चित्रप्रभा/तृतीयः भागः
← द्वितीयः भागः | चित्रप्रभा तृतीयः भागः [[लेखकः :|]] |
continue to july
नन्वेकवाक्यतासमर्थनाय तादृशसम्बोधनरूपार्थस्य व्यपेक्षाविरहितसमभिव्याहृतक्रियासम्बन्धो न युक्तः। किन्तु प्रकारान्तरेणैव तदुपपत्तिराश्रयणोयेत्याशयेनाह।। वस्तुत इति।। नैतस्य [टि- नैतस्य क्रियान्वयसाधकमितीति।। इत्यपास्तमित्यनन्तरं ``एवं चैतन्नैतस्य क्रियान्वयसाधकम्। अनुभवश्चेत्प्राचां तथास्ति तह्येस्त्विति दि गिति शब्दरत्नपाठः क्वचिद्दृश्यते। तदभिप्रायेणेदम्।] क्रियान्वयसाधकमिति।। ननु नायमेकवाक्यत्वान्यथानुपपत्त्या समभिव्याहृतक्रियासम्बन्धः। किन्तु चिरन्तनानुभवस्यान्यथा कर्तुमशक्यत्वादिति युक्त एवायमन्वय इत्यत आह।। अनुभवश्चेदिति।।
दिगिति।। दिगर्थस्तु, [टि- वस्तुत इत्यादिना संक्षिप्तमुपाध्यायसिद्धान्तं विवृणोति।। दिगर्थस्त्वित्यादिना।।] इदन्तु न युक्तम्। सिद्धस्याभिमुखीभावमात्रं सम्बोधनं विदुः। प्राप्ताभिमुख्यो ह्यर्थात्मा क्रियासु विनियुज्यते, सम्बोधनं न वाक्यार्थ इति वृद्धेभ्य आगम इति सिद्धान्तभूतहरिग्रन्थविरोधात्। तस्मादभिमुखीभवनानुकूलव्यापार एव सम्बोधनम्। तत्र शब्दप्रयोगात्मकमन्यलभ्यं व्यापारमुपेक्ष्याभिमुखीभवनमेव विभक्त्यर्थः। तस्य च प्रकृत्यर्थे प्रकारत्वेनान्वयः। संबोध्यस्य च क्रियासु विनियुज्यत इत्युक्तेरुद्देश्यत्वेन विधेयभूतक्रियायामन्वयः। ततश्च राम मां पाहीत्यादावभिमुखीभवद्रामोद्देश्यकं मत्कर्मकं प्राप्तकालं रक्षणमित्यादिको बोधः। प्राप्तकाले चायं लोट्। न चैवं व्रजानि देवदत्तेत्यत्र सम्बोध्योद्देश्यकविधानविषयत्वाभावेन व्रजिक्रियायामन्वयायोगान्निघातसम्पादकैकवाक्यत्वानुपपत्तिरिति वाच्यम्। जानीहीत्यध्याहारेण तदर्थे व्रजनस्य कर्मत्वेन सम्बोध्यस्योद्देश्यत्वेन च सम्बन्धादभिमुखीभवद्देवदत्तोद्देश्यको मत्कर्तृकव्रजनविषयकज्ञानानुकूलः प्राप्तकालो व्यापार इति बोधेन तदुपपत्तेः। न चैवं ब्रूहि ब्रूहीत्यादेर्द्विरुक्तिविषयस्य विशेषणान्तरविशिष्टत्वाभावेनाभीष्टस्य वाक्यत्वस्य प्रागुपदर्शितलक्षणानधीनत्वात्तिङतिङ इति सूत्रस्थातिङ्ग्रहणाकरणलाघवानुरोधाच्चैकतिङ्वाक्यमिति कात्यायनपरिभाषितसिद्धान्तभूतलक्षणविरुद्धत्वाज्जानीहीत्यध्याहारे कथमेकवाक्यतेति वाच्यम्। तस्य श्रूयमाणैकतिङन्तमित्यर्थेनादोषात्। न चैवमपि ब्रूहि ब्रूहीत्यादेर्द्विरुक्तिविषयस्य तिङन्तद्वयघटितत्वेनैकतिङन्तघटितत्वरूपवाक्यलक्षणानुपपत्तिरिति वाच्यम्। विभिन्नानुपूर्वीकतिङन्तद्वयघटितत्वमेवात्रैकतिङन्तघटितत्वमिति विवक्षणेनादोषात्। न चैवमप्योदनं पच तव भविष्यतीति वाक्यद्वयघटकस्य पच तवेत्यस्याप्युक्तलक्षणलक्षितत्वाद्वाक्यत्वापत्त्या युष्मदाद्यादेशापत्तिरिति वाच्यम्। परस्परान्वितपदार्थबोधकत्वविशेषणेनादोषात्। असत्त्वभूतक्रियाबोधकभावकृत्यप्रत्ययान्तघटितस्य तिङन्तघटितत्वाभावेपि विभिन्नानुपूर्वीकतिङन्तद्वयाघटितत्वस्य निर्बाधत्वान्न वाक्यत्वानुपपत्तिः। अत एव भूतले घट इत्यादेरध्याह्रियमाणतिङन्तसापेक्षस्यापि वाक्यत्वसिद्धिरिति सर्वेषटसङ्ग्रह इत्याहुः।
केचित्तु स्वघटितवाक्यार्थबोधप्रयोज्यप्रवृत्तिनिवृत्त्यन्यतराश्रयत्वप्रकारकेच्छोद्देश्यत्वं [टि- प्रवृत्तिनिवृत्त्यन्यतरप्रयोजकस्वघटितवाक्यजन्यबोधाश्रयत्वप्रकारकेच्छाविषयत्त्वं सम्बोधनमिति तूचितम्।] सम्बोधनमिदमेव सम्बोध्यत्वं, अस्य खण्डशो विभक्तिवाच्यता, प्रवृत्तिनिवृत्त्यन्यतरत् प्रकृत्यर्थविशेष्यमन्यत्प्रकृत्यर्थविशेषणम्। इत्थं च राम मां पाहीत्यादौ सम्बोधनविभक्त्यन्तघटितवाक्यजन्यबोधाश्रयत्वप्रकारकेच्छोद्देश्यभूतो यो रामस्तत्सम्बन्धिप्रवृत्तिविषयो मत्कर्मकरक्षणानुकूलः प्रार्थनाविषयो व्यापार इत्येवं बोधः। व्रजानि देवदत्तेन्यत्र तुं व्रजनप्रवृत्तेर्देवदत्ते बाधादध्याह्रियमाणजानीहीत्यर्थे तत्सम्बन्धः। ततश्च मत्कर्तृकव्रजनविषयकज्ञानानुकूलः प्राप्तकालः प्रार्थनाविषयो वा प्रकृतवाक्यार्थबोधाश्रयत्वप्रकारकेच्छोद्देश्यभूतदेवदत्तसम्बन्धिप्रवृत्तिविषयो व्यापार इति बोधः। प्राप्तकाले प्रार्थनायां वा लोट्प्रत्ययः। नञ्समभिव्याहारे च निवृत्तिप्रतीतिर्न मां मुञ्च जनार्दनेत्यादौ। क्रियासु विनियुज्यत इत्युत्तरहरिग्रन्थस्वारस्यादयमत्रार्थो न्याय्यः। रूढ एवायं सम्बोधनशब्द इत्याहुः।। [टि- आहुरिति।। इदमयुक्तम्। सम्बोधनस्य विभक्तिवाच्यताया भाष्यादिविरुद्धत्वात्। तथाहि। भाष्ये कर्मादिविशिष्टे प्रथमाभावे सम्बोधने चेति सूत्रं ज्ञापकमाश्रित्य प्रातिपदिकार्थसूत्रे मात्रग्रहणं प्रत्याख्यातम्। तेन सम्बोधनविषये प्रातिपदिकार्थेत्यनेन प्रथमासिद्धिस्सूचिता। तिङ्समानाधिकरणे प्रथमेत्याश्रित्य प्रातिपदिकार्थसूत्रप्रत्याख्याननये च वार्तिकेनैव तत्सिद्धिरुचिता। एवं च मतद्वयेऽपि सम्बोधनस्य प्रथमावाच्यत्वाभावः स्पष्ट एव। न च भवन्मते तस्य प्रातिपदिकार्थत्वसम्भव-। तदेकदेशप्रवृत्त्यादेः भवत्सम्मतविशेष्यत्वासम्भवात्। सत्त्वप्रधानानि नामानीति निरुक्तोक्तेः। नामपदेन च सुबन्तमेवेति मञ्जूषायां निरूपितम्। किञ्च विभक्त्यर्थस्य प्रातिपदिकार्थनिरूपितविशेष्यतायाः क्वाप्यदर्शनेनात्रैव तदाश्रयणमयुक्तम्। सूत्रशैलीविरोधात्। किञ्च सम्बोधनफलीभूतयोः प्रवृत्तिनिवृत्त्योर्विभक्त्यर्थत्वमयुक्तम्। तुल्ययुक्त्या विधिफलीभूतस्येष्टसाधनत्वादेर्विधिप्रत्ययार्थत्वापत्त्या अपसिद्धान्तात्। किञ्च प्रवृत्तेस्तदर्थत्वेन यथाकथं चिद्धोधविषयत्वसम्भवेऽपि निवृत्तेस्तदसम्भवः। नञ्समभिव्याहारे धात्वर्थे आरोपितत्वभानाङ्गीकारेण न मां मुञ्च जनार्दनेत्यत्र वद्रीत्या एतद्वाक्यजन्यबोधाश्रयत्वप्रकारकेच्छोद्देश्यजनार्दनसम्बन्धिनिवृत्तिविषयीभूतं मत्कर्मकं मोचनमिति बोधे निवृत्तिविषयत्वस्यारोपितमोचने भानेन वास्तविकमोचनाभावस्य निवृत्तिविषयत्वप्रतीत्या मुञ्चेत्यतः फलेऽविशेषप्रसङ्गात्। न च तत्रापि प्रवृत्तिरेवार्थः मोचनाभावस्य प्रवृत्तिविषयत्वप्रतीतौ मोचनान्निवृत्तिः फलतीति वाच्यम्। एवं सति निवृत्तेर्वाच्यत्वकथनवैयर्थ्यापत्तेः। किञ्च चक्त्रिच्छायास्सम्बोधनविभक्तिघटितवाक्यप्रयोगानुमेयत्वेन वाच्यत्वकथनमयुक्तम्। अन्यलभ्यत्वात्। स्पष्टा चेयं रीतिर्मञ्जूषायाम्। किञ्च विभक्तिवाच्यस्य संसर्गत्वातिरिक्तविषयतया भानं न क्वापि दृष्टम्। किञ्च सम्बोधनस्योक्तार्थकता रूढिमन्तरा न सम्भवति, सा च दुर्लभा। तदर्थे क्वाप्यप्रयोगात्। तस्मादयुक्त एवायं स्वकपोलकल्पितो मार्ग इत्याहुः।] इति प्रथमा।।
व्याख्यानादिति।। तथायुक्तमित्युत्तरसूत्रे प्रकृतसूत्रोपात्तस्योद्देश्यस्य तत्सूत्रगृहीतस्यानुद्देश्यस्य च दृष्टान्तदार्ष्टान्तिकभावेन साधारणधर्मतया फलाश्रयत्वरूपसम्बन्धस्य गृहीततया क्रियाशब्दत्वेन व्याख्यानमन्तरा तदनुपपत्तिरित्याशयः।। सम्बद्धुमिति।। कर्मणि कर्तृसम्बन्धः स्वनिष्ठव्यापारप्रयोज्यफलाश्रयत्वम्। ननु व्यापाराश्रयस्यैव कर्तृत्वे व्यापारद्वयवाचकनयत्यादियोगे प्राथमिकव्यापाराश्रयस्याप्यजादेरजां ग्रामं नयतीत्यादौ कर्तृत्वापत्तिरत आह।। प्रधानधात्वर्थव्यापाराश्रय [टि- प्रधानधात्वर्थव्यापाराश्रय इतीति।। सम्बद्धुमित्यनन्तरं ``धातूपात्तव्यापाराश्रय इति।। प्रधानधात्वर्थव्यापाराश्रय इत्यर्थः इत्यधिकं शब्दरत्नपाठमभिप्रेत्येदम्।] इति।। प्राधान्यं च तद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतानाश्रयत्वम्।। करणाकाङ्क्षेति।। न च सम्बन्धस्य व्यापारघटितत्वेन कथं तत्र व्यापारस्य करणत्वम्। व्यापारोपहितस्य कारणस्य करणतया कारणस्य कार्यकोटिप्रवेशायोगादिति वाच्यम्। पटाद्यवयवतन्त्वादेर्विशिष्टमवयविनं प्रति कारणत्वेन दृष्टतया सम्बन्धघटकस्य विशिष्टसम्बन्धं प्रति करणत्वे बाधकाभावात्। न चैवमपि करणस्य व्यापारान्वयनियमात्सम्बन्धानुकूलव्यापारस्यापि सम्बन्धघटकविक्लित्यादिफलानुकूलतया फलानुकूलव्यापारस्य तत्र करणत्वेनान्वयो न युक्तः, स्वस्मिन् स्वस्य करणत्वायोगादिति वाच्यम्। सम्बन्धानुकूलव्यापारस्तत्समर्थाचरणं; फलानुकूलस्तु पूत्कारदिरूप इति भेदेन करणत्वस्य निर्बाधत्वात्।।
केचित्तु सम्बन्धोऽत्राश्रयत्वम्। सनिरूपकधर्मस्यैव सम्बन्धत्वौचित्यात्। तच्च केनेति निरूपकाकाङ्क्षायामुपस्थितकर्तृविशेषणीभूतक्रियानिरूपकत्वेन सम्बन्धे प्रधानव्यापारात्मकक्रियानिरूपितस्य तस्य कर्तुरन्यस्मिन्बाधात्फलद्वारकया तया सम्बन्धादभीष्टार्थलाभ इति मूलकाराशय इत्याहु:।। [टि- आहुरिति।। परे तु कर्तराप्तुभिष्यमाणमित्यर्थे आप्नोत्यर्थस्य सम्बन्धस्य साध्यरूपस्य साधनाकाङ्क्षानैयत्येन निरूपकाकाङ्क्षाया अनुत्थानेन करणाकाङ्क्षैवोचिता। तादृशप्रयोगे व्यापारेणेति पदसत्त्वे तदर्थस्य करणतयैवान्वयनियमात्क्रियाकारकभावातिरिक्तविशेषसम्बन्धनिरूपितत्वस्य धात्वर्थक्रयायां वैयाकरणैरनभ्युपगमेन निरूपकाकाङ्क्षाया अनौचित्येन दुर्वचतया मूलोक्तरीत्यैव परममूलाशयवर्णनमुचितमित्याहुः।।]
व्यापारप्रयोज्येति।। प्रधानव्यापारवाचकधातूपात्ततत्प्रयोज्यफलाश्रयत्वेनोद्देश्यत्वं कर्मत्व पर्यवसन्नम्। तमप्ग्रहणाच्च प्रधानव्यापारप्रयोज्यत्वलाभः। अत एवाग्नेर्माणवकं वारयतीत्यादौ माणवकादेर्नापादानत्वम्। अन्यथा संयोगानुकूलव्यापाराभावानुकूलव्यापारवाचकवारयत्यादियोगे प्रधानव्यापारवाचकधातूपात्तसंयोगात्मकफलाश्रयत्वेन अग्न्यादेरपि कर्मत्वप्रसक्त्या निरवकाशेनापादानत्वेन बाधान्माणवकादीनामपि तदापत्तिः। प्रयोज्यत्वनिवेशे तु संयोगस्य प्रधानव्यापारप्रयोज्यत्वाभावेन तदाश्रयीभूताग्न्यादौ कर्मत्वाप्राप्तिविषये चरितार्थस्यापादानत्वस्य परत्वात्कर्मत्वेन बाधन्माणवकादीनां नापादानत्वमित्यभीष्टसिद्धिः। न च प्रयोज्यत्वनिवेशाभावेपि कर्मत्वस्योद्देश्यताघटितत्वेन प्रधानव्यापारवाचकधातूपात्तसंयोगात्मकफलाश्रयत्वेन कर्तुरुद्देश्यत्वाभावादेवाग्न्यादेः कर्मत्वाप्राप्त्या न निरुक्तदोषप्रसक्तिरिति वाच्यम्। प्रयोज्यत्वनिवेशे प्रधानव्यापारप्रयोज्यफलाश्रयत्वंनोद्देश्यत्वमित्युक्तौ प्रत्यासत्त्या प्रधानव्यापाराश्रयीभूतकर्तुरेव तदुद्देश्यत्वमिति लभ्यते। तदभावे च कर्तृग्रहणस्य व्यापारांशे प्राधान्यसम्पादनेन कृतार्थत्वेन फलस्य व्यापारप्रयोज्यत्वावश्यंभावेन च यदीयव्यापारप्रयोज्यता फलस्य तदुद्देश्यत्वस्यैव ग्रहीतव्यत्वान्माणवकाद्युद्देश्यतामादायाग्न्यादेरपि कर्मत्वप्रसक्तावनिष्टप्रसङ्ग इत्याशयात्। प्रधानव्यापारप्रयोज्यफलाश्रयत्वमात्रोक्तौ घटो जायते चक्रभ्रमणेन नदी वर्धते वर्षेणेत्यादौ घटनद्यादीनामपि तथाभूतव्यापारप्रयोज्योत्पत्तिवृद्ध्यादिरूपफलाश्रयत्वंन कर्मत्वापत्तिरतः प्रधानव्यापारवाचकधातूपात्तत्वं फलविशेषणम्। ननूद्देश्यत्वनिवेशे रथो ग्रामं गच्छतीत्यादावचेतनस्योद्देश्यत्वासम्भवात्कथं कर्मत्वमिति चेन्न। नौश्शकटं वहति शकटं नावं वहतीत्यादिभाष्यकारीयव्यवहारबलेनाचेतनेष्वपि चेतनत्वारोपेणोद्देश्यताया निर्बाधत्वेन कर्मत्वस्य सुवचत्वात्। युत्त तमब्ग्रहणं धातूपात्तफलाश्रयत्वलौकिकफलाश्रयत्वरूपोभयसम्बन्धेनेच्छाविषयत्वरूपोद्देश्यगतप्रकर्षलाभार्थम्। तेन पयसा ओदनं भुङ्क्त इत्यत्र गलाथोदेशसंयोगरूपधातूपात्तफलाश्रयत्वेपि क्षुन्निवर्तकत्वरूपलौकिकफलाश्रयत्वाभावेन पयसो न कर्मत्वमित्याहुस्तदयुक्तम्। कृतभोजनस्य पयोलाभेन भोजनार्थं प्रवृत्तौ क्षुन्निवर्तकत्वरूपलौकिकफलाश्रयत्वाभावेनौदनस्य कर्मत्वानुपपत्त्या निरुक्तप्रकर्षस्य निरूपयितुमशक्यत्वात्। उद्देश्यत्वाभावविवक्षया पयसः कर्मत्वाभावस्य सुवचत्वाच्च। तद्विवक्षायान्तु व्यञ्जनौदनयोस्सहजसिद्धप्रधानाप्रधानभावेन सहयुक्त इत्येतत्सूत्रविषयतया तृतीयाप्रवृत्तेरविरोधः। प्रधानाप्रधानभावस्याविवक्षायान्तु इष्यत एव द्वयोरपि कर्मत्वमोदनपयसी भुङ्क्त इति धवखदिरौ छिन्धीतिवदिति वदन्ति।।
फलस्यापीति।। यत्तु तत्तत्फलोत्पत्त्यनुकूलव्यापारस्यैव धात्वर्थतया फलाश्रयत्वेन तण्डुलादीनामिव तदुत्पत्त्याश्रयत्वेन फलस्यापि कर्मत्वोपपत्तिरिति तदसत्। उत्पत्त्यर्थकधातुयोगे फलीभूतोत्पत्तेरुत्पत्त्यन्तराभावेन निरुक्तरीत्या फले कर्मत्वस्य दुर्वचत्वात्। नापि तादात्म्यं वृत्तिनियामकत्वेन कस्य चिदभिमतम्। अतो व्यपदेशिवद्भाव एव फलस्य कर्मत्वे शरणमिति सूचयन्नाह।। व्यपदेशिवद्भावेनेति।। यद्यपि ज्येष्ठत्वकनिष्ठत्वादीनामेकस्मिन् लोके दृष्टतया विशिष्टव्यवहारप्रयोजकभेदारोपेण तथा व्यवहारेपि तदाश्रयत्वप्रयोजकभेदारोपेण घटो घटवानित्यादिको व्यवहारो न क्वचिद्दृष्टः; तथापि फलस्य कर्मतायाः प्रामाणिकत्वात्तन्निर्वाहकोपायान्तराभावादिदमपि प्रामाणिकमित्याशयः।
केचित्तु प्रधानव्यापारवाचकधातूपात्तफलाश्रयत्वमिव तदपेक्षया पूर्वोपस्थितिकत्वाल्लाघवेन तदुपात्तत्वमपि सम्बन्धः। अयमेव तु न सम्बन्धः। अनध्वनीत्यादिपर्युदासविरोधात्। एवं च प्रधानव्यापारवाचकधातूपात्तफलाश्रयत्वेन बहिर्भूततण्डुलादीनामिव तदुपात्तत्वेन फलस्यापि कर्मतायास्सुवचतया व्यपदेशिवद्भावाश्रयणपरिक्लेशो विफल इत्याहुः।। [टि- आहुरिति।। इदमयुक्तम्। धातूपात्तत्वस्यापि सम्बन्धत्वस्वीकारेऽन्यतरसम्बन्धेनाश्रयत्वं कर्मत्वमित्युक्तौ गौरवाद्व्यपदेशिवद्भावेन निर्वाहादविशेषात्। किञ्च तेन सम्बन्धेन तदाश्रयत्वस्य व्यापारेऽपि सत्त्वेन तस्यापि कर्मत्वापत्त्या तद्विशेषणेभ्यो द्वितीयापत्तेः। न च तिङन्ते व्यापारविशेषणता नास्ताति वक्तुं शक्यम्। मन्दं गच्छति कुटिलं गच्छति भक्तिपूर्वकं सोमेन यजेतेत्यादौ व्यापारविशेषणत्वमन्तरा गत्यभावात्। ईदृशेषु प्रथमान्तमिति कृदर्थवादे मञ्जूषायामुक्तत्वाच्च। न च तत्र नपुंसकत्वान्न रूपवैलक्षण्यमिति वाच्यम्। रूपावैलक्षण्येऽपि ``न शिक्षितस्त्वया तेन मन्दं ते याति वारण इत्यादाविष्टस्य ``सपूर्वायाः प्रथमाया विभाषेति विकल्पस्यासिद्धेर्दुर्वारत्वात्। तस्मान्मूलोक्तसारणिरेव तत्राश्रयणीयेत्याहुः।।]
ननु कारक इति सप्तमीनिर्देशबलात्क्रियापरताया एव न्याय्यत्वात्कथं संज्ञाविधानसम्भव इत्यत आह।। तदुक्तमिति।। अत्र पक्षे व्यत्ययेन प्रथमार्थे सप्तमीति बोध्यम्। नटश्रुतमिति।। नियमपूर्वकविद्यास्वीकाराभावादाख्यातोपयोग इत्यापादानत्वस्याप्राप्तावपि कारकत्वसामान्योपहितनटसम्बन्धबोधकषष्ठ्यन्तघटितस्तत्पुरुषः। स्वरितपाठादिति।। तेन क्रियाविशेषणत्वव्याप्यापादानत्वादिविशिष्टार्थकादिति लभ्यत इति भावः। यत्तु प्राञ्चः। क्रियान्वयित्वं कारकत्वम्। अत एव ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीत्यत्र क्रियानन्वयिनो ब्राह्मणस्य कारकत्वाभावादकथितसूत्रबोधितपृच्छिकर्मत्वाभावः। न च तण्डुलं पचतीत्यादौ कर्मणः फलान्वयित्वेपि क्रियान्वयाभावात्कारकत्वानुपपत्तिरिति वाच्यम्। स्ववृत्तिफलानुकूलत्वेन कर्मणः क्रियायामेवान्वयस्वीकारेणादोषात्। एवमधिकरणस्यापि कर्तृकर्मान्यतरद्वारकसम्बन्धेन क्रियायामेवान्वय इति न कारकत्वव्याघात इति वदन्ति।। तदसत्। करोति क्रियां निर्वर्तयतीति व्युत्पत्तिं प्रदर्शयता भागवता भाष्यकारेण क्रियाजनकत्वं कारकत्वमित्यभिधानात्। किञ्च क्रियान्वयित्वमेव कारकत्वमित्येतावन्मात्रोक्तौ कदाचिद्ब्राह्मणस्य क्रियान्वये कारकत्वस्य दुर्वारतया निरुक्तकर्मताया निवारणसम्भवः। न च सुबन्तार्थप्रकारकक्रियाविशेष्यकशाब्दबुद्धिं प्रति तदन्वययोग्यानामसमभिव्याहारस्य प्रतिबन्धकताकल्पनान्न निरुक्तदोषावकाश इति वाच्यम्। एवमपि तदसमभिव्याहारदशायां सम्बन्धसामान्यषष्ठ्या वृक्षस्य पततीत्यादिप्रयोगस्याभीष्टस्य दौर्लभ्यापत्तेः। यदि तु जनकत्वेन क्रियान्वयित्वे कारकत्वं न तु सम्बन्धित्वेन तदन्वये तत्त्वमत एव वृक्षस्य पर्णं पतति वृक्षात्पर्णं पततीत्यादिको व्यवस्थितो व्यवहार इत्युच्यते; तर्हि क्रियाजनकत्वं कारकत्वमित्येव सिद्धे व्यर्थोयमन्वयित्वपर्यन्तानुधावनपरिक्लेश इति ध्वनयन्नाह।। तदन्वयप्रयोजकजनकत्वाभाववत इति।। ननु जनकत्वं कारकत्वमित्युक्तौ ब्राह्मणस्य पुत्रं पन्थानं पृच्छतीत्यात्र पुत्रद्वारा क्रियाजनकत्वेन ब्राह्मणस्यापि कर्मत्वापत्तिरित्यत आह।। अन्यथासिद्धेरिति।। नन्वेवंरीत्या पृच्छिसमभिव्याहारे प्रश्नविषयेण मार्गेण पुत्रस्याप्यन्यथासिद्धिः। किञ्च कर्त्रादिद्वारा क्रियासम्बन्धादधिकरणस्याप्यन्यथासिद्धिरेव; तस्माज्जनकत्वं प्रयोजकत्वमिति विवक्षणीयम्। तथा च पुत्रं विना प्रश्नानुपपत्त्या यथा पुत्रः प्रयोजकस्तथा पितरमन्तरा पुत्रस्याप्यनुपपत्त्या ब्राह्मणोपि प्रयोजक एवेति स्यादेव [टि- स्यादेव कारकत्वप्रयुक्तं पृच्छिकर्मत्वमिति।। इदमयुक्तम्। प्रश्नरूपक्रियाजनकपुत्रनिरूपितपूर्ववृत्तित्वग्रहमन्तरा ब्राह्मणे प्रश्नक्रियानिरूपितपूर्ववृत्तित्वाग्रहादस्ति ब्राह्मणस्य पुत्रेण चतुर्थान्यथासिद्धत्वम्। न तथा प्रकृते। पुत्रमन्तरा प्रश्नानुपपत्त्या अन्वयव्यतिरेकाभ्यां प्रश्नक्रियानिरूपितपूर्ववृत्तित्वग्रहस्तस्य। न हि तस्य पूर्ववृत्तित्वग्रहे मार्गस्य पूर्ववृत्तित्वग्रहोऽपेक्षितः, येन मार्गेण पुत्रत्यान्यथासिद्धत्वमापाद्येत। एवं चात्रान्यथासिद्धेरभावेनान्यथासिद्धत्वमुपपाद्य जनकत्वस्थाने प्रयोजकत्वं च निवेश्य ब्राह्मणे कारकत्वोपपादनमयुक्तमेवेति बोध्यम्।] कारकत्वप्रयुक्तं पृच्छिकर्मत्वमिति चेत्तर्हि भवतु कारकत्वं, कर्मत्वन्तु दुर्निरूपम्। गृहीतपरम्परातिरिक्तपरम्परास्वीकारे मानाभावेन प्रकृतधातूपात्तप्रधानव्यापारप्रयोज्यप्रकृतधातूपात्तफलाश्रयात्मकप्रधानकर्मघटितसम्बन्धेन दुहादिधातुसम्बन्धिनि पुत्रादौ कर्मत्वविधानेन कृतार्थस्यानुशासनस्य तदतिरिक्तगौणकर्मघटितपरम्परासम्बन्धेन तत्सम्बन्धिनि ब्राह्मणादौ कर्मत्वोपपादकत्वायोगादतो न काप्यनुपपत्तिरिति दिक्।। अत एवेति।। जनकत्वास्य क्रियानुयोगिकान्वयबुद्धित्वावच्छिन्नप्रयोजकताकल्पनाया अनौचित्यादित्याहुः।। [टि- आहुरिति।। इदमयुक्तम्। अत्र वृक्षादेः क्रियाजनकत्वरूपकारकत्वस्येष्टत्वेन तस्य सम्बन्धसामान्येनान्वयेऽपि क्रियाजनकत्वक्रियानुयोगिकान्वयप्रयोजकत्वकल्पने बाधकाभावात्। न च तत्रापादानत्वाभावात्कारकत्वमपि नेति वाच्यम्। कारकसंज्ञाभावेऽपि क्रियाजनकत्वरूपकारकत्वस्यानपायात्। अत एव कारके इत्यस्य सप्तम्यन्ततामाश्रित्य क्रियापरत्वमिति पक्षे तत्र तत्र कारकशब्दस्य स्वरितत्वेन कर्त्रादिषट्कान्यतमपरत्वकथनं सङ्गच्छते। ततश्च युक्तमेव मूलोक्तमित्याहुः।]
व्यपदेशान् करोतीति।। केचित्तु नैतादृशव्युत्पत्तिलभ्येऽर्थे व्यवहारतो रूढिरुपलभ्यते, नापि दृढतरभाष्यानुग्रहः। तस्मात्करोतीति कारको व्यापारः। तस्य च फलानुकूलत्वात्फलानुकूलपरिणामरूपव्यापाराश्रयत्वाच्च कर्तृत्वम्। इत्थं च फलोत्पत्त्यनुकूलव्यापाराश्रयत्वेनैव क्रियापरत्वं कारकशब्दस्येति वदन्ति।।[टि- वदन्तीति।। फलोत्पत्त्यनुकूलव्यापाराश्रयत्वस्य वर्तृसाधारण्येन तद्व्यावृत्तक्रियापरत्वलाभार्थं रूढेस्तवाप्याश्रयणीयतया तदाश्रयणे मूलोक्तस्यैव सामञ्जस्येन तत्परित्यागेनापूर्वार्थकथनं ग्रन्थकृतो न सम्यगित्याहुः।]
घटत्ववत्तेति।। केचित्तु कारकाणां क्रियाजनकत्वं नियमिति वाक्यस्याप्येतत्तौन्यात्प्रयोगविषयत्वानुपपत्तिः क्रियाजनकत्वं कारकत्वमिति परिष्कुर्वतां दुर्वारा। तस्मादीदृशे विषये कारकशब्दस्य तत्संज्ञकपरताया आवश्यकत्वान्नास्ति दूषणावकाश इत्याहुः।। [टि- आहुरिति।। परे तु अधिकरणस्य कारकत्वेन क्रियान्वय इति कारकाणां भावनान्वय इति च दीक्षितादिव्यवहारदर्शनात्तत्र दोषापादनं युक्तम्। कारकाणां क्रियाजनकत्वं नियतमिति व्यवहारस्तूपाध्यायानुयायिनां न क्वापि दृश्यते। येन प्रतिबन्द्या दोष आपादयितुं शक्यते। किञ्च तद्व्यवहारे कारकपदस्य लक्षणया कारकसंज्ञकपरत्वमयुक्तम्। भाष्यसम्मतक्रियाजनकपरतयोपपत्तौ मुख्यार्थबाधरूपलक्षणाबीजस्याभावात्। अत एवैतदुत्तरं अत एवेत्यादिना भाष्यप्रमाणप्रदर्शनं स्वारस्यमधिरोहति। किञ्चैतद्ग्रन्थस्य कारक इति सूत्रस्थकारकशब्दस्य क्रियापरत्वं, न तु संज्ञापरत्वमिति पक्षोपपादकतया तद्व्याख्य नावसरे कारकसंज्ञाया एवाभावेनाधुना प्राचीनव्यवहारे कारकशब्दस्य कारकसंज्ञकपरत्वं वक्तुमशक्यम्। अपि च कर्तृण्वुलन्तकारकशब्दस्य क्रियान्वयीत्यर्थकथने लक्षणा रूढिर्वाश्रयणीयेति गौरवम्। न च त्वन्मतेऽप कर्तुः करणत्वाद्यसम्भवेन कारकं कर्म करणमित्यादि विरुद्धम्। कर्मादीनां कर्तृत्वाभावात्। कर्ता कारकमिति च पुनरुक्तमिति वाच्यम्। स्वव्यापारे सर्वेषामेव कारकाणां स्वातन्त्र्येण कर्तृत्वानपायादाद्यदोषस्य कर्ता कारकमित्यत्र कर्तृपदस्य प्रधानव्यापाराश्रयपरतया घटो नीलघट इतिवत्पौनरुक्त्यस्य चाभावात्। तदुक्तं हरिणा ``निष्पत्तिमात्रे कर्तृत्वलं सर्वत्रैचास्ति कारके। व्यापारभेदापेक्षायां करणादि त्वसम्भव इति। स्पष्टं चेदं मञ्जूषायाम्। ततश्च प्राचीनमतरक्षणप्रयासो ग्रन्थकर्तुरभिनिवेशमूलक एवेति सुधीभिराकलनीयमित्याहुः।।]
तदुपयोगीति।। तत्समर्थाचरणरूपा तदुपयोगिनी क्रियेति द्रष्टव्यम्। नन्वेवं दानवेलायामविद्यमानेपि तदुत्तरभाव्युत्पत्तिके निरूढसम्प्रदानत्वव्यवहारवति लक्षणघटककार्यनियतपूर्ववर्तित्वरूपजनकत्वस्य दौर्लभ्येन कारकत्वानुपपत्त्या तत्समनैयत्येन विधीयमानसम्प्रदानत्वासङ्गतिरत आह।। अविद्यमानस्यापीति।। बुद्ध्येंति।। तद्विषयकबुद्धिसत्ताप्रयुक्तमपि पूर्वत्वं कारणतावच्छेदककोटावाश्रीयते। अत एवाध्ययनेन वसतीत्यादौ फलस्यापि हेतुत्वेन व्यपदेश इत्याशयः। न च तादृशीं बुद्धिमाश्रित्य अन्यथासिद्ध्या [टि- अन्यथासिद्ध्येति।। इदमयुक्तम्। तत्त्वापेक्षया तद्बुद्धित्वस्य गुरुत्वाद्बुद्धेरेव पञ्चमान्यथासिद्धत्वात्। एतदेवाभिप्रेत्य सम्प्रदानस्य ज्ञानद्वारा पूर्वकालिकत्वं जनकत्वप्रयोजकमुपपादितं शेखरे। कारणत्वशरीरे पूर्ववृत्तित्वस्य तत्तत्सम्बन्धविशेषेणाभ्युपगन्तव्यतया ज्ञानविषयतासम्बन्धेन पूर्ववृत्तित्वमाश्रयणीयमिति तदाशयः। एवञ्च प्रसिद्धजनकत्वं विहाय प्रयोजकत्वरूपस्य तस्य ग्रहणेन किञ्चित्फलं नापि मानमित्याहुः।।] कथं जनकत्वमिति वाच्यम्। तदस्मै इत्यादिनिर्देशबलेन प्रयोजकत्वरूपमेवेह जनकत्वं, न तु कार्यनियतपूर्ववर्तित्वरूपमित्याश्रयणेन निर्वाहादिति दिक्। ननु मूले न भविष्यतीत्ययुक्तम्। स्वार्थद्रव्यलिङ्गसंख्याकारकात्मकं पञ्चकं प्रातिपदिकार्थ इति पक्षे कर्मत्वविशिष्टेऽर्थेऽभिधित्सिते द्वितीयेत्यर्थस्य वक्तव्यतया कटं करोतीत्यादौ प्रातिपदिकेनोक्तेपि कर्मत्वे सामर्थ्यादुक्तार्थानामिति न्यायं बाधित्वा यथा प्रवर्तते तथा क्रियते कट इत्यादावपि द्वितीयाया दुर्वारत्वादत आह।। तस्याश्शक्तेरिति।। कर्मत्वादिरूपकारकशक्तेरित्यर्थः।। उद्भूतेति।। उद्भूतत्वं [टि- उद्भूतत्वं चेति।। वस्तुतस्तु शक्तिमतो भेदेन प्रतीयमानत्वमुद्भूतत्वमिति प्रागुक्तमेवानुसन्धेयम्। भवदुक्तं तु न युक्तम्। गमयति वारीत्यादौ कर्तृत्वस्योद्भूतत्वापत्तेरिति बोध्यम्।।] च तद्विषयकबोधानुकूलविधिविषयीभूतचिकीर्षितप्रत्ययेतरप्रत्ययाद्यनपेक्षया प्रातिपदिकजन्यप्रतीतिविषयत्वम्। एवं चोद्भूतशक्तौ द्वितीयादिविधानेन कृतार्थस्यानुद्भूतशक्तौ तद्विधायकत्वे मानाभाव इत्याशयः। द्वितीयादिविधायकशास्त्रारम्भबलेन स्वविषये नाप्राप्तप्रातिपदिकमात्रप्रयुक्ततदुक्तिविषये न्यायबाधाभ्युपगमेपि प्रातिपदिकतदितरैतदुभयकृततदुक्तिविषये तद्बाधो न युक्त इति तात्पर्यम्।
अत्र केचित्। कर्मत्वेऽभिधित्सिते द्वितीयेत्यादिर्विभक्तिविधायकसूत्रार्थः। कारकं च विभक्तेरेवार्थ इति मूलकृदाशयः। न तु पञ्चकं प्रातिपदिकार्थ इति। ्त एव किञ्चेत्यादिग्रन्थसङ्गतिः। अन्यथा कर्मत्वविशिष्टेऽर्थे बोधनीये इत्यर्थे तद्विषये कर्मत्वस्याधिक्यान्मात्रपदेन प्रथमाया अप्रवृत्त्या तदसङ्गतिरेव। यदि तु मात्रपदेनोद्भूतकारकशक्तेरेव व्यवच्छेदो न त्वनुद्भूताया अपि कटः क्रियत इत्यादावतः प्रथमायाः प्रवृत्तिर्निर्बाधैवेत्युच्यते, तदा कर्मणि द्वितीयेत्यादिभिरुद्भूतकर्मत्वादिशक्तावेव द्वितीयादेर्वक्तव्यतया प्रकृते तिङ्प्रत्ययेनाभिधानादनुद्भूतायां तस्यां प्रवृत्त्ययोगात्प्रथमया बाधिष्यत इत्युक्तेरसाङ्गत्यं तदवस्थमेव। तस्मात्पञ्चकं प्रातिपदिकार्थ इति पक्षावलम्बी नायं मूलकारग्रन्थ इत्याहुः।।
अत्र बहवः। पञ्चकं प्रातिपदिकार्थ इति पक्षेपि न प्रातिपदिकमात्रोच्चारणेन सर्वं भासते। किन्तु समभिव्याहारानुरोधादेव। तथाहि। स्वार्थद्रव्यलिङ्गसंख्याकारकं प्रातिपदिकस्यैव वाच्यम्। द्योतकसमभिव्याहारादेव तु पञ्चानामर्थानां भानमिति निष्कर्षः। ततश्च कर्मत्वविशिष्टेऽर्थे बुबोधयिषिते द्वितीयेत्यर्थे द्वितीयाप्रवृत्तेः प्रागुद्भूतकर्मत्वशक्तेरभावात्प्रथमाप्रवृत्तिर्निर्बाधैव। परन्तु तिङ्प्रत्ययेनाभिधानादनुद्भूतत्वात्कर्मत्वशक्तेः प्रकृते द्वितीयाया उद्भूतशक्तिनिमित्तिकायाः प्रसक्त्यभावात्प्रथमया बाधिष्यत इत्ययुक्तमिति परमवशिष्यते। तत्रेत्थं वक्तव्यम्। अनुद्भूतकर्मताविशिष्टस्याप्युद्भूतकर्मताविशिष्टत्वेन बोधनेच्छायाः प्रतिबन्धकाभावेन तन्निमित्तकत्वेन प्रसक्ता द्वितीया प्रथमया बाधमन्तरेण कथं निमित्ता स्यादतः पञ्चकपक्षावलम्बेपि युक्त एवायं किञ्चेत्यादिग्रन्थ इति वदन्ति।।
अन्ये तु व्यतिलुनीत इत्यादावेकार्थद्योतकानेकसमभिव्याहारदर्शनात् द्योतकविषये नोक्तार्थानामिति न्यायस्य प्रवृत्तिः। अतो बहुपटव इत्यादौ कल्पबादीनां बहुचा येन नाप्राप्तिन्यायमूलकबाधेनैव निवर्तनीयतया प्रकृतविषये कथं चित्प्रथमाया द्योतकद्वितीयया बाधेनैव निवृत्तिरित्याशयकः प्रञ्चकं प्रातिपदिकार्थ इति पक्षानुसारेणायं किञ्चेत्यादिमूलग्रन्थः। अत एव कारकं विभक्त्यर्थ इति पक्षे सूत्रं प्रत्याख्यातमित्युत्तरग्रन्थस्स्वरसत उपपद्यत इत्याहुः।।
तदेतत् ध्वनयन्नाह।। कर्मणि वर्तमानादित्यादि।। ननु कर्मणि वर्तमानादित्युक्ते पञ्चकं प्रातिपदिकार्थ इति पक्षे कर्मत्वे बोधनीये द्वितीयेत्यर्थः पर्यवसन्नः। तत्र कटं करोतीत्यादौ द्वितीयाद्युत्पत्तेः पूर्वं कर्मत्वादिबोधकसमभिव्याहाराकाङ्क्षाया उद्भूतत्वत्तथाभूतस्य कर्मत्वादेरुद्भूतत्वम्। कटः क्रियत इत्यादौ तु लकारादिना तद्बोधकसमभिव्याहाराकाङ्क्षाया अनुद्भूतत्वात्तद्विषयस्य कर्मत्वस्यानुद्भूतत्वमिति खलु व्यवस्था। तथा चोद्भूतकर्मत्वादिविशिष्टैकत्वादौ विभक्तिविधानेन कृतार्थस्यानुशासनस्यानुद्भूताकाङ्क्षाविषयत्वादिविशेषे तस्मिन् विभक्तिविधायकत्वस्याप्रसक्तत्वात्सिद्धान्तेप्यनभिहिताधिकारो व्यर्थ इत्यात आह।। अनभिहितमूत्रमपीति।। तात्पर्यग्राहकमिति।। निरुक्तानुद्भूतत्वानुवादकमेवै तत्सूत्रमिति भावः।। अभिपानादिति।। सर्वं वाक्यं क्रियया परिसमाप्यते, क्रियान्तराभावेप्यस्तिक्रियाध्याहारो नियत इति तु न युक्तम्। त्वया कर्तव्यमित्यादेस्सुबन्तचयत्वेन पृथग्वाक्यत्वोपपादनपरमहाभाष्यकारोक्तिस्वारस्यात्। अभिहिते प्रथमा तिङ्समानाधिकरणे प्रथमेति वार्तिकद्वयमपि न युक्तम्। पचतिकल्पं पचतिरूपमित्यादौ प्रथमादर्शनादतो वृक्षः प्लक्ष इत्यादौ नास्ति क्रियाध्याहार इति वदतां नैयायिकानामयमभिमान इति बोध्यम्। साकाङ्क्षत्वेनेति।। अन्वय इत्यदोषादिति शेषः। व्यत्ययेनायं समाधानग्रन्थः। ईदृशे विषये लक्ष्यसंस्कारकमहावाक्ये सार्वधातुकार्थधातुकयोरित्येतदेकवाक्यत्वेनालोन्त्यस्येको गुणवृद्धीत्यनयोर्गुणशास्त्रयोरप्यन्यत्र परस्परान्वयाङ्गीकारात्संख्यासंख्येययोरपि साकाङ्क्षत्वेनान्वय इत्यदोषादित्यर्थः।।
प्रधानविषय इति।। इदं चिन्त्यम्। मूलोक्तरीत्या कर्मत्वस्योक्तत्वेप्येकत्वस्यानुक्तत्वात्संख्याकारकोभयं विभक्त्यर्थ इति मतेऽप्येकस्योक्तत्वेप्यपरस्यानुक्तत्वेनोभयस्यानुक्तत्वाद्विभक्तिप्रवृत्तेर्दुर्वारत्वेन न्यायस्य प्रवृत्त्ययोगादिति वदन्ति।। सर्वत्रैवेति।। अन्यतरानुपादानेपि कर्मण्येवेति नियमप्रवृत्तावकर्मकाणामपि देशकालादिकर्मसद्भावादभिहितानभिहितसाधारण्येन कृदन्तयोगे सर्वत्रैव तद्विषयत्वमिति भाव-।. उभयप्रयोग इति।। कर्तृकर्मवाचकशब्दद्वयप्रयोग एवेत्यर्थः।. नन्वेतद्भाष्यप्रामाण्यादुभयप्रयोग एवोभयप्राप्तावित्यस्य विषय इत्यभ्युपगमे कृत्यानामिति विभक्तसूत्रस्य तथाविधे कर्मणि षष्ठीनिषेधकस्याक्रष्टव्या ग्रामं शाखेति कर्तृवाचकपदविरहितं भाष्यकारोपदर्शितमुदाहरणमसम्बद्धं स्यादत आह।। अध्याहृत्येति।। ननु कर्तव्यः कट इत्यादावप्यध्याहारतात्पर्यकत्वे षष्ठीनिषेधाद्द्वितीयां बाधित्वा परत्वेन प्रथमाप्रवृत्तावभीष्टसिद्धिरेवेत्यत आह।। आदिना भवतो लाभ इति।। लभेः कर्मणि घञ्। अधिकाराभावे भवच्छब्दादुभयप्राप्ताविति निषेधात्षष्ठी न स्यादश्वशब्दाच्च कर्मणि सा स्यादिति भावः।। तिङादिभिरुक्तेपीति।। उक्तार्थानामिति न्यायस्तु प्रधानविषय इत्याशयः।। कारकस्येति।। कारकमात्रस्येत्यर्थः। संख्याकारकोभयं विभक्त्यर्थ इति पक्षे तु परस्परविशेष्यविशेषणभावापन्नयोरेव विभक्तिवाच्यतायां कृद्विषये कारकस्योक्तावपि प्रकृत्यर्थे प्रकारत्वेन नियतान्वयवत्या संख्याया अनुक्तत्वेन निरुक्ताधिकारमन्तरा कारकविभक्तेः परिहारासम्भव इति बोध्यम्।।
व्यापारांश इति।। अत्रेदं बोध्यम्। कारकं विभक्तेर्वाच्यमिति पक्षे कर्मणि द्वितीयेत्याद्यनुशासनवशाद्धर्मिभूतं कर्माधिकं विभक्तेर्वाच्यम्। अत्र प्रकृतधातूपात्तप्रधानीभूतव्यापारप्रयोज्यप्रकृतधातूपात्तफलाश्रयस्य कर्मतया फलव्यापारयोर्धातुना लाभादनन्यलभ्यस्यैव शब्दाभिधेयत्वेन कल्पनीयत्वादाश्रयमात्रमेव द्वितीयाविभक्तेरर्थः। यद्यप्याश्रयोपि प्रकृत्या लभ्यते, तथाप्याश्रयत्वेन न लभ्यत इति तस्य विभक्तिवाच्यत्वम्। आश्रयत्वत्वेनानुगताया आश्रयतायाः शक्यतावच्छेदकत्वान्न शक्याननुगमो दोषः। अखण्डोपाधिराश्रयतेत्यन्ये। प्रकृत्यर्थान्वितस्य तस्याधेयतासम्बन्धेन फले फलस्यानुकूलतासम्बन्धेन व्यापारे चान्वयः। आख्यातवाच्यस्य प्रधानव्यापाराश्रयात्मकस्य कर्तुराधेयत्वेन व्यापार एवान्वयः। तिङ्प्रतिपाद्यसंख्यायाः कर्तर्याश्रयत्वेनान्वयः। लट्प्रतिपाद्यो वर्तमानकालस्त्वाधेयतया व्यापारविशेषणम्। एवञ्चैकत्वसंख्यावच्छिन्न आश्रयनिष्ठो हर्यभिन्नाश्रयनिष्ठप्रीत्यनुकूलो वर्तमानकालिको व्यापार इति बोधः। कर्मप्रत्यये तु हरिस्सेव्यत इत्यादौ निरुक्तरीत्या कर्मलकारस्याश्रयमात्रार्थकत्वाद्यत्किञ्चिदाश्रयनिष्ठवर्तमानकालव्यापारजन्या हर्यभिन्नैकत्वसंख्यावच्छिन्नाश्रयनिष्ठा प्रीतिरित्येवं बोध इत्याशयः। यद्वा कर्मादिकारकाणामतिरिक्तकर्मत्वादिरूपतत्तत्कारकशक्तिपुरस्कारेणैव भानम्। तदुक्तं हरिणा ``आश्रयोवधिरुद्देश्यस्सम्बन्धश्शक्तिरेव वेति। ततश्च हर्यभिन्नकर्मत्वशक्तिमन्निष्ठा प्रीतिरित्येवं बोध इत्याशयः। उक्तार्थे लोकानुभवस्य विप्रतिपन्नत्वादाह।। अत एवेति।। भाष्यकाराद्यनुभवानुरोधिना विशेषणविशेष्यभावेन बोधजनकतायामेव साधुत्वं नान्यथेति भावः।। न प्रयोग इति।। वृत्तिविग्रहयोस्समानार्थकत्वनियमादिष्यते पुत्र इत्यादौ विशेषणीभूतस्य व्यापारस्य पुत्रीयती त्यत्र विशेष्यतया प्रतीत्या भिन्नार्थत्वादप्रयोगः। कर्मबोधकसुबन्तादिच्छायां प्रत्यये तदनुकूलव्यापाराश्रयवत्तज्जन्यफलाश्रये कर्मणि न लकारादयः। कर्मणो धातुनैव संगृहीतत्वेन जीवत्यादिवदकर्मकत्वादिति भावः।। अयमर्थ इति।। क्यजन्तात्कर्मणि लकारद्यनुत्पत्तिरूप इत्यर्थः। प्रतीकान्तरे पूर्वत्रानभिहितमिति प्रतीके इत्यर्थः।। अत्रैवेति।। सोऽर्थोऽत्रैव वक्तुं युक्तो भाष्यतात्पर्यानुसारादित्याशयः। ननु कर्मप्रत्ययसमभिव्याहारे सुप आत्मन इति सूत्रस्थाकरप्रामाण्यात्फलमुख्यविशेष्यकबोधाभ्युपगमे भावप्रधानमाख्यातमिति यास्कोक्तिमूलकः क्रियामुख्यविशेष्यक एव शाब्दबोध इति रूपप्सूत्रस्थभाष्यकारोपदर्शितशाब्दिकसिद्धान्तव्याकोप इत्यत आह।। भाष्ये क्रियेति।। अंशद्वयस्यापीति।। फलांशस्य व्यापारांशस्य चेत्यर्थः। इदमुपलक्षणम्। यास्कवाक्ये भावशब्दोप्यंशद्वयाभिप्रायकः। अन्यथा सुप आत्मन इति सूत्रस्थभाष्यैकवाक्यताभाङ्गप्रसङ्ग इत्याशयः। ननु नामान्याख्यातजानीति शाकटायनवचने धातुपरत्वादाख्यातशब्दस्य तदेकवाक्यतालाभाय यास्कोक्तावप्याख्यातशब्दस्य धातुपरत्वावश्यम्भावेन धातूपात्तफलांशनिरूपितव्यापारांशगतप्राधान्यमुपाश्रित्य लकाराणां कृतिवाचकतापुरस्कारेण प्रथमान्तविशेष्यकबोधेपि तदुपपत्त्या क्रियामुख्यविशेष्यक एव बोध इति शाब्दिकानामुद्धोषो न युक्तः। न च यास्कोक्तावाख्यातशब्दस्य धातुपरत्वे भावशब्देन व्यापारमात्रग्रहणे सुप आत्मन इति सूत्रस्थभाष्यकारोपपादितफलप्राधान्यविषयकबोधोपपादककर्मप्रत्ययघटितप्रयोगासङ्ग्रहः। फलव्यापारोभयग्रहणे कर्तृकर्मप्रयोगभेदेन द्वयोरपि प्राधान्यदव्यावर्तकं यास्कवचनं स्यादतस्तिङन्तपरत्वं दुष्परिहरमिति वाच्यम्। क्रियाविशेषमत्वसम्पत्तये लकाराणां कालविशेषस्य द्योतकत्वेपि धातोरेव वाचकतया तथाविधकालविशेषनिरूपितव्यापारविशेष्यतामादाय तदुपपत्तेरत आह।। आख्यातशब्देनेति।। तिङन्तानामेव समासस्याभीष्टत्वादिति भावः।। कालसंख्येत्यादि।। क्रियाकालसंख्याकारकाश्चत्वारो धातोरेव वाच्या इति भावः। एतेन कारकातिरिक्तं त्रिकं धात्वर्थ इति पक्षे कालनिरूपितं क्रियायां प्राधान्यमिति सूचितम्।। साध्विति शेष इति।। यद्यपि हन्तीति पलायत इत्यादिवत्कार्यकारणभावाभ्युपगमे पचति व्रजतीत्यस्याप्येकवाक्यतया साधुत्वं सुवचम्; तथापि मूलोक्तर्थे नैकवाक्यतया साधुत्वमित्याशयः।। अव्ययातिरिक्तमिति।। तेषां लिङ्गसंख्यासम्बन्धविरहितार्थकत्वेन प्रधानतयाऽसत्त्वबोधकत्वादित्याशय-। ननु तिङन्तस्य प्राधान्येन क्रियाबोधकत्वं, सुबन्तस्य तु द्रव्यबोधकत्वमित्येव निरुक्तवाक्याभ्यां लभ्यते। न तु तयोर्विशेषणविशेष्यभाव इति कथं क्रियामुख्यविशेष्यकबोधनिर्वाहकता वाक्यस्येत्यत आह।। नमन्तीत्यादि।। नादरणीयमिति।। एतन्निरुक्तभाष्याभ्यां विरोधात् कृतिप्रधानानीत्यादिव्याख्यानान्तरं न प्रमाणमिति भाव-।। इति सेष इति।। इदमपि प्रमाणमिति भावः।। भाष्ये इति।। मूले एवं पचति भवतीति चकारविरहितपाठे इत्यर्थ इत्यनन्तरं भूवादिसूत्रस्थभाष्ये स्पष्ट इति शेषः। तथा च प्रमाणान्तरप्रदर्शनपरमेतत्। एवं चेति पाठे तु फलीभूतबोधस्वरूपनिरूपणपरमिति यथाश्रुतमेव साधु।। व्यापारस्य सङ्ग्रह इति।। व्यपदेशिवद्भावप्रयोज्यफलाश्रयत्वमूलकत्वेन फलस्यापि कर्मतया कर्तृप्रत्ययसमभिव्याहारदशायां शब्दाध्याहारवादे यथा स्वनिष्ठकर्मतानिरूपकत्वरूपसंसर्गविधया व्यापारविशेषणीभूतफलगतकर्मत्वभानं, यथा वार्थाध्याहारे फलनिष्ठकर्मतानिरूपकत्वनिशिष्टो व्यापार इति प्रकारतया भानं, तथा कर्मप्रत्ययसमभिव्याहारदशायां शब्दाध्याहारे व्यापारविशेष्यभूतफलगतकर्मत्वस्य स्वनिरूपितकर्मतावत्त्वरूपसंसर्गविधया भानमर्थाध्याहारे च व्यापारनिरूपितकर्मत्वविशिष्टं फलमित्येवं प्रकारतया भानमित्याशयः।। प्रकृतेपीति।। पश्य मृगो धावतीत्याद्याख्यातविषयेपीत्यर्थः।।
ननु पदजन्यपदार्थोपस्थितेरेव शाब्दबोधीयप्रकारताविशेष्यताख्यविषयताप्रयोजकत्वमित्येवंविधनियमानुरोधेनाध्याह्रियमाणपदजन्यपदार्थोपस्थितिमादाय प्रकारतानिर्वाहाय यत्र शब्दाध्याहारः पदैराश्रीयते, तत्र पदादनुपस्थितेप्यर्थे संसर्गतावत्प्रकारताया अपि स्वीकारे बाधकाभाव इत्यध्याह्रियमाणस्यार्थस्यैव प्रकारतामब्युपगच्छन्त्यर्थाध्याहारवादिन इत्येव वैलक्षण्यमस्तु। यत्र शब्दाध्याहारस्यासम्भवेन तादृशाध्याहारवादिनस्संसर्गत्वमाश्रयन्ते, तत्राध्याहारवादिनये प्रकारत्वमित्ययुक्तम्। उपायभेदेनोपेयवैगुण्यस्यायुक्ततया बोधवैगुण्यायोगात्। ततश्च पचतीत्यादौ फलगतकर्मत्वबोधनाय पस्य मृगो धावतीत्यादौ क्रियागतकर्मत्वबोधनाय च समभिव्याहारान्तरानपेक्षया स्वार्थसमर्पकस्यैवाध्याहाराङ्गीकारेण द्वितीयामात्रस्याध्याहर्तुमशक्यत्वात्तादृशकर्मतायास्संसर्गत्वस्यैवोभयवादेपि वक्तव्यत्वेनासङ्गतैव मतभेदप्रयुक्तमूलकारोपदर्शितव्यवस्थेत्यत आह।। वस्तुत इति।। समवायस्येवेति।। ननु पदादुपस्थितस्य तस्य कथं संसर्गतेति चेदुच्यते। पदजन्यपदार्थोपस्थितिविषयस्य प्रकारताविशेष्यतान्यतररूपविषयतयैव भानमिति न नियमः। किन्तु पदादनुपस्थितस्य तथाविधविषयतया भानाभाव इति।। ततश्च शब्दान्तराध्याहारप्रयुक्तोपस्थितिविषयत्वासम्भवप्रयुक्तमिह समवायस्य संसर्गत्वमिति। ननु सिद्धस्य दृष्टान्तता, साध्यस्य दार्ष्टान्तिकतेति लोकव्यवहारः। प्रकृते च द्वयोरप्यप्रसिद्धत्वात्कथं दृष्टान्तदार्ष्टान्तिकभाव इत्यत आह।। तत्र नव्यनैयायिकेत्यादि।। इत्थं च वादिसम्मतत्वादस्य दृर्ष्टान्तत्वमिति भावः। ननु पदसंस्कारवेलायां विशेषणविशेष्यभावाभावाद्विशेषणसमर्पकादित्ययुक्तमत आह।। बोधकालेति।। कर्मत्वेन सम्बन्धोत्तरं द्वितीयाप्रवृत्तिशङ्केति भावः।। विलय एव स्यादिति।। यत्तु मृगस्य कर्मत्वेपि न द्वितीयाप्रसक्तिः। यत्र कर्मत्वस्य प्रकारतया बुबोधयिषा तत्रैव द्वितीयाप्रवृत्त्यभ्युपगमात्। प्रकृते तु कर्मत्वस्य संसर्गतयैव भानस्याभीष्टत्वान्न तत्प्रसक्तिरिति तदसत्। कर्मत्वादिसंसर्गकनामार्थप्रकारकधात्वर्थविशेष्यकबोधस्याव्युत्पन्नत्वात्। अन्यथा तण्डुलः पचतीत्यादेरपि प्रयोगस्य साधुत्वापत्तेः।।
शतृसूत्रस्थेत्यादि।। अपचतो धनं देवदत्तो देहीति शतृविधायकसूत्रस्थं भाष्यम्।। पच्यादयः क्रियाः कर्त्य्रो भवन्ति इति भूवादिसूत्रस्थमिति बोध्यम्। ननु प्रमाणोपहितत्वेपि कथमस्मदादीच्छाया अकिञ्चित्करत्वं तत्राह।। ऋषीणामिति।। एवं प्रमाणभूतमुनितात्पर्यविरोधे सत्यस्मदादीच्छा निष्प्रयोजमैवेत्याशयः। ईदृशे स्थले इति।। कर्मत्वान्वयितावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नबोधकप्रातिपदिकाद्द्वितीयेतिविभक्तिविधायकसूत्रार्थः। प्रकृते च धावनानुकूलकृत्याश्रयत्वविशिष्टं मृगत्वमवच्छेदकम्। तदवच्छिन्नबोधकता च सङ्घातस्य न तु मृगशब्दमात्रस्येति नास्ति द्वितीयाप्रसक्तिरित्याशयः।। अनापत्तेरिति।। यद्यपि कटं भीष्मं कुर्वित्यादिवत्प्रत्येकं कर्मतया क्रियान्वयेन द्वितीयोत्पत्त्या पार्ष्णिके परस्पराभेदबोधे नीलं घटमित्यादावपि नास्त्यनुपपत्तिः। तथापि राज्ञः पुरुषमानयेत्यादौ तदनुपपत्तिर्दुर्वारेत्याशयः।। मूलेपि तथा व्युत्पन्नानामिति।. यस्य यादृशी व्युत्पत्तिस्तस्य तादृशोबोधः। ईदृशेर्थे सक्तिर्नेत्यपि न, बोधजनकताया एव शक्तित्वात्। न च बोधजनकत्वग्रहाधीनो बोधो बोधाधीनं च बोधजनकत्वमित्यन्योन्याश्रय इति वाच्यम्। शक्तिग्रहाद्बोधो हि स्वस्य परकीयबोधजनकत्वं च शक्तिरित्यन्योन्याश्रयानवकाशात्। भ्रान्त्यभावेपि भ्रान्तविषयकज्ञानवद्बोधाभावेपि बोधजनकत्वज्ञाने बाधकाभावात्। न च नूतनकविविरचितवाक्यात्परकीयबोधाप्रसिद्ध्या शक्तिग्रहाभावेन प्राथमिकबोधानुपपत्तिरिति वाच्यम्। तद्वाक्यघटकपदघटितवाक्यान्तरार्थस्यानुभूतत्वेनान्वयव्यतिरेकाभ्यां तत्पदघटितविशिष्टे बोधजनकत्वस्य सुलभत्वादिति दिक्। ननु पश्य मृगो धावतीत्यादावेकवाक्यतास्वीकारे धावनस्य दृशिक्रियां प्रति विशेषणत्वेनाप्राधान्यात्क्रियाप्रधानमाख्यातमिति सिद्धान्तव्याघात इत्यत आह।। क्रियायाः प्राधान्यमिति।। इति दिगिति।। शृणु गयतीत्यादौ गानकर्तुः श्रावणविषयत्वानुपपत्त्या पश्य देवो वर्षतीत्यादौ वर्षणकर्तुर्देवस्य चाक्षुषविषयत्वानुपपत्त्या चेदृशक्रियाप्राधान्यमाश्रित्य कर्मतया गानवर्षणादेरेकवाक्यत्वेनैव क्रियान्तरान्वयस्य सार्वजनीनतया सर्वथा स्वीकारे बाधकाभावो लाघवं चेति दिगर्थः। ननु क्रियान्तरनिरूपितकर्तृत्वकर्मत्वातिरिक्तकारकत्वव्याप्यधर्मराहित्यमसत्त्वरूपमिति मूलकारीयनिष्कर्षे हरिं नमेच्चेत्सुखं यायादित्यादौ नमनादेः करणत्वदर्शनेन तदनुपपत्तिरत आह।। हरिं नमेदित्यादि।। न कारकत्वमिति।।[टि- न कारकत्वमिति।। मूले ``न क्रियाकारकभावेनेति न कारकत्वमिति न दोपः इत्यधिकतया दृश्यमानं पाठमनुसृत्येदम्। इदानीन्तनपुस्तकेष्वयं पाठो न दृश्यते।।] न कारकत्वव्याप्यकरणत्वमित्यर्थः। तथा प्रतीत्यभाव एवात्र बीजम्। नन्वेवमपि शोभनं पचतीत्यादौ पाकादेर्ज्योतिष्टोमेन यजेतेत्यादौ यागस्य च स्ववाचकधातूपात्तक्रियानिरूपितकर्मत्वकरणत्वयोस्सत्त्वेन क्रियान्तरनिरूपितकर्तृत्वकर्मत्वातिरिक्तकारकत्वव्याप्यधर्मवत्त्या तत्रासत्त्वरूपताभङ्गो दुर्वार एवेत्यत आह।। नासत्त्वरूपतेति।। स्ववाचकातिरिक्तपदजन्यप्रतीतिविषयः क्रियानिरूपितः कर्तृत्वकर्मत्वातिरिक्तो यो धर्मः कारकत्वव्याप्यस्तद्राहित्यमसत्त्वरूपत्वमिति विवाक्षितमित्याशयः। वस्तुतस्सम्प्रदानत्वाभावो वापादानत्वाभावो वात्रासत्त्वरूपत्वमिति वक्तुमुचितम्।। आद्यमेवेति।। कर्तृत्वातिरिक्तनिरुक्तकारकशक्तिराहित्यमसत्त्वरूपत्वमिति सुवचमिति भावः।। निष्ठयाभिधानादिति।। तत्तत्पदार्थगता कर्मत्वादिशक्तिरनेकक्रियानिरूपिताप्येकैवाखण्डा, नानात्वे मानाभावात्। अत एव पक्त्वौदनो भुज्यत इत्यादौ न द्वितीया। ततश्च पक्वमोदनं भुङ्क्त इत्याद्युकविषये कथं द्वितीयाप्रवृत्तिरित्याशङ्कभिप्रायः। तत्तत्क्रियानिरूपिताभिन्ना एव कर्मतादिशक्तयः। अत एव सप्तमीपञ्चम्यौ कारकमध्ये इत्यनेन अद्य भुक्त्वायं द्व्यहे द्व्यहाद्वान्नं भोक्तेत्यादौ कारकशक्तिमध्यगतत्वेन सप्तमीपञ्चम्योरुपपत्तिः। ततश्च प्रकृते पचिनिरूपितायास्तस्या उक्तत्वेपि भुजिनिरूपिताया अनभिधानाद्द्वितीया सुववेत्याशङ्कानिराकरणाभिप्रायः। फलाश्रयत्वादिरूपैव कर्मत्वादिशक्तिर्नातिरिक्तेति मतेपि निरूपकभेदेन भिद्यत एव सेति न क्षतिरिति बोध्यम्। प्रकाशत इति।। प्रधानक्रियावाचकधातूत्तरविहितनिष्ठादिना कर्मत्वादिकारकशक्तेरभिधानेगुणभूतक्रियानिरूपितापि तत्सजातीया कारकशक्तिरभिहितवन्नोद्भूता भवति, प्रधानक्रियावाचकधातूत्तरविहितैर्निष्ठादिभिरनभिहिता सा गुणभूतक्रियावाचकधातूत्तरविहितैस्तैरभिहिताप्यनभिहितवदुद्भूता भवत्युद्भूतकर्मत्वादिशक्तेरेव हि विभक्त्याद्युत्पत्तौ निमित्तमिति नास्ति तदंशे द्वितीयाद्युत्पत्तौ निर्बन्ध इत्याशयः। ननु मुनित्रयाननुगुहीतार्थबोधकयोरनयोर्हरिकारिकयोः कथं प्रामाण्यमित्याशङ्कां निराकर्तुमाह।। स्वादुमि णमुलित्यादि।। भाष्ये इति।। आच तुमुनः प्रत्ययास्समानाधिकरणे कारके वक्तव्या इत्येतद्वार्तिकप्रयोजनकथनावसरे इत्यादिः। ननु गुणप्रधानसन्निधावन्यतराभिधाने तदितरानभिधानमाश्रित्य कार्यप्रसक्तौ प्रधानक्रियानिरूपितकारकशक्तेः प्राबल्यात्तदनुरोधेन गुणभूतक्रियानिरूपितकर्मत्वादिशक्तेरभिधानानभिधाने भवत इति युक्तमुक्तहरिवचनादिप्रामाण्यात्। यत्र तु द्वयोरप्यनभिधानं तत्र कथमेकया विभक्त्या द्वयोरभिधानं स्यात्तत्राह।। एवमिति।। गुणशक्तेः प्रधानशक्त्यनुरोधमभिदधता हरिणा पश्त्वौदनं भुङ्क्त इत्यादौ गुणप्रधानभूतकारकशक्तिद्वयमपि सजातीयमेकप्रत्ययेन प्रतिपादयितुं युक्तमित्यर्थोऽप्यननुगृहीत एव तुल्यन्यायादित्याशयः।। ग्रामाय गन्तुमित्यादि।। गत्यर्थकर्मणीति द्वितीयाचतुर्थ्यावत्रेति द्रष्टव्यम्। ननु तुमुनन्तोपस्थाप्यगतिक्रियानिरूपितकर्मत्वस्याप्रधानतया तिङन्तोपस्थाप्यप्रधानीभूतेच्छानिरूपितकर्मत्वप्रयुक्तद्वितीयाया एव न्याय्यत्वान्निरुक्तहरिवचनविरोधेन कथं गुणभूतगतिकर्मत्वप्रयुक्तयोर्द्वितीयाचतुर्थ्योः प्रवृत्तिरिति चेत्सत्यम्। ईदृशप्रयोगप्रदर्शनपरभाष्यबलेनेच्छाकर्मीभूतधात्वर्थनिरूपिताया इच्छानिरूपितायाश्च कारकशक्तेर्युगपदभिधानप्रसक्ताविच्छाकर्मीभूतधात्वर्थनिरूपितकारकशक्तिप्रयुक्तमेव कार्यमित्यर्थोऽवगम्यते। अत एव वैकुण्ठे तिष्ठासतीत्येव, न तु वैकुण्ठमिति प्रयोगः। अत एव चाक्षैरक्षान्वा दुद्यूषतीत्यादयः प्रयोगा इति युक्तमेवोक्तोदाहरणे द्वितीयाचतुर्थ्योर्विधानमित्याहुः। ननु यत्र गुणप्रधानभूतक्रियानिरूपितकारकशक्त्योर्निरूपकभेदप्रयुक्त एव भेदस्तत्र भवतु द्वयोरप्येकया विभक्त्या प्रतिपादनम्। यत्र तु स्वरूपतो भेदो मूलकेनोपदंशमित्यादौ कर्मत्वकरणत्वयोस्तत्र कथमेकया द्वयोरभिधानमिति चेत्सत्यम्। प्रधानीभूतभुजिक्रियायां करणत्वेन सम्बन्धश्शाब्दः कर्मत्वेनोपदंशनक्रियायां सम्बन्धस्त्वार्थ इति मूलकशब्दात्तृतीयैव न द्वितीयेत्याहुः।
केचित्तु शाब्द एवोभयत्रापि सम्बन्धस्तत्र कर्मत्वकरणत्वाभिधायकयस्तृतीयाद्वितीययोर्युगपत्प्रवृत्तिविरोधेन षरत्वस्य व्यवस्थापकत्वात्तृतीयैव। न च नियमपक्षे करणत्व एव तृतीयाप्रवृत्त्या कर्मत्वस्याधिक्यात्कथमिह तृतीया स्यादिति वाच्यम्। नियमस्य करणत्वाभावसामानाधिकरण्येन शक्यन्तरव्यवच्छेदकत्वेपि तत्समानाधिकरणशक्त्यन्तरव्यवच्छेदकत्वाभावात्। अत एव शत्रूनगमयदित्यादौ कर्तृत्वरूपकर्मत्वरूपशक्तिद्वयाभिधायिनी द्वितीया प्रधानकार्यित्वात्तृतीयां बाधत इति स्पष्टं गतिबुद्धीतिसूत्रस्थाकर इत्याहुः।।[टि- आहुरिति।। अत्रेदं बोध्यम्। आवृत्त्या शाब्दोऽन्वय िति मूले शब्दावृत्त्यर्थावृत्त्योरन्यतरनिश्चायकं न किञ्चिदुपलभ्यते। अतो यस्या युक्तत्वं सैवास्तु। अतो मूलमतादन्यमतत्वस्फोरकं केचित्त्वित्यादिलेखनं ग्रन्थकारशैलीविरुद्धम्। मतान्तरलेखन एव तथालेखनस्यान्यत्र दृष्टत्वात्। वस्तुतस्त्वावृत्तौ मूलकृतो न निर्बरः। एवंविधेषु वाक्यैकदेशन्यायेन वाक्यशक्त्यैव विशिष्टार्थबोध इति सिद्धान्तात्। अतो नात्रातीव प्रयतनीयमित्याहुः।]
आवृत्त्या शाब्दान्वय इति।। केचित्तु नात्र शब्दावृत्त्या गुणप्रधानयोश्शाब्दान्वयः। किन्त्वर्थावृत्त्यैव गुणप्रधानयोस्सम्बन्धः। तत्र पक्त्वौदनं भुङ्क्त इत्यादावादितः प्रधानक्रियासम्बन्धे धर्मिपारतन्त्य्रेण पाश्चात्यो गुणक्रियासम्बन्धः। ग्रामं गन्तुमिच्छतीत्यादौ तु प्रथमं गुणभूतक्रियासम्बन्धः। पश्चादिच्छासम्बन्धः। न हि ग्रामो भूयादितीच्छति। किन्तु ग्रामगमनं मे भूयादिति धर्मिपारतन्त्य्रेणान्वय इत्यस्य च स्वधर्मिणि यस्य पारतन्त्य्रं स्वधर्मिणो वा यत्र पारतन्त्य्रं तत्र स्वान्वय इति विनिगमनाविरहप्रयुक्तो भाष्यादिसम्मतो वाक्यार्थः। अयमपि शाब्द एव व्यञ्जनाखण्डनायैवंविधस्याप्यन्वयस्याभियुक्तैश्शाब्दत्वाङ्गीकारात्। कटं भीष्मं कुर्वित्यादौ स्वधर्मिभूतक्रियायां परतन्त्रे कटादौ पाश्चात्य एव भीष्मादिपदार्थपदसम्बन्धेनान्यव्यवच्छेदः। ईदृशान्वयस्य शाब्दत्वादेव समासस्याप्युपपत्तिः। इदं च वक्ष्यमाणवार्तिकप्रत्याखख्यानस्वरसतो लब्धमित्याहुः।।
अत्र प्रयोगे इति।। इष्यते ग्रामो गन्तुमित्यत्रेत्यर्थः।। एतद्विरोधादिति।। शाब्दसम्बन्धो विभक्तिनिमित्तमार्थिकश्च तदभावस्येत्युक्तौ ग्रामो गन्तुमिष्यत इत्यत्रापि गुणभूतगमिक्रियायां शाब्दान्वयमादाय तयोः प्रवृत्तेर्दुर्वारतया न कदापीत्यस्यासङ्गतिरिति भावः। उक्तमर्थं प्रमाणयति।। भाष्ये इति।। समभिव्याहृतेनेत्यस्य विवरणमनुप्रयुज्यमानेनेति।। सामानाधिकरण्यं क्रियाद्वारकम्। इत्थं च स्वप्रकृतिभूतधातुवाच्यक्रियासमानाधिकरणक्रियाश्रयीभूतानुप्रयुज्यमानधातुप्रकृतिकप्रत्ययोपस्थाप्ये कारके इत्यर्थः।। न वक्तव्यमिति।। भावे प्रत्यये गुणभूते पच्यादावोदनस्य कर्मणो धर्मिपारतन्त्र्येणान्वयेपि भुजिक्रियानिरूपितप्रधानशक्तेरभिधाने तद्वदप्रधानशक्तेरप्यवभासान्न द्वितीया। कर्तरि क्त्वादिप्रत्ययेपि यद्यपि ओदनादिकर्मधर्माभूतभुजिक्रियायां धर्मिपारतन्त्र्येणान्वितपाकादौ धर्मपारतन्त्र्येणान्वये मानाभावात्पचिकर्मत्वाभावान्न द्वितीया, तथापि धर्मिणः पारतन्त्र्यं यत्रेति व्यत्पत्त्याश्रयणे यतः पाकधर्मिकस्यौदनादिकर्मणो भुजिक्रियायामन्वयो न सम्भवति। कर्तृपारतन्त्र्येणान्वितपाकादिपारतन्त्र्यमुपादाय भुजिक्रियायामन्वये मानाभावात्। अतो भुजधातुप्रकृतिकेन कर्मप्रत्ययेनाभिधानायोगात् द्वितीया स्यादिति बोध्यम्।। उभयत्र शाब्दान्वय एवेति।। एकत्र शाब्दिकः परत्रार्थिक इति न लभ्यत इति भावः। ननु तत्तात्पर्यकमेवेदं किं न स्यादत आह।। वचनारम्भ इत्यादि।। एषां प्रयोगाणामोदनं पक्त्वा भुज्यत इत्यादीनाम्।। उपपत्त्यभावादिति।। कर्मप्रत्ययान्तसमभिव्याहृतानां क्त्वाद्यन्तानां कर्माभिधायकत्वादनभिहितकर्मत्वप्रयुक्तायास्तादृशद्वितीयाया उपपत्त्यभावादित्यर्थः। एवं चारम्भे प्रत्याख्याने च गुणप्रधानयोरेकैवान्वयसरणिः। प्रधानानुरोधाच्च गुणशक्तेरवभासानवभासावित्येव प्रत्यख्यातुर्भगवतो भाष्यकारस्याशयो न त्वन्वयवैचित्र्यमूलकतया प्रयोगनिर्वाह इति, प्रत्याख्यानस्यारम्भविरुद्धफलकत्वेनासङ्गतत्वापत्तेरिति वस्तुस्थितिः। ननु प्रधानानुरोधाद्गुणशक्तेरभिधानानभिधानयोरपूर्वतया कल्पनामाश्रित्य वचनप्रत्याख्यानापेक्षया निरुक्तकल्पनामुपेक्ष्य वचनारम्भ एव युक्त इत्यत आह।। स्वभाव इति।। शब्दशक्तिस्वभावसिद्ध एवायमर्थो गुणस्य प्रधानानुरोधित्वमिति न त्वपूर्वकल्पनेति भाव-। तद्वदेवेति।। अयुक्तमेवेत्यर्थः। कां क्रियामिति।। इष्यत इत्यध्याहारेण साधुत्वमिच्छार्थोपपदकाद्धातोश्छिदेस्तुमुन्प्रत्यय इति वक्तव्यम्। इत्थं च निपातकर्मत्वाभावादिदमुदाहरणं चिन्त्यमिति भावः।। न च निपातस्य न युज्यत इत्यर्थकतया शकधृषेत्यादिसूत्रेणार्हार्थकत्वात्तत्सिद्धिरिति वाच्यम्। साहचर्येण घातोरेव तत्र ग्रहणादर्थग्रहणस्यास्तिनैव सम्बन्धाच्च। न च तुमुन्ण्वुलोरित्यनेन तत्सिद्धिरिति वाच्यम्। साध्यत्वेन प्रतीयमानपदार्थस्यैव क्रियात्वेन निपातार्थस्य तथा प्रतीत्यभावेन क्रियात्वा भावात्। क्रियान्तरप्रयोजनकत्वस्याभावाच्च। क्रियाप्रयोजनकक्रियावाचकोपपदकत्वनिबन्धनस्य तुमुनो दुर्लभत्वात्। अतो नात्र निपातमादाय तुमुनस्साधुत्वमित्याहुः।।
उद्देश्यत्वं भासत इति।। ननूद्देश्यत्वनिवेशो व्यर्थः। न चोद्देश्यताया लक्षणघटकत्वाभावे काशीं गच्छन् पथि हत इत्यत्र कर्मत्वानुपपत्तिः। काश्याः प्रकृतधात्वर्थफलभूतसंयोगाश्रयत्वाभावादिति वाच्यम्। भूतले पातितो घटो न पतित इत्यादौ साक्षात्कर्तृद्वारकपरम्परया व्यापाराश्रयत्वाभावेपि वक्तृविवक्षामांदायाधिकरणत्ववत्प्रकृतेपि निर्वाहे कर्तृरुद्देश्यताया अनुपयोगात्। तण्डुलं पचति पाको न संवृत्त इत्यत्रापि वक्तृविवक्षैव कर्मत्वसम्पादिकेति नास्ति कर्तुरुद्देश्यत्वनिवेशस्योपयोगो नापि प्रमितं तद्भानमिति चेत्तर्हि न ब्राह्मणं हन्यादित्यादिना ब्राह्मणोद्देश्यकतन्निष्ठप्राणवियोगजनकव्यापारस्यात्यन्तिकप्रत्यवायजनकत्वमन्योद्देश्यकतादृशव्यापारस्य चान्यादृशप्रत्यवायजनकत्वमिति वैजात्योपपत्तये कर्मलक्षणे लक्ष्यगततदवभासप्रयुक्तोऽयमुद्देश्यत्वनिवेशः। अत एव हरिं पूजयेदित्यादौ हर्याद्युद्देश्यकप्रीतिजनकव्यापारस्यैव प्रवर्तनाविषयत्वेनाभ्युदयहेतुत्वम्। न तु तदनुद्देश्यकस्येति शिष्टसमाचारः। रथो ग्रामं गच्छतीत्यादावचेतने त्वारोपविषयो गौणः प्रयोग इति वदन्ति।
कर्तुरीप्सिततममित्येतत्सूत्रविषयकर्मप्रत्ययान्तप्रयोगेषूद्देश्यताभाने प्रमाणमप्यस्तीत्याह।। अत एवेति।। ननु चतुर्थ्या उद्देश्यत्वबोधकतानियमे तद्विषये प्रवर्तमानाया अपि द्वितीयायास्तद्बोधकत्वमिति युज्यते वक्तुम्। तदेव कथमित्यत आह।। चतुर्थ्या इति।। सम्प्रदानचतुर्थीविभक्तेरुद्देश्यत्वबोधकतायां नास्ति विप्रतिपत्तिरिति भावः। फलान्तरमिति।। तमब्ग्रहणप्रयुक्तमित्यर्थस्तदाह।। ईप्सितदमपदाभावे इति।। कर्तुराप्तं कर्मेति न्यासमाश्रित्येप्सिततमानीप्सितपदघटितसूत्रद्वयप्रत्याख्याने इत्यर्थः।। धातूपस्थाप्येति।। कर्तुराप्तं कर्मेत्युक्तौ सम्बन्धो धात्वर्थः। निष्ठाप्रत्ययश्चाश्रयवाची, स च सम्बन्धः केनेत्याकाङ्क्षायामौचित्यात्क्रिययेति लभ्यते। सम्बन्धश्च तादृशव्यापारवाचकधातूपस्थाप्यफलाश्रयत्वम्। इत्थं कर्तृनिष्ठव्यापारवाचकधातूपस्थाप्यफलाश्रयं कर्मेत्यर्थस्य पर्यवसानात्तथाविधकर्मत्वस्याग्निमाणवकाद्युभयसाधारणतया निरवकाशेनापादानत्वेन बाधे तद्विषये द्वितीयान्तप्रयोगदौर्लभ्यमिति भावः। ननु कर्तुराप्ततमं कर्मेत्यस्तु। तमपा च फले प्रधानव्यापारप्रयोज्यत्वरूपातिशयो बोध्यते। ततश्च कर्तृनिष्ठव्यापारप्रयोज्यफलाश्रयं कर्मेत्यर्थस्य लाभादाग्न्यादिनिष्ठसंयोगात्मकफलस्य कर्मभूतमाणवकादिनिष्ठधावनादिरूपव्यापारप्रयोज्यत्वेपि कर्तृनिष्ठतदाभावानुकूलव्यापारप्रयोज्यत्वाभावेन कर्मत्वाप्राप्त्या व्यर्थमेवेप्सितानीप्सितयोः पृथगुपादानम्। न च कर्तृग्रहणादेव प्रयोज्यत्वलाभोऽस्तु, मास्तु तद्धितग्रहणम्। अन्यथा धातुमात्रस्य कर्तृव्यापारवाचकत्वाविशेषात्तद्वैयर्थ्यं स्पष्टमेवेति वाच्यम्। फले कर्तृव्यापारवाचकधातूपात्तत्वरूपविशेषसम्पादनेन नदी वर्धते वर्षेण माषेष्वश्वं बध्नातीत्यादौ धात्वन्तरोपात्तंतादृशव्यापारप्रयोज्यवृद्ध्यादिरूपफलाश्रयीभूतनद्यादीनां कर्मत्ववारणेन कृतार्थस्य कर्तृग्रहणस्य फलांशे प्रधानीभूतव्यापारप्रयोज्यत्वरूपविशेषसम्पादकत्वे मानाभावादिति चेत्सत्यम्। सन्प्रत्ययाभावेपि तमपा फलगतं प्रधानव्यापारप्रयोज्यत्वं बोधनीयमुत तदाश्रयगतमुद्देश्यत्वं वेत्यत्र विनिगमनाविरहादुद्देश्यत्वस्यैव बोधकत्वे तदुभयबोधकत्वे वा सूत्रद्वयस्याप्यावश्यकतया नास्ति विशेषः। सिद्धान्ते तु सन्प्रत्ययेनोद्देश्यत्वस्य बोधनादतिरिक्तं तादृशप्रयोज्यत्वमेव तद्धितेन बोध्यत इति मूलकाराशयमुद्भावयन्ति।।
यत्तु सूत्रद्वयारम्भेपि ईप्सिततमं कर्मेत्येवास्तु, मास्तु कर्तृगहणम्। तमपा प्रयोज्यत्वलाभेपि यत्किञ्चिद्व्यापारप्रयोज्यत्वस्य फलमात्रसाधारणतया संयोगेपि सत्त्वेनाग्नेर्माणवकं वारयतीत्यादौ दोषध्रौव्यात्सामर्थ्येन प्रधानव्यापारप्रयोज्यत्वलाभादभीष्टसिद्धिरिति तदसत्। व्यापारांशे प्राधान्यबोधनेन कृतार्थस्य तमप्प्रत्ययस्य फले तादृशव्यापारप्रयोज्यत्वसम्पादकतायां मानाभावेन प्रधानव्यापारवाचकधातूपात्तफलाश्रयं कर्मेत्यर्थापत्तौ नदी वर्धते वर्षेणेत्यादौ प्रगुपदर्शितदोषध्रौव्यात्। न च कर्तृग्रहणतमब्ग्रहणयोः फलांशे प्रधानव्यापारप्रयोज्यत्वबोधनेनाग्नेर्माणवकं वारयतीत्यादावग्नेः कर्मत्वनिवारकतया कृतार्थत्वात्तथाविधव्यापारवाचकधातूपात्तत्वस्य दुर्वचत्वेन प्रयागात्काशीं गच्छति नदी वर्धते वर्षेणेत्यादौ कर्मत्वापत्तिर्दुर्वारेति वाच्यम्। प्रत्यासत्तिवशादेव तदर्थसिद्धेः। किञ्च फले प्रधानव्यापारप्रयोज्यत्वबोधनेपि माणावकादिनिष्ठधात्वन्तरोपात्तप्रधानव्यापारप्रयोज्यत्वस्याग्न्यादिनिष्ठसंयोगादावक्षतत्वेनाग्नेर्माणवकं वारयतीत्यादौ दोषस्य तदवस्थतया प्रत्यासत्तिबोधनमन्तरेण तमब्ग्रहणस्य साफल्यायोगाच्च। यदपि कर्मग्रहणमनर्थकमधिशीह्स्थासां कर्मेत्यतस्तदनुवृत्तिसम्भवात्। आधारग्रहणन्तु नानुवर्तते तमब्ग्रहणात्। तद्धि प्रयोज्यत्वबोधनद्वारा कूपादन्धं वारयत्यगन्तेर्माणवकं वारयतीत्यादौ कूपादेः प्रधानव्यापारप्रयोज्यफलाश्रयत्वाभावेन कर्मत्ववारणाय आधारपदानुवृत्तौ च कूपादेराधारत्वाभावादेव तदप्राप्तौ व्यर्थमेव तमब्ग्रहणं स्यात्ततः कर्मेत्यनुवृत्तौ कर्मग्रहणमाधारनिवृत्त्यर्थमिति परममूलोक्तमयुक्तमित्याहुः। तदपि न युक्तम्। कर्मग्रहणभावे साक्षात्फलाधारग्रहणेन हरिं भजतीत्यादौ कर्मत्वबोधकतया चरितार्थस्य तमपः फलांशे प्रधानव्यापारप्रयोज्यताबोधकतायां मानाभावेन निरुक्तस्थले कूपादीनां कर्मत्वापत्तावनिष्ठप्रसङ्गादित्यलम्।। व्याख्यान देवेति।। कर्तुरीप्सिततममिति सूत्रानन्तरं तथायुक्तमित्यनीप्सितग्रहणमन्तरा न्यासेप्यारम्भसामर्थ्यादनीप्सितयोर्द्वेष्योदासीनयोर्ग्रहणं सिद्ध्यतीति भावस्तदाह।। ईप्सिततमभिन्नत्वादिति।।
ननूद्देश्यत्वानुद्देश्यत्वकृतबोधवैरूप्यस्यानुभविकत्वात्कथमेकरूप इति मूलकारो मन्यते तत्राह।। इच्छाविषयत्वेत्यादि।। द्वयोरपि विनिगमनाविरहाद्वाच्यवृत्त्या प्रतीयमानेच्छाविषयत्वानिच्छाविषयत्वाभ्यां न बोधवैरूप्यम्। किन्तु तदुपलक्षिताभ्यामुद्देश्यत्वानुद्देश्यत्वाभ्यामित्यर्थः।। करणवचकत्वादिति।। पशुनां रुद्रं यजत ित्यादौ सम्प्रदानवाचकत्वाच्चेत्यपि बोध्यम्।। शक्तिविशेषरूपस्येति।। कर्मत्वादिरूपस्येत्यर्थः। सम्बन्धश्शक्तिरेव वेति हरिवचनमत्रार्थे प्रमाणम्। तच्चाखण्डमौपादिकभेदाच्च भिन्नत्वव्यपदेशस्सप्तमीपञ्चम्यावित्यादौ। अत एव धवखदिरौ छिन्धीत्यादावेकमेव कर्मत्वमुभयपर्याप्तं द्वितीयया बोध्यत इत्यभियुक्ताः।। विशेषणत्वं चेति।। ततश्च हरिं भजतोत्यादौ कर्मत्वशक्त्याश्रयीभूतहर्युद्देश्यकः प्रीत्यनुकूलो वर्तमानकालिक एककर्तृको व्यापार इत्यादिरर्थ इति भावः।। तत्फलभूते इति।। हर्यभिन्नाश्रयनिष्ठप्रीत्यनुकूलो व्यापारा इत्याद्यर्थे समन्वयवशादुपपन्ने व्यापारप्रयोज्यप्रीत्याश्रयो हरिरित्याद्यर्थस्य फलितत्वादिति भावः। ननु कर्मत्वादिशक्तीनां स्वरूपेण विभक्त्यर्थत्ववादे वाच्यार्थस्यैव वैलक्षण्यमस्तीति नेदं युक्तमत आह।। इदमुपलक्षणमिति।। नियतत्वेनेति।। फलाश्रयादिरूपार्थस्य कर्तुरित्यादिना कर्मादिशब्दैस्सङ्केतितत्वादिति भावः।। संज्ञाप्रकारिकैवेति।। संज्ञाशब्दानामानुपूर्व्या एव प्रवृत्तिनिमित्तत्वादित्याशयः।। कर्मत्वादिनेति।। विशेष्यतया कर्मत्वादिशक्तीनामुपस्थितावनुभवस्मृतिशाब्दबोधानां समानाकारकत्वनियमात्तत्तत्संज्ञाप्रकारककर्मत्वादिविशेष्यक एव बोध इति वाच्यवृत्त्यैव बोधवैलक्षण्यमित्याशयः। अन्यत्रेत्यस्य मञ्जूषायामित्यर्थः। नन्वाधारस्य विभक्तिवाच्यत्वे तन्निष्ठधर्मस्याधारतायाः स्वरूपसम्बन्धविशेषरूपायास्तत्तदाधारानतिरेकेण गौरवं सममेवेति चेत्तत्राह।। आधारता त्विति।। अखण्डैवेति।। नन्वाधारताया एकत्वे स्पर्शाधारतावति वायौ रूपाधारताया अपि सत्त्वाद्वायुः स्पर्शवानितिवद्रूपवानित्यपि प्रतीतिः प्रसज्येतेति चेन्न। सम्बन्धसत्तायास्सम्बन्धिसत्तानियामकत्वेन रूपप्रतियोगिकत्वविशिष्टसमवायस्यैव रूपवत्तानियामकतया वायौ स्पर्शप्रतियोगिकत्वविशिष्टसमवायस्य सत्त्वेपि तथाविधसमवायस्याभावेन तत्प्रतीत्ययोगात्। किञ्च रूपवानिति प्रतीतौ रूपनिरूपितत्वविशिष्टैवाधारता विषयः। तादृशी चाधारता नास्ति वायाविति न तथाविधप्रतीतिरित्याहुः।। अखण्डमिति।। न ह्याधारतैवाखण्डा, न त्वाधारतात्वमित्यत्र किञ्चिद्विनिगमकमुपलभ्यत इति भावः।। अत्रापीति।। भाष्येपीत्यर्थः।। धर्मभेदमपन्नैवेति।। धर्मधर्मिणोरभेदाभ्युपगमादिति भावः।। लादेशशत्रादेरिति।। लः कर्मणि चेत्याकारकैकसूत्रबोधितलकारशक्त्यनुरोधिनी खलु शत्रादेस्तिङां चार्थवत्ता तत्र नास्ति सम्भवो वैषम्योपपादनस्येति भावः। न च शत्रादिविषये पचन्तं देवदत्तमित्यादौ सामानाधिकरण्योपपत्तये धर्मिणि लक्षणा, तिङान्तु कृतावेव शक्तिरिति युज्यत एव वैषम्यमिति वाच्यम्। कृद्विषये वृत्तिद्वयस्वीकारस्यावश्यकत्वे लकाराणां कृतिमात्रशक्तिकल्पनाप्रयुक्तलाघवस्याकिञ्चित्करत्वात्। अतो न युक्तं तिङां कृत्यर्थकत्वमित्याशयः।
ननु नटस्य शृणोतीत्यादौ क्रियाजनकत्वरूपकारकत्वस्य दुर्वचत्वान्नियमपूर्वकविद्यास्वीकाराभावेनापादानत्वस्याप्रसक्त्या तदविवक्षाया अयोगाच्च परिगणनाभावेपि कथमकथितं चेति कर्मत्वप्रसङ्ग इत्यत आह।। गीतद्वारेति।। उभयविधापीति।। अविवक्षा च प्रतिपादनेच्छाराहित्यम्। तच्च प्रसक्तवदप्रसक्तस्यापि सम्भवत्येवेति विनिगमनाविरहादुभयविधापि गृह्यत इत्याशयः।। अनिष्टत्वबोधनादिति।। अन्यथा नटाच्छृणोतीत्यास्याप्यनुपयोगे प्रसक्त्या सूत्रोपात्तमुपयोगग्रहणमव्यावर्तकं स्यादिति सूत्रारम्भे प्रत्याख्याने च तदनभिधानं फलवैगुण्याभावायेति भावः।। गोकर्मकं पयः कर्मकं चेति।। वक्ष्यमाणरीतेरकथितसूत्रबोधितकर्मत्वशक्तेरपि स्वरूपत एव भानमित्याशय-।। पयस एवेति।। द्वयोरपीप्सिततमत्वे कर्तुरित्यनेनैव गोपयसोरुभयोरपि कर्मत्वमित्याशयः। ननु दुहेर्विभागानुकूलव्यापारानुकूलव्यापारवाचकत्वेपि कर्तृनिष्ठव्यापाराधीनविभागानुकूलव्यापाररूपफलाश्रयत्वस्य गोरेव सत्त्वेन कथं पयसः कर्तुरित्यनेन कर्मत्वं स्यादिति चेन्नागोनिष्ठत्यजनात्मकव्यापारजन्यस्यापि पयोनिष्ठविभागस्य जन्यजन्यसाधारणीभूतगोपनिष्ठप्रेरणाप्रयोज्यतायां बाधकाभावेन द्वयोरपि कर्तुरित्येतत्सूत्र विषयत्वस्य सुवचत्वात्।। सूत्रद्वयेति।। हेतुमण्णिच्प्रकृतिभूतधातूपस्थाप्ययोः फलव्यापारयोर्द्वयोरपि प्रधानीभूतप्रेरणात्मकणिजर्थव्यापारप्रयोज्यत्वाविशेषात्तदाश्रयययोर्द्वयोरप्युद्देश्यत्वे कर्तुरित्यनेन सिद्धिरन्यतरस्यानुद्देश्यत्वे तथायुक्तमित्यनेन तस्य कर्मत्वमिति बोध्यम्।। तद्ध्वनयन्निति।। गां दोग्धि पय इत्यादावपादानत्वकर्मत्वोभयविवक्षायां परया कर्मसंज्ञया विप्रतिषेधशास्त्रवशादपादानसंज्ञाया बाधात् द्वितीयाया एव प्रवृत्तिरित्यभिप्रायकमपादानमुत्तराणि कारकाणि बाधन्त इति भाष्यम्। तत्र पञ्चकं प्रातिपदिकार्थ इति पक्षे कारकशक्तेर्विभक्तिद्योत्यतया द्योत्यार्थस्य प्रकृत्यर्थं प्रति विशेषणत्वावश्यम्भावाच्छ क्तिद्वयप्रकारको बोध उपपद्येते। कारकं विभक्त्यर्थ इति पक्षे तूभयविवक्षायां प्रकृत्यर्थस्य विभक्तिवाच्यतया विशेष्यभूतयोर्द्वयोरपि कारकयोर्युगपदन्वयसम्भवात्तयोरेकविभक्तिवाच्ययोः परस्परान्वयायोगाच्च बोधानुपपत्त्या पञ्चकपक्ष एवैतादृशे विषये भाष्यकृत्सम्मत इत्याशयः।। अपादानत्वकर्मत्वशक्तयोरिति।। ननु शक्तिद्वयस्य यौगपद्येन विवक्षायामेकया विभक्त्या प्रत्येकं तत्तदर्थबोधकत्वेन नियमिततया कथमुभयोश्शक्त्योर्बोधस्स्यादत आह।। ईदृशे विषये इति ।। द्वितीयैवेति।। कर्मणि द्वितीयेत्यादीनां कर्मत्वाभावसमानाधिकरणकारकान्तरबोधकत्वाभावविधयैव नियामकत्वम्। न तु तत्समानाधिकरणकारकान्तरबोधकत्वाभावरूपेणेति भावः। अत्रापीदमेव भाष्यं प्रमाणम्। इत्थं च गां पयो दोग्धीत्यादावेकव्यापारवाचकतायामुभयविवक्षणे कर्मत्वापादानत्वोभयशक्तिमद्गवीप्रतियोगिकः कर्मत्वशक्तिमत्पयोनुयोगिकश्च यो विभागस्तदनुकूलः कर्तृत्वशक्तिमद्गोपनिष्ठो वर्तमानकालिको व्यापार ित्यादिरर्थ इति निष्कर्षः।।
अत्र केचित्। फलतावच्छेदकसम्बन्धेन फलाश्रयत्वं कर्मत्वम्। न तु यथाकथं चित्। अत एव ग्रामं गच्छतीत्यादावनुयोगितैव सम्बन्धस्तेन संयोगजनकगम्यादिसमभिव्याहारे प्रतियोगितासम्बन्धेन तदाश्रयस्य देवदत्तादेर्न कर्मत्वम्। दुहेरप्यनुयोगितैव फलतावच्छेदकस्सम्बन्धः। ततश्च गोरनुयोगितासम्बन्धेन विभागाश्रयत्वाभावात्कथमिह कर्मत्वापादानत्वयोर्विवक्षा। यदि भाष्यप्रामाण्यादिह दुहेः प्रतियोगित्वमपि फलतावच्छेदकसम्बन्धः, तर्हि सर्वत्रैव कर्मत्वप्रसक्तेरपादानत्वमनवकाशमेव स्यादिति परबाध्यत्वमयुक्तम्। यदि तु विवक्षातः कारकाणीति सिद्धान्तात्कर्मत्वाविवक्षायामपादानसंज्ञायाश्चरितार्थत्वाद्यौगपद्येन विवक्षायां परत्वेन कर्मसंज्ञाया अपादानसंज्ञाबाधकत्वमित्युच्यते, भवतु तर्हि विरोधो हि परस्य बाधकत्वे बीजम्। विरोधश्च सूत्रारम्भबलादाकडारीयसंज्ञानां स्वरूपत एवेत्यवश्यमभ्युपेयम्। ततश्च संज्ञानामिव तत्प्रयुक्तार्थविशेषाणामपि तथाविधो विरोधो न्यायप्राप्त इति कथमीदृशे विषये संज्ञाद्वयप्रतिपाद्ययोः कारकविशेषयोरन्यतरसंज्ञाप्रयुक्तया विभक्त्या प्रतिपादनं स्यात्। ग्रामं गमयति देवदत्तमित्यादौ गतिबुद्धीति सूत्रविषये कर्तृसंज्ञायाः कर्मसंज्ञोपजीव्यतया ग्रहणादक्षैरक्षान्वा दीव्यतीत्यादौ दिवः कर्म चेति सूत्रविषये चकारबलाच्च संज्ञयोस्समावेशबोधनेन विरोधाभावात्तत्प्रयुक्तविशेषाणामप्यविरोधेन बोधविषयत्वं युक्तम्। धनुषा विध्यति गांपयो दोग्धीत्यादौ चापादानसंज्ञाविरुद्धकरणादिसंज्ञाप्रयुक्तया विभक्त्या स्वबोध्यकरणत्वादिसामानाधिकरण्येन त्वभिधानमसमञ्जसमेवेत्याहुः।। [टि- आहुरिति।। परे तु गम्यादौ समावायस्य फलतावच्छेदकसम्बन्धत्वाङ्गीकारेऽपि देवदत्तादेर्न कर्मत्वप्रसक्तिः। पत्या कर्तृसंज्ञया बाधात्। एवं दुह्यादावपि समवाय एव तादृश इति गोः कर्मत्वं प्राप्तम्। विभागावधित्वादपादानत्वमपीत्युभयविवक्षा सुलभा। न चैवमपादानत्वस्यानवकाशत्वात्परबाध्यत्वोक्तिरसङ्गता स्यादिति वाच्यम्। अनुयोगितायाः फलतावच्छेदकसम्बन्धत्वं वदतस्तवापि तदसङ्गतेस्तुल्यत्वात्। विभागजन्यसंयोगस्य पतत्यर्थत्वे विभागास्य फलत्वाभावेन कर्मत्वाप्राप्त्या तत्रापादानसंज्ञायाश्चारितार्थ्याच्च। वस्तुतस्तु सम्बन्धविशेषनिवेशो नोपयुक्त-। फलाश्रयत्वेनोद्देश्यत्वं कर्मत्वमित्यस्यावश्यवक्तव्यताया अन्यत्र प्रतिपादितत्वेन तत एवाभीष्टसिद्धेः। अत एव गोर्विभागाश्रयत्वेन प्राप्तकर्मत्वं पयोनिष्ठविभागीयसम्बन्धस्यैव फलतावच्छेदकत्वेन निवार्य तत्त्वेनानुद्देश्यत्वाच्चेति हेत्वन्तरकथनं मञ्जूषायां स्वरसत उपपद्यते। अस्यावश्यकता च कलायां स्फुटीकृतेति बोध्यम्। न चेवं गोः पयो दोम्धति प्रयोगानुपपत्तिः, कर्मसंज्ञया बाधादिति वाच्यम्। कर्मत्वस्यानुद्भूततया विवक्षणेनादोषात्। उद्भूतत्वेन विवक्षायां तु कर्मसंज्ञैव। अत्र चेदमेव भाष्यं मानम्। न च संज्ञयोर्विरोधे तन्निमित्तार्थयोर्विरोधो न्यायसिद्ध इति कथं तयोस्सामानाधिकरण्यमिति वाच्यम्। तेषां विरोधे मानाभावात्। अत एव गमयति चैत्रमित्यत्र कर्मत्वकर्तृत्वयोर्भवदभिमतं सामानाधिकरण्यं सिद्ध्यति। न च कर्तृत्वस्य कर्मत्वोपजीव्यतया न विरोध इति वाच्यम्। ण्यन्तावस्थायां कर्तृत्वस्य तदुपजीव्यत्वाभावात्। न च विवक्षाभेदेन प्रयोगद्वयनिर्वाहेऽकथितं घेति सूत्रं व्यर्थमिति वाच्यम्। तद्वैयर्थ्योपपादकतयैवैतद्ग्रन्थप्रवृत्तेः। तस्मान्मूलग्रन्थाशयवर्णनपरशब्दरत्नग्रन्थव्याख्यानावसरेऽयं प्रयासो विफल एव। किञ्च अक्षान् दीव्यतीत्यस्याक्षैर्दीव्यतीत्यर्थेऽसाधुत्वस्य पूर्वमुपपादितत्वेन तस्याविरोधे दृष्टान्तत्वकथनं सर्वथाऽसङ्गतमेवेति सुधियो विभावयन्त्वित्याहुः।]
अन्येनासिद्धेरिति।। नन्वेकव्यापारवाचकतायामपादानत्वकर्मत्वोभयविवक्षाप्रतिपादनपरणकडारसूत्रस्थभाष्येण प्रतियोगितया विभागात्मकफलाश्रयस्य गोशब्दार्थस्य कर्तुरित्यनेन कर्मत्वबोधनादिदमयुक्तम्। न च कर्तुरित्येतत्सूत्रविधेयकर्मताया उद्देश्यघटितत्वेन गोपदार्थस्येहोद्देश्यत्वाविवक्षणादप्रवृत्तिरेव तादृशकर्मत्वस्येति वाच्यम्। उद्देश्यत्वाविवक्षणेपि विषं भुङ्क्ते इत्यादिवत्तथायुक्तमित्यनेन प्रकृतेपि कर्मताया दुर्वारत्वादिति चेन्न। अपादानत्वाविवक्षायामित्यस्य कर्तृरीप्सिततमं तथा युक्तमित्येतत्सूत्रद्वयविधेयकर्मत्वाविवक्षोपलक्षकत्वेनादोषात्। ननु कारकद्वितीयया सर्वत्राखण्डातिरिक्तकर्मत्वशक्तिपुरस्कारेणैव बोधस्याभीष्टतया कर्तुरित्यादिसूत्रबोधितायाः प्रकृतसूत्रबोधिताया वा संज्ञायाः कर्मत्वशक्तिबोधने विशेषाभावेन सूत्रवैयर्थ्यस्य स्पष्टत्वात्कथमावश्यकत्वोक्तिरित्यारुचेराह।। किं चेति।। शक्तिमत्त्वेनेति।।
केचित्तु कर्मणि द्वितीयेत्यादीनां लोकानुभवसिद्धतत्तदर्थविषयकबोधप्रयोजकशक्तिनिर्णायकत्वमेव। न त्वपूर्वार्थविषयकशक्तिनिर्णायकत्वमनुपादेयतापत्तेः। ततश्च द्वितीयादीनां सार्वजनीनानुभवानुरोधेनाश्रयत्वादिप्रकारकतत्तदर्थविषयकशक्तिकल्पनैव न्याय्या, न तु कर्मत्वादिशक्तिपुरस्कारेण, तथाविधबोधस्य शाब्दिकमात्रविषयतया तदनुरोधेन शक्तिकल्पनायाः सहृदयोद्वेजकत्वात्। अतः कथं तत्तच्छक्तिप्रकारको बोध इति वक्तुं युज्यते। किञ्च षष्ठ्यपवादत्वमात्रेण द्वितीयायास्सम्बन्धबोधकत्वमनुचितमित्यपि न युक्तम्। क्रियाकारकयोरभिसम्बन्धस्य द्वितीया वाचिकेति द्वितीयाश्रितेति सूत्रस्थभाष्यानुरोधेन कारकविभक्तीनां सम्बन्धबोधकताया अभीष्टत्वात्। कर्मणि द्वितीयेत्यत्र तत्तद्रूपेणोपस्थितेषु द्वितीयायाश्शक्तिकल्पनायां नानार्थकता कर्मपदावृत्तिश्चेति परमवशिष्यते, तदिह सोढव्यमेव लोकानुभवानुरोधित्वादित्याहुः।। [टि- आहुरिति।। परे तु आधारता द्वितीयार्थ इति वादिनामाधारत्वप्रकारकबोधस्य, आधेयता तदर्थ इति वादिनामाधेयत्वप्रकारकबोधस्य चानुभवसिद्धतया तत्तद्व्युत्पत्त्यनुसारेण तत्तद्बोधो दुर्वार एव। परं तु व्याकरणस्य तत्तदर्थविशेषे ततच्छब्दानां साधुत्वनिर्णायकतया यादृशार्थबोधानुभवेन मुनित्रयेण साधुत्वमनुशिष्टं तादृशोऽर्थः क इत्येतावदेवात्र विमर्शनीयम्। मुनित्रयस्य च तत्तत्कारकशक्तिमत्त्वेनैवार्थबोधोऽनुभवसिद्ध इति तत्तद्ग्रन्थेर्निर्णोयते। तेनान्यत्रार्थे तेषामसाधुत्वम्, तत्र तेषां याज्ञे कर्मणि प्रयोगे प्रत्यवाय इति ज्ञायते। अन्यथा पामराणामपि लोकशब्देन ग्रहणेऽतिप्रसङ्गः स्यात्। अत एवाख्यातेन कृत्यादिबोधस्यानुभवसिद्धत्वेऽपि तत्रार्थे तस्यासाधुत्वमुक्तं तिङर्थवादे मञ्जूषायाम्। किञ्च सहृदयोद्वेजकत्वादित्यत्र सहृदया अवैयाकरणा इति यदि विवक्षितं, तदा इष्टापत्तिः। यदि वैयाकरणा इति विवक्षितं, तदा भाष्यादिपरिशीलनशालिनां तेषामनुद्वेजकमेव। तदपरिशीलकास्तु वैयाकरणब्रुवा एवेति तेऽप्यत्रासहृदया एवेति सहृदयोद्वेजकत्वापादनमनुचितमेव। तथा षष्ठ्यपवादत्वमात्रेण द्वितीयायाः सम्बन्धबोधकत्वमनुचितमित्ययुक्तमित्युक्तिर्मूलाक्षरादर्शनमूलकैव, मूले सम्बन्धत्वेन बोधकत्वानौचित्यस्योक्तत्वात्। तस्यायं भावः। क्रियाकारकभावरूपसम्बन्धविशेषबोधकशास्त्रे जागरूके षष्ठ्यर्थतया क्लृप्तक्रियाकारकभावातिरिक्तसम्बन्धत्वेन सम्बन्धबोधकत्वमनुचितमिति। एवं च कारकविभक्तीनां क्रियाकारकभावसम्बन्धवाचकत्वं भाष्योक्तमविरुद्धमेव। अतिरिक्तसम्बन्धबोधकत्वस्य भाष्यानुक्तत्वात्। तथा च नानार्थकवकर्मपदावृत्तिप्रयुक्तनौरवकृपा मुधैवेत्यलं भाष्यादिविरुद्धकल्पनयेत्याहुः।।]
ननु कर्मप्रत्ययसमभिव्याहारे फलस्यैव प्राधान्यद्व्यापारविशेषणफलाश्रयत्वमसम्भवीत्याह।। कर्तृप्रत्ययेत्यादि।। प्रधानधात्वर्थेति।। धात्वर्थगतं प्राधान्यं च विशेष्यत्वानिरूपकत्वम्। इत्थं च प्रधानफलाश्रयत्वं प्रधानकर्मत्वं, फले प्राधान्यं च फलनिरूपितविशेषणताराहित्यमिति भाव-। गर्गाणां तत्त्वमिति।। ``दुहियाचिरुधिप्रच्छिछिञामुपयोगनिमित्तमपूर्वविधौ, ब्रुविशसि गुणेन च यत्सचते तदकीर्तितमाचरितं कविनेति भाष्यकृत्परिगणितेषु दुहादिषु दण्डेरपरिगणितत्वेन बलात्कारपूर्वकस्वत्वनिवृत्तिप्रयोजकव्यापारानुकूलव्यापारार्थकतया व्यापारद्वयार्थकत्वेनैव द्विकर्मकताया आवश्यकत्वादवान्तरव्यापाराश्रयत्वेन गर्गाणां प्रधान्यमिति भावः। नन्वेवमर्थिनश्च राजानो हिरण्येन भवन्तीति वाक्यशेषमहिम्ना प्रधानभूतस्य शतस्याप्रधानगर्गानुरोधेनावृत्तिकल्पनाया अयुक्तत्वतात्पर्यकतया गर्गाश्शतं दण्ड्यन्तामित्यत्र समुदाये वाक्यपरिसमाप्त्युपपादनपरवृद्धिसूत्रभाष्यविरोध इत्यत आह।। उद्देश्यत्वरूपमिति।। आर्थिकमेव प्राधान्यमावृत्तिप्रतिबन्धकम्। शाब्दन्तु लकाराद्युपपादकमिति नास्ति भाष्यविरोध इत्याशयः।। दुहादियोग इति।। अप्रधाने दुहादीनां ण्यन्ते कर्तुश्च कर्मण, इति प्रागुक्तवचनशेषादिति भावः। ननु व्यापारद्वयार्थकत्वे दुहादीनां प्रधाने लादीनामुत्पत्तिरेकव्यापारवाचकतायां चाप्रधाने तेषामुत्पत्तिरिति वैजात्याद्व्यापारद्वयार्थकत्वप्रयुक्तद्विकर्मकत्वसमर्थनेन कथमेकव्यापारवाचकत्वप्रयुक्तस्याकथितकर्मत्वस्य निराकरणमत आह।। तच्च गवादीनामेवेति।। फलाश्रयत्वाभावादिति।। न केवलं प्रकृतधातूपात्तप्रधानव्यापारप्रयोज्यप्रकृतधातूपात्तफलाश्रयत्वं कर्मत्वम्। किन्तु फलतावच्छेदकसम्बन्धेन तथाविधफलाश्रयत्वम्। ततश्च फलतावच्छेदकसम्बन्धेनानुयोगित्वादिना विभागाद्याश्रयत्वाभावेन गवादीनां न कर्तुरित्यनेन कर्मत्वमपि तु तादृशफलाश्रयीभूतक्षीरादिरूपप्रधानकर्मसम्बन्धप्रयुक्तमकथितसूत्रबोधितमेव कर्मत्वमित्याशयः।। अयुक्तमिति।। नन्विदमयुक्तत्वं तथाविधानामसाधुत्वेनेति वक्तव्यम्। तच्च न व्यापारद्वयार्थकत्वे, तेषामपि द्विकर्मकताया दुर्वारत्वेन साधुत्वस्य गले पतितत्वादत आह।। एवं हीत्यादि।। अनभिधानेनेति।। इत्थं च भाष्यकारोपवर्णितानामेव व्यापारद्वयार्थकत्वेन द्विकर्मकतायां साधुत्वं नान्यषामिति भावः।।
व्युत्पत्तेरिति।। अत एवापादानत्वाविवक्षायां वृक्षस्य पर्णं पततीत्यादौ वृक्षादेः पर्णाद्यर्थान्वय एव साधुत्वं न तु क्रियान्वयविवक्षायामिति वृद्धाः। नामसमभिव्याहाराभावे च क्रियायामन्वयो भवत्येव। न माषाणामश्नीयादिति वत्। नामार्थे स्वान्वययोग्यतानिवेशस्तु सम्प्रदानत्वाविवक्षायां ब्राह्मणस्य कन्यां ददातीत्यादौ ब्राह्मणादेः कन्यायामन्वयवारणायेत्याहुः।। मूलं नास्तीति ।। अकथितसूत्राविषयतया भाष्यकारीयं परिगणनं मूलं, तदिह नास्तीति भावः।। जग्राहेत्येवेति।। ननु पराक्रमातिशयद्योतनाय जहारेत्यर्थकतया युक्तमेवेदमुदाहरणमित्यत आह।। उचितत्वाच्चेति।। न केवलमेतदुदाहरणासाङ्गत्ये भाष्यकृत्कृताकथितसूत्रविषयधातुपरिगणनविषयताराहित्यमेव बीजमपि तु निरुक्तार्थासङ्गतिश्चेति भावः।। माधवादिसम्मतत्वादिति।। एतेन भाष्यकृत्परिगणितातिरिक्तानामकथितमूत्रविषयतया द्विकर्मकत्वमयुक्तमित्यस्वरसं सूचयति।। प्रागुक्तं प्रधानकर्मत्वमिति।। शाब्दप्राधान्योपहितं कर्मत्वं लकाराद्युत्पत्तिनियामकम्। दण्डयतेश्च परस्वत्वनिवृत्त्यनुकूलव्यापारानुकूलव्यापारोर्थः। तत्र स्वत्वनिवृत्त्यनुकूलव्यापारात्मकप्रधानफलाश्रयत्वाद्गर्गाणां प्रधानं कर्मत्वमिति तत्रैव लकाराद्युत्पत्तिः। मथ्नातेस्तु सारद्रव्यविभागानुकूलव्यापारानुकूलव्यापारोर्थः। विभागानुकूलव्यापारात्मकप्रधानफलाश्रयत्वादम्बुनिधेः प्रधानं कर्मत्वमिति तत्रैव लकाराद्युत्पत्तिः। अतो गर्गाश्शतं दण्ड्यन्तां सुधामम्बुनिधिर्ममन्थेत्यादि निर्बाधम्। शतस्य तूद्देश्यत्वलक्षणमार्थमेव प्राधान्यमावृत्तिप्रतिबन्धकमिति नैतयोरकथितसूत्रविषयत्वं भाष्यकारानभिमतं युक्तमित्यभिसन्धिः।। व्यापारद्वयार्थकस्येति।। रूपादिपरावृत्त्यनुकूलव्यापारानुकूलव्यापारार्थकस्येत्यर्थः।। वृक्षस्येति।। उदुम्बरं फलं पचतीत्यत्र प्रधानकर्मत्वापन्नस्य वृक्षस्य कर्मत्वाविवक्षया सौकर्यय कर्तृत्वविवक्षायां रूपादिपरावृत्त्यनुकूलव्यापारमात्रवाचकतायामपि पचतेस्सकर्मकतया दुहिपच्योर्बहुलं सकर्मकयोरित्येतद्वयनविषयताया निर्बाधत्वाद्भाष्यसामञ्जस्ये पचेर्भाष्यकारपरिगणितानन्तर्भूतस्यास्य प्रकृतभाष्यबलादकथितसूत्रविषयताकल्पनमयुक्तमित्यरुचेर्मूलम्।
ननु परिगणितातिरिक्तानामकथितसूत्रविषयत्वाभावस्य प्रागुक्तरीत्या भाष्यसम्मततया हरदत्तोक्तेर्मतान्तराभिप्रायकत्ववर्णनमयुक्तमत आह।। पूर्वोपपादितेत्यादि।। सिद्धमिति।। अहमपीदमचोद्यं चोद्ये इति भाष्यकारीयप्रयोगस्यापि व्यापारद्वयर्थकत्वप्रयुक्तद्विकर्मकत्वेनैव साधुत्वमिति भावः। सूचयतीति।। वैकुण्ठादे।। प्रसिद्धदेशत्वाभावे तदीयकर्मतानिर्वाहार्थमधिशीङिति सूत्रमिति वदता मूलकृता स्वप्यादीनामकर्मकधातूनां शयनपूर्वकव्यापनाद्यर्थकत्वेन देशकालादीनां कर्तुरित्यनेन कर्मत्वमाश्रित्याकर्मकधातुभिरिति वार्तिकप्रत्याख्याने शीङादेस्तादृशार्थकत्वमादाय वैकुण्ठादेर्न कर्मत्वमारम्भप्रत्याख्यानयोः फलवैलक्षण्यादतो नाधिशीङ्स्थासामित्यस्य वैयर्थ्यमिति सूचितमिति भावः।। कालत्वाभावादिति।। जन्यानां जनकः काल इत्यनादिरयं व्यवहारः। तेन जन्यमात्रं प्रति कालस्य कुलालादिवन्निमित्तकारणत्वमिति तान्त्रिकाः प्रवदन्ति।। अतो न घटादिरूपजन्यजातस्य कालत्वमपि तु कालजन्यत्वमेवेति भावः।
केचित्तु तादृशव्यवहारगतं जन्यत्वं विनिगमनाविरहात्तदुपादानकत्वमेव। तेन कालपरिणामरूपस्यास्य जन्यप्रपञ्चस्य कालत्वम्। मृत्परिणामरूपघटादेर्मृत्त्वमिवेति विवदन्ते, तदाह।। यदीत्यादि।। यद्यस्तीत्यनेनास्य मतस्यायुक्तत्वमनिष्टत्वं च सूचितम्।।[सूचितमिति।। अविच्छिन्नक्षणधाराया एव कालत्वमिति मञ्जूषायां विस्तरतो निरूपितत्वेन पूर्वोक्ततान्त्रिकमतस्य केचित्कारमतस्य च वैयाकरणसिद्धान्तविरुद्धत्वेनानिष्टत्वं सूचितमिति भावः।] नापूर्वमिति।। शीङादीनामकर्मकाणां शयनादिपूर्वकव्यापनार्थवृत्तितायां कर्तुरीप्सिततममित्येव सिद्धेरिति भावः। ननु स्वपधातोश्शयनपूर्वकव्याप्त्यर्थकत्वे कर्तुरित्यनेन कर्मत्वस्य निर्बाधत्वेन साधुत्वस्याभीष्टतया कथमध्वानं स्वपितीत्यस्यानिष्टत्वेनापत्तिविषयत्वमत आह।। स्वापमात्रार्थक इति।। तन्मात्रार्थकतायामध्वनः कर्मत्वमनिष्टमित्याशयः।।
कृत्रिमकर्मत्वोक्तेरिति।। कर्तरि कर्मव्यतीहार इति सूत्रे कृत्रिमाकृत्रिमन्यायेन कर्मपदस्य कारकपरत्वमेव स्यान्न तु क्रियापरत्वम्। इत्थं च देवदत्तस्य धान्यं यज्ञदत्तो व्यतिलुनीत इत्यत्रैव स्यान्न तु व्यतिलुनाते व्यतिलुनत इत्यादावित्याशयेन क्रियाग्रहणं कर्तव्यमित् वार्तिककृदारब्धस्य वचनस्य प्रत्याख्यानोपायतया नियमतः प्रतीयमानैः संदर्शनप्रार्थनारम्भणैराप्यमाणत्वाकत्क्रियापि कृत्त्रिमं कर्मेत्युक्तम्। अतः कर्मग्रहणसामर्थ्यादेवात्र कारकपरत्वमिति तत्त्वम्। स्वधर्मेणेत्यस्य तृतीययेत्यर्थलाभः कथमत आह।। स्वकार्येणेति।। धर्मपदस्येह कार्यपरत्वमौचित्यादित्याशयः। वादिनिग्रहाभिनिवेशमूलकमधिकार्थकथनमभ्युच्चयः।। मन्यत इति।। वक्ष्यमाणरीत्या नियमात्मकैकपक्षपरत्वेनैव सकलभाष्यसामञ्जस्ये पक्षभेदपरतया तदर्थोपवर्णनमयुक्तमित्याशयः।। अनभिमतत्वमिति।। अभिधत्ते वक्तीत्यादीनां बोधविषयीभवनानुकूलव्यापारानुकूलव्यापारवाचकत्वेन द्विकर्मकतायामवान्तरव्यापाराश्रयस्य पुत्रादेः प्रधानकर्मतया लकारादिसिद्ध्या लक्ष्यविसंवादाभावेन संज्ञाया अर्थनिबन्धनत्वमनुपयुक्तमित्याशयः। न चैवंरीत्या ब्रूधातोरपि द्विकर्मकत्वेनाभीष्टसिद्धौ दुहादिषु तत्परिगणनं भाष्यकारीयं निष्फलमिति वाच्यम्। बोधानुकूलव्यापारवाचकतायां विषयतासम्बन्धेन बोधाश्रयस्य धर्मादेरेव कर्तुरित्येतत्सूत्रबोधितमुख्यकर्मतया तत्सम्बन्धिनि पुत्रादौ गौणे कर्मणि लकारादिसिद्धये तस्यावश्यकत्वात्। न चैवमभिधत्त इत्यादीनामपि बोधानुकूलव्यापारवाचकतायां निरुक्तरीत्या लकाराद्युपपत्तये संज्ञाया अर्थनिबन्धनत्वमावश्यकमेवेति वाच्यम्। एकव्यापारवाचकतायामुक्तरीत्या तेषां द्विकर्मकत्वे मानाभाव इत्याशयात्। किञ्च यथाकथं चित्प्रमितलक्ष्यसाधुतायाः प्रयत्नसन्तरेणोपपत्तौ प्रामाणिकानभिमतेन क्लिष्टकल्पनेन तत्समर्थनाभिनिवेशो न युक्त इत्यसमञ्जसमेव संज्ञाया अर्थनिबन्धनत्वमित्याहुः। तदेतल्लक्ष्यविसंवादाभाव- प्रधानं शास्त्रप्रयोजनमिति वदन्मूलकारस्सूचयतीत्युपाध्यायो मन्यते।
ननु विधिनियमयोरन्यतरपक्षावलम्बस्यौचित्ये नियमापेक्षया लाघवकृतेन विधिबलीयस्त्वेन विधिरेव कुतो नाद्रियत इत्याशङ्कां परिहर्तुमारभते।। तुना अरुचिरिति।। प्रकृतधातूपात्तप्रधानव्यापाराश्रयत्वं कर्तृत्वम्। प्राधान्यस्य मुख्यविशेष्यभूतप्रयोजकव्यापारगतस्य सम्भवे यत्किञ्चिन्निरूपितस्य विशेषणगतस्य तस्य परिग्रहायोगान्नास्ति प्रयोज्यव्यापाराश्रयस्य कर्तृत्वसम्भव इत्याशय-। ननु प्रयोज्यव्यापारश्रयस्य कर्तृत्वाभावे तदनुवादेन कर्मत्वविधानमसम्बद्धं स्यात्। अत आह।। किञ्चेति।। उपलक्षणमिति।। न्यायविरोधोऽत्र बीजम्। नन्वारम्भसामर्थ्यादिति भाष्यं विधित्वाभावे कथमुपपद्येतेत्यत्राह।। नियमारम्भसामर्थ्यादित्यर्थ इति।। नियमार्थकतैवेति।। प्राक्कडारात्परं कार्यमिति पाठान्तरैकरूप्यार्थमाकडारादेका संज्ञेति यथाश्रुतेपि नियमार्थकतैवोचितेति भावः।। बाधापत्तेरिति।। प्राक्कडारात्परं कार्यमिति शास्त्रं च तत्तच्छास्त्रारम्भात्पूर्वा, परकार्यविधानाच्च परेति संज्ञाद्वयसमावेशार्थम्। निरुक्तविपरीतनियमे संज्ञान्तरव्यावृत्तौ शास्त्रबाधस्स्पष्ट एवेति भावः।। सार्थाद्धीयत इति।। मिलितप्रयोजनकः प्राणिसमूहस्सार्थः। तस्य तदेकदेशभूतव्यक्तिविशेषनिष्ठविभागजनकव्यापारात्मकप्रधानीभूतजहात्यर्थाश्रयत्वेन सत्यपि स्वातन्त्य्रे तदविवक्षया विभागावधित्वमात्रविवक्षणेनापादानत्वेपि वस्तुभूतस्वातन्त्य्रोपहिततथाविधंसमुदायनिष्ठव्यापारप्रयोज्यविभागात्मकफलाश्रयत्वेनैकदेशस्य कर्मतया लकाराद्युपपत्तिरिति निष्कर्षः। ननु प्रयोजकव्यापारविवक्षायां प्रयोज्यव्यापारश्रयस्योक्तरीत्या कर्तृत्वाभावे कर्तृव्यापारवाचकप्रयोजकत्वप्रयुक्तस्य हेतुत्वस्य दुर्वचतया हेतुव्यापारनिबन्धनाया णिजुत्पत्तेरनुपपत्तिरत आह।। तत्प्रयोजक इति सूत्रेपीति।। ननु कारकशब्दस्य संज्ञाधिकारपरत्वे कारकसंज्ञाकर्तृसंज्ञयोस्समावेशाय कारकसंज्ञोपहितस्यैव कर्तृसंज्ञाविधानाद्भवतु कर्तृपदवाच्यस्वतन्त्रपदार्थयोस्सामान्यविशेषभावः। यदा च तस्य क्रियापरत्वं तदा कथं सामान्यविशेषभावावधानमत आह।। किञ्चेति।। अक्षतमिति।। ननु गत्यर्थकर्मणीति सूत्रे गत्यर्थकधातुप्रकृतिकण्यन्तस्यापि ग्रहणे ग्रामं गमयति देवदत्तमित्यादौ प्रयोज्यवाचकादपि द्वितीयाचतुर्थ्योः पर्यायेण प्रसङ्गः। तदग्रहणे च ग्रामादिकर्मण्यपि तदप्रवृत्तिरतो नेदं युक्तमत आह।। किञ्चेति।।
अत्र ग्रहणमिति।। गतिबुद्धीति सूत्रे इत्यर्थः।। सम्बन्धमात्रमिति।। सुखं प्राप्त इत्यादौ समवायोधनं प्राप्त इत्यादौ स्वस्वामिभावः। ननु प्राप्त्यर्थानां गत्यर्थत्वाभावे गां प्राप्त इत्यादौ गत्यर्थाकर्मकेति कर्तृनिष्ठाया अनुपपत्तिरत आह।। आदिकर्मणीति।। न्यायसिद्धार्थमेवेति।। नीवह्योर्गत्यर्थत्वाभावादेव सूत्रेण कर्मत्वाप्राप्त्या निषेधोयं न्यायसिद्धार्थानुवाद इत्यर्थः। नन्वधिकार्थकस्य भाष्यरीत्या गत्याद्यर्थकत्वाभावादणीति सूत्रे व्यर्थमतस्तदेव नीवह्योर्यथाकथं चिद्गत्यर्थयोरपि सूत्रविषयतायां प्रामाणीभवितुमर्हतीति कथमुक्तरीत्या वार्तिककारीयो नीवह्योर्निषेधो न्यायसिद्धस्स्यादित्यत आह।। निवृत्तप्रेषणेत्यादि।। निवृत्तप्रेषणाद्धातोर्हेतुमण्णौ शुद्धेन तुल्यार्थकतया गमयत्यादीनामपि गत्याद्यर्थत्वात्प्रसक्तस्य कर्मत्वस्य वारणार्थमणीति सार्थकमेवेति न तद्वैयर्थ्यमूलिका गत्यर्थत्वप्रयुक्ता सूत्रविषयता नीवह्योरित्याशयः। न चैवं निवृत्तप्रेषणकतया देशान्तरप्राप्तिमात्रबोधकतायां गत्यर्थत्वान्नीवह्योस्सूत्रविषयत्वेन निषेधस्यावश्यकत्वात्कथं न्यायसिद्धत्वमिति वाच्यम्। न वहिर्गत्यर्थ इति भाष्यविरोधान्नियन्तृकर्तृकस्येति निषेधबाधकवार्तिकस्वारस्यभङ्गापत्तेश्च तथाविधयोस्तयोर्निषेधविषयत्वायोगादित्याहुः।। हिंसाङ्गे इति।। प्राणवियोगफलके गलाधोदेशसंयोगानुकूलव्यापारे इत्यर्थः।। घटादिभिन्नस्मरतेरिति।। चिन्तायां पठिष्यमाणस्मृधातुराध्याने मित्त्वार्थं घटादावनूद्यते।। तत्रानूद्यमानानामर्थान्तरे मित्त्वायोगादाध्यान एव मित्त्वमतो मित्त्वोपहितस्मृधातुप्रकृतिकण्यन्तविषये निषेधबाधनेन भाष्योपपत्तौ सामान्येन तद्बाधकल्पनायां मानाभाव इत्याशयः।।
न मानमिति।। कृष्णश्चाणूरमाह्वयत इतिवत्पुत्रं शब्दायत इति प्रयोगे बाधकाभाव इत्याशयः।। विधायकाभावादिति।। विशिष्टस्य कृदन्तत्वभावेन कर्तृकरण इत्यनुशासनाप्रवृत्तेरिति तदर्थः।। असामर्थ्याच्चेति।। अनुशासनबलादवयवीभूतक्रियाद्वारकसामर्थ्येन कर्तृकरणबोधकतृतीयान्तयोः कृदन्तेन समासाभ्युपगमेपि तद्धटितसमुदायेन समासे मानाभाव इत्याशयः। इष्टसिद्धिरिति। `ण्यन्ते कर्तुश्च कर्मण, इति वचनं कर्मत्वविवक्षाविषयप्रयोज्यकर्तृसमभिव्याहारे केवले कर्मणि क्तादिप्रत्ययनिवर्तकम्। न तदसमभिव्याहारदशायामिति भावः।। अभिमानादिति।। एतेन प्रयोज्यस्य णिजुत्पत्तये कर्तृत्वावश्यम्भावेपि तत्समानाधिकरणकर्मत्वाविवक्षामात्रेण णिजुत्पत्तिप्रयोजकव्यापारनिर्वाहकप्रयोज्यगतकर्तृत्वानपगमान्नास्ति कर्मत्वाविवक्षायां दूषणावकाश इति सूचितम्।। अपुष्ट्यापत्तेरिति।। जायापदस्य गन्थमाल्यसम्बन्धिबोधकतया विशिष्टेन तत्सम्बन्धिना सम्बन्धायोगादसामर्थ्यात्षष्ठीसमासानुपपत्तिः। गन्धमाल्ययोर्जायासापेक्षत्वेनासामर्थ्याद्बहुव्रीह्यनुपपत्तिश्चेति बोध्यम्। सर्वथा वृत्तिघटकस्य प्रतिग्राहितशब्दस्य प्रतिगृहीतपरत्वं दुर्लभमिति चोद्यपरिहाराभ्यां प्रदर्शयितुमाह।। नन्वित्यादि।। गन्धमाल्यपरत्वमिति।। प्राप्तोदकादौ कर्मप्रत्ययान्तस्य प्राप्तशब्दस्य विशेषणविशेष्यभाववैपरीत्येन वृत्तौ प्राप्तिपरत्ववदिति भावः।। सूत्रव्युत्पत्त्यादीति।। व्युत्पत्तिरभियुक्तानुभवः। वृत्तिस्वभाव आदिशब्दार्थः।।
समर्थसूत्रस्थ इति।। एतद्भाष्यप्रामाण्यादाग्रहरूपाभिनिवेशवाचकतायामेव कर्मत्वमर्थान्तरे त्वधिकरणत्वमभिनिविष्टानामित्यत्र ह्यावश्यकं वर्तनमर्थः। पापेऽभिनिवेश इत्यत्राप्येवमेव। अभिनिविशते सन्मार्गमित्यादौ तु आवश्यकत्वप्रकारकज्ञानरूप आग्रह एवार्थ इति सर्वमुपपद्यत इत्याहुः। ननूभसर्वतसोरित्यस्योभसर्वयोस्तसाविति विग्रहेणोभसर्वशब्दप्रकृतिकतसन्तयोरित्यर्थस्य पर्यवसानादुभयत इत्यादौ वृत्तिविषये तसुत्पत्तेः पूर्वमेवायचः प्रवृत्त्या तसन्तस्यायजन्तप्रकृतिकत्वेप्युभशब्दप्रकृतिकत्वाभावात्कथमुभसर्वतसोरित्युक्तिरत आह।। उभांशे इति।। उभशब्दस्तद्धटितसमुदायपरो लक्षणयेति भाव-। समुदायोद्देश्यकत्वमित्यस्य समुदायगतोद्देश्यतानिरूपकत्वमित्यर्थः। उभशब्दप्रकृतिकतसन्तदौर्लभ्येन वार्तिकबलात्तदंशे तद्धटितसमुदायपरत्वाभ्युपगमेपि सर्वशब्दांशे तथा स्वीकारे मानाभावेन परमसर्वत इत्यादियोगे षष्ठ्येव साधुरिति वदन्ति।। वृत्तिविषये इत्यस्य वृत्तौ कृतायामित्यर्थो न युक्त इत्यत आह।। प्राचीनैरिति।। व्याख्यातमिति।। एवञ्च वृत्तिघटके परत अयजिति व्याचक्षाणानामुभशब्द एव तस्प्रकृतिरिति लक्षणाश्रयणमयुक्तमिति तात्पर्यम्।। दृष्टान्तबलेनेति।। गवित्ययमाहेति तदुपदर्शितदृष्टान्तविरोधाल्लुप्तविभक्तिकत्वमेवाविभक्तिकत्वमिति कल्पनया जश्त्वसमर्थनं न युक्तमिति भावः।। पञ्चम्यास्तसिलिति।। आद्यादित्वकल्पनामपेक्ष्य पञ्चम्यन्तात्तसिलित्येव न्याय्यमिति भावः।। विनापि सम्बन्धमिति।। अभेदस्य संसर्गत्वाभावात्संसर्गमन्तरापीत्यर्थः। नन्वभियुक्तवचनघटकस्य नाम्नोरित्यतदर्थपरतया षष्ठीविभक्त्या कथं तत्सम्बन्धस्स्यादत आह।। भेदसम्बन्धपूर्वकेत्यादि।। षष्ठीपदं तथाविधार्थपरमिति भावः।। सम्बोधनस्येति।। धिङ्मूर्ख निषिद्धमाचरसीति वाक्यार्थे प्रयुज्यमानाद्धिङ्मूर्खेति वाक्यात्प्रतीयमाननिषिद्धाचरणक्रियया सम्बोधनविभक्त्यन्तार्थस्यान्वयेपीत्यर्थः।। बहूपप्लव इति।। देव त्वां भजे इत्यादौ वास्तवफलाश्रयत्वादिकमादाय कर्मत्वाद्यापत्तिरिति भावः।
केचित्तु [टि- केचित्त्विति।। उपाध्यायप्रभृतय इत्यर्थः। एवं चात्रत्यमूलग्रन्थः मनोरमाकाराशयवर्णनपर एव। न तु स्वाशयवर्णनपर इति सूचितम्।] ``सिद्धस्याभिमुखीभावमात्रं सम्बोधनं विदुः। प्राप्ताभिमुख्योह्यर्थात्मा क्रियासु विनियुज्यत इति हरिकारिकाबलेन सम्बोधनविभक्त्यन्तार्थस्य नियमतः प्रवर्तनाविषयक्रियान्वयबोधनेन तद्विषये सम्बोध्यस्य कर्तृत्वावश्यम्भावात्तस्य कर्तृकारकत्वं युक्तमेव। व्रजानि देवदत्तेत्यत्र तु जानीहीत्यध्याहारादिष्ट सिद्धिः। तथाविधक्रियायामुद्देश्यत्वेन सम्बध्यमानस्य तस्य कर्मत्वादीनामसम्भव एव। अत एवाभिहिते प्रथमेति वार्तिकमते सम्बोधने चेत्यस्य प्रत्याख्यानेपि प्रथमासिद्धिरित्याहुः।।
ननु प्रतिशब्दस्य कर्मप्रवचनीयत्वे पृथक् द्वितीयाविधानारम्भवैयर्थ्यादुपसंर्गत्वस्यावश्यकतया क्रियागतविशेषद्योतकेन तेन बुभुक्षितादिपदार्थसम्बन्धायोगात्तत्सम्बन्धनिबन्धनप्रातिपदिकप्रकृतिकद्वितीयानुशासनानुपपत्तिरत आह।। प्रत्यर्थसम्बन्धस्येति।। प्रतिशब्दस्य क्रियागतसम्बन्धबोधकत्वादुपसर्गत्वम्। तद्द्योत्यसम्बन्धेन बुभुक्षितादिपदार्थस्य क्रियान्वयादेव द्वितीया। एतावानेवात्र प्रतिशब्दयोगो द्वितीयानिमित्तमित्याशयः।। मध्ये इत्यर्थकमिति।। अन्तरान्तरेणशब्दौ मध्यभागवाचकावधिकरणशक्तिप्रधानौ, अभाववद्वाचकौ च, द्वितीयानुशासने च विनिगमनाविरहादुभयविधयोरपि तयोर्ग्रहणम्। अन्तरान्तरेणशब्दप्रतिपाद्यार्थान्वयप्रयोजकसम्बन्धप्रतियोगिभूतेऽर्थे वर्तमानात्प्रातिपदिकात्तथाविधे सम्बन्धे द्वितीयेत्यनुशासनार्थः। अन्तरा त्वां मां हरिरित्यादौ मध्यभागवाचकतायामवधित्वं द्वितीयार्थः। ततश्च त्वन्मदवधिकमध्यभागाधिकरणिका हरिकर्तृका सत्तेत्यादिरर्थः। अन्तरेण हरिं न सुखमित्यादावभाववद्वाचकतायां प्रतियोगित्वं द्वितीयार्थः। हरिशब्दस्तद्भक्तौ लाक्षणिकः। ततश्च हरिभक्तिप्रतियोगिकाभाववन्निष्ठस्सुखाभाव इत्यर्थः।।
अत्रेदं बोध्यम्। कारकविभक्तिवद्यासामुपपदविभक्तीनां सम्बन्धविशेषे विधानं तत्र सम्बन्धस्य विशेषरूपेणाविवक्षायां सम्बन्धत्वेन विवक्षणे षष्ठ्येव। स्पष्टं चेदं चतुर्थी तदर्थेति सूत्रे भाष्ये। तत्र हि गुरोरिदं गुर्वर्थमित्यादौ तादर्थ्यस्य सम्बन्धत्वेन षष्ठीत्युक्तम्। सम्बन्धविशेषे विधानं च क्वचिद्विशेषोक्त्या, यथा लक्षणेत्थंभूतेत्यादिना प्रत्यादीनां कर्मप्रवचनीयत्वे तद्योगाल्लक्ष्यलक्षणभावादौ द्वितीया। क्वचिदाकाङक्षानैयत्यादन्तरा त्वामित्यादाववधित्वादौ। एवञ्चान्तरादि शब्दयोगेपि सम्बन्धमात्रविवक्षायां द्वितीयाप्रवृत्तिप्रयोजकसम्बन्धविशेषस्याविवक्षायां सम्बन्धसामान्ये षष्ठ्या निर्बाधत्वात्तव च मम चान्तरा कमण्डलुरित्यादयो निर्विवादाः प्रयोगाः। यत्तु युष्मदस्मत्पदबोध्यार्थस्य नात्रान्तरापदार्थेन योगः। किन्तु कमण्डलुना, ततो नात्र द्वितीयाप्रसक्तिरिति न निरुक्तकल्पनोपयोग इत्याहुः। तदसत्। त्वन्मत्स्वामिकः कमण्डलुरन्यावविकमध्यभागवर्तीत्यर्थे प्रकृतप्रयोगनिर्वाहेपि त्वन्मत्सम्बन्धिमध्यभागवर्ती परकीयः कमण्डलुरित्यर्थे तादृशप्रयोगसमर्थनस्योक्तकल्पनैकसाध्यत्वात्।।
वृक्षो लक्षणमिति।। वृक्षशब्दप्रकृतिकद्वितीयया बोधितेन लक्ष्यलक्षणभावेन वृक्षपदार्थस्य विद्युद्विद्योतनान्वये फलविधया भासमानोयमर्थः। इदमेवाभिसन्धाय संज्ञासूत्रेषु लक्षणेत्थम्भूतेत्यादिना धर्मिनिर्देशः। न तु लक्षणादिरूपो धर्मी प्रत्यादिद्योत्यः। तेषां सम्बन्धबोधकतानैयत्यात्। तदुक्तं हरिणा। ``क्रियाया द्योतको नायं सम्बन्धस्य न वाचकः। नापि क्रियापदाक्षेपी सम्बन्धस्य तु बोधक इति।। लक्ष्यत्वं ज्ञानजन्यज्ञानविषयत्वम्। ज्ञानजनकज्ञानविषयत्वं च लक्षणत्वम्। वृक्षं प्रतीत्यादिवाक्यार्थबोधे वृक्षविद्युद्विद्योतनयोस्साक्षाल्लक्ष्यलक्षणभावानुपपत्त्या देशद्वारके तस्मिन् स्वीक्रियमाणे वृक्षाधिकरणकदेशज्ञानेन तत्सामीप्योपहितविद्युद्विद्योतनदेशो ज्ञाप्यत इति देशयोरयं लक्ष्यलक्षणभावः फलति।। एतदेवात्र प्रयोजनम्। ईदृशवाक्यानां क्व विद्योतते विद्युदित्येतत्प्रश्नोत्तरवात्। यद्यपि कदा वृष्टो देव इत्यादिप्रश्नोत्तरभूतेषु जपमनुप्रावर्षदित्यादिषु कालद्वारकेऽपि लक्ष्यलक्षणभावे प्रकृतसूत्रेणैव संज्ञासिद्धिरनुशब्दस्य, तथापि जपादेर्हेतुतया परत्वात्प्रसक्ततृतीयाबाधकतया द्वितीयाविधानायानुर्लक्षण इति सूत्रारम्भः। प्रकृत्यादियोगे तु तथाविधे विषये तृतीयैव बाधकाभावादित्याहुः।। द्योत्या एवेति।। यद्यपि लक्षणादयो धर्मिपदार्था न द्योत्याः। किन्तु लक्ष्यलक्षणभावादयस्सम्बन्धविशेषा एव तथापि लक्षणादिपदानां तत्तत्सम्बन्धोपलक्षकत्वमित्याशयः। ननु वृक्षादीनां कर्मतया विशिष्टक्रियासम्बन्धेपि कर्मप्रवचनीयद्योत्यार्थसम्बन्धाभावात्कथं तत्सम्बन्धनिबन्धनायाः पञ्चमीविभक्तेः प्रसङ्ग इत्यत आह।। विशिष्टक्रियेत्यादि।। विशिष्टसम्बन्धे धर्मिपारतन्त्त्र्येण विशेषणसम्बन्धस्य क्लृप्तत्वादिति भावः। यद्यप्यत्रोपपदविभक्तेरिति न्यायादेव पञ्चमीवारणं सुकरम्, तथाप्युपायान्तरप्रदर्शनाय साहचर्याश्रयणं मूलकारस्येति द्रष्टव्यम्।। अन्वर्थत्वेनेति।। कर्म क्रियां प्रवचनीयाः प्रोक्तवन्त इति महासंज्ञाबललभ्यव्युत्पत्तिवशादन्यत्र क्रियाविशेषबोधकत्वेन दृष्टानां तदभाववतां संज्ञेत्याश्रीयत इति भावः।। भागस्याप्रतीत्येति।। भागोंशः, तत्वं चान्यदीयस्वत्वाभावविशिष्टं स्वत्वं, तन्निरूपकत्वं चांशित्वम्। शेषशेषिभाववदंशाशिभावोऽपि सम्बन्धविशेषः। एवं च लक्ष्मीर्हरिं प्रतीत्यादौ निरुक्तसम्बन्धो द्वितीयावाच्यः कर्मप्रवचनीयद्योत्यः। हरिनिरूपितांशत्ववती लक्ष्मीरित्येवं बोध इति भागरूपार्थः प्रतीयते। यदत्र ममाभिष्यादित्यत्र तु मत्स्वामिकयत्कर्तृकसत्ता सम्भावनाविषय इत्यर्थात्स्वस्वामिभाव एव प्रतीयते न तु निरुक्तांशांशिभाव इति भागरूपार्थप्रतीतिप्रयुक्तस्य कर्मप्रवचनीयत्वस्य प्रसक्त्यभावान्नेदं प्रत्युदाहरणमित्याशङ्काभिप्रायः।। भागे पर्यवसानमिति।। तद्दीयतामिति वाक्यशेषेण स्वत्वनिवृत्तिविशिष्टस्वत्वोत्पत्तिप्रतीत्या दानक्रियाविषयस्य यच्छब्दार्थस्य भागे पर्यवसानात्संज्ञाप्रसक्त्या युक्तमेव प्रत्युदाहरणम्। एवंविधविषयेपि संज्ञाप्रवृत्ताविदमेव गमकम्। अत एव यदस्मान्प्रति स्यात्तद्दीयतामित्यादौ संज्ञासिद्धिरित्याहूः।।
अध्वना कालेन वेति।। सूत्रे कालाध्वनोरिति सप्तमीति मन्यते। मूलकृद्रीत्या षष्ठ्यन्तत्वे तु श्रुतत्वादत्र सूत्रे कालाध्ववाचकाभ्यां द्वितीयाया उपपत्तावप्युत्तरसूत्रे तृतीयाया अनुपपत्तिरुभयोरप्यश्रुतत्वादित्याशयः। अत्यन्तसंयोगो व्यापकत्वं, तच्च कालाध्वनिरूपितं द्रव्यगुणकर्मणामेवेत्यौचित्यात्तल्लाभः। इत्थं च मासमधीत इत्यादौ व्यापकत्वं द्वितीयार्थः। मासव्यापकमध्ययनमित्यादिको बोधः। द्वितीयाप्रकृतिभूतकालाध्ववाचकशब्दाभ्यां संख्याविशेषावच्छिन्नतत्तदवयवानतिरिक्तस्समुदायो गृह्यते। मासशब्देन त्रिंशद्दिनकूटो दिनानतिरिक्तः। क्रोशमधीत इत्यादौ क्रोशशब्देन च संख्याविशेषपरिच्छिन्नदण्डानतिरिक्तः। क्रोशमधीत इत्यादौ क्रोशशब्देन च संख्याविशेषपरिच्छिन्नदण्डानतिरिक्तो दण्डकूटः। एवं चैकदिनैकदण्डाध्ययनाभावेपि व्यापकताविरोधान्न द्वितीयायास्साधुत्वम्। व्यापकत्वं च तद्वन्निष्ठात्यन्ताभावीयप्रतियोगितानवच्छेदकधर्मावच्छिन्नत्वम्। मासत्वक्रोशत्वादेर्यावदवयवपर्याप्तत्वात्तद्वन्निष्ठात्यन्ताभावो न सर्वदिनानुगतस्याध्ययनस्याभावः, किन्तु घटाद्यभावः। तदीयप्रतियोगिताबच्छेदकत्वं घटत्वादेरनवच्छेदकत्वमध्ययनत्वस्येति तदवछिन्नत्वादध्ययनस्य व्यापकतासिद्धिः। न च दिवसावान्तरदण्डावच्छेदेन विद्यमानाध्ययनाभावमाश्रित्याध्ययनस्य व्यापकताभङ्ग इति वाच्यम्। व्यापकताघटकाभावस्य प्रतियोगिव्यधिकरणस्य विवक्षणेन यत्किञ्चिद्दण्डावच्छेदेनाध्ययनस्य विद्यमानतया दण्डान्तरावच्छेदेन विद्यमानतदीयाभावमाश्रित्य व्यापकताभङ्गस्य दुर्वचत्वात्। मासत्वादेर्बुद्धिविशेषविषयत्वेन विवक्षणान्न मासान्तरीयतदभावमाश्रित्य व्यापकताविरोधः। प्रतिमासमधीत इत्यादौ मासशब्दः मासानतिरिक्तमासकूटपरो, मासास्त्वखण्डा एव। मासत्वं च तत्र यावन्मासावयवकूटो बुद्धिस्थस्तावदवयवपर्याप्तो धर्मः। ततोऽवान्तरमासैकदेशे तदभावेपि यावदवयवात्मकाखण्डमाससम्बन्धस्य विद्यमानत्वादध्ययनस्य न व्यापकताभङ्गः। एवं क्रोशमधीते प्रतिक्रोशमधीत इत्यादावप्यूहनीयमित्याहुः। एवं मासं कल्याणी क्रोशं कुटिला नदीत्यादौ मासव्यापककल्याणगुणवती क्रोशव्यापककौटिल्यगुणवती नदीत्येवं बोधः। मासं गुडधानाः क्रोशं गिरिरित्यादौ च मासव्यापिका गुडधानाः क्रोशव्यापको गिरिरित्यादिको बोध इति सर्वतान्त्रिकसम्मतः पन्थाः।। इति द्वितीया।।
श्रीः।। कर्तृसंज्ञाविधायके ``स्वातन्त्रः कर्ता इति सूत्रे स्वतन्त्रशब्दोऽर्श आद्यजन्तः। तत्प्रकृतिभूतेन प्रधानवाचिना स्वतन्त्रशब्देन व्यापारो गृह्यते। तत्र प्राधान्यं परिष्कर्तुमाह।। प्राधान्यं चेति।। धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतानाश्रयधात्वर्थत्वं प्राधान्यमित्येतन्मात्रोक्तौ कर्मप्रत्ययसमभिव्याहारे पच्यते तण्डुल इत्यादौ सुप आत्मन इति सूत्रस्थभाष्यप्रामाण्येन फलस्यैव प्राधान्यात्फलनिष्ठविशेष्यतानिरूपितप्रकारतापन्नव्यापारस्य निरुक्तप्राधान्याभावत्तदाश्रयस्य देवदत्तादेः कर्तृत्वानुपपत्तिः। अतः कर्तृप्रत्ययसमभिव्याहारे इति।। न च धात्वर्थनिष्ठप्रकारतानिरूपकधात्वर्थत्वं प्राधान्यमित्येव सिद्धे प्रकारतानाश्रयत्वनिवेशो व्यर्थ इति वाच्यम्। व्यापारद्वयार्थकनयत्यादियोगे संयोगानुकूलव्यापारानुकूलव्यापारस्य धात्वर्थतया संयोगनिष्ठप्रकारतानिरूपकस्यावान्तरव्यापारस्यापि प्राधान्यात्तदाश्रयस्याजादेरप्यजां ग्रामं नयतीत्यादौ कर्तृत्वापत्तेः।।
वस्तुत इदं चिन्त्यम्। प्रधानव्यापाराश्रयत्वरूपकर्तृलक्षणे प्राधान्यघटकतया कर्तुः प्रवेशेनात्माश्रयापत्तेः। न च कर्मप्रत्ययासमभिव्याहारे धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतानाश्रयधात्वर्थत्वं प्राधान्यम्। तदुपहितव्यापाराश्रयत्वं कर्तृत्वमिति विवक्षणान्न दोष इति वाच्यम्। कर्मलक्षणे कर्तुः प्रवेशेनात्माश्रयस्य तदवस्थत्वात्। तस्मात्करणतानिरूपकधात्वर्थातिरिक्तधात्वर्थत्वं प्राधान्यम्। तद्विशिष्टव्यापाराश्रयत्वं च कर्तृत्वं विवक्षणीयमतो न काप्यनुपपत्तिरित्याहुः।।
केचित्तु णिजर्थव्यापारातिरिक्तव्यापारनिरूपितप्रकारताराहित्यं प्राधान्यमिति वदन्ति।। [टि- वदन्तीति।। परे तु कर्तृप्रत्ययेत्यस्य कर्तृवाचकतृजादिप्रत्ययेत्यर्थः। तथा च तृजादिप्रत्ययसमभिव्याहारे इति मूलकृता विवक्षितम्। अत एवैतत्फलतया पक्वस्तण्डुल इत्यादौ फलस्य प्राधान्येऽपि चत्रादेः कर्तृत्वसिद्धिरिति कृदन्तस्थलप्रदर्शनं शेखरादौ स्वरसत उपपद्यते। अन्यथा पच्यते इत्याख्यातस्थलमपि प्रदर्शयेत्। एवं च नात्माश्रयशङ्केति मूलाक्षरास्पर्शिलक्षणकथनं विफलमेव। एतेन मूलस्य चिन्त्यतोक्तिः परास्ता। यत्तु करणतानिरूपकधात्वर्थातिरिक्तधात्वर्थत्वं प्राधान्यमिति, तदसत्। एवं सति करणव्यापारस्य प्राधान्यानापत्तौ काष्ठानि पचन्तीत्यस्यासिद्ध्यापत्तेः। न च तस्मिन्प्रयोगे करणतानिरूपकत्वं तस्य नास्तीति वाच्यम्। प्रयोगभेदेन लक्षणकरणे यस्मिन्प्रयोगे करणतानिरूपकधात्वर्थोऽप्रसिद्धः, तत्र प्रतियोग्यप्रसिद्ध्या तदतिरिक्तत्वस्याप्रसिद्धेस्तत्र लक्षणस्याव्याप्त्यापत्तेः। किं च मूलाक्षरास्पर्शित्वमत्राप्यस्तीति बोध्यम्। वस्तुतरित्वदं मनोरमानुरोधेनेति नात्र मूलकृतो निर्भरः। परं तु तद्धात्वर्थीयकारकचक्रप्रयोक्तृत्वं स्वातन्त्य्रमिति कारक इति सूत्रभाष्याल्लभ्यते। स्वेच्छाधीनप्रवृत्तिनिवृत्तिकत्वं स्वातन्त्य्रमिति स्वतन्त्रः कर्तेति सूत्रभाष्याल्लभ्यते। मनोरमोक्ते तु स्वतन्त्रपदस्वारस्यभङ्गः। अपूर्वपरिभाषापत्तेः। विस्तरस्तु मञ्जूषातोऽवसेय इत्याहुः।।] धातुनोक्तक्रिये इत्यस्य धातूपात्तप्रधानव्यापाराश्रये इत्यर्थः।।
विशेषणत्वादीति।। ननु विशेषणं विशेष्येण बहुलमिति सूत्रस्थभाष्यबलात् द्रव्यगुणक्रियावाचकानां विशेष्यविशेषणभावो व्यवस्थित एवेति कथमव्यवस्थायां दृष्टान्तत्वसम्भव इत्यत आह।। स्वञ्जकुब्जादाविति।। गुणवाचकानां क्रियावाचकानां वा यथा विशेषणविशेष्यभावो न व्यवतिष्ठते तद्वत्कारकत्वादीत्यर्थः। ननु कारकत्वव्याप्यकर्तृत्वादीनां विवक्षाधीनतया भवतु न व्यवस्था। कारकत्वं क्रियान्वयित्वरूपं क्रियाजनकत्वरूपं वा कुत्र न व्यवस्थितं तत्राह।। तण्डुलानामिति।। शब्दशक्तिस्वाभाव्यादिति।। अत एव व्यपदेशिवद्भावेन फलाश्रयतया कर्मत्वेन शोभनं पचतीत्यादयो यथा प्रयोगास्तथा व्यापारस्य व्यापारश्रयत्वमूलकेन कर्तृत्वेन शोभनेन पचतीत्यादयो न प्रयोगा इत्याहुः।। ज्ञानविषयत्वे इति।। ज्ञानस्य ज्ञानविषयत्वे ज्ञानविषयीभवनतद्विषयीकरणयोर्भिन्नाधिष्ठानावस्थितिस्वभावयोरेकत्रावस्थानायोगात्कर्तृकर्मभावविरोधः कथमयं विरोधो न स्यात्, यद्यभेदेपि विषयविषयिभावस्स्यात्। स च दुर्लभ इत्याह।। विषयविषयिभावस्याभावादिति।। ज्ञेयज्ञातृभावस्य लोकन्यायविरोधेन व्यपदेशिवद्भावानधीनत्वादित्याशयः।। शब्दविशेषनिमित्तकस्येति।। कर्तुत्वकर्मत्वादेस्तत्तद्विभक्त्यन्तपदजन्यशाब्दप्रमाविषयतया तद्विरोधस्य दीपवत्प्रत्यक्षतया ज्ञानस्य स्वप्रकाशकत्वे प्रतिबन्धकत्वायोग इति परमार्थः।। गम्यादिकर्तरीति।। चैत्रो ग्रामं गच्छतीत्यादौ संयोगस्य द्विनिष्ठतया क्रियाजन्यफलाश्रयत्वरूपकर्मलक्षणस्य चैत्रादौ कर्तरि प्रसर्ताया अतिव्याप्तेर्वारणार्थमित्यर्थ।। संयोगस्यैवेति।। धात्वर्थतावच्छेदकत्वं च धात्वर्थनिष्ठविशेष्यतासमर्पकत्वेनोपस्थितिविषयत्वम्। तच्च गम्यादेस्संयोगावच्छिन्नव्यापारविषयकशक्त्याश्रयत्वे संयोगस्यैव न विभागस्येति प्रयागात्काशीं गच्छतीत्यादौ विभागाश्रयस्यास्यापादानस्य न कर्मत्वमिति भावः।। धात्वर्थतावच्छेदकत्वेनेति।। धात्वर्थनिष्ठविशेष्यतानिरूपकत्वे सति धातुजन्योपस्थितिविषयत्वं धात्वर्थतावच्छेदकत्वमिति विवक्ष्यते। अत एव फलव्यापारयोर्विशकलितयोरेव धातूनां शक्तिरित्यभ्युपगमेपि गम्यादिवाच्यसंयोगादेर्धात्वर्थतावच्छेदकत्वम्। ग्रामं गमयति देवदत्तमित्यादौ च विशिष्टशक्त्यभावेन विशेष्यतानिरूपकत्वेनोपस्थित्यभावेपि गमयतीत्यादौ प्रयोज्यव्यापारे शाब्दबोधीयणिजर्थव्यापारनिष्ठविशेष्यतानिरूपकत्वेन धातुजन्योपस्थितिविषयत्वेन च धात्वर्थतावच्छेदकत्वमव्याहतमेवेति णिच्समभिव्याहारेपि गम्यादिकर्तरि कर्मत्वमुपपद्यते। अपादानस्य तु न कर्मत्वप्रसक्तिस्तन्निष्ठविभागस्य धातुजन्योपस्थितिविषयत्वाभावेन धात्वर्थतावच्छेदकत्वाभावादित्याशयः। ननु प्रयागात्काशीं गच्छतीत्यादौ शाब्दप्रमाविषयतया प्रतीयमानस्य विभागस्य धातुनिष्ठशक्तिगम्यत्वमभ्युपगच्छतां फलांशे धात्वर्थतावच्छेदकत्वनिवेशो नापादानस्य कर्मत्वं वारयति किन्तु शास्त्रकृत्कल्पितो बाध्यबाधकभाव एवेति मूलकारसूचितं विशदयन्नाह।। ननु विभागस्येत्यादि।। सावकाशाया इति।। विषस्य गलाधोदेशसंययोगाश्रयत्वेनानुद्देश्यत्वात्कर्तुरितिकर्मत्वस्याप्राप्तिर्विभगानुकूलव्यापाररूपस्यापायस्याभावादपादानत्वस्याप्राप्तिरिति तथायुक्तमिति कर्मत्वस्यायमवकाश इति भावः।। द्वितीयासिद्धिरिति।। नन्वेवं यत्र फलाश्रयत्वेनोद्देश्यत्वाभावस्तत्र तथायुक्तमित्यनेन प्राप्तकर्मत्वस्य विषये निरवकाशेनापादानत्वेन बाधः। यत्र तु तादृशफलाश्रयत्वेनोद्देश्यता तत्र परेण कर्तुरिति कर्मत्वेन बाध इति पर्यवसन्नम्। तथा च वृक्षं त्यजतीत्यादावुद्देश्यत्वेनाविवक्षायामपादानत्वं प्रयागात्काशीं गच्छतीत्यादौ तद्विवक्षायां कर्तुरित्यनेन कर्मत्वं च दुर्वारमतो न निरुक्तव्यवस्थया निर्वाह इत्यत आह।। फलतानवच्छेदकत्वादिति।। प्रयागात्काशीं गच्छतीत्यादौ गम्याद्यर्थविभागीयफलतावच्छेदकसम्बन्धश्चानुयोगित्वम्। तेन सम्बन्धेन प्रयागादेर्विभागात्मकधात्वर्थफलानाश्रयत्वात्केनापि कर्मत्वस्याप्राप्त्या निरपवादमपादानत्वमतो ग्रामं त्यजतीत्यादौ फलतावच्छेदकीभूतप्रतियोगितासम्बन्धेन विभागाश्रये ग्रामादौ प्रसक्तमपादानत्वं परत्वात्कर्मत्वेन बाध्यते। फलतावच्छेदकसम्बन्धेन धातूपात्तफलाश्रयत्वमेवोद्देश्यानुद्देश्यसाधारणमिह कर्मत्वमत एव चैतो ग्रामं गच्छतीत्यादौ संयोगाश्रये कर्तरि न कर्मत्वप्रसक्तिः। अनुयोगित्वस्यैव धात्वर्थसंयोगीयफलतावच्छेदकसम्बन्धतया तेन सम्बन्धेन कर्तरि तदाश्रयत्वाभावादतो न काप्यनुपपत्तिरित्याशयः।
केचित्तु गम्यादीनां संयोगानुयोगित्वानुकूलो व्यापारो धात्वर्थः। तदनुयोगित्वं च प्रधानव्यापारप्रयोज्यफलं ग्रामं गच्छति चैत्र इत्यादौ धातूपात्ततथाविधफलाश्रयत्वाद्ग्रामादेः कर्मत्वं, कर्तरि तदाश्रयत्वाभावादेव न कर्मत्वप्रसक्तिः। त्यजत्यादीनां तु विभागीयप्रतियोगित्वानुकूलो व्यापारोऽर्थः। विभागप्रतियोगित्वं च धातूपात्तं तादृशव्यापारप्रयोज्यं फलमिति वृक्षं त्यजतीत्यादौ तदाश्रयस्य वृक्षादेः कर्मत्वम्। अपादानत्वस्य तु न प्रसक्तिरपायाभावात्। विभगानुकूलव्यापार एव ह्यपायः। वृक्षात्पततीत्यादौ विभागविशिष्टसंयोगानुयोगित्वानुकूलो व्यापारोऽर्थ इति विशिष्टसंयोगानुयोगित्वरूपफलाश्रयस्य भूम्यादेरेव कर्मत्वं, न वृक्षादेस्तादृशफलाश्रयत्वाभावात्। एवं च फलतावच्छेदकसम्बन्धस्य कर्मतानियामकत्वकल्पना निष्फलैवेत्याहुः। [टि- आहुरिति।। अत्र यद्वक्त्व्यं तदथस्तान्निरूपितम्।]
अत्रेदं बोध्यम्। गम्यादीनां संयोगानुयोगित्वानुकूलो व्यापारो वाच्य इत्युक्तावपि स्वरूपसम्बन्धेन संयोगानुयोगित्वरूपफलाश्रयत्वेन गम्यमानग्रामवत्कालिकसम्बन्धेन तादृशफलाश्रयत्वाद्ग्रामान्तरस्याप्युदासीनस्य कर्मत्वापत्तिः। तथा चैत्रादौ कर्तर्यपि। किञ्च वृक्षादपसरतीत्यादौ विभागानुयोगित्वानुकूलव्यापारवाचकत्वे विभागानुकूलव्यापारात्मकापायाभावादपादानत्वानुपपत्तिः। विभागानुकूलव्यापारस्यैव तदर्थत्वे तु विभागात्मकफलाश्रयत्वेन वृक्षादेः कर्मत्वापत्तिः। अपि च परस्परस्मान्मेषावपसरत इतिवत्स्वस्मात्स्वयमपसरेतीति प्रयोगो दुर्वारः। तत्र ह्यौपाधिकभेदेन परस्परशब्दप्रतिपाद्यस्य भेदमाश्रित्यापादानत्वनिर्पाहोऽन्यथा परत्वात्कर्तृत्वेन बाध एव स्यात्। फलतावच्छेदकसम्बन्धस्य कर्मतानियामकत्वे तु तेन सम्बन्धेन फलव्यधिकरणव्यापारस्यैव प्रकृते धात्वर्थताया वक्तव्यत्वाद्यादृशप्रतियोगित्वेन विभागान्वयस्तादृशप्रतियोगित्वसम्बन्धेन व्यापारवैयधिकरण्यासम्भवात्कर्मत्ववदपादानत्वस्यानुपपत्तिरेवेति नायं प्रयोगः। अनभिधानं तु न युक्तम्। प्रकारान्तरेण परिहारसम्भवे तस्यायुक्तत्वात्। न च मेषाभ्यां परस्परमपसरतीत्यस्यानिष्ठस्यानभिधानं तवाप्यावश्यकमिति वाच्यम्। व्यासज्यवृत्तिधर्मावच्छिन्नसमभिव्याहृतक्रियोद्देश्यतावच्छेदकावच्छिन्नतदवच्छेदकतावच्छेदकावच्छिन्नान्यतरबोधकत्वेन परस्परशब्दस्य शक्तिग्रहे तदीयोद्देश्यप्रसिद्धेरावश्यकत्वेन तदभावादेव तादृशप्रयोगाभावात्। परस्परतपस्सम्पदित्याद्युपपत्त्यर्थमुद्देश्यतावच्छेदकतावच्छेदकावच्छिन्नत्वनिवेशः। न चैवमपपूर्वस्य सृधातोः प्रतियोगित्वेन विभागव्यधिकरणव्यापारवाचकत्वे फलतावच्छेदकीभूतप्रतियोगितासम्बन्धेन विभागाश्रये वृक्षादौ कर्मत्वेन बाधादपादानत्वाप्राप्त्या वृक्षादपसरतीत्यादिकः प्रयोगो न स्यात्किन्तु वृक्षं त्यजतीतिवद्वृक्षमपसरतीत्येव स्यादिति वाच्यम्। कर्मत्वाविवक्षायां वृक्षाद्विभजतीतिवत्तादृशप्रयोगस्य निर्बाधत्वाद्वृक्षं त्यजतीतिवद्वृक्षमपसरतीत्याभीष्टमेव, सत्यभिधाने इत्याहुः।।
संसर्गत्वमते इति।। तत्तत्कारकशक्तिः क्रियाकारकभावसम्बन्धश्च कारकविभक्तीनामर्थः। तत्र कारकशक्तिश्च कर्मत्वादिरूपा प्रकृत्यर्थविशेषणं, संख्यावत्। कर्मत्वादिरूपकारकशक्तिविशेषितप्रकृत्यर्थस्य क्रियायां विशेषणत्वे क्रियाकारकभावात्मकविभक्त्यर्थसम्बन्धस्संसर्ग इति मते इत्यर्थः। ननु यत्किञ्चित्पदार्थप्रतियोगिकपदार्थान्तरानुयोगिकसम्बन्धस्य वाक्यादुपस्थितस्याकाङ्क्षालभ्यस्य वा संसर्गतया भानं न तु पदादुपस्थितस्येति कथमिह विभक्त्युपस्थापितस्य संसर्गत्वमिति चेदत्र केचित्। वाक्यादुपस्थितस्यैव संसर्गत्वमिति न नियमो, मानाभावात्। किन्तु तस्य संसर्गत्वमेव न तु प्रकारत्वम्। पृथगुपस्थितस्य तस्य प्रकारत्वेनानुपस्थित्या शाब्दबोधीयप्रकारत्वायोगात्। अन्यथा समानाकारकत्वनियमव्याकोपः। पदादुपस्थितस्य तु प्रकारत्वेनोपस्थितस्य प्रकारता संसर्गत्वेनोपस्थितस्य संसर्गता। अत एव राज्ञः पुरुष इत्यादौ षष्ठ्युपस्थापितस्यापि संसर्गत्वम्। अत एव च घटपदादुपस्थितेषु घटत्वघटसमवायेषु घटत्वं विशेषणम्। घटो विशेष्यस्समवायस्संसर्ग इति सकलतान्त्रिकसम्मतो व्यवहार इति वदन्ति।।
मूले धातूपस्थाप्ययोरिति।। धातूनां फलव्यापारयोः पृथगुपस्थापिका विशेषणविशेष्यभावानवगाहिनी विशृङ्खला शक्तिः। तयोर्वैयधिकरण्यं सामानाधिकरण्यं च वस्तुसत्। अनुकूलत्वं संसर्गः। कर्मकर्तृप्रत्ययावेव तयोर्विशेषणविशेष्यभावनियामकौ। फलावच्छिन्नव्यापारे व्यापारावच्छिन्नफले च शक्तिरिति तु न युक्तम्। गौरवादित्याशयः। नन्वेकपदनिष्ठशक्तिप्रयोज्यपृथगुपस्थितिविषयाणामर्थानां परस्परान्वयो व्युत्पत्तिविरुद्धः। अन्यथा हर्यादिपदोपस्थाप्यानामपि परस्परान्वयप्रसङ्गः। न चैकपदनिष्ठविभिन्नशक्त्युपस्थाप्यनामेवार्थानां परस्परान्वयो व्युत्पत्तिविरुद्धः। प्रकृते चैकैव पृथगुपस्थापिका विशृङ्खलशक्तिरिति न तादृशव्युत्पत्तिविरोध इति वाच्यम्। पुष्पवन्तावित्यत्र पुष्पवत्पदीयविशृङ्खलशक्त्युपस्थाप्ययोस्सूर्याचन्द्रमसोः परस्परान्वयवारणार्थमेकपदोपस्थाप्ययोर्विभिन्नशक्तिनिरूप्ययोर्विशृङ्खलशक्तिनिरूप्ययोर्वा परस्परान्वयाभावव्युत्पत्तेरवश्याश्रयणीयत्वादत आह।। तद्व्यत्यासेनैवेति।। तत्तत्फलावच्छिन्नव्यापारे व्यापारावच्छिन्नफले च धातूनां पृथग्विशिष्टशक्तिराश्रीयते, प्रामाणिकत्वाच्च गौरवं न दोषावहमिति [टि- न दोषावहमिति भाव इति।। वस्तुतस्त्वेवमाशयवर्णनमयुक्तम्। तत्र गौरवाभावस्यैवोपाध्यायाभिप्रेतत्वात्। तथाहि। पृथक्शक्तिवादिनामेव पृथगुपस्थितयोरन्वयसामग्रीकल्पनाप्रयुक्तं गौरवम्। न च गुरुधर्मावच्छिन्ने शाक्तिद्वयकल्पनायां तवाप्यस्त्येव गौरवमिति वाच्यम्। तस्य सामग्रीकल्पनागौरवेण निमातुं शक्यत्वेन पृथक्शक्तिद्वयकल्पनाप्रयुक्तगौरवस्यातिरिच्यमानत्वात्। किञ्चान्वये वाक्यस्य शक्तेर्वैयाकरणैरभ्युपगमेनात्र वाक्यस्थानीयस्य धातोर्विशिष्टर्थे शक्तिद्वयकल्पनमपरिहार्यमेवेत्यतिगौरवम्। स्पष्टा चेयं रीतिर्मञ्जूषायाम्। एवं च विशिष्टशक्तिवादिनां लाघवस्यैव सत्त्वेन वैपरीत्येन गौरवमापाद्य तस्य प्रामाणिकत्वेन दोषावहत्वाभावकथनमयुक्तमेव। अतो लाघवात्पृथगुपस्थितयोरौत्सर्गिकस्योद्देश्यविधेयभावेनान्वयस्य त्यागप्रसङ्गाच्च विशिष्टशक्तिकल्पनं युक्तमिति मूलाशयवर्णनं युक्तमिति बोध्यम्।] भवः।।
केचित्तु एकपदोपस्थापितानामित्यस्यैकशक्यतावच्छेदककोपस्थितिविषयाणां परस्परान्वयो नेत्यर्थः। पुष्पवन्तावित्यत्रोभयानुगतमेकमेव शक्यतावच्छेदकमिति न तदुपस्थाप्ययोस्सूर्याचन्द्रमसोः परस्परान्वयः। फलव्यापारयोस्तु फलत्वव्यापारत्वरूपशक्यतावच्छेदकभेदेनैकयैव शक्त्या तदुपस्थापनान्न परस्परान्वयविरोधः। हर्यादिनानार्थकस्थले तु तत्पदीयैकार्थविषयकतात्पर्यप्रयोज्यबोधस्य तदितरार्थविषयकबोधं प्रति प्रतिबन्धकत्वकल्पनाद्युगपदुभयार्थविषयकबोधाभाव एवेति न दोषः। पुष्पवत्पदे चन्द्रत्वसूर्यत्वरूपशक्यतावच्छेदकद्वयावगाहिनी विशृङ्खलितशक्तिरिति मते तु पृथगुपस्थितयोरेकया शक्त्या परस्परान्वयो नेत्येवास्तु, फलव्यापारयोस्तु जन्यजनकभावापन्नयोरगत्या व्युत्पत्तिवैचित्र्यादेव परस्परान्वयः। एकपदोपस्थापितानामिति त्वयुक्तमेव, संख्याकारकयोः परस्परान्वयानुपपत्तेः। विशिष्टशक्तिस्त्वयुक्ता, गौरवादेकदेशान्वयदोषदूषितत्वाच्चेत्याहुः।। [टि- आहुरिति।। परे त्विदमयुक्तम्। एकपदोपस्थितानामित्यस्यैकशक्यतावच्छेदककानामित्यर्थस्य सक्त्याऽलाभेन लक्षणापत्तेः। न च यथाश्रुते तिङर्थकारकसंख्ययोः परस्परान्वयदर्शनेन परेषामेवकारार्थान्यनिरूपितवृत्तित्वाभावयोर्लिङर्थकृतिसाध्यत्वेष्टसाधनत्वयोश्च तद्दर्शनेन च लक्षणाश्रयणमावश्यकमिति वाच्यम्। अस्मन्मते लिङेवकारयोस्तदर्थकत्वाभावस्याम्यत्रोक्तत्वेन परेषां बाधस्यास्माकमप्रतिबन्धकत्वात्। तिङर्थसंख्याया धात्वर्थक्रियायामन्वयस्य मञ्जूषायां विस्तरतो निरूपितत्वेनैकपदोपस्थापितानामिति नियमस्य प्रकृते प्रसक्त्यभावाच्च। वस्तुतस्तिङां सिद्धान्ते द्योतकत्वेन धातुना संख्याकारकविशिष्टोपश्तितेर्न काप्यनुपपत्तिः। एवं च तत्तदन्वयबोधौपयिकसामग्रीकल्पनापि नेति लाघवम्। एतेन विशिष्टशक्तौ गौरवमित्यपास्तम्। तत्र लाघवस्योपपादितत्वाच्च। किञ्चैकशक्यतावच्छेदककानामिति स्वीकारेऽपि पुष्पवन्तपदे उभयत्वं शक्यतावच्छेदकमिति मीमांसकमते ज्ञानशक्तिवादिनां च मते यथाकथंचिदुपपत्तावपि चन्द्रत्वसूर्यत्वरूपशक्यतावच्छेदकद्वयमिति भट्टाचार्योक्तसिद्धान्तमते तावताप्यनिर्वाहः। किञ्च हर्यादिपदोपस्थितयोः परस्परमन्वियवारणाय प्रतिबध्यप्रतिबन्धकभावकल्पने गौरवम्। अपि च विशिष्टशक्त्या निर्वाहे फलव्यापारयोः पृथगुपस्थितिमाश्रित्य अगत्या व्युत्पत्तिवैचित्य्रेण परस्परान्वय इत्ययुक्तमेव। गतेस्सत्त्वात्। क्रियायाः कारकांशे नित्यसाकाङ्क्षत्वान्न तत्रैकदेशान्वयो दोष इत्यन्यत्र प्रपञ्चितम्। तस्मादयुक्त एवायं मूलखण्डनाग्रह इत्याहुः।।]
प्राथमिकान्वय इति।। हरिणा भवतीत्येवं प्राथमिकान्वये पश्चादाकाङ्क्षावशात्कृदन्तेन पार्ष्णिकस्सम्बन्ध इति तेषामाशयः।। कर्तृत्वेनेति।। कर्तृतानिर्वाहाय कल्पिते प्राथमिकबोधे तथैवान्वयस्यावश्यकत्वादिति भावः।। नामसम्बन्धीति।। ननु नामतैक्ष्ण्यं कथं तद्वाच्ये स्यात्। अन्यधर्मस्यान्यत्र वक्तुमशक्यत्वात्। न च नामसम्बन्धितैक्ष्ण्यज्ञाप्यतैक्ष्ण्यवानित्यर्थः। ज्ञाप्यत्वं तृतीयार्थ इति वाच्यम्। तथासतीत्थंभूतलक्षण इत्यनेनैव तृतीयासिद्धावेतदुदाहरणत्वासङ्गतेरिति चेन्न। सुतीक्ष्णादिशब्दानां तीक्ष्णत्वबोध्यतीक्ष्णत्ववानित्यादिरर्थः। तृतीयार्थसम्बन्धस्यैकदेशेन तीक्ष्णत्वेनान्वयः। इत्थं च नामसम्बन्धितीक्ष्णत्वबोध्यतीक्ष्णत्ववानित्यादिरर्थ इत्याशयात्।
केचित्तु इत्थंभूतलक्षण इत्यनेन विधीयमानतृतीयाया अर्थो न ज्ञानज्ञाप्यत्वमपि त्ववच्छिन्नत्वमेव, ततश्च जटावच्छिन्नस्तापस इत्यादिरर्थः। अत एव घटत्वेन घटड इत्यादावित्थंभूतलक्षणतृतीयेति प्रवादः। इत्थं च नामज्ञाप्यतीक्ष्णत्ववानित्यर्थेपि न काप्यनुपपत्तिरित्याहुः।।[टि- आहुरिति।। अस्यायुक्तत्वं विशदयन् उपाध्यायसिद्धान्तमाह। अन्ये त्वित्यादिना।।]
अन्ये तु ज्ञानज्ञाप्यत्वमेवेत्थंभूतलक्षणतृतीयाया अर्थः। अत एवानुशासनघटकलक्षणपदोपस्थानसङ्गतिः। ज्ञाप्यत्वस्य तदर्थत्वाभावे च कथमपि लक्षणस्य तृतीयाबोध्यत्वाभावेन तदनुपपत्तिस्स्पष्टैव। धूमादग्निमानित्यादौ हेतुपञ्चम्या अपि ज्ञाप्यत्वमर्थ इत्यन्यत्। नाम्ना सुतीक्ष्ण इत्यादौ च तृतीयायास्तादृशज्ञाप्यत्वार्थकत्वेऽपीत्थंभूतलक्षण इत्यनेन न तत्प्रवृत्तिस्तेन हि ज्ञापकवाचकात् ज्ञाप्यत्वे तृतीया विधीयते। प्रकृते तु नाम न ज्ञापकम्। किन्तु तद्गतं तीक्ष्णत्वम्। इत्थंभूतलक्षणतृतीयाविषये ज्ञाप्यधर्मस्य प्रमाणान्तरविषयत्वमपेक्षितम्। अत एव यत्र ब्राह्मणत्वादिकं प्रत्यक्षविरुद्धं तथाविधे विषये यज्ञसूत्रेण ब्राह्मण इत्यादिको न प्रयोगः। सुतीक्ष्णे च तीक्ष्णत्वं न प्रमाणान्तरसिद्धमिति नानेन तत्र तृतीयासिद्धिरतो युक्तमेव प्रकृत्यादित्वम्। घटत्वेन घट इत्यादावपि तृतीयाप्रवृत्तौ प्रकृत्यादित्वमेव शरणम्। सुतीक्ष्णादिशब्दानां लाक्षणिकत्वकल्पनायां मानाभाव इत्याहुः।।
धात्वर्थाश्रयस्यैवेति।। साधकतमव्यापारो न धात्वर्थः। किन्तु तृतीयार्थस्य करणकारकस्य व्यापारद्वारकसंसर्गेणान्वयबलात्प्रतीयत इत्याशयः।। मानाभावादिति।। ननु कृदन्तत्वज्ञानसापेक्षसमभिव्याहृतपदान्तरोपस्थापितक्रियायोगनिमित्तकषष्ठ्यपेक्षया क्रियाकारकभावमात्रपुरस्कृतकरणत्वप्रयुक्ततृतीयायाश्शोघ्रोपस्थितिकत्वमेव प्रकृतविषये षष्ठ्या अप्रवृत्तौ मानं भवितुमर्हतीत्यात आह।। ध्वनितं चेदमिति।। तत्र हि कैयटे कृत्प्रयोगे षष्ठ्या द्वितीयाऽपवादत्वाद्बाध्यते, तृतीया तु परत्वादित्युक्तम्। प्रकृतिविशेषविहितत्वेन षष्ठ्या अपि शीघ्रोपस्थितिकत्वमूलकमन्तरङ्गत्वमित्युभयोरप्यन्तरङ्गत्वात्परत्वमेवात्र व्यवस्थापकमिति तदाशयः। सर्वमिदं मनसादेवशब्दस्य संज्ञात्वे सति प्रामाण्ये त्वया सम्भाव्येत तदेव दुर्लभमित्याह।। संज्ञात्वे इति।। ननु मनसस्संज्ञायामित्यत्र संज्ञाशब्देन योगरूढस्य ग्रहणम्। अत एव मनसागुप्तेत्यादौ तत्प्रवृत्तिः। इत्थं च पङ्कजं मनसादेव इत्यभियुक्तवचनघटकतया मनसादेवशब्दस्यापि योगरूढेषु परिगणितत्वात्कथमलुक्प्रयोजकसंज्ञात्वाभाव इत्यत आह।। दृढतरेति।। तत्र मनसागुप्तेत्येव पाठ इति नात्र दृढतरप्रमाणमिति भावः। नन्वाकडारीयसंज्ञासु यथोद्देशपक्ष एवेत्यन्यत्र बहुशः स्पष्टत्वात्कथमिह दिवः कर्म चेति विहितकर्मसंज्ञायाः कार्यकालत्वाश्रयणेन द्वितीयातृतीयायोस्समावेशसाधनमत आह।। अक्षान् दीव्यतीत्यत्रेति।। न च तदा करणत्वमिति।। धनस्य देवनसाध्यत्वेन साधकतमत्वायोगादिति भावः।।
शाब्दगुणाद्यन्वयित्वाभाव इति।। शाब्दत्वं च इतरसम्बन्धं विना प्रतीयमानत्वम्।। गुणादीत्यादिना क्रियाद्रव्ये। अयं भावः। पुत्रेण सहागतः पितेत्यादौ सहार्थस्साहित्यम्। तच्च समभिव्याहृतपदार्थयोस्समानकालिकत्वादिरूपम्। पदार्थद्वयसमानकालिकत्वस्योभयप्रतीतिमूलकत्वादेकेन गम्यादिना सकृदर्थद्वयप्रत्यायनायोगादेकस्य शब्दतः प्रतीतिरपरस्य सहार्थसम्बन्धवशादाक्षेपः। तत्र यस्य शब्दतः प्रतीयमानेन गुणक्रियादिना सम्बन्धस्तस्य प्राधान्यम्। यस्य पुनराक्षिप्यमाणेन सम्बन्धस्तस्याप्राधान्यम्। पुत्रकर्तृकगमनसमानकालिकगमनकर्ता पितेत्यादिको बोधः। तिलैस्सह माषान् वपतीत्यादौ समानदेशवर्तित्वरूपं तत्। तिलकर्मकवापसमानदेशवर्तिमाषकर्मकवापानुकूलो व्यापार इत्यादिकस्तत्र बोध इति।। वस्तुतो निरुक्तसमानकालिकत्वादिसमनियतमखण्डोपाधिरूपं साहित्यम्। तत्प्रतियोगित्वमेव चाप्राधान्यम्। तच्च वैवक्षिकम्। राज्ञा सह सेना गच्छति सेनया सह राजा गच्छतीत्याद्युभयविधप्रयोगदर्शनादित्याहुः।। [टि- आहुरिति।। परे त्वत्रागमनस्य पाश्चात्यमानसिकबोधविषयत्वकथनं मतान्तराभिप्रायेणैव। स्वमते तु साहित्यबलात्प्रतीयमानस्यागमनस्य शाब्दबोधविषयत्वमेव। प्रतीयमानागमने पुत्रस्य क्रियाकारकभावसम्बन्धेनान्वयः। तस्य च साहित्ये। तस्य चाङ्पूर्वकगम्यर्थे, तस्य कृदर्थकर्तरि, तस्य पितरि। तथा च पुत्रकर्तृकागमनसाहित्यवदागमनकर्ता पितेति बोधः। अत्र साहित्यं समानकालिकत्वादि। तत्समनियतमखण्डोपाधिर्जातिर्वा। एवं चात्र कर्तृकरणयोरित्यनेनैव तृतीया। अत एवैतत्सूत्रस्य नियामकत्वशङ्कासमाधानादिकं भाष्यकारीयं सङ्गच्छते। अन्यथाऽत्र कर्तृकरणयोरित्यस्याप्राप्त्या नियामकत्वशङ्का निर्दलैव स्यात्। अत्र शब्दोपात्तक्रियाकर्तुरुक्तत्वेऽपि प्रतीयमानक्रियाकर्तुरनुक्तत्वान्न तृतीयानुपपत्तिः। अत एव पुत्रेण सह पितुरागमनमित्यत्र पुत्रशब्दात्कर्तृकर्मणोरिति षष्ठी न। सूत्रं तु पुत्रेण सह स्थूल इत्याद्यर्थम्। तत्र पुत्रस्थौल्यसाहित्यवत्स्थौल्यवानिति बोधेन पुत्रस्य प्रतीयमानस्थौल्येऽन्वयेन कर्तृत्वाभावात्। न च तत्र सहार्थयोगाभाव इति वाच्यम्। प्रतीयमानगुणक्रियाद्वारकयोगस्य विवक्षणेनादोषात्। स्पष्टं चेदं मञ्जुषायामित्याहुः।।] तत्सम्बन्ध इति।। साहित्यं समभिव्याहृतगुणादिसम्बन्धेनैवेति पाश्चात्यो मानसस्तत्सम्बन्ध आवश्यक इति भावः।
केचित्तु समभिव्याहृतपदार्थसमानकालिकत्वादिरूपे साहित्ये समभिव्याहृतपदार्थो गमनादिरेव सहार्थः। समानकालिकत्वादिकं च संसर्गस्तत्र यस्य शाब्दप्राधान्योपहितगम्याद्यर्थान्वयस्तस्य प्राधान्यमप्रधानीभूतसहार्थान्वयिनश्चाप्राधान्यमिति न मानसिकान्वयापेक्षेत्याहुः।। [टि- आहुरिति।। वस्तुतस्तु आगमनस्य सहार्थत्वमयुक्तम्। धातूपस्थितक्रियाया एव कारकान्वययोग्यतावच्छेदकरूपाक्रान्तत्वस्यान्यत्र प्रतिपादितत्वेन प्रकृते पुत्रस्य कारकत्वेनान्वयासम्भवेन नियामकत्वशङ्कापरपूर्वोक्तभाष्यविरोधापत्तेः। अतो मञ्जूषोक्तपूर्वरीत्यैव निर्वाह उचित इति बोध्यम्।]
आपत्तेरिति।। एवञ्चापवादविषयत्वात्तद्विषये प्रधानादपि प्रथमाया अप्रवृत्तिरप्रधानग्रहणप्रत्याख्यानादिति भावः। नन्वपवादोऽपि यद्यन्यत्र चरितार्थस्तर्ह्यन्तरङ्गेण बाध्यत इति न्यायेनापवादभूताया अपि तृतीयाया अन्तरङ्गभूतया प्रथमया बाधादभीष्टसिद्धिरिति नायं दोष इत्यत आह।। अनन्तरस्येति।। ननु बाध्यविशेषबाध्यसामान्यचिन्तयोर्लक्ष्यानुरोधेन व्यवस्थितत्वादिह बाध्यसामान्यचिन्तामाश्रित्य प्रागुक्तन्यायेन प्रथमाया उपपत्त्या पक्षान्तरेण दोषापादनमयुक्तम्। किञ्च पितुरागमनमित्यादौ समभिव्याहृतपदान्तरनिमित्तकोपपदविभक्त्यपेक्षया क्रियामात्रनिमित्तककारकविभक्तेरन्तरङ्गत्वादेव प्रातिपदिकार्थमात्रनिमित्तकप्रथमाया इव तृतीयाबाधकत्वसिद्ध्या वाचनिकतया कारकविभक्तेर्विलक्षणबलवत्त्वोपवर्णनं व्यर्थमन्यत्रानुपयुक्तं चेत्यत आह।। किं चेति।। क्रियाकारकभावसम्बन्धमूलकत्वेनेति।। राज्ञः पुरुष इत्यादौ राजपुरुषादेः स्वस्वामिसम्बन्धस्य पोषणक्रियाप्रयुक्तः क्रियाकारकसम्बन्धो मूलमित्यादि षष्ठी शेष इति सूत्रभाष्यकारोपदर्शितरीत्येति भावः।। अनापत्तेरिति।। सूत्रन्तु गुणद्रव्यसमभिव्याहारे षष्ठीविषये चरितार्थमिति भावः। ननु पितुरागमनमित्यादौ क्रियायोगनिमित्तत्वेन षष्ठ्यादीनां क्रियानिमित्तत्वात्तद्गतं प्राधान्यमुपादाय प्रधानकार्यत्वं, तृतीयायास्तु समभिव्याहृतक्रियाकर्तृत्वादिमूलकसाहित्याप्रयुक्तत्वेन कारकनिमित्तकत्वादप्रधानीभूतकारकनिमित्तकत्वेनाप्राधान्यम्। इत्थं चान्तरङ्गत्वाभावेणि प्रधानकार्यतया सर्वतो बलवत्त्वेनाभीष्टस्थले कारकविभक्तेर्निर्बाधतया न्यायस्य यौक्तिकत्वेनैवोपपत्तौ वाचनिकत्वोपवर्णनमयुक्तं व्यर्थं चेत्यत आह।। एकक्रियेत्यदि।। अप्रधानक्रियायामपीति।। पितुरागमनमित्यादौ भावल्युडन्तत्वेन कथञ्चित्क्रियायाः प्राधान्येपि पुत्रेण सह पितुः पालक इत्यादौ कृदर्थकर्तृविशेषणीभूतपालनक्रियाया अप्राधान्येन क्रियायाः प्राधान्यनियमाभावेन तत्प्रयुक्तविभक्तेः प्रधानकार्यत्वानुपपत्त्या कारकविभक्तेर्वाचनिकबलवत्त्वस्यावश्यकत्वेन यौक्तिकत्वं न्यायस्य न सम्भवतीत्याशयः।। पितेत्यस्य सङ्ग्रह इति।। प्रथमाया अपि कथञ्चित्कारकार्थकविभक्तित्वरूपकारकविभक्तित्वेनैव निर्वाहो न त्वन्तरङ्गत्वेन, तिङ्समानाधिकरणे प्रथमेत्यादिवार्तिकस्वारस्येनाध्याह्रियमाणास्तिक्रियासापेक्षत्वेनान्तरङ्गत्वायोगादित्याशयः।।
अलमिति।। अत्रेदं बोध्यम्। प्रकृतन्यायघटककारकत्वं च क्रियान्वयित्वं, न तु क्रियाजनकत्वम्। नापि कारकविभक्तिः कारकार्थकविभक्तिः, किन्तु यदपेक्षया यदर्थस्य साक्षात्प्रधानक्रियासम्बन्धस्सा तदपेक्षया कारकविभक्तिः। अत एव पुत्रेण सह पितुर्घनं पुत्रेण सह पित्रे नम इत्यादौ प्रतीयमानास्तिक्रियायां साक्षादन्वितार्थकत्वेन कारकविभक्तितया षष्ठीचतुर्थ्योरुपपत्तिः। अन्यथा कारकविभक्तित्वाभावेन प्रकृतन्यायाप्रवृत्त्या निरुक्तस्थले षष्ठ्या अपवादत्वाच्चतुर्थ्याः परत्वाच्च बाधास्यादिति तदनुपपत्तिः। किञ्च परम्परया क्रियान्वय्यर्थकविभक्त्यपेक्षया साक्षात्तदन्वय्यर्थकविभक्तेरन्तरङ्गत्वस्य न्याय्यतया न्यायस्यापि नापूर्वत्वम्। नमस्करोति देवानित्यादौ तु नमश्शब्दार्थसम्बन्धमूलकचतुर्थ्यपेक्षया क्रियानिमित्तककर्मत्वप्रयुक्तविभक्तेः प्रधानकार्यत्वादेव निर्वाहः। प्रथमाया अपि प्रतीयमानास्तिक्रियायां साक्षात्सम्बन्धमूलकं कारकविभक्तित्वमव्याहतमेवेति वदन्ति।। [टि- वदन्तीति।। परे तु प्रकृतन्याये कारकत्वं क्रियाजनकत्वमेव ग्राह्यम्। क्रियान्वयित्वस्य ग्रहणे लक्षणापत्तेः। न चैवं पुत्रेण सह पितुर्गौः, पुत्रेण सह पित्रे नम इत्यादौ पितुरपि तृतीयापत्तिः। क्रियान्वयित्वमित्युक्तौ तु यदपेक्षया यस्य साक्षात्प्रधानक्रियान्वयस्सा तदपेक्षया कारकविभक्तिरिति विवक्षणेन न्यायात्सिद्धिरिति वाच्यम्। षष्ठीवद्विशेषणवाचकादेव तृतीयेति स्वीकारेण प्रकृते दोषाभावेनोक्तविवक्षाया अनुपयोगात्। एवञ्चैतन्न्यायमन्तरापि पुत्रेण सहागतः पितेत्यस्य सिद्धिः। तदेतत्सूचितमित्युपसंहरता मूलकृता। एवं चाननुभूतापूर्वार्थकल्पनाप्रयासो विफल एवेत्याहुः।]
सम्भवतीत्यार्थ इति।। इत्थं च सामर्थ्यादवयववाचिना यच्छब्देन विकृतावयव एव परामृश्यत इति भावः। अक्ष्णा काण इत्यत्र दर्शनसामार्थ्यहीनताप्रयुक्तदर्शनाभाववान् सचक्षुष्कः काणपदार्थः। एवं चाक्षिसम्बन्धिदर्शनसामर्थ्यहीनताप्रयुक्तदर्शनाभावविशिष्टसचक्षुष्कत्ववानिति बोधः। सम्बन्धस्तृतीयार्थः। यद्वा दर्शनसामर्थ्यहीनताप्रयुक्तत्वं तृतीयर्थस्सम्बन्धः। दर्शनाभाववान् सचक्षुष्क इत्येव काणपदार्थः। एकदेशान्वयस्तूभयथाप्यगत्या स्वीकर्तव्य एव। चक्षुस्सम्बन्धिदर्शनसामर्थ्यहीनताप्रयुक्तदर्शनाभाववानन्धः। एकचक्षुस्सम्बन्धिदर्शनसामर्थ्यहीनताप्रयुक्तदर्शनाभाववान् काण इत्यन्धताव्याप्यत्वं काणे, अत एव सुतरां दर्शनाभावमपेक्ष्य किञ्चिद्दर्शनं ज्याय इत्यभिप्रायकमन्धानां काणो राजेति यतश्चेति सूत्रस्थं भाष्यमुपपद्यते। अतिशायने तमबिति सूत्रे तु भाष्ये त्वन्धानां कारणतम इत्युदाहृत्य कणिरयं सौक्ष्म्ये वर्तते। सर्व इमे किञ्चित्प्श्यन्ति, अयमेषां काणतम इत्युक्तम्। कैयटेन च दर्शनाभावप्रकर्षाश्रयस्तमबित्युक्तम्। तेन च काणत्वान्धत्वयोर्न वैषम्यमिति लभ्यते। तत्त्वमत्र सुधीभिराकलनीयम्। कर्णेन बधिर इत्यत्र श्रोत्रसम्बन्धिश्रावणसामर्थ्यहीनताप्रयुक्तश्रावणज्ञानाभाववानिति बोधः। पादेन खञ्ज इत्यत्र पादसम्बन्धिविकारप्रयुक्तसंस्थानवैधुर्यवानिति बोध इत्येवमन्यत्रापि स्वयमूहनीयम्। मुखेन त्रिलोचन इत्यादौ प्रकृत्यादित्वप्रयुक्ता तृतीया, मुखसम्बन्धित्रिलोचनत्ववानित्यादिको बोध इत्याहुः।।
क्रियासाधारणमिति।। [टि- क्रियासाधारणमितीति।। इदानीन्तनमूलग्रन्थेष्वयं पाठो नोपलभ्यते। परन्तु ``एवञ्च त्रितयसाधारणं हेतुत्वम् इत्येव पाठः। अयमेव पाठः स्वारसिकः। क्रियासाधारणमिति पाठस्तु तत्रत्यग्रन्थसन्दर्भाननुगुण इति बोध्यम्।] तदितरनिरूपितत्वे सति तन्निरूपितत्वं तत्साधारण्यम्।। वैषम्यान्तरमिति।। क्रियानिरूपितं व्यापारोपहितं साधनत्वं करणत्वम्। क्रियानिरूपितमपि व्यापारनुपहितं हेतुत्वम्। गुणद्रव्यनिरूपितं व्यापारोपहितमनुपहितं वा साधनत्वं हेतुत्वमेवेत्येवं रूपं वैषम्यमित्यर्थः। [टि- वैषम्यमित्यर्थ इति।। अत्र गुणद्रव्यनिरूपितमित्यादिना प्रकारान्तरेण वैषम्यकथनं प्रकृतग्रन्थसन्दर्भाननुगुणम्। पूर्वग्रन्थादेवैतद्वैषम्यस्य मूले प्रतिपादितत्वादिति बोध्यम्।] नन्वेवं वैषम्येपि व्याप्यव्यापकभावापन्नतया व्यापके हेतुत्वे तृतीयाविधानेनैव तद्व्याप्ये करणत्वे तृतीयायास्सिद्धत्वेन कर्तृकरणयोरिति पृथक्करणत्वे तद्विधानं व्यर्थमित्यत आह।। एवं चेति।। मूत्रद्वयमिति।। तृतीयाविधायकमिति शेषः। नन्वेकस्मिन्विषये कार्यद्वयविधाने विकल्प इति व्यवहारः, प्रकृते तूपकार्योपकारकभावे चतुर्थी हेतुहेतुमद्भावे तृतीयेति विषयभेदात्कथमयं विकल्पव्यवहार इत्यत आह।। तदर्थत्वंनेत्यादि।। अभेदभानमिति।। उपकार्यान्यपदार्थकस्वार्थिकष्यञन्तस्तादर्थ्यशब्द इत्याश्रित्य धर्मिण एव विभक्त्यर्थत्वोपगमे इदम्। यदि तूपकार्यत्वादेरननुगतस्य शक्यतावच्छेदकत्वायोगादुपकार्यतात्वादेरखण्डस्य शक्यतावच्छेदकसम्भवाच्च तथाविधो धर्म एव विभक्त्यर्थ इत्युच्यते तदा प्रकृत्यर्थस्याधेयत्वेन विभक्त्यर्थान्वयः। तथा चाध्ययननिष्ठोपकार्यतानिरूपको वास इत्यादिको बोधः। नन्वेवं नञ्समभिव्याहारे नाध्ययनाय वास इत्यादौ निरूपकतासम्बन्धेनाध्ययननिष्ठोपकार्यतावाभावस्य वासे वक्तव्यतया वृत्त्यनियामकस्य निरूपकत्वस्याभावीयप्रतियोगितावच्छेदकत्वायोगात्तथाविधप्रयोगस्यानुपपत्तिरेव स्यादिति चेन्न। तादृशोपकार्यतानिरूपकवासाभावस्यैव तद्विषये पुरुषविरोषे प्रतीतिस्वीकारेणादोषात्। न च चतुर्थीविधायकानुशासनघटकतादर्थ्यशब्देनोपकार्यवाचकतच्छब्दघटितबहुव्रीहिप्रकृतिकष्यञन्तेनोपकारकत्वस्यैव लाभात्कथमुपकार्यत्वे चतुर्थ्यास्साधुत्वमिति वाच्यम्। उपकारकवाचकतच्छब्दस्यार्थशब्देन तत्पुरुषे ततः ष्यञि निरूक्तार्थलाभसौष्ठवादिति दिक्।।
केचित्तु तादर्थ्यशब्दस्योपकारकपरत्वमाश्रित्य तत्रैव चतुर्थ्यास्साधुत्वमुपगच्छन्तो निरूपितत्वेनोपकारकत्वे प्रकृत्यर्थस्यान्वयस्तस्य च वासादावाश्रयत्वेन, ततश्चाध्ययननिरूपितोपकारकत्वाश्रयो वास इत्यादिको बोध इति न काप्यनुपपत्तिरित्याहुः।। [टि- आहुरिति।। वस्तुतस्तु तादर्थ्यमुपकार्योपकारकभावश्चतुर्थीवाच्यः। तस्य संसर्गतयैव भानमन्यविभक्त्यर्थसम्बन्धवत्। एवञ्च तस्य प्रकारतयाऽन्वयाभावेन तस्यान्वयप्रयोजकसम्बन्धप्रतिपादने मूलकारस्य न निर्भरः। अत एव तस्य स्वानभिमतत्वमिति मते इत्यनेन सूचितम्। तस्मादत्र युक्तायुक्तत्वविचारो निष्फल एवेति बोध्यम्।]
ननु सिद्धान्ते शब्दाध्याहारस्यानाश्रयणात्पदजन्योपस्थितिविषयस्यैव शब्दधीविषयत्वाभ्युपगमाच्च पिण्डीमित्यादाविव वाक्यैकदेशन्यायेनोपात्तस्यैव विशिष्टार्थोपस्थापकताया अवश्यस्वीकर्तव्यत्वेन प्रकृते साधनक्रियाया अपि श्रूयमाणपदजन्योपस्थितिविषयत्वरूपस्य श्रयमाणत्वस्यैव सत्त्वेन कथं गमयमानत्वमत आह।। श्रमेणेत्यादि।। स्पष्टं चेदमिति।। गम्यमानक्रियायाः कारकविभक्तिप्रयोजकत्वमित्यर्थः।। भाष्ये इति।। तत्र हि पुत्रेण सहागत इत्यत्र सहार्थबलात्प्रतीयमानगमिक्रियाकर्तृत्वेन तृतीयामुपपाद्य सूत्रोदाहरणत्वं निराकृतमित्याशयः। ननु गम्यमानत्वमपि यदि पदजन्यप्रतीतिविषयत्वं तर्हि श्रूयमाणत्वागम्यमानत्वयोस्स्वरूपभेदो दुर्निरूप इत्यत आह।। स्वमात्रवाचकेति।। श्रमेणेत्यादि तु कारकविशिष्टक्रियाबोधकं न तु तन्मात्रबोधकमिति भावः। स्वमात्रबोधनतात्पर्यप्रयुक्तोच्चारणविषयपदजन्यप्रतीतिविषयत्वं श्रूयमाणत्वम्। तेन नानार्थकधातुयोगे हरिर्मामवतीत्यादौ रक्षणादिरूपैकतरक्रियायाश्श्रूयमाणत्वं निर्बाधमित्याहुः।. इति तृतीया।।
ननु सूत्रोपात्तस्य कर्मपदस्य कर्मकारकबोधकतया भवतु सामान्येन क्रियाया आक्षेपः। दानक्रियाक्षेपः कथं लभ्यत इत्यतो मूलकार आह। अन्वर्थसंज्ञेति।। सम्प्रपूर्वकाद्ददातेर्ल्पुटि निष्पन्नस्य सम्प्रदानशब्दस्य दानक्रियाघटितार्थकत्वेन तादृशक्रियाकर्मसम्बन्धित्वेनेच्छाविषयस्यैव सम्प्रदानत्वप्रतीत्यादानक्रियाक्षेप इति भावः। ननु स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्त्यनुकूलव्यापारस्य दानपदार्थतया तद्धटकीभूतस्वत्वनिवृत्त्यंशादेव दोयमानस्यापुनर्ग्रहणसिद्ध्या तदंशस्य पृथग्धात्वर्थकोटिप्रवेशो निष्फल इत्यत आह।। इदं चेति।। फलप्रदर्शनमिति।। अमुमेवांशमुपादाय स्वत्वोत्पत्तौ सत्यामसत्यां वा मुख्यता ददात्यर्थस्य। तेन पितृभ्यः श्राद्धं ददातीत्यादौ स्वत्वानुत्पत्तिविषये सम्प्रदानत्वोपपत्तिः। न ह्यस्मदादिव्यापारेण देवतानां स्वत्वमुत्पद्यते। स्वस्वत्ववति संरक्षणमात्रोपयोगिस्वत्वान्तरोत्पत्तिप्रयोजकव्यापाररूपस्य तस्य गौणतेति न संज्ञाविषयत्वम्। अत एव रजकस्य वस्त्रं ददातीत्यादौ न सम्प्रदानत्वम्। तदेतत्सूचयता मूलकारेणोक्तं भाक्त इत्यंशं विवृणोति।। अधीनीरकणे इति।। प्रत्यर्पणपर्यन्तसंरक्षणमात्रोपयोगिस्वत्वोत्पादने इत्यर्थः। ननु यद्ययमेव दाधात्वर्थस्तर्हि न शूदाय मतिं दद्यादिति प्रयोगानुपपत्तिः। मतौ स्वत्वोत्पत्तिस्वत्वनिवृत्त्योर्बाधादत आह।। न शूद्रायेति।। नोपदिशेदित्यर्थ इति।। धातूनामनेकार्थवादिति भावः। तादर्थ्ये चैषा चतुर्थी, शूद्रोपकारकत्वं च शास्त्रे ब्राह्मणय दधीत्यादाविव पारम्परिकम्। शूद्रोपकारकं शास्त्रं नोपदिशेदिति तदर्थः। उपकारकत्वं चात्र क्लेशनिवर्तनद्वारेति भावः।
केचित्तु शूद्रस्यात्र सम्प्रदानत्वादेव चतुर्थी, संज्ञाया अन्वर्थत्वेपि स्वत्वनिवृत्तिपूर्वकस्वत्वोत्पत्त्यनुकूलव्यापारस्यैव ददात्यर्थस्य ग्रहणं नान्यस्येत्यत्र मानाभावादिति वादन्ति।। तदसत्। अन्वर्थतायामपि शिष्याय चपेटां ददातीत्यत्र संयोगानुकूलव्यापारस्याप्युक्तरीत्या संज्ञानिमित्तत्वोपपत्त्या तथाविधभाष्यकारीयप्रयोगानुपपत्तिमूलकत्वेनान्वर्थत्वनिराकरणपरसकलग्रन्थासङ्गतेः। विनिगमनाविरहेण सर्वेषामेव तदर्थानां संज्ञानिमित्तत्वापत्तौ रजकस्य वस्त्रं ददातीत्यत्रापि सम्प्रदानताया दुर्वारत्वापत्तेश्च। न च यत्किञ्चित्स्वत्वोत्पत्त्यनुकूलव्यापाररूपस्य तस्य लक्ष्यार्थतया गौणत्वेन न संज्ञानिमित्तत्वमिति वाचज्यम्। विनिगमनाविरहेण शक्यलक्ष्यविभागस्य दुर्ज्ञेयतया गौणत्वस्य निर्णेतुमशक्यत्वात्। न च प्रसिद्धस्य शक्यत्वमप्रसिद्धस्य लक्ष्यत्वमिति लोकव्यवहारसिद्धप्रसिद्ध्यप्रसिद्धिभ्यामेव शक्यलक्ष्ययोर्विभागस्य सुवचतया यत्किञ्चित्स्वत्वोत्पत्त्यनुकूलव्यापारात्मकस्याधीनीकरणस्य ददातेर्लक्ष्यार्थत्वेन गौणतया संज्ञानिमित्तत्वाभावो युक्त एवेति वाच्यम्। न शूद्रायेत्यत्रोपदेशस्यापि तथात्वेन संज्ञानीमित्तत्वस्यायुक्ततया सम्प्रदानत्वानुपपत्तेस्तदवस्थत्वात्। यदि तु न शूद्रायेत्यत्र सम्प्रदानत्वेनैव बोधस्य सर्वानुभवसिद्धतया तादर्थ्यचतुथ्या तत्समर्थनमयुक्तमित्युच्यते, तर्हि भाष्यकारानुगुहीतमन्वर्थत्वनिराकरणमेव शरणमिति दिक्।
ननु भाष्यकारस्यान्वर्थतायां नाग्रह इति कथं ज्ञायते तत्राह।। अत एवेति।। प्रत्याख्यातमित।। सूत्रस्थस्य कर्मपदस्य क्रियापरत्वमाश्रित्य सूत्रेणैव वार्तिकार्थोपसङ्ग्रहादिति भावः। ननु प्रकृतसूत्रस्थस्य प्रत्याख्यानभाष्यस्यैवोक्तर्थे प्रामाण्यस्य सूपपादतया सूत्रान्तरस्थभाष्यकारीयप्रयोगस्य तदंशे प्रामाण्यार्थन्वेषणं मूलकारीयमप्रयोजकमित्यत आह।। भाष्यान्तरमिति।। प्रकृतसूत्रस्थमेव भाष्यं न तत्र प्रमाणं किन्तु सूत्रान्तरस्थमपि भ्ष्यं प्रमाणतया योजयितुं शक्यमिति मूलकारस्सूचयतीत्याशयः। ननु सिद्धान्ते कर्मपदस्य क्रियापरतया सम्बद्धुमित्यध्याहारे साक्षात्क्रियासम्बन्धस्य बाधात्फलद्वारके तस्मिन्स्वीक्रियमाणे क्रियाचन्यफलाश्रयत्वेन यमिच्छति स सम्प्रदानमित्यर्थे रजकस्य वस्त्रं ददातीत्यत्र पत्ये शेत इत्यादाविव धात्वर्थानन्तर्भूतस्वामित्वसम्पत्तिरूपफलाश्रयत्वेन रजकस्यापि सम्प्रदानताया दुर्वारत्वाद्रजकस्येति षष्ठ्यन्तप्रयोगोच्छेद इत्याशङ्कां निराकर्तुमाह।। मूले शेषत्वविवक्षायामिति।। तदविवक्षायान्तु सत्यभिधाने रजकायेत्यप्येतादृशे विषये निर्बाधमित्याशयः।। कर्मसंज्ञया बाधादिति।। अयं भावः। प्रधानाप्रधानन्यायेन प्रधान एव सम्प्रदानत्वमित्यभ्युपगमेपि ग्रामोपकारार्थमजानयने संस्कार्यत्वादुद्देश्यत्वलक्षणमार्थं प्राधान्यं ग्रामस्य, शाब्दं तु तदजाया इति प्रकृते तेन न्यायेनातिव्याप्तिपरिहारायोगात्कर्मसंज्ञया परत्वाद्बाध इत्येव युक्तमुभयत्रापीति।।
प्रीधात्वर्थकर्मण इति।। प्रीञ् तर्पण इति पठितस्य क्रैयादिकस्य सकर्मकत्वात्केवलस्य प्रीणतेर्निवृत्तप्रेषणाद्धातोर्हेतुमण्णौ प्रीणयतीत्यस्य च तुल्य एवार्थ इति मूले ण्यन्तेनार्थविवरणम्।।
प्रथमोपस्थितत्वादिति।। ज्ञाधातुप्रकृतिकहेतुमण्ण्यन्तस्य ज्ञपेर्द्वे कर्मणी, ज्ञानविषयो ज्ञानाश्रयश्च। तत्र प्रकृत्यर्थकर्मणो ज्ञानविषयस्य प्राथम्याद्ग्रहणमिति भावः।।
केचितु [टि- केधित्त्विति।। उपाध्यायानुयायिन इत्यर्थः।।] ज्ञाप्यमान इत्येव सिद्धे सत्प्रत्ययोपादानात् ज्ञानविषयत्वेनेच्छाविषयस्य प्रकृत्यर्थकर्मणो [टि- प्रकृत्यर्थकर्मण इति।। तस्यापीत्यर्थः। तेन ण्यन्तार्थकर्मसमुच्चयः। अयं भावः। ज्ञाप्यमान इत्युक्ते ``बुद्धिभक्षार्थयोश्शब्दकर्मकाणां च निजेच्छया इत्युक्तेर्विवक्षाविषयत्वं यस्य तस्य शानजर्थता स्यान्न तूभयोः। उभयविवक्षायास्सकृत्कर्तुमशक्यत्वात्। अन्यथा बोध्यते माणवको धर्म इत्यापत्तेः। इष्यते तु माणवको धर्ममिति माणवक धर्म इति वा। एव चात्र शानया किं कर्म ग्राह्यमिति सन्देहे प्राधान्याण्ण्यन्तकर्मण एव ग्रहणमौचित्यात्प्रसज्येत। इष्टमुभयोर्ग्रहणं स्वरसतो न सिद्ध्येत्। सनि तु तदर्थेच्छानिरूपितप्रधानकर्मत्वस्य ज्ञापन एव सत्त्वेन प्रकृत्यर्थणिजर्थकर्मणोरिच्छां प्रत्यप्रधानकर्मत्वात्सन्नन्तप्रकृतिकशानचा विनिगमनाविरहादुभयोरपि ग्रहणं सिद्ध्यति। एवं च कृष्णं स्वानुरागं बाधयतीत्यर्थे कृष्णं सखीजनं बोधयतीत्यर्थे वा कृष्णपदाच्चतुर्थी सिद्ध्यतीति।। एव चास्यासत्त्वोक्तिरेवासती। ज्ञाप्यमान इत्युक्ते ण्यन्तकर्मण एव ग्रहणमित्यत्र प्राधान्यस्यैव मानत्वेन प्रकृत्यर्थकर्मणोऽपि ग्रहणस्य सन्स्वारस्येनैव लभ्यत्वात्। स्फुटीकृतश्चैवमाशयः सन्स्वारस्येन प्रकृत्यर्थकर्मणोऽपि तेन पदेन ग्रहणमित्यपिघटितवाक्य प्रयुञ्जानेनोपाध्यायेन मञ्जूषायाम्। अत्रत्यं तत्वं सुधीभिराकलनीयमित्याहुः।] ग्रहणमिति वदन्ति।। तदसत्। बुद्ध्यर्थकधातुप्रकृतिकण्यन्तेभ्यो यथेच्छं लादिविधानाभ्यनुज्ञानात् ज्ञाप्यमानपदेन ण्यन्तकर्मण एव ग्रहणमित्यत्र मानाभावेन सन्प्रत्ययोपादानबलादप्रधानकर्मणो ग्रहणमित्यर्थस्य दुर्वचत्वात्।। तदाशय इति।। विनिगमनाविरहादुभयथापि प्रयोगस्य साधुत्वमित्याशयः।।
स्पृहणीये कर्मणीति।। इच्छाविषयीभवनानुकूलव्यापारः स्पृहेरर्थः। तत्र विषयस्य सम्बन्धित्वेनेच्छायामन्वये सम्प्रदानत्वम्। इच्छाविषयीभवने फले वृत्तित्वेनान्वये तु कर्मत्वमिति भावः। ननु सम्बन्धित्वेनेच्छायामन्वये षष्ठीबाधनार्थत्वात्सम्प्रदानत्वस्य कथं शेषत्वविवक्षया सम्प्रदानत्वनिवर्तनेन षष्ठीसमर्थनं तत्राह।। कर्मण इति।। तत्र तु न सम्प्रदानत्वमिच्छायां सम्बन्धित्वेनान्वये प्रसक्तायाष्षष्ठ्या बाधनेन कृतार्थत्य तस्य कर्मविषये सम्बन्धित्वेन फलान्वये षष्ठीबाधकताया दुर्वचत्वादित्याशयः।। अभिमान इति।। कारकविभक्तोनां तत्तत्कारकशक्तिपुरस्कारेणैव बोधकत्वमिति सिद्धान्ते सम्प्रदानत्वकारकत्वयोरविवक्षायां षष्ठ्या निर्बाधत्वेन कान्तायेति चतुर्थ्यन्तपरिकल्पनाक्लेशो व्यर्थ इत्याशयः।।
मूले एषामर्थ इवेति।। पूर्वपदस्य तत्सम्बन्ध्यर्थसदृशलक्षणया न बहुव्रीहिसमासप्रवृत्तिप्रयोजकसामानाधिकरण्यभङ्ग इति सूचयितुमेवमुल्लेखो न तु विग्रहः। समासस्यार्थशब्दद्वयघटितत्वाभावादिति बोध्यम्। ननु कृधेरमर्षार्थकत्वे मृष सहन इति धात्वर्थनिर्देशबलात्तस्यासहनरूपत्वेनाक्षमार्थकेनेर्थ्यतिना सहैकार्थत्वादन्यतरोपादानेनैव सिद्धावुभयोपादानं सूत्रकारस्यानर्थकं स्यादत आह।। वाक्चक्षुरादीति।। अन्तस्तम्भितः कार्यानुमेयोऽन्तः करणविकारः कोपः। स एव प्रवृद्धो नेत्रलौहित्याद्युपहितः क्रोधः। अमर्षात्मकेर्ष्यामूलत्वाच्च मूलकारस्यामर्ष इत्युक्तिरिति भावः। ननु दृह जिघांसायामिति धात्वर्थदर्शनाद्द्रोहोऽपकार इत्ययुक्तमत आह।। अपकारविषयकेच्छेति।। धर्मारोपेत्यादि।। उत्कर्षासहनप्रयुक्तनीचधर्मारोपानुकूलव्यापार इत्यर्थः। ईर्ष्या न्यूनीकरणेच्छेत्यन्ये।। गुणविषये इति।। गुणवति दोषारोपानुकूलव्यापार ईर्ष्या, गुणेषु दोषत्वारोपानुकूलव्यापारश्चासूयेति तयोर्विशेष इति बोध्यम्।। धात्ववाच्यत्वादिति।। धात्वर्थतावच्छेदकफलाश्रयस्य कर्मत्वमिह तदाश्रयस्यान्यस्याभावादकर्मकत्वमित्याशयः।।
प्राप्तिरिति।। इदमयुक्तमेव। धात्वर्थसङ्गृहीतकर्मकस्थले तद्धटकस्य कर्मणः फलत्वेन तदाश्रयस्य कर्मसंज्ञायाः क्वाप्यदर्शनात्। अन्यथा गगनं शब्दायत इत्यस्याप्यापत्तिः। शब्दाश्रयत्वेन गगनस्यापि कर्मताया उक्तरीत्या दुर्वारत्वादित्याहुः।। [टि- आहुरिति।। वस्तुतस्तु प्रश्नविषयरूपस्य प्रकृतधात्वर्थप्रधानीभूतव्यापाराप्रयोज्यत्वेन कर्मत्वाप्राप्तेरनुपदमेव वक्ष्यमामत्वेन ताद्रीयैवास्यायुक्तत्वं वक्तुमुचितम्। अतोऽपूर्वार्थकल्पनेनास्यायुक्तत्वकथनप्रयासो विफलः। किञ्च गगनं शब्दायत इत्यत्यापत्तिर्न घटते। शब्दायतेः शब्दोत्पत्त्यनुकूलव्यापारार्थकत्वेन शब्दत्य तादृशव्यापाराप्रयोज्यत्वेन तदाश्रयत्य कर्मत्वाप्राप्तेरिति बोध्यम्।] अप्रयोज्यत्वादिति।। प्रश्नविषयीभूतशुभादिविषयकपर्यालोचनानुकूलव्यापारस्य धात्वर्थतया ज्ञानविशेषात्मकं पर्यालोचनमेव तत्प्रयोज्यं फलं न तु प्रश्नविषयशुभादिकमिति भावः।
ननु शंसनप्रयुक्तहर्षानुकूलव्यापारस्य गृणात्यर्थत्वादोधामोद इवेत्यादिरूपप्रतिगरात्मकाध्वर्युकर्तृकव्यापारस्य होतृकर्तृकशंसनप्रयोज्यत्वेन प्रयोजकव्यापाराश्रयतया हेतुत्वे प्राप्त इति वक्तव्ये कर्मत्वप्राप्तिकथनमयुक्तमत आह।। शंसितुरित्यादि।। अभेदान्वय इति।। शंसितृनिष्ठशंसनविषयहर्षानुकूलव्यापारोऽत्र शंसितृघटितो धात्वर्थः। धात्वर्थघटककर्मसामानाधिकरण्याच्च शोभनं पचतीत्यादिवत्कर्मत्वप्राप्तिरित्याशयः।
इदं तु [टि- इदं तु चिन्त्यमिति।। परे तु होता प्रथमं शंसति तमध्वर्युः प्रोत्साहयतीति कौमुदीग्रन्थे शंसतीत्यन्तेन होतुः पूर्वव्यापारे कर्तृत्वं तमित्यनेन शंसितुः कर्मत्वं च दर्शितम्। एतदभिप्रायेण मनोरमायां कर्मत्वे प्राप्ते इत्युक्तम्। तदाशयविवरणपरमूलग्रन्थे शंसितुः शंसनविषयकहर्षानुकूलव्यापारलक्षणं प्रोत्साहनं तयोरर्थ इत्युक्तम्। अत्र हर्षानुकूलव्यापार एव धात्वर्थः। न तु शंसितुर्धात्वर्थघटकत्वं विवक्षितम्। हर्षरूपस्य शंसनरूपस्य वा धात्वर्थफलस्याश्रयत्वाच्छंसितुः कर्मत्वम्। धात्वर्थविवरणात्मकमूलवाक्ये ``शंसितुरिति कर्मणि षष्ठी। शंसितुः प्रोत्साहने कर्मतया अन्वयः इति कथनेन तस्य धात्वर्थबहिर्भावः सूचितः। अन्यथा पृथक्पदार्थत्वाभावेन तस्यान्वयकथनासङ्गतेः। नन्वेवमपि होतुः कर्मत्वं कथमिति शङ्कां परिहर्तु मूले होतुश्शंसतर्यभेदान्वय इत्युक्तम्। न तु होत्रेऽनुगृणातीति वाक्ये तादृशान्वयोऽभिप्रेतः। तस्य सम्प्रदानकारकत्वेन क्रियाकारकभावेन क्रियायामन्वयस्येष्टत्वात्। अत एव मञ्जूषायां होतुर्धात्वर्थशंसनाश्रयस्यापादानत्वमुक्तम्। न तु धात्वर्थशंसित्रभिन्नस्येति। भवद्रीत्या तु तथा वक्तव्यं स्यात्। एवं च होतुर्मुख्यकर्मत्वमेव मूले विवक्षितमिति तदाशयापरिज्ञानेन अन्यथाशयं परिकल्प्य मूलस्य चिन्त्यत्वोक्तिरयुक्तैव। किं च मनोरमोक्तकर्मत्वप्राप्तिसमर्थनाय मञ्जूषादिसकलग्रन्थविरोधेन केचित्त्वित्यादिना शंसनपूर्वकहर्षानुकूलव्यापारस्य धात्वर्थत्वकथनमयुक्तम्। पूर्वोक्तरोत्या तत्समर्थनसम्भवात्। किं च वस्तुस्थितिपर्यालोचने हर्षे शंसनपूर्वकत्वकथने न किचित्प्रयोजनं न चेत्यादिग्रन्थविस्तरीकरणातिरिक्तम्। इत्थं हि वस्तुस्थितिः। लोके प्रोत्साहनं स्वाभिलषितेऽन्यस्य प्रवर्तनाय स्वाभिलषितविषयहर्षोत्पादनरूपं दृष्टम्। हर्षेण तद्विषये तस्य प्रवृत्तेः। एवं चाध्वर्युप्रोत्साहनेन हर्षस्तेन शसनं, न तु शंसनमेव धात्वर्थावेन विवक्षणीयम्। न तु तत्पूर्वभावि। एवं च तस्य शंसनस्य प्रोत्साहनप्रयोजकत्वाभावेन न चेत्यादिशङ्कासमाधाने निर्दले। तस्मादत्रत्यब्याख्याग्रन्थस्सर्वोऽपि मूलाशयानभिज्ञातामूलक एवेति मुधियो विभावयन्त्वित्याहुः।] चिन्त्यम्। क्रियाविशेषणानां कर्मत्वमित्याद्यनुशासनबलेन शोभनं पचतीत्यादौ व्यपदेशिवद्भावलब्धफलाश्रयत्वप्रयुक्तकर्मत्वोपहितासत्त्वभूतधात्वर्थफलविशेषणतया प्रयुज्यमानानां शोभनादिपदानां द्वितीयान्तोपपत्तये सामानाधिकरण्यमूलकतया कर्मत्वोपपादनेप्यन्यादृशधात्वर्थसंगृहीतकर्मसामानाधिकरण्येन तदुपपादने मानाभावात्। अन्यथा पराभिभवेच्छार्थकतया धात्वर्थसंगृहीतकर्मकत्वादकमकत्वेनाभिमतस्य स्वर्धतेर्योगे धात्वर्थघटककर्मत्वोपहितपरसामानाधिकरण्येन देवदत्तं स्फर्धत इत्याद्यनिष्टप्रसङ्गः। न हि तादृशः प्रयोगः केन चिदिष्यते। तस्मात्प्रागुक्तरीत्या हेतुत्वे प्राप्ते सम्प्रदानत्वमित्येव युक्तम्। याच्ञापूर्वकस्वत्वनिवृत्त्यनुकूलव्यापारवाचकप्रतिशृणोतीत्यादियोगेष्येवमेवेत्याहुः।।
केचित्तु शंसनपूर्वकहर्षानुकूलव्यापारस्य धात्वर्थतया हेतोर्हर्षाश्रयत्वेन धात्वर्थतावच्छेदकफलाश्रयतया कर्मत्वप्राप्तिः। न च धात्वर्थघटकशंसनस्य प्रोत्साहनप्रयोजकतया प्रयोजकव्यापाराश्रयत्वप्रयुक्तहेतुत्वेन परत्वात्कर्मत्वं बाध्यत इति वाच्यम्। प्रकृतप्रयोगजन्यबोधविषयशाब्दप्राधान्योपहितफलाश्रयत्वप्रयुक्तस्य कर्मत्वस्य प्राधान्येन प्राबल्यादित्याहुः।
मूले क्रय इति।। स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पादनेच्छाप्रयोज्यपरस्वत्वनिवृत्तिपूर्वकस्वस्वत्वोत्पादनेच्छा क्रयणम्। दानपूर्वकनियतकालिकस्वत्वोत्पादनेच्छा परिक्रयणमिति तयोर्भेदः।। आदिना दुर्भक्षेऽन्नमिति।। इदं तु [टि- इदं तु न युक्तमिति।। इदमेवायुक्तम्। मनोरमायां क्रयो धनाद्यर्पणेनेत्यत्र धनशब्दस्य लोके रूप्यकादावेव रूडयता तस्यैव सम्प्रत्यये न्यूनता स्यादिति तत्परिहाराय आदिना दुर्भिक्षेऽन्नादि संगृहीतं मूलकृता। अत्र मनोरमायां शब्दरत्ने वा भृतेः प्रसक्तेरभावेन भृतित्वेनैव सिद्धेरिति हेतोरसिद्धेः। न चैतद्व्याख्यानुरोधेन मनोरमायां क्रयो भृत्याद्यर्पणेनेति पाठान्तरमुन्नेतुं शक्यम्। तदनुरोधी चायं ग्रन्थ इति वाच्यम्। धनादीति शब्दरत्ने प्रतीकदर्शनेन तादृशपाठस्य कल्पयितुमशक्यत्वात्। न च तत्रापि भृत्यादीतीति पाठान्तरं कल्प्यत इति वाच्यम्। परिक्रयणे भृतेर्हेतुत्वेऽपि आत्यन्तिकस्वीकारणात्मके क्रये भृतेरहेतुत्वेन तत्र तादृशपाठस्य कल्पयितुमशक्यत्वात्। अतो युक्तमेव मूलोक्तमिति बोध्यम्।] न युक्तम्। भृतित्वेनैव सिद्धेः। तस्मात्तवेदं करिष्यामि ममेदं कुर्विति निश्चयविषय उपकारो मधुरवाक्प्रयोगो वात्रादिशब्दार्थ इत्याहुः।।
उपकारकत्वमिति।। ननु तादर्थ्यशब्दात्कथमुपकारकत्वरूपार्थलाभः। यस्य चतुर्थ्यर्थत्वमभ्युपगम्यते। न च चतुर्थ्यन्तस्योपकारकवाचकेनार्थशब्देन तत्पुरुषे ष्यञि निरुक्तार्थलाभ इति वाच्यम्। अनेनैवानुशासनेनात्रोपकारकत्वे चतुर्थ्या वक्तव्यतया समभिव्याहृतेनार्थशब्देनैतदर्थस्याभिधानादुक्तार्थानामिति न्यायेन तत्र चतुर्थीविधानायोगे चतुर्थीतत्पुरुषस्योक्तार्थकेनार्थशब्देन वक्तुमशक्यत्वातु। न च चतुर्थी ज्ञाप्यत इति वाच्यम्। अर्थशब्दस्यार्थान्तरवाचकत्वेनापि प्रसिद्धतया वस्तुवाचकेन धनवाचकेन वा समासविधानाय सार्थकतया समभिव्याहृतपदान्तराभिहितेप्युपकारकत्वे चतुर्थीज्ञापनायोगात्। न च चतुर्थ्यन्तोपकारकवाचकप्रकृतिकसुबन्तेन चतुर्थी समासस्य सुलभत्वादतिरिच्यमानमर्थग्रहणमभीष्टार्थसाधकमिति वाच्यम्। बलिरक्षितग्रहणेन प्रकृतिविकृतिभावविषय एव कुण्डलहिरण्यं यूपदार्वित्यादौ तदर्थेन चतुर्थीसमासो नान्यत्र अश्वाय घासो रन्धनाय स्थालीत्यादावित्यर्थज्ञापनस्याकरसम्मतत्वेन प्रकृति विकृतिभावानुपहितवस्त्वादिवाचकार्थशब्देन चतुर्थीसमासस्य तदर्थग्रहणेन वक्तुमशक्यत्वादर्थशब्दस्य तद्विषये समासविधानाय सार्थकतया निरुक्तार्थज्ञापकत्वायोगात्। एवञ्चोपकारकवाचकार्थशब्दयोगे तादर्थ्यचतुर्थ्या दुर्लभत्वेन निरुक्तसमासस्य वक्तुमशक्यतया तत उक्तार्थलाभो दुर्वच एवेति चेत्तर्हि अर्थेन नित्यसमासो विशेष्यलिङ्गता चेत्युपकारकवाचकेनार्थशब्देन चतुर्थ्यन्तस्य समासविधानाय पृथगारब्धेन कात्यायनवचनेन ब्राह्मणार्थस्सूप इत्यादावर्थशब्देनाभिहितेप्युपकारकत्वे चतुर्थीबोधनद्वारा समासविधानात्तथाविधसमासप्रकृतिकेन ष्यञन्तेनोक्तार्थलाभ इत्याहुः।
केचितु उपकारकवाचकार्थशब्दोत्तरपदकादुपकार्यान्यपदार्थकाद्बहुव्रीहेरयं तद्धितः। एवं च तादर्थ्यशब्देनोपकार्यत्वलाभत्तत्रैवानेन वचनेन चतुर्थी विधीयते। ततोऽध्ययनाय वसतीत्यादावध्ययननिष्ठोपकार्यतानिरूपको वास इत्यादिरेव बोधः। ब्राह्मणाय दधीत्यादौ च यथा परेषां चतुर्थ्यर्थोपकारकत्वे भोजनादिद्वारकपरम्परया प्रकृत्यर्थस्य निरूपितत्वेनान्वयस्तथा तदर्थोपकार्यत्वे तादृशपरम्परया प्रकृत्यर्थस्य वृत्तित्वेनान्वयः। ननु चतुर्थ्या उपकारकत्वार्थकत्वे तादृशचतुर्थ्यन्तस्योपकारकवाचकेनार्थशब्देन सहप्रयोगायोगादपूर्वतया कात्यायनेनार्थेन नित्यसमास इत्यवं समासविधानं स्वरसत उपपद्यते। उपकार्यत्वार्थकत्वे चतुर्थ्यन्तस्य तथाविधेनार्थशब्देन सह प्रयोगस्य निर्बाधतया समासविधानपरं वार्तिकमनर्थकं स्यादिति चेन्न। सहप्रयोगसम्भवेपि तादर्थ्यचतुर्थ्यन्तक्योपकारकवाचकार्थशब्दस्य च वृत्त्यघटकतया सहप्रयोगस्यासाधुत्वबोधनतात्पर्यकतया वार्तिकारम्भसाफल्यात्। न चैवं चतुर्थी चाशिषीति सूत्रविहितचतुर्थ्यन्तघटितस्य देवदत्तायार्थो भूयादित्यादेरप्यसाधुत्वापत्तिरिति वाच्यम्। तद्विषये देवदत्तोद्देश्यकमाशीर्विषयीभूतमर्थभवनमित्याद्यर्थस्यानुभविकतया तत्रत्यचतुर्थ्या उद्देश्यताबोधकतया तादर्थ्यबोधकचतुर्थ्यन्तविषयककात्यायनवचनबोधितसाधुत्वासाधुत्वयोः प्रवृत्त्ययोगात्। किं चाशीर्विषये तद्विषयतदाश्रययोरुद्देश्यविधेयभावेनान्वयस्य नियतत्वात्समासे च तादृशान्वयस्य दुर्वचतया समासघटकत्वानुपपत्त्या वाक्यप्रयोगस्याप्यनेन वचनेनासाधुत्वे चतुर्थीविधानवैयर्थ्यापत्तिश्चेति चतुर्थी चाशिषीति शास्त्रविषयचतुर्थ्यन्तघटितवाक्यप्रयोगो निर्बाध एवेति न काप्यनुपपत्तिरित्याहुः।।[टि- आहुरिति।। परे तु चतुर्थ्यर्थतादर्थ्यस्य सम्बन्धतया तस्य द्विनिष्ठत्वनियमेनोपकार्योपकारकभावरूपत्वं वाच्यम्। अत एव तादर्थ्यमुपकार्योपकारकभावः सम्बन्ध इत्युक्तं शेखरादौ। ततश्च तेन सम्बन्धेन मुक्तिविशिष्टं भजनमित्येव बोधः। एवं च बहुव्रीहौ तत्पुरुषे वा तदुत्तरभावप्रत्ययेन सम्बन्धस्यैव बोधनीयतया फले विशेषाभावेन बहुर्वीह्यपेक्षया लाघवात्तत्पुरुषाश्रयणमेव युक्तम्। अत एव भाष्ये चतुर्थीसमाससमर्थनाय बहुधा प्रयतितम्। न तु बहुव्रीहिराश्रितः। अत एव मञ्जूषादौ तत्पुरुष एव दर्शितः। एवं चोपकार्यत्वादेः प्रकारतया भानाभावेन नैयायिकवासनया तथा भानमङ्गीकृत्य तत्र प्रसक्तानुपपत्तिपरिहारक्लेश। विफल एवेत्याहुः।]
ननु यागाय यातीत्यादावुपकारकत्वार्थकप्रकृतवार्तिकबोधितयतुर्थीविधानेनैवोपपत्तौ तुमर्थाच्चेति सूत्रं व्यर्थम्। तद्विषयेपि यागोपकारकं गमनमित्यादिबोधस्यैवानुभविकत्वात्। न च तद्व्यापारेच्छाधीनेच्छाविषयव्यापारवत्त्वोपहित एवोपकारकत्वे तादर्थ्यचतुर्थीविभक्तेर्विधानं, ततश्च यत्र ब्राह्मणाय दधीत्यादौ भोजनाद्यधीनस्थापनादिव्यापारः प्रतीयते, तत्रैव तादर्थ्यचतुर्थ्या वार्तिकेन विधानं, यागय यातीत्यादौ च व्यापारान्तराप्रतीतेरनेन चतुर्थ्या अप्राप्त्या तुमर्थाच्चेति सूत्रमवश्यमारम्भणीयमिति वाच्यम्। तथासत्यध्ययनाय वसति रन्धनाय स्थालीत्यादावनेनाभीष्टायाश्चतुर्थ्या अप्रवृत्तिप्रसङ्गात्। न हि तत्र कश्चिदुपात्तातिरिक्तो व्यापारः प्रतीयते। ततो व्यर्थमेव तुमर्थाच्चेति सूत्रमिति चेत्सत्यम्। तुमुन्विषये प्रतीयमानस्योद्देश्यविधेयभावस्य वाक्यार्थतया तुमुन्प्रत्ययस्याव्ययकृतो भाव इत्यनुशासनबलेन भावार्थकताया निर्विवादत्वेन तुमर्थादित्येव सिद्धावतिरिच्यमानस्य भाववचनपदस्य तद्धटितसूत्रविहितक्रियार्थक्रियोपपदकधातुप्रकृतिकघञाद्यर्थकताया वक्तव्यतया तेनैवोपकारकत्वबोधनेनोक्तार्थानामिति न्यायादनेन तत्र चतुर्थीविधानानुपपत्त्या तद्विषये चतुर्थीसमर्थनाय सूत्रमेतदावश्यकमिति मूल एव स्पष्टम्। न च चतुर्थीविधानं विशिष्य घञ्विधानं च मास्तु, सामान्यविहितभावार्थघञन्तात्तादर्थ्यचतुर्थ्यैवाभीष्टसिद्धिरिति वाच्यम्। तुमुनादिषु वासरूपविधेर्निषिद्धत्वेन क्रियार्थक्रियोपपदकाद्विशेषविहितेन तुमुना घञो नित्यवाधापत्त्या यागाय यातीत्यादिप्रयोगानापत्तेः। सिद्धान्ते तु विधानसामर्थ्यादुभयोः पर्यायतेति न काप्यनुपपत्तिः। न चाध्ययनाय वसतीत्यादौ क्रियार्थक्रियोपपदकाद्विशेषविहितेन तुमुना ल्युटो बाधापत्त्या तथाविधप्रयोगानुपपत्तिरिति वाच्यम्। नपुंसकत्वाभाववति चरितार्थस्य तुमुनस्तदुपहितभावे परेण ल्युटा बाधात्। अत एव घञोपि प्रकृतस्य तद्विषये प्रवृत्त्यभाव इति सर्वमुपपद्यत इत्याहुः।
अत्रायं निष्कर्षः। उपकार्यवाचकादेवेयं चतुर्थी न तूपकारकवाचकादर्थशब्देन समासारम्भात्। तादर्थ्यशिब्दस्य बहुव्रीहिप्रकृतिकस्वार्थिकष्यञन्ततामाश्रित्य धर्मिण उपकार्यस्यैव चतुर्थ्यर्थत्वं मन्यमानस्योपाध्यायस्य मते मुक्तये हरिं भजतीत्यादौ मुक्त्युपकार्यकं हरिभजनमिति बोधस्य निर्बाधत्वेपि ब्राह्मणाय दधीत्यादौ ब्राह्ममोपकार्यकं दधीत्यादिबोधे ब्राह्मणादेरुपकार्यत्वं भोजनादिद्वारकमाश्रयणीयम्। तत्पुरुषप्रकृतिकसम्बन्धबोधकष्यञ्न्तत्वाश्रयणेन सम्बन्धात्मकमुपकारकत्वमेव चतुर्थ्यर्थ इति वदतां दीक्षितादीनां मते निरुक्तस्थले मुक्तिनिरूपितोपकारकत्वाश्रयो हरिभजनमित्यादिको बोधः। ब्राह्मणय दधीत्यादावुपकारकत्वं तु भोजनाद्यन्तभविण। परन्तु हेतुशब्दस्य फलकारणोभयवाचकतया हेताविति सूत्रेण विधीयमानतृतीयायाः तदन्यतरबोधकत्वेनाध्ययनाय वसतीत्यादावध्ययनफलको वासो दण्डेन घट इत्यादौ दण्डकारणको घट इत्येवं धर्मिबोधकत्व मभ्युपगच्छतामिह धर्मबोधकत्वं, स च धर्मोऽन्वयिपदार्थगतस्सम्बन्धरूप इति वैषम्यमेषां दोषः। यदि तु हेतावित्यस्य तत्र वर्तमानात्प्रातिपदिकात्तृतीयेत्यर्थकतामाश्रित्य जन्यत्वं हेतुत्वं वा तृतीयार्थ इति वैशेषिकसरणिराश्रीयते तदा कर्मणि द्वितीयेत्यादिविभक्त्यर्थनिर्णायकसूत्रघटकधर्मिनिर्देशविषयकसूत्रकारशैलीविरोध इत्याहुः।। [टि- आहुरिति।। परे त्वयं निष्कर्षो न युक्तः। पूर्वोक्तदिशाऽत्रोपकार्योपकारकभावस्य संसर्गतयैव भानमित्युपाद्यायसंमतत्वेन उपाध्यायदीक्षितयोर्मतभेदस्यैवाभावात्। एवं च भेदं परिकल्प्यायं विचारो निष्फल एवेति ध्येयमित्याहुः।।]
इदं तु बोध्यम्। तादर्थ्यशब्दो न केवलमुपकारकवाचकेनैवार्थशब्देन घटितः। किन्तु निवर्तकवाचकेनापकारकवाचकेनापि, ततो निवर्तकत्वापकारकत्वयोरपि तादर्थ्यशब्दाभिधेयतया त्रिविधमिदं तादर्थ्यं सम्पद्यत इति।।
विनिगमनाविरहादिह तन्त्रेणार्थत्रयेपि चतुर्थीविधानमास्थेयम्। तेन मृगोपकारिका वागुरेत्यर्थे मृगेभ्यो वागुरा, मशकनिवर्तको धूम इत्यर्थे मशकेभ्यो धूम इत्यादयः प्रयोगास्साधुत्वेनोपपद्यन्ते। निरुक्तेर्थे मृगार्था वागुरा मशकार्थो धूम इत्यादयो नित्यसमासाः प्रसिद्धा एव। मनुष्येभ्यो हन्तेत्यत्राप्यपकारकत्वबोधिका तादर्थ्यचतुर्थ्येवेति तदर्थं प्रयत्नान्तरानुसरणप्रयासो निष्फल एवेत्याहुः।।[टि- आहुरिति।। वस्तुतस्तु अत्र तन्त्राश्रयणे न मानं, नांपे फलम्। न च मृगेभ्यो वागुरा मशकेभ्यो धूम इत्याद्यनिर्वाह इति वाच्यम्। तत्र मृगपदस्य तद्बन्धनलक्षकतया मशकपदस्य तन्निवृत्तिलक्षकतयाप्युपपत्तेः। अर्थशब्दस्यापकारकनिवर्तक पन्तायाः क्वाप्यदर्शनेन तन्त्रेणानिर्वाहाच्च। न चाश्यर्थस्य ने त वार्तिकेऽर्थशब्दो निवृत्तिवचन इति तत्र तत्र व्याख्यानं तादृशार्थे मानमिति वाच्यम्। तथा व्याख्यानस्यायुक्तत्वात्। अर्थशब्दस्य निवृत्तिवचनन्वाभ्युपगमेऽपि तद्वाचकस्येत्यर्थस्य लक्षणां विना दुर्लभत्वाच्च। अत एव शेखरेऽशिनिवृत्त्यर्थस्येति व्याख्यातम्। एवं च सर्वत्रोपकार्योपकारकभाव एकविध एव तादर्थ्यम्। स च साक्षात्परम्परया वा। तेन विप्राय दधीति सिद्धम्। एतेनात्र संस्कार्यसंस्कारकभावस्तादर्थ्यमिति वदन्तः परास्ता इत्याहुः।]
ज्ञानत्वेन परिणमत इति।। भक्तिर्ज्ञानाय कल्पत इत्यत्र विकृतिवाचकज्ञानशब्दप्रकृतिकचतुर्थ्या अभेदोऽर्थः। तस्य च कृपूधात्वर्थभूतरूपान्तरप्राप्त्यात्मकपरिणामैकदेशेन रूपान्तरेणान्वयः। ततश्च ज्ञानत्वाभिन्नरूपान्तरप्राप्तिर्भक्त्याश्रयिकेति बोधः।।
केचितु विकृतिवाचकज्ञानादिपदानां न धर्मपरत्वम्। किन्तु ज्ञानादिरूपधर्मिपरत्वमेव, चतुर्थ्याश्चाधेयत्वमर्थः। ततश्च ज्ञाननिष्ठरूपान्तरप्राप्तिरित्यादिको बोध इति वदन्ति।। [टि- वदन्तीति।। परे तु अत्र क्लृपेरभूतप्रादुर्भावरूपोत्पत्तिरर्थः। वार्तिके सम्पद्यमाने इत्यस्य सम्पत्तिकर्तरि वर्तमानादित्यर्थः। तत्र सम्पत्तिरुत्पत्तिरेव। एवं च ज्ञातस्योत्पत्तिकर्तृत्वेनाभिहितकर्तृकत्वात्प्रथमायां प्राप्तायां तदपवादोऽयम्। न च भक्तेरुत्पत्तिकर्तृत्वेन ततोऽपि चतुर्थ्यापत्तिरिति वाच्यम्। सम्पद्यमाने इत्येतन्महिम्नाधिकारवाचकादेव तद्विधानात्। तत्र ज्ञाने तत्कारणभक्तिरूपसमारोपाद्भक्तेरभेदेनान्वयः। एवं च भक्तिरूपज्ञानकर्तुकाभूतप्रादुर्भाव इत्येव बोधः। न च भक्तेर्ज्ञानेऽभेदान्वयोऽनुपपन्नः। समानविभक्तिकत्वाभावादिति वाच्यम्। विरुद्धार्थकविभक्तिराहित्यस्यैव तन्नियामकत्वाभ्युपगमेनादोषात्। अत एव नीलघट इत्यत्राभेदान्वयः परेषाम्। स्पष्टं चेदमुद्योते। प्रकृतिविकृत्योर्भेदविवक्षायां तु भक्तिपदाज्जनिकर्तुरित्यपादानत्वात्पञ्चमीति भक्तेर्ज्ञानं कल्पत इत्येव। ज्ञानस्य कर्तुत्वेन कारकविभक्तेर्बलवत्त्वेन च ज्ञानपदात्प्रथमैवेति कैयटे स्पष्टम्। तत्र भक्त्यपादानिका ज्ञानकर्तृकोत्पत्तिरिति बोधः। भक्तिर्ज्ञानात्मना परिणमतीत्यत्रात्मशब्दस्य धर्मपरत्वेन ज्ञानत्वेनेत्यर्थकतया तस्य विकृतित्वाभावेन न तद्वाचकाच्चतुर्थी। किन्तु प्रकृत्यादित्वात्तृतीयैव। स्पष्टं चेदं मञ्जूषायाम्। भक्तिर्ज्ञानं कल्पत इति त्वनिष्टमेव। अत एव तदुपपादकोद्योते अत्र वदन्तीत्यरुचिबोधकोपक्रमः सङ्गच्छते। सूचितं चेदं ``ध्वनितं चेदं हरदत्तेन इत्युपसंहरतोद्योतकृता। भवतियोगे तु नेय सुवर्णं कुण्डले भवत इति पस्पशास्थभाष्यप्रयोगात्। एवं च कल्पते रूपान्तरप्राप्तिरर्थ इति कथनमुद्योतोक्तात्र वदन्तीति मतानुसारेणैव।। सूचितं चेदं वदन्तीत्युपसंहरता ग्रन्थकृता। परन्तु अत्र ज्ञानस्याधेयतया रूपान्तरेऽन्वयकथनं तन्मतेनापि विरुद्धम्। तन्मतेऽभेदान्वयेन द्वितीयाबाधकत्वोक्तेः। अत्रत्यशब्दरत्नग्रन्थस्तु उद्योतोक्तात्र वदन्तीति मतानुसारिमनोरमानुसारेणैवेत्याहुः।।]
ननु ज्ञानात्मना परिणमत इत्यत्रापि चतुर्थीयं कुतो न प्रवर्तते तत्राह।। विकृतिवाचकत्वाभावादिति।। विकृतिविषयकशक्तिमत्त्वमेवेह सम्पद्यमानवृत्तित्वं चतुर्थींप्रवृत्तौ निमित्तम्। न तु विकृतिबोधकत्वरूपं, ततश्च ज्ञानत्वादिलाक्षणिकानामपि ज्ञानादिशब्दानामिदानीं विकृतिबोधकत्वाभावेपि चतुर्थीप्रवृत्तेरविरोधः। ज्ञानत्वविशिष्टेति।। अभेदस्य संसर्गत्वाभावादितरसम्बन्धानवच्छिन्नविशेषणविशेष्यभावेन रूपान्तरे ज्ञानत्ववैशिष्ट्यमिति भावः।
केचित्तु संसर्गत्वाभावेप्यभेदस्य प्रकारत्वे बाधकाभावेन प्रकृत्यादिलक्षणतृतीयाया अभेदः प्रकारतया रूपान्तरान्वयी वाच्योऽर्थः। ततश्च ज्ञानत्वाभिन्नरूपान्तरप्राप्तिरित्यादिरेव बोधः। धान्येन धनवानित्यादावप्येवमेवाभेदभानमिति व्यर्थोऽयं वक्रमार्गानुसरणक्लेश इत्याहुः।[टि- आहुरिति।। वस्तुतस्तु ज्ञानत्वविशिष्टरूपान्तरप्राप्तिर्भक्तिकर्तृकेति मूलग्रन्थः ज्ञानात्वना परिणमत इति मनोरमावाक्यस्यार्थप्रदर्शनपरः। तच्च वाक्यं भक्तिर्ज्ञानायेति कौमुद्युदाहरणवाक्यफलितार्थप्रदर्शनपरम्। न तु ताभ्यां समानाकारो बोधः। एवं च ज्ञानात्मना परिणमत इत्येतद्वाक्यार्थविवरणपरमूलग्रन्थं भक्तिर्ज्ञानायेत्यादिवाक्यर्थविवरणपरत्वेन स्वयं वक्रगत्या व्याख्याय मूलोक्तस्य वक्रमार्गत्वकथनमयुक्तमेव। स्पष्टीभवति चेदं शब्दरत्नग्रन्थाक्षरार्थपरिशीलनशालिनामित्याहुः।।]
भक्तिर्ज्ञानं सम्पद्यत इत्यादावभेदविवक्षायां तु भक्त्यभिन्नज्ञानाश्रयिका रूपान्तरप्राप्तिरित्येवं बोधः। अत्रेदं तत्त्वम्। प्रकृतिविकृत्योः स्वशब्दोपात्तयोर्यत्र सामानाधिकरण्येन निर्देशः तत्र मसुवर्णं कुण्डले भवत इति पस्पशास्थभाष्यप्रामाण्याद्विकृतेरेव कर्तृत्वं न तु प्रकृतेः। अत एवैको वृक्षः पञ्च नौकाभवन्तीत्याद्यभियुक्तव्यवहारस्सङ्गच्छते। अत एवैको वृक्षः पञ्च नौका भवन्तीत्याद्यभियुक्तव्यवहारस्सङ्गच्छते। यत्र त्वारोपितो विकारस्तत्र विकृतेः प्राधान्येनास्फुरणात्प्रकृतेरेव कर्तृत्वम्। अत एवात्वं त्वं सम्पद्यत इत्यादिभाष्यकारीयो व्यवहारः। तेन ब्राह्मणास्सङ्घीभवन्तीत्यादयो निर्बाधकाः प्रयोगाः। अस्त्राय फडित्यादौ च प्रकृतिविकृतिभावमाश्रित्य भवतीत्यध्याहारेण काष्ठं भस्मने भवतीतिवच्चतुर्थ्या उपपत्तिरित्याहुः।।
ज्ञापकादिति।। ननु चतुर्थी चाशिषीति शास्त्रविहितचतुर्थीमादाय हितसुखशब्दयोस्समासस्योपपन्नत्वादनाशिषि तद्योगे चतुर्थीविधानाय कथं समासविधानस्य ज्ञापकत्वमत आह।। वृत्तावित्यादि।। आशीर्विषये तद्विषयतदाश्रययोरुद्धेश्यविधेयभावेनान्वयो व्युत्पत्तिसिद्धः। तादृशान्वयश्च पृथगुपस्थितयोरेव। समासे चैकार्थीभावेनैकैवोपस्थितिर्विशिष्टविषयिणी। ततश्च चतुर्थी चाशिषीति शास्त्रविहितस्याशीर्विषयचतुर्थ्यन्तस्य समासघटकत्वायोगादन्यादृशस्यैव चतुर्थ्यन्तस्य समासविधिविषयतया हितसुखशब्दयोर्योगे चतुर्थीविधायकशास्त्रान्तरानुपलम्भादिदमेव समासविधानं तद्योगे चतुर्थीप्रवृत्तौ प्रमाणमिति भावः।
तदद्योतनादिति।। वस्तुतोऽत्र तुमर्थाच्चेत्यनेनैव चतुर्थी। विघातशब्दस्य भाववचनाश्चेति शास्त्रविहितघञन्ततायाः न्याय्यत्वेन तदंशे घञैव तादर्थ्यस्य धोतितत्वादन्यानभिहिततादर्थ्यविषयकस्य वार्तिकबोधितचतुर्थीविधानस्याप्रसक्तिः। तुमर्थाच्चेत्यनेन तु भाववचनबोधिततादर्थ्यानुवादकतया चतुर्थी विधीयत इति न तत्प्रवृत्तेर्विरोध इत्याहुः।। [आहुरिति।। अत्रेदं बोध्यम्। द्विषां विवातायेत्यत्र तुमुना तादर्थ्यस्योक्तत्वात्कथं चतुर्थीति वदता विधातायेत्यत्र भावे घञ्यपि तुमुना तादर्थ्यस्योक्तत्वादित्याशयो वर्णनीयः। तुमुनेत्यक्षरस्वारस्यात्। तदेतत्र्युक्तमित्याह। मूले उत्तरक्रिययोस्तद्द्योतनेऽपि पूर्वक्रिययोस्तदद्योतनादिति। अत्र पक्षे मूले एतेनेत्यस्य वक्ष्यमाणहेतुनेत्यर्थः। यदि तु तुमुनेत्यस्य तुमुनर्येनेत्यभिप्रायं परिकल्प्य विघातायेति भाववचनाश्चेति घञित्याशयस्तदा तुमर्थादित्यस्य मनोरमोक्तदिशा प्रथमापवादतया घञादिबोधिततादर्थ्यानुवादकचतुर्थीविधायकस्य सत्त्वान्न चतुर्थ्यनुपपत्तिरित्याश्रयणे तु मूले एतेनेत्यस्य पूर्वोक्तहेतुनेत्यर्थः। एतत्पक्षाश्रयणेन व्याख्याने वस्तुत इत्याद्युक्तिः, न त्वपूर्वा। मूले तादर्थ्ये चतुर्थीत्युक्तिस्तु प्राचां तुमुनेत्यक्षरस्वारस्याद्भावे घञ्यपि चतुर्थ्युपपा दनपरेति न तत्र तस्य निर्भरः। एवं च कस्य घञो न्याय्यत्वमिति विचारस्य नात्र प्रसक्तिरित्याहुः।।] तत्राप्राप्तेरिति।। ननु ब्राह्मणाय दधीत्यादौ दध्यादिगततादर्थ्यस्य ब्राह्मणादिनिरूपितत्वाभावेपि तदीयभोजनादिघटितपरम्परया निरूपितं तादर्थ्यमुपादाय चतुर्थीसमर्थनस्य सर्वसम्मतत्वात्पाचको व्रजतीत्यादावपि व्रजनादिगते तादर्थ्ये गुणीभूतपाकादिघटितपारम्परिकस्य कर्तृनिरूपितत्वस्य सुवचतया चतुर्थ्या दुर्वारत्वात्कथं तदप्राप्तिरिति चेत्सत्यम्। तादर्थ्यमुपकारकत्वं तस्य यत्र साक्षादसम्भवस्तत्रोपकारकोपकारकस्याप्युपकारकत्वमाश्रित्य चतुर्थीप्रवृत्तिरिति सिद्धान्तः। ब्राह्मणाय दधीत्यादौ च भोजनादेर्ब्राह्मणाद्युपकारकतया प्रसिद्धत्वेन दध्यादिगतं ब्राह्मणादिनिरूपितं तथाविधमुपकारकत्वमवस्थाय चतुर्थ्या अव्याहतत्वेपि पाचको वव्रजतीत्यादौ भोजनादिवत्पाकादेः कर्तुरुपकारकत्वाभावात्तदुपकारके व्रजनादौ कर्तृनिरूपितत्वस्य कथमपि वक्तुमशक्यत्वेन प्रकृतविषये न चतुर्थीप्रवृत्तिरित्याशयोऽत्र विभावनीय इत्याहुः। इति चतुर्थी।।
ननु घ्रुवमित्यनेन कथमवधिरूपार्थलाभ इत्याशङ्क्याह मूले।। ध्रु गतिस्थैर्ययोरिति।। अवधिरेवेति च ।। स्थैर्यविशिष्टबोधकेन सामान्यवाचिना घ्रुवशब्देन विशेषरूपोऽवधिरुपलक्ष्यत इति तात्पर्यम्।। सत्यन्तमिति।। प्रकृतधातूपात्तगत्यनाविष्टत्वम्। इदं च ध्रुवग्रहणात्सिद्धम्। तत्र प्रकृतधातूपात्तत्वं प्रत्यासत्तिलब्धम्। तत्त्वं च चिकीर्षितापादानसंज्ञाप्रयोजकविभागविषयकबोधसमर्पकत्वम्। तेन धावतोऽश्वात्पततीत्यादौ नाव्याप्तिः। अन्यथा धावृधातूपात्तगत्याविष्टत्वेन लक्षणघटकगत्यनाविष्टत्वस्य दुर्वचत्वादव्याप्तिः स्पष्टैव।। अपवादस्स्यादिति।। वृक्षात्पततीत्यादाववध्यवधिमतोरुभयोरपि विभागाश्रयत्वेन विशेषणानुपादाने पर्णादीनामवधिमतामेव कर्तृसंज्ञापवादतया प्रकृतसंज्ञा प्रवर्तेत। अवधीनां तु वृक्षादीनां परत्वात्कर्मसंज्ञा स्यादिति भावः। ननु विशेषणांशसमर्पकस्य घ्रुवग्रहणस्याभावे विभागे यत्कारकं तदपादानमित्यर्थकमपायेऽपादानमित्येव सूत्रमिति पर्यवसन्नम्। तत्र द्वयोरप्यवध्यवधिमतोर्विभागाश्रयत्वेपि पुरस्तादपवादन्यायात्कर्मसंज्ञापवादत्वेनावधीनामेवापादानसंज्ञा स्यादवधिमतां तु परत्वात्कर्तृसंज्ञैवेति कथमनिष्टप्रसङ्ग इति चेत्सत्यम्। अवध्यवधिमतोरुभयोरप्यविशेषेण विभागाश्रयतया यदि ग्रहणं स्यात्तदा पुरस्तादपवादन्यायादनन्तरायाः कर्मसंज्ञाया अपवाद इति वक्तुं युज्यते। प्रकृते तु विशेषणानुपादाने प्राधान्यादनुयोगितया विभागाश्रयाणामवधिमतामेव ग्रहणं स्यादिति नास्त्यवधीनां कर्मसंज्ञापवादत्वेनापादानसंज्ञायास्सम्भव इत्याशयोऽत्र विभावनीय इत्याहुः। नन्ववधिरपादानमित्येवास्तु, किमनेन प्रवञ्चेनेति चेन्न। आचारक्विबन्तैः पूर्वपरादिशब्दैर्योगे ग्रामात्पूर्वत्यारामश्चैत्रात्परत्ययं घस्र इत्यादौ देशकालावधेरप्यपादानसंज्ञापत्तेः। न च फलाभावः पञ्चम्यास्तत्र प्रकारान्तरेणाभीष्टत्वादिति वाच्यम्। अपादाने चाहीयरुहेरिति तादृशपञ्चम्यन्तात्तस्प्रत्ययापत्त्या ग्रामतः पूर्वति चैत्रतः परतीत्याद्यनिष्टप्रयोगसम्पादनेन सार्थक्यातु। न च तत्रापादानपञ्चमीं बाधित्वा परत्वाद्दिग्योगपञ्चम्येव स्यादित्यपादानपञ्चम्यन्तनिमित्तकस्य तस्प्रत्ययस्याप्रवृत्तिरेवेति वाच्यम्। सत्यामपादानसंज्ञायामुपपदविभक्तेरिति न्यायेन कारकविभक्तेरपादानपञ्चम्या एव तत्र प्रवृत्त्या दोषस्य दुर्वारत्वादिति दिक्।। तदुपात्तेति।। चिकीर्षितापादानसंज्ञाप्रयोजकविभागविषयकबोधसमर्पकधातूपात्तेत्याद्यर्थः।। तदनाश्रयत्वादिति।। तद्गत्यनाश्रयत्वादित्यर्थः। विभागानुकूलव्यापारविषयकबोधप्रयोजकधातूपात्ततद्गत्यनाश्रयत्वे सति तद्गतिजन्यविभागाश्रयत्वमत्रापादानत्वम्। प्रतियोग्यनुयोगिभेदाद्विभागो भिद्यते, तद्भेदादाश्रयभेदाच्च तत्प्रयोजकयोर्गत्योर्भेद इत्याशयः।
ननु परस्परस्मान्मेषावपसरत इत्यत्रोभाभ्यामपि शब्दाभ्यामेक एवार्थोऽभिधीयत इति परया कर्तृसंज्ञया बाधादपादानत्वानुपपत्तिरिति चेदत्र दीक्षितादयः। यद्धर्मावच्छेदेन प्रधानव्यापाराश्रयता तद्धर्मावच्छेदेनैव कर्तृसंज्ञा, प्रत्यासत्तेः। प्रकृते च मेषत्वावच्छेदेनैव प्रधानव्यापाराश्रयता न परस्परत्वावच्छेदेनेति तद्धर्मावच्छेदेन कर्तृसंज्ञाया अप्राप्त्या निर्विवादमपादानत्वम्। न चैवं स्वस्मान्मेषोऽपसरतीति प्रयोगापत्तिः। मेषत्वावच्छेदेन प्रधानव्यापाराश्रयत्वेऽप्यात्मत्वावच्छेदेन तदभावादपादानत्वस्य दुर्वारत्वादिति वाच्यम्। प्रतियोगित्वेन विभागव्यधिकरणव्यापारस्य धात्वर्थतया यादृसप्रतियोगित्वेन विभागवैयधिकरण्यं तादृशप्रतियोगित्वेन विभागान्वयानुपपत्त्या बाधितार्थत्वेन तादृशप्रयोगाप्रसक्तेरतो न काप्यनुपपत्तिरित्याहुः।
नव्यास्तु आत्मानमात्मना हन्तीत्यादौ शरीराद्यौपाधिकभेदमारोप्य यथा कर्मत्वाद्युपपत्तिस्तथा परस्परस्मान्मेषावपसरत इत्यत्रापि शब्दकृतं भेदमारोप्य कर्तृत्वापादानत्वयोरुपपत्तिरिति वदन्ति। तन्मते स्वस्मान्मेषोऽपसरतीत्याद्यनिष्टं प्राप्नोति तथापि सति नैमित्तिके निमित्तारोप इति न्यायेन भेदारोपनिमित्तिकापादानत्वप्रयुक्तपञ्चम्यन्तप्रयोगस्य प्रमितस्य क्वाप्यदर्शनेनानभिधानाभ्युपगमाददोषः। मेषाभ्यां परस्परमपसरतीत्यस्यप्येषैव गतिरित्याहुः।।
ननु पतधातोर्विभागविशिष्टाधोदेशसंयोगानुकूलव्यापाररूपक्रिया वाच्योऽर्थस्तस्या चावधिभूतपञ्चमयर्थान्वयो न युक्तस्तदंशे साकाङ्क्षत्वाभावादत आह।। सा च क्रियेति।। ननु विभागसंयोगयोरुभयोरपि प्रधानव्यापारप्रयोज्यत्वात्प्रकृतधातूपात्तत्वाच्च तदाश्रये देवदत्तादौ कर्मत्वं दुर्वारमत आह।। कालिकेत्यादि।। विभागीयफलतावच्छेदकसम्बन्धः प्रतियोगित्वं संयोगांशे चानुयोगित्वं देवदत्तादेः कर्तुरनुयोगित्वेन विभागाश्रयत्वात्प्रतियोगित्वेन संयोगाश्रयत्वाच्च फलतावच्छेदकसम्बन्धेन फलाश्रयत्वाभावान्न कर्मत्वप्रसक्तिः। यद्यपि कर्तृसंज्ञया परया बाधेनैव न प्रकृते कर्मत्वप्रवृत्तिः, तथापि कालिकसम्बन्धप्रयुक्तदोषवारणाय फलतावच्छेदकसम्बन्धनिवेशस्यावश्यकत्वेन तेनैव प्रकृतविषयेऽप्यतिप्रसङ्गभङ्गादुपायान्तरान्वेषणमनावश्यकमित्याशयः।
अत्रेदं बोध्यम्। अवधित्वमेव पञ्चम्यर्थो नावधिरूपो धर्मी, स्वरूपसम्बन्धविशेषस्यावध्यनतिरिक्तस्यावधित्वस्य शक्यतावच्छेदकत्वे गौरवात्। अवधित्वरूपधर्मस्यैव तदर्थत्वे चावधित्वत्वमखण्डोपाधिरूपं शक्यतावच्छेदकमिति नास्ति गौरवावकाशः न चावधेश्शक्यत्वेपि अवधित्वमखण्डोपाधिरूपं सर्वावध्यनुगतं शक्यतावच्छेदकमतो न गौरवमिति वाच्यम्। तथ सति पाषाणपतनावधित्वपर्णपतनावधित्वयोरेकत्वेन पर्णावधिकपतनवेलायां पाषाणावधिकपरनविषयकप्रतीत्यपत्तेः न चावधित्वस्यैव विभक्त्यर्थत्वे पञ्चम्यन्तान्यपदार्थकबहुव्रीहिस्थले तस्यैव प्राधान्यापत्तावुद्धृतौदना स्थालीत्यादौ सामानाधिकरण्येनान्वयानुपपत्त्या नामार्थयोरभेदान्वय इति व्युत्पत्तिविरोध इति वाच्यम्। व्यासस्थले सम्बन्धबोधकत्वेपि षष्ठ्याः षष्ठ्यन्तान्यपदार्थकबहुव्रीहौ वृत्तिस्वाभाव्यात्सम्बन्धिबोधकत्ववदिहापि बहुव्रीहौ धर्मिभूतावधिबोधकत्वाभ्युपगमेनादोषात्। अतो न काप्यनुपपत्तिरित्याहुस्तदाह।। अन्यत्र विस्तर इति।।
केचित्तु अवधित्वस्याखण्डत्वेपि न दोषः। समवायस्यैकत्वेन स्पर्शसमवायवति वायौ रूपसमवायस्यापि सत्त्वेपि रूपप्रतियोगिकत्वावच्छेदेन समवायानुयोगित्वस्य वायावभावाद्रूपवत्ताप्रतीत्यभाववदिहापि पाषाणनिष्ठविभागनिरूपितत्वावच्छेदेनावधित्वस्य वृक्षवृत्तित्वाभावादखण्डत्वेपि तस्य वृक्षनिष्ठपर्णपतनावधित्वमादाय न पाषाणपतनप्रतीतिरिति वदन्ति।। [टि- वदन्तीति।। परे तु अवधित्वस्याखण्डत्वमयुक्तमेव। तथा सति पाषाणपतनावधित्वपर्णपतनावधित्वयोरेकत्वेन पर्णपतनवेलायां पाषाणपतनप्रतीत्यापत्तेः। समवायदृष्टान्तेनापत्तिवारणं न घटते। रूपप्रतियोगिकत्वावच्छेदेन समवाये वाय्वनुयोगिकत्वाभावेऽपि कदाचिद्वृक्षात्पाषाणपतनस्यापि सम्भवेन वृक्षात्पाषाणः पततीत्यादेर्निर्बाधत्वेन पाषाणनिष्ठविभागनिरूपितत्वावच्छेदेनावधित्वस्य वृक्षनिष्ठत्वाभावाभावेन वैषम्यात्। किञ्च पञ्चम्यर्थबहुव्रीहौ सामानाधिकरण्यानुरोधाद्धर्मी पञ्चम्यर्थः। गौरवं तु फलबलात्सोढव्यमित्याहुः।।]
विश्लेष इति।। सम्बन्धाभाव इत्यर्थः। संयोगपूर्वस्य तदभावस्यापायपदार्थत्वात्पापादीनां तथाविधापायावधित्वस्य दुर्वचतया सूत्रेणापादानत्वाप्राप्तिरिति वार्तिकारम्भः। भाष्यकारस्तु सम्बन्धपूर्वकस्तदभावोऽत्रापायपदार्थः। स च सम्बन्धो विनिगमनाविरहाद्बाह्यो बौद्धश्च। बुद्ध्या विषयीकृतस्य पापादेरपकारत्वसम्भावनया ततो निवृत्तिरिति बुद्धिसम्बन्धतदभावाभ्यामपायमाश्रित्य सूत्रत एवापादानत्वमुपपाद्य वार्तिकं प्रत्याचख्यौ।।
केचित्तु सूत्रस्थोऽयमपायशब्दो विभागवाचकस्सम्बन्धाभाववाचकश्च तन्त्रेण निर्दिष्टः। तत्र विभागप्रतियोगिन इव सम्बन्धप्रतियोगिनोप्यवधित्वेन ग्रहणादावृत्त्या द्वयोरपि सूत्रेणापादानत्वसिद्धिरिति प्रत्याख्यातुर्भाष्यकारस्याशय इत्याहुः।। [टि- आहुरिति।। परे त्वावृत्त्यार्थद्वयपरत्वं न युक्तम्। वाक्यभेदापत्तेः। न च पापादेरद्रव्यत्वेन विभागासम्भव इति वाच्यम्। गौणस्य बुद्धिपरिकल्पितस्य तत्रापि सम्भवात्। तमब्ग्रहणेन कारकप्रकरणे गौणस्यापि ग्रहणस्य पूर्वमुक्तत्वाज्ज। तस्मान्नकाप्यनुपपत्तिरित्यलमित्याहुः।]
शेषत्वविवक्षयेति।। सूत्रे भयहेतुरित्युक्तेर्हेतुहेतुमद्भावेनान्वयोऽत्रापादानसंज्ञानिमित्तमिति हेतुतृतीयापवादोऽयं न तु शेषषष्ठ्यपवादः। ततो हेतुत्वाविवक्षायां शेषषष्ठ्या कस्य बिभ्यतीति भीधात्वर्थान्वयेपि न दोष इत्याशयः।।
न हि धातुं प्रतीति।। तन्मते हि भावनाश्रयः कर्ता, न हि धातोरनुकूलतासम्बन्धेन भावनायां तदाश्रये वान्वयस्सम्भवतीति तदाशयः। स्ववाच्यघटितपरम्परासम्बन्धेन भावनायां तदाश्रये वा धातोरन्वये नार्थासङ्गतिरित्याहुः।। क्रियां प्रत्येवेति।। जनिधातुयोगे धात्वन्तरयोगे वा जनिक्रियां प्रति यः कर्ता तन्निरूपितापादानत्ववतोऽत्रापादानत्वं विधीयत इति भावः। ननु जनिरुत्पत्तिरुद्भव इति कोशादुत्पत्तिरेव जनेरर्थः। अन्यथाभावात्मकः परिणामस्तु ततो भिन्नः। अत एवास्ति जायते वर्धते विपरिणमते अपक्षीयते नश्यतीति षड्भावविकारवादिनामुत्पत्तिपरिणामयोर्भेदेन व्यपदेशस्तथा च परिणामवाचकधातुयोगे ``यतः परिणमत्येतज्जगत्सर्वं चराचर मित्यादावपादानत्वं दुर्लभमिति चेत्सत्यम्। जनी प्रादुर्भाव इत्युत्पत्त्यन्यथाभावसाधारणेन प्रादुर्भावशब्देनार्थनिर्देशादन्यथाभावोपि जनेरर्थः। अत एव ब्रह्मणः प्रजाः प्रजायन्त इत्यस्य परिणामवादिनस्सांख्यास्ततो विपरिणमन्त इत्यर्थमाहुः। कोशस्तूपलक्षणतया योजनीयः। स चान्यथाभावो द्विविधस्तात्त्विकोऽतात्त्विकश्च। तत्र मृदादेर्घटादिरूपस्तात्त्विकोऽन्यथाभावः परिणाम इति व्यवह्नियते। मृगतृष्णादेर्जलादिरूपोऽतात्त्विको विवर्त इत्युच्यते। द्वयोरप्यन्यथाभावाविशेषाज्जनिधात्वर्थत्वेनोत्पत्तिपरिणामविवर्तेषु त्रिष्वप्युपादानस्यापादानत्वमनेन विधीयत इति सिद्धम्। इत्थं च मृत्पिण्डाद्धटो जायते, क्षीराद्दध्नः परिणतिः। ब्रह्मणो जमद्विवर्तत इत्येवं निर्बाधको व्यवहार इति विभावनीयमित्याहुः। तृजकाभ्यां कर्तरीति।। स्वतन्त्रेण सङ्केतितोयं संज्ञाशब्दोऽतिरिक्तो न तृजन्त [टि- न तृजन्त इति।। इदमयुक्तम्। अस्य संज्ञाशब्दत्वेऽपि तृजन्तत्वानपायात्। शास्त्रव्युत्पादितानां संज्ञिविशेषे विनियोग इति सिद्धान्तात्। अत एव वृद्धिगदैजित्यादीनां साधुत्वविधायकत्वनिराकरणं तत्र तत्रान्वर्थसंज्ञात्वकथनं च सङ्गच्छते। तथा चात्र समासानुपपत्तिरस्त्येवेत्याहुः।] इति तृजकप्रत्ययप्रकृतिभूतधातूपस्थाप्यक्रियान्वय्यर्थकषष्ठ्यन्तत्वाभावाच्च न समासानुपपत्तिरपीत्याहुः।। परे इति।।
केचित्तु [टि- मूले परे इत्युक्त्या धातुनिर्देशपक्ष एव निर्भरइति गम्यते। तत्र हेतुं विशदयति। केचित्त्वित्यादिना।] जनिधातुरेवात्र विवक्षितो न तु तदर्थकं धात्वन्तरम्। कर्तृग्रहणात्। अन्यथा हि जनिमत इति जनितुरित्येव वा ब्रूयात्तथा च जनिधातूपात्तक्रियानिरूपितकर्तृत्ववतो यदुपादानं तदपादानमिति सूत्रार्थः। परिणमतीत्यादियोगे च हेतुपञ्चम्येव। न च विधायकाभावात्तदसिद्धिरिति वाच्यम्। विभाषागुणेऽस्त्रियामित्यत्र वृत्तिकारादिसम्मतेन धूमादित्यादौ पञ्चमीसमर्थनार्थमावश्यकेन योगविभागेन च तत्सिद्धेः। न च जनितुरित्याद्युक्तौ जननाश्रयस्येत्यर्थाज्जन्यर्थकधातुप्रयोगाभावेपि तन्निरूपितोपादानत्ववतस्संज्ञापत्तौ मृदि घटोऽस्तीत्यादावप्यपादानत्वप्रसङ्गः। कर्तृग्रहणे च जन्यर्थक्रियाकर्तृत्वाभावान्निरुक्तस्थले मृदो नापादानत्वमिति तस्य धातुम्वरूपपरिग्रहप्रयोजकत्वे मानाभाव इति वाच्यम्। प्रकृतिरित्येतन्मात्रोक्तावपि जन्यस्य प्रकृतिरित्यर्थे लब्धे जनितृग्रहणस्याधिकार्थकताया औचित्येन जन्यर्थकधातूपात्तक्रियाश्रयत्वलाभात्तथाविधक्रियाश्रयत्वावच्छिन्ननिरूपकताकोपादानत्ववत एव संज्ञाविधानेनोक्तदोषनिवारणादतिरिच्यमानं कर्तृग्रहणं संज्ञाविधौ धातुस्वरूपपरिग्रहार्थमेवेति वक्तुं शक्यत्वादित्याहुः।।
भाष्यसम्मतत्वाच्चेति।। जायमानस्योत्पत्तिपूर्वकविभागमाश्रित्य विभागावधित्वेन ध्रुवमपाय इत्यनेनैव संज्ञासिद्धिरिति सूत्रमेतत्प्रत्याख्यातम्। निमित्तकरणपरत्वे तु तद्विषये निरुक्तरीत्या विभागासम्भवेन प्रत्याख्यानपरं भाष्यमसङ्गतं स्यादित्याशयः।
ननु भुवः प्रभव इत्यत्र भुव इति कर्तृक्विबन्तमेवास्तु। किं कर्तृग्रहणानुवृत्तिकल्पनया भावक्विबन्तत्वाश्रयणेन। न च तदनुवृत्त्यभावे प्राथमिकप्रकाशाश्रयस्य यः प्रभवः सोऽपादानमित्यर्थे हिमवति गङ्गा विद्यत इत्यत्राप्यधिकरणस्यापादानत्वं प्रवर्तेत। तदनुवृत्तौ च भूधात्वर्थनिरूपितकर्तृत्वोपहितस्य यः प्रभवस्तस्यापादानत्वमित्यर्थादुक्तस्थले भूधातोरभावेन तदुपस्थाप्यक्रियानिरूपितकर्तृत्वस्य गङ्गायामभावान्न दोषः। किञ्च कर्तृग्रहणाभावे यत्र कर्मत्वं हिमवति गङ्गां प्रभव यति भूतेश इति तत्रापि संज्ञाप्रवृत्तिः स्यादतो भावक्विबन्ततामाश्रित्य कर्तृग्रहणमवश्यमनुवर्तनीयमेवेति वाच्यम्। अनुवृत्तिसाधकप्रमाणाभावेनानुवृत्तिकल्पनाया अयुक्तत्वाद्गौरवाच्चेत्यत आह।। व्याख्यानादिति।। साहचर्याच्चेति।। चकारो हेत्वर्थः। साहचर्यहेतुकव्याख्यानादेव प्रमाणादिह भावक्विबन्तताकर्तृग्रहणानुवृत्तिश्चेति भावः। प्रमितलक्ष्यसंवाद एवात्र प्रधानं प्रमाणमिति तत्त्वम्। प्रथमप्रकाश इति।। चक्षुस्संयोगव्यवधायकदेशानन्तरदेशावच्छिन्नं प्राथमिकं ज्ञानमित्यर्थः।। शब्दाज्ञाने इति।। ल्यबन्तरहितवाक्येन समुदायशक्तिमहिम्ना यत्र ल्यबन्तार्थः प्रतीयते तत्र प्रतीयमानल्यबन्तार्थभूतक्रियान्वयिनोः कर्माधिकरणयोः पञ्चमीति वार्तिकार्थः।। वृत्त्येति।। एतद्भाष्यप्रामाण्याद्वाक्यैकदेशस्य सम्पूर्णवाक्यार्थे शक्तिस्वीकारस्यावश्यकत्वादिति भावः।। परिच्छेद्यादिति।। वनादग्रामो योजनमित्यादौ पञ्चम्या अव्यवहितोत्तरत्वमर्थः। योजनादिपदोत्तरविभक्तेश्चाव्यवहितोत्तरदेशवृत्तित्वम्। एवं च वनाव्यवहितोत्तरयोजनपरिमाणपरिच्छिन्नदेशाव्यवहितोत्तरदेशवृत्तिर्ग्राम इत्यादिको बोधः। कार्तिक्या आग्रहायमी मास इत्यादौ तु कार्तिक्यव्यवहितोत्तरमासपरिमाणपरिच्छिन्नकालाव्यवहितोत्तरवृत्तिराग्रहायणीत्येवं कालघटितस्स[टि- स एव बोध इति।। इदमयुक्तम्। आग्रहायण्यां कार्तिक्यव्यवहितोत्तरमासपरिमाणपरिच्छिन्नकालाव्यवहितोत्तरवृत्तित्वस्य बाधात्। परं तु कार्तिक्या इति पञ्चम्याः स्वावयवकत्वमर्थः। एवं च कार्तिक्यवयवकमासपरिमाणपरिच्छिन्नकालाव्यवहितोत्तरवृत्तिराग्रहायणीत्येव बोधो वक्तव्यः। वस्तुतोऽयं बोधो वार्तिकरीत्या। भाष्यरीत्या तु आद्यवाक्यस्य वनान्निसृत्य योजने गते ग्रामः प्राप्य इति वाक्यैकदेशरूपतया वनावधिकविभागानुकूलव्यापारसम्बद्धे योजने गते ग्रामः प्राप्य इति बोधः। योजनमिति प्रथमान्तत्वे गतं चेदित्यध्याहारेण बोधो वर्णनीयः। कार्तिक्या इत्यादेरपि कार्तिक्याः प्रभृति मासे गते आग्रहायणीत्येवार्थ इति स्पष्टं मञ्जूषायाम्। विशेषस्तु शेखरादितोऽवसेयः।] एव बोधः।। सिद्धत्वादितीति।। पञ्चमी विभक्त इत्यत्र विभक्तशब्दस्य भेदपरत्वेन यदवधिकं निर्धारणं तस्मान्निर्धार्यमाणनिर्धारणावध्योर्भेदे पञ्चमीत्यर्थात् माधुराः पाटलीपुत्रकेभ्य आढ्यतरा इतिवदस्मादितर इत्यादावपि निर्धारणावधिवाचकात्पञ्चम्या अभीष्टतया नीयार्थवाचकेतरशब्दयोगेपि पञ्चमी सिद्ध्यतीति न तद्विषये पञ्चमीविधानार्थमितरग्रहणं, किन्त्वर्थनिर्देशपरेणान्यशब्दग्रहणेनैवेष्टसिद्धेः प्रपञ्चकता मूलोक्ता युक्तैवेति भावः।
इदन्तु बोध्यम्। ईदृशविषये पञ्चम्या अवृत्तित्वमर्थः। तस्य च पदार्थैकदेशेतरत्वादावन्वयः। इत्थं चैतदवृत्तीतरत्ववानित्यादिरिह बोधः। केचित्तूत्कर्षः पञ्चम्यर्थः। एतदवधिकोत्कर्षविशिष्टेतरत्ववानित्यादिको बोध इति वदन्ति।
नन्वेवंरीत्यास्मादधिक इत्यादावधिकशब्दयोगेपि पञ्चम्या उपपन्नत्वाद्यस्मादधिकमित्यादिनिर्देशमूलकस्य पञ्चमीविधायकस्य वचनान्तरस्यानुसरणं व्यर्थमिति चेन्न। देवदत्तादधिको यज्ञदत्त इत्यादौ देवदत्तनिरूपितवृत्तित्वाभाववद्धर्मविशिष्टो यज्ञदत्त इत्यादिबोधवैलक्षण्यस्यानुभविकत्वेनाधिकशब्दस्य वृत्तित्वाभाववद्धर्मवदर्थकतया पञ्चम्या निरूपितत्वार्थकत्वेपि निरुक्तप्रकारेणावृत्तित्वार्थकत्वाभावात्पञ्चमी विभक्त इत्यास्याप्रवृत्त्या वचनान्तरस्यावश्यकत्वात्।
नन्वन्यार्थकशब्दयोगेपि कुतो न पञ्चमी विभक्त इत्यस्य प्रवृत्तिः। घटादन्य इत्यादौ घटनिरूपितवृत्तित्वाभाववद्धर्मवैशिष्ट्यस्य निर्बाधत्वादित्यत आह।। निर्धारकत्वाभावादिति।। निर्धारणावधिव्यावृत्तधर्मपुरस्कारेण निर्धार्यमाणस्य यत्रोपादानं तत्रैव तत्सम्भव इति भावः।। व्याख्यातत्वादिति।। भाष्यकृतेति शेषः। इदमेव व्याक्यानं कार्यकारणभावापन्नयोर्विभागभेदयोरभेदोपचारे बीजमिति तत्त्वम्।। घटादेक इति।। अन्यग्रहणस्यार्थपरत्वमनभ्युपगच्छतो भाष्यकारस्य मते त्वन्येतरशब्दयोर्योगे सूत्रेण पञ्चमीसिद्धावप्यन्यार्थकैकशब्दयोगे पञ्चमी न सिद्ध्यतीति तदर्थं प्रमाणान्तरमन्वेष्टव्यम्। फलति पुरुषाराधनमृते इत्यत्रान्येभ्योपि दृश्यत इति वार्तिकस्थदृशिग्रहणबलात्प्रवर्तमानाया द्वितीयायाः प्रतियोगित्वमर्थः। परमपुरुषाराधनप्रतियोगिकाभावप्रयोज्यः कर्मफलाभाव इत्यखण्डार्थः चैत्रं यावच्छीतमित्यत्र तु द्वितीयाया अवध्यवधिमद्भावोऽर्थस्तस्यैव द्योतकोऽसौ यावच्छब्दः। चैत्रशब्दश्च चैत्रानन्तरितचैत्रलाक्षणिकः। इत्थं च चैत्रानन्तरितचैत्रावधिकं शीतमिति बोधः।। अवधिमादायेति।।
केचित्तु अवधीकरणं तदर्थः। तद्योगे कर्मत्वविवक्षायां द्वितीया। तदविवक्षायां तु पातञ्जलभाष्यप्रयोगबलात्पञ्चमीति युक्तम्। धात्वर्थघटकैतादृशकर्मसामानाधिकरण्येन कर्मत्वमिति त्वयुक्तमेव। कर्मत्वविवक्षाविवक्षाभ्यां धातोरनेकार्थत्वकल्पनाया अन्याय्यत्वादित्याहुः।[टि- आहुरिति।। परे त्ववधीकरणं तदर्थ इति न युक्तम्। तथासति मेरुपृष्टस्यान्तरिक्षलोकाद्बहिर्भावापत्तेः। अवधिमादायेत्यर्थे तु अवधौ मेरुपृष्ठस्याभेदेनान्वयान्मेरुपृष्ठमवधिं स्वीकृत्येत्यर्थे पर्यवसन्ने तस्य तल्लोकघटकत्वमुपपद्यते। अस्मिन्नर्थे भाष्यादिप्रयोगद्यनुमितवचनबलात्पञ्चमी। आरभ्येत्यस्य स्वीकृत्येत्यर्थे तु कर्मत्वाद्द्वितीयैव। एवं चारभ्येत्यस्यार्थभेदेन प्रयोगव्यवस्था। न त्वेकत्रार्थे पर्यायेण विभक्तिद्वयम्। प्रभृत्यर्थयोगे तु पञ्चम्येव। न तु द्वितीयार्थमादाय द्वितीया। तस्य धात्वर्थत्वाभावेन कर्मत्वाप्राप्तेः। स्पष्टं चेदं मञ्जूषायाम्। एवं च धात्वर्थघटकावविरूपकर्मण्यभेदेन्वयाद्द्वितीयेत्याशयं मूलस्य परिकल्प्य धात्वर्थघटककर्मसामानाधिकरण्यात्कर्मत्वमित्ययुक्तमिति यदुक्तं तन्मूलाशयानभिज्ञतामूलकमेव। मदुक्ताशयस्य मञ्जूषादौ स्फुटत्वादित्याहुः।]
प्रभृतिशब्दयोगे परिकल्प्यमानायाः पञ्चम्या उपक्रमोपसंहारबलेन पञ्चम्यन्ततया निश्चितस्य कार्तिक्याः प्रभृतीति भाष्यकारीयप्रयोगस्यैव साधकत्वाद्यादृशार्थकस्तत्र प्रभृतिशब्दस्तादृशार्थकत्व एव समभिव्याहृतप्रभृतिशब्दस्य तत्कल्पनं नान्यत्रेति भावः।
हेतुतृतीयेति।। ननु क्रियाकारकभावेन कर्तृविशेष्यकत्वेन वा बोधेतृतीया, हेतुहेतुमद्भावेन हेतुविशेष्यकत्वेन वा बोधे पञ्चमीति विभिन्नविषयत्वादेव पञ्चम्या अप्रवृत्तौ व्यर्थमर्तरीति चेन्मैवम्। अनुर्लक्षण इत्येतत्सूत्रारम्भबलात्द्योतकतापक्षावलम्बेन हेतावित्यस्य तत्र वर्तमानात्प्रातिपदिकात्तृतीयेत्यर्थस्यावश्यकतया प्रकृतेपि तथैव न्याय्यत्वेन प्रकृत्यर्थे हेतुत्वस्य प्रकारतया भानमात्रेण कर्तृविशेष्यकबोधेपि परत्वात्पञ्चमीप्रवृत्तिरित्यकर्तरीत्यनेनैव तन्निवृत्तिरित्याशयात्।
केचित्तु हेतुशब्देन प्रकृतशास्त्रीयसङ्केतविषयः कर्तृप्रयोजकः कारणमात्रं चेत्युभयं गृह्यते। कृत्रिमाकृत्रिमन्यायप्रतिबन्धकतया सङ्केतविषयेषूभयगतेरभ्युपगमात्। इत्थं चर्णव्यतिरिक्ते हेतावित्यनेन कर्तृकरणयोरित्यनेन वा तृतीयाविधाने विशेषाभावेपि प्रकृतविषये सङ्केतविषयस्य कर्तृतानैयत्येन कर्तृविशेष्यकबोधेपि परत्वात्प्रसक्तायाः पञ्चम्याः परिहारार्थमकर्तरीत्यावश्यकम्। अत एवान्नस्य हेतोर्बन्धित इत्यादौ सङ्केतविषयेपि षष्ठीप्रवृत्तिरित्याहुः।।[टि- आहुरिति।। परे तु लौकिक एवात्र हेतुः। उभयगतिरितिन्यायात्। शास्त्रीये लौकिकमपि हेतुत्वमस्त्येव। व्यापकत्त्वात्तस्य। एवं चात्र विषये क्रियाकारकभावेनान्वयाभावात्कर्तृतृतीयायाः प्राप्त्यभावेन हेतुतृतीयापवादत्वमेवास्य युक्तम्। अन्यस्यासम्भवात्। किञ्च तयोरविशेषकथनमपि न सम्यक्। भवद्रीत्या बोधवैलक्षण्यस्य सत्त्वात्। सङ्केतविषयेऽपि लौकिकहेतुत्वसत्त्वादवर्तरीत्यावश्यकम्। अत एवान्नस्य हेतोर्बन्धित इत्यस्य नानुपपत्तिः। क्रियाकारकभावेनान्वये तु तृतीयैव, कारकविभक्ते र्बलवत्त्वादित्याहुः।]
अभिमान इति।। हरदत्तमते धूमादिशब्दानां जातिप्रवृत्तिनिमित्तकद्रव्यवाचकत्वेन तदतिरिक्तधर्मपरत्वाभावाद्गुणबोधकत्वाभावेन पञ्चम्य अप्रवृत्तिरिति योगविभागः।
केचित्तु गुणशब्देनाप्रधानतया ज्ञाप्याश्रयनिष्ठो ज्ञापकोपि गृह्यत इति तद्बोधकादपि पञ्चमी योगविभागमन्तरापि सुवचा। परन्तु पञ्चम्यर्थ ईदृशेषु ज्ञाप्यत्वम्। इत्थं च पर्वतो वह्निमान् धूमादित्यादौ धूमज्ञानजन्यज्ञानविषयीभूतवह्न्याश्रयः पर्वत इत्यादिको वोध इत्याहुः।।[टि-आहुरिति।। परे तु सत्त्वे निविशतेऽपैतीति लक्षितस्य गुणस्य ग्रहणे वार्तिकप्रयोगाद्योगविभाग इति हरदत्तः। योगविभागस्य भाष्येऽदर्शनाद्गुणेऽस्त्रियामिति प्रायिकमित्यन्ये। प्रायिकत्वेऽपि स एव वार्तिकप्रयोगो मूलम्। गुणशब्दोऽत्राप्रधानपर इति न युक्तम्। तथा विवक्षणेन धूमादग्निमानित्यस्य सिद्धावपि नास्ति घटोऽनुपलब्धेरित्यस्य सिद्धये अस्त्रियामित्यस्य प्रायिकत्वाश्रयणस्य तवाप्यावश्यकत्वादित्याहुः।]
उभयोस्समुच्चय इति।। समुच्चयार्थकान्यतरस्यांग्रहणेन मण्डूकानुवृत्त्या व्यवहितायाः पञ्चम्यास्सन्निहितायाश्च द्वितीयायाः प्रकृते सम्बन्धः। पञ्चम्यपेक्षया सन्निहितायाः षष्ठ्यतसर्थप्रत्ययेनेति षष्ठ्यास्तु न सम्बन्धो द्वितीयाविधायकेनैनपा द्वितीयेत्यनेन विच्छेदात्। षष्ठीद्वितीयाविधायकयोस्तु न पञ्चम्यास्सम्बन्धः। समुच्चयार्थकनिपाताभावाद्विशेषतो निर्दिष्टाभ्यां बाधाच्च मण्डूकानुवृत्तिः पञ्चम्याश्चोत्तरार्थमवश्यमाश्रयितव्या। ततश्च पञ्चमीद्वितीययोरुभयोरप्यत्र समुच्चय इति भावः।। व्याख्यानादिति।। पृथगादिषु पञ्चमी विधेयेति वार्तिकारम्भो लक्ष्यानुरोधश्चात्र बीजम्। उभयसमुच्चयो भाष्यानारूढत्वादप्रामाणिक इत्याह।। सामर्थ्यादिति।।[टि- सामर्थ्यादितीति।। यद्यप्येतदादिशरणमितिस्थितमित्यन्तस्य ग्रन्थस्य मूलभूतः शब्दरत्नग्रन्थ इदानीमुपलभ्यमानपुस्तकेषु नोपलभ्यते, तथापि प्रकृतव्याख्यानबलाद्व्याख्यानादिति बोध्यमित्यनन्तरं सप्तम्यपीतीति प्रतीकात्प्राक् ``वस्तुतस्तु पृथगादिषु पञ्चमी विधेयेति वार्तिकप्रत्याख्यानाय प्रवृत्तादन्यतरस्याङ्ग्रहणसामार्थ्यात्पञ्चमी भविष्यतीति भाष्यात्पञ्चम्येव समुच्चीयते। न द्वितीया। विना वातमित्यादिप्रयोगास्तु अन्यत्रापि दृश्यत इत्यनेन निर्वाह्या इति बोध्यम् इत्यर्थकः शब्दरत्नग्रन्थेऽधिकः पाठोऽस्तीत्यनुमातुं शक्यते। भावप्रकाशादिव्याख्यानपर्यालोचने तु एतत्पाठाभाव एव निश्चेतुं शक्यते।] षष्ठ्यतसर्थप्रत्ययेनैनपा द्वितीयेति सूत्रद्वये विच्छेदेपिं समुच्चयार्थकान्यतरस्यांग्रहणात्मकप्रयत्नवशादिह मण्डूकप्लृत्यादिना पञ्चम्यास्सम्बन्धो भविष्यतीति पृथक् पञ्चमीविधानाय वार्तिकारम्भो व्यर्थ इति तदर्थः। द्वितीयाया अपि समुच्चये तु तदीयसमुच्चयबोधनेनोपक्षीणत्वात्सामर्थ्यवर्णनमयुक्तं स्यादिति भावः। नन्वेवं विना वातमित्यादिप्रयोगाणामसाधुत्वप्रसङ्ग इत्यत आह।। अन्यत्रापि दृश्यत इति।। एवं च यत्र द्वितीयारुपोपपदविभक्तिविधायकशास्त्रन्तरानुपलम्भस्तत्र द्वितीयाविधानाय ततोऽन्यत्रापि दृस्यत इति वार्तिककारवचनमेव शरणमिति स्थितम्।।
मूले आवसथस्य दूरे इति।। दूरादावसथादित्यनयोस्सामानाधिकरण्यभ्रमनिरासार्थमेतद्विवरणमिति बोध्यम्।। अनुवृत्ते [टि- अनुवृत्ते त्वितीति। मूले सप्तम्यधिकरणे चेत्यस्य स्थाने सप्तम्यधिकरणे चेत्यत्रानुवृत्ते त्विति साम्प्रदायिकः पाठः। अनुवृत्ते दूरान्तिकार्थेभ्य इत्यत्रेति तदर्थः। एतत्पाठानुरोधीदं प्रतीकमिति बोध्यम्।] त्विति।। अधिकरणे तेभ्यो विभक्तिचतुष्टयविधानाय परिकल्पिते वाक्ये इति शेषः।
अत्रायं निष्कर्षः। सप्तम्यधिकरणे चेत्यत्र समुच्चयार्थकचकारेण पञ्चमीतृतीयाभ्यामनुवर्तमानाभ्यां सह दूरान्तिकार्थेभ्यो द्वितीयेत्यस्य सम्बन्धः। दूरान्तिकार्थेभ्य िति चावर्तते। तत्र सामान्येनाधिकरणे सप्तमीविधायकमेकं वाक्यम्। आवर्तिते दूरान्तिकार्थेभ्य इत्यत्र पूर्वसूत्रादसत्त्ववचनस्येत्यस्य प्रकृतसूत्रस्थसप्तमीग्रहणस्य च सम्बन्धादसत्त्ववाचिभ्यस्तेभ्यः प्रातिपदिकार्थमात्रे सप्तमीविधायकमपरं वाक्यम्। पञ्चमींतृतीयानुवृत्तिसहिते दूरान्तिकार्थेभ्य इत्यत्र च सप्तम्या अधिकरणे इत्यस्य च सम्बन्धादधिकरणेपि तेभ्यो विभक्तिचतुष्टयविधायकं तृतीयं वाक्यमित्थं च दूरान्तिकार्थेभ्यः प्रातिपदिकार्थमात्रे अधिकरणे च चतस्रो विभक्तयस्सम्पद्यन्त इति वदन्ति।।
तत्समानाधिकरणविशेषणत्वादिति।। अकत्त्वभूतक्रियाविशेषणत्वेन स्तोकं पचतीत्यादिवाक्यघटकस्तोकादिपदार्थानामसत्त्वरूपत्वमित् तदर्थः। ननु भावकृदन्तविषये त्यागो राग इत्यादौ लिङ्गसंख्याद्यन्वयसत्त्वेन दृष्टान्तासङ्गतिरत आह।। वैधर्ण्ये इति।। घञादिकृत्प्रत्ययाभिहितक्रियारूपार्थस्य यथा लिङ्गादिसम्बन्धस्तथा तिङ्समभिव्याहृतधातूपस्थाप्यस्य तस्य लिङ्गादिसम्बन्धाभावादसत्त्वरूपत्वं तत्सम्बन्धाभावस्यैवासत्त्वरूपत्वादिति भावः। ननु कृदभिहितभावस्य क्त्वाद्यन्तविषये लिङ्गादिसम्बन्धराहित्येनासत्त्वरूपताया निर्विवादतया साधर्म्यदृष्टान्तोपपादनं न समञ्जसमत आह।। यद्वेति।। पदार्थानां सत्त्वरूपत्वमसत्त्वरूपत्वं च तत्तच्छब्दशक्तिवैचित्र्याधीनम्। केन चिच्छब्देन सत्त्वरूपतया प्रतीयमान एवार्थश्शब्दान्तरेणासत्त्वरूपतया प्रतीयते। यथा कर्मादिपदबोध्यकारकशक्तीनां सत्त्वरूपत्वेपि विभक्तिबोध्यतायामसत्त्वरूपता। ततश्च घञाद्यभिहितस्य भावस्य सत्त्वरूपता। तुमुनाद्यभिहितस्य तस्यासत्त्वरूपतेत्यनुभवानुरोधिनी व्यवस्था न विरुद्ध्यतीति बोध्यम्। ननु कर्तृकर्माधिकरणानां यथा तत्तत्क्रियाश्रयत्वमेवं करणस्य व्यापारवत्तानियमेन सम्प्रदानापादानयोरपि प्रतिग्रहानुमत्यवधिभावोपगमादिभिः क्रियाश्रयत्वाविशेषात्कथं क्रियानाधारतया करणादिपरिग्रहोऽत आह।। धात्वर्थेति।। स्वनिष्ठकारकत्वव्याप्यतत्तच्छक्तिनिरूपकधात्वर्थानाश्रयैरिति तदर्थः। नन्वेवमपि यजेतेत्यादिविषये यागादौ करणत्वदर्शनेन करणत्वादिराहित्यमपि दुर्निरूपमत आह।। पदान्तरवाच्येति।। यागादीनान्तु स्ववाचकपदवाच्यक्रियानिरूपितं करणत्वमिति भावः। हन्तीति पलायत इत्यादौ तु हरिं नमेच्चेत्सुखं यायादित्यादाविव हेतुहेतुमद्भावो न तु करणत्वमिति बोध्यम्। वस्तुतो लिङ्गशून्यत्वे सत्यपादानत्वसम्प्रदानत्वरूपकारकशक्तिराहित्यमसत्त्वरूपतेति निराक्षेपः पन्था इत्याहुः। इति पञ्चमी।।
संसर्गविधयैवेति।। संसर्गताख्यविषयतयैवेति तदर्थः। प्रकारतया भानं तु संसर्गान्तरसापेक्षतया गुरुभूतं भाष्यकाराद्यसम्मतं चेति न युक्तमिति भावः।। प्राधान्यापत्तेरिति।। नन्वाख्यातवाच्यकर्तृकर्मणोः प्रकृत्यर्थक्रियां प्रत्यप्राधान्यदर्शनाद्विभक्तिवाच्यसंख्यायाः प्रकृत्यर्थविशेषणत्वदर्शनाच्च प्रत्ययार्थप्राधान्यनियमस्य व्यभिचरितत्वेन प्रकृतेपि विशेष्यवाचकपदोत्तरविभक्तिवाच्यसम्बन्धस्य प्रकृत्यर्थनिरूपितमप्राधान्यं सुवचमिति चेन्मैवम्। भावप्रधानमाख्यातमिति यास्कमुनिवचनबलेनाख्यातविषये प्रकृतन्यायसङ्कोचकल्पनेप्यन्यत्र तत्सङ्कोचेन प्रत्ययार्थस्याप्राधान्यकल्पनायां मानाभावेन संख्याविषये प्रकृतन्यायविरोधादेव विभक्तीनां द्योतकतापक्षस्य व्यवस्थापितत्वेन च प्रकृते षष्ठीवाच्यसम्बन्धस्य प्रकृत्यर्थविशेषणताया निर्युक्तिकत्वात्।। राजसम्बन्धीति।। स्वत्वसम्बन्धेन राजविशिष्टः पुरुष इति राजनिरूपितस्वत्ववान् पुरुष इति वा बोधादित्युचितम्। संसर्गतावादस्यैव व्यवस्थापिततया सम्बन्धत्वेन तद्भानस्यायुक्तत्वादिति वदन्ति।।[टि- वदन्तीति।। परे तु षष्ठ्यर्थः सम्बन्धत्वेन तत्तद्रूपेण च सम्बन्ध इत्यवश्यमभ्युपेयम्। न तु तत्तद्रूपेणैवेति नियमः। मातुः स्मरतीत्यादौ क्रियाकारकभावस्य तद्रूपेण भाने द्वितीयाप्रवृत्त्या सामान्यरूपेण भानस्यावश्यकत्वात्। तद्ध्वनयन्नग्रे मूले वक्ष्यति कर्मादीनां सम्बन्धसामान्येनान्वयविवक्षायामपीति। स्पष्टं चेदं मञ्जूषायाम्। अत एव राज्ञो दारपुत्रधनादिकमित्युपपद्यते। द्वितीयस्योदाहरणं राज्ञः पुत्र इति। एवं च राजसम्बन्धीति बोधस्यानौचित्यकथनमयुक्तमेव। संसर्गतया भासमानस्यापि ग्रामकर्मकं गमनमित्युल्लेखवत् राजसम्बन्धीत्युल्लेखो नानुचितः। एवमेव राजस्वत्ववानिति अवदीयबोधाकार उपपादनीय इत्याहुः।।]
तेषां सप्तसूत्रीति।। द्विरहर्भोजनमित्यादावभीष्ट एव समास इति भावः।। अनुवादायेति।। इत्थं च वार्तिकं सूत्रकाराभिप्रेतमेव न त्वपूर्वमिति सिद्धम्।
ननु हरिस्मरणमित्यादौ कारकषष्ठ्या समासे तस्य भावल्युडन्तोतरपदकतया गतिकारकोपपदादित्यस्य प्रवृत्तौ लित्स्वरेणोत्तरपदस्याद्युदात्ततया प्रकृतिस्वरे मध्योदात्तत्वं समासस्य, शेषषष्ठ्या समासे तु समासस्येत्यन्तोदात्तत्वमिति भवतु वैजात्यम्। इह तु परत्वाद्गतिकारकादित्येतद्बाधित्वा कारकात्परमनप्रत्ययान्तभावकर्मवाचकमुत्तरमन्तोदात्तमित्यर्थकस्यानो भावकर्मवचन इत्यस्य प्रवृत्तेर्न्याय्यतया वैजात्यस्य दुर्वचत्वान्मूलग्रन्थासङ्गतिरत आह।। करणल्युडन्तस्मरणादिशब्दैरिति।। अप्राप्तिरिति।। भावकर्मवाचकत्वाभावादिति बोध्यम्।। विषय एव नेति।। अत्रापि प्रकरणेऽनभिहिताधिकारसम्बन्धादनभिहितकर्मादीनां शेषत्वविवक्षायामेव षष्ठीविधानादिति भावः।। अपास्तमिति।। ननु मातुः स्मृतमित्यत्रादिकर्मबोधकात्कर्तरि निष्ठेत्ययुक्तम्। ``अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि। सुदत्तमनुदत्तं च निदत्तमिति चेष्यत इति भाष्य प्रामाण्यात्प्रशब्दवदवादीनामपि प्रादीनामादिकर्मद्योतकताप्रतीत्या तत्समभिव्याहारदशायामादिकर्मणि निष्ठाप्रत्ययोपपत्तावपि प्राद्यसमभिव्याहृतस्य प्रकरणाधीनतद्बोधकताप्रतिज्ञानेन कर्तृनिष्ठाविषयत्वे मानाभावादेवं विधस्य क्वाप्यदृष्टत्वाच्चेत्यत आह।। कर्मणश्शेषत्वेनेति।।
नपुंसकत्वं दुर्लभमिति।। विशेष्यभूतेऽर्थशब्दे तत्समानाधिकरणे किम्शब्दे चेत्यर्थः। आद्यं सामान्ये नपुंसकत्वम्। लक्षणाभाव इति।। ननु केनार्थः किमर्थस्यं किमर्थमिति तृतीयान्तेन समासे स्वीक्रियमाणे तृतीया तत्कृतार्थेनेत्यस्य प्रवृत्त्या कथं समाससाधुताबोधकशास्त्राभावः। किञ्च तृतीयेति योगविभागेन सुप्सुपेत्यनेन वा समास इत्यपि वक्तुं शक्यमित्यत आह।। अर्थासङ्गतिरिति।। निमित्तपर्यायाणां सर्वनाम्नश्च सामानाधिकरण्येन विशेषणविशेष्यभावे विभक्तिविधानमिह प्रकृतम्। निरुक्तसमासाश्रयणे च तद्वैकल्यमिति तदर्थः। कर्मधारये तु पुनरपि सामान्ये नपुंसकत्वमेवाश्रयणीयमिति क्लेशस्तदवस्थ इत्याह।। कोर्थ इत्यादि।।
ननु निमित्तकारणहेतुषु सर्वासां प्रायदर्शनमित्यस्य सर्वनामासर्वनामसाधारणत्वे सर्वनामसंज्ञासूत्रस्थभाष्यविरोधः। तत्र हि भवच्छब्दस्य हलन्तस्य सर्वनामत्वे प्रयोजनाभाव-। स्मैप्रभृतीनां सर्वनामकार्याणामवर्णान्तलक्षणत्वादित्युद्भाव्य सर्वनाम्नस्तृतीय चेति तृतीयाप्रवृत्तिः प्रयोजनमित्युक्तम्। असर्वनाम्नोपि वार्तिकेन षष्ठीतरविभक्तिसाधुत्वबोधने तदसङ्गतिः स्पष्टैवेत्यत आह।। यत्त्वित्यादि।। सूत्रमते इति।। वार्तिकमनालोच्य प्रवृत्तमिदं भाष्यम्। अथवा सूत्रकृतो वार्तिकापरिज्ञानात्तदनुरोधादिमे शङ्कासमाधाने भाष्यकारस्येत्याशयः।।
सार्वविभक्तिक इति।। एवञ्च नायं प्राग्दिशीयः पञ्चम्यन्तप्रकृतिकस्तसिः किन्तु वार्तिकबोधितोयमाद्यादित्वप्रयुक्तः षष्ठ्यन्तप्रकृतिक इति नेदं भाष्यं पश्चाच्छब्दसमवधाने पञ्चमीसाधकमिति तदाशयः। नन्वेनपा द्वितीयेत्यनेन योगविभागादिना द्वितीयाषष्ठीमात्र विधानाभ्युपगमे स्त्र्यधिकारात्परेणेत्यभियुक्तप्रयोगासङ्गतिरत आह।। परेणेति तृतीयेति।। ततश्च नायमेनपा द्वितीयेत्यस्य विषयः। किन्तु स्त्र्यधिकारादित्यत्रान्यारादिति शास्त्रबोधितदिक्छब्दयोगनिबन्धना पञ्चमी। परेणेति तु वृद्धो यूनेति सूत्रकारीयनिर्देशबलकल्पितवचनबोधिता सहार्थकशब्दसमभिव्याहारानपेक्षा तदर्थप्रतीतिमात्रसमेक्षा तृतीया। स्त्र्यधिकारावधिकपरत्वविशिष्टशास्त्रप्रतियोगिकसाहित्योपहितवासरूपविध्यभाव एतच्छास्त्राधिकरणक इत्यर्थोऽत्र विवक्षित इत्याशयः। नन्वेवमपि ततः परेण नानुवर्तत इति प्रयोगानुपपत्तिस्तदवस्थैव, परेणेत्यस्याधिकरणर्थकैनबन्तत्वमन्तरेणार्थसाङ्गत्याभावादत आह।। सार्वविभक्तिक इति।। इत्थं च तत इत्यस्य षष्ठ्यन्तत्वादेनबन्तयोगे योगविभागेन षष्ठ्या अपि साधुत्वबोधनान्न सूत्रविरोध इत्याशयः।।
ननु मूले पञ्चमी समुच्चीयत इत्युत्तरं न तु षष्ठीत्यादिकथनेन षष्ठ्यादयस्तिस्रोपि विभक्तयो न समुच्चीयन्त इति प्रतीयते तच्चायुक्तं, षष्ठ्याः प्रकृतसूत्र एव निर्देशात्। अत आह।। न विधीयन्त इति।। नन्वेवमपि प्रकृते षष्ठीविधानस्याभीष्टत्वात्तिसृणामत्र विधानाभाव इत्ययुक्तं तत्राह।। समुदायविधानाभावे इति।। एकसत्त्वेपि द्वयं नास्तीति प्रामाणिकप्रतीतेः षष्ठ्या विधाने सत्यपि षष्ठीद्वितीयातृतीयानां विधानाभाव इत्याशयः।।
उत्रेदं [टि- चेन द्वितीयातृतीययोस्समुच्चय इति शेखरे ब्रूवतो नागेशस्याशयं विवृणोति। अत्रेदं बोध्यमित्यादिना।] बोध्यम्। स्वरितत्वाभावात्पृथग्विनेत्यत्र विच्छिन्नत्वाद्दूरान्तिकार्थेभ्य इत्युत्तरसूत्रे द्वितीयाग्रहणाच्च न द्वितीयायास्समुच्चयस्तथा दूरान्तिकार्थैरित्येतत्सूत्रानन्तरमूत्रे तेभ्य इत्येव सिद्धौ पुनरपि दूरान्तिकार्थेभ्य इत्युक्तेरुत्तरसूत्रे षष्ठ्याः प्रकृतसूत्रे द्वितीयायाश्च सम्बन्धाभाव इत्येवमात्मकवैजात्यसूचनादिह तृतीयाया अपि न समुच्चयः, किन्त्वन्यतरस्यांग्रहणबोधितसमुच्चयबलाद्व्यवहिताया अपि पञ्चम्यास्सम्बन्धादनेन सूत्रेण षष्ठीपञ्चम्योरेव विधानं न तु सन्निहितयोरपि द्वितीयातृतीययोरिति वदन्ति।।
ननु दिवस्तदर्थस्येत्यत्र शेषग्रहणसम्बन्धेपि शेषत्वेन विवक्षिते कर्मण्यनेन सूत्रेण विधीयमानायाः षष्ठ्याः प्रतिपदविहितत्वादुपसर्गानुपसर्गसाधारण्येन नित्यं समासाभावस्य प्रसक्तावुपसृष्टस्य दिवेः कर्मणि शेषत्वेन विवक्षिते प्रतिपदविधानायास्तस्या वैकल्पिकत्वे पाक्षिकतया प्रसक्तां समान्यभूतशेषषष्ठीमादाय समासलाभाय विभाषोपसर्ग इत्युत्तरसूत्रमावश्यकम्। तथा शेषत्वेन विवक्षिते कर्मणि द्वितीयाविधायकसूत्रान्तराभावाद्ब्राह्मणे तथाभूते कर्मणि द्वितीयाविधानाय तदुत्तरमपि सूत्रमावस्यकम्। तस्मात्कथमेतत्सूत्रद्वयवैयर्थ्यपरिहारः प्रकृतसूत्रे शेषग्रहणसम्बन्धाभावे प्रमाणं स्यादत आह।। अयं भाव इति।। नोपसर्ग इति न्यासेनेति।। अनन्तरस्येति न्यायात् षष्ठी शेष इत्यस्य न निषेध इत्याशयः। तदाह।। शेषषष्ठ्यां समासविकल्पेनेति।। दिवस्तदर्थस्यानुपसृष्टस्येति तु नोक्तम्। उत्तरसूत्रेप्यनुपसृष्टग्रहणसम्बन्धे गां प्रति दीव्यन्तीत्यत्र द्वितीयानापत्तेः। न च कर्मणि द्वितीयेत्यनेनैव तत्सिद्धिरिति वाच्यम्। प्रकृतसूत्रे सेषग्रहणसम्बन्धे केवले कर्मणि द्वितीयाया निर्विवादतया सूत्रवैयर्थ्यापत्त्या तत्रापि शेषग्रहणसम्बन्धस्यावश्यकत्वेन तथाविधे कर्मणि प्रकारान्तरेण द्वितीयाया दुर्वचत्वात्।। अयुक्तत्वादिति।। ननु सूत्रसार्थक्याय मण्डूकानुवृत्तिराश्रीयते। तत्राह।। वक्ष्यमाणोदाहरणे इति।। न प्रवर्तत इति।। ब्राह्मणे कृदन्तोदाहरणानां समासयोग्यानामनुपलम्भादित्याशयः। नन्वसर्वदर्शिनामस्मदादीनां शेषत्वेनाप्रतीतिरुदाहरणानुपलम्भो वा कथं त्रिसूत्र्यामस्यां शेषग्रहणं प्रतिबध्नीयादित्यत आह।। अत एवेति।। प्रतिदीव्यन्तीत्यादिसमासयोग्यताविरहवतां तिङन्तानामुदाहरणेन शेषग्रहणसम्बन्धपूर्वकसमासप्रतिबन्धकीभूतप्रतिपदविधानषष्ठीविधायकत्वाभावस्त्रिसूत्र्या भाष्यकारेण सूचित इत्याशयः।
ननु तिङन्तप्रकृतिकत्वेन विधीयमानकल्पबाद्यन्तप्रकृतिकसुबन्तानां प्रेष्यकल्पमित्यादीनां समासयोग्यतया कथं तत्प्रसक्त्यभाव इत्यात आह।। न प्रैषेः प्रयोग इति।। प्रसिद्ध इति शेषः। ततश्च प्रयोगप्रसिद्ध्यभावमूलकोयं समासप्रसक्त्यभाव इति बोध्यम्।
ननु कृतपूर्वी कटमित्यादौ कृतादेरविवक्षितकर्मकत्वप्रयुक्तेनाकर्मकत्वेन भावक्तान्तत्वमिति यद्युच्यते तर्हि पश्चादपि कर्मसम्बन्धालाभादुक्तोदाहरणासम्भवेन व्यावर्त्यालाभः। यदि च कर्मक्तान्तघटित एवायं प्रयोग इत्युच्यते, तदाप्यनभिहिताधिकाराद्द्वितीयाया अनुपपत्तिः षष्ठ्याश्चाप्रसक्तिरिति कथमिदं कृद्ग्रहणस्य प्रयोजनं स्यात्तत्राह।। तद्धितवृत्तेः पूर्वमिति।। पूर्वमविवक्षा पश्चात्तु तद्विवक्षा, जातसंस्कारस्य तु न निवृत्तिरकृतव्यूहपरिभाषात्र शास्त्रे नास्त्येवेति भावः। नन्वेवं घटं क्रियत इत्यादयोपि प्रयोगास्साधुत्वेन व्यवह्रियेरन्नित्यत आह।। एतद्वृत्तिविषय एवेति।।[टि- एतद्वृत्तिविषय एवेतीति। इदानीन्तनपुस्तकेषु तद्धितविषय एवेति पाठो दृश्यते। तत्पाठेऽधीती व्याकरणे इत्यादेरपि सङ्ग्रहस्सुलभः। भावप्रकाशपर्यालोचनायां त्वेतद्वृत्तिविषय एवेत्येव पाठ इति प्रतीयते। तत्पाठेऽधीती व्याकरणे इत्यादेस्सङ्ग्रहायैतादृशवृत्तिविषय इति व्याख्येयम्। अत एव शेखरे ईदृशवृत्तिमात्रविषयताया भाष्यसम्मतत्वं प्रतिपादितम्। वृत्तावीदृक्त्वं च दृश्यमानप्रयोगकत्वमिति बोध्यम्।] भाष्यानुग्रह एवात्र शरणम्। ननु नपुंसके भावे क्त इत्यस्य भ्रान्तं देशमित्यादिप्रयोगदर्शनेन सकर्मकाकर्मकसाधारणतया तेन सिद्धे पूर्वमविवक्षितस्य पश्चाद्विवक्षेति क्लिष्टकल्पना न युक्ता तत्राह।। अकर्मकेभ्य एवेति।। सकर्मकेभ्यः कर्मण्यकर्मकेभ्यो भाव इत्यर्थके तयोरेव कृत्यक्तखलर्था इत्यत्र निष्ठेति विहितस्य नपुंसके भावे क्त इति विहितस्य चाविशेषाद्ग्रहणमिति भावः। एवं स्थिते भ्रान्तं देशमित्यत्र क्तप्रत्ययोपपत्तिं दर्शयति।। चेन तस्य भावेपि विधानादिति।।
ननु कर्तृकर्मणोःकृतीत्यस्य कृदन्तोपस्थाप्यक्रियान्वयिनोः कर्तृकर्मणोः षष्ठीत्यर्थः। एवं च कृतपूर्वी कटमित्यादावपि कटादिकर्मणां कृतादिपदार्थान्वयितया कृदन्तोपस्थाप्यक्रियान्वयित्वाविशेषात्कथमिह कृद्ग्रहणेन षष्ठीव्यावृत्ति। न च सति कृद्ग्रहणे कर्तृकर्मणोरित्यस्य कृदन्तमात्रपर्याप्तशक्तिजन्योपस्थितिविषयक्रियान्वयिनोः कर्तृकर्मणोरित्यर्थकतया कृतपूर्वीत्यादौ तद्धितान्तपर्याप्तशक्तिजन्योपस्थितिविषयक्रियान्वयसत्त्वेपि षष्ठीप्रवृत्तिप्रयोजकतथाविधक्रियान्वयाभावेन कृद्ग्रहणस्य षष्ठीव्यावर्तकत्वे बाधकाभावः। नापि न लोकेति निष्ठान्तत्वप्रयुक्तनिषेधस्याप्यवकाशः। निष्ठान्तपर्याप्तशक्तिजन्योपस्थितिविषयक्रियान्वयिनोरेव कर्तृकर्मणोर्निषेधविषयत्वादिति वाच्यम्। निरुक्तरीत्या पर्याप्तिनिवेशे तण्डुलानां पाचकपुत्रः पाचकतर ओदनानामित्यादौ समासतद्धितान्तविषये कृदन्तमात्रपर्याप्तशक्तिजन्योपस्थितिविषयक्रियान्वयाभावेनाभीष्टायाः षष्ठीप्रवृत्तेर्व्याघातात्। न च शेषत्वविवक्षया तादृशे विषये षष्ठी शेष इति सामान्यशास्त्रेणैव षष्ठीप्रवृत्त्या निर्वाह इति वाच्यम्। कर्मत्वविवक्षया षष्ठी शेष इत्यस्य पर्याप्तिनिवेशेन कर्तृकर्मणोरित्यस्य चाप्राप्तौ द्वितीयान्तघटितस्य तण्डुलान् पाचकपुत्रः पाचकतर ओदनानीत्याद्यनिष्टप्रयोगस्य दुर्वारत्वादिति चेत्सत्यम्। भावक्तान्तानां कृतादिशब्दानामेतादृशवृत्तिघटकताव्यतिरेकेणान्यत्र क्वापि कर्मान्वययोग्यक्रियोपस्थापकत्वेन प्रयोगादर्शनाद्वृत्तिघटकानां तेषां तथाविधक्रियोपस्थापकशक्तिकल्पनायां मानाभावेन समुदायगतैकार्थीभावात्मकशक्तेरेव कर्मान्वयोपयोगिक्रियोपस्थापकताकल्पनाया औचित्येन कृदन्तोपस्थाप्यक्रियान्वयाभावादेव सति कृद्ग्रहणे कर्तृकर्मणोरित्येतत्सूत्रविधेयभूतषष्ठ्याः प्रसक्त्यभाव इति युक्तमेव कृद्ग्रहणस्य षष्ठीनिवर्तकत्वम्। पर्याप्तिनिवेशे तु न मानम्। प्रामाणिकप्रयोगविरोधश्च, न लोकेत्यत्रापि निष्ठान्तोपस्थाप्यक्रियान्वयिनोः षष्ठी नेत्येवार्थो न तु पर्याप्तिघटितः अत एव कटं कृतवत्पुत्र इत्यादावपि निषेधप्रवृत्तिर्निर्बाधा। निषेधस्य पर्याप्तिघटितत्वे विधेरपि कृतन्तपर्याप्तशक्तिजन्योपस्थितिविषयक्रियान्वयिनोरेव कर्तृकर्मणोष्षष्ठीविधायकतया प्रकृतविषये कर्मणि द्वितीयेति परमोत्सर्गस्य निश्शङ्कं प्रवृत्त्या निर्वाह इति त्वयुक्तमेव, तण्डुलानां पाचकपुत्र इत्यादौ सर्वानिष्टस्य द्वितीयान्तप्रयोगस्य वारयितुमुपायाभावात्। न चैतादृशेषु क्रियायाः पदार्थैकदेशतया वृत्त्यघटककर्मसम्बन्धस्य तत्र दुर्वचत्वात्कथं षष्ठ्याः प्रसक्तिरिति वाच्यम्। देवदत्तस्य गुरुकुलमित्यादिप्रयोगानुरोधादेकदेशान्वयदोषस्य सनिरूपकपदार्थातिरिक्तविषयतया क्रियात्वस्य कारकांशे नित्यसाकाङ्क्षत्वेन निरूपकतया तादृशान्वयस्य दूषणाधायकत्वायोगादतो न काप्यनुपपत्तिरिति विभावनीयमित्याहुः।।
न काप्यनुपपत्तिरिति।। लक्ष्यानुसारिणा शास्त्रानित्यत्वेन द्वितीयासमर्थनमपेक्ष्य अध्याहारेण तत्समर्थनमेव युक्तमित्याशयः। ननु तदर्हमित्ययं व्यस्त एव प्रयोग इत्यत्र यदि किञ्चित्प्रमाणमुपलभ्येत तदा तन्निर्देशोपपत्तिसमर्थनायावश्यकमनित्यत्वं ज्ञापयितुं शक्यते, प्रमाणाभावाच्च समस्त एवायं प्रयोग इति सामासिकलुका निर्वाहसम्भवात्कथमुक्तार्थज्ञापकत्वमत आह।। अयं भाव इति।। बोधनार्थ इति।। एवं चासमस्तत्वानित्यत्वयोरुभयोरप्ययमेव निर्देशः प्रमाणमिति भावः।। निरस्तमिति।। ननु योगविभागमूलकेनानेन न्यासेन सम्भावितस्य गौरवस्य कथमसमस्ततायां प्रामाण्यं स्यात्, यत इदं पदगौरवाद्योगविभागो गरीयानिति परिभाषाविरुद्धं, तत्राह।। अत एवेति।। विगृह्यत इति।। किञ्चार्थनिर्देशेषु समासनिर्देशस्सूत्रकारशैलीविरुद्ध इति न तन्निरासाय प्रमाणान्तरापेक्षितत्वम्।। न दृश्यत इति।। इदमेवाभिसन्धाय धायैरामोदमिति भट्टिश्लोकं गृहीत्वेत्यध्याहारमाश्रित्य जयमङ्गलाकारो व्याचख्यौ। सौत्रत्वादेव निर्देशोपपत्तिरनित्यत्वेन समर्थनीयस्य प्रामाणिकप्रयोगस्यान्यत्रानुपलम्भश्चेति तदाशयः।।
वार्तिकादिति।। इदं च वार्तिकं निष्ठातयोगे न लोकेति कारकषष्ठ्याः प्रतिषेधात् क्तस्य च वर्तमान इति सूत्रे कात्यायनेनारब्धम्। यदि तु प्रतिषेधविषयेऽपि शेषत्वविवक्षया षष्ठी प्रवर्तेत तदा वार्तिकारम्भवैयर्थ्यं स्पष्टमेव। ततश्च कारकषष्ठीप्रतिषेधविषये शेषलक्षणाया अपि षष्ठ्याः प्रतिषेध इत्यर्थे वार्तिकमिदं ज्ञापकमित्याशयः। ननु वार्तिकारम्भस्योक्तार्थज्ञापकत्वे प्रत्याख्यानदशायां ज्ञापकसामग्र्यभावेन विषेधाभावात्प्रतिषेधविषयेपि शेषषष्ठ्याः प्रवृत्तेरव्याधातादारम्भ प्रत्याख्यानयोः फलवैजात्येन भाष्यकारीयं प्रत्याख्यानमनुपपन्नं स्यादत आह।। प्रत्याख्याने त्विति।। आरम्भप्रत्याख्यानयोस्समानफलकतासम्पत्त्यर्थमुक्तविषयादन्यत्र शेषलक्षणायाष्षष्ठ्याः अनभिधानमाश्रयितव्यमतो न प्रत्याख्यानपरं भाष्यमनुपपन्नमिति तात्पर्यम्। क्तस्य च वर्तमाने इत्यास्याधिकरणवाचिनश्चेत्यस्य च शेषलक्षणां षष्ठीमाश्रित्य न प्रत्याख्यानसम्भवः। तत्तत्क्रियाकर्तृत्वविषयकबोधं निर्वोढुमस्य सूत्रद्वयस्यावश्यकत्वात्। न च कर्तृत्वाविवक्षायां सम्बन्धसामान्यबोधोपपादिका पाक्षिकी शेषलक्षणापि षष्ठी प्रवर्तेतेति वाच्यम्। इष्टापत्तेः। अत एवोत्तरसूत्रशेषे भाष्ये सतोप्यविवक्षातश्शेषलक्षणा षष्ठी यदि प्रवर्तेत तदा चातुश्शब्द्यं प्राप्नोत्यधिकरणनिष्ठायामिदमहेः सृप्तं, कर्तृनिष्ठायामहिस्सृतो, भावनिष्ठायामहिना सृप्तं, सम्बन्धसामान्यविवक्षायामहेस्सृप्तमित्युद्भाव्य प्रतिपादितमिष्यत एव चातुश्शब्द्यमिति।। न च नपुंसके भावे क्तस्य योगे षष्ठ्या उपसंख्यानमिति वार्तिकस्यापि कर्तृत्वविषयकबोधनिर्वाहार्थमावश्यकत्वेन शेषषष्ठ्या तत्प्रत्याख्यानमप्यनुपपन्नमिति वाच्यम्। भाष्यप्रामाण्येन तद्विषये कर्तृत्वविषयकबोधस्यानिष्टतया वार्तिकारम्भेपि कथं चिच्छेषग्रहणसम्बन्धेन प्रकारान्तरेण वा शेषत्वेन विवक्षित एव कर्तरि षष्ठ्या विधेयत्वेनारम्भ प्रत्याख्यानयोर्बोधवैलक्षण्यस्य दुर्निरूपतया प्रत्याख्याने बाधकाभावात्। न च शेषत्वेन विवक्षित एव कर्तरि वार्तिकेन षष्ठीविधाने तस्याः प्रतिपदविधाना षष्ठी न समस्यात इत्येतन्निषेधविषयतया समासाभावार्थमावश्यकस्य तस्य वार्तिकस्य प्रत्याख्यानमनुपपन्नमेवेति वाच्यम्। धातुविशेषोपस्थापिततत्तत्क्रियानिमित्तककारकविशेषे शेषत्वविवक्षायां विधीयमानाया एव तस्याः प्रतिपदविधानषष्ठीत्वेन प्रकृतविषये तदयोगात्। न च निषेधोऽयं शेषलक्षणायाः षष्ठ्यास्सामान्यसूत्रेणैव सिद्धौ तत्तच्छास्त्रवैयर्थ्यमूलकतया प्रकृतविषयेपि तद्रीत्या वैयर्थ्यस्य सूपपादत्वेन समासनिषेधविषयताया निर्विवाद इति वाच्यम्। तत्तच्छास्त्रवैयर्थ्यस्योपसञ्जातविराधन्यायेन लुगभावकल्पकत्वेपि समाससंज्ञाप्रवृत्तिविधातकत्वे मानाभावेन निषेधस्यापूर्वतया ज्ञोऽविदर्थस्येत्यादिप्रकारणविषयस्य प्रकृतवार्तिकांशे समासनिषेधबोधकत्वे मानाभावात्। अतः कृदन्तयोगनिमित्तकत्वेन विधीयमानषष्ठीविषयेण कृद्योगा च षष्ठी समस्यत इति वार्तिकेन बोधितस्य समासस्य पाक्षिकतया प्रवृत्तौ बाधकाभावेन निष्फलस्यास्य वार्तिकस्य प्रत्याख्यानं युक्तमेवेत्याशयः।
नन्वधिकसङ्ग्रहार्थमेवेदं प्रत्याख्यानं वार्तिककारीयाज्ञानकल्पनायाः प्रत्याख्यानविषये सर्वत्रैव क्लृप्ततया प्रकृतविषयादन्यत्रानभिधानकल्पनापेक्षया तस्या एव कल्पनाया युक्तत्वान्नोक्तार्थज्ञापनसम्भव इत्यत आह।। ध्वनितमिति।।[टि- ध्वनितमितीति।। सा नेत्यनन्तरं ``अत एवेत्याहेत्यन्तग्रन्थस्थाने पूरणगुणेति सूत्रे ध्वनितमिदमित्यरुचेराह इति पाठः क्वचिद्दृश्यते। तदनुरोधेनेदं व्याख्यानम्। अयमेव पाठस्साम्प्रदायिकः, व्याख्यातृसम्मतश्च। इदामीन्तनशब्दरत्नग्रन्धेष्वयं पाठो नोपलभ्यति।] तत्र हि भाष्ये सति किमुदाहरणं, ब्राह्मणस्य पक्ष्यन् ब्राह्मणस्य पक्ष्यमाण इत्युक्त्वा कारकषष्ठ्याः प्रतिषिद्धत्वाच्छेषलक्षणायां च तस्यामोदनादिपदार्थान्तरसापेक्षतया सामर्थ्याभावात्समासाप्रसक्त्या नेदमुदाहरणमित्युक्तम्। धातूपस्थाप्यक्रियायां सम्बन्धसामान्येन पदार्थान्तरान्वयसमर्पकतया तदंशे शेषलक्षणषष्ठीसद्भावे च सामर्थ्यस्य सुवचतया भाष्यमसङ्गतमेव स्यादतः कारकषष्ठीप्रतिषेधविषये शेषलक्षणाया अपि षष्ठ्याः प्रतिषेधं भाष्यकारो ध्वनयतीत्याशयः।
केचित्तु नेदं भाष्यं कारकषष्ठीप्रतिषेधविषये शेषषष्ठीप्रतिषेधबोधनपरं, किन्तु ब्राह्मणस्य पक्ष्यन् ब्राह्मणस्य पक्ष्यमाण इत्यनयोस्संदंशविषयकनिषेधोदाहरणत्वाभावप्रतिपादनपरम्। तथा हि पक्ष्यन् पक्ष्यमाण इत्यत्र विक्लित्तिरावर्जनं वा पचेरर्थः। तत्र विक्लित्तौ ब्राह्मणस्य कर्मत्वमयुक्तम्। प्रतिषेधङ्गीकारान्यतरात्मके चावर्जने तत्सम्भवेपि न लोकेति षष्ठ्याः प्रतिषेधः सम्बन्धसामान्यविवक्षायां च विक्लित्तौ ब्राह्मणस्यौदनादिद्वारकः, प्रतिषेधाङ्गीकारयोश्च गुणक्रियाद्वारक एव प्रसिद्ध इत्यसामर्थ्यात्समासाप्रसक्तेर्नेदमुदाहरणमित्येव भाष्यतात्पर्यम्। न तूदाहरणान्तराभावे। अत एव सद्ग्रहणं न कर्तव्यमिति न प्रत्याख्यातम्। अत एव प्रकृतनिषेधविषयतया ब्राह्मणस्य कुर्वन् कुर्वाण इत्यादिकः प्रामाणिकः प्रयोगः। न च शेषलक्षणषष्ठ्यन्तपदार्थस्य स्वान्वययोग्यनामार्थे सम्भवत्यसत्त्वभूतक्रियान्वयस्याव्युत्पन्नत्वमस्माद्भाष्यादेव गम्यते, ततश्च कुर्वन् कुर्वाण इत्यादौ कृदन्तरूपनामार्थे षष्ठ्यन्तपदार्थसम्बन्धप्रयोज्यसमासनिषेध विषयतया निरुक्तप्रामाणिकप्रयोगोपपत्तेस्साक्षात्क्रियान्वये शेषलक्षणषष्ठ्याः प्रतिषेध इत्येव कुतो न सल्प्यत इति वाच्यम्। नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः। न जातु कामः कामानां न पुंसां वामलोचना, इत्यादिप्रामाणिकप्रयोगविरोधस्य दुर्वारत्वात्। पक्ष्यन् पक्ष्यमाण इत्यात्रापि कृदन्तरूपनामार्थान्वयेन प्रसक्तसमासनिषेधविषयतया तदीयोदाहरणत्वसम्भवेनोदाहरणत्वाभावोपपादनपरभाष्यासाङ्गत्यपरिहारासम्भवाच्च। तस्मात्पक्ष्यन् पक्ष्यमाण इत्यनयोश्शेषत्वेन साक्षात्क्रियायां शतृशानजन्तार्थे वा षष्ठ्यन्तपदार्थान्वयस्यानभिधानमित्येव भाष्याशयो न तु कारकषष्ठीप्रतिषेधविषये शेषषष्ठ्याः प्रतिषेध इति।। सर्वत्र प्रतिषेधविषये शेषषष्ठ्या अनभिधानंकल्पनापेक्षया तावन्मात्रकल्पनायास्समञ्जसत्वाच्चेति वदन्ति।।[टि- वदन्तीति। परे तु ब्राह्मणस्य कुर्वन्नित्यादेः स्वोत्प्रेक्षितार्थे प्रामाणिकत्वमभ्युपेत्य तद्धलेन भाष्योदाहृतयोस्तन्मात्रतात्पर्यकत्वकल्पनमयुक्तम्। कुर्वन्नित्यस्य पक्षयन्नित्यतो विशेषाभावात्। अत एवाग्रे भाष्ये ब्राह्मणस्य कृत्वेत्यत्र या श्रूयते षष्ठी सा बाह्यमर्थमपेक्षते कटमिति। तत्रासामर्थ्यान्न समास इत्युक्तं सङ्गच्छते। एतदभिप्रायेणैव शेखरे भाष्यफक्किकां विहाय पक्ष्यन्नित्यत्र कुर्वन्निति, ओदनमित्यत्र कटमिति च विन्यस्य न चोदाहरणमादरणीयमिति न्यायमभ्युपेत्य भाष्यमर्थतः प्रदर्शेतम्। भाष्योक्तोदाहरणद्वयमात्रतात्पर्यकत्वे तदसङ्गतिः स्पष्ठैव। किञ्च प्रमाणानां सामान्ये पक्षपातात्सङ्कोचकल्पनमयुक्तम्। यत्र तु प्रयोगदर्शनं तत्र शेषषष्ठ्यर्थान्वययोग्यपदार्थान्तरसम्बन्धौचित्यस्य मनोरमायां सूचितत्वेन सामान्येनामभिधानमयुक्तमेवेत्याहुः।।]
ननु स्फुटोपममित्यत्रोपमाशब्दस्योपमानवाचकतया सहार्थयोगनिमित्तकत्वेन तृतीयायां शम्भुनिरूपितसाहित्यविशिष्टस्फुटोपमानसम्बन्धीत्यर्थस्य लाभादभीष्टमुपमानत्वं शम्भोर्न प्रतीयेतेत्यत आह।। भावसाधन इति।। सादृश्यार्थक इत्यर्थः। इत्थं च शम्भुनिरूपितसाहित्यविशिष्टसादृस्यसम्बन्धीत्यर्थे शम्भुनिरूपितसादृश्यसम्बन्धीत्यर्थस्यैव फलविधया भासमानत्वेन शम्भोरेव समुचितमुपमानत्वं प्रकृते प्रतीयत इत्यभीष्टसिद्धिरित्याशयः।। इति षष्ठी।।
आधारोधिकरणमित्यधिकरणसंज्ञाविधायकमनुशासनम्। तत्र कस्यायमाधार इत्याकाङ्क्षायां कारकाधिकारबलात्क्रियाया इत्यस्य लाभेपि फलव्यापारान्यतररूपायास्तस्यास्साक्षादाधारस्य कर्तृत्वकर्मत्वयोरभिधानात्पारम्परिकमाधारत्वमत्राश्रयणीयम्। ततश्च कर्मद्वारा फलाधारः कर्तृद्वारा व्यापाराधारश्छाधिकरणामिति पर्यवस्यति।। कारकान्तरद्वारकक्रियाश्रयत्वं तु नाधिकरणसंज्ञाप्रयोजकम्। ``कर्तृकर्मव्यवहितामसाक्षाद्धारयत्क्रियाम्। उपकुर्वत्क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृत मिति हर्युक्तेः। अत एव ग्रामे ब्राह्मणेभ्यो ददाति रथ्यायां वृक्षात्प्रचलतीत्यादौ ग्रामरथ्यादीनां न प्रधानक्रियानिरूपितमधिकरणत्वम्। किन्त्वध्याह्नियमाणविध्यतिक्रियाद्वारकमेवेत्यभियुक्ताः। तस्य चाधिकरणस्य कर्तृकर्मद्वारकपरम्परया क्रियायामेवान्वयः। कारकत्वात्। क्रियान्वयित्वमेव हि कारकत्वम्। अक्षशौण्ड इत्यादौ च दध्योदनादाविवान्तर्भूतक्रियाद्वारकसामर्थ्यमूलकस्समास इति प्राञ्चः।
नव्यास्तु यस्य यद्रद्वारा कारकत्वं तस्य तद्द्वारैव क्रियान्वयस्य न्याय्यत्वादधिकरणकारकस्य कर्तृकर्मणोरेवान्वय इति मन्यमाना अक्षशौण्ड इत्यादावक्षविषयकशौण्डत्ववानित्याद्यर्थस्यैव सर्वानुभवसिद्धतया क्रियान्तराध्याहारमूलकसामर्थ्यकल्पनाप्रयासो विफलः। भूतले घटो नास्तीत्यादौ भूतलवृत्तिर्यो घटस्स नास्तीत्येवार्थ इति वदन्ति।। परन्त्वेतन्मते ह्रदे वह्निर्नास्तीत्यादौ वह्न्यादेर्ह्रदादिनिरूपितवृत्तित्वबाधादप्रामाण्यप्रसङ्ग इत्याहुः।[टि- आहुरिति।। परे तु शाब्दिकनये बौद्धपदार्थाङ्गोकारेणाप्रसिद्धप्रतियोगिकाभावबोधाङ्गीकारान्न ह्रदे वह्निर्नास्तीत्यत्र बोधानुपपत्तिः। परेषां तदनभ्युपगमेऽपि भ्रमात्मिका आहार्यभ्रमात्मिका वा प्रतियोगिप्रसिद्धिरवश्यमभ्युपगन्तव्या। अतएव नान्तरिक्षे जुहोतीति वाक्याद्बोध उपपद्यते। स्पष्टं चेदं मञ्जूषायाम्। प्रतियोगिज्ञानस्य भ्रमत्वेऽभावज्ञानस्य प्रमात्वमर्थादवगम्यते। अत एव नान्तरिक्षे जुहोतीत्यस्य प्रामाण्यम्। तत्रान्यथाबोधो वर्णयितुमशक्यः। एवं प्रकृते ह्रदाधिकरणकवह्निसत्ताबुद्धेः भ्रमात्मकत्वेऽपि तदभावबुद्धेः प्रमात्वमव्याहतम्। तस्मात्परकीयवासनया वैयाकरणसिद्धान्ते न्यूनतापादनं वैयाकरणानां ह्वदये पदं नादधातीत्यलं सिद्धान्तविरुद्धार्थलेखनप्रयासेनेत्याहुः।।]
सोयमाधारस्त्रिधेति परममूलोक्तं सप्रमाणमित्याह।। मूले एवच्च संहितायामिति सूत्रे इति।। आधारतानिरूपकभेदादाधारस्य त्रैविध्यमिति तत्रत्या भाष्यप्रवृत्तिः। तत्र हि भाष्ये अधिकरणं त्रिप्रकारं व्यापकमौपश्लेषिकं वैषयिकं चेत्युक्तम्। व्यापकं सर्वावयवावच्छेदेन व्याप्तिमत्। यथा तिलेषु तैलं, दध्नि सर्पिरिति।। व्याप्तिश्च संयोगेनेव समवायेनाप्यविशेषात्ततश्च पृथिव्यां गन्धो जले स्पर्श इत्याद्यप्यस्यैवोदाहरणमिति वदन्ति।। उपश्लेषस्समीपवृत्तित्वं, तत्र भवमौपश्लेषिकम्। अध्यात्मादेराकृतिगणत्वाद्भवार्थकोयं ठञ्प्रत्ययः। एतदुदाहरणं तु कूपे गर्गकुलं वटे गावश्शेरत इत्यादि।। किञ्च श्लेषो निरन्तरसम्बन्धस्तस्य समीपमुपश्लेषम्। यत्किञ्चिदवयवसम्बन्धः, तत्कृतमौपश्लेषिकम्। एवञ्च स्थाल्यां तण्डुलं पचति कटे आस्ते देवदत्त इत्याद्यप्यस्यैवोदाहरणम्। अतोऽन्यद्वैषयिकम्। सविषयकपदार्थस्य कर्तृत्वेन कर्मत्वेन वा विवक्षायामिदम्। यथा मोक्षे वाञ्छा शास्त्रे ज्ञानं जनयतीति।। सविषयकपदार्थकधातुप्रकृतिकाख्यातयोगे तु नेदं, परया कर्मसंज्ञया बाधात्। तेन मोक्षमिच्छति घटं जानातीत्याद्येव साधु। क्वचिद्विषयस्यापि कर्तृत्वकर्मत्वान्यतरविवक्षायामधिकरणत्वं ज्ञाने परिसमाप्यते गुरौ वसतीति। तदभिप्राये वसतीति हि तदर्थः। यद्वा सामीप्यरूप उपश्लेष एव तत्राधारतानिरूपकशिशिष्येष्वन्तेवासीति व्यवहारस्वरसात्। आतपे तिष्ठतीत्यादौ तदवच्छिन्ने देशे तिष्ठतीत्यादिरर्थ इत्यलम्।।
यत्क्तान्तनिरूपितेति।। इदमभिधायकत्वेनान्वेति।। एवञ्च यदर्थाभिधायकैकार्थीभावरूपवृत्त्याश्रय इन्नन्तस्यथाभूतस्य क्तान्तस्य कर्ममीत्यादिरर्थः।। षष्ठीतत्पुरुषोपीति।। बहुव्रीहिणा निरुक्तार्थसमर्थने क्लेश इत्याशयः।
केचित्तु अनन्यभाव एवायं विषयशब्दः। अधीतीत्यादौ सकर्मकधातु प्रकृतिकक्तप्रत्ययान्तानां कर्मप्रधानताया औचित्येन तदर्थस्येष्ठादिभ्यश्चेति विधीयमानेन्प्रत्ययार्थेन कर्त्रा सम्बन्धायोगादिन्प्रत्ययविधानबलेन कर्माविवक्षया क्तप्रत्ययस्य भावार्थकत्वकल्पनाया आवश्यकत्वेन भावार्थकक्तप्रत्ययान्तस्येन्प्रत्ययाधीनतया क्तान्तस्येन्मात्रगोचरस्य कर्मणि सप्तमीत्यर्थो वार्तिकस्य न्याय्य इत्याहुः। मूले आहुरित्यनेनारुचिस्सूचिता। तद्वीजन्तु हत इत्यस्य निखात इत्यर्थकत्वे मानाभाव इति वदन्ति।।
कालो देशस्येति।। एवं च तत्तच्छब्दबोध्यत्वेन विवक्षितमेव ज्ञापकत्वं ज्ञाप्यत्वं वा प्रकृतशास्त्रप्रवृत्तौ बीजम्। न तु मानान्तरसाध्यतया भूयो दर्शनाधीनमिति भावः।। अस्तीत्रि।। चक्षुर्मात्रग्राह्यत्वे सति गुणत्वमित्यादाघस्तीत्याध्याहार इति तात्पर्यम्। ननु यस्येति यच्छब्देन कर्तृकर्मणोर्ग्रहीतव्यतया तदाश्रययोरित्यत्र तच्छब्देनापि तयोरेव ग्रहीतुमौचित्यादर्थासङ्गतिरत आह।। क्रियाश्रययोरित्यर्थ इति।। एवं च तदाश्रययोरित्यत्र तच्छब्दस्य तदीयक्रियापर्यन्तं लक्षणेति भावः।। मूले विश्राम्यतीति।। गवादीनां लक्षकत्वायोगादिति भावः। ननु लक्षकत्वं क्रियाविशेषणमेव किं न स्यादिति तु न युक्तम्, एकदेशान्वयायोगात्। तदाह।। विशिष्टवेषेणैवेति।।
अत्र केचित्। इह ब्राह्मणेष्वधीयानेषु गत इत्यादौ धातुसम्बन्ध इत्यनेन लट्प्रत्ययः। धात्वर्थयोः परस्परसम्बन्धे प्रतीयमाने प्रत्यय इति तदर्थात्। सम्बन्धश्च समानकालिकत्वादिः। यथा वसन्ददर्शेत्यादौ समानकालिकवासकर्तृकर्तृकं भूतानद्यतनपरोक्षं दर्शनमित्याद्यर्थसम्प्रत्ययात्। समानकालिकत्वमिह वासे लकारेण बोध्यते। एवंविधमपि वर्तमानत्वं भविष्यत्वं च लकाराणां प्रवृत्तौ प्रयोजकमनुशासनबलात्। वत्स्यन् ददर्शेत्यादावुत्तरकालिकत्वम्। उत्तरकालिकवासकर्तृकर्तृकमित्याद्यर्थात्। वसन् द्रक्ष्यतीत्यादौ तु समानकालिकत्वमेव। तथा ब्राह्मणेष्वधीयानेषु गत इत्यादौ समानकालिकत्वमेव। तच्च लकारेण बोध्यमानमेव द्योतकत्वेन सप्तम्यानूद्यते। तस्य प्रकारतयैव भानम्। इत्थं च समानकालिकाध्ययनकर्तृभूतब्राह्मणविशिष्टभूतकालिकगमनकर्माभिन्नश्चोर इत्यादिको बोधः। यद्वा सप्तमीप्रकृत्यर्थस्य समभिव्याहृतपदार्थान्वये संसर्गस्समानकालिकत्वादिः। अध्ययनकर्तृभूतब्राह्मणसमानकालिकभूतकालिकगमनकर्माभिन्न इत्यादिरर्थः। अध्येष्यमाणेषु गत इत्यादौ चोत्तरकालिकत्वम्। अनुभवबलाच्चैवंविध एवार्थः। लक्ष्यलक्षणभावस्तु वस्तुभूत एव सप्तमीप्रवृत्तौ निमित्तम्। न तु शाब्दबोधीयविषयतामपेक्षते। अस्तु वा पाश्चात्यस्तदीयो मानसो बोधः। सर्वथा लक्ष्यलक्षणभावो न सप्तम्यर्थ इत्याहुः।[टि- आहुरिति।। वस्तुतस्तु सप्तम्यर्थस्य लक्ष्यलक्षणभावस्य संसर्गतया भानाभावेऽधीयाने ब्राह्मणकुले गत इत्यत्र ब्राह्मणकुलशब्दस्य विभक्त्यर्थप्राधान्याभावेन सत्त्वप्रधानत्वापत्त्या नपुंसकह्रस्वापत्तिः। तस्य संसर्गतया भाने तन्निरूपिताप्राधान्यस्य कुले सत्त्वेन सत्त्वप्रधानप्रातिपदिकत्वाभावान्न ह्रस्वः। तस्मात्सप्तमीवाच्यत्वं तस्यावश्यमभ्युपेयमित्याशयेनाह।। अन्ये त्वित्यादिना।।]
अन्ये तु लक्ष्यलक्षणभाव एवेह सप्तम्यर्थः। भावलक्षणमिति सूत्रस्वरसात्। समानकालिकत्वादिकं तु लकारद्योत्यं प्रकृत्यर्थघटकक्रियाविशेषणम्। ततश्च समानकालिकाध्ययनानुकूलव्यापाराश्रयीभूतब्राह्मणोपलक्षितभूतकालिकगमनाश्रयाभिन्नश्चोर इत्यादिरीत्या बोध इत्याहुः।।
न तु शब्दान्तरेति।। निर्धारणावधिनिष्ठसामान्यधर्मानाक्रान्तत्वमेव भेद इत्याशयः। गवां कृष्णेत्यादौ तु गोत्वाक्रान्ता स्वेतरावृत्तिबहुक्षीरत्ववती कृष्णा बहुक्षीरेत्याद्याकारकस्य बोधस्यानुभविकतया निर्धारणावधिनिष्ठसामान्यधर्माक्रान्तत्वमितरावृत्तिधर्मवत्त्वं च षष्ठीसप्तम्योरर्थ इति पूर्वसूत्रविषये द्रष्टव्यम्। प्रकृते तु तथाभूतसामान्यधर्मानाक्रान्तत्वमितरावृत्तिधर्मवत्त्वं च पञ्चम्यर्थः। ततश्च माधुराः पाठलीपुत्रकेभ्य आढ्यतरा इत्यादौ पाटलीपुत्रकत्वानाक्रान्ताः पाटलीपुत्रकावृत्त्याढ्यतरत्वावन्तोमाधुरा इत्याद्याकारको बोधः।
इदन्तु बोध्यम्। माधुराणां पाटलीपुत्रकाणां च माधुरा आढ्यतरा इत्यादौ न पञ्चमी, चकारबलेन निर्धारणावधिभूतानां निर्धार्यमाणानां च साहित्याश्रयत्वेनैकबुद्ध्युपारूढत्वप्रतीत्या भेदाभावस्यापि निर्धारणोपजीव्यतया माधुरा अपाटलीपुत्रकाश्चाढ्यतरा इत्याद्याकारकस्यानैयत्येन भेदमात्रस्फूर्त्यभावात्। सूत्रे हि भेदग्रहणेनैव सिद्धे विभक्तग्रहणबलात्पञ्चमीविधेर्भेदमात्रप्रतीतिविषयतायास्सर्वसम्मतत्वादिति वदन्ति।।[टि- वदन्तीति।। वस्तुतस्तु माधुरपाटलिपुत्रकसमुदायावधिकपाटलिपुत्रकव्यावृत्ताढ्यत्वकरणकनिर्धारणविषयाः तादृशसमुदायावयवाः माधुरा आढ्यतरा इत्येवं तत्र बोधः। तत्र समुदायोऽवयवेभ्यो भिन्नाभिन्न इति सिद्धान्तात् माधुराणां समुदायाभेदस्यापि सत्त्वेन भेदमात्रनिबन्धनपञ्चमी अत्र नेति तत्त्वम्। स्पष्टा चेयं रीतिर्मञ्जूषायामित्याहुः।।]
इति शिवम्।
सुब्रह्मण्यकृता चित्रप्रभाया लघुटिप्पणी।
बालापादार्पिता विद्वन्मुदमातनुताच्चिरम्।।
ओं तत्सत्।
ननु साधुशब्दस्य सूत्रे प्रथमोपात्तत्वात्तस्यैव प्रत्युदाहर्तव्यतया तदनन्तरोपात्तस्य निपुणशब्दस्य प्रत्युदाहरणं मूलकारस्यायुक्तमित्यत आह।। मूले साधुशब्दप्रयोगे इति।। एवञ्चार्चायामनर्चायां च साधुशब्दप्रयोगे सप्तम्यभीष्टैवेति भावः। नन्वेवं साधुनिपुणाभ्यामित्यत्र साधुशब्दोपादानं व्यर्थमर्चायामनर्चायां च साध्वसाधुप्रयोगे चेत्यनेनैव तद्योगे सप्तम्यास्सिद्धत्वादत आह।। अर्चायामित्यादि।। निषेधार्थमिति।। अप्रतेरिति प्रसज्यप्रतिषेधः। एवञ्च प्रतिशब्दसमवधानदशायामर्चायां साध्वसाधुप्रयोगे चेत्यनेन प्राप्ताया अपि सप्तम्या प्रतिषेध इत्याशयः।
ननु प्रसितशब्दो यदि षिञ् बन्धन इत्यतो निष्ठायां निष्पन्नस्तदा बद्ध इत्यर्थः। यदि तु षोन्तकर्मणीत्यतो निष्ठायां, तदा नष्ट इत्यर्थ इति कुतोसौ तत्परार्थकत्वनियम इत्यत आह।। रूढत्वादिति।। समुदायशक्तिजन्यपदार्थोपस्थितेरवयवशक्तिजन्यपदार्थबोधं प्रति प्रतिबन्धकत्वमानुभविकम्। तदुच्यते योगाद्रूढिर्बलीयसीत्यभियुक्तैरित्याशयः। अयं च न्यायो वक्तृतात्पर्यानुमापकसामग्र्यन्तरासत्त्वे। तत्सत्त्वे तु तत्तात्पर्यविषयो यौगिकोप्यर्थो बोद्धृबोधोपयोगी, वक्तृतात्पर्यगोचरपदार्थबोधस्यैव प्रवृत्तिनिवृत्त्यन्यतरात्मकाभीष्टप्रयोजनसाधकत्वादिति सर्वमनवद्यमित्याहुः।। इति सप्तमी।। श्री परदेवतार्पितमस्तु।।
श्लो।। श्री काशिनाथविबुधाङ्सघ्रिरोजसेवासम्प्राप्तबुद्धिबलशाणकृतोरुयत्ने।
चित्रप्रभा समुदपद्यत शब्दरत्ने सैषा चिरं वितनुतां विदुषां प्रमोदम्।। 1 ।।
वर्णम्नायसुधावृतः पणियुवापत्योक्तसूत्रावली
कल्लोलप्रयुरः कतप्रसववाक्यावर्तजालान्वितः।
गोनर्दीयनिगूढवाक्यरचनावेलासमुज्झृम्भितः
शश्वद्व्याकरणाम्बुधिः कलयतादानन्दचन्द्रोदयम्।। 2 ।।
इति श्री मन्महाराजाधिराजश्रीमदानन्दगजपतिराजमहाराजसंस्थानपण्डितेन श्रीकाशीनाथविद्वन्महोपाध्यायचरणकमलसेवासमधिगतविद्याविशेषोपहितेन, भागवतोपनामकभास्करसूरितनूजन्मना हरिशर्मणा विरचितायां शब्दरत्नव्याख्यायां चित्रप्रभाख्यायां कारकप्रकरणं सम्पूर्तिमगमत्। श्रीः श्रीः श्रीः ।।
इति श्रीमद्विजयनगरमहाराजसंस्थापितसंस्कृतमहापाठशालाप्रधानोपाध्यायेन श्री विजयनगराधीशपूषवाडन्वयपयः पारावारराकासुधाकर श्रीमदलकनारायणगजपतिराजमहाराजसम्मानितेन महामहोपाध्यायपदलाञ्छनेन गुरुवरश्रीरामलक्ष्मणपादसेवासमासादितबुद्धिवैभवेन तातोपनामकसूत्यनारायणसूनुना सुब्रह्मण्यशास्त्रिणा आन्ध्रसर्वकलापरिषत्प्रेरणया विरचितायां चित्रप्रभालघुटिप्पण्यां कारकप्रकरणं सम्पूर्तिमगमत्।
ओम्