चम्पूरामायणम्/बालकाण्डः

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
चम्पूरामायणम्
बालकाण्डः
श्रीभोजराजः


लक्ष्मीं तनोतु नितरामितरानपेक्षमङ्घ्रिद्वयं निगमशाखिशिखाप्रवालम् ।
हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नं विघ्नाद्रिभेदशतधारधुरन्धरं नः ॥१॥

उच्चैर्गतिर्जगति सिद्ध्यति धर्मतश्चेत् तस्य प्रमा च वचनैः कृतकेतरैश्चेत् ।
तेषां प्रकाशनदशा च महीसुरैश्चेत् तानन्तरेण निपतेत् क्व नु मत्प्रणामः ॥२॥

गद्यानुबन्धरसमिश्रितपद्यसूक्तिः हृद्या हि वाद्यकलया कलितेव गीतिः ।
तस्माद्दधातु कविमार्गजुषां सुखाय चम्पूप्रबन्धरचनां रसना मदीया ॥३॥

वाल्मीकिगीतरघुपुङ्गवकीर्तिलेशैस्तृप्तिं करोमि कथमप्यधुना बुधानाम् ।
गङ्गाजलैर्भुवि भगीरथयत्नलब्धैः किं तर्पणं न विदधाति नरः पितॄणाम् ॥४॥

वाचं निशम्य भगवान् स तु नारदस्य प्राचेतसः प्रवचसां प्रथमः कवीनाम् ।
माध्यन्दिनाय नियमाय महर्षिसेव्यां पुण्यामवाप तमसां तमसां निहन्त्रीम् ॥५॥

तत्र कञ्चन क्रौञ्चमिथुनादेकं पञ्चशरविद्धमपि व्याधेनानुविद्धं निध्यायतो बद्धानुकम्पस्य् भगवतो वाल्मीकेर्वदनारविन्दाच्छन्दोमयी काचिदेवं निःससार सरस्वती ।

मा निषाद प्रतिष्ठां त्वमागमः शाश्वतीः समाः ।
यत्कौञ्चमिथुनादेकमवधीः काममोहितम् ॥६॥

तदनु समयोचितकृत्यं विर्वर्त्य स्वाश्रमं प्रति गतवति भगवति वाल्मीकौ

वाणीविलासमपरत्र कृतोपलम्भम् अम्भोजभूरसहमान इवाविरासीत् ।
आभाति यत्कृतिरनेकविधप्रपञ्च-व्याजेन्द्रजालविधिसाधकपिञ्छिकेव ॥७॥
(व्याजेन्द्र्जालविधिसाधकपिच्छिकेव इति पाठभेदः)

ततः परमहर्षेण महर्षिणा विधिवदभ्यर्चितः परमेष्ठी मध्यलोकेऽपि स्ववृत्तं प्रकाशयितुं किल भवन्तमेवोपतिष्ठमानयानया भारत्या रामचरितं यथाश्रुतं व्याक्रियतामिति व्याहृत्यान्तरधात् ।
(उपतिष्ठमानया इति पाठभेदः)

अथ सरसिजयोनेराज्ञया रामवृत्तं करबदरसमानं प्रेक्ष्य दृष्ट्या प्रतीच्या |
शुभमतनुत काव्यं स्वादु रामायणाख्यं मधुमयफणितीनां मार्गदर्शी महर्षिः ॥८॥

एनं प्रबन्धं प्रयोक्तुं कः समर्थ इति चिन्तामुपगतवति सति भगवति वाल्मीकौ

उपागतौ मिलितपरस्परोपमौ बहुश्रुतौ श्रुतिमधुरस्वरान्वितौ ।
विचक्षणौ विविधनरेन्द्रलक्षणौ कुशीलवौ कुशलवनामधारिणौ ॥९॥

एतौ मुनिः परिगृह्य स्वां कृतिमपाठयत् । तौ पुनरितस्ततो गायमानौ दृष्ट्वा रामः प्रहृष्टमनाः स्वभवनमानीय भ्रातृभिः परिवृतो निजचरितं गातुमन्वयुङ्क्त । ततश्च

छन्दोमयीनां निलयस्य वाचामन्तेवसन्तौ मुनिपुङ्गवस्य |
एतौ कुमारौ रघुवीरवृत्तं यथाक्रमं गातुमुपाक्रमेताम् ॥१०॥

अस्ति प्रशस्ता जनलोचनानामानन्दसन्दायिषु कोसलेषु ।
आज्ञासमुत्सारितदानवानां राज्ञामयोध्येति पुरी रघूणाम् ॥११॥

तामावसद्दशरथः सुरवन्दितेन सङ्क्रन्दनेन विहितासनसंविभागः ।
वृन्दारकारिविजये सुरलोकलब्धमन्दारमाल्यमधुवासितवासभूमिः ॥१२॥

अथास्मिन्ननपत्यतया दूयमानमानसे पुत्रार्थं क्रतुमश्वमेधं विधातुं मन्त्रिभिः समं मन्त्रयमाणे दशरथे सुमन्त्रः प्रहृष्टमना महर्षेरङ्गदेशसङ्गतावग्रहनिग्रहशौण्डस्य विभाण्डकसूनोरवश्यमृष्यशृङ्गस्य प्रसादात्प्रभवो भविता कुमाराणामिति सनत्कुमारोदीरितं पुरावृत्तमस्मै दशरथाय कथयामास ।

सोऽपि सुमन्त्रवचनाच्छान्ताधिः शान्ताकुटुम्बिनं सम्बन्धिनं मुनिमानीय वसिष्ठादिष्टमश्वमेधाध्वरं सरयूरोधसि विधाय तत्र पुत्रीयामिष्टिं विधिवत्कर्तुमारभत ।

तदनु हविराहरणाय धरणौ कृतावतरणाः सर्वे गीर्वाणगणाः शतमखप्रमुखाश्चतुर्मुखाय दशमुखप्रतापग्रीष्मोष्मसम्प्लोषणमावेद्य तेन सह शरणमिति शार्ङ्गधन्वानं मन्वाना नानाविधप्रस्तुतस्तुतयः क्षीराम्बुराशिमासेदुः ।

सन्तापघ्नं सकलजगतां शार्ङ्गचापाभिरामं लक्ष्मीविद्युल्लसितमतसीगुच्छसच्छायकायम् ।
वैकुण्ठाख्यं मुनिजनमनश्चातकानां शरण्यं कारुण्यापं त्रिदशपरिषत्कालमेघं ददर्श ॥१३॥

क्षीराम्भोधेर्जठरमभितो देहभासां प्ररोहैः कालोन्मीलत्कुवलयदलाद्वैतमापादयन्तम् ।
आतन्वानं भुजगशयने कामपि क्षौमगौरे निद्रामुद्रां निखिलजगतीरक्षणे जागरूकाम् ॥१४॥

प्रह्लादस्य व्यसनममितं दैत्यवर्गस्य दम्भं स्तम्भं वक्षःस्थलमपि रिपोर्यौगपद्येन भेत्तुम् ।
बद्धश्रद्धं पुरुषवपुषा मिश्रिते विश्वदृष्टे दंष्ट्रारोचिर्विशदभुवने रंहसा सिंहवेषे ॥१५॥

नारायणाय नलिनायतलोचनाय नामावशेषितमहाबलिवैभवाय ।
नानाचराचरविधायकजन्मदेश-नाभीपुटाय पुरुषाय नमः परस्मै ॥१६॥

इति प्रणम्योत्थितानेतान् स्तुतिरवमुखरितहरिन्मुखान् हरिहयप्रमुखानखिलानमरानरुणारुणतामरसविलासचोरैर्लोचनमरीचिसन्तानैरानन्दयन्नरविन्दलोचनः स्फुटमभाषत ।

अपि कुशलममर्त्याः स्वागतं साम्प्रतं वः शमितदनुजदम्भा किं नु दम्भोलिकेलिः ।
अपि धिषणमनीषानिर्मिता नीतिमार्गाः त्रिदशनगरयोगक्षेमकृत्ये क्षमन्ते ॥१७॥

एवं भगवतः कुशलानुयोगपुरःसरीममृतासारसरसां सरस्वतीमाकर्ण्य सम्पूर्णमनोरथानां सुमनसां संसत्पुंसे परस्मै विज्ञापयामास ।

देव ! कथमकुशलमाविर्भवेद्भवता कृतावलम्बानामस्माकम्? किन्तु |

अस्ति प्रशस्तविभवैर्विबुधैरलङ्घ्या लङ्केति नाम रजनीचरराजधानी ।
माणिक्यमन्दिरभुवां महसां प्ररोहैः तेजस्त्रयाय दिनदीपदशां दिशन्ती ॥१८॥

एनां पुराणनगरीं नगरीतिसालां सालाभिरामभुजनिर्जितयक्षराजः ।
हेलाभिभूतजगतां रजनीचराणां राजा चिरादवति रावणनामधेयः ॥१९॥

यद्बाहुराहुरसनायितशस्त्रधाराः दिक्पालकीर्तिमयचन्द्रमसं ग्रसन्ति ।
यद्वैरिणां रणमुखे शरणप्रदायी नैवास्ति कश्चिदमुमन्तकमन्तरेण ॥२०॥

अम्भोजसम्भवममुं बहुभिस्तपोभिः
आराधयन् वरमवाप परैर्दुरापम् ।
तस्मादशेषभुवनं निजशासनस्य
लक्ष्यीकरोति रजनीचरचक्रवर्ती ॥२१॥

तेन वयं पराधीना इव भवामः ।

तथा हि
सोऽयं कदाचित् क्रीडाधराधरमारुह्य सावरोधवधूजनश्चरणाभ्यां सञ्चरेत चेदागमिष्यत्याग इत्यनाविष्कृतातपो भयेन भगवान् सहस्रभानुरपि सङ्कुचितभानुरेव तत्सानूनि नूनं संश्रयते ।

एष मृगाङ्कोऽपि मृगयायासपरिश्रान्तिविश्रान्त्यै ससम्भ्रमं नमज्जनपरिवृते मज्जनगृहाभिमुखे दशमुखे तत्रत्यविचित्रतरशातकुम्भस्तम्भाग्रप्रत्यग्रप्रत्युप्त-स्फटिकशिलाशालभञ्जिकापुञ्जकरतलकलितनिजोपलमयकलशमुखादच्छाच्छामविच्छिन्नधारामम्बुधारां निजकराभिमर्शादापादयंस्तस्य प्रसादपिशुनानां शुनासीरचिरकाङ्क्षितानां विंशतिविधवीक्षणानां क्षणमात्रं पात्रं भवति ।

तेन पुलस्त्यनन्दनेन सङ्क्रन्दननन्दनात्स्वमन्दिरोद्यानमानीतस्य मन्दारप्रमुखस्य वृन्दारकतरुवृन्दस्य बन्दीकृतसुरसुन्दरीनयनेन्दीवरद्वन्द्वाच्च करारविन्दकलितकनककलशाच्च मन्दोष्णं स्यन्दमानैरम्बुभिर्जम्बालितालवालस्य पचेलिमानामपि कुसुमानां पतनभयमाशङ्कमानाः पवमानाः परिस्पन्दितुमपि प्रभवो न भवन्ति ।

एतेऽपि पावका रूढिशङ्कावहां हुतवहाख्यां वहन्तस्तद्गृहे गार्हपत्यपुरोगाः पौरोगवधुरं दधते ।

किं बहुना । स एष मानुषादवमाननमागमिष्यतीत्यमन्वान-स्तदितरैरवध्यत्वं चतुराननवराल्लब्ध्वा समुद्धतः सम्प्रति सम्प्रहारसमाक्रान्तदिगन्तदन्तावलदन्तकुन्तव्रणकिणस्थपुटित-वक्षःस्थलः स्थलकमलिनीं वनवारण इव रावणस्त्रिलोकीमभिभवन् भवदीयानित्यस्मान्न जातु किञ्चिदपि जानातीति ।

अथ भगवानाकर्ण्य गीर्वाणगणवाणीम्
इन्द्रनीलाचलोदञ्चच्चन्द्रिकाधवलस्मितः ।
वाचमूचे सुधाधारां मधुरां मधुसूदनः ॥२२॥

भवतामपराधविधायिनस्तस्य यातुधानस्य निधनमधुनैव विधातुं शक्यम् ।

किन्तु सरसिजासनशासनमप्यमोघीकुर्वन्नुर्वीतले पुत्रीयतः सुत्राममित्रस्य दशरथस्य मनोरथमपि पूरयितुमादृतमानुषवेषः सन्नहमेव तं हनिष्यामीति व्याहृत्यान्तरधात् ।

ततः सा परिषदनिमिषाणामुन्मिषितहर्षा हृषीकेशादेशात्प्रशमितदुर्दशानि निर्दशाननानि चतुर्दशभुवनानि बुद्ध्वा दुग्धसागरान्निरगात् ।

ततस्तानमरान् प्राह स्म पितामहः ।

भवन्तस्तावदवतरिष्यतो लक्ष्मीसहायस्य साहाय्यार्थमप्सरःप्रभृतिषु युवतिषु वानराच्छभल्लगोपुच्छनीलमुखवेषभृतः प्रथितप्रभावाः प्रजाः प्रजनयेयुरिति ।

पुरैव किल मम जृम्भारम्भे सम्भूतवाञ्जाम्बवानिति ।

ततस्ते गीर्वाणास्तथाकुर्वन् ।

अथ वैतानाद्वैश्वानरान्नरः प्राजापत्यः सहेमपात्रः कश्चिदुत्थाय पुत्रीयते दशरथाय पायसममृतप्रायं प्रायच्छत् ।

कौसल्यायै प्रथममदिशद्भूपतिः पायसार्धम्
प्रादादर्धं प्रणयमधुरं केकयेन्द्रस्य पुत्र्यै ।
एते देव्यौ तरलमनसः पत्युरालोच्य भावम्
स्वार्धांशाभ्यां स्वयमकुरुतां पूर्णकामां सुमित्राम् ॥२३॥

अवभृथेऽवसिते सरयूतटाद् अथ यथायथमुच्चलिते जने ।
दशरथः परिपूर्णमनोरथः पुरमगात्पुरुहूतपुरोपमाम् ॥२४॥

अपाटवात् केवलमङ्गकानां मनोज्ञकान्तेर्महिषीजनस्य ।
शनैः शनैः प्रोज्झितभूषणानि चकाशिरे दौहृदलक्षणानि ॥२५॥

मन्दमन्दमपयद्वलित्रया गाधताविषयनाभिगह्वरा ।
कोसलेन्द्रदुहितुः शनैरभूत् मध्ययष्टिरपि दृष्टिगोचरा ॥२६॥

न्यग्रोधपत्रसमतां क्रमशः प्रयाताम्
अङ्गीचकार पुनरप्युदरं कृशाङ्ग्याः ।
जीवातवे दशमुखोरगपीडितानां
गर्भच्छलेन वसता प्रथमेन पुंसा ॥२७॥

मध्यं तनुत्वादविभाव्यमानम्
आकाशमासीदसितायताक्ष्याः ।
गर्भोदये विष्णुपदापदेशात्
कार्श्यं विहायापि विहाय एव ॥२८॥

उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां तिथौ
लग्ने कर्कटके पुनर्वसुयुते मेषं गते पूषणि ।
निर्दग्धुं निखिलाः पलाशसमिधो मेध्यादयोध्यारणेः
आविर्भूतमभूतपूर्वमपरं यत्किञ्चिदेकं महः ॥२९॥

अथ रामाभिधानेन कवेः सुरभयन् गिरः ।
अलञ्चकार कारुण्याद् रघूणामन्वयं हरिः ॥३०॥

.....

तदनु यथाविधि कृतसपर्येण मर्यादातीतमहिम्ना महितेन गाधेतरहृदयेन गाधिनन्दनेन सत्रपरित्रानार्थम् इत्थमभ्यर्थितोऽभूत् ।
राजन् भवतस्तनयेन विनयाभिरामेण रामेण शरासनमित्रेण सौमित्रिमात्रपरिजनेन क्रियमाणक्रतुरक्षो रक्षोदुरितमुत्तीर्य कृतावभृथो भवितुमभिलषामीति ।
एतदाकर्ण्य कर्णपुरुषं महर्षिभाषितम् अतिमात्रपुत्रवात्सल्यात् कौसल्याजानिः सशल्यान्तःकरणोऽभूत् ।
ततस्तस्मिन् बहुप्रकारैरवार्यनिश्चये भगवति विश्वामित्रे दशरथः तपनकुलहितेन पुराहितेन एवमभिहितोऽभूत् ।

पर्याप्तभाग्याय भवानमुष्मै कुर्यात् सपर्यां कुशिकात्मजाय ।
निर्यातुधानां वसुधां विधातुं निर्यातु रामः सह लक्ष्मणेन ॥ ३४ ॥

एवं वसिष्ठेन प्रतिष्ठापितधृतिर्दशरथः सुतप्रदानेन कुशिकसुतमनोरथमेव पूरयामास ।
योगेन लभ्यो यः पुंसां संसारापेतचेतसाम् । नियोगेन पितुः सोऽयं रामः कौशिकमन्वगात् ॥ ३५ ॥

तत्र सत्रं परित्रातुं विश्वामित्रो महामुनिः ।
सौमितिसहितं रामं नयन्नयमवोचत ॥ ३६ ॥

बलेन तपसां लब्धे बलेत्यतिबलेति च ।
विद्येते मयि काकुत्स्थ विद्येते वितरामि ते ॥ ३७ ॥
...
तदनु मानससरःप्रसृतां सरयूमतिक्रम्य वृत्रवधप्रवृद्धवृद्धश्रवः पङ्कक्षालनलब्धमलयोः मलदकरूषनाम्नोः जनपदयोः सीम्नि कृतपदयोर्दाशरथ्योः पुनरप्येवमब्रवीत् ।

यक्षः सुकेतुर्द्रुहिणप्रसादाल्लेभे सुतां कामपि ताटकाख्याम् ।
सुन्दः किलैनां परिणीय तस्यां मारीचनीचं जनयाम्बभूव ॥ ३८ ॥

एकदा सुन्दे निहते मारीचः कुम्भसम्भवमभिभूय तस्य शापादवाप कौणपताम् । ताटकाप्यभूत्पुरुषादिनी ।
सेयमब्जासनसिद्धसिन्धुरसहस्रप्राणात्मजेन सह जनपदविपदं विदधाना व्यापदनीया त्वयेति । रामस्तमाकर्ण्य स्त्रीवधशङ्कामकरोत् ।
किञ्च वैरोचनीं मन्थरां वसुन्धरापराधधुरन्धरां पुरन्दरेण निहतां जनार्दनकृतमर्दनां च भार्गवजनानीं प्रदर्श्य दाशरथेरमन्दां सुन्दवधूवधविचिकित्साम् उत्सारयामास ।

आश्रुतः श्रुतवृत्तेन तेन सुन्दप्रियावधः ।
तमेवान्ववदत्तस्य चापः शिञ्जारवच्छलात् ॥ ३९ ॥

तत्काले पिशिताशनाशपिशुना संध्येव काचिन्मुने-रध्वानं तरसा रुरोध रुधिरक्षोदारुणा दारुणा ।
स्वाधीने हनने पुरीं विदधतीं मृत्योः स्वकृत्यात्यय-क्रीडत्किङ्करसङ्घसङ्कटमहाशृङ्गाटकां ताटका ॥ ४० ॥

ततो भाविनि सङ्ग्रामे बद्धश्रद्धस्य ताटका ।
स्वप्राणान् रामबाणस्य वीरपाणमकल्पयत् ॥ ४१ ॥

मुनिर्भृशाश्वोपज्ञानि ताटकामाथिने ददौ ।
अस्त्राणि जृम्भकादीनि जम्भशासनशासनात् ॥ ४२ ॥