
यथा -
"अपि तुरगसमीपादुत्पतन्तं मयूरं
न स रुचिरकलापं बाणलक्ष्यीचकार ।
सपदि गतमनस्कश्चत्रमाल्यानुकीर्णे
रतिविगलितबन्धे केशपाशे प्रियायाः ।।"
यथा वा-
"दिव्यानामपि कृतविस्मयाम पुरस्ता-
दम्भस्तः स्फुरदरविन्दचारुहस्ताम् ।
उद्वीक्ष्य श्रियमिव काञ्चिदुत्तरन्ती-
मस्मार्षीज्जलनिधिमन्थनस्य शोरिः ।।"
एकत्र सदृशदर्शनात्तत्सदृशधर्मिका स्मृतिः । इतरत्र मदृशदर्शनात्तत्सदृशलक्ष्मीसम्बन्झिनो जलनिधिमन्थनस्य स्मृतिः । उभयत्रापि सादृश्यमूलकवस्त्वन्तरस्मृतित्वमविशिष्टम् । अत एव सदृशासदृशसाधासण्यार्थतया लक्षणे वस्त्वन्तरग्रहणमर्तवत् ।
"सौमित्रे, ननु सेव्यतां तरुतलं चणडाशुरुज्जृम्भते
चण्डांशोर्नशि का कथा रघुपते चन्द्रोऽयमुन्मीलति ।
वत्सैतद्विदितं कथं नु भवता धत्ते कुरङ्गं यतः
क्कासि प्रेयसि हा कुरङ्गनयने चन्द्रानने, जानकि ।।"
अत्र श्रुतकुरङ्गसम्बन्धिनस्तन्नयनस्य स्मरणात् तत्सदृससीतानस्मृतिः तत्सम्बन्धिसीतास्मृतिश्चेति । किन्त्वषा व्यङमग्या; अलङ्कार्यभूता च । तद्व्यावृत्त्यर्थमव्यङ्ग्यत्वविशेषणम् ।
"अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्ततामभेधय-
स्तनेतानपि बिभ्रती किमपि न क्लान्ताऽसि तुभ्यं नमः ।
आश्चर्येण मुहुर्मुहः स्तुमिति प्रस्तौमि यावद्भुव-
स्तावद्बिभ्रदिमां स्मृतस्तव भुतो, वाचस्ततो मुद्रिताः ।।"
स्तूयमानभूसम्बन्धिनो भूभृद्भुजस्य स्मृतिर्न सादृश्यमूलेति नात्र स्मरणालङ्कारः । किन्तु स्मृतेः सञ्चारिभावस्य भूभृद्विषयरतिभावाङ्गत्वात् प्रेयोऽलङ्कारः ।
"स तथेति प्रतिज्ञाय विसृज्य कतमप्युमाम् ।
ऋषीञ्ज्योतिर्मयान्सप्त सरमार स्मरशासनः ।।"
अत्र चिन्तामूला स्मृतिः । विच्छित्तिविशेषाभावान्न कश्चिदलङ्कारः । एतदुभयव्यावृत्त्यर्थं सादृश्यमूलेति विशेषणम् । एवमेते भेदाभेदसाधारणसाधर्म्यमूला अलङ्काराः प्रदर्शिताः ।
इति स्मरणालङ्कारप्रकरणम्
******
अथ रूपकम्
अथाभेदप्रधानेषु प्रथमं रूपकं निरूप्यते-
आरोपविषयस्य स्यात् अतिरोहितरूपिणः ।
उपञ्जकमारोप्यमाणं तद्रूपकं मतम् ।।
अत्र आरोपविषयस्य इत्यनेन उत्प्रेक्षातिशयोक्त्योर्व्यावृत्तिः, तत्र मुखादेरोपवषयत्वाभावात् । अतिरोहितरूपिण इत्यनेन ससन्देहभ्रान्तिमदपह्नुतीनां व्यावृत्तिः । तेषु सन्देहभ्रान्त्यपह्नवैर्विषयस्य तिरोधानात् । उपरञ्जकमित्यनेन समासोक्तिपरिणामव्यावृत्तिः, तयेर्हि नोपरञ्जकत्वं विषये स्वताद्रूप्यापादकत्वलक्षणम्, समासोक्तौ व्यवहारमात्रसमारोपेण ताद्रूप्यप्रतीतेरेवाभावात् । परुणामेे आरोप्यमाणस्यैव विषयताद्रूप्यापत्त्या विषयस्यारोप्यमाणताद्रूप्यापत्त्यभावात् इत्याहुः ।
अत्रेदं विचार्यते । आरोपाध्यवसाययोः कीदृशं भेदमभिसन्धाय आरोपविषयस्येत्यनेन उत्प्रेक्षाव्यावृत्तिरुच्चते? यदि विषयविशयिणोरभिहितयोरभेदप्रतिपत्तिरारोपः, विषयनिगरणेन विषयिणः तदभेदप्रतिपत्तिरध्यवसाय इति भेदमभिसन्धाय; तदोत्प्रेक्षा आरोपमूलैव स्यात् । तत्र `नूनं मुखं चन्द्रः' इति विषयस्य मुखस्याप्यभिधानेन तन्निगरणाभावात् । ततश्च तत्रातिव्याप्तिरनिवारितैव स्यात् । अथवा, ताद्रूप्यप्रतिपत्तिरारोपः, तदभेदप्रतिपत्तिरध्यवसाय इति तयोर्भेदः । `मुखं चन्द्रः' इत्यादिरूपके चन्द्रस्य यद्रूपं चन्द्रत्वं तेन रूपवत्तामात्रं मुखस्य प्रतीयते, न तु प्रसिद्धचन्द्राभेदः; मुखविषयायां `चन्द्रः' इत्याद्यतिशयोक्तौ तु तदभेद एव प्रतीयत इति चेत् न । वैपरीत्यस्यापि क्तुं शाक्यत्वात् । न च नाच्यम्-
"इन्दोरपि मृगाक्षीणां मुखेन्दुरतिरिच्यते ।
निर्जरैः पीयमानोऽपि यः कदाचिन्न हीयते ।।"
इति मुखचन्द्रस्य प्रसिद्धचन्द्राद्व्यतिरेकवर्णनं, तदभेदप्रतिपत्तौ रूपके ताद्रूप्यतिपत्तिरेवेति । तथा सति हि-
"सुधाबद्धग्रासैरूपवनचकोरैकनुसृतां
किरञ्ज्योत्स्नामच्छां लवलिफलपाकप्रणयिनीम्
उपप्राताराग्रं प्रहिणु नयने तकृय मनाक्
अनाकाशे कोऽयं गलितहरिणश्शीतकिरणः ।।"
`अपरः पाकशासनः' इत्याद्यतिशयोक्तौ, `अपर इव पाकशासनः' इत्याद्युत्प्रेक्षायां च रूपकवदेव प्रसिद्धचन्द्राद्यभेदप्रत्त्यभावेन ताद्रूप्यप्रतिपत्तिरेव स्यादिति तयोर्लक्षणस्यातिव्याप्तिरनेनानिवारिता स्यात् । अथ तत्र प्रसिद्धचन्द्राद्यभेदप्रतिपत्त्यभावेऽपि उपात्तकल्पितापाकचन्द्राद्यभेदप्रतिपत्तिः सम्भवतीति चेत् रूपकेप्येवं वक्तुं शक्यमित्यसम्भव एव लक्षणस्य स्यात् ।
किञ्च अतिरोहितरूपिण इत्यनेन ससन्देहभ्रान्तिमतोरतिव्याप्तिवारणेऽपि नाऽपह्नवेऽतिव्याप्तिवारणम् । `नेदं मुखं, किन्तु चन्द्रः' इत्यत्र मुखे मुखत्वाबावाकोपस्य चन्द्रत्वारोपस्य च आहार्यत्वेन विषयतिरोधायकत्वाभावात् । आहार्यारोपस्यापि तिरोधायकत्वे रूपकेऽपि लक्षणस्य असम्भवः स्यात् । उत्प्रेक्षाया अप्याहार्यसम्भावनारूपाया अतिरोहितरूपिण इत्यनेनैव व्यावृत्तिस्द्धावारोपविषयस्येति विशेषणस्य वैयर्थ्यञ्च स्यात् । अतिरोह्तरूपिण इत्यनेनैव व्यावृत्तिसिद्धावारोपविषयस्येति विशेषणस्य निगीर्णस्य तिरोहितत्वेन तस्या अप्यनेनैव व्यावृत्तिः । अपि च-
"त्वत्पादनखरत्नानां यदलत्तकमार्जनम् ।
इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ।।"
इति निदर्शनायामतिव्याप्तिः; तत्र उपमेयवाक्यार्थे उपमानवाक्यार्थताद्रूप्यारोपसद्भावात् । यदि चारोपविषयस्य पदार्थस्येति विशेषणम्, तथाप्यलक्तककृतत्वत्पादनखमार्जनं श्रीखण्डलेपकृतविधुपाण्डुरीतरणडुरीकरणमिति निदर्शनायामतिव्याप्तिः ।
"त्वत्पादनखरत्नानां यदलक्तकमार्जनम् ।
इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ।।"
इति निदर्शनायामतिव्याप्तिः; तत्र उपमेयवाक्यार्थे उपमानवाक्यार्थताद्रूप्यारोपसद्भावात् । यदि चारोपविषयस्य पदार्तस्येति विशेषणम्, तथाप्यलक्तककृतत्वत्पादनखम्र्जनं श्रीखण्डलेपकृतविधुपाण्डरीकरणमिति निदर्शनायामतिव्याप्तिः ।
"अढ्घ्रिदण्डो हरेरूर्ध्वमुत्क्षिप्तो बलिनिग्रहे ।
विधिविष्टरपझस्य नालदण्डो मुदेऽस्चु वः ।।"
इति रूपकेऽव्याप्तिश्च । यत्तु सरस्वतीकण्ठाभरणोक्तं लक्षणम्-
"यदोपमानशब्दानां गौणवृत्तिव्यपाश्रयात् ।
उपमेये भवेद्वृत्तिस्तदा तद्रूपकं विदुः ।।" इति ।
तदप्यतिशयोक्तौ अतिव्याप्तम् । `मुकं चन्द्रः' इति रूपके चन्द्रशब्दस्य मुखे गौणसारोपलक्षणा, `चन्द्र' इत्यतिशयोक्तौ साधायवसानलक्षणेति आलङ्कारिकसिद्धान्तात् । वस्तुतस्त्वतिशयोक्तावेव लक्षणा न तु रूपके इति शक्यं व्यवस्थापयितुम् । तथा हि । अतिशयोक्तौ विषयाभिधायि- मुखादिपदाप्रयोगाच्चन्द्रादिपदेनैव तत्प्रत्यायनं कार्यमिति तस्य तत्रं लक्षणावश्यमास्थेया । रूपके विषयविषयिणोः स्वस्ववाचकाभिहितयोरभेदप्रतिपत्तिः संसर्गमर्यादयैव सम्भवतीति किमर्थं तत्र लक्षणा ? अशक्या तत्र लक्षमाभ्युपगन्तुम् । कथम् ? `मखं चन्द्र' इत्यत्र लक्षणया मुखे प्रवर्तमानं चन्द्रपदं केन निमित्तेन प्रवर्तेत । मुखत्वेन वा, मुखासाधारणकान्तिविशेषेण वा, चन्द्रत्वेन वा, चन्द्रासाधारणकान्तिविशेषेण वा, मुखचन्द्रोभयानुगतकान्तिसामान्येन वा, मुखगतचन्द्रसादृश्येन वा ? नाऽऽद्यः, मुखपदेन पौनरुक्त्यापत्तेः; मुखतस्य शक्यासम्बन्धित्वेन तेन निम्त्तेन लक्षणायोगाच्च । अत एव न द्वितीयः न तृतीयचर्थौ । मुखावृत्तिधर्मयोस्तत्र प्रवृत्तिनिमित्तत्वायोगात् । न पञ्चमः, कान्तिमान्मुखचन्द्र इत्यत्र कान्तिमत्पदेन पौनरुक्त्यापत्तेः । नापि षष्ठः, सादृश्यस्य शब्दप्रतिपादायत्वेन अव्यङ्ग्यत्वेन रूपकस्य उपमापृथग्भावानुपपत्तेः, अभेदप्रधानं रूपकमिति सिद्धान्तविरोधाच्च । तस्माद्रूपके स्वस्वपदाभिहितयोर्विषयविषयिणोरभेदप्रतिपत्तिः संसर्गमर्यादया इत्येव वक्तव्यमिति लक्षणस्य असम्भवोऽपि दोषः । यदा तु `वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरुज्जृम्भते', `द्वौ चन्द्रौ जगतो राजन् स दिवि त्वं महीतले' इत्यादौ विषयस्य प्रसिद्धचन्द्राभेदप्रतिपत्तिर्न सम्भवतीति कथञ्चिदिन्द्वादिपदस्य विषये लक्षणा कल्प्येतष तदापि कान्तिमान्मुखचन्द्र इत्यादौ कठाध्यापकादिवत् संसर्गमर्यदयैव अभेदपारतिपत्तिसम्भवेन अतिक्लिष्टलक्षणाश्रयणायोगात्तत्र अतिव्याप्तिर्वज्रलोपायते । अपि च,
"सेतुः शौलैस्त्वया बद्धः पूर्वं जेतुं दशाननम् ।
कं जेतुमद्य बध्नासि यशश्चन्द्रोपलैः प्रभो ।"
"चिराद्यत्कौतुकाविष्टं कल्पवृक्षमुदीक्षितुम् ।
तन्मे सफलमद्यासीन्नेत्रं त्वय्यवलोकिते ।।"
इतियादौ व्यङ्ग्यरूपके चाव्याप्तिः अत्र झादाये वर्ण्यं प्रभु प्रति रावणवधाय त्वया सेतुद्ध इति निर्दिश्यमानेन नस्तुना त्वमेव राम इति रूपकं व्यज्यते । न च तत्र विषये गौणं रामपदमस्ति । द्वितीये त्वामवसोक्यता मम नेत्रेण चिरकाङ्क्षतं कल्पवृक्षावलोकनं लब्धमिति प्रतीयमानेन वियेषालङ्कारेण त्वमेव कल्पवृक्ष इति रूपकंं व्यज्यते । तत्र कल्पवृक्षपदं प्रसिद्धकल्पवृक्षपरमेव न विषयलक्षकमिति स्पष्टम् ।
"ततः कुमुदनाथेन कामिनीगण्डपाण्डुना ।
नेत्रनन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ।।"
इत्यादौ शुद्धसारोपलक्षणास्थलेऽपि वैचित्र्यदर्शनात् । यदि तु "हेतुमता सह हेतोरङिधानमभेदते हेतुः" इति मतान्तराश्रयेण तत्र ङेत्वलङ्कारो न रूपकमित्यभ्युपगम्येत, तदा `आरोपविषयस्य स्यात्' इति पूर्वोदाहृतलक्षमस्य तत्रातिव्याप्तिः । एवम् - `ुपमैव तिरोभूतभेदा रुपकमुच्यते', `तद्रूपकमभेदो य उपमानोपमेययोः' इत्यादिलक्षणेषु अतिव्याप्त्यादिदोषा यथासम्भवमुन्नेयाः । अत्र वदामः-
बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिह्नुते ।
उपरञ्जकतामेति विषयी रूपकं तदा ।।
बिम्बाविशिष्टइति विशेषणात् त्वात्पादनखरत्नानाम् इति निदर्शनाया नातिव्याप्तिः । तत्र हु चन्द्रो यथा स्वतः शुभ्रत्वात् अनासञ्जनीयधावल्यस्तथा नखाः स्वतोऽरुणत्वादनासञ्जनियारुण्या इति सादृश्येन नखानां चन्द्रस्य च बिम्बप्रतिबिम्बभावः, अलक्तकचन्दनयोः अन्यत्र स्ववर्णासञ्जकत्वेन । ततश्च तत्र बिम्बभावापन्ननखालक्तकविशिष्टे एव मार्जने तत्प्रतिबिम्बभूत- चन्द्रचन्द्रनविशिष्टपाण्डुरीकरणमुपरञ्जकम् । एवमन्यत्रापि `अरण्यरुदितं कृतम्' इत्यादिताद्रू- प्यारोपवन्निदर्शनोदाहरणे सर्वत्र बिम्बभावापनाननखालक्तकविशिष्ट एवोपमेये तत्प्रतिबिम्ब- विशिष्टमुपमानमुपरञ्जकमिति न क्काप्यतिव्याप्तिः । रूपके तु न क्कचिदपि बिम्बप्रतिबिम्बभावापन्नधर्मविशिष्टतया विषयविषयिणोरुपादानम् । सावयवरूपकेऽपि विशेष्यरूपणात्पृथगेवावयवेषु रूपणं न त्ववयवविशिष्टरूपेण विशेष्ये । `अङ्गिदण्डो हरेरूर्ध्वम्' इत्यत्रापि अङ्गिदण्डनालदण्डयोर्न बिम्बप्रतिबिम्बविशिष्टताः तयोः प्रतीयमानेन श्यामलत्वविधातृविष्टरकमलश्लिष्टत्वाद्यनुगामिधर्मेणैव उपमानोपमेयभावत् । किन्तु विधातृविष्टरकमलश्लिष्टत्वरूप- सादारणर्मवत्तासम्पादनार्थं विशेषणविशिष्टतामात्रमुपमेस्य ।
निर्दिष्ट इति विशेषणात् न निगीर्णवुषयायामतिशयोक्त्यामतिव्याप्तिः । व्यङ्ग्यरूपकोदाहरणेषु विषयिवाचकाप्रयोगसम्भवेऽपि विषयनिर्देशः सार्वत्रिक इति न तत्राव्याप्तिः नेत्रानन्देन इत्यादौ हेत्वलङ्कार इति मते विषय इत्यनेन उपमेय इत्येतदर्थकेन तद्व्यावृत्तिः । तत्रापि रूपकमितेयेकावलीकारादिमते विषयपदं धर्मिमात्रपरं स्पष्टार्थम् ।
अनिह्नुते निषेधास्पृष्टे इति विशेषणादपङ्नुतौ नातिव्याप्तिः ।
उपरञ्जकतामाहार्यताद्रूप्यनिश्चयस्यैवाभावात् । समासोक्तौ परिणामे च तस्य ताद्रूप्यागोचरत्वात् । समासोक्तौ व्यवहारमात्रसमारोपात् । परिणामे आरोप्यमाणस्यैव विषयताद्रूप्यगोचरत्वात् । भ्रान्तिमति सतः कल्पितस्य वा प्रवृत्त्यादिपर्यन्तस्य स्वरसिकभ्रमस्य निबन्धनेन तस्यनाहार्यत्व्त् ।
अव्यङ्ग्यत्वसेषणाच्च एतदेवालङ्करभूतस्य रूपकस्य लक्षणमिति सर्वं सुस्थम् ।।
तच्च रूपकं त्रिविधम् - निरवयवं सावयवं, परम्परितञ्ज । निरवयवं केवलं, माला चेति द्विविधम् । सावयवन्तु समस्तवस्तुवुषयम् एकदेशविवर्ति चेति द्विविधम् । परम्परिञ्ज श्लिष्टाश्लिष्टनिबन्धनत्वेन द्विविधं सत् केवलं, माला चेति द्वैविधअयाच्चतुर्विधम् । एवमष्टविधो रूपकालङ्कारः ।
तत्र केवलं निरवयवं यथा -
"कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु य-
त्सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् ।
अनिद्रं यच्चान्तः स्वपिति तदहे वेद्म्यभिनवां
प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ।।"
मालानिरवयवं यथा-
"सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्रमः
कान्तेः कार्मणकर्म नर्मवचसामुल्लासनावारभूः ।
विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया
प्राणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ।।"
समस्तवस्तुविषयं सावयवं यथा-
"ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी-
न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् ।
द्वीपाद्द्वीपं भ्रमति दधती चन्द्रमुद्राकपाले
न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्य च्छलेन ।।"
एकदेशविवर्ति सावयवं यथा-
"प्रौढमौक्तिकरुचः पयोमुचां बिन्दवः कुटजपुष्पबन्धवः ।
विद्युतां नभसि नाट्यमण्डपे कुर्वते स्म कुतुमाञ्जलिश्रियम् ।।"
अत्र त्वमेव मुक्तारत्नमित्यरोपणपूर्वकः सद्वंश उत्तमान्वय एव सद्वंश उत्कृष्टवेणुः इत्यारोप इति रूपकद्वयमपि सम्भूतपरम्परमिति परम्परितम् । वंशे श्लिष्टशब्दनिबन्धनञ्च ।
तदेव मालापरम्परीतं यथा-
"विद्वन्मानसहंस वैरिकमलासङ्कोचदीप्तद्युते
दुर्गामार्गणनीललोहित समित्सतवीकारवैश्वानर ।
सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो
साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ।।
अश्लिष्टशब्दनिन्धनं केवलं परम्परीतं यथा-
"निरवधि च निराश्रयञ्च यस्य स्थितमनिवर्तितकौतुकप्रपञ्चम् ।
प्रथम इव भवान्स कूर्मनाथो जयति चतुर्दशलोकवल्लिकन्दः ।।"
तदेव मालापरम्परितं यथा-
"पर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गः
सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः ।
भग्नप्रत्यर्थिवंशोल्बणविजयकरिस्नानदानाम्बुपट्टः
खङ्गः क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्य ।।"
इदं वैधर्म्योणापि दृश्यते । तत्केवलं यथा-
"आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजृम्भितस्य ।
शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः ।।"
मालारुपं यथा-
"सौजन्याम्बुमरुस्थशी सुचरितालेख्यद्युभित्तिर्गृण-
ज्योत्स्नाकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा ।
यैरेषापि दुराशया कलियुगे राजावली सेविता
तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् ।।"
एवमष्टौ भेदा रूपकालङ्कारस्य प्राचीनैः प्रदर्शिताः ।
एवं भेदा उपमाया अपि वक्तुं शक्यः । एकत्र प्रकारेण सम्भवस्थलेऽन्यत्राप्युन्नेतुं शक्या इति न प्रदर्शिताः । तथा हि; `वागर्थाविव सम्पृक्तौ' इत्यादौ केवलनिरववोपमा । `ज्योत्स्नेव नयनानन्दः' इत्यादौ मालानिरवयवोपमा ।
"ततः प्रतस्थे कौबेरीं भाल्वानिव रघुर्दिशम् ।
शरैरुस्त्रैरिवोदीच्यानुद्धरिष्यन्रसानिव ।।"
इत्यत्रैकदेशविवर्तिनी ।
"अत्यन्तरागिणमपि निपीतवसुसञ्चयम् ।।"
इत्यत्रापि एकदेशविवर्तिनी । पूर्वत्र विशेषणोपमया विशेष्योपमा गम्यते, उत्तरत्र विशेष्योपमया विशेषणोपमेति भेदः ।
"दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनिला ।
आभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्करेखा ।।"
इत्यत्र अश्लिष्टशब्दनिबन्धनकेवलपरम्परितोपमा । अत्र झम्बुराशेरयश्चक्रेणोपमा । तद्धाराश्लिष्टकलङ्करेखया वेलाया उपमा चेति द्वयमपि सञ्जातपरम्परम् । यथा वा-
"अस्त्रज्वालावलीढप्रतिबिलजलधेरन्तरौर्वायमाणे
सेनानाथे स्थितेऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणम् ।
कर्णाले सम्भ्रमेण व्रज कृप समरं मुञ्ज हार्दिक्य शङ्कां
ताते चापद्वितीये वहति रणधुरा को भयस्यावकाशः ।।"
अत्र द्रोणस्य और्वेणोपमा प्रतिबलजलधेरित्यत्र उपमायास्साधिकेति उपमाद्वयमपि सञ्जातपरम्परम् । एवं `राजहंसायते राजा विदुषामेष मानसे' इत्यत्र श्लिष्टशब्द - निबन्धनकेवलपरम्परितोपमा । उभयत्रापि मालापरम्परितमनयैव रीत्योन्नेयम् । `रेणुध्वान्तस्य रक्तौघो बालघर्मकरायते' इति वैधर्म्येण रूपकवदुपमेति सर्वं समानम् ।
अयं तु विशेषः । समस्तवस्तुविषियं रूपकं न विशिष्टरूपकं भवति । विषयविषयिणोः बिम्बप्रतिबिम्बधर्मविशिष्टयोस्ताद्रूप्यारोपे निदर्यनाया एवावतरणात् । सावयवोपमा तु विशिष्टोपमा गमयति । `ततः प्रतस्थे कौबेरीं भास्वानिव' इत्यत्र शरैरुदीच्यानुद्धर्तुं उत्तकां दिशं प्रस्थितस्य रघोर्विशिष्टस्य किरणै रसान् शौषयितुं उत्तरां दिशं प्रस्थितेन विशिष्टेन रविणा साधर्म्यस्य फलितार्थतया लाभात् । एवञ्ज क्कचिदुपमया अन्यत्रोपमाया गम्यत्वं च अर्थात् पर्यवस्यति । क्कचिद्विशेषणोपमया विशष्योपमाया विशेषणोपमायाः, वैकृतप्रधानविधिनेव प्राकृततदङ्गकलापविधेः । उभयमप्येकदेशविवर्तित्वेनोद्हृतम् । क्कचिदवयवोपमया विशिष्टोपमाया गम्यत्वम्, अङ्गप्रधानगोचरप्रत्येकविधिकलापेनेव सर्वङ्गविशिष्टप्रधानगोचरप्रयोगविधेः । तत्तु समस्तवस्तुविषयोपमोदाहरणे दशितम् । एकवाक्यतायामवयवोपमया विशिष्टोपमाया गम्यत्वे इदमुदाहरणम् । वाक्यभेदेनापि दृश्यते-
"हस्त इव भूतिमलिनो यथा यथा लङ्धयति खलस्सुजनम् ।
दर्पणमिव तं तथा तथा निर्मलच्छायम् ।।"
अत्रावयवोपमया । यथा भूतिमलिनो हस्तो दर्पणमधिकमधिकं घर्षयन्नुत्तरोत्तरं निर्मलीकुरूते, तथा खलः सुजनधिकमधिकं घर्षयन्नुत्तरोत्तरं निर्मलमेव कुरुते इति विशिष्टोपमा गम्यते । क्कचिद्विशिष्टोपमया तदवयवोपमानां गम्यत्वमं, विशिष्टविधिनेव विशेषणविशेष्यविधीनाम् । यथा-
"त्वदाननमधीराक्षमाविर्दशनदीधिति ।
भ्रमद्भृङ्गमिवाऽऽलक्ष्यकेसरं भाति पङ्कजम् ।।"
अत्र विशिष्टेन विशिष्टस्योपमया तदवयवभूतानां भृङ्गलोचनानां केसरदशनदीधितीनां पङ्कजाननयोश्च उपमानोपमेयभावो गम्यते । एवमसङ्ख्या उपमाविकल्पाः । तता-
"किसलयकरैर्लतानां करकमलैः कामिनां मनो जयति ।
नलिनीनां कमलमुखेन्दुभिर्येषितां मदनः ।।"
इत्येवम्द्या रशनारूपकाद्या रूपकविकल्पा अप्यसङ्ख्याः उक्तं हि काव्यालोके - (नामान्तरम्, अपपाठोवा)
"अपर्यन्तो विकल्पानां रूपकोपमयोर्यतः ।
दिङ्मात्र दर्शितं; धीरैरनिक्तमनुमीयताम् ।।" इति ।
इति रूपकप्रकरणम्
******
अथ परिणामः
"आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः"
इति तल्लक्षणमुक्तम् । तत्र शङक्यते-
"यामि मनोवाक्कायैः शारणं करुणात्मकं जगन्नाथ ।
जन्मजरामरणार्णवतरणतरण्डं तवाङ्घ्रियाम् ।।"
"निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः ।
धारानिपातैस्सह किं नु वान्तश्चन्द्रोऽयमित्यार्ततरं ररासे ।।"
"एतान्यनन्तीश्वर पारिजातजातानि तारापतिपाण्हुराणि ।
सम्प्रत्यहं पश्यत दिग्वधूनां यशःप्रसूनान्यवतंसयामि ।।"
इति श्लोकेष्वारोप्यमाणानां तरण्हनयनप्रसूनानां तरणनिरीक्षणावतंसनरूपप्रकृतकार्येपयोगे सत्यपि उक्तलक्षणस्यातिव्याप्तिः । एवम्-
"भिन्नेषु रत्नकिरणैः किरणेष्विहेन्दो-
रुच्चावचैरुपगतेषु सहस्त्रसङ्ख्याम् ।
दोषापि नूनमहिमांशुरसौ किलेति
व्याकोशकोकनदतां दधते नलिन्यः ।।"
इति भ्रान्तिमति,
"विकसदमरनारीत्रनीलाब्जषण्डा-
न्यधिवसति सदा यः संयमाधःकृतानि ।
न तु रुचिरकलापे वर्तते यो मयूरे
वितरतु स कुमारो ब्रझयर्यश्रियं वः ।।"
इत्यपह्नुतौ,
"उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयःकृतेन किम् ।
त्रपासरिद्दुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ।।"
इत्यतिशयोक्तौ,
"चक्रभ्रमणकरत्वात् कुदृष्टिभिर्दूरवर्ज्यमानत्वात् ।
श्रुत्यन्तखेलनत्वात् मशक त्वामेव माधवं मन्ये ।।"
इत्यनुमाने च अतिव्याप्तिः । भ्रन्तिमति अहिमांशोर्विकासे, अपह्नुतौ अमरनारीनेत्राणां ब्रझचर्यवितरणे, अतिशयोक्तौ कुम्भयुगस्य सरितणे, अनुमाने माधवस्य चक्रभ्रमणे च प्रकृतकार्ये उपयोगित्वात् । अपह्नुतौ "तं यथा यथोपासते तथैव भवति" इति तत्क्रतुन्यायेन संयमाधःकृतामरनारीनेत्राधिष्ठनस्य ब्रझचर्य- वितरणोपयोगित्वम् ।
"सुहृदालापेनैव प्रणश्यति स्थास्नुरान्तरः क्लेशः ।
कान्तामुखयन्द्रेण हि शाम्यति रुचिरेण विरहजस्तापः ।।"
इति दृष्टान्तसङ्कीर्णपरिणामे चाव्याप्तिः अत्र आरोप्यमाणस्य उपमानकोट्यन्तर्गताप्रकृत- कार्येपयोगित्वादिति ।
अत्राऽऽहुः - आरोप्यामाणस्य प्रकृतात्मनोपयोगित्वे परिणाम इति लक्षणार्थः । न चैवं सति उदाहृतरूपकादिष्वतिव्याप्तिः । तेष्वारोप्यमाणानां तरण्जनयनप्रसूनसूर्यादीनां स्वात्मनैव तरणनिरीक्षणावते सनकमलविकासनादिकार्येपयोगित्वसम्भवेन तदर्थमङ्घ्रियुगविद्युशश्चन्द्रादिप्रकृतात्मातात्त्यनपेक्षणात् । न चोक्तलक्षणस्य परिणमेऽसम्भवः । यत्रारोप्यमाणं किञ्जित्कार्योपयोगित्वेन निबध्यमानं स्वतस्तस्य तदुपयोगित्वासम्भवात् प्रकृतात्मातापत्तिमपेक्षते तत्रैव परिणामाङ्गीकारात् । यथा `प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा' इति । अत्र हि अब्जस्य विक्षणोपयोगित्वंम निबध्यते; मयूरव्यंसकादिसमासेन उत्तरपदार्थप्राधान्यात् । न च, उपमितिसमासाश्रयणेन पूर्वपदार्थप्राधान्यात् दृश एव तदुपयोगित्वं निबध्यत इत्यस्तु इत् वाच्यम् । प्रसन्नेनेति सामान्यधर्मप्रयोगात्, `उपमितं व्याघ्रादिभिः सामान्याप्रयोगे' इति तदप्रयोग एव उपमितिसमासानुशासनात् । अब्जस्य च वीक्षणोपयेगित्वं न स्वात्माना सम्भवति ।अतः प्रकृतदृगात्मतापत्यपेक्षणात् परिणामालङ्कारः । नन्वेवं `याम् मनोवाक्कायैः' इत्यादिष्वपि तरणादिशब्दलक्षितजन्मनाशाद्युपयोगित्वं तरण्डादीनामङ्घ्रिगाद्यात्मनैवेति तेष्वपि परिणामप्रसङ्गः । मैवम् । यस्य कार्यवातिपदप्रथमप्रतीततन्मुख्यार्थनिर्वर्तनसामर्थ्यं तदात्मनोपयोगित्वस्य ग्राझत्वात् । तरण्डादिपदमुख्यार्थनिर्वर्तनसामर्थ्यस्य च तरण्डादिष्वेव व्यवस्थितत्वात् । तस्मादुदाहृतेषुर रूपकमेव । तेषु च नातिव्याप्तिरिति । नन्वेवमुक्तातिव्याप्तिपरिहारेऽपि-
"सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं
दृष्टिस्सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा ।
सर्वं विस्मृतवानसि भ्रमर हे यद्वारणोऽद्याप्यसा-
वन्तश्शून्यकरोऽपि सेव्यत् इति भ्रातः क एष ग्रहः ।।"
इत्यप्रस्तुतप्रशंसायाम् अतिव्याप्तिः तत्राप्रकृतवारणरसनाविपर्ययादीनां प्रकृतदुप्रभु- रसनाविपर्ययाद्यात्मतयैव तत्सेवात्यागलक्षणकार्योपयोगित्वात् । नहि यथा वारणस्य कर्णचापलं भ्रमरस्य तत्सेवात्यगे हेतुः; तथा तस्य रसनाविपर्ययः शून्यकरता च तत्र हेतुः मदः प्रत्युत तत्सेवायामेव हेतुरिति तस्य तत्त्यागहेतुत्वं दूरापास्तम् । एवमपि यत्तेषां त्यागहेतुत्वं निबध्यते तद्वारणादीनामप्रकृतानां दुष्प्रभुप्रभृतितादात्म्यापत्त्यैव निर्वाझमिति । `सुहृदालापेनैव' इत्यत्रोदाहृतपरिणामेऽव्याप्तिश्च तदवस्था । तत्र चन्द्रवन्मखुस्याप्यप्रकृतत्वेन प्रकृतात्मना उपयोगित्वाभावात् । उच्यते । प्रकृतात्मानेत्यत्र प्रकृतशब्दो विषयमात्रपर इति नोदाहृतपरुणामाव्याप्तिः । उपयोगित्वञ्ज प्रकृताऽगमककार्यं प्रति विवक्षितम्। अप्रस्तुतप्रशंसोदाहरणे प्रकृतदुष्प्रभुसेवात्यागगमकवारणसेवात्यागं प्रति उपयोगित्वमिति न तत्रातिव्याप्तिः । एवञ्ज-
"आरोप्यमाणमारोपविषयात्मातया स्थितम् ।
प्रकृतस्योपयोगित्वे परिणाम उदाहृतः ।।"
इति विद्यानाथलक्षणं प्रकृतस्येति पदस्य प्रकृताऽगमस्येति व्याख्यानेन परिष्करणीयम् ।
अयञ्ज परिणामो द्विविधः - सामानाधिकरण्यवैयधिकरण्याभ्याम् ।
सामानाधिकरण्येन यथा-
"तीर्त्वा भूतेशमौलिस्त्रजममरधुनीमात्मनाऽसौ तृतीय-
स्तस्मै सौमित्रिमैत्रीमयमुपकृतवानातरं नाविकाय ।
व्यामग्राझस्तनीभिश्शबरयुवतिभिः कौतुकोदञ्जदक्षं
कृच्छ्रादन्वीयमानः क्षणमचलमथो चित्रकूटं प्रतस्थे ।।"
अत्रारोप्यमाण आतरो विषयबूतसौमित्रिमैत्रीरूपतापत्त्या गुहोपकारलक्षणकार्योपयोगीति परीणामः । उभयोर्विभक्त्यैक्यात् सामानाधिकरण्यम् ।
वैयधिकरण्येन यथा-
"पुन्नागजालकैर्हारान् काञ्जीः केसरदामभिः ।
कर्णिकाः कर्णितारैश्च विहर्तुं विदधुर्वने ।।"
अत्रारोप्यमाणा हारादयो विषयभूतपुन्नागजालकादिरूपतयैव वनक्रीडोपयोगिन इति परिणामः । बिभक्तिभेदाद्वैयधिकरण्यम् ।
इदञ्च वैयधिकरण्यं रूपकेऽपि सम्भवति । यथा-
"तारानायकशेखराय जगदाधाराय धाराधर-
च्छायाधारककन्धराय गिरिदासङ्गैकशृङ्गारिणे ।
नद्याशेखरिणे दृशा तिलकिने नारायणेनास्त्रिँणे
नागैः कङ्कणिने नगेन गृहिणे नाथाय सेयं नतिः ।।"
अत्र नदीदृशोर्विषययोर्विभक्तिः आरोप्यमाणयोः शेखरतिलकयोर्नास्ति । यथा वा-
"द्विर्भावः पुष्पकेतोर्विबुधविटपिनां पौनरुक्त्यं विकल्प-
श्चिन्तारत्नस्य वीप्सा तपनतनुभुवो वासवस्य द्विरुक्तिः ।
द्वैतं देवस्य दैत्याधिपमथनकलाकेलिकारल्य कुर्व-
न्नानन्दं कोविदानां जगति विजयते श्रीनृसिंहक्षितीन्द्रः ।।"
अत्र विषयस्य राज्ञो विषयिणां पुष्पकेतुप्रभृतीवाञ्ज विभाक्तिभेदः ।
अथ परिमामस्य व्यङ्ग्यतायां किमुदाहरणम्?
"नरसिंह, धरानाथ, के वयं तव वर्णने ।
अपि राजानमाक्रम्य यशो यस्य विजृम्भते ।।"
इति विद्याधरेणोदाहृतम् । अत्र राजपदेन चन्द्रे विषये निर्दिष्टे तत्र आरोप्यमाणस्य नृपस्य आक्रमणरूपकार्योपयोगिनः प्रतीतेः परिणामो व्यज्यत इति, तदयुक्तम् । अत्र झारोप्यमाणस्य नृपस्य नृषयात्मना परिणत्यपेक्षायामेव परिणामोऽङ्गीकृतः । यदाह-
"तं परिणामं विबुधाः कथयन्त्यारोपविषयतया ।
परिणमति यत्र विषयी प्रसितुतकार्योपयोगाय ।।"
विद्यानाथेन तूदाहृतम्-
"एष शाम्यति वस्तापो राजपादनिषेवया ।
कण्टकद्रुममूलेषु वासस्तं शमयेत्कथम् ।।" इति ।
नास्त्यत्र प्रागुक्तदोषानुषङ्गः । नृपचरणसेवायां प्रस्तुतायामारोप्यमाणायाः चन्द्रकिरणसेवायाः नृपचरणसेवात्मतयैव तापाशान्तिहेतुत्वात् । तापशब्दस्य सौरतापसाधारण्येऽपि प्रकृते राज्यभ्रंशजनिततापस्यैव विविक्षितत्वात् तन्निवर्तने चन्द्रकिरणसेवायाः स्वतोऽसामर्थ्यत् । तथापि प्राचीनानां मते एवैदुदाहरणम् । ते हि `राजपदनिषेवया' इत्यस्य प्रकरणनियन्त्रितत्वात् अप्रकृतायां चन्द्रकिरणसेवायां शब्दशक्तिमूलो व्यजाजनाव्यापार इति मन्यन्ते । वस्तुतस्त्वप्रकृतेऽप्यर्थे शब्दानामभिधैव व्यापार इतियस्माभिः श्लेषप्रकरणे व्यवस्थापयिष्यमाणत्वात्, इहापि `राजपादनिषेवया' ित्यत्र चन्द्रकिरणसेवायामप्याभिधैव व्यापारः । अतः प्रस्तुताप्रस्तुतद्वयताद्रूप्यप्रतीतेः श्लेषभित्तिकातिशयोक्त्यादिषअविव संसर्गविधयैव लाभात्, तस्य प्रकृतकार्योपयोगितायास्तृतीयया लाभाच्च न क्कापि व्यञ्जनाव्यापारापेक्षेति नेदं परिणामध्वनेरुदाहरणम् । इदञ्च दूषणं पूर्वोदाहरणेऽपि तुस्यम् । इदन्तूदाबरणम्-
"चिराद्विषहसे तापं चित्त, चिन्तां परुत्यज ।
नन्वस्ति शीतलः शौरेः पादाब्जनखचन्द्रमाः ।।"
अत्र चिरतापार्तं प्रति हरिपादाब्जनखचन्द्रसद्भावप्रदर्शनेन तमेव निषेवस्व, तन्निषेवणादयं तापः शान्तिमेष्यतीति परिणामो व्यज्यते । एवं रूपकरैलक्षण्ये परिणामो निरूपितः । तत्र रूपके प्रकृतमप्रकृतरूपापन्नं भवति, परिणामे त्वप्रकृतं प्रकृतरूपापन्नं भवतीति वैलक्षण्ये स्थिते यत्तदुपजीव्य चक्रवर्तिनाऽन्यथैव तयोर्वैलक्षण्यं वर्णितम् । मुखचन्द्रेण तापश्शाम्यति इति परुणामे तु मुखमनाच्छादितस्वरूपमेव भवति । चन्द्रस्य मुखात्मनैव विरहतापशान्तिहेतुत्वादिति । उक्तञ्च-
"विषय्याकारमारोप्य विषयस्थगनं यदा ।
रूपकत्वं तदा तत्र रञ्जनेन समन्वयः ।
यदा तु विषयो रूपात् स्वस्मादप्रच्युतो भवेत् ।
उपयुङ्क्ते पराकारः परिणामस्तदा मतः ।।" इति ।
अत्रेदं विचारणीयम् । रिपके विषयस्य स्थगनं न तावात्तिरोहितरूवत्वाम्, रजतभ्रमेण शुक्तिस्वरूपल्येव, आहार्यारोपेण विषयस्य तिरोधानासम्भवत् । शारीरके च `य एवासौ तपति तमुद्रीथमुपासीत' इत्यत्रोद्गीथस्य आदित्यदृष्टिविषयत्वङ्गीकारे रजरदृष्टिविषयशुक्तिस्वरूपमिव उद्गीथक्रियास्वरूपं तिरोधीयेतेत्याशङ्क्य आहार्यदृश्टेरतीरोधायकत्वस्य उक्तत्वात् । नापि विष्य्युपसर्जनत्वम् । परिणामेऽपि तुल्यत्वात् । उभयत्राप्युत्तरपदार्थप्रधानस्य मयूरव्यंसकादिसामासस्याविशेषात् । अत एव विषयिविशेषितत्वं स्थगनमित्यपि निरस्तम् । विषयिणो विशेष्यत्वात् । तस्मात् स्थगनास्थनवैलक्षण्यचो निरालम्बनमिति विषयात्मनोपयोगेनैव परिणामस्य रूपकाद्वैलक्षण्यं समर्थनीयमित्यलं विस्तरेण ।
इति परिणामप्रकरणम्
*********
अथ ससन्देहः
"साम्यादप्रकृतार्थस्य या धीरनवधारणा ।
प्रकृतार्थाश्रया तज्ज्ञैः ससन्देहः स इष्यते ।।"
त्रिविधश्चायं सन्देहः- शुद्धो निश्चयगर्भि निश्चयान्तश्च । क्रमेण यथा-
"आनीय द्विषतां धनानि विपिने राजन्यचूडामणे
तेष्वासोक्य विनिर्मलं हिमशिलाखण्डं करण्डं पुनः .
किं वाद्यं किमु पेषणं किमु धनं किं क्षेपणीयायिधं
किं वा दैवतमित्यनिश्चितधियो मन्दाः पुलिन्दा जनाः ।।"
"अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः
कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् ।
कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं
समालोक्याऽऽजौ त्वां विदधति विकल्पान्प्रतिभटाः ।।"
"किं तावत्सरसि सरोजमेतदारात्
आहोस्विन्मुखमवभासते तरुण्याः ।
संशय्य क्षणमिति निशअचिकाय कश्चि-
ब्दिब्बोकैर्वकसहवासिनां परोक्षैः ।।"
इति वदन्ति । अत्रेदं विचारणीयम् । साम्यादिति, किमन्नाद्धेतोर्वसतीतिवत्फलत्वेन हेतुत्वतववक्षया पञ्चमी, उत स्वतो हेतुत्वविवक्षया । आद्येऽप्रकृतसाम्याभिव्यक्तिफलकत्वमर्थः स्यात् । ततथा सति `आनीय द्विषतां' इत्युदाहरणेऽव्याप्तिः । न हि तत्र हिमकरण्डस्य वाद्यादिसादृश्याभिव्यक्तौ कविसंरम्भः, किन्तु द्विषत्पुरमिदृशीमवस्थामापन्नमिति राज्ञः प्रतापातिशयाभिव्यक्तौ । द्वितीये साम्यादित्यनेन किमेकमेव अप्रकृतसाम्यं यावत्सन्देहकोट्युत्थिति (कोट्युपस्तिति) हेतुत्वेन विवक्षितम् ? उत, अनेकं वा इत्यनियमः । आद्ये `अयं मार्तण्डः किम् ?' इतियाद्युदाहरमेऽव्याप्तिः । न हि तत्र `किं लक्ष्मीरुर्वशी वेयं रम्भा वा मेनकाथ वा' इत्यात्र लक्ष्मीत्वादिविकल्पेषु अतिशयितसौन्दर्यसाम्यवदेकमेव साम्यमिह मार्तण्डत्वाविकल्पे, क्षणेन सकलसंहर्तृत्वसा्म्यं कृतान्तत्वविकल्पे च हतुः । द्वितीये `इह नमय शिरः कलिङ्गवद्वा समरमुखे करहाटवद्धनुर्वा' इति विकल्पालङ्कारेऽतिव्याप्तिः ।।
अत्र दिग्विजयप्रवृत्तेन बलवता राज्ञा समरे प्रमरे यथा कलिङ्गनृपतिः -
"समाक्रान्तो बलवता काङ्क्षन्नभ्रंशिनीं श्रियम् ।
श्रयेत वैतसी वृत्तिं न भौजङ्गी कदाचन ।।"
इति नीतिमनुसृत्य असन्दिग्धनिजराज्यलक्ष्मीभ्रंशपरीहारकामः शिरो नमितवात्, तथा वा शिरो नमय, यथा करहाटमृपतिः `जयेन लभ्यते लक्ष्मीर्मरणेन सुराङ्गना' इति नीतिमनुसृत्य युद्धकामो धनुर्नमितवान् तथा वा धनुर्नमय इति समयोचिताप्तोपदेशे तत्तद्राजचरितदृष्टान्तप्रापितानवस्थितार्थधीसत्त्वात् । न च तत्र श्लोके तादृग्धीनिबन्धनं नास्तीति नातिव्याप्तिरिति वाच्यम् । तन्निबन्धनस्याऽपि लक्षणान्तर्गत्वविवक्षायम्-
"जीवनग्रहणे नम्रा गृहीत्वा नुनरून्नताः ।
किं कनिष्ठाः किमु ज्येष्ठा घटीयन्त्रस्य दुर्झनाः ।।"
इत्यादिषु सन्देहविषयनिबन्धनगम्यससन्देहालङ्कारेषु अतिव्याप्तिप्रसङ्गात् । अत्प्रेक्षायां वाच्यगम्यभेदवदिहापि द्विविधोदाहरणदर्शनेन वाच्यागम्यभेदेन द्वैविध्यस्य अङ्गीकर्तव्यत्वात् ।
अपि च, अनवधारणेति किमुच्यते ? अनिश्चयात्मकत्वमिति चेत्, थथा सति `बालेन्दुवक्राण्यविकासभावात्' इत्यादावुदाहरिष्यमाणायाम् अप्रकृतसाम्यनिमित्ततत्तादात्म्य- सम्भावनारूपायामुत्प्रेक्षायामतिव्याप्तिः विरोधेन परस्परप्रतिक्षपकतया निबद्धानेककोट्यवगाहित्वं विवाक्षितमिति चेत् तथाऽपि `अङकं केऽपि शशङ्किरे' इत्यादावुदाबरिष्यमाणायामपह्नुतावतिव्याप्तिः । सन्देहविकल्पयोर्वाकारादिनेव तत्राऽपि तत्तन्मतत्वोपन्यासेन परस्परप्रतिषेधसिद्धेः ।
"अस्यास्सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः
शृङ्गारैकरसः स्वयं नु मदनो, मासो नु पुष्पाकरः ।
वेदाभ्यासजढः कथं स विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ।।"
इति ससन्देहोदाहरणे चाव्याप्तिः तत्र चन्द्रादीनां सन्देहधर्मिणामेव अनेकत्वम् । प्रकारस्तु सर्वत्र वर्णनीयवनितास्रष्टृत्वमेकमेवेति अनेककोटिकत्वाभावात् । न च, साम्यनिमित्तत्वाभावात् तत्र ससन्देहः । `इतो गता सा क्क गता गृहं गता मे हृदयं गता वा' इत्यत्रेव सन्देहो न सङअगाझ इति वाच्यम् । वर्णनीयनायिकायाः कान्त्या चन्द्रसाम्यं सौरभसौकुमार्याभ्यां पुष्पसाम्यं च निमित्तीकृत्य किमस्यां कान्तिनिधानभूतश्चन्द्रः स्वकान्तिसम्पदा स्त्रष्टा, तु पुष्पमासः स्वकीयपुष्पसम्पदेति सन्देहनिभन्धनात् `शृङअगरैकरसः स्वयं नु मदनः' इत्यंशस्य शृङ्गरविभ्रमभाहुल्यमात्रपर्यवसायित्वन किञ्चित्साम्य निमित्तत्वाभावेऽपि चन्द्रवसन्तधर्मिकांशयोः तन्निमित्तत्वानिवारमात् ।
एवञ्च प्रकृतार्थाश्र्येत्येतदपि अयुक्तम् । उदाहृतसन्देहस्य वर्णनीयनायिकानाश्रयत्वेन अव्याप्तेरिति चेत् । अत्र ब्रूमः-
बुद्धिस्सर्वात्मानान्योन्यक्षेपिनानार्थसंश्रया ।
सादृश्यमूला वार्थस्पृक् सन्देहालङ्कृतिर्मता ।।
यद्याप्यन्योन्यप्रतिक्षेपकविरूद्धनानार्थावलम्बनत्वं विकल्पस्याप्यस्ति, तथापि तदर्थानां सर्वात्मना परस्परप्रतिक्षेपकत्वं नास्ति, किन्तु पक्षे तत्प्राप्तिमनिरूध्य स्वप्राप्तिपक्षे एव स्वपरीपन्थिप्राप्तिप्रतिक्षेपकत्वात् । नहि `व्रीहिभिर्यवैर्वा यष्टव्यम्' इति विकल्पोद्देशे व्रिहयो यवान्, यवाश्च व्रीहिन् सर्वात्मना यागात् प्रतिक्षिपन्ति । तथा सति शास्त्रस्यास्य अनिर्णायकत्वेन अननुष्ठापकत्वेन चाप्रामाण्यप्रसङ्गात् । किन्तु स्वस्वानुष्ठानपक्षे एव । अत एव `व्रीहिभिर्यवैर्वा यष्टव्यम्' इति सन्देहेन पृष्टवन्तं प्रति `व्रिहिभिर्यवैर्वा यष्टव्यम्' इति प्रश्नसमाकारमेव वाक्यं निर्णायकं प्रश्नमूलसन्देहनिवर्तकमनुष्ठापकञ्च दृश्यते । प्रश्नवाक्ये वाकारः सर्वात्मना पक्षान्तरप्रतिक्षेपार्थः । उत्तरवाक्ये पक्षे तत्प्रतिक्षेपार्थ इति विशेषसद्भवात् । एवं विकल्पालङ्कारोदाहरणेऽपि द्विविधस्याऽपि नीतिशास्त्रस्य प्रामाण्यात्तदुपदिष्टफलेच्छानुसारेण उभयमपि पक्षेऽनुष्ठातुं युक्तमिति शिरोधनुर्नमनयेर्न सर्वात्मना परस्परप्रतिक्षेपकत्वमिति विकल्पालङ्कारे नातिव्याप्तिः । अपह्नवोदाहरणे सर्वात्मना परस्परप्रतिक्षेपसत्त्वेऽपि वाकारार्थस्पर्शाभावात् नातिव्याप्तिः । तत्र हि केचित्, अन्ये इति मतान्तरत्वोपन्यासेन पक्षाणां परस्परप्रतिक्षेपलाभः । न तु वाकारार्थस्पर्सोऽस्ति । उत्प्रेक्षायामपि नातिव्याप्तिः । तत्र झुत्कटैकतरकोटिके संशये कोट्योः समबलत्वाभावेन वाकारार्थस्पर्साभावात् । `अस्याः सर्गविधौ' इत्युदाहणे परस्परप्रतिक्षेपकनानाकोटिसमाश्रयत्वभावेऽपि तथाभूतनानाधर्मिरूपार्थसमाश्रयत्वसत्त्वान्नाव्यप्तिरिति सर्वमवदातम् ।
सन्देहालङ्करध्वनिर्यथा अस्मत्कुलकूटस्थवक्षःस्थलाचार्यकृते वरदराजवसन्तोत्सवे-
"काञ्चित्काञ्चनगौराङ्गीं वीक्ष्य साक्षादिव श्रियम् ।
वरदः संशयापन्नो वक्षःस्थलमवैक्षत ।।"
अत्र संशयस्य शब्दोपात्तत्वेऽपि तावन्मात्रस्य अनलङ्कारत्वात्, तदलङ्कारताप्रयोजकस्य वक्षःस्थले स्थितैव लक्ष्मीः उत ततोऽवतीर्य पुरतस्तिष्ठतीत्येवं संशयाक्रस्य वक्षःस्थलमवैक्षतेत्यनेन व्यङ्ग्यत्वात्सन्देहालङअकारध्वनिरत्रेति । यथा-
"दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रमयिनो निषेदुषः ।
वीक्ष्य बिम्बमनु बिम्बमात्मनः कानि कान्यपि चकार लज्जया ।।"
इत्यत्र कानिकान्यपीति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थलज्जाशब्दप्रयोगेऽपि तस्याः स्वविभावानुभावाभ्यां रसानुगुणाभिव्यक्तिरूपो ध्वनिः । यद्यापि `संशयापन्नः' इत्यनेन लक्ष्म्याः पुरो दृष्टायाश्च मध्ये कस्या रूपमधिकमिति संशयाविष्ट इति वा, नस्समाधिकरूपवत्त्वाभिमानिनी लक्ष्मीः पुरत एनां दृष्ट्वा कथं वर्तत इति संशयापन्न इति वा, इयञ्च वक्षसि कुत्र निवेशनीयेति संशयापन्न इति वा बहवः संशयाकाराः वक्षःस्थलमवैक्षतेत्यनेन व्यङ्ग्यास्सम्भवन्ति । तथापि सर्वेषामपि सन्देहानां सादृश्यमूलत्वात् व्यतिरेकमूलसन्देहस्याप्यत्र सम्भवेऽपि कथञ्चित्सादृश्यमूलत्वात् सन्देहालङ्कारध्वन्युदाहरणत्वमिति युक्तमेव ।
इति ससन्देहालङ्कारप्रकरणम् ।
********
अथ भ्रान्तिमान्
कविसम्मतसादृश्याद्विषये पिहितात्मनि ।
आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः ।।
`पिहितात्मनि' इत्यनेन आरोप्यमाणानुभवस्य स्वारसिकं कविप्रतिभया कल्पनं विवक्षितम्, तस्यैव विषयपिधानसामर्थ्यात् । अतो रूपकादौ नातिव्याप्तिः । उदाहरणम्-
"कपाले मार्जारः पय इति करन् लेढि शशिनः
तरुच्छिद्रप्रोतान् बिसमिति करी सङ्कलयति ।
रतान्ते तल्पस्थान् हरति वनिताप्यंशुकमिति
प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति ।।"
अत्र लेहानादिप्रवृत्तिपर्यन्तोक्तेः स्वारसिक एव भ्रमः कविप्रतिभया चन्द्रिकोत्कद्योतनाय निबद्धः ।
क्कचिद्भान्तेरुत्तरोत्तरं पल्लवेन चमत्कारः-
'बल्लालक्षोणिपाल, त्वदहितनगरे सञ्चरन्ती किराती
कीर्णान्यादाय रत्नान्युरुतरखदिराङ्गरशङ्काकुलाङ्गी ।
कृत्वा श्रीखण्डखण्डं तदुपरि मुकुलीभूतनेत्रा धमन्ती
श्वासाऽऽमोदानुधावन्मधुकरनिकरैमशङ्कां करोति ।।"
क्कचिद्भिन्नकर्तृकोत्तरोत्तरभ्रान्तिनिबन्धनेन चमत्कारः-
"शिञ्जानैर्मञ्जरीति स्तनकसशयिगं चुम्बितं चञ्चरीकैः
तत्त्रासोल्लाललोलाः किसलयमनसा पाणयः कीरदष्टाः ।
तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकैः
इत्थं चोलेन्द्रसिंह, त्वदरिमृगदृशां नाप्यरण्यं शरण्यम् ।।"
क्कचिदन्योन्यविषयभ्रान्तिनिबन्धनेन यथा-
"पलाशमुकुलभ्रान्त्या शुकतुण्डे पतत्यलिः ।
सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ।।"
"विस्फूर्तिमत्यां कीर्तौ ते विधिवैकुण्ठशङ्कराः ।
आरोढुं शयितुं वस्तुमाङ्क्षन्ति महीपते ।।"
इत्यत्र भ्रान्तिमदलङ्कारो व्यङअग्यः ।
सादृश्यान्यमूलौ सन्देहविभ्रमौ ससन्देहभान्तिमदलङ्कारप्रयोजकौ न भवतः । यथा-
"अमुष्य धीरस्य जयाय साहसी शरासनज्यां विशिखैः सनाथयन् ।
निमज्जयामास यशांसि संशये स्मरस्त्रिलोकीवीजयार्जितान्यपि ।।"
"दामोदरकराघातचूर्णिताशेषवक्षसा ।
दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ।।"
आद्ये दुर्जयवियोद्येगसाहसप्रयुक्तः कीर्तिभ्रंशसन्देहः । द्वितीये घाढमर्मप्रहारकृतचन्द्रविभ्रम इति ।
इति भ्रान्तिमत्प्रकरणम्
********
अथ उल्लेखालङ्कारः
निमित्तभेदादेकसेय वर्तुनो यदनेकधा ।।
उल्लेखनमेकेन तमुल्लेखं प्रचक्षते ।।
यत्र नानाविधधर्मयोग्येकं वस्तु तत्तद्धर्मयोगरूपनिमित्तभेदादनेकेन ग्रहीत्रा अनेकधोल्लिख्यते स उल्लेखः ।
"कीर्तिगङ्गाहिमक्ष्माभृदोजस्सूर्योदयाचलः ।
शत्रुसेनाब्धिमन्थाद्रिर्गुणरत्नौघरोहणः ।।"
इति मालारूपके एकसेय राज्ञो यशस्वित्वादिधर्मयोगरूगरूपनिमित्तभेदात्तुषाराद्रत्वाद्यनेकप्रकारेण उल्लेखनमस्तीति तत्रातिव्याप्तिनिरासाय अनेकेनेत्युक्तम् । तत्र ग्रहीतृभेदनिबन्धनं न भवति अनेकधोल्लेखनमिति नातिव्याप्तिः ।
"विद्याविक्रमसौन्दर्यतपसां निधिमागतम् ।
पश्यन्ति विबुधाश्सूराः स्त्रियो वृद्धाश्च कौतुकात् ।।"
"कीर्तौ विस्फूर्तिमत्यां ते मृणालक्षीरशङ्किनः ।
द्वयेऽपि नागार्तन्वन्ति जिह्वान्तोल्लेहनं मुहुः ।।"
इति भ्रान्तिमदुदाहरणे एकस्या एव कीर्तेरनेकेन कुञ्जरभुजङ्गरूपेण ग्रहीत्रा मृणालक्षीररूपत्वाद्यनेकप्रकोरेण उल्लेहनमस्तीति तत्रातिव्याप्तिनिरासाय निमित्तभेदादित्युक्तम् । तत्र कीर्तिगतं धावल्यमेकमुल्लेखद्वयेऽपि निमित्तम् । यद्यपि गजभुजङ्गानां स्वस्वप्रियाहारलोभरूपनिमित्तभेदोऽप्यस्ति, तथापि निमित्तभेदादित्यनेन एकनिमित्तविरहो विवक्षित इति तव्द्यावृत्तिः तस्य सङ्ग्राझत्वं निम्त्तभेदादिति स्वरूपकथनमात्रम् । एवमपि यदि-
"कान्त्या चन्द्रं विदुः केचित्सौरभेणाम्भुजं परे
वक्त्रं वयं ब्रूमस्तपसैक्यं गतं द्वयम् ।।"
इत्यपह्नवोदाहरणविषेऽतिव्याप्तिः शङ्क्या । तदानीमनेकधोल्लेखनं निषेधास्पृष्टत्वेन विशेषणीयम् । तत्राद्योल्लेखनद्वयं परमतत्वोपन्याससामर्थ्यद्गम्यमाननिषेधमिति नातिव्याप्तिः ।
* (स्त्रीभिः कामोऽर्थिभिः स्वर्द्रुःकालश्शत्रुभिरैक्षि सः ।
अत्र चानेकधोल्लेखने रुच्यर्थित्वभयादिके यथायोगं प्रयोजकम् । रुचिरभिरतिः अर्थित्वं लिप्सा ।)
द्विविधश्चायमुल्लेखः; शुद्धोऽलङ्कारान्तरसङ्कीर्णश्च ।
तत्र शुद्धो यथा-
"गजत्रातेति वृद्धाभिः श्रीकान्त इति यौवतैः ।
यथास्थितश्च बालाभिः दृष्टश्शौरिस्सकौतुकम् ।।"
अत्र यस्तथा भीतं भक्तं गजं त्वकया त्रयते स्म, सोऽयमादिपूरुष इति वृद्धाभिस्संसाराद्भीत्या तदभयार्थिनीभिः कृष्णः पुरः प्रविशनम दृष्टः । यस्तथा चञ्चलत्वेन प्रसिद्धाया लक्षम्या अपि कामोपचारवैदग्ध्येन नित्यवल्लभस्सोऽयं दिव्ययुवेति युवतीभिः सोत्कण्ठाभिर्दृष्टः, बालाभिर्बालस्वभावाद्यथास्थितरूपवेषयुक्तो दृष्ट इति सर्वत्र वस्तुसता नानारूपेण उल्लेखनादयं शुद्धः ।
यथा वा हर्षचरिते श्रीकण्ठजनपदवर्णने-
"यस्तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः, सङ्गीतसालेति लासकैः, यमनगरमिति शत्रुभिः, चिन्तामणिरित्यर्थिभिः, गुरुकुलमिति विद्यार्थिभिः, गन्धर्वनगरमिति गायकैः, विश्वकर्ममन्दिरमिति विज्ञानिभिः, लाभभूमिरिति वैदेहकैः, धूर्तस्थानमिति वन्दिभिः, साधुसमागम इति सद्भिः, वज्रपञ्जरमिति शरणागतैः, विटगोष्ठीति विदग्धैः, सकृतपरिणाम इति पथिकैः, असुरविवरमिति शरणागतैः, शाक्याश्रम इति शमिभिः अप्सरःपुरमिति कामिभिः, महोत्सवसमाज इति चारणैः, वसुधारेति च विप्रैरगृझत ।।"
अत्र तपोवनादिभूयिष्ठत्वात् तपोवनाद्युल्लेखः सङ्कीर्णः तत्र यदि यमनगरत्वादीनामुपरञ्जकतामात्रेणान्वयस्तदा रूपकसङ्करः । यदि ताद्रूप्यानुभवगोचरतया तदा भ्रान्तिमत्सङ्करः । अयञ्चोल्लेखो वर्ण्यगुणोत्कर्षख्यापनाय अचेतनकर्तृकोऽपि निबध्यते । यथा तत्रैव हर्षवर्णने-
"निःस्नेह इति धनैः, अनाश्रयणीय इति दोषैः, निग्रहरुचिरिति इन्द्रियैः, दुरुपसर्प इति कलिना, नीरस इति व्यसनैः, भीरुरिति अयशया, दुर्ग्रहचित्तवृत्तिरिति चित्तभुवा, स्त्रीपर इति सरस्वत्या, षण्ड इति परकलत्रैः, काष्ठामुनिरिति यतिबिः, धूर्त इति वेश्याभिः, विनय इति सुहृद्भिः, कर्मकर इति विप्रैः, असहाय इति शत्रुयोधैः, एकमप्यनेकधा गृझमाणम् " इति ।
भ्रान्तिमदलङ्कारादयोऽप्येवमचेतनकर्तृका निबध्यन्ते-
"भिन्नेषु रत्नकिरणैः किरणेष्विहेन्दो-
रुच्चावचैरुपगतेषु सहस्त्रसङ्ख्याम् ।
दोषापि नूनमहिमांशुरसौ किलेति
व्याकोशकोकनदतां दधते नलिन्यः ।।" इत्यादौ ।
"मधुलुभ्धा मधुकरास्तृषिताश्च चकोरकाः ।
सुगन्धि तान्तिसम्पन्नमनुधावन्ति ते मुशम् ।।"
यत्यत्रोल्लेखोव्यङ्ग्यः । `विद्याविक्रमसौन्दर्य' इति श्लोके विद्यादीनां स्वरूपावलोकनकौतुकमात्रे निमित्ततया यदि न विश्रान्तिः, किन्तु विद्वत्ताद्युल्लेखवदवलोकवकौतुकनिमित्ततायां रर्यवसानं तदा तत्रापि उल्लेखनगतानेकधात्वकृतविच्छित्तविशेषस्य गम्यत्वादुल्लेङ्कारो गम्यः ।
"परिव्राट् कामुकशुनामेकस्यामेव योषिति ।
कुणपः कामिनी भक्ष्यमिति तिस्त्रो विकल्पनाः ।।"
इत्यत्राप्युल्लेख इष्यत इति लक्ष्णस्य नातिव्याप्तिः ।
अथापर उल्लेखप्रकारः -
"ग्रहीतृभेदाभावेऽपि विषयाश्रयभेदतः ।
एकस्यानेकधोल्लेखमप्युल्लेखं प्रचक्षते ।।"
तत्र विषयभेदादनेकधोल्लेखः शुद्धः, सङ्कीर्णश्च । शुद्धो यथा -
"अकृशं कुशं विलग्ने चक्षुषि विस्तृतं नितम्बे ।
अधरेऽरुणमाविरस्तु चित्ते करूणाशालिकपालिभागधेयम् ।।"
"गुरुर्वचसि, पृथुरुरसि, विशालो मनसि, जनकस्तपसि, सुमित्रस्तेजसि, सुमन्त्रो रहसि, बुधः सदसि, अर्जुनो यशसि, भीष्मो धनुषि" इत्यादौ श्लेषसङ्कीर्णः । "हंसमयीव गतीषु, परपुष्टमयीवालापे, चक्रवाकमयीव पतिप्रेमणि, प्रावृण्मयीव पयोधरोन्नतौ, कमलमयीव कोशसङ्कीर्णश्च । `यधिष्ठिरः सत्यवचसि' इत्यादौ रूपकसङ्कीर्णः । `युधिष्ठिरसमस्सत्यवचसि' इत्यादावुपमासङ्कीर्ण इत्याद्युन्नेयम् ।
आधिकरणभेदेनानेधोल्लेखो यथा-
"वर्धिष्णोरुपरि क्षणं रविरभूच्छत्रं बलिध्वंसिनो
रत्नं मूर्ध्नि ललाटसीम्नि तिलकं कर्णान्तिके कुण्डलम् ।
अंसे चक्रमुरःस्थले मणिवरो नाभौ सरोजासनो
यस्याङ्घ्रौ कटकस्त्रिविक्रमगतेः पायादपायात्स वः ।।"
अत्र रूपकङ्कीर्णः । भगवल्ललाटमध्यकर्णान्तादितत्तदवयवाभिमुखस्थितग्रहीतृभेदनिमित्तोल्लेखसङ्कीर्णश्च । एकस्यैव द्रष्टुर्ललाटमध्ये कर्णान्तिके च रविदर्शनासम्भवात् ।
`यस्य वह्निमयो हृदयेषु, जलमयो लोचनपुटेषु, मारुतमयः श्वसितेषु, क्षमामयोऽङ्गेषु, आकाशमयः शून्यतासु, पञ्चमहाभूतमयो मूर्त इवादृश्यत निहतप्रतिसामन्तान्तःपुरेषु प्रतापः ।'
अत्र वह्निजलादिशब्दगृहीततापबाष्पादिरूपाणां प्रतापकार्याणां प्रतापस्य च अभेदकथनं हेत्वलङ्कार इति तत्सङ्करः । मतान्तरे रूपकसङ्करः ।
"कस्तूरीरिलकन्ति भालफलके दोव्या मुखाम्भोरुहे
रोलम्बन्ति तमाललोलमुकुलोत्तंसन्ति मौलावपि ।
याः कर्णे विकचोत्पलन्ति कुचयोरन्ते च कालागुरु-
स्थासन्ति प्रदिशन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ।।"
अत्रोपमासङ्कीर्णः । केचितु तत्तदधिकरणौचित्यात् कस्तूरीतिलकादितादात्म्यसम्भावनायाम् उपमार्थे विहितोऽपि क्किबुत्प्रेक्षायां पर्यवस्यतीत्युपमोपक्रमोत्प्रेक्षेयमित्याहुः । तन्मते उत्प्रेक्षासङ्कीर्णः । एवमलङ्कारान्तरसङ्करोऽप्यन्नेयः ।
।। इति उल्लेखप्रकरणम् ।।
********
अथापह्नुतिः
"प्रकृतस्य निषेधेन यदन्यत्वप्रकल्पनम् ।
साम्यादपह्नुतिर्वाक्यभेदाभेदवती द्विधा ।।"
अन्यत्वकल्पनमात्रं रूपके, विषयनिषेधमात्रं `नाहं दूती वरतनोरङ्गतापोऽतिभास्करः' इत्याक्षेपे उभयमपि साम्यविशेषणरहितम् `न पञ्चविशिखः कामः किन्त्वपञ्च(असंख्य)शिलीमुखः `इत्यतिशयोक्तौ चातिव्याप्तिमिति (साम्य) विशिष्टोपादानम् । न चैवं `न पझं मुखमेवेदम्' इति तत्त्वाख्यानोपमायां विषये पझत्वनिषेधस्य मुखत्वप्रकल्पनस्य च सत्त्वादतिव्याप्तिः, प्रकल्पनपदस्यारोपपरत्वात् । `निषिध्या विषयं साम्यादन्यारोपः' इति क्त्व्प्रत्ययेन लक्षंणं नोक्तम् । वक्ष्यमाणोदाहरणे आरोपपूर्वकापङ्नवेऽव्याप्तिप्रसङ्गात् ।
इयञ्च साक्षान्निषेधकनञादिप्रयोगे, परपक्षत्वाद्युपन्यासेन, निषेधस्य अर्थाद्गम्यत्वे च वाक्यभेदेन प्रवर्तते । विषयासत्यत्वप्रतिपादकच्छझनिभकपटव्याजादिशब्दप्रयोगे विषयासत्यत्वपर्यवसायि रूपवपुर्नामभड्ग्यादिशब्दप्रयोगे च तदभेदेन ।
तत्र वाक्यभेदेऽपह्नवपूर्वक आरोपः, आरोपपूर्वकोऽपह्नवश्चेति द्वैविध्यम् ।
क्रमेणोदाहरणानि-
"अवाप्तः प्रागम्भ्यं परिणतरुचः शैलतनयं
कलङ्को नैवाऽयं विलसति शशाङ्कस्य वपुषि ।
अमुष्येयं मन्ये विगलदमृतस्यन्दिशिशिरे
रतिश्रान्ता शेते रजनिरमणी गाढमुरसी ।।"
यथा वा -
"नेदं नभोमण्डलमम्बुराशिर्नेमाश्च तारा नवफेनपुञ्जाः ।
नाऽयं शशी कुण्डलितः फणीन्द्रो नाऽयं कलङ्कः शयितो मुरारिः ।। "
पूर्वत्र निरवयवापह्नुतिः, अत्र सावयवेति भेदः ।
"अङ्कं केऽपि शशशाङ्किरे जलनिधेः पङ्कं परे मेनिरे
सारङ्गं कति चिच्च सञ्जगरिरे भूच्छायमैच्छन्परे ।
इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते
तत्सान्द्रं निशि पीतमन्धतमसं कुक्षिस्थमाचक्ष्महे ।।"
इत्यात्राप्यपह्नवपूर्वक आरोपः । अपह्नवस्ति परपक्षोपन्यासादर्थसिद्धः ।
"विकसदमरनारीनेत्रनीलाब्जषण्डा -
न्यधिवसति सदा यः संयमाधःकृतानि ।
न तु रुचिरकलापे वर्तते यो मयूरे
वितरति स कुमारो ब्रझचर्यश्रियं वः ।।"
अत्र आरोपपूर्वकोऽपह्नवः शाब्दः ।
"मन्थानभूमिधरमूलशिलासहस्त्र-
सङ्घट्टनव्रणकिणः स्फरतीन्दुमध्ये ।
छायामृगश्शशक इत्यतिपामरोक्तिः
*लोके गतानुगतिकः प्रथितः प्रवादः ।।"
अत्राप्यारोपपूर्वकोऽपह्नवः । स च पामरवचनोपन्यासादर्थसिद्धः । एतानि वाक्यभेदेनोदाहरणानि ।
"बत! सखि, कियदेतत्पश्य वैरं स्मरस्य
प्रियविरहकृशेऽस्मिन्कामिलोके तथा हि ।
उपवनसहकारोद्भासिभृङ्गच्छलेन
प्रतिविशिखमनेनोट्टङ्कितं कालकूटम् ।।"
"अमुष्मँल्लावण्यामृतस्रसि नूनं मृगदृशः
स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः ।
यदङ्गाङ्गाराणां प्रशमपिशुना नाभिकुहरे
शिखा धूमस्येयं परिणमति रोमावलिवपुः ।।"
पूर्वत्र न सभृङ्गाणि सहकाराणि, अपि चु सकालकूटाः शरा इत्यसत्यत्वाभिधायिच्छलशब्दवशात्प्रतीयते । उत्तरत्र नेयं रोमावलिः किन्तु धूमशिखेति असत्यत्वपर्यवसायिवपुश्शब्दबलात्प्रतीयते ।
केचित्तु सादृश्यव्यक्तयेऽपह्नववत्, अपह्नवाय सादृश्यमप्यपह्नुत्यलङ्कारं वदन्ति । यथाहुः-
"सादृश्यव्यक्तये यत्रापह्नवोऽसावपह्नुतिः ।
अपह्नवाय सादृश्यं यत्रास्त्येषाप्यपह्नुतिः ।।" इति ।
अदाहरन्ति च-
"आकृष्यादावमन्दग्रहमकचयं वक्त्रमासज्य वक्त्रे
कण्ठे लग्नस्वकण्ठः प्रसरति कुचयोर्दत्तगाढाङ्कसङ्गः ।
बद्धासक्तिर्नितम्बे पतति चरणयोर्यस्स तादृक्प्रियो मे
बाले, लज्जा निरस्ता नहि नहि सरले चोलकः किं त्रपाकृत् ।।"
अत्र विवक्षितं प्रियमपह्नुत्य चोलकत्वारोपः । तदर्थञ्च प्राक् प्रियचेलसदृशधर्मेपन्यासः । अत्रेदमपह्नुतिकथनं व्याजोक्त्यलङ्कारं पृथगनङ्गीकुर्वताद्भटादीनां मतमनुसृत्य । ये तु उद्भिन्नवस्तुनिगूहनं व्योजोक्तिरिति व्याजोक्त्यलङ्कारं पृथगिच्छन्ति तेषामिहापि व्याजोक्तिरेव; नापह्नितिरिति रुचकादयः । दण्डी त्वपह्नुतेः साधर्म्यमूलत्वनियममनादृत्य `किञ्चिदपह्नित्य कस्यचित्प्रदर्शनमात्रमपह्नुतिः' इति लक्षयित्वोदाजहार-
"अपह्नुतिरपह्नुत्य किञ्चिदन्यार्थसूचनम् ।
न पञ्चेषुः स्मरस्तस्य सहस्त्रं पत्त्रिणामिति ।।"
"चन्दनं चन्द्रिका मन्दो गन्धवाहश्च दक्षिणः ।
सेयमग्निमयी सृष्यिर्मयि शीता परान्प्रति ।।"
"अमृतस्यन्तिकिरणश्चन्द्रमा नामतो मतः ।
अन्यएवाऽयमर्थात्मा विषनिष्यन्दिदीधितिः ।।"
साधर्म्यमूला त्वपह्नुतिः उपमापह्नुतिरिति तेन व्याहृता ।
अपह्नुतिध्वनिर्यथा-
"त्वदालेख्ये कौतूहलतरलतन्वीविरचिते
विधायैकं चक्रं रचयति सुपर्णासुतमपि ।
अथ स्विद्यत्पाणिस्त्वरितमपमृज्यैतदपरा
करे पौष्पं चापं मकरमुपरिष्टाच्च लिखति ।।"
इत्यादौ अपह्नुतिध्वनिरुदाहर्तव्यः अत्र हि चक्रसुपर्णासुतलेखनेन नायं साधारणः पुरुषः किन्तु पुण्डरीकाक्ष इति कयाचिव्द्यञ्जितम् । अन्यया तु तस्याप्येतादृशं रूपं न सम्भवतीत्याशयेन नायं पुण्डरीकाक्षोऽपि, किन्तु मन्मथ इति तदुभयमुन्मृज्य पुष्पसायकममकरध्वजलेखनेन व्यञ्जितम् ।
इत्यपह्नुतिप्रकरणम्
*******
अथ उत्प्रेक्षालङ्कारः
यत्रान्यधर्मसम्बन्दादन्यत्वेनोपतर्कितम् ।
प्रकृतं हि भवेत्प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ।।
यथा-
"बालेन्दुवक्राण्यविकासभावाद्बभुः पलाशान्यतिलोहितानि ।
सदायो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ।।"
अत्र प्रकृतानि पलाशमुकुलानि अप्रकृतनखक्षतधर्मवक्रत्वलौहित्यसम्बन्धान्नखक्षतत्वेन उपतर्कितानि । तर्कः संभावनामात्रं न त्ववधारणम् । तदीयधर्मे हि तत्तादात्म्यम्भावनामात्रहेतुर्न व्याप्तिपक्षधर्मतावल्लिङ्गवदवधारणहेतुः । न चात्र इवशब्दस्य सादृस्यपरत्वमिति उपमाशङ्का कार्या । उपमाया यत्र क्कचित्स्थितैरपि नखक्षतैः सह वक्तुं शक्यतया, वसन्तनायकसमागतवनस्थलीसम्बन्धित्वविशेषणकल्पनानपेक्षत्वात् । पलाशमुकुलानां नखक्षततादात्म्यसम्भावनायामेव तताविधविशेषणस्योपयुक्तत्वात् । एवमन्यत्रापि यत्र यत्राप्रकृततादात्म्यसम्भावनोपयुक्तविशेषणकल्पना तत्र सर्वत्रापि उत्प्रेक्षावगन्तन्या । यथा-
"उवाह या तनुलता भृङ्गालीरोमवल्लरीम् ।
पश्चाद्विमुक्तां वैमल्याद्बिम्बितामिव वेणिकाम् ।।"
उपमा यत्र क्कचित्स्तितयाऽपि वेणिकया वक्तुं शक्येति तत्रानुपयुक्ता वैमल्यात् पुरोभगप्रतिबिम्बितत्वरूपविशेषणकल्पना तादात्म्यसम्भावनार्था । यत्र तु सम्भावनोपयिक्तविशेषणकल्पनारहितमुपमानं निबध्यते तत्र परमिवशब्दः सादृश्यपर इत्युपमालङ्कारः । अमुमेव विभागमभिप्रेत्य चक्रवर्तिनोक्तम्- `यद्यमुपमानांशो लोकतः सिद्दिमृच्छति' इत्यादि । दण्डिनापीवशब्दस्य उत्प्रेक्षाव्यञ्जकत्वमुक्तम् ।
"मन्यो शङ्के प्रयो नूनमित्येवमादिभिः ।
उत्प्रेक्षा व्यज्यते शब्दोऽपि तादृशः ।।" इति ।
अत्रादिशब्देन तर्कयामि, सम्भावयमि, जाने, उत्प्रेक्षे, स्यात् इत्येवमादीनां सङ्ग्रहः । अत्र च-
"कस्तूरिकामृगाणामण्डाद्गन्धगुणमखिलमादाय ।
यदि पुनरहं विधिः स्यां खलजिह्वायां निवेशयिष्यामि ।।"
"यद्यनुष्णो भवेद्वह्निर्यद्यशीतं भवेज्जलम् ।
णन्ये दृढव्रतो रामस्तदा स्यादप्यसत्यवाक् ।।"
इत्यादिष्वतुव्याप्तिवारणाय धर्मसम्बन्दादित्युक्तम् । तेषु हि `यद्यर्थोक्तौ च कल्पनम्' इत्यातिशयोक्त्यलङ्कारविषयेषु, `सम्भावनं यदीत्थं स्यादित्यूहोऽन्यस्ये' इति सम्भावनालङ्कासरविषयेषु वा निर्निमित्तमेव तथा उपर्कणम् । तथापि-
"सर्वातिशायि सौन्दर्यं शङ्के सत्यवतो मुखम् ।
येन सा मृगशाबाक्षी सावित्री तरमीकृता ।।"
इत्यादिण्वतिव्याप्तिः स्यादिति तद्वारणाय अन्यधर्मसम्बन्धादित्युक्तम् । तत्र सावित्रीहृदयतरलीभावकारकत्वादिना स्वधर्मेणैव वितर्कणमिति नातिव्याप्तिः ।
"विरक्तसन्ध्याकपिशं पुरस्ताद्यतो रजः पर्थिवमुज्जिहीते ।
शङ्के हनमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतस्ससैन्यः ।।"
इत्यत्र अतिव्याप्तिवारणाय अन्यत्वेनेति विशेषणम् । तत्र ससैन्ये प्रत्युद्गन्तरि अन्यत्रापि दृष्टस्य अग्रे रजोगमनस्य सम्बन्देन निमित्तेन भरतः प्रत्युद्गतत्वेन वस्तुसद्रूपेणैव उपतर्कितो न त्वन्यत्वेनेति नातिव्याप्तिः ।
"नरसिंह, महीपाल, विझस्त्वां मकरध्वजम् ।
मार्गणास्तव सञ्जाताः कथं सुमनसोऽन्यथा ।।"
इत्यत्रातिव्याप्तिवारणाय उपतर्कितमित्युक्तम् । तत्रानुमानालङ्कारविषये सुमनोमार्गणत्वेन मन्मथत्वव्याप्तलिङ्गेन राज्ञि मन्मथत्वमवधृतं न सम्भावनामात्रम् ।
"इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव
प्रम्लानारुमिमेव विद्रुमलता श्यामेव हेमप्रभा ।
कार्कश्यं कलयामि कोकिलवधूकण्ठेष्विव प्रस्तुतं
सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव ।।"
इत्यत्रातिव्याप्तिव्रणाय प्रकृतमित्युक्तम् । तत्र निरतिशयसौन्दर्यसीत्वदनादिसन्निधानेन तद्वदनाद्युपमानेष्वपि निकर्षापादकेन इन्द्वादिष्वप्रकृतेषु अञ्जनलेपादिनिकर्षसम्भावना क्रियत इति नातिव्याप्तिः । नन्वेवमपि -
'अस्मद्विक्रमचेष्यितानि निखिलत्रैलोक्यहेलाजय-
प्रह्वीभूतसुरासुराणि भवतो भूमेः सुता शृण्वती ।
पत्यौ द्वेषकषायितेन मनसा स्निग्धा मयि स्थास्यति
स्त्रीणां प्रेम यदुत्तरोत्तरगुणग्रामस्पृहाचञ्जलम् ।।"
इत्यत्र चाञ्चल्यसहचरितत्वेन अन्यत्र दृष्टर्त्रीत्वस्य सम्बन्धेन वस्तुतः पत्येकस्थिरचित्ता देवी सीता चञ्चलत्वेनोपतर्किता । न च तत्रोत्प्रेक्षालङ्कारः । रावणकृततदीप्सितसङ्घटनानुकूलविचारमात्रस्य निबद्धत्वेन विच्छित्तिविशेषाभावात् । न च, अन्यधर्मसम्बन्धादित्यत्र धर्म उपमायामिव सहृदयहृदयाह्लादी विव क्षितः, न तु साधारणधर्ममात्रम् । तथा च नोोक्तातिव्याप्तिः स्त्रीत्वादेश्चल्यादिसम्भावनामात्रप्रयोजकत्वेऽपि सहृदयहृदयाह्लादिसाधारणधर्मत्वाभावेन उत्प्रेक्षालङअकारप्रयोजकत्वाभावादिति वाच्यम् । तथा सति-
"स्तनाभिरामस्तबकां नूनं सीतेतित वल्लरीम् ।
सम्भावयन्रघुपतिर्धावति स्म दिदृक्षया ।।"
इत्यत्रातिव्याप्तेरवरणात् । न चाऽऽहार्यत्वं तर्कविशेषणम् । इह त्वनाहार्या सम्भावनेति वाच्यम् । तथा सति `शङ्के हनमत्कथितप्रवृत्तिः' इति सम्भावनाया अप्यनाहार्यत्वेन तद्व्यावृत्त्यर्थस्य अन्यत्वेनेत्यस्य वैयर्थ्यप्रसङ्गादिति चेत्, मैवम् । अन्यत्वेनेत्यस्य णन्यत्वेनावगतपरतया तस्यैव आहार्यत्वविशेषणपर्यवसायित्वात् ।
ननु तथापि नैतल्लक्षणम्, अव्याप्तेः तथा हि; यत्र स्वमात्रधर्मादन्यमात्रधर्माद्वा किञ्चिदुत्प्रेक्ष्यते, तत्रान्यधर्मसम्बन्धादिति लक्षणांशाभावादव्याप्तिः । यथा -
"अङ्गिलीभिरिव केशसञ्चयं संनियम्य तिमिरं मरीचिभिः ।
कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ।।"
"भूयस्तराणि यदमूनि तमस्विनीषु
ज्योत्स्नीषु च प्रविरलानि ततः प्रतीमः ।
सन्ध्यानलेन भृशमम्बरमूषिकाया-
मावर्तितैरुडुभिरेव कृतोऽयमिन्दुः ।।"
इत्यत्राद्योदाहरणेऽङ्गुलीसदृशीभिर्मरीचिभिः केशसञ्चयसदृशस्य तिमिरस्य ग्रहणात्स्वमात्रधर्मादेव शशिनश्चुम्बनमुत्प्रेक्षितम् । द्वितीये ताराविरलत्वाविरलत्वरूपेण अन्यमात्रधर्मेण चन्द्रस्य सन्ध्यानलमध्यगाम्बरमूषिकावर्तिततार्निकरनिर्मितत्वमुत्प्रेक्षितम् । किञ्च हेतुफलधर्मस्वरूपोत्प्रेक्षासु अन्यत्वेनेति लक्षणांशाभावादव्याप्तिः । तथा-
"सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्यम् ।
अदृश्यत त्वच्चरणारमिन्दविश्लेषदुःखादिव बद्धमौनम् ।।"
इति हेतूत्प्रेक्षोदाहरणे नूपुरगतेन दुःखिसाधारणेन मौनित्वेन निमित्तेन नूपुरे तद्धेतुभूतदुःखमेव धर्मतयोत्प्रेक्ष्यते, न तु दुःखतादात्म्यम्, दुःखशब्दस्योपरी मतुबाद्यश्रवणात् । एवम्,
"चोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः ।
अद्यापि किं वानुभविष्यतीति व्यपाटयन् द्रष्टुमिवाक्षराणि ।।"
इति फलोत्प्रेक्षोदाहरणे द्रूमगतेन ललाटाक्षरदर्शनप्रवृत्तपुरुषसाधारणेन ललाटपाटनेन निमित्तेन द्रूमाणां तत्फलं ललाटाक्षरदर्शनमुद्देश्यमिति धर्मतयोत्प्रेक्ष्यते, न तु ललाटाक्षरदर्शनप्रवृत्तधर्मितादात्म्यम्, द्रष्टुमित्यस्य धर्मिपर्यन्तत्वाभावात् । तथा -
"पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम् ।
तदादाय करैन्दुर्लिम्पतीव दिगङ्गनाः ।।"
इति धर्मस्वरूपोत्प्रेक्षोदाहरणे समुद्रस्य चन्दनघर्शषणशिलाप्रान्तस्थनीये तटे हर्तस्थनीयतरङगाग्रैः फेनचन्दनप्रेरकत्वेन शशाङअकास्य करैर्दिगङअगनाधवलीकरणेन च प्रतीयम्नेन निमित्तेन तत्कर्तृकं पेषणलेपनमात्रमुत्प्रेक्ष्यते, न तु तयोः पेषणलेपनकर्तृतादात्म्यम् । पिनष्टि लिम्पतीत्याख्यातयोः कर्तृवाचकत्वेऽपि `भावप्रधानमाख्यातम्', इति न्यायेन कर्तृः प्रधानभूतक्रियोपसर्जतस्य अन्यत्रान्वयासम्भवात् । अत एव `लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः' इत्युतप्रेक्षामुदाहृतवता दण्डिनोक्तोदाहरणयोरिवशब्दश्रवणाल्लेपनवर्षणकर्तृभ्यां तमोनभसोरुपमामाशङअक्य -
"कर्ता यद्युपमानं स्यान्यग्भूतोऽयौ क्रियापदे ।
स्वक्रियासाधने व्यग्रो नाऽलमन्यद्व्यपेक्षितुम् ।।"
इति दूषितम् ।
"वृत्तानुपूर्वे च न चातिदीर्घे जङ्घें शुभे सृष्टवतस्तदीये ।
शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवाऽऽस यत्नः ।।"
इत्यत्र निरतिशयलैवण्यशालिजङ्घासृष्ट्यनुमितेन निश्शेषलावण्यकोश्ययेन निमित्तेन विधातुः शेषाङ्गनिर्मणोपयुक्तलावण्योत्पादने यत्नमात्रमुत्प्रेक्ष्यते, न तु तथाभूतयत्नवत्तादात्म्यमिति स्पष्टमेव ।
अपि च अप्रकृतधर्मिकोत्प्रेक्षायां प्रकृतमित्यंशाभावात् अव्याप्तिः । यथा -
"हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा ।
धृतमध्यबिलं विलोक्यते धृतगम्भीरखनीखनीलिम ।।"
अत्र धृतमध्यबिलमिति पदार्थहेतुककाव्यलिङ्गापेक्षयाऽतिशयोक्त्या धृतमध्यरन्ध्राकाशनैल्यत्वेन अध्यनसितो यः कलङ्कस्तद्वत्त्वेन निमित्तेन चन्द्रमण्डलं दमयन्तीवदननिर्माणाय हृतसारत्वेनोत्प्रेक्षितम् । न तु प्रकृतं दमयन्तीवदनमेवोक्तप्रकाराहृतैन्दवसारांशनिर्मितत्वेनोत्प्रेक्षितम् ।
"यब्दालेन्दुकलोच्चयादुपचितैस्सारेरिवोत्पादितं
तत्पश्येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम् ।।"
इत्यत्रेव तथा शब्दान्वयाभावात् । ननु तथा शब्दातोऽन्वयालाभेऽपि `ब्राझणशतं भोज्यताम्' इत्यत्र प्रधानमतिलङ्घ्य उपसर्जने क्रियान्वयपर्यवसानम् सङअख्याया भोजनान्वयायोग्यत्वात्, तथेहापि
प्रधानमिन्दुमण्डलमतिलङ्घ्य उपसर्जने दमयन्दीनदने इन्तुमण्डलाहृतसाराशनिर्मितत्वोत्प्रेक्षार्यवसानं स्यात्, अप्रकृतस्य अवर्णनीयत्वात् इति चेत्, न । अप्रकृतवर्णनस्यपि अप्रस्तुतप्रशंसारूपेण प्रकृतातिशयाधानार्थतया अन्वेतुंं योग्यत्वात् । न च वाच्यं `इन्दुर्लिप्तिः इव' इत्यप्रस्तुतप्रशंसोदाहरणान्तरे इव अत्रापि सम्भावनामात्रमेव नोत्प्रेक्षेति । थत्र सहृदयहृदयाह्लादिनिमित्ताभावेन उत्प्रेक्षासामग्रीपरिपूर्त्यभावात् उत्प्रेक्षाया असम्भवेऽपि अत्र तत्सम्भवादप्रस्तुतप्रशंसया सङ्करोपपत्तेः । तस्मादव्याप्तत्वान्नेदं लक्षणं युक्तमिति चेत्-
अत्र ब्रूमः न तावत् `हृतसारम्' इत्यादावव्याप्तिः । प्रकृतशब्दस्य विषयत्वाभिमतमात्रपरत्वात् । न चैवं `इन्दुर्लिप्त इव' इत्यादावतिव्याप्तिः । तत्र सीतावदनसन्निधाने वस्तुतोऽन्यधर्मत्वे सत्यपि इन्दुगताञ्जनलिप्तत्वसम्भावनायामन्यधर्मत्वस्य अप्रयोजकत्वात्, धर्मस्य सहृदयहृदयाह्लादिनो विवाक्षितत्वाद्वा । अन्यत्वेन इत्यस्य अन्येन प्रकारेण इत्यर्थ इति न हेतुफलधर्मस्वरूपोत्प्रेक्षासु अव्याप्तिः । यत्र धर्मिणिि धर्म्यन्तरं तादात्म्येनोत्प्रेक्ष्यते तत्र धर्म्यन्तरमन्यः प्रकारः । त्र तु कशिचिद्धर्म एव किञ्चित्प्रति हेतुतया फलतया स्वरूपेण वोत्प्रेक्ष्यते तत्र स एव धर्मेऽन्यः प्रकार इति सर्वत्राप्यनुगतेः यद्वा हेतुफलधर्मस्वरूपोोत्प्रेक्षोदाहरणेष्वपि तादात्म्येनैवोत्प्रेक्षा । तथा हि -`सैषा स्थली यत्र विचिन्वता त्वाम्',`चोलस्य यद्भदीतिपलायितस्य' इत्यादिहेतिफलोत्प्रेक्षोोदाहरणयोस्तावद्विश्लेषदुःखललाटाक्षरदर्शनादिधर्मे हेतुतया फलतया वा नोत्प्रेक्ष्यते । किन्तु नूपिद्रूमादिधर्मिकं यन्निश्चलत्वकण्टकसंश्लेषादिनिमित्तकं मौनव्यापाटनादिकं तदेवः दुःखहेतुकमौनललाटाक्षरदर्शनार्थव्यापाटनादितादात्म्येनोत्प्रेक्ष्यते । अवश्यञ्ज द्विविधस्यापि मौनादेस्तादात्म्येनाध्यवसाय आस्थेयः । अन्यथा निश्चलत्वादिहेतिके स्वाभाविकमौनादौ धुःखादेर्हेतुत्वादिनोत्प्रेक्षणमसमञ्जसं स्यात् । अङ्गीकृतश्च `सैषा स्थली' इत्यादौ दिःखादिर्धर्म एव मौनादिहेतुतया नूपुरादिगतत्वेन अत्प्रेक्ष्यत इति वदताप्यलङ्कारसर्वस्वकृता द्विविधस्य मौनादेरभेदाधायवसायः । `हेतूत्प्रेक्षायां यस्य प्रकृ तसम्बन्धिनो धर्मस्य हेतिरुत्प्रेक्ष्यते स धर्मेऽध्यवसायवशादभिन्न उत्प्रेक्षानिमित्तत्वेन आश्रीयते' इत्यादि तद्वचनात् । आवश्यकञ्चान्यत्रापि क्कचित्क्कचित् हेतूत्प्रेक्षादाहरणे निमित्तांशे तादात्म्याध्यवसयाश्रयणम् । यथा-
"उन्मेषं यो मम न सहते जातिवैरी निशाया-
मिन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः ।
नीतश्शान्तिं प्रसभमनया वक्त्रकान्त्येति हर्षा-
ल्लग्ना मन्ये ललिततनु पादयोः रझलक्ष्मीः ।।"
अत्र हेतुतया हर्षेत्प्रेक्षा प्रति तत्फलत्वाभिमतं पादयोः पझलक्ष्म्या लगनं निमत्तिं वाच्यम्, तच्च सरर्वथैवासिद्धम् । अत्रस्तत्र पादयोर्यः स्वाभाविकशोभासम्बन्धः स एव पझलक्ष्मीलनत्वेन अध्यवसितो निमित्तमिति समर्थनीयम् । एवञ्च निमित्तांशे तादात्म्याध्यवसानावश्यम्भावे तत्रैवोत्प्रेक्षाविश्रान्तिरस्तु । न च तत्र निमित्तान्तरमन्वेष्यं स्यादिति वाच्यम् । निश्चलत्वहेतुकमौनस्य दुःखहेतुकमौनत्वेनोत्प्रेक्षायां चरणारविन्दविश्लेषकालभवत्वं निमित्तं, कण्टकसंश्लेषहेतुकव्यापाटनस्य ललाटलिपिदर्शनार्थव्यापाटनत्वेनोत्प्रेक्षायां महाराजोऽद्यैवं कष्टमनुभवति, इतिःपरमपि कियदनिभाव्यमनेनेति जिज्ञासोत्थापकपलायनकालभवत्वं निमित्तमित्यादेः स्पष्टत्वात् ।
अयमेव पक्षो दण्डिनोऽप्यभिमतः । यधाह-
"अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्यवा ।
अन्यथोत्प्रेक्ष्यते यत्र तामुत्प्रेक्षां प्रचक्षते ।।
मध्यन्दिनार्कसन्तप्तः सरसीं गाहते गजः ।
मन्ये मार्तण्डगृझाणि पझान्युद्धर्तुमुद्यतः ।।
स्नातुं पातं बिसान्यत्तुं करिणो जलगाहनम् ।
तद्वैरनिष्क्रयायेति कविनोत्प्रेक्ष्य वर्ण्यते ।।" इति ।
अत्र सन्तापनिवृत्त्यर्थत्वेन अन्यथैव स्थिता किरिणश््चेतनस्य जलगाहनरूपा वृत्तिरन्यथा तद्वैरनिष्क्रयार्थजलावगाहनत्वेन उत्प्रेक्ष्यत इति स्वकृतलक्षणानुसारेणैव योजितम् ।
काव्यप्रकाशिकाकारस्याप्ययमेव पक्षोऽबिमतः तेन हि `सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्' इत्युपमानेनोपमेयस्य तादात्म्यसम्भावनमुत्प्रेक्षालक्षणमभिधाय `उन्मेषं यो मम न सहते' इति तत्रोदाहरणं कृतम् । ततश्च स्वकृतलक्षणानुरोधेन स्वाभाविकी पादशोभैव स्ववैरिजयप्रभवहर्षलग्नपझलक्ष्मीत्वेन उत्प्रेक्ष्यत इत्यभितमिति स्फुटमेव ।
तथा `पिनष्टीव तरङ्गाग्रैः' इतियादिधर्मस्वरूपोत्प्रेक्षोदाहरणेष्वपि प्रेरणादिरूपत्वेन उत्प्रेक्ष्यते । न च प्रेरणादेर्विषयस्य अनुपादानं दोषः; अतिशयोक्ताविव तदुपपत्तेः उत्प्रेक्षाया अध्यवसायगर्भतया तत्र विषयनिगरणस्य उचितच्वाच्च । न च प्रेरणादेर्विषयत्वेन निमित्तत्वाभावे निमित्तान्तरमन्वेष्यं स्यादिति वाच्यम् । प्रेरणस्य पेषणरूपतयोत्प्रेक्षायां प्रन्तगतफेनचन्दनपुञ्जीभवनं निमित्तम् । करव्यापनस्य दिगङ्गनालेपनत्वेन उत्प्रेक्षायां तद्धवलीकरणं निमित्तमिति निमित्तान्तरस्य जागरूकत्वात् ।
`लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः' इत्यादौ व्यापनादि लेपनाद्रूपतया सम्भावितमिति वदता काव्यप्रकाशिकाकारेणपि धर्मस्वरूपोत्प्रेक्षोदाहरणेषु तादात्म्योत्प्रेक्षणपक्ष एवाश्रितः ।
एवं `चुम्बतीव रजनीमुखं शशी' इत्यादावपि रजन्या वदनत्वेनाध्यवसितं यदारम्भाख्यं मुखं तस्य शशिनश्च सम्बन्धश्चुम्बनत्वेनोत्प्रेक्ष्यते । `वृत्तानुपूर्वे च' इत्यत्र अयत्नपूर्वके शेषाङ््गनिर्माणे यत्नपूर्वकतत्तादात्म्योत्प्रेक्षा इत्याद्यूझम् ।
अन्यधर्मेऽनुगामितयैव न विवक्षितः, किन्तूपमायां साधारणधर्म इव बिम्बप्रतिबिम्बभावादिभिः सर्वैरपि प्रकारैर्विवक्षितः ।
तथा च यथा -
"आवर्जिता किञ्चिदिव स्तनाभ्यां वासो वसाना तरूणार्करागम् ।
पर्याप्तपुष्पस्तबकावनम्रा सञ्चारिणी पल्लविता लतेव ।।"
इत्यत्र बिम्बप्रतिबिम्बभीवकृताभेदाध्यवसायेन ।
"तारुण्यकुञ्जारारूढां विलासकमलालयाम् ।
मूर्तामिव मनोजस्य त्रैलोक्यविजयश्रियम् ।।"
इत्यत्र समासभेदाश्रयणकृताभेदाध्यवसायेन च धर्मस्य प्रकृताप्रकृतसाधारण्यादन्यधर्मसम्बन्धः । तथा- `अङ्गुलीभिरिव' इत्यत्र अन्वयभेदकृताभेदाध्यवसायेन धर्मस्य प्रकृताप्रकृतासाधारण्यादन्यधर्मसम्बन्धः सुसम्पाद इति न तत्राव्याप्तिः नापि `भूयस्तराणि' इत्यत्राव्याप्तिः । तत्रोपात्तधर्मक्षिप्तधर्मान्तरसम्बन्धस्य निमित्तत्वात् । तत्र हि चन्द्ररूपविषयगतसन्ध्यानलमध्यगाम्बरमूषिकावर्तितारानिकरनिर्मितत्वोत्प्रक्षायां तारागतेन तत्तद्रात्रिषु विरलत्वाविरलत्वरूपेण उपात्तधर्मेण निमित्तदेन धर्मस्य चन्द्रगतस्य तद्विरलत्वाविरलत्वानुविधायिवृद्धिह्रासशालित्वस्याक्षेपः ।
अयञ्चापरोऽपि विशेषः । अन्यधर्मसम्बन्धादित्यन्यपदार्थे धर्म्युत्प्रेक्षसु तु विषयिणो धर्मस्याश्रयः । एवं स्थिते यत्र्नुपात्तो निमित्तभूतो धर्मस्तत्र सर्वत्रापि यो धर्मोऽन्यपदार्थस्य विषयस्य च सम्बन्दितया सम्भावनापदवीमारोहति तताभूतोऽन्वेष्यः तत्र `वर्षतीवाञ्जनंं नभः' इत्यत्र नभोगतत्वेन वर्षणक्रियोत्प्रेक्षापक्षे नभसो भूपर्यन्तगामिनीलिव्यप्तत्वमञ्जनवर्षकसाधारणं निमित्तम् । तमसो व्यापने नभःकर्तृकाञ्जनवर्षणक्रियात्वोत्प्रेक्षे तु सकलवस्तुसान्द्रमलिनीकरणादि । एवं `वेलेव रागसागरस्य' इत्यादौ संक्षोभकारितवादि गम्यं निमित्तमूहनीयम् । यत्र तु निमित्ततया धर्मस्योपादाने सत्यपि तत्सम्बन्धो विषयस्यान्यपदार्थस्य वाञ्जसा न प्रतीयते तत्र क्कचिन्निमित्तभूतधर्मादन्यस्य तस्यचिद्दर्मस्य तत्ताद्रूप्यम्पादनेन तत्सम्बन्धः समर्थनीयः; क्कचिद्विषयस्य वा, अन्यपदार्थस्य वा, तद्धर्माश्रयताद्रूप्यसम्पादनेन; क्कचिन्मिलितेन तेनोभयेन, क्कचिदुपात्तधर्मकृतधर्मान्तराक्षेपेण । तत्र धर्मान्तरस्य निमित्तताद्रूप्यसम्पादनुमुपमायां धर्मस्य साधारण्यसम्पादनमिव बिम्बप्रतिबिम्बभावादिभिः प्रकारैः । ते च प्रदर्शिताः ।
एवं विषयस्य अन्यपदार्थस्य वा धर्माश्रयताद्रूप्यसम्पादनं श्लेषादिभङ्ग्या । तत्र विषयस्य श्लेषेण धर्माश्रयताद्रूप्यम्पादनं यथा-
"अस्यां मुनीनामपि मोहमूहे भृगुर्महान्यत्कुचशैलशीली ।
नानारदाह्लादि मुखं श्रितोरुर्व्यासो महाभारतसर्गयोग्यः ।।"
अत्र भृग्वादिमुनिरूपविषयगतदमयन्तीगोचरमोहोत्प्रेक्षायां यदेव तत्कुचपरिशीलनादि निमित्तं न तद्विषयगतं किन्तु तटादिगतम् । तस्य भृग्वादिशब्दश्लेषेण विषयगततानिर्वाहः । अपह्नुत्या यथा -
"किंशुकव्यपदेशेन तरुमारुझ सर्वतः ।
दग्धादग्धामरण्यानीं पश्यतीव विभावसुः ।।"
अत्र दावानलरूपविषयगतदग्धादग्धवनप्रदर्शनक्रियोत्प्रेक्षायां तरुसमारोहणं निमित्तम् । तदपि न विषयगतम्, किन्तु किंशुकपुष्पगतम् । तत्रापि यद्यपि मुख्यं समारोहणं न्स्ति तथापि तदीयं तरुसमाश्रयणमेव तदारोहणत्वेनाध्यवसितम्, ततश्च तत्रापह्नुत्या विषयस्य किंशुकपुष्पताद्रूप्यसम्पादनेन धर्मसम्बन्धनिर्वाहः ।
अन्यपदार्थस्य श्लेषेण धर्माश्रयताद्रूप्यसम्पादनं यथा-
"अस्या दौहृदशालिन्या मुखमापाण्डुरप्रभम् ।
सत्यं राजेति मन्येऽद्य यद् भुवं भोक्तुमिच्छति ।।"
अत्र मुखस्य चन्द्रत्प्रेक्षायां भुवं भोक्तुमभिलाषो निमित्तम् । तद्विषयगतमपि नान्यपदार्थभूतचन्द्रगतम् । अतस्तत्र राजशब्दश्लेषेण चन्द्रस्य धर्माश्रयताद्रूप्यसम्पादनेन धर्मस्य तदीयतानिर्वाङः ।
धर्मन्तरस्य निमित्तधर्मताद्रूप्यसम्पादनं, विषयस्य तद्धर्माश्रयताद्रूप्यसम्पादनं चेति उभयमेलनं यथा-
"आकृष्टिवेगविगलद्भुजगेन्द्रभोग-
निर्मेकपट्टपरिवेषतयाम्बुराशेः ।
मन्थव्यथाव्युपशमार्थमिवाशु यस्य
मन्दकिनी चिरमवेष्टत पादमूले ।।"
अत्र मन्दाकिनीरूपनिषयगतपयोधिमन्थव्यथाव्युपशमरूफलोत्प्रेक्षायां यन्निमित्तं चरणमूले वेष्टनं,तत्तादात्म्यसम्पादनं प्रत्यन्तपर्वतमूलवेष्टनस्य श्लेषेण, विषयस्य तद्धर्माश्रयताद्रूप्यसम्पादनमपह्नुत्या, प्रत्यन्तवेष्टनरूपस्य, उक्तस्य धर्मस्य आश्रयो निर्मोकः, तस्यापह्नुतिः व्याजार्थकपरिवेषपदेन चेति मिलितेनोभयेन विषयस्य अन्यधर्मसम्बन्धनिर्वाहः । उपात्तधर्मेण धर्मान्तराक्षेपस्तु दर्शित एव । तस्मात् अन्यधर्मसम्बन्धात् इत्येतदपि सर्वोत्प्रेक्षानुगतमिति न क्कापि अव्याप्तमिति सर्वं समञ्जसम् ।
अलङ्कारसर्वकृता इत्थमस्य विभागः प्रदर्शितः । वाच्या प्रतीयमाना चेती तावदुत्प्रेक्षा द्विविधा । इवादिप्रयोगे वाच्या । तदप्रयोगे प्रतीयमाना । तत्र वाच्या जातिगुणक्रियाद्रव्यणामप्रकृतानामध्यवसेयत्वेन यतुर्विधा । तेषाञ्च प्रत्येकं भावाभावाभिमानरूपतया द्वैविध्येनाष्टविधा । तेषु निमित्तस्य गुणक्रियारूपत्वेन षोढश भेदाः निमित्तस्य पुनरुपीदीनीनुपीदीनीभ्यां द्वात्रिंशत्प्रकाराः । तेषु पुनः प्रत्येकं स्वरूपहेतुफलोत्प्रेक्षाारूपत्वेन षण्णवतिर्भेदाः । तत्र स्वरूपोत्प्रेक्षणमेवेति हेतुफलोत्पेक्षास्ततः पातनीयाः । ततः षोडशभेदा न्यूनाः । जात्यादीनामपि हेतुफलोोत्प्रेक्षयोर्निमित्तस्य अनुपादानं न सम्भवति; ततश्चतुर्विंशतिर्भेदा न्यूनाः तथा च स्वरूपोत्प्रेक्षा अवैकल्येन द्वात्रिंशद्भेदा । हेतुफलोत्प्रेक्षे प्रत्येकं द्वादशभेद इति षटेपञ्चाशदभेदा वाच्योत्प्रेक्षा । प्रतीयमानोत्प्रेक्षायामप्येवमेव गणना । तत्र स्वरूपोक्षायामपि निमित्तानुपादानं न सम्भवतीति भेदः । ततश्च तत्र स्वरूपोत्प्रेक्षा षोडशभेदा, हेतुफलोत्प्रेक्षे पूर्ववद्द्वादशभेदे इति चत्वारिंशद्भेदा गम्योत्प्रेक्षा । एवमेव मिलित्वा षण्णवतिभेदा अत्प्रेक्षेति ।
विद्यानाथेन पुनर्द्रव्यस्य हेतुफलोत्प्रेक्षणमप्यङ्गीकृत्य अनुपात्तनित्तेषु गम्यस््य निमित्तस्य गुणक्रियारूपत्वेन भेदगणनमजातपुत्रनामकरणकल्पं न चारुत्वावहमिति तदनादृत्य अन्यथा विभागो दर्शितः । वाच्यायां स्वरूपोोोत्प्रेक्षा चतुर्विंशतेभेदा, अनुपात्तनिमित्तायां गुणक्रियारूपभेदगणनाभावेन भेदाष्टकह्रासात् . हेतुफलोत्प्रेक्षे प्रत्येकं भेदानामाधिक्यात् । एवं षट्पञ्चाशद्भेदा वाच्योत्प्रेक्षा । प्रतीयमानायां पुनः स्वरूपोत्प्रेक्षापि षोडशप्रकारा तत्र निमित्तनुपादान्सम्भवेन तन्निबन्धनभेदाष्टकह्रासात् । ततश्च अष्टचत्वारिंशद्भेदा प्रतीयमानोत्प्रेक्षा । एवं मिलित्वां चतुरुत्तरशतभेदोत्प्रेक्षेति ।
अथोदाहरणानि दिङ्मात्रेण प्रदर्श्यन्ते । उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा-
"स वः पायादिन्दुर्नवबिलताकोटिकुटिलः
स्मरारेर्ये मूर्ध्नि ज्वलनकपिशे भाति निहितः ।
स्त्रन्मन्दकिन्याः प्रतिदिवससिक्तेन पयस
कपालेनोन्मुक्तः स्फटिकधवलेनाङ्ळुर इव ।।"
अत्राङ्कुरशब्दस्य जातिशब्दत्वाज्जातिरुत्प्रेक्ष्यते । उपात्तः कौटिल्यगुणो निमित्तम् । एवमुपात्तक्रियानिमित्तापि जातिभावस्वरूपोत्प्रेक्षा उदाहर्तव्या ।
अपात्तक्रियानिमित्तगुणभावस्वरूपोत्प्रेक्षा यथा -
"निवेशितं यावकरागदीप्तये लग्नं तदीयीधरसीम्नि सिक्थकम् ।
रराज तत्रेव निवस्तुमुत्सुकं मधूनि निर्धूय सुधासधर्मिणि ।।"
अत्र औत्सुक्यं गुण उत्प्रेक्ष्यते . उपात्ता लगनक्रिया निमित्तम् । एवमुपात्तगुणनिमित्तापि गुणभावस्वरूपोत्प्रेक्षा उदाहर्तव्या ।
उपात्तगुणनिमित्तक्रियाभावस्वरूपोत्प्रेक्षा यथा-
"अथ सान्ध्यसान्द्रकिरणारुणितं हरिहेतिहूतिमिथुनं पततोः ।
पृथगुत्पपात विरङार्तिदलद्धृदयस्त्रुतासृगनुलिप्तमव ।।"
अत्र रुधिरानुलंपनक्रियोतप्रेक्ष्यते । उपात्त आरुण्यगुणो निमित्तम् । एवमुपात्तक्रियानिमित्तापि क्रियाभावस्वरूपोत्प्रेक्षा उदार्तव्या ।
उपात्तक्रियानिमित्तद्रव्यभावरूपोत्प्रेक्षा यथा-
"एकैकमद्भुतगुणं धुतदूषणञ्च
हित्वान्यमुपगम्य परित्यजन्तीम् ।
एनां जगाद जगदर्चितपादपझा
पझामिवाच्युतभुजान्तरविच्युतां सा ।।"
अत्र पझाया एकतया द्रव्यत्वाद्द्रव्यमुत्प्रेक्ष्यते । उपात्ता उपगम्यपिरित्यजनक्रिया निमित्तम् । एवमुपात्तगुणनिमित्तद्रव्यभावस्यरूपोत्प्रेक्षा उदाहर्तव्या । एवं भावाभिमानेषु जात्यादिषूपात्तनिमित्ता अष्टौ भेदाः सम्पन्नाः ।
अनुपात्तनिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा-
"वर्षातपानावरणं चिराय काष्ठौघमालम्ब्य समुत्थितेषु ।
बालेषु ताराकवकेष्विहैकं विकस्वरीभूतमवैमि चन्द्रम् ।।"
अत्र कवकजातिरुत्प्रेक्ष्यते । अनुपात्तो धावल्यवर्तुलत्वादिर्गुणो निमित्तम् ।
अनुपात्तनिमित्तगुणभावस्वरूपोत्प्रेक्षा यथा-
"अयमाभाति राजेन्द्रो विजिताखिलशात्रवः ।
अनुजीविषु सर्वेषु प्रसाद इव मूर्तिमान् ।।"
अत्र प्रसादो गुण उत्प्रेक्ष्यते । अनुपात्तं बहुप्रदत्वसुखनिषेव्यत्वादि निमित्तम् ।
अनुपात्तनिमित्तक्रियाभावोत्प्रेक्षा यथा-
"लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुसेवेव दृष्टिर्निष्फलतां गाता ।।"
अत्र क्रियोत्प्रेक्ष्यते । अनुपात्तं व्यापनादि निमित्तम् ।
अनुपात्तनिमित्तद्रव्यभावोत्प्रेक्षा यथा-
"देहस्था दर्पणे यस्य पश्यति प्रतिमामुमा ।
अन्यार्धाभ्यामिवोत्पन्नमर्धनारीश्वरान्तरम् ।।"
अत्र अर्धान्तरोत्पन्नार्धनारीश्वरान्तरद्रव्यमुत्प्रेक्ष्यते । प्रतिबिम्बगतं व्यत्यस्तभगस्त्रीपुरुषाकाशालित्वमनुपात्तं निमित्तम् । अर्धनारीश्वरान्तरोत्प्रेक्षायामपि वस्तुतोऽर्धनारीश्वरस्य एकत्वात् द्रव्योत्प्रेक्षात्वमविरुद्धम् । यथा वा-
"विललास जलाशयोदरे क्कचन द्यौरनुबिम्बितेव या ।
परिखाकपटस्फुटस्फुकत्प्रतिबिम्बानवलम्बिताम्बुनि ।।"
अत्र देवपुरीद्रव्यमुत्प्रेक्ष्यते । सौभाग्यातिशयः कुण्डिनपुरीगतोऽनुपात्तो निमित्तम् । एवं चतुर्विधानुपात्तनिमित्ता उदाहृता । अस्यां निमित्तस्य गुणाक्रियारूपभेदमालोच्याष्टविधत्वमूहनीयम् । एवं जात्यद्युत्प्रेक्षा भावाभिमानवत्यः षोडश सम्पन्नाः ।
अथवा व्द्यानाथोक्तप्रकारेण अनुपात्तनिमित्तगुणक्रियाभेदे न चिन्तनीयः । अनुपात्ते निमित्ते तद्व्यवस्थाया असम्भवात् । यथा- `विललास जलाशयोदरे' इत्यत्र निरतिशयसौभाग्यवत्त्वं गुणो निमित्तमित्यपि वक्तुं शक्यम् । निरतिशयसौभाग्यभागित्वं क्रिया निमित्तमप्यपि । अतो द्वादशैव भेदाः ।
अथ अभावाभिमानवत्यः स्वरूपोत्प्रेक्षाः । उपात्तगुणनिमित्ता जातिगुणाक्रियाणामभावोत्प्रेक्षा यथा -
"अकुङ्ळुमक्षोदमिवाङ्गमेतदयावकारुण्यमिवाधरं ते ।
अनञ्जनोल्लेखमिवाक्षियुग्मं स्वाभाविकैरेव गुणैरुदीक्षे ।।"
अत्र कुङ्कुमरजोयावकरागाञ्जनोल्लेखनरूपाणां जातिगुणक्रियाणामभावा उत्प्रेक्ष्यन्ते । उपात्ताः स्वाभाविकगौरारुणनीलवर्णा निमित्तम् । एतासु क्रियानिमित्तमप्युदाहार्यम् ।
उपात्तक्रियानिमित्तद्रव्याभावोत्प्रेक्षा यथा-
"भुवि त्वन्मुखमालोक्य पूर्णचन्द्रमिवोदितम् ।
अचन्द्रमिव पश्यामि दिवं शोभाविवर्जनात् ।।"
अत्र चन्द्रस्यद्रव्यस्य अभाव उत्प्रेक्ष्यते । उपात्ता वर्जनक्रिया निमित्तम् । एवुपात्तगुणनिमित्तापि द्रव्याभावोत्प्रेक्षा उदाहार्या । एतावेव श्लेकौ `इदं विशालाक्षि विभावयामि', `पदवीममृतान्धसाम्' इति चतुर्थपादयोः पाठे अनुपात्तनिमित्तजात्याद्यभावोत्प्रेक्षोदाहरणे । एवमभावाभिमानवत्योऽपि स्वरूपोत्प्रेक्षाः पूर्वोक्तरीत्या षोडश द्वादश वेति द्वात्रिंशच्चतुर्विंशतिर्वा स्वरूपोत्प्रेक्षाभेदाः प्रदर्शतप्रायाः ।
एतासु विषयिणः क्कचित्तादात्म्येनाध्यवसायः । यथा-`स वः पायादिन्दुः' इत्यत्र । क्कचित्तुसंसर्गितया यथा- `न्वेशितं यावकरागदीप्तये, इत्यत्र औत्सुक्यस्येत्ययमपि भेदो बोद्दव्यः ।
अथ हेतूत्प्रेक्षा । उपात्तगुणनिमित्ता जातिहेतूत्प्रेक्षा यथा-
"वहतो बहुशैवलक्ष्मतां धृतरुद्रा7मधुव्रतं खगः ।
स नलस्य करं ययौ पुनः सरसः कोकनदभ्रमादिव ।।"
अत्र नलकरप्राप्तिक्रियां प्रति कोकनदभ्रमो हेतुत्वेनोत्प्रेक्ष्यते । सैव प्राप्तिक्रिया निमित्तम् । उत्तरत्रापि हेतूत्प्रेक्षायां सर्वत्र फलमेव निमित्तम् । एवं गुणनिमित्तपि गुणहेतूत्प्रेक्षा द्रष्टव्या।
गुणनिमित्ता क्रियाहेतूत्प्रेक्षा यथा-
"विवस्वताऽनायिषतैव मिश्राः स्वगोसहस्त्रेण समं जनानाम् ।
गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः ।।"
अत्रान्ध्यगुणं प्रति नयनक्रिया हेतुत्वेनोत्प्रेक्ष्यते । एवं क्रियानिमित्तापि क्रियाहेतूत्प्रेक्षा उदाहार्या ।
क्रियानिमित्ता द्रव्यहेतूत्प्रेक्षा यथा-
"हृदयं परिपूतमेव नित्यं विद्ुषस्तस्य विशुद्दकर्मभाजः ।
वियदापगयेव विश्वमूर्तेः प्रवहन्त्या वसतोऽन्तरङ्घ्रपझात् ।।"
अत्र पवनक्रियां प्रति गङ्गाद्रव्यं हेतुत्वेनोत्प्रेक्ष्यते । एवं गुणनिमित्तापि हेतूत्प्रेक्षा उदाहार्या । इत्थं
भावाभिमानवत्यो हेतूत्प्रेक्षा उदाहृताः ।
अथ अभावाभिमानवत्यः -
"रात्रौ रवेर्दिवा चेन्दोरभावादिव स प्रभुः ।
भूमौ प्रतापयशसी सृष्टवान् सततोत्थिते ।।"
"तस्मिन्नस्तङ्गते भानौ विधुस्तस्य पदे कियान् ।
इत्यनादरतो नूनं मीलत्यम्बुरुहाकरः ।।"
"वीणावादनसंरम्भाच्चकम्पे दक्षणः स्तनः ।
अदृष्ट्वेतरं तस्यास्तुम्ब्याभोगतीरोहितम् ।।"
अत्र आद्यश्लोके रविचन्द्रयोर्दतिद्रव्ययोरभावौ हेतुत्वेनोत्प्रेक्ष्येते । द्वितीयतृतीयश्लोकयोरादरदर्शनयोर्गुणक्रिययोरभावौ । सृष्टि-मीलन-कम्पक्रियास्तु निमित्तानि । एवं गुणनिमित्ता अप्यभावहेतूत्प्रेक्षा उदाहार्याः । एवं षोडशभेदा हेतूत्प्रेक्षा दर्शिता ।
अथ फलोत्प्रेक्षाः-
" सौधेषु यत्र मुखभासु मृगेक्षणानां
ज्योत्स्नापहासचतुरासु विसृत्वरीषु ।
चन्द्रस्तदर्थमिव रात्रिषु बम्भ्रमीति
कुर्वन्करप्रसरणान्यधिजालवर्गम् ।।"
"तव निर्वर्णयद्वर्णं स्वर्णं वर्णाय तादृशे ।
त्वत्कोशगेहान्निर्गम्य तीर्थेषु वसति ध्रुवम् ।।"
"रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् ।
उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ।।"
"दुग्धार्णवसहस्त्राय कैलासाचलकोटये ।
नूनं प्रतापरुद्रेण यशो दिक्षु प्रसारितम् ।।"
एषु श्लोकेषु क्रमेण मुखप्रभागौरवर्णपरिवर्तनदुग्धार्मवकैलासरूपाणि जातिगुणक्रियाद्रव्याणि फलत्वेनोत्प्रेक्ष्यन्ते । भ्रमणतीर्थवासप्रस्थानप्रसारणक्रियाः निमित्तानि । एवं गुणनिमित्ता अप्युदाहार्याः ।
अभावाभिमानवत्यः फलोत्प्रेक्षा यथा-
"त्वदाननेन सादृश्यं प्राप्तुकामो निशाकरः ।
कलङ्कपङ्काभावाय नूनं मज्जति सागरे ।।"
"अरण्यवासार्जितबान्धवासु मृगीष्ववैसरण्याः ।
त्रिलिङ्गदेशेश्वरवैरिनार्यः पराङ्गुखा लोचनविभ्रमेषु ।।"
"सीमाद्रिकुञ्जेषु विहारभाजः सिद्धाङ्गनाः कल्पितचन्द्रिकार्घान् ।
श्रीवीररुद्रस्य यशोविलासान् गायन्त्यसंस्प्रष्टुमिवान्धकारम् ।।"
"वीररुद्रनरेन्द्रस्य जयप्रस्थानसम्भवम् ।
रजः पिहितदिग्गोलं निराकाशमिव स्थितम् ।।"
एषु श्लोकेषु पङ्कवैरस्पर्शनाकाशानामभावाः फलत्वेनोत्प्रेक्ष्यन्ते । तेषु पराङ्मुखत्वमेकोगुणः । अन्याः क्रियाः । इत्तं गुणक्रियानिमित्तभेदा उदाहार्याः । एवं फलोत्प्रेक्षाः षोढश दर्शिताः । इति वात्योत्प्रेक्षावर्गः ।
अथ गम्योत्प्रेक्षा दिङ्मात्रेणोदाह्रयन्ते-
"नभसि महसां ध्वान्तध्वाङ्क्षप्रमापणपत्रिणा-
मिह विहरणैः शयैनम्पातां रवेधारयन् ।
शशविशसनत्रासादाशामगाच्चरमां शशी
तदधिगमनात्तारापारावतैरुदडीयत ।।"
अत्र सूर्येण विसृष्टनां ध्वान्तकाकप्रमापणश्येनरूपाणां किरणानां विहरणेन निमित्तेन सूर्यस्य श्येनपातवती मृगयाविहारक्रिया उत्प्रेक्ष्यत इति क्रियास्वरूपोत्प्रेक्षा तावदेका । तस्मात् शशिनस्त्रासः तस्य दिगन्तरगमनं प्रति हेतुत्वेनोत्प्रेक्ष्यत इति हेतूत्प्रेक्षाऽन्या । ततस्तदधिगमस्ताकापारावतानां उड्डयनत्वेनाध्यवसितं तत्तत्स्थानेऽस्फुरणं प्रति हेतुत्वेनोत्प्रेक्ष्यत इत्यपरा च हेतूत्प्रेक्षा । सर्वाशअ्चैता गम्याः; इवाद्यभावात् । एवमन्या अपि स्वयमेव बोध्याः । नूनमादिशब्दविरहेण पूर्वेक्तप्रकारणामुन्नेतुं शक्यत्वात्. प्रागुदाहृतानामेव श्लोकानां नूनमादिशब्दाप्रयोगेण गम्योत्प्रेक्षोदाहरणत्वसम्भवाच्च गम्योत्प्रेक्षाः पृथक् साकल्येन नोदाहृताः ।
इदन्तु चिन्त्यते । गम्योत्प्रेक्षासु जातिद्रव्यस्वरूपोत्प्रेक्षे सम्भवते न वेति । सम्भवत इति पक्षे -
"रुचयोऽस्तमितस्य भास्वतः स्खलिता यत्र निराश्रयाः खलु ।
अनुसायमभुर्विलेपनापणकाश्मीरजपण्यवीथयः ।।"
" परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरः ।
फणिभाषितभाष्यफक्किका विषमा कुण्डलनामवापिता ।।"
इत्यादिनोदाहरणेन भाव्यम् । अभिमतञ्च तथा केषाञ्चित् । अलङ्कारसर्वस्वकारस्य तु न सम्भवत इति पक्षः । एतदभिप्रायेणैव तेनोक्तं गम्योत्प्रेक्षाविभागे `प्रायश्चाऽत्र स्वरूपोत्प्रेक्षा न सम्भवति' इति । कस्तर्झनयोस्तस्य पक्षेऽलङ्कारः ? रूपकमेव । अत एव-
"पीयूषप्रसृतिर्नवा मखभुजां दात्रं तमोलूतये
स्वर्गङ्गाविमनस्कसोकवदनस्त्रस्ता मृणालीलत् ।
द्विर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरीसारसा-
माशातन्तरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुः ।।"
इत्यत्र मालारूपकमुदाहरता `स्वर्गङ्गाविमनस्क' इत्यादिष्वपि रूपकमेवोररीकृतम् । तस्माज्जातिद्रव्योत्प्रेक्षे परिहृत्यैव गम्योत्प्रेक्षावर्गः परिगणनीयः ।
इदञ्चान्यद्बोद्धव्यम् । धर्म्युत्प्रेक्षासु विषयिविषयानुगतो धर्मो, धर्मोत्प्रेक्षासु विषय्याश्रयविषयानुगतो धर्मश्च निमित्तम् । तेन `उवाह या तनुलता' इत्यादौ वैमल्यं निमित्तमित्यादिपक्षो न युक्तः । तस्य तादात्म्यसम्भावनोपयुक्तप्रतिबिम्बत्वघटकस्य तनुधर्मस्य विषयधर्मत्वाभावात् । `यत्रान्यधर्मसम्बन्धात्' इत्यादिलक्षणं वदद्भिः सर्वैरपि विषयिधर्मस्यैव निमित्तत्वस्य व्यवहृतत्वादित्यलमतिविस्तरेण । अत्र ब्रूमः -
"विषयिण उत्प्रेक्षायां जातिगुणाद्यात्मना विभागविधा ।
याऽदर्सि नैव शोभा तयोपमायामिवोपमानस्य ।।
तदभावेऽलङ्काराः सम्भवमात्रेण न विभागम् ।
अर्हन्तीतरथाऽस्या विषयोऽप्येवं विभक्तव्यः ।।
धर्मस्यापि विभागो गुणक्रियात्मा न चारुताहेतुः ।
उपमायामिव, सोऽपि न्यूनस्तदभावयोरसङ्कलनात् ।।
"मनसि सन्कमिव प्रियमीक्षितुं नयनयोः स्पृहयान्तरुपेतयोः ।
ग्रहणशक्तिरभूदिदमीययोरपि न सम्मुखवास्तुनि वस्तुनि ।।
वतंसनीलाम्बुरुहेण किं दृशा विलोकमाने विमनीबभूवतुः ।
अपि श्रुती दर्शनसक्तचेतसां न तेन ते शुश्रुवतुर्मृगीदृशाम् ।।"
इत्यादिषु पश्यामो गुणक्रियाभावयोरपि व्यक्तम् ।
उज्ज्वलभावनिबन्धनमुत्प्रेक्षायां निमित्तत्वम् ।।
अत्र झाद्ये उदाहरणे नयनयोर्हृदयगतप्रियवीक्षणाय अन्तःप्रविष्टत्वोत्प्रेक्षणायां बाझवस्तुग्रहणशक्त्यभावो निमित्तम् । द्वितीये श्रोत्रेन्द्रियगतविलोकनैकाग्रत्वोत्प्रेक्षाया श्रवणक्रियाभावो निमित्तम् । एवम्-
"वीरासनैर्ध्यानजुषामृषीणाममी समध्यासितवेदिमध्याः ।
निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ।।"
इत्यादीन्यभावनिमित्तत्वे भूयांस्युदाहरणानि ।
"अपि च समुच्चयभेदः परिगणनीयो निमित्तेषु ।
भावौ भावाभावौ समुच्चितावपि निमित्ततां भजतः ।।"
"अवैमि हंसावलयो वलक्षास्त्वत्कीर्तिमूर्तेश्चपलाः पुलाकाः ।
उड्डीय युक्तं पतिताः स्त्रवन्तीवेशन्तपूतं परितः प्लवन्ते ।।"
"उडुपरिषदः किं नार्हन्ती निशः किमनौचिती
पतिरिह न यद्दृष्टस्ताभ्यां गणेयरुचीगणः ।
स्फुटमुडुपतेराश्मं वक्षः स्फुरन्मलिनाश्मन-
श्छवि यदनयोर्विच्चेदेऽपि द्रुतं बत न द्रुतम् ।।"
"एवमादिषु बह्वीषु निह्नोतुं केन शक्यते ।
समुच्चितनिमित्तत्वमुत्प्रेक्षासु निरीक्षितम् ।। "
आद्ये उदाहरणे हंसावलीनां कीर्तिपुलाकत्वोत्प्रेक्षायां धावस्यगुणो जयोपरि प्लवनक्रिया चेत्युभयं निमित्तम् । द्वितीये उडुपतिवक्षसोऽश्मविकारत्वोत्प्रेक्षायामश्मच्छविरूपो भावो द्रुतत्वाभावश्चेत्युभयं निमित्तम् । किञ्च-
"उत्प्रेक्षायां निमित्तत्वं यज्जातिद्रव्ययोरपि ।
तेनापि विपुलां विझो निमित्तगणनामिमाम् ।।"
"द्रोणस्य तत्रवितरिष्यति भाग्यलभ्य-
सौभाग्यकार्मणयीमुपदां गिरिस्ते ।
तद्द्वीपदीप इव दीप्तिभिरोषधीनां
चूडामिलज्जलदकज्जलदर्शनीयः ।।"
अत्र बाणासुरसौधस्य दीपत्वोत्प्रेक्षायां तत्प्ररूढौषधिवृक्षदीप्तयः उपरि स्थितं जलदकज्जलं च निमित्तमिति जातेर्निमित्तत्वं दृष्टम् ।
"निशासु मूर्ध्नि स्फुरता यत्सौधो राजतीन्दुना ।
श्रीकण्ठो भक्तरक्षार्थं सन्निधानं भजन्निव ।।"
इत्यत्र बाणासुरसौधस्य शिवरूपोत्प्रेक्षायां मूर्ध्नि स्फुरन्निन्दुर्निमित्तम् । एवम् -
"भास्वताऽलङ्कारेण, श्वेतरोचिषा स्मितेन, लोहितेनाधरेण, सौम्येन दर्शनेन, गुरुणा निकम्बेन, सितेन हारेण, शनैश्चरेण पादेन, विकचेन लोचनोत्पलेन, त्रिभुवनजयकेतुना रूपेण ग्रहमयीमिव ---"
इत्यत्र वासवदत्तायाः सकलग्रहमयत्वोत्प्रेक्षायां श्लेषेण तत्तद्गहरूपापन्नालङ्कारादयो निमित्तमिति जातिक्रियागुणानां समुच्चितानां निमित्तत्वं दृष्टम् । न चोदाहृतेषु दीप्त्यादिसम्बन्धो निमित्तं स च चर्वे गुण एवेति वात्यम् । तथा सति "ईदृक्षांं क्षामतां गतौ" इत्यादावपि गमनादिक्रियासम्बन्ध एव निमित्तमिति क्रियाया अपि अनिमित्तत्वप्रसङ्गात् । न च तथाऽपि भास्वताऽलङ्कारेण इत्यादौ श्लेषेण सीर्यरूपताद्यापन्ना अलङ्कारादयो निमित्तं न त्वविशिष्टा जातिर्द्रव्यञ्चेति वाच्यम् । तता सति `कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव' इत्यादावपि कपालोन्मुक्ताङ्कुरत्वादिविशिष्टत्वमेवोत्प्रेक्षणीयं न त्वविशिष्टं जात्यादितमिति विषयिणोऽपि जात्यादिरूपेण विभागस्य असामञ्जस्यप्रसङ्गात् । तस्माद्विषयिण इव निमित्तस्यापि जात्यादिरूपेण चतुर्विधतया पुनः प्रत्येकं भावाभावाभ्यामष्टविधतया च विभागः कर्तव्य इति न्यून इवायं विभागः । किञ्च-
"यद्धेतूत्प्रेक्षायामनुपादानं निमितितस्य ।
क्कापि न सम्भवतीति प्रतिश्रुतं, तदपि नो चारु ।।"
"मग्ना सुधायां किमु तन्मुखेन्दोर्लग्ना स्थिता तत्कुचयोः किमन्तः ।
चिरेण तन्मध्यममुञ्चताऽस्य दृष्टिः क्रशीयः स्खलनाद्भिया नु ।।"
"इह हेतावुत्प्रेक्ष्ये मज्जनलगने निमित्तमनुपात्तम् ।
तत्कार्यं दृष्टिगतं चिरेण यन्मुखकुचत्यजनम् ।।"
स्यादेतत् । इह मज्जनलगनोत्प्रेक्षयोश्चिरेण मुखकुचत्यागावनुपातौ निमित्ते, तयोश्च मज्जनलगने हेतुत्वयोग्ये इति । सत्यम् । तथापि न हेतूत्प्रेक्षैषा । नहि हेतुभवनक्षमस्य उत्प्रेक्षैव हेतूत्प्रेक्षा, किन्तु, हेतुत्वेनोत्प्रेक्षा । यता- `सैषास्थली यत्र विचिन्वता त्वाम्' इत्यत्र । अत्र हि पञ्चमी हेतुत्वाप्रतिपादिका । तथा-
"कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
अपश्यन्ताविवाऽन्योन्यमीदृक्षां क्षामतां गतौ ।।"
इत्यत्र क्षामतागमनं प्रति परस्परादर्शनस्य हेतुत्वोत्प्रेक्षायां शतृप्रत्ययो हेतुत्वप्रतिपादकः ।
"मदनतापभरेण विदीर्य नो यदुदपाति हृदा दमनस्वसुः ।
निबिडपीनकुचद्वययन्त्रणा तमपराधमधात्प्रतिबध्नती ।।"
इत्यत्र हृदयस्य मदनतापेन स्पुटित्वा उत्पतनाभावे कुचद्वययन्त्रणाया हेतुत्वोत्प्रेक्षायां उत्पतनप्रतिबन्धकत्वपरः प्रतिबध्नतीशब्दः फलतोऽनुत्पतनहेतुत्वप्रतिपादकः । एतादृशेषु च फलस्य निमित्तस्य उपादानं नियतमेव । अन्यथा पञ्चम्यादीनामन्वयस्घटनाभावात् । यत्र हेतुत्वप्रतिपादकः शब्दो नास्ति तत्र हेतूभवनक्षमस्यापि स्वरूपोत्प्रेक्षैव ।
अत एव अलङ्कारसर्वस्वकृता-
"प्राप्याभिषेकमेतस्मिन् प्रतितिष्ठासति द्विषाम् ।
चकम्पे लुप्यमानार्थभयविह्वलितेव भूः ।।"
इत्यत्र विह्वलितत्वस्य उत्प्रेक्ष्यस्य हेतुत्वप्रतिपादरशब्दरहितस्य कम्पं प्रति हेतूभवनक्षमत्वेऽपि स्वरूपोत्प्रेक्षा उदाहृतेति चेत् । मैवम् । एवं हि-
"स्मरसी स्मर, मेखलागुणैरुत गौत्रस्खलितेषु बन्धनम् ।
च्युतकेसरदषितेक्षणान्यवतंसोत्पलताढनानि वा ।।"
इत्यत्र हेतूत्प्रेक्षा सक्ष्या न स्यात् । स्मरणगतहेतुत्वतिपादरशब्दाभावात् । न चेष्टापत्तिः ।
"कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।
किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ।।"
इत्युक्त्यनन्तरं प्रवृस्यास्य श्लोकस्य, अथवा मत्पूर्वकृतापराधरमरणेनैव दर्शनं न दीयते किमिति हेतूत्प्रेक्षापरत्वे एव सामञ्जस्यात् । यदि तु हेतुत्वप्रतिपादकशब्दाभावेऽपि पूर्वापरानुगुण्येनापि हेतूत्प्रेक्षा भवेत् तर्हीहापि तृतीयोत्प्रेक्षासमभिव्याहारात् तस्यां चिरेण मध्यत्यजने शब्दोपात्ते स्खलनभयस्येव आद्योत्प्रेक्षयोरपि निमित्ततया गम्यमाने चिरान्मुखकुचत्यजने मज्जनस्य च हेतुत्वेनोत्प्रेक्षणमित्येव युक्तम् ।
यत्रापि हि फले फलत्वप्रतिपादकशबदः तत्राप्यौचित्येन फलोत्प्रेक्षामनधीर्य हेतूत्प्रेक्षाऽङ्गीकार्या दृश्यते । यथा-
"हृत्तस्य यन्मन्त्रयते रहस्त्वां तद्व्यक्तमामन्त्रयते मुखं यत् ।
तद्वैरिपुष्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मखस्य ।।"
अत्र हि हृदयकृतरहस्यमन्त्रणोद्भेदनप्रत्यवमर्सकेन तच्छबदेन सख्यौचितीशब्दस्य कर्मार्थकष्यञन्तस्य सामानाधिकरण्याच्छब्दतो रहस्योद्भेदनस्य मुकगततद्वैरिमन्मथ- सुहृच्चन्द्रसख्यकार्यत्वं प्रतीयते । तथापि तत्र सख्यस्य रहस्योद्भेदनं प्रति हेतुत्वेनैवोत्प्रेक्षा, न तु रहस्योद्भेदनस्य सख्यफलत्वेन . रहस्योद्भेदनं फलमुद्दीश्य सख्यं कृतमित्युत्प्रेक्षाया असामञ्जस्यात् । हेतुत्वमात्रेण हेतूत्प्रेक्षाया इव तदुद्देशं विना कार्यत्वमात्रेण फलोत्प्रेक्षाया अनिर्वाहात् ।
एवं यत्र हेतौ हेतुत्वप्रतिपादकः शब्दस्तत्रापि क्कचित् औचित्येन हेतूत्प्रेक्षामवधीर्य फलोत्प्रेक्षा अङ्गीकार्या दृश्यते । यथा-
"स्मराशुगीभूय विदर्भसुभ्रूवक्षो यदक्षोभि खलु प्रसूनैः ।
स्त्रजं सृजन्त्या तदशोधि तेषु यत्रैकया सूचिशिखां निखाय ।।"
अत्र निखनने पूर्वकालत्वरूपकारणत्वप्रतिपादकक्त्वाप्रयसद्भावेऽपि न तद्वैरशोधनं प्रति हेतुत्वेनोत्प्रेक्ष्यं किन्तु वैरशोधनार्तं निखननमिति वैरशोधनमेव फलत्वेनोत्प्रेक्ष्यम्, सिद्दासिद्धयोरसिद्धस्योत्प्रेक्षणीयत्वात्; इह तदुद्देशादुत्प्रेक्षणसम्भवाच्च । यथा वा-
"अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः ।
इत्याह धाता हरिणेक्षणायां किं हस्तलेखीकृतया तयाऽस्याम् ।।"
अत्र हस्तलेखीकृतया तया सरोजसृष्ट्येति करणविभक्तिसद्भावेऽपि न सा विधातृकर्तृकसरोजसृष्टिगतहस्तलेखत्वप्रकाशनं प्रति हेतुत्वेनोत्प्रेक्ष्यते, किन्तु तत्प्रेकाशनार्थं सरोजसृष्टेः हस्तलेखीकरणममिति तत्प्रकाशनमेव फलत्वेनोत्प्रेक्ष्यम् । कीं बहुना । यत्र हेतुत्वप्रतिपादकः शब्दस्तस्यैव फलत्वमौचित्येन क्कचिदङ्गीकार्यं दृश्यते यथा-
"स्तनावालोक्य तन्वङ्ग्याः शिरः कम्पयते युवा ।
तयोरन्तरनिर्मग्नां दृष्टिमुत्पाटयन्निव ।।"
अत्र शतुर्हेतौ विधानेऽपि फलस्याप्युद्देश्यतया कथञ्चिद्देतुत्वमित्युपपाद्य फलोत्प्रेक्षाङ्गीकरणीया ।एवञ्च यदा फलत्वादिप्रतिपादवमप्यनादृत्य हेतूत्प्रेक्षादिकमौचित्येनाङ्गीकार्यं तदा किमु वक्तव्यं विरोदिशब्दाभावे औचित्यानुसरणं कार्यमिति । एवमनया दिसा अन्यत्रापि निमित्तानुपादानं सम्भवदूहनीयम् । अपि च -
"यथोपातेतनिमित्तत्वमनुपात्तनुमुत्तता ।
प्रत्येकं वर्तते तद्वत् समुच्चित्यापि दृश्यते ।।"
यथा-
"मुनिद्रुमः कोरकितश्शितिद्युतिर्वनेऽमुनाऽमन्यत सिंहिकासुतः ।
तमिस्त्रपक्षत्रुटिकूटभक्षितं कलाकलापं किल वैधवं वमन् ।।"
अत्र कोरकनिर्गमनविशिष्टस्य मुनिद्रुमस्य विधुकलाकलापवमनविशिष्टराहुरूपत्वे उत्प्रेक्ष्यमाणे विशेष्योत्प्रेक्षानिमित्तमसितवर्णत्वमुपात्तम् । विशषणोत्प्रेक्षानिमित्तन्तु कोरकविधुकलासाधर्म्यादिरूपं नोपात्तम् । यथा वा-
'त्वत्प्राङ्गणे सुन्दर पाण्ड्यदेव मतङ्गजाः शृह्खलिनो विभान्ति ।
आवासदानादरिभूपतुनामाशन्तशैला इव सापराधाः ।।"
अत्र विशेषणभूतसापराधत्वोत्प्रेक्षानिमित्तं शृङ्कलितत्वमुपात्तम्, विशेष्यशैलरूपत्वोत्प्रेक्षानिमित्तमौन्नत्यादिकं नोपात्तम् । यथा वा-
"अजस्त्रभूमितटकुट्टनोत्थितैरुपास्यमानं चरणेषु रेणुभिः ।
रयप्रकर्षाध्ययनार्थमागतैर्जनस्य चेतोभिरिवाणिमाङ्कितैः ।।"
अत्र विशेष्यभूतचेतोरूपत्वोत्प्रेक्षायामणिमाङ्कतैरिति निमित्तमुपात्म् । अध्ययनार्थमागतैरिति तद्विशेषणोत्प्रेक्षायामपि चरणोपासनारूपं निमित्तमुपात्तम् । रयप्रकर्षेत्यध्ययनविशेषणे निमित्तं चेतसां वर्णनीयादश्वादपकृष्टरयत्वं नोपात्तम् । एवमन्त्रापि निमित्तोपादीनानुपादानसमुच्चये उदाहर्तव्यम् । तस्मान्यूनः सतृणाभ्यवहारश्चायं विभागः । अतोऽत्र विषयिणो जात्यादिरूपेणाष्टधा विभागं, धर्मस्य गुणक्रियारूपेण विभागञ्चापहाय विभागान्तरलभ्या यावन्तो भेदास्तावन्त एव चमत्कारिणः ।
स्वरूपहेतुफलोत्प्रेक्षासु तु विधान्तरेणपि णवान्तरभेदाः सम्भवन्ति । यथा-स्वरूत्प्रेक्षा द्विविधाअविशिष्टोत्प्रेक्षा, विशिषटोत्प्रेक्षा च । यत्र विषयिणो विशेषणमुपात्तमपि नोत्प्रेक्षणीयमवगम्यते तद्विषयरूपस्य तन्निमित्तरूपस्य वा विषयविशेषणस्याभावात्, कन्तु तद्विशेषणस्याभावात्, किन्तु तद्विशेषणं विषयिणि विधान्तरेणोपयुज्यते साऽविशिष्टोत्प्रेक्षा । यत्र तु विषयिणो विशेषणमप्युत्प्रेक्षणीयमवगम्यते तद्विषयरूपस्य, तन्निमित्तरूपस्य वा विषयविशेषणस्य उपादानात्सा विशिष्टोत्प्रेक्षा ।
तत्रद्या यथा-
"रतेर्गृहीतानयेन कामं प्रत्यर्पितस्वाङ्गमिवेश्वरेण ।
कातुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ।।"
अत्र मदनरूपत्वोत्प्रेक्षायां मदनाकृतिशिलित्वमस्ति निमित्तम् । अतस्तत्तावदुत्प्रेक्षणीयमवगम्यते । तत्पर्रेत्यर्पणं रत्यनुनयप्रसन्नेन परमेश्वरेण कृतमिति विशेषणांशस्तु नोत्प्रेक्षणीयोऽवगम्यते । तदंशे विषयस्य वाच्यस्य, गम्यस्य वा निमित्त्स्य चाभावात् । किन्तु परमेश्वरदग्धस्य मदनदेहस्य असुरदग्धस्य कचदेहस्य शुक्र इव न कशअचिदन्यः प्रत्यर्पणं कर्तुं शक्नोतीति विषयिणि प्रत्यर्पणोपपादकतया तद्विशेषणमुपयुज्यते इति अविशिष्टोत्प्रेक्षेयम् ।
विशिष्टोत्प्रेक्षा यथा - `मुनिद्रुमः कोरकितश्शितिद्युतिः', त्वत्प्राङ्गणे सुन्दरपाण्ड्यदेव' इत्याद्युदाहरणम् । अत्र आद्योदाहरणे विषयोपादानात् विषयिविशेषणस्य उत्प्रेक्ष्यताऽवगम्यते, द्वितीये निमित्तोपादानात् । हेतुफलोत्प्रेक्षे तु असिद्धयोस्सिद्धयोस्सिद्धयोर्वा हेतुफलभावेन उत्प्रेक्ष्यताऽवागम्यते, द्वितीये निमित्तोपादानात् । हेतुफलोत्प्रेक्षे तु असिद्धयोस्सिद्धयोर्वा हेतुफलभावेन उत्प्रेक्षणीयतया प्रत्येकं द्विविधे । "सैषा स्थली यत्र विचिन्वता त्वाम्", `चोलस्य यद्भीतिपलायितस्य' इत्यादिषु नूपुरकण्टकिद्रुमादावसिद्धयोर्विश्लेषदुःखललाटलिपिदर्शनादिकयोर्हेतुफलभावेन उत्प्रेक्षणीयता ।
"आलोहिततलावेतौ क्षितौ विक्षेपणादिव ।
वर्णयेम कथं तन्व्याः पादौ पल्लवकोमलौ ।।"
"पूरं विधुर्वर्धयितुं पयोधेः शङ्केऽयमेणाङ्कमणिं कियन्ति ।
पयांसि दोग्धि प्रियविप्रयोगात्सशोककोकीनयने कियन्ति ।।"
इत्यदिषु पादचन्द्रादौ स्वतस्तिद्दयोरेव विक्षेपपयोधिवर्धनादिकयोर्हेतुफलभावेनोत्प्रेक्षणीयता । प्रकारान्तरेणापि कतिचिदस्या भेदान् समासोक्तिप्रकरणे दर्शयिष्यामः ।
यतु सर्वस्वकृता वैचित्र्यान्तरमस्या दर्शितम्- `एषा क्कचिद्धर्मविषये श्लिष्टा, क्कचिच्छलादिशब्देन सापह्नवा, क्कचित्पदार्थान्वयवेलायां सादृश्याभिधानात्, उपक्रान्ताप्युपमा वाक्यार्थतात्पर्यसामर्थ्यात् अभिमन्तृव्यापारौचित्यक्रमेण उत्प्रेक्षायां पर्यवस्यतीति उपमोपक्रमा चेति' तत्र धर्मविषये श्लिष्टत्वं किमित्युपन्यस्तम् ? किं धर्मस्य निमित्तता अनुगामितयेव श्लेषेणापि न्र्वाझत इति, किं वा धर्मंशे शुद्धतेव श्लेषेणालङ्कृततापि दृश्यत इति । आद्ये उपमायां साधारणधर्मस्य अनुगामित्वादयो यावन्तो भेदाः सादारण्यनिर्वाहकास्ते सर्वेऽपि उत्प्रेक्षायां धर्मस्य निमित्ततानिर्वाहकाः सम्भवन्तीति न्यूनो विभागः । तथाहि - `बालेन्दुवक्राण्यविकासभावात्' इत्यादौ तावदनुगामित्वं स्पष्टम् । यथा-
"व्यराजत सखे तन्व्या वक्त्रं वलितकन्धरम् ।
लावणयौघजलावृत्तनालदण्डमिवाम्बुजम् ।।"
इत्यत्र वस्तुप्रतिवस्तुभावः । बिम्बप्रतिबिम्बभावादयस्तु प्रागेवोदाहृताः । द्वितीये निमित्तांशे श्लेषेणेव अलङ्कारान्तरेणापि अलङ्कृतता दृश्यते इति न्यूनो विभागः । तथाहि- `अङ्गुलीभिरिव केशसञ्चयम्' इति निमित्ताशे उपमालङ्कारः स्पष्टः ।
"उदरं परिमाति मुष्टिना कुतुकी दमस्वसुः किमु ।
धृततच्चतुरङ्गुलीव यद्वलिभिर्भाति सहेमकाञ्चिभिः ।।"
इत्यत्रोत्प्रेक्षा । अत्र दमयन्त्युदरस्य केनचित्कुतुकिना परिमीयमाणत्वोत्प्रेक्षायां काञ्चीसहितासु वलीष्टु तदीयाङ्गुलित्वोत्प्रेक्षालब्धमुदरगतं तदीयाङ्गुलिचतुष्टयधारणं निमितितम् ।
"अजस्त्रमारोहसि दूरदीर्घां सङ्कल्पसोपानततिं तदीयाम् ।
श्वासान्स वर्षत्यधिकं पुनर्यत् ध्यानात्तव त्वन्मयतामवाप्य ।।"
ित्यत्राऽसङ्गतिः । यतोऽत्र नलस्य दमयन्तीरूपतावात्प्युत्प्रेक्षायां दमयन्तीकेण सोपानारोहणेन नलस्य श्वसवर्षणं निमित्तम् ।
"प्रतीपभूपैरिव किं ततो भिया विरूद्धधर्मैरपि भेत्तृतोज्झिता ।
अमित्त्रजिन्मित्त्रजिदोजसा स यद्विचारदृक्यारदृगप्यवर्तत ।।"
इत्यत्र विरोधाभासः । अत्र हि विरूद्धधर्मगतस्वश्रयभेदकत्वत्यागोत्प्रेक्षायां विरुद्धतयाऽवभासमानधर्माणां नले सहवासो निमित्तम् ।
"ध्रुवमधीतवतीयमधीरतां दयितदूतपतद्रतिवेगतः ।
स्थितिविरोधकरीं द्व्यणुकोदरी, तदुदितः स हि यो यदनन्तरः ।।"
इत्यत्रार्तान्तरन्यासः । यद्यप्यत्र दमयन्तीगतस्य चापलस्य नलदूतहंसपक्षवेगो हेतुत्वेन उत्प्रेक्ष्यते, तथापि तत्र उत्प्रेक्षायाम् अध्ययनफलमात्रं न निमित्तं किन्तु अन्यवेगात्कथमन्यत्र चापलमिति शङ्कावारणाय निभद्धेन `तदुदितः स हि यो यदनन्तरः ' इत्यर्थान्तरन्यासेन उपस्कृतम् । एवम् -
"गौरीव पत्या सुभगा कदाचित् कर्तेयमप्यर्धतनूसमस्याम् ।
इतीव मध्ये विदधे विदाता रोमावलीमेचकसूत्रमस्याः ।।"
इत्यत्रनिमित्तांशे रूपकमित्याद्यूहनीयम् । तस्मादुभयथापि तत्र श्लिष्टत्वमात्रकीर्तनं न्यूनमितरेषामप्युपलक्षणं द्रष्टव्यम् ।
यत्तु सापह्नवत्वे-
"गतासु तीरं तिमिघट्टनेन ससम्भ्रमं पौरविलासिनीषु ।
यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिप्रा ।।"
इति स्वरूपोत्प्रेक्षायामुदाहृतं, तदपि हेतुफलोत्प्रेक्षयोरपि सापह्नवत्वे उपलक्षणं बोोद्धव्यम् । तत्र सापह्नवहेतूत्प्रेक्षा यथा-
"मुग्धस्स मोहात्सुभगान्नदेहाद्ददद्भवद्भूरचनाय चापम् ।
भ्रूभङ्गजेयस्तव यन्मनोभूरनेन रूपेण यदा तदाऽऽसीत् ।।"
अत्र मदनगते मुग्धशब्दवाच्यत्वे वस्तुतो हेतोः सौन्दर्यस्य हेतुत्वमपह्नुत्य नलभ्रूरचनाय स्वचापदानप्रक्तस्य मौढ्यस्य हेतुत्वमुत्प्रेक्षितम् ।
सापह्नवफलोत्प्रेक्षा यथा-
"मुग्धस्समोहात्सुभगान्नदेहाद्ददद्भवद्भूरचनाय चापम् ।
भ्रबभङ्गजेयस्तव यन्मनोभूरनेन रूपेण यदा तदाऽऽसीत् ।।"
अत्र मदनगते मुग्धशब्दवाच्यत्वे वस्तुतो हेतोः सौन्दर्यस्य हेतुत्वमपह्नुत्य नलभ्रूरचनाय स्वचापदानप्रयुक्तस्य मौढ्यस्य हेतुत्वमुत्प्रेक्षितम् ।
सापह्नवफलोत्प्रेक्षा यथा-
"रवितप्तो गजः पझान् तद्गृहान् बाधितुं ध्रुवम् ।
सरो विशति न स्नातुं; गजस्नानं हि निष्फलम् ।।"
अत्र गजस्य सरःप्रवेशं प्रति वस्तुतः फलस्य स्नानस्य फलत्वमपह्नुत्य पझबाधनमत्र फलत्वेनोत्प्रेक्षितम् । न च स्वरूपोत्प्रेक्षायां वास्तवषियस्वरूपापह्नव एव विच्छित्तिविशेषो, न च हेतुफलोत्प्रेक्षयोः प्रसिद्धहेतुफलापह्नव इत्यस्ति । प्रत्युत, उदाहृतयोः हेतुफलोत्प्रेक्षयोः प्रसिद्धहेतुफलापह्नवोऽपि सहेतुकः, न तूदाहृतविषयस्वरूपापह्नववन्निर्हेतुक इति; अत्रैव चमत्कारातिशयसत्त्वात् । तस्मादिमे अपि सापह्नवोत्प्रेक्षे इत्युपलक्षणतैव युक्ता । अन्यदत्र विचारणीयं समासोक्तिप्रकरणे विचारयिष्यते ।
यत्तु `कस्तूरीतिलकन्ति भालफलके' इत्यादावपक्रान्ता उपमा औचित्यादुत्प्रेक्षायां पर्यवस्यतीत्युक्तं, तत्र भालादिस्थानविषसम्बन्धस्य कस्तूरीतिलकादितादात्म्यमात्रे औचित्यञ्चेत् रूपके पर्यवसानं स्यादिति तस्य तादात्म्यसम्भावनायामोचित्यमुपगम्य उत्प्रेक्षायां पर्यवसानं वाच्यम् । तथा च
"रक्षन्तु त्वामसितजलजैरञ्जलिः पादमूले
मीना नाभीसरसी हृदये कौस्तुभाख्या मुरारेः ।
हाराः कण्ठे हरिमणिमया वक्त्रपझे द्विरेफाः
पिच्छाचूडाश्चिकुरनिकरे, घोषयोषित्कटाक्षाः ।।"
इत्यादौ रूपकप्रतीतिस्थलेऽपि उत्प्रेक्षा उपगन्तव्या । तथा च-
"पतत्त्रिणा तद्रुचिरेण वञ्चितं श्रियः प्रयान्त्याः प्रविहाय पल्वलम् ।
चलत्पदाम्भोरुहनूपुरोपमा चुकूज कूले कलहंसमण्डली ।।"
"लोकाश्रयो मण्डपमादिसृष्टि ब्रझाण्डमाभात्यनुकाष्ठमस्य ।"
"अथाजिनाषाढधरः प्रगल्भवाक् ज्वलन्निव ब्रझमयेन तेजसा ।
विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ।।"
इत्यादावुपमाप्रतीतिस्थले यथोत्प्रेक्षायां पर्यवसानम् । एवम् -
"वरणः कनकस्य मानिनीं दिवमङ्कादमराद्रिरागताम् ।
घनरत्नकवाटपक्षतिः परिरभ्यानुनन्नुवास याम् ।।"
"स्वधाकृतं यत्तनयैः पितृभ्यः श्रद्धापवित्रं तिलचित्रमम्भः ।
चन्द्रं पितृस्थानतयोपतस्थे तदङ्करोचिःखचिता सुधैव ।।"
इत्यादिरूपकप्रतीतिस्थलेऽपि तस्यां पर्यवसानमुपगन्तव्यम् । तदात्म्यसम्भावनोपयुक्तविशेषणनिबन्धरूपन्यायसाम्यात् । एवम्-
"पूर्णेन्दोः परिपोषकान्तवपुषः स्फापप्रबाभासुरं
नेदं मण्डलमभ्युदेति गगनाभोगे जिगीषोर्जगत् ।
कामस्योच्छ्रितमातपत्रमधुना पाण्डु प्रदोषश्रिया
मानोन्नद्धजनाभिमानदलनोद्योगैकहेवाकिनः ।।"
इत्यपह्नुत्युदाहरणे इत्यपि द्रष्टव्यम् । अधिकं निदर्शनालङ्कारप्रकरणे चिन्तयिष्यते ।
ननु गम्योत्प्रेक्षाया अलङ्कारतया परिगणनमयुक्तम् । तस्या अलङ्कारध्वनित्वात् । उच्यते; विषयविषयिनिमित्तेषूपात्तेषु केवलमिवादिवाचकाप्रयोगमात्रेण यत्रोत्प्रेक्षावगम्यते साऽत्यन्तं स्फटत्वात् वाच्यायमानत्वादलङ्कारतामेवासादयतीति । यथोदाहृतम् । यत्र उत्प्रेक्षणीयस्य विषयिणोऽप्यनुपादानं, निबद्धेन वस्तुना, अलङ्कारेण वा गम्योत्प्रेक्षा गूढा तत्रैवोत्प्रेक्षणीयस्य विषयिणोऽप्यनुपादानं, निबद्धेन वस्तुना, अलङअकारेण वा गम्योत्प्रेक्षा गूढ तत्रैवोत्प्रेक्षाध्वनिः । यथा-
"वीररूद्रभटान्दृष्ट्वा जयलक्ष्म्या वृतान् रणे ।
कर्षन्त्यरिवधूकेशान् कानने कण्टकिद्रुमाः ।।"
अत्र वस्तुना कचग्रहणरूपेण जयश्रीसमालिङ्गितभटदर्शनोद्दीपितमन्मथा इवेत्युत्प्रेक्षा ध्वन्यते ।
"वेलामतिक्रिम्य पृथुं मुखेन्दोरालोकपीयूषरसेन तस्याः ।
नलस्य रागाम्बुनिधौ विवृद्दे तुङ्गौ कुचावाश्रयतः स्म दृष्टी ।।"
अत्रैकदेशविवर्तिरूपकेण मज्जनभयादिवेति उत्प्रेक्षा अवगम्यते । एवमन्यत्राप्युदाहार्यम् ।।
इत्युत्प्रेक्षाप्रकरणम् ।
******
अथ अतिशयोक्तिः
तस्यास्तावत्-
"विषयस्यानुपादानाद्विषय्युपनिबध्यते ।
यत्र सातिशयोक्तिः स्यात् कविप्रोढोक्तिजीविता ।।"
इति लक्षणमुक्त्वा चातुर्विध्यं वर्णयन्ति । भेदेऽभेदः, अभेदे भेदः, सम्बन्धेऽसम्बन्धः, असम्बन्धे सम्बन्ध इति ।
एतेषामुदाहरणानि-
"कमलमनम्भसि, कमले च कुवलये तानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ।।"
'अन्येयं रूपसम्पत्तिरन्या वैदग्ध्यधोरणी ।
नैषा कमलपत्राक्षी सृष्टिः साधारणी विधेः ।।"
"अस्यास्सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः
शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः ।
वेदाभ्यासजडः कथं स विषयव्यावृत्तकौतूहलो
निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ।।"
"दाहोऽम्भः प्रसृतिम्पचः प्रचयवान्बाष्पः प्रणालोचितः
श्वासाः प्रेङ्खितदीप्तदीपकलिकाः पाण्डिम्नि सग्नं वपुः ।.
किञ्चान्यत्कथयामि रात्रिमखिलां त्वर्न्मार्गवातायने
हस्तच्छत्रनिरूद्दचन्द्रमहसस्तस्याः स्तितिर्वर्तते ।।"
अत्र कमलादीनां मुखादिभेदेऽप्यभेदः । रूपादीनां लोकसिद्धरूपाद्यभेदेऽपि भेदः । रूपस्य पुराणाप्रजापतिसृष्टिसम्बन्धेऽप्यसम्बन्धः । विरहदाहादीनामम्भः प्रसृतिम्पचत्वाद्यसम्बन्धेऽपि सम्बन्धश्च क्रमेण निबद्दः ।
अत्रेदं विचार्यते । विचीर्यते । विषयस्यानुपादानादित्यत्र किमनुपादानं सर्वथैव विषयस्य प्रतिपादकाभावः, तद्वाचकाभावो वा ? आद्ये कमलमनम्भसि इत्यादावपि लक्षंणं न स्यात् । कमलादिशब्दानां लक्षणया विषयभूतमुखादिप्रतिपादकत्वात् । द्वितीये `चम्बतीव रजनीमुखं शशी' इत्यादिषु मुखशब्दादिश्लेषमूलातिशयोक्तौ अव्याप्तिः विषयिवाचकातिरिक्तविषयप्रतिपादकाभावो विवक्षित इति चेत्, तथापि `उन्मीलितानि नेत्राणि पझानीवोदिते रवौ' इतियादावुन्मीलित- शब्दवाच्यलक्ष्यार्थभेदाधअयवसायरूपातिशयोक्तावव्याप्तिः । तत्रोन्मीलितशब्दस्य विषयिभूतविकासलक्षकतया तद्वाचकातिरिक्तस्यैव विषयप्रतिपादकत्वात् । विषयिप्रतिपादकातिरिक्तविषयप्रतिपादकाभावविक्षायामपि-
"पल्लवतः कल्पकरोरेष विशेषः करस्य ते वीर ।
भूषयति कर्णमेकः परस्तु कर्णं तिरस्कुरुते ।।"
इत्यत्र कर्णशब्दश्लेषमूलातिशयोक्तावव्याप्तिः । तत्र विषयविषयिणोः पृथक्कर्णपदोपादानाम् । विषयिप्रतिपादकविलक्षणविषयप्रतिपादकाभावो विवक्षित इति चेत्; तथापि-
"उरोभुवा कुम्भयुगेन जृम्भितं नवोपहारेण वयःकृतेन किम् ।
त्रपासरिद्दुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ।।"
इत्यत्र कुचद्वये कुम्भयुगाभेदाध्यवसायरूपातिशयोक्तौ अव्यातिः । तत्र उरः फ्रभवत्वाकरोण विषयप्रतिपादकस्य विषयिप्रतिपादकविलक्षणस्य सद्भावात् । ननु विषयिप्रतिपादकविळक्षणस्य विषयतावच्छेदकप्रकारेण विषयप्रतिपादकस्य अभावो विवक्षितः, उरःप्रभवत्वं तु न पयोधरयोर्विषयतावच्छेदकमनेकसाधारणत्वात् इति चेत् । एवमपि-
"ध्वान्तस्य वामोरु, विचारणायां वैशेषिकं चारु मतं मतं मे ।
औलूकमाहुः खलु दर्शनं तत्क्षमं तमस्तत्त्वनिरूपणाय ।।"
इत्यादावुलूकदर्शनमिति वैशेषिकमते पक्षिविशेषदृष्ट्यभेदाध्यवसायरूपातिशयोक्तावव्याप्तिर्दुवारा । तत्र वैशेषिकमतमिति विषयतावच्छेदकप्रकारेण विषयप्रतिपादकस्य सद्भावात् । अपि चै वं `रामरावणयोर्युद्धम्' इत्यनन्वयालङ्करे च अतिव्याप्तिः तत्र विषयप्रतिपादकविलक्षणविषयप्रतिपादकाभावात् । ननु यत्र कश्चिदभेदेनाध्यवसीयते, स विषयः, यस्तु तथाऽध्यवसीयते विषयीति विषयविषयिभावोऽत्र विवक्षित इति नोक्तातिव्याप्तिरिति चेत्, एवमपि `व्द्वन्मानसहंस' इत्यादिश्लिष्टरूपकेऽतिव्याप्तिर्दुवारा । रूपके ताद्रूप्यारोपमात्रम्, अतिशयोक्तावभेदाध्यवसाय इति कल्पना तु रूपकलक्षणविचार एव निरस्ता । मारूप्यनिबन्धनसमासोक्त्युदाहरणेषु चातिव्याप्तिः ।
"अप्यर्धचित्रमीमांसा न मुदे कस्य मांसला ।
अनूरुरिव घर्मांशोरर्धेन्दुरिव धूर्जटेः ।।"
।। समाप्तश्चायं समुपलभ्यमानो ग्रन्थः ।।
*********