चित्तोत्पादसंवरविधिक्रमः

विकिस्रोतः तः
चित्तोत्पादसंवरविधिक्रमः
[[लेखकः :|]]


चित्तोत्पादसंवरविधिक्रमः

नमो मञ्जुश्रिये कुमारभूताय

सर्वदुर्गतितो हीनं सर्वावरणवर्जितम् ।
बोधिचित्तं नमस्यामि सम्बुद्धपददायकम् ॥ १ ॥

सम्बुद्धं चापि सद्धर्म बोधिसत्त्वगणानपि ।
लिखामि बोधिसत्त्वानां यथावद्संवरक्रमम् ॥ २ ॥

तत्र प्रथमं सर्वबुद्ध-बोधिसत्त्ववन्दना-पूजादि-विधिपूर्वकम्, कल्याणमित्रे शास्तृसंज्ञामुत्पाद्य एवमध्येषितव्यम्- यथा पूर्वतथागतार्हत्-सम्यक्सम्बुद्धैः महाभूमिस्थितबोधिसत्त्वैश्च पूर्वमनुत्तरसम्यक्सम्बोधौ चित्तोत्पादः कृतः तथा एवं नाम्नो ममापि आचार्योऽनुत्तरसम्यक्सम्बोधौ चित्तमुत्पादयेदिति त्रिः वदेत् ।

एवमध्येष्य त्रिशरणगमनम्- समन्वाहर आचार्य । अहमेवंनामा एतत्कालप्रभृति यावद्बोधिमण्डं द्विपदानां श्रेष्ठं बुद्धं भगवन्तं शरणं गच्छामि । समन्वाहर आचार्य । अहमेवंनामा एतत्कालप्रभृति यावद्बोधिमण्डं धर्माणामुत्तमं शान्तविरागं धर्म शरणं गच्छामि । समन्वाहर आचार्य । अहमेवंनामा एतत्कालप्रभृति यावद्बोधिमण्डं गणानामुत्तममार्यबोधिसत्त्वावैवर्तिकबोधिसत्त्वसंघं शरणं गच्छामि इति त्रिः वदेत् ।

एवं विशिष्टं शरणगमनं कृत्त्वा भगवन्तं शाक्यमुनिं, दशदिशां सर्वबुद्धान् बोधिसत्त्वांश्च मनसा आलम्ब्य प्रणमनं यथालब्धं पूजादिकं च कुर्यात् । आचार्यं सम्मुखं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य उत्कुटुकासनोऽपि वा कृताञ्जलिः चित्तमुत्पादयेत् ।

दशदिगवस्थिताः सर्वे बुद्धबोधिसत्त्वाः! मां समन्वाहरत । आचार्य! समन्वाहर । अहमेवंनामा- अस्यां जातावन्यासु वा जातिष्वनवराग्रे वा दान-शील-भावनायं कुशलमूलं मया कृतं स्यात्कारितं क्रियमाणं वा अनुमोदितं भवेत्तैः कुशलमूलैः यथा पूर्वकैः तथागतार्हत्सम्यक्सम्बुद्धैः महाभूमिप्रविष्टैः महाबोधिसत्त्वैश्च अनुत्तरसंयक्सम्बोधौ चित्तमुत्पादितं तथा एवंनामा अहमपि एतत्कालप्रभृति यावद्बोधिमण्डमनुत्तरसम्यक्महासम्बोधौ चित्तमुत्पादयेयम् । अतीर्णान् सत्त्वान् तारयेयम् । अमुक्तसत्त्वान्मोचयेयम् । अनाश्वस्तानाश्वासयेयम् । अपरिनिर्वृतान् परिनिर्वापयेयम् । एवं त्रिः वदेत् ।

तथैव आचार्याभावेऽपि स्वयं बोधिचित्तोत्पादविधिः- तथागतशाक्यमुनिं दशदिक्सर्वतथागतांश्च मनसा विचिन्त्य वन्दना-पूजादिविधिं च कृत्वा अध्येषणासहितमाचार्यपदविरहितशरणगमनादिक्रमं पूर्ववद्निष्पादयेत् । एवमुत्पन्नचित्तः पुद्गलः बोधिचित्तवृद्ध्यर्थ अन्तशो दिवा त्रिवारं रात्रौ च त्रिवारं-

बुद्धं च धर्मञ्च गणोत्तमं च यावद्धि बोधिं शरणं गतोऽस्मि ।
दानादिकृत्यैश्च कृतैर्मयैभिः बुद्धो भवेयं जगतो हिताय ॥ ३ ॥

इति बोधिचित्तमुत्पादयेत् । बोधिचित्तव्याघातकेभ्यश्चतुर्भ्यो र्धर्मेभ्यो व्यावृत्तो भवेत् । कतमे चत्वारः? गुरुदक्षिणीयविसंवादनम्, परेषु अकौकृत्यस्थानीयेषु कौकृत्योपादनम्, उत्पन्नचित्तेभ्यो बोधिसत्त्वेभ्यो द्वेषेण अवर्णभाषणम्, सर्वसत्त्वेषु मायाशाठ्याचरणञ्च ।

बोधिचित्ताव्याघातकान् चतुर्धर्मान् शिक्षेत । कतमांश्चतुरः? जीवितस्यापि हेतोः प्रजाननमृषावादम्, सर्वसत्त्वेषु अध्याशयविशुद्ध्या स्थितिः न मायाशाठ्येन, उत्पन्नचित्तेषु बोधिसत्त्वेषु

शास्तृसंज्ञामुत्पाद्य दशसु दिक्षु सम्यग्गुणाख्यानम्, ये सत्त्वाः कुशले स्थापिताः तेषामनुत्तरसम्यक्सम्बोधौ स्थापनं न तु श्रावकप्रत्येकबुद्धत्वेष्विति ।

विशेषेणाभिज्ञां शीघ्रं लब्धुकामो बोधिसत्त्वः आर्यावलोकितेश्वर-परिपृच्छा-सप्तधर्मक-नाम-महायानसूत्रं शिक्षेत । बोधिचित्तोत्पादानुशंसा तु "गण्डव्यूहसूत्रा"-दिभ्यो ज्ञातव्या ।

तत्र प्रथमं विधिवदुत्पन्नबोधिचित्तस्य बोधिसत्त्वस्य सर्वबोधिसत्त्वशीलशिक्षां सुशिक्षितुकामनया बोधिसत्त्वं बोधिसत्त्वसंवरस्थितं,बोधिसत्त्वसंवरविधिज्ञं बोधिसत्त्वसंवरप्रदानेन शिष्यानुग्रहसमर्थ कल्याणमित्रं नमस्कृत्य तच्चरणे निपत्य अध्येषणा- "आचार्य! तवाहं बोधिसत्त्वशीलसंवरसमादानमाकांक्षाम्यादातुं तदर्हस्यनुपरोधेन मुहूर्तमस्माकमनुकम्पया दातुं श्रोतुञ्च", "इत्येवं त्रिवारमध्येषितव्यम् ।

"कुलपुत्र! त्वं श्रृणु । त्वमेवं सत्त्वाननुत्तीर्णानुत्तार्य, अमुक्तान्मोचयित्वा, अनाश्वतानाश्वास्य, अपरिनिर्वृत्तान् परिनिर्वाप्य, बुद्धवंशानुच्छेदमिच्छसि? ततस्त्वं चित्तोत्पाददार्ढ्य समादानदार्ढ्यञ्च कुरु । "न त्वन्यैः सह प्रतिस्पर्धाहेतवे । नान्यैर्बलाद्ग्राहितोऽसि? एवं पृच्छेत् ।

तत्पश्चात्तथागतशाक्यमुनेः निषिक्तां प्रतिमां पटचित्रं वा पुरतोऽवस्थाप्य तथागतशाक्यमुन्यादीन् दशदिक्सर्वलोकधात्ववस्थितान् सर्वबुद्धबोधिसत्त्वान् पुरतो भावयेत् । यथाशक्ति बाह्यपञ्चपूजया पूजां वन्दनं च कुर्यात् ।

तदनन्तरं कल्याणमित्रमुच्चासनस्थितं शास्तृसंज्ञया नमस्कृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य उत्कुटुकासनेन वापि कृताञ्जलिः कल्याणमित्रं बोधिसत्त्वसंवरग्रहणाय एवमध्येषयेत्-

"आचार्यो बोधिसत्त्वशीलसंवरसमादानं मे शीघ्रं ददातु" इत्येवं त्रिवारं कल्याणमित्रमध्येषेत । ततः कल्याणमित्र उपविष्ट उत्थितो वापि सः बोधिसत्त्वसंवरग्राहकं तमेवं परिपृच्छेत्- "एवंनामा त्वं बोधिसत्त्वोऽसि बोधौ च कृतप्रणिधानः । एवं पृष्टे सति तेन ग्राहकबोधिसत्त्वेनापि आमेति प्रतिज्ञातव्यम्" ।

ततःऽअक्षयाप्रमेयानुत्तरपुण्यमहानिधिभूतः सर्वबुद्धगुणरत्नाकरो बोधिसत्त्वसंवरोऽचिरेण अधिगम्यतऽ इति चिन्तयन् चित्तप्रसादात्सहर्ष तूष्णीभूय कृताञ्जलिस्तिष्ठेत् ।

अथ स कल्याणमित्रः त्रिकालसर्वबोधिसत्त्वसर्वशिक्षापदानि सर्वञ्च शीलंसंवरशीलं , कुशलधर्मसङ्ग्राहकशीलं, सत्त्वार्थक्रियाशीलञ्च समासतः शिष्यमबबोध्य- "सर्वबोधिसत्त्वशिक्षापदानि तानि च सर्वबोधिसत्त्वशीलानि किं मत्तः गृहीतुकामोऽसि" एवं शिष्यं पृच्छेत् । तस्मिन् तथा "गृहीतुकामोऽस्मि" इति प्रतिज्ञाते सति बोधिसत्त्वसंवरो दातव्यः ।

त्वमेवंनामा भदन्त आयुष्मान् कुलपुत्रो वा मत्बोधिसत्त्व इत्येव संज्ञकात्"सर्वाणि बोधिसत्त्वशिक्षापदानि सर्वञ्च बोधिसत्त्वशीलं संवरशीलं कुशलधर्मसंग्राहकशीलं सत्त्वार्थक्रियाशीलञ्च । यानि शिक्षापदानि यच्छीलमतीतानां सर्वबोधिसत्त्वानामभूत् । यानि शिक्षापदानि यच्छीलमनागतानां सर्वबोधिसत्त्वानां भविष्यति । यानि शिक्षापदानि यच्छीलमेतर्हि दशसु दिक्षु प्रत्युत्पन्नानां सर्वबोधिसत्त्वानां भवति । येषु शिक्षापदेशु यच्छीलेऽतीताः सर्वबोधिसत्त्वाः शिक्षितवन्तः । अनागताः सर्वबोधिसत्त्वाः शिक्षिष्यन्ते । प्रत्युत्पन्नाः सर्वबोधिसत्त्वाः शिक्षन्ते । तेन प्रतिगृह्णामीति प्रतिज्ञातव्यम्" । एवमाचार्येण त्रिवारं "ग्रहीष्यसि किं" इति उक्त्वा शिष्येण "आं सुगृहीष्यामि" इति त्रिवारमभिहिते संवरं समादद्यात् ।

ततः स कल्याणमित्रः शिष्याय बोधिसत्त्वसंवरं सत्त्वा दशदिक्सर्वबुद्धबोधिसत्त्वेभ्यः पञ्चाङ्गनमस्कारपूर्व कृताञ्जलिः एवं त्रिवारं वदेत्- "प्रतीगृहीतमनेन एवंनाम्ना बोधिसत्त्वेन मम एवंनाम्नो बोधिसत्त्वस्यान्तिकाद्यावत्त्रिरपि बोधिसत्त्वशीलसंवरसमादानम् । सोऽहमेवंनामात्मानं साक्षिभूतमस्यैतन्नाम्नो बोधिसत्त्वस्य परमार्याणां विपरोक्षाणामपि सर्वत्र सर्वसत्त्वाविपरोक्षबुद्धीनां दशसु दिक्ष्वनन्तापर्यन्तेषु लोकधातुष्वारोचयाम्यस्मिन् बोधिसत्त्वशीलसंवरसमादानम्" । इति त्रिवारं

दशदिक्सबुद्धबोधिसत्त्वेभ्य उक्त्वा, नमस्कृत्य च गुरुशिष्यौ उत्तिष्ठेताम् ।"

तत उत्थाय कल्याणमित्रः बोधिसत्त्वसंवरग्राहकं बोधिसत्त्वमेवं ब्रूयात्- "एवंनाम बोधिसत्त्व! त्वं शृणु- इयं हि धर्मता । यदा बोधिसत्त्वेन बोधिसत्त्वसंवरसमादानकर्मवाचना परिसम्पाद्यते तदा दशदिक्सर्वबुद्धक्षेत्रेषु बुद्धबोधिसत्त्वेषु एतादृङ्निमित्तानि प्रादुर्भवन्ति । ते बुद्धबोधिसत्त्वा एवं कस्मिंश्चिद्बुद्धक्षेत्रे एवंनामा बोधिसत्त्व एवंनाम्नो बोधिसत्त्वाद्बोधिसत्त्वसंवरसमादानं गृह्णाति इति संजानन्ति" । अतः ते भगवन्तो बुद्धा ते च बोधिसत्त्वा धर्मस्नेहात्पुत्रान् भ्रातृकानिव सन्दधते । तथा सन्धानात्पुण्यज्ञानसम्भारवृद्धिर्भविष्यतीति वक्तव्यम् ।

अथ तेन कल्याणमित्रेण स बोधिसत्त्व एवं वक्त्व्यः । एवंनामबोधिसत्त्व । त्वं शृणु । बोधिसत्त्वसंवरसमादानमिदमश्रद्दधानानामग्रे न वाच्यम् । यतोऽश्रद्धेभ्यो बोधिसत्त्वसंवरप्रदर्शने अश्रद्दधाना सत्त्वास्ते बोधिसत्त्वसंवरमश्रद्धया परित्यजन्ति । अतो यावद्बोधिसत्त्वो बोधिसत्त्वसंवरस्थितः पुण्यराशियुक्तो भवति तावदश्रद्धया स तेनैव अपुण्यराशिना च युक्तो भवति । यतो बोधिसत्त्वः सत्त्वान् सर्वदुःखेभ्यः परिरक्षति अन्यांश्च पापेभ्यो निवारयति । अतः सकुशलो बोधिसत्त्वो गोपायति ।

अथ शिक्षापदपाराजिकस्थानभूतान् संवरनाशहेतून् दर्शयित्वा दुष्कृतान् क्लिष्टाक्लिष्टानपि दर्शयेत् । कल्याणमित्रः समासतोऽबोधिसत्त्वसंवरविंशकम्ऽ तथा बोधिसत्त्वभूमेः शीलपरिवर्त्तञ्च भाषेत ।

बोधिचित्तोत्पाद-बोधिसत्त्वसंवरविधिर्महाचार्यदीपङ्करश्रीज्ञान-कृतः समाप्तः ॥

तेनैव भारतीयोपाध्यायेन महासंशोधकलोकचक्षुषा भिक्षु-कुशलमतिना (द्गे वै ब्लो ग्रोस्) चानूदितः ॥

पुनस्तेनैव पण्डितेन लोकचक्षुषा भिक्षु-जयशीलेन (छुल्ख्रिम्स्र्ग्यल्व) च संशोध्य निर्णीतः ॥