सामग्री पर जाएँ

चित्तविशुद्धिप्रकरणम्

विकिस्रोतः तः
चित्तविशुद्धिप्रकरणम्
[[लेखकः :|]]


चित्तविशुद्धिप्रकरणम्


अनादिनिधनं शान्तं भावाभावविवर्जितम् ।
निर्विकल्पं निरालम्बमनवस्थितमद्वयम् ॥ १ ॥
अदृष्टान्तमनाख्यानमचिन्त्यमनिदर्शनम् ।
अनाश्रयाप्रतिष्ठानं निर्विकारमसंस्कृतम् ॥ २ ॥
सर्वेषामाश्रयं बुद्धं करुणामयविग्रहम् ।
नानाधिमुक्तसत्त्वानां नानोपायप्रदर्शकम् ॥ ३ ॥
महारागं नमस्कृत्य पद्मनर्तेश्वरं प्रभुम् ।
इह स्तोकं प्रवक्ष्यामि स्वचित्तप्रत्यवेक्षणात् ॥ ४ ॥
योगाचारस्य नयतः सर्वमेव सुनिश्चितम् ।
तत्सर्वमिह वक्तव्यं तस्मादेवत्समाचरेत्] ॥ ५ ॥
येन येन हि बन्ध्यन्ते जन्तवो रौद्रकर्मणा ।
सोपायेन तु तेनैव मुच्यन्ते भवबन्धनात् ॥ ६ ॥
[विशुद्धेरेव सत्त्वस्य विशुद्धं जायते फलम्] ।
महायाने सुविस्पष्टमुक्तमेतत्सुविस्तरम् ॥ ७ ॥
धर्मपुद्गलनैरात्म्यं चित्तमात्रं जगौ मुनिः ।
ततोऽपि सर्वमुत्पन्नमागमात्यनुकूलकम् ॥ ८ ॥
भावग्राहग्रहावेशगृहीतान्प्रतिचोदितः ।
आगमेऽपि हि सुव्यक्तो विस्तरः करुणात्मना ॥ ९ ॥
मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोजवाः ।
मनसा हि प्रसन्नेन भाषते वा करोति वा ॥ १० ॥
स्वपिता भिक्षुणा वृद्धः शीघ्रं गच्छेति प्रेरितः ।
पतनाच्च मृते तस्मिन्नानन्तर्येण युज्यते ॥ ११ ॥
सुम्लानेनार्हतादिओष्टो मङ्गलं परिपीडय ।
उपस्थायकभिक्षुः स मृते तस्मिन्न दोषभाक् ॥ १२ ॥
अन्धसंज्ञया नान्धांस्तु मारयन्दोषमश्रुते ।
इत्युक्तं विनये व्यक्तं न दोषोऽदुष्टचेतसाम् ॥ १३ ॥
न स्तूपखनने दोषस्तत्संस्कारधिया यतः ।
केवलं पुण्यराशिः स्यादुपानन्तर्यकारणात् ॥ १४ ॥
उपानद्युगलं दत्त्वा मुनेर्मूर्ध्नि शुभाशयात् ।
अपनीय तथा चान्धो राज्यं फलमवाप्नुतः ॥ १५ ॥
तस्मादाशयमूला हि पापपुण्यव्यवस्थितिः ।
इत्युक्तमागमे यस्मान्नापत्तिः शुभचेतसाम् ॥ १६ ॥
स्वाधिदैवतयोगात्मा जगदर्थक्वतोद्यमः ।
भुञ्जानो विषयान् योगी मुच्यते न च लिप्यते ॥ १७ ॥
यथैव विषतत्त्वज्ञो विषमालोक्य भक्षयन् ।
केवलं मुह्यते नासौ रोगमुक्तश्च जायते ॥ १८ ॥
मायामरीचिगन्धर्वनगरस्वप्रसन्निभम् ।
जगत्सर्वं समालोक्य किं कथं केन भुज्यते ॥ १९ ॥
बाला रज्यन्ति रूपेषु वैराग्यं यान्ति मध्यमाः ।
स्वभावज्ञा विमुच्यन्ते रूपस्योत्तमबुद्धयः ॥ २० ॥
विचिन्त्य समयं सर्वं देवतापूजनाविधिम् ।
शुद्धमालोक्य निःशङ्कं भोक्तव्यं मन्त्रचोदितम् ॥ २१ ॥
शोध्यं बोध्यं तथा दीप्यमक्षरत्रययोगतः ।
अङ्गुष्ठानामिकाग्राभ्यां प्रीणयेच्च तथागतान् ॥ २२ ॥
यत्सत्यमिति बालानां तन्मिथ्या खलु योगिनाम् ।
गच्छन्नन्तमनेनैव न बद्धो न च मुच्यते ॥ २३ ॥
संसारं चैव निर्वाणं मन्यन्तेऽतत्त्वदर्शिनः ।
न संसारं न निर्वाणं मन्यन्तेऽतत्त्वदर्शिनः ॥ २४ ॥
विकल्पो हि महाग्राहः संसारोदधिपातकः ।
अविकल्पा महात्मानो मुच्यन्ते भवबन्धनात् ॥ २५ ॥
शङ्काविषेण बाध्यन्ते विषेणेव पृथग्जनाः ।
तामेवोत्खात्य निर्मूलं विचरेत्करुणात्मकः ॥ २६ ॥
यथैव स्फटिकः स्वच्छः पररागेण रज्यते ।
तथैव चित्तरत्नं तु कल्पनारागरञ्जितम् ॥ २७ ॥
प्रकृत्या कल्पनारागैर्विविक्तं चित्तरत्नकम् ।
आदिशुद्धमनुत्पन्नं निःस्वभावमनाविलम् ॥ २८ ॥
तत्तद्यत्नेन कर्तव्यं यद्यद्बालैर्विगर्हितम् ।
स्वाधिदैवतयोगेन चित्तनिर्मलकारणात् ॥ २९ ॥
रागाग्निविषसंमुग्धा योगिनां शुभचेतसा ।
कामिताः खलु कामिन्यः काममोक्षफलावहाः ॥ ३० ॥
यथा स्वगरूडं ध्यात्वा विषमाकृष्य संपिबन् ।
करोति निर्विषं साध्यं न विषेणाभिभूयते ॥ ३१ ॥
द्वादशयोजनव्यासं चक्रं वै शिरसि भ्रमत् ।
बोधिचित्तं समुत्पाद्य अपनीतमिति श्रुतिः ॥ ३२ ॥
बोधिचित्तं समुत्पाद्य सम्बोधौ कृतचेतसा ।
तत्रास्ति यन्न कर्तव्यं जगदुद्वरणाशया ॥ ३३ ॥
आदिशुद्धमनुत्पन्नं निःस्वभावमनाविलम् ।
जगद्भावेन सम्पश्यन्न बद्धो न च मुच्यते ॥ ३४ ॥
विचिन्त्य विधिवद्योगी देवतागुणविस्तरम् ।
रज्यते रागचित्तेन रागभोगेण मुच्यते ॥ ३५ ॥
किं कुर्मः कुत्र वै लभ्या विचित्रा भावशक्तयः ।
विषाक्रान्तो यथा कश्चिद्विषेणैव तु निर्विषः ॥ ३६ ॥
कर्णाज्जलं जलेनैव कण्टकेनैव कण्टकम् ।
रागेणैव तथारागमुद्वरन्ति मणीषिणः ॥ ३७ ॥
यथैव रजको वस्त्रं मलेनैव तु निर्मलम् ।
कुर्याद्विज्ञस्तथात्मानं मलेनैव तु निर्मलम् ॥ ३८ ॥
यथा भवति संशुद्धो रजोनिर्घृष्टदर्पणः ।
सेवितस्तु तथा विज्ञैर्दोषो दोषविनाशनः ॥ ३९ ॥
लोहपिण्डो जले क्षिप्तो मज्जत्येव तु केवलम् ।
पात्रीकृतो स एवान्धं तारयेत्तरति स्वयम् ॥ ४० ॥
तव्दत्पात्रीकृतं चित्तं प्रज्ञोपायविधानतः ।
भुञ्जानो मुच्यते कामो मोचयत्यपरानपि ॥ ४१ ॥
दुर्विज्ञैः सेवितः कामः कामो भवति बन्धनम् ।
स एव सेवितो विज्ञैः कामो मोक्षप्रसाधकः ॥ ४२ ॥
प्रसिद्धं सकले लोके क्षीरं विषविनाशनम् ।
तदेव फणिभिः पीतं सुतरां विषवर्धनम् ॥ ४३ ॥
जले क्षीरं यथाविष्टं हंसो पिबति पण्डितः ।
सविषान् विषायांस्तद्वद्भुक्त्वा मुक्तश्च पण्डितः ॥ ४४ ॥
यथैव विधिवद्भुक्तं विषमप्यमृतायते ।
दुर्भुक्तं घृतपूरादि बालानान्तु विषायते ॥ ४५ ॥
इदमेव हि यच्चित्तं शोधितं हेतुभिः शुभैः ।
निर्विकल्पं निरालम्बं भाति प्रकृतिनिर्मलम् ॥ ४६ ॥
यथा वह्निः कृशोप्येष तैलवर्त्यादिसंस्कृतः ।
दीपो निर्मलनिष्कम्पः स्थिरस्तिमिरनाशनः ॥ ४७ ॥
वटबीजं यथा सूक्ष्मं सहकारसमन्वितम् ।
शाखामूलफलोपेतं महावृक्षविधायकम् ॥ ४८ ॥
हरिद्राचूर्णसंयोगाद्वर्णान्तरमिति स्मृतम् ।
प्रज्ञोपायसमायोगाद्धर्मधातुं तथा विदुः ॥ ४९ ॥
घृतं च मधुसंयुक्तं समांशं विषतां व्रजेत् ।
तदेव विधिवद्भुइक्तमुत्कृष्टं तु रसायनम् ॥ ५० ॥
रसघृष्टं यथा ताम्रं निर्दोषं काञ्चनं भवेत् ।
ज्ञानशुद्ध्या तथा क्लेशाः सम्यक्कल्याणकारकाः ॥ ५१ ॥
हीनयानाभिरूढानां मृत्युशङ्का पदे पदे ।
संग्रामजयचित्तस्तु दूर एव व्यवस्थितः ॥ ५२ ॥
महायानाभिरूढस्तु करुणाधर्मवर्मितः ।
प्रज्ञातन्तुधनुर्बाणो जगदुड्वरणाशयः ॥ ५३ ॥
महासत्त्वो महोपायः स्थिरबुद्विरतन्द्रितः ।
जित्वा दुस्तरसङ्ग्रामं तारयेदपरानपि ॥ ५४ ॥
पशवोऽपि हि क्लिश्यन्ते स्वार्थमात्रपरायणाः ।
जगदर्थविधातारो धन्यास्ते विरला जनाः ॥ ५५ ॥
शीतवातादिदुःखानि सहन्ते स्वार्थलम्पटाः ।
जगदर्थप्रवृत्तास्ते न सहन्ते कथं नु ते ॥ ५६ ॥
नारकाण्यपि दुःखानि सोढव्यानि कृपालुभिः ।
शीतवातादिदुःखानि कस्तान्यपि विचारयेत् ॥ ५७ ॥
न कष्टकल्पनां कुर्यान्नोपवासेन च क्रियाम् ।
स्नानं शौचं न चैवात्र ग्रामधर्मं विवर्जयेत् ॥ ५८ ॥
नखदन्तास्थिमज्जानः पितुः शुक्रविकारजाः ।
मांसशोणितकेशादि मातृशोणितसम्भवम् ॥ ५९ ॥
इत्थमशुचिसम्भूतः पिण्डो योऽशुचिपूरितः ।
कथं संस्तादृशः कायो गङ्गास्नानेन शुध्यति ॥ ६० ॥
न ह्यशुचिर्घटस्तोयैः क्षालितोऽपि पुनः पुनः ।
तद्वदशुचिसम्पूर्णः पिण्डोऽपि न विशुध्यति ॥ ६१ ॥
प्रतरन्नपि गङ्गायां नैव श्वा शुद्धिमर्हति ।
तद्दद्वर्मधियां पुंसां तीर्थस्नानं तु निष्फलम् ॥ ६२ ॥
धर्मो यदि भवेत्स्नानात्कैवर्तानां कृतार्थता ।
नक्तन्दिवं जलस्थानां मत्स्यादीनां तु का कथा ॥ ६३ ॥
पापक्षयोऽपि स्नानेन नैव स्यादिति निश्चयः ।
यतो रागादिवृद्धिस्तु दृश्यते तीर्थसेविनाम् ॥ ६४ ॥
रागो द्वेषश्च मोहश्च ईर्ष्या तृष्णा च सर्वदा ।
पापानां मूलमाख्यातं नैषां स्नानेन शोधनम् ॥ ६५ ॥
आत्मात्मीयग्रहादेते सम्भवन्तीह जन्मिनः ।
अविद्याहेतुकः सोऽपि साविद्या भ्रान्तिरिष्यते ॥ ६६ ॥
रौप्यबुद्धिर्यथा शुक्तौ शुक्तिदृष्टौ निवर्तते ।
नैरात्म्यदर्शनात्सापि निर्मूलमवसीदति ॥ ६७ ॥
सर्पबुद्धिर्यथा रज्जौ रज्जुदृष्टौ निवर्तते ।
सर्पबुद्धिः पुनस्तत्र नैव स्यादिह जन्मनि ॥ ६८ ॥
सत्त्वबुद्धिस्तथात्रापि वज्रज्ञानान्निवर्तते ।
न भावः सम्भवेत्तत्र दग्धबीज इवाङ्कुरः ॥ ६९ ॥
नैरात्म्यशुचिसङ्गातः पिण्डः प्रकृतिनिर्मलः ।
तस्य सन्तापने धर्मः कष्टं बालैर्विकल्पितः ॥ ७० ॥
चन्द्रोदयव्ययञ्जापि अपेक्ष्य तिथिकल्पना ।
सूर्योदयव्ययेनापि दिवारात्रिव्यवस्थितिः ॥ ७१ ॥
पूर्वादिव्यवहारोऽपि कल्पनापेक्षया कृतः ।
ग्रहनक्षत्रराश्यादि सर्वलोकैर्विकल्पितम् ॥ ७२ ॥
शीतोष्णवर्षणापेक्षा तथैव ऋतुकल्पना ।
स्वकर्मफलभोगोऽयं शुभाशुभग्रहोदितः ॥ ७३ ॥
अविद्याकर्दमालिप्तं चित्तचिन्तामणिं पुमान् ।
प्रवृत्तः क्षालितुं विद्वान् कोऽविद्यां वृंहयेत्पुनः ॥ ७४ ॥
न ग्रहतिथिनक्षत्रदेशकालाद्यपेक्षणम् ।
विहरेन्निर्विकल्पस्तु निर्निमित्तमशङ्कितः ॥ ७५ ॥
यद्यदिन्द्रियमार्गत्वं यायात्तत्तत्स्वभावतः ।
सुसमाहितयोगेन सर्वं बुद्धमयं वदेत् ॥ ७६ ॥
चक्षुर्वैरोचनो बुद्धः श्रवणं वज्रसूर्यकः ।
घ्राणं च परमाश्वस्तु पद्मनर्तेश्वरो मुखम् ॥ ७७ ॥
कायः श्रीहेरुको राजा वज्रसत्त्वश्च मानसम् ।
एवं सम्यक्सदा योगी विचरेत्करुणात्मकः ॥ ७८ ॥
सिद्धान्ती निर्विकल्पोऽसौ स्थिरकल्पस्तु धीधनः ।
यथेष्टचेष्टाव्यापारः सर्वभुक्सर्वकृत्तथा ॥ ७९ ॥
सर्वकामक्रियाकारी यथारुचितचेष्टितः ।
उत्थितो वा निषणो वा चङ्क्रमन्वा स्वपंस्तथा ॥ ८० ॥
अमण्डलप्रविष्टो वा सर्वावरणवानपि ।
स्वाधिदैवतयोगात्मा मन्दपुण्योऽपि सिध्यति ॥ ८१ ॥
अनेन सर्वसौरित्वं सर्वबुद्धत्वमेव वा ।
जन्मनीहैव तत्त्वज्ञः सम्प्राप्नोति न संशयः ॥ ८२ ॥
यथा प्राकृतलोकेन योगिलोको न बाध्यते ।
बाध्यन्ते धीविशेषेण योगिनोऽप्युत्तरोत्तरैः ॥ ८३ ॥
महाप्रज्ञामहोपायमहाकृपाधिमोक्षतः ।
महायानसमुद्दिष्टं महासत्त्वस्य गोचरम् ॥ ८४ ॥
यत्कल्पानामसंख्येयैर्न प्राप्तं बहुभिर्मतम् ।
जन्मन्यत्रैव बुद्धत्वं प्राप्यते नात्र संशयः ॥ ८५ ॥
महायानस्य माहात्म्यं पुण्यज्ञानेन सम्भृतम् ।
सर्वज्ञत्वं पदं रम्यं सद्यो जन्मनि लभ्यते ॥ ८६ ॥
आगमश्रुतिचिन्ता तु महायाने न गृह्यते ।
आशयानुशयाभेदाद्यानाभेदः प्रकाश्यते ॥ ८७ ॥
अन्य एवाधिमोक्षोऽयं तथान्या बोधिचारिका ।
अन्या चित्तविशुद्धिश्च फलमन्धदिहोच्यते ॥ ८८ ॥
समीपे निर्मलादर्शे रूपं निर्मलचक्षुषः ।
यथा भाति सुविस्पष्टं स्वच्छप्रकृतिनिर्मलम् ॥ ८९ ॥
विधूतकल्पनाजालविष्प्रष्टशुद्धचेतसाम् ।
योगिनाञ्च तथा ज्ञानं प्रज्ञानिर्मलदर्पणैः ॥ ९० ॥
सूर्यकान्तिसमाश्लिष्टसूर्यकान्तमणौ यथा ।
सहसा प्रज्वलत्यग्निः समथः स्वार्थसाधने ॥ ९१ ॥
अपास्तकल्पनाजालं सूर्यकान्तनिभं मनः ।
प्रज्ञासूर्यां शुसंश्लिष्टं तद्वज्ज्वलति योगिनाम् ॥ ९२ ॥
काष्ठद्वयनिघर्षेण यथा ज्वलति पावकः ।
आदिमध्यान्तसंशुद्धः सर्ववस्तुप्रकाशकः ।
प्रज्ञोपायसमायोगाद्योगिज्ञानं तथा विदुः ॥ ९३ ॥
यथैवैकः प्रदीपोऽयं वर्त्त्यन्तरसमाश्रितः ।
यथास्वार्थं यथास्थानं करोत्युच्चैः प्रकाशनम् ॥ ९४ ॥
स्फुरणानन्तमूर्तिस्तु प्रज्ञोपायविभावनैः ।
नानाधिमुक्तसत्त्वानां यथाकृत्यमनुष्ठयेत् ॥ ९५ ॥
विधि ज्ञोहि यथा कश्चित्क्षीरादमृतमुद्धरेत् ।
निर्दोषं शीतलं हृद्यं सर्वव्याधिविनाशनम् ॥ ९६ ॥
प्रज्ञाक्षीरमहोपायाद्विधिवन्मथनोत्थितः ।
विशुद्धधर्मधातुः स सुखासुखविनाशनः ॥ ९७ ॥
यथा लता समुद्भूता फलपुष्पसमन्विता ।
तथैकक्षणसम्बोधिः सम्भारद्वयसंयुता ॥ ९८ ॥
[वशद्वेषगतिस्तम्भ] वर्षणाकर्षणादिकम् ।
मद्यमांसरतो योगी कुर्वन्नाप्युपलिप्यते ॥ ९९ ॥
[हस्तकङ्कणबिम्बाय कि]मादर्शः समीक्ष्यते ।
महायाने यतोऽद्यापि मन्त्रसामर्थ्यदर्शनम् ॥ १०० ॥
मातृदुहितृसम्बन्ध[स्तत्त्वतोऽत्र न कल्प्यते ।
भग्नायोधूपवर्त्तीव] जगदाह तथागतः ॥ १०१ ॥
पञ्चभूतात्मकं शुक्रं शोणितञ्चापि तादृशम् ।
तन्मयः खलु पिण्डोऽयं को विप्रः कश्च वान्त्यजः ॥ १०२ ॥
[पञ्चस्कन्धात्मकं सर्वं]शरीरं खलु भिक्षवः ।
अनित्यं दुःखशून्यञ्च न जातिर्न च जातिमान् ॥ १०३ ॥
कैवर्त्तीगर्भम्भूतः कश्चिञ्चा[ण्डालजातिमान् ।
तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ १०४ ॥
स्वसारं मातरं श्वश्रूं स्वपुत्रीं भागिनेयिकाम् ।
ब्राह्मणीं क्षत्रियां वैश्यां विधिज्ञानेन शूद्रिकाम्] ॥ १०५ ॥
एकाङ्गविकलां हीनां गर्हीतामन्त्यजामपि ।
योषितं पूजयेन्नित्यं ज्ञानवज्रप्रभावनैः ॥ १०६ ॥
[सर्वदा स्मितवक्रेण मन्त्रविस्तृतचक्षुषा ।
सम्बोधौ चित्तमुत्पाद्यस्वाधिदैवतभावतः ॥ १०७ ॥
पश्येद्दृश्यं क्षणंकिञ्चिच्छोतव्यं शृणुयात्तथा ।
सत्यासत्यवियुक्तं तुवदेद्वाक्यमतन्द्रितः] ॥ १०८ ॥
स्नानाभ्यञ्जनवस्त्रादिखानपानादियन्ततः ।
स्वाधिदैवतयोगेनचिन्तयेत्पूजनाविधिम् ॥ १०९ ॥
[गीतंवाद्यं तथा नृत्यं सोपायेन व्रती भजेत् ।
अकुर्वन्निह भावेषुसर्वेष्वभिनिवेशनम् ॥ ११० ॥
स्वात्मभावप्रहाणेनतापयेन्न तपस्यया] ।
सुखाद्यथा सुखंध्यायेत्सम्बुद्धोऽयमनागतः ॥ १११ ॥
सर्वकामोपभोगैस्तु रमथमुक्तितोऽभयात् ।
मा भैष्ट नास्ति वः पापंसमयो दुरतिक्रमः ॥ ११२ ॥
मन्त्रसंस्कृतकाष्ठादिदेवत्वमधिगच्छति ।
किं पुनः ज्ञानवान् कायःकष्टं मोहविचेष्टितम् ॥ ११३ ॥
प्राकृतत्वमहङ्कारंपरित्यज्य समाहितः ।
प्रज्ञोपायविधानेनक्रियामिमां समाचरेत् ॥ ११४ ॥
पङ्कजातं यथा पद्मंपङ्कदोषैर्न लिप्यते ।
विकल्पवासनादोषैस्तथायोगी न लिप्यते ॥ ११५ ॥
[विकल्पोविम्बसङ्काशो दृष्टिदोषैर्न लिप्यते ।
अन्भसा लिप्यते नैवयद्वदुदकचन्द्रमाः] ॥ ११६ ॥
अनादिवासनापङ्कैर्विलिप्तंचित्तरत्नकम् ।
प्रज्ञोपायजलेनैव[क्षालितंसम्प्रकाशते] ॥ ११७ ॥
स्वाधिदेवतयोगस्यस्थिरचित्तस्य धीमतः ।
मुक्तः कुदृष्टिमेघैश्चभासते चित्तभास्करः ॥ ११८ ॥
[प्रज्ञालक्ष्मपरिच्छेदेभूतार्थस्य विनिश्चयात् ।
धर्मधातुरुपादेयोऽविद्याव्यत्ययवर्जनात् ॥ ११९ ॥
प्रज्ञामुद्गरविध्वस्ते]सहसा कल्पनाघटे ।
प्रकृत्या निर्मलः स्वच्छोज्ञानदीपः प्रकाशते ॥ १२० ॥
सुप्रसिद्धानि भूतानिक्षित्यग्निजलवायवः ।
क्रियन्ते ह्यन्यथाविज्ञैर्मन्त्रसामर्थ्ययोगतः ॥ १२१ ॥
सर्ववादं परित्यज्यमन्त्रवादं समाचरेत् ।
यस्य मन्त्रस्यसामर्थ्यात्सौख्यभावोऽपि सिध्यति ॥ १२२ ॥
त्रिरत्नं न परित्याज्यंबोधिचित्तं तथा गुरुः ।
न वध्याः प्राणिनः केऽपिसमयान्यप्यधिष्ठयेत् ॥ १२३ ॥
मधु रक्तं सकर्पूरंरक्तचन्दनयोजितम् ।
मुनिवज्रोदकं चैवपञ्चैतान्यप्यधिष्ठयेत् ॥ १२४ ॥
अन्यैश्चसमयैर्दिव्यैश्चित्तस्योत्कर्षकारकैः ।
मारुतक्षोभशान्त्यर्थंप्रीणयेच्चित्तवज्रकम् ॥ १२५ ॥
[नाशुचिभावआशङ्क्योऽविकल्प्ययोगलीलया ।
समायुक्तेन चित्तेन मन्त्रीसर्वं समाचरेत्] ॥ १२६ ॥
मक्षिकापदमात्रेणविषेणाप्यभिभूयते ।
अणुमात्रा घृणा शङ्कामृत्युकष्टेन संयुता ॥ १२७ ॥
सुयुद्धं वाचरेद्विज्ञःसुपलायनमेव वा ।
आन्तरालिकभावस्तु व्यर्थोवै पतनं भवेत् ॥ १२८ ॥
गुरोराज्ञाञ्च मुद्राञ्चछायामपि न लङ्घयेत् ।
गुणास्तस्य परं ग्राह्या दोषानैव कदाचन ॥ १२९ ॥
आचार्यः परमो देवःपूजनीयः प्रयत्नतः ।
स्वयं वज्रधरो राजासाक्षाद्रूपेण संस्थितः ॥ १३० ॥
यथोदकमणिः शुद्धःकलुषोदकशोधकः ।
श्रद्धामणिस्तथाप्रोक्तश्चित्तरत्नविशोधकः ॥ १३१ ॥
श्रद्धावान्मुह्यते कोऽपिप्रज्ञाचक्षुर्विवर्जितः ।
उत्पादयेदतःप्रज्ञामागमाधिगमात्मिकाम् ॥ १३२ ॥
श्राद्धो बहुश्रुतः प्राज्ञःप्रकृत्या करुणात्मकः ।
जगद्दुःखविनाशायसुखोपायं स विन्दति ॥ १३३ ॥
चित्तविशुद्धिमाधाययन्मयोपार्जितं सुखम् ।
चित्तविशुद्धिमाधाय तेनास्तुसुखितो जनः ॥ १३४ ॥

॥ कृतिरियमार्यदेवपादानामिति ॥�