सामग्री पर जाएँ

चम्पूरामायणम्/अयोध्याकाण्डः

विकिस्रोतः तः
चम्पूरामायणम्
बालकाण्डः
श्रीभोजराजः

गच्छता दशरथेन निर्वृत्तिं भूभुजामसुलभां भुजाबलात् ।
मातुलस्य नगरे युधाजितः स्थिपितौ भरतलक्ष्मणानुजौ ॥१॥

अथ दशरथः पुत्रं रामं स्वतस्त्रिजगत्पतिं स्वविषयमहीमात्रे कर्तुं पतिं विदधे मतिम् ।
भुवनभरणे कल्यं कल्याणभूधरमादरात्स्वगृहपटलीधूर्यस्तम्भं विधातुमना इव ॥२॥

तदनन्तरमसौ समंन्त्र्य मन्त्रिभिः सह पौरवृद्धान् वृद्धश्रवः पुरोधः समान्समाहूय समादिदेश ।

विदितमेव हि भवतां शिवतातिमेव मतिं दधानाः सुपथा संचरमाणाः प्राणिनां दयमानमानसा मानधनाः यशः समार्जनजागरुकाः जनोपपात संमार्जनतत्पराः परां निर्वृत्तिंमुपेत्य देवभूयं गताः सर्वे नः पूर्वपुरुषा इति ।

तस्मादस्मादिभिरपि तेषां मनीषामनुसरमाणैरेतावन्तं कालं परिपालिताः सकलाः प्रजाः ।

प्रमाणमत्र परिपालनक्रीयामिमां मदीयामनुभवन्तो ननु भवन्त एव ।

भवतामभ्युपगमानां निगमानां प्रतीपगामिनीं पदवीं न प्रत्येति खलु लोकस्तदस्ति किंचिदभ्यर्थनीयम् ।

मम सुरनरगीतख्यातिभिर्हेतिभिर्वा दिवि भुवि च समानप्रक्रमैर्विक्रमैर्वा ।
नियतमपरिहार्या या जरा सा मदङ्गे विकचकमलपण्डे चन्द्रिकेवाविरासीत् ॥३॥

तस्मात्समस्तक्षत्रवर्गगर्वपाटन वरिष्टधारापरश्वधभरणभीषणवेषभार्गवभङ्गादपरिच्छिन्नतरशौर्यशालिनि सौन्दर्यभाजने जनानुरागनिलये निर्मत्सरे वत्सले वत्सेऽस्मिन्विश्वम्भराभारं चिरकालधार्यमाणमार्यैरनुमतः सन्नवतार्य विश्रान्तिसुखमनुभवितुमभिलषामिति ।

ततः प्रावृषेण्यपयोवाहव्यूहस्तनितनादाकर्णनसमुदीर्णनिरतिशयाह्लादसंसर्गनिरर्गलनिर्गलत्केकालापिनः कलापिनः इव जनाः प्रमदभवकलकलरवमुखरितहरिन्मुखा वभूवुः ।

आनन्दवाष्पविसरो वदने प्रजानामाविर्बभूव मकरन्द इवारविन्दे ।
रामस्य कान्तिमभिषेकदिने भवित्रिं प्रक्षाल्य चक्षुरिव वीक्षितुमादरेण ॥ ४॥

राजापि तेषां संपत्स्यमानमहोत्सवोत्सुकजनसंमर्दजनिष्यमाणरजोराजिपातपरिजिहीर्षयेव रोमाञ्चप्रपञ्चेन कञ्चुकिताङ्गानां प्रमाणातीतां प्रीतिं प्रपन्नानां हर्षप्रकर्षेण द्विगुणीकृतमानन्दमन्तर्नियम्य सुमन्तप्रमुखान् मन्त्रीमुख्यानेवमाचख्यौ ।

अस्माननाश्रिततपोवनभूमिभागानुन्मुच्यमार्ग परिपालनजागरुकाम् ।
अम्लानमौग्ध्यमचिरादवलम्ब्य राममेवंविधः कथमुदिते जनानुरागः ॥५॥

तेऽपि नियमितनिजमनोरथाय जशरथाय सविनयमेवं व्यजिज्ञपन् ।

देवे स्थितेऽपि तनयं तवरामभद्रं लोकः स्वयं भजतु नाम किमत्र चित्रम् ।
चन्द्रं विना यदुपलम्भनहेतुभूतं क्षीरोदमाश्रयति किं तृषितश्चकोरः ॥६॥

तदनन्तरतत्वरे तत्परस्तत्वविदां वरिष्ठस्य वशिष्ठस्य शासनादभिषेकोपकरणाहरणाय सामात्यः पौरवर्गः ।

आहूय रामं विनयाभिराममाविः प्रमोदः प्रभुरेवमूचे ।
तवोत्तमाङ्गे मुकुटं विधातुमह्नाय तिष्ये दिवसे यतिष्ये ॥७॥

अथ दशरथमनोरथं कौशल्यायै निवेद्य स्वभवनमुपागतस्य रामस्य भगवान् वशिष्ठः सञ्जातकौतुकः कौतुकमङ्गलं निवर्तयामास ।

आपूरयन्मङ्गलतूर्यघोषैराशावशावल्लभकर्णतालम् ।
उज्जृम्भितः कोऽपि गिरामभूमिरुन्मस्तकः पौरजनप्रमोदः ॥८॥

यामेवाहुर्निशिचरकुलोन्मूलने मूलहेतुं यस्याश्चित्तं प्रकृतिकुटिलं गात्रमित्रं बभूव ।
अम्भोजिन्याः शिशिरसरसं कासरीवाच्छमम्भः कैकेय्याः सा हृदयमदयं मन्थरा निर्ममन्थ ॥९॥

अलघुचलितझञ्झावातनिष्पेषदोषादशनिरिव कठोरः शीतलाम्भोदपङ्कौ ।
अपहृतजनसौख्यान्मन्थराभेदवाक्यादपि भरतजनन्यां हन्त दौर्जन्यमासीत् ॥१०॥

सैषा मन्थराभिधानपिशाचिकावेशपरवशनिजाशया पूर्वं दण्डके वैजयन्तपुरवास्तव्यशम्बरासुरसंगरसंगतवेदनापनोदनाथमात्मने वितीर्ण वराय दशरथाय वरद्वयं न्यवेदयत् ।

तयोराकस्य संरम्भो भरतस्यभिषेचनम् ।
अन्यस्य वन्यवृत्त्यैव वने रामस्य वर्तनम् ॥११॥

तस्मिन् क्षणे वरयुगं चिरतप्तताम्रनाराचवाधपरुषं श्रवसी विदार्य ।
सत्यप्रहाणचकितस्य नृपस्य काममूरीचकार हृदये पुटपाकरीतिम् ॥१२॥

तनयविरहवार्तामात्रसंतप्तमानादथ दशरथचित्ताच्चेतना निर्जगाम ।
दवहुतवहरोचिर्ज्वालया लेह्यमानाज्झटिति गहनगुहादुज्झिहाना मृगीव ॥१३॥

अथ दशरथः कथमपि लब्धसंज्ञः कैकेयीमभाषत ।

रामः काममुपाश्रियति वनं त्यक्त्वा धृतं कौतुकम् लोकस्त्यक्षति कौतुकं चिरधृतं तस्याभिषेके कथम् ।
धर्मापायभयेन वत्सविरहं वक्ष्यामि वक्ष्यामि किं यावत्कल्पमकीर्तिरार्तिजननी जायेत जाये तव ॥१४॥

वत्सं कठोरहृदये नयनाभिरामं रामं विना न खलु तिष्ठति जीवीतं मे ।
धातुर्वलादुपयमस्त्वयि जातपूर्वः कैकेयि मामुपयमं नयतीति मन्ये ॥१५॥

तदनु निजमनोरथैकपरिपूरणे कृतादरा कैकेयीसोपहासमवादीत् ।

सत्यविप्लवमपत्यसंगतः संगतं भृशमपशयतस्तव ।
आश्रुतस्य विफलत्वमस्ति चेदाश्रुतस्य रचितोऽयमञ्जलिः ॥१६॥

किं नागतस्ते श्रवसोः सकाशमरिंदमः सत्यगिरां पुरोगः ।
श्येनामिषीभूतकपोतपोतजीवातवे शस्त्रनिकृत्तगात्रः ॥१७॥

किञ्च-
अभ्यर्च्य कस्मैचिदुपाश्रिताय वितीर्य विप्राय विलोचने स्वे ।
आपूरयत्कश्चिदलर्कसंज्ञः प्राज्ञः प्रतिज्ञा प्रथितप्रभावः ॥१८॥

असुरसमरवेलाजातबाधावसाने वरयुगमदिशस्त्वं प्रीतिपूर्वं यथा मे ।
अशिथिलरुणवन्धाः सत्यसन्धा नरेन्द्रा जललिपिरिति कामं संगरन्तां गिरं ताम् ॥१९॥
किं बहुना-
सत्योद्यां गिरमिह निर्वहस्व मा वा सम्मानं भुवि न सहेय राममातुः ।
संस्थास्ये विषमुपभुज्य पश्यतस्ते संनाहं त्यजसि न चेत्प्रवर्तमानम् ॥२०॥

एवं वादीनीमेनां भूयोऽपि भूपतिरवदत् ।

अयि कठिनहृदये किमुन्मुक्तलोकमर्यदया दयापेतयात्वयेति ।

नैवाभवस्त्वमिह शीलवतीषु गण्या नैवाभजत्पितृमतां गणना स रामः ।
नैवापमात्मजसुखान्यहमप्यनार्ये नैवापमम्बु भरतेन न मे प्रदेयम् ॥२१॥
किञ्च-
वासस्त्वचां भवतु किञ्चन तारवीणां छायाद्रुमाश्च भवनानि भवन्तु धन्याः ।
कैकेयि तस्य शयनानि कथं भवेयुस्त्वच्चेतसोऽपि कठिनानि शिलातलानि ॥२२॥

एवं भर्त्रा भर्त्सिताप्यार्द्रचित्ता नाभूदेषा मन्थराक्रान्तवृत्तिः ।
राकाचन्द्रे राजमानेप्यवाधं वीरुच्छन्ना चन्द्रकान्तस्थलीव ॥२३॥

तदनु मुहूर्तमात्रमपि राममुखावलोकनसुखमनुबुभुषुर्दशरथः कुमारमानयेति सुमन्त्रमादिदेश ।

तेन सत्वरं राजभवनप्रविशितो रामः कृतप्रणामः पितरमथाभूतमुखविकासमारादालक्ष्य चकितः किमिदमिति कैकेयीमन्वयुङ्क्तः ।

सापि पापाशया प्रत्यवादीत् ।

वत्स, प्रतिश्रुतवरद्वयनिर्वहणे निपुणेतरस्तातस्ते सम्प्रति सानुशयस्तनयवात्सल्यात्सत्यव्यत्यासत्रासाच्च गाढमगाधे शोकसागरे निमज्जतीति ।

वरद्वयं तावत्तव मुनिवृत्त्यैव वने वर्तनमवनेरवनं भरतस्येति ।

रामस्तदाकर्ण्य प्रमुदितहृदयः कृताञ्जतिरेनां प्रति व्यज्ज्ञपत् ।

भीतो भूभरतः किमम्ब भरतः किंवा वनात्पावनात्त्रस्तोऽहं सगरान्ववायककुदस्तातः कुतः शोचति ।
दिव्यायाः सरितो निवापकरणाल्लध्वीं प्रतिज्ञामिमामावाभ्यामभिपूरयिष्यन्ति न चेत्पुत्री कथं स्यादयम् ॥२४॥

वनभुवि तनुमात्रत्राणमाज्ञापितं मे सकलबुवनभारः स्थापितो वत्समूर्ध्नि ।
तदिह सुकरतायामावयोस्तर्कितायां मयि पतति गरीयानमम्ब ते पक्षपातः ॥२५॥

तातः स्ववाचा व्यवहृत्य हृद्यं वत्साभिषेकोत्सवमङ्गलं मे ।
प्रणामसंज्ञस्य मयार्पितस्य किं पूर्णपात्रस्य न पात्रमासीत् ॥२६॥

तत्क्षणमशनिहत इव पर्वतः सर्वतः परीतदवदहन इव वनस्पतिः दिवस्पतिपदभ्रंशविधुर इव नहुषः पपात नाःसज्ञ्य पङ्क्तिरथः ।

ततः सा पितृनिर्देशमाचरेति राममादिदेश ।

मातुराज्ञां वहन्मूर्ध्ना मालामिव महायशाः ।
वनाय राम वव्राज जगतामवनाय च ॥२७॥

असौ समासाद्य सद्यः कौसल्यसदनमभिषेकप्रतिबन्धं कैकेयीनिर्बन्धमात्मनश्च वनवासं प्रणामानन्तरं तस्यै न्यवेदयत् ।

सैतदाकर्ण्य विदीर्णहृदया विषदिग्धमुखशिलीमुखविद्धश्रवणयुगलेव सहसा निपत्य विललाप ।

रेखारथाङ्गसरसीरुहशङ्खचिह्ने क्षेमकरे तवकरे जगतां त्रयाणाम् ।
कान्तारकन्दखननं रचयति नूनमावद्धवान्प्रतिसरं भगवान्वशिष्ठः ॥२८॥

तत्रसौमित्रिरतिमात्रप्रवृद्धमन्युःशतमन्यसमानमेवमग्रजमकथयत् ।

आर्य, अकार्यमिदं लोकगर्हणार्हायाः कैकेय्या वचसा रजसा जरसा च समाक्रान्तस्वान्ततया कृत्याकृत्यविवेकमूकस्य राज्ञः प्रज्ञाशैथिल्यान्निःसृतेन वचसा सन्त्यज्य राज्यमटवीपर्यटनं विधातुम् ।

किन्तु तुभ्यमनभ्यर्थमानाय प्रथममेव पित्रा प्रदत्ता ननु पृथावी ।

क्षत्रधर्मोऽपि धर्म्यात्पथः प्रमाद्यापि वर्णाश्रमरक्षणतः समीचीनः प्रयेण पुरुषं निःश्रेयसे नियोजयेत् ।

नियतं नियतिबलमतिलङ्घ्य पौरुषमेव धीरस्य पुरुषार्थान्समर्थयेत् ।

माभूत्त्वत्पदपद्मयोररुणिमा कान्तारसञ्चारतः पाणौपा़लिमा मनाक्प्रसरतु ज्याकर्णादेव मे ।
कैकेयीपरीभूततातवचने नम्रोभवान्मा स्म भूत्किञ्चिन्मामकमार्य शौर्यजलधे नम्रं धनुर्वर्तताम् ॥२९॥
  
एवमाचक्षाणं लक्ष्मणं रामः सान्त्वयन्नेवावोचत् ।

वत्स सवितृवंशजातानां पितृनिर्देश एव देशिकः सर्वसर्मसु ।

बहवः खलु पितृनिर्देशगौरवाद्गोहत्यामपि मातृवधमपि तारुण्यविनिमयमपि कण्डुरैणुकेयपुरुप्रभृतयः कुर्वाणा निर्विचारमाचारवतामग्रण्या इति गण्यते ।

तस्मादवश्यं वश्यं एव पितुरवगाहे गहननिति ।

तत्र विस्तृतपुत्रवात्सल्या कौसल्या तेन सह गन्तुमभिलषन्ती कृतप्रणामेन रामेण सविनयमेवमभिहिता ।

कान्तारभाजि मयि केकेयराजपुत्र्याः कार्कश्यकन्दलुतया दलितस्य वाचा ।
तातस्य शोकदहनग्लपितं शरीरं मातस्त्वया न कदाचिदुपेक्षणीयम् ॥३०॥

ततः सा तनयस्य स्वस्त्ययनाय समस्तदेवताकीर्तनपुरःसरीमाशिषमाचचक्षे ।

तदनु रामस्तामभिवन्द्य निष्क्रान्तः प्रकान्तनेपथ्यायाः सीतायाः प्रसादमाससाद ।

कल्याणवादसुखितां सहसैव कान्तां कान्तारचारकथया कलुषीचकार ।
अम्भोदनादमुदितां विपिने मयूरीं संत्रासयन्निव धनुर्ध्वनिना पुलिन्दः ॥३१॥

अयमेनामनुगन्तुमुपक्रान्तामकथयत् ।

प्रिये जनकनन्दिनि प्रकृतिपेशलामीदृशीं कथं ग्लपयितुं सहे तव शिरीषमृद्वीं तनुम् ।
गृहीतहरिणीगणत्रिकविसारिनानाशिराक्षतक्षरितशोणिताननेवृकानने कानने ॥३२॥

तदनु नानाविधप्रयत्नेनाप्यनुन्मिषदनुजिगमिषासऐथिल्यां मैथिल्यां लक्ष्मणेऽप्यनवसितानुगमनव्यवसाये वासिष्ठाय सुयज्ञाय भूषणमशेषं नागसहस्रेण सह शत्रुञ्जयाह्वयं मातुलदत्तं मत्तहस्तिनमगस्त्यकौशिकाभ्यां च महार्घानि रत्नानि वितीर्य तदनु निर्जरारिवीर्यनुषी धनुषी निरपायत्राणकर्मणी वर्मणी निर्मर्यादशिलीमुखकृतानुषङ्गौ निसङ्गौ निर्वर्तितवीरपाणौ कृपाणौ वरुणेन जलकसदसि दत्तमेतत्समस्तमायुधजातमादाय मामनुगच्छतेति सौमित्रिमन्वग्रहीत् ।

सीतापि निजाभरणजातं सुयज्ञपत्न्यै न्यदात् ।

ततः सौमित्रिरपि स्वाधीनेन धनेन कञ्चित् कौसल्याश्रितमुपाध्यायमतोषयत् ।

तत्र सकुटुमबाय त्रिजटाभिधानाय निर्धनाय द्विजातये स्वहस्तनिक्षिप्तदण्डपतितदेशावधिकं गोधनं च कपिञ्जलादिभ्यो द्विजातिभ्यश्च रधुपतिर्वित्तानि विविधानि विततार ।

ततस्ते पौरनारीणां निःश्वासझञ्झानिलचलदधरकिशलयानामस्रसलिलासारेण शोकपावकेन च वपुंषि मन्ंसि च सिक्त्वा दग्ध्वा च निषिद्धपरिजनानुगमनतया प्रकाशितप्रवास सिद्धान्ताः शुद्धान्तान्निश्चक्रमुः ।

सीता पुरा गगनचारिभिरप्यदृष्टा मा भूदियं सकलमानवनेत्रपात्रम् ।
इत्याकल्य नियतं पिदधे विधाता वाष्पोदयेन नयनानि शरीरभाजाम् ॥३३॥

रुद्धापि यान्तमनुगच्छति मैथिली मां वत्सो जहाति न कदाचन लक्ष्मणोऽपि ।
इत्येतयोरनुगतिं प्रतिवोध्य गन्तुं भूयोऽपि राजभवनं प्रविवेष रामः ॥३४॥

तस्मिन्सुमन्त्रेण विज्ञाय प्रदर्शिते बूपतिर्भूताविष्ट इव विष्टरान्निपत्य सदारः सदारचितपरिदेवना वनोत्कण्ठां स्वयमप्यकरोत् ।

तदा सुमन्त्रः कैकेयीमव्रवीत् ।

देवि, विरम रामाभिषेकसमुन्मिषिताह्लादाङ्कुरावग्रहादाग्रहात् ।

पुरा खलु वरप्रसादादवगतसकलप्राणिभाषणतया पर्यङ्कपर्यन्तपरिसरत्पिपीलिकालापे तव पितरं हसनकारणं पृष्ट्वा तद्विवरणं पत्युर्मरणकरणमित्यवेत्यापि भूयसो निर्बन्धात्कुपितेन राज्ञावज्ञाताया मातुस्ते मानुकुर्वीथा इति ।

कृतासमञ्जनिर्यासं सगरं केकयात्मजा
निदर्शनत्वे निर्दिश्य निरबध्नान्निजं पतिम् ॥३५॥

सिद्धार्थको महामात्यस्तत्परित्यागमब्रवीत् ।
सरयुपातितानेकप्रजामरणकारणात् ॥३६॥

अथ दशरथेन रामः सपरिच्छद एव गच्छेति निर्दिष्टः केवलं खनित्रपिटकौ वल्कलयुगलं च प्रार्थयत ।

सुखोचितानां सुव्यक्तदिव्यलावण्यसम्पदाम् ।
त्रयाणामपि कैकेयी वल्कलादीन्युपाहरत् ॥३७॥

अथ रधुकुलनाथो मध्यमाम्बानियोगाद्गुणवति परिधाने मङ्गलार्हे निराशः ।
अधिकुचतटवल्गज्जानकीबाष्पसेकादपगतखरभावं वल्कलं पर्यधत्त ॥३८॥

तत्राचित्रीयन्त सर्वे निर्विकारवदनलक्ष्मिकमिक्ष्वाकुकुलाध्यक्षमध्यक्षयन्तस्तेषामेव शोकशङ्कुकीलितमानसानामाननेषु पारम्पर्येणास्फुरद्विकारः ।

सवल्कले दाशरथौ विषादादामीलिताक्षो यदभूद्वशिष्ठः ।
तदेव जातं करणं महर्षेः काकुस्थ्ययाथार्थ्यविलोकनस्य ॥३९॥

अस्य पीताम्बरत्यागे किं जाता विक्रियाऽपुरा ।
इति प्रत्यग्दृशां श्रेष्ठो वशिष्ठो नातिविव्यथे ॥४०॥
 
सोऽयं मैथिलीवल्कलधारणमरुणदरुणसारथिकुलगुरुः ।

तत्र प्रयाणाय प्रणिपतन्तीं स्नुषामाश्लिष्य प्रस्नुतपुत्रवात्सल्या कौसल्या बाष्पगद्गदमभवत् ।

घर्मे निदाघकिरणस्य करैः कठोरैः कान्तारमध्यपदवीषु नखंपचासु ।
त्वां वीक्ष्य संस्थुलपदां वनदेवताभिर्निन्दिष्यन्ते नियतमेव निमेषहानिः ॥ ४१॥

अथ मैथिलीनाथः सलक्ष्मणः सप्रदक्षिणं राजानं जननीजनं च प्रणम्य प्रतिसिद्धप्रतिहारचक्रो निश्चक्राम ।

रथोऽपि दशरथाज्ञापरतन्त्रेण सुमन्त्रेण द्वारि समानीतः ।

प्रारब्धयात्रस्य रघूद्वहस्य प्रागेव सीता रथमारुरोह ।
आनीलरथ्यं रथमारुरुक्षोरह्नां प्रभोरग्रसरी प्रभेव ॥४२॥

दाशरथी च रथमारुरुहतुः ।

यथा यथा राघवराजधानीं विहाय सीता विपिनोत्सुकाभूत् ।
तथा तथाजायत यातुकामा लङ्कां विना राक्षसराजलक्ष्मीः ॥४३॥

आवालवृद्धमनुगच्छति रामभद्रमेषा पुरी तदिह मा खलु निर्गुणा स्याम ।
इत्यादरादिव धरा बहुधा विधायधूलिच्छलान्निजतनुं तमनुप्रतस्थे ॥४४॥

नृपसुखविमुखेन स्वेन कान्तेन साकं दुहितरि विधिपाकात्काननाय व्रजन्त्याम् ।
अकुशलमिति मत्वा नूनमह्नाय धात्री परजनमुखवाष्पं पांशुभिः पर्यहार्षीत् ॥४५॥

रामानुसाररसनिर्गतपौरवर्गा संस्थानमात्रगृहचत्वरराजमार्गा ।
निर्मुक्तभोगभुजगत्वगिव क्षणेन लघ्वी बभूव रघुपुङ्गवराजधानी ॥४६॥

अथ दशरथः सान्तःपुरजनः पुरान्निगर्त्य गत्यन्तराभावात्तमेव रामं सुरिचमा लोकयन्नालकपथमतिक्रान्ते सुमन्त्राक्रान्तस्यन्दने रधुनन्दने स्यन्दमानबाष्पप्रवाहो मोहमुपगम्य भूम्यां पपात ।

ततः परजनकृताश्वासाल्लब्धसंज्ञाय राज्ञे सौसल्यासदनमरोचत ।

अथ दाशरथिरहमहमिकया सम्मूर्च्छन्महाजनौघदुरवगाहतया मन्दायमानस्यन्दनवेगः सकलजनविवेककोकनदं मुकुलयन् मोहतमसा तमसातटमुपगमत् ।

आविः प्रलापमटवीं भजतो जनस्य काकुस्थपादविरहासदमानसस्य ।
आस्तीर्णपर्णशयनान्यभवन्गृहाणि मूलस्थलानि तमसातटभूरुहाणाम् ॥४७॥

अथ निशीथे दाशरथिः सुमन्त्रेण समन्त्र्य वञ्चितजनसंहतिरकतिविनतानन्दनेन स्यन्दनेन व्दश्रुतिगोमतीनिष्यन्दिकानामनदीत्रयपरिष्कृतामिक्ष्वाकवेमनुना दत्ता वसुमतीमतीत्य विविधवनगहनवीरुत्तृणपटलपिहितरथतुरगखुरमुद्रया पदव्या गङ्गातरङ्गसङ्गतरुमूलं गगनगङ्गालिङ्गतशृङ्ग शृङ्गवेरपुरालंकारमिङ्गुदीपादपमुपागमत् ।

दृष्ट्वा राममनेकजन्मरचितैर्दृश्यं शुभैः कर्मभिः श्रुत्वामातृवरद्वयादुपगतां वृत्तिं च वैखानसीम् ।
अत्युज्जृम्भितहर्षशोकजनितैर्वाष्पैर्निषादाधिपः शीताशीतगुणान्वितैरविरलैः सम्प-क्तवक्त्रोऽभवत् ॥४८॥

सोऽयं प्रियसुहृत्समासाद्य गुहः कृताञ्जलिरञ्जसा रघुनाथमनुनाथितवान् ।

देव, पितृनियोगप्रवणान्तःकरणमपि भवन्तः विज्ञापयितुमज्ञजा नपदरीतिर्भारती मां मुखरयति ।

अस्त्येतदनिवार्यवीर्योद्भट भटदुर्गवर्गयुक्तमनुषक्तभोग्यजातमन्थरं मन्थराहृदयतोदावहमस्मदीयं राज्यम् ।

तदेतदनिदम्प्रमथप्रवृत्तं परिगृह्य किञ्चिदनुगृह्य च परिजनयोग्य भाग्यभाजनममुं जनममुञ्चन्नेव तातादेशं देशेस्मिन्विस्मयनीयानुभावमुनिवृन्दे मन्दाकिनीसन्दर्शनेन मन्दायमानजननीजनवियोगदुर्दर्शश्चतुर्दशदशरथकथिताः समाः समापयतु भवानिति ।

तस्मिन्नित्थं प्रार्थनाभाजि सख्यौ प्रत्याचख्यौ रामभद्रः प्रियोक्त्या ।
मातुर्वाक्याद्वल्कलेनावृतं मे गात्रं क्षात्रप्रक्रियां नार्हतीति ॥ ४९॥

ततस्तु तदनुरोधेन रोधस्तरोरधस्तात्सुमन्त्रनियन्त्रितरथ्ययोः दाशरथ्योरातिथ्यं समधुपर्कं कर्तुमिव मन्दमन्दमरविन्दवृन्दस्यन्दनमानमकरन्दबिन्दुसंदोहवाहिनि वाहिनीतरङ्गमरुति वाति काननगमनावस्थांकाकुसेथस्य प्रेक्षितुमक्षमायानिव क्ष्माभृति चरमे तिरोहितामह्नामधिदेवतायां सन्ध्यां चरमां रामः समाप्य तस्यां तरुमूलभुवि लक्ष्मणकल्पितम पर्णतल्पमभजत् ।

रामे विदेहसुतया तरुमूलसंज्ञमन्तःपुरं विशति लक्ष्मणसौविदल्लम् ।
निध्याय तं नियमितामितबाष्पवृष्टिर्निद्रां निरस्य निषसाद निषादनाथः ॥५०॥

व्यतीतायां विभावर्यामर्यममरीचिमालाहारिणि पूर्वोर्वीधरमूर्ध्नि विरचितजटाबन्धौ सह सीतया दाशरथी भीगीरथीकच्छमगच्छताम् ।

तत्र रामः प्रहृष्टचेताः सीतामाचष्ट ।

मेध्याश्वमार्गपरिमार्गणसम्भवस्य दिव्यौषधिं कपिलकोपमहाज्वरस्य
तातानुतर्पणपचेलिमभागधेयां भागीरथीं भगवतीं शरणं भजामः ॥५१॥

तदनन्तरं रामः शआन्तवचननिवारितसुमन्त्रः प्रार्थयमानया तया मैथिल्या सह गुहेनानीतां नावमारुरोह ।

स एष निषिध्य निषादाधिपतेरनुगमनमपि तूर्णमेवव वितीर्णसुरसरित्पुरः संपूर्णसस्ये वत्साभिधाने जनपदे कृतपदश्च लक्ष्यवेधनचतुरश्चतुरो मृगान्निहत्य कुत्रचिद्वनस्पतिमूले निशामनैषीत् ।

अन्येद्युर्वन्येन पथा प्रयातास्ते प्रयागे प्रतायमानहोमधूमप्राग्भारं भारद्वाजाश्रमं श्रयन्तश्चाभिवन्द्य तममन्दहर्षं महर्षिमनेनादिष्टवर्त्मना वैकर्तनीपूरोपप्लवं प्लवेन वैणवेन निस्तीर्य शमघनजनसन्निधानशमितशास्त्रवसकलसत्वचरित्रविचित्रं चित्रकूटाचलमभजन् ।

अनुजरचितपर्णागारहृद्यासु माद्यत्परभृतगलचञ्चत्पञ्चमैरञ्चितासु ।
जनकदुहितृयोगाज्जातसाकेतसौख्यश्चिरमरमत रामश्चित्रकूटस्थलीषु ॥५२॥
 
अथ मां वनवासनैरस्यादपि न्म रामः समाह्वयेदिति प्रत्याशया परतन्त्रः सुमन्त्रः कानिचिदहानि गुहसकाशे नीत्वा निराशस्ततः प्रतिनिवृत्तो निवृत्तोत्सवामयोध्यामासाद्य निर्दाशरथिरयं समागत इति शोकातिरेकातुपौरजनजनितदीनाक्रन्दमन्धीभूतनेमि धोषादवरुह्य रथाद्दशरथं प्रयाणोन्मुखप्राणं प्राणंसीत् ।

एतद्दर्शनेन विसंज्ञो दशरथः कौसल्यासुमित्राभ्यां समाश्वासितः कथं प्रयातम रामेण कथं मैथिल्या किंवृत्तः सौमित्रिरिति मुहुर्मुहुरश्रुकुण्ठितकण्ठः सुमन्त्रमन्वयुङ्क्तः ।

सोऽपि राज्ञे व्यजिज्ञपत् ।

देव, कथं ब्रवीमि, कठिनहृदयोऽहम् ।

सेवारसानुगतपौरमनोरथस्य दूरे रथस्य च सुतौ तव वर्तमानौ
भूत्वा विदेहदुहितुर्नवसौविदल्लौ भागीरथीतटवने पथिकावभूताम् ॥५३॥

देव त्वत्तनयस्य कुन्तलभरं क्षीरैः स्वधेनूद्भवैः सेक्तुं नालमरुन्धतीपतिरभूत्तस्याभिषेकोत्सवे ।
सिक्तो हन्त स एष मैथिलसूतावाष्पोदकोत्पादकैर्न्यग्रोधक्षरितैर्जटां रचयितुं क्षीरैर्निषादाहृतैः ॥५४॥

तस्या विदेहदुहितुः पदयोर्नखेषु लाक्षां विनाप्यरुणिमा सहसा बभूव ।
वन्ये पथि प्रियतमेन सह ब्रजन्त्या वैवर्ण्यमाविरभवन्न कदापि वक्त्रे ॥५५॥

सीतापतेः किशलयैः परिकल्प्य तल्पं संचार्य सत्वदमनाय निशासु दृष्टिम् ।
धन्वी तदङ्घ्रिभजनादिव पुण्यलभ्यादस्वप्न एव वनवर्त्मनि लक्ष्मणोऽभूत् ॥५६॥
एवं सुमन्त्रनिवेदितपुत्रचरित्रश्चरमगिरिशिखरजुषि निगमवपुषि ज्योतिषि हृदयलग्नशोकशल्यां सौशल्यां समाश्वास्य नरपतिरित्थमकथयत् ।

पुरा खलु सरयुरोधसि विविधतरुनिवहपिहितदिवस्पतौ मृगयास्पृहया कमपि समयमगमयम् ।

तत्र-
तोयदानसनादपुष्करगजभ्रान्त्या तपस्वी मया विद्धः कश्चन शब्दवेधनविदा पाथः सरय्वां हरन् ।
तत्पित्रोर्जरदन्धयोरनुमृतिं कर्तुं चितिं चिल्वतोः शापो मध्यपतद्भवानपि सुतप्रेम्णा प्रणश्येदिति ॥५७॥

अहं वैश्यस्य शूद्रायां जाततस्मान्नसम्भवेत् ।
ब्रह्महत्येति मामुक्त्वा स्वर्गतो दुर्गतो मुनिः ॥५८॥

तदवश्यं वश्य एवास्मि मृत्योरिति स्मृतिपथगतराम एव विरराम ।
 
मुनिशापकृतोत्पत्तिर्विपत्तिर्निष्प्रतिक्रिया ।
ततो दशरथायाशु दिदेश दशमीं दशाम् ॥५९॥

नाक्रान्तस्त्रिदिवः परैः सुमनसां कान्ता न वन्दीकृता नाकीर्णं पुरहूतशासनधरैः साकेतबाह्याङ्गणम् ।
नादिष्टाः सचिवाश्च भूतलपरित्राणाय यद्यप्यसौ नाकं शोकवसादगाद्दशरथो नास्थां वहन्वाहने ॥६०॥

अथ दशरथप्रशंसामांसलैः कैकेयीनिन्दाकन्दलितैः रामगुणकीर्तनगुणितैरवराधवधुजनपरिदेवनारवैर्मुखरितिषु दिङ्मुखेषु ।

अभूदराजकम्लानसद्गणं गगनाङ्गणम् ।
आलाक्येव तदा शान्तमशेषं च महीतलम् ॥६१॥

ततः प्रभाते वशिष्ठवचसा सचिवास्तैलद्रोण्यां निक्षिप्य क्षितिपतेस्तनुं क्षिप्रमेव भरतमकथितदशरथकथा एव आनयतेति दूतान् केकयेषु प्रेषयामासुः ।

तेऽपि जितपवनजवनवाजिसंकोचितपथास्तुरगपतिपुरे दुःस्वप्नदीयमानमानसं भरतमभिवन्द्य गुरुनियोगं व्यजिज्ञपन् ।

सोऽयं मातामहेन युधाजिता चानुज्ञातः कतिपयैरेव दिनैरनिमित्तसम्पातेन सातङ्कः साकेतमाससाद ।

अतिचकितमतिः पुरैव पश्यन्पुरमयथापुरचारपौरवर्गम् ।
न्यविशत भरतः परीतदूतः पितृभवनं पितृकाननादनूनम् ॥

स पितरमनवेक्ष तत्र मातुः सदनगतः प्रणिपत्य तामपृच्छत् ।
क्वनु मम गतवान्पितेति सैषा परुषतरं भरताय वाचमुचे ॥६३॥

वनचर इव साकं मैथिलीलक्ष्मणाभ्यां पितृविधिमविरोद्धुं प्रस्थितौ रामभद्रः ।
तदनु तव पिताऽभूत्कालधर्मानुयातस्त्वमनुभव यथेच्छं निःसपत्नां धरित्रीम् ॥६४॥

मयूरीव महानागं केकया केकयात्मजा ।
भारत्या भरतं चक्रे परिक्षुभितमानसम् ॥६५॥

तदनु भरतश्चिरतरं विलप्य विलुप्तमानविवेकः कैकेयीमकथयत् ।

परिणतिपरुषाणां पाप्मनां सन्निपातान्न हि भवसि चतुर्णां सा त्वमस्माकमम्बा ।
तदिह तनयवत्यः संलपिष्यन्ति कामं श्रुतिपुटरचितार्तेस्त्वां सवित्रीमकीर्तिः ॥६६॥

तदनु तन्मुखादाकृष्टदृष्टिरनुजमिदमवादीत् ।

अविरलमिनवंशं दग्धुमाश्रित्य तापं जनमनसि किरन्त्यां हन्त सत्यां भवत्याम् ।
अनुसवनमपापैर्देवता पूज्यमाना वहति कथमिदानीमाश्रयाशाभिधानम् ॥६७॥

अविरतकृषितान्तं वत्समालोक्य धेनोरपि समजशतानां मातुरस्रं बभूव ।
तदिह तनयशोकं संतरेदेकपुत्रा कथय कथमिदानीं कोशलेन्द्रस्य पुत्री ॥६८॥

अपिवदियममन्त्रे कालयोगान्नरेन्द्रे वरयुगरसनाभ्यां प्राणवायुं तदीयम् ।
अपनगरममुष्या वर्तनं युक्तरूपं पितृवनवसुमत्याम क्वापि वल्मीकवत्याम् ॥६९॥

एषा निकृष्टमतिरात्मरुणोचितेषु वंशेषु सत्सु बहुधा पिशिताशनानाम् ।
माकन्दशालिनि वने विषवलिलीरिव हा हन्त केकयकुले कथमाविरासीत् ॥७०॥

जननीतिविहीना में जननीति स धर्मवित् ।
निरयान्निरयाद्वीरो निरयादिव सानुजः ॥७१॥

तत्र सामात्यः समुपेत्य पत्युश्चिताधिरोहणमभिलषन्ती कौसल्या भरतः शपथशतैर्निवार्य वसिष्ठादिष्टेन पथा सदा यागशिलाय यायजुकाभिप्रेतं प्रेतकृत्यमकरोत् ।

ताते पितृवनं याते यातुं भ्रातृवनं तथा ।
भरतः प्रार्थयामास प्राञ्जलिः प्रकृतीः कृती ॥ ७२॥

अथ ताभ्यां सुमित्राकौसल्याभ्यामन्तःपुरजनेन च साकमनुनीतः भरतो भवनमभजत ।

अथ यथाविधिविहितौर्ध्वदैहिकं गमितचतुर्दशदिवसकरकुलहितेन पुरोहितेन नगरवृद्धैः सार्धममात्याः समुपेत्य मुकुटस्य भरणाय प्रार्थयामासुः ।

ततस्तान्निर्बध्नतः सोऽयं प्रत्यवादीत् ।

बहुभिरिह किमुक्तैस्त्यक्तसौमित्रिवृत्तिर्मुकुटमपि वहेयं युष्मदाज्ञा हि पूज्या ।
मम परमवकाशः पर्णशालानुकूलः क्वचिदपि विपुलायां नास्ति चेद्दण्डकायाम् ॥७३॥

इत्युक्त्वा श्रीरामसेवोत्सुकमना निश्चक्राम ।

अनुपधि रचयित्वा सत्पथे पांशुलत्वं सुजननयनसौख्यप्रातिकूल्यं च कृत्वा ।
नरपतिगृहमध्यात्तूर्णमुद्घूर्णमाना कुटिलगतिरुदस्थान्मन्थरा नाम वात्या ॥७४॥

केशहस्तं स्वहस्तेन गृहीत्वा तद्वधोद्यतम् ।
कौसल्या वारयामास क्रुद्धं रामानुजानुजम् ॥७५॥

तत्र सान्तःपुर एव पुरान्निर्गत्य शिल्पिवर्गसमीकृतसरणिर्भरतः पुरतः प्रसृतनरगजरथतुरगचरणक्षुण्णक्षोणीतलसमुत्कीर्णेन रेणुनिकुरुम्बेण जम्भारयन्नम्बरगङ्गा च सुमन्त्रभणितगुणनिवहगुहानुमत्या निस्तीर्य दीरादेवाश्रमद्वारे निवेशितवल्कलभारो भरद्वाजाभिवन्दनमकरोत् ।

सोऽयं प्रीतमना मुनिर्भरद्वाजो भरतं जननीजनमपि प्रत्येकमालोक्य सेनामप्याहूय यधोचितमातिथ्यमकुरुत ।

तथातिथ्यं चक्रे भरतवलभाजां तनुभृतां भरद्वाजः सोऽयं भ्रुकुटिभटकल्पाखिलसुरः ।
तपस्तप्त्वा घोरं दिवि सुमनसस्तत्फलभुजो यथा तेषां तोषं क्षणमभिलषेयुर्मुनिकृतम् ॥७६॥

इति तद्दिनं दिनशतकल्पं तत्र नीत्वा मुनेर्निर्देशेन सर्वे चित्रकूटवनोद्देशमविशन् ।

तत्र संन्यस्तसैन्यस्तत इतो गुहेन सह राममन्विष्यन् हव्यगन्धिना गन्धवहेन धूमगन्धेन च दूरादेव विभाव्यमानमचलमृगगणमदृश्यरूपाभिर्वनदेवताभिरवकीर्यमाणबलिकुसुमसम शेषपिशिताशनपिशाचोच्चाटनमन्त्रायमाणलक्ष्मणचापघोषश्रवणसमुचितसामीप्यप्रदेशं नूतनपरिकल्पितपर्णशालावास्तव्यवौखानसकुटुम्बिनिबिरीसभूभागमनोकहशाखावलम्बमानवल्कलाजिनममरतरुशाखापचितैरभिनवपल्लवभङ्गशवलैरम्बरचरपतिपृतनागणकरकिसलयविमुक्तैरविरलैः कुसुमनिकरैरभ्यर्च्यमानजानकीनिवासतरुमूलवेदिकमालक्ष्यमाणखड्गकार्मुकनिषङ्गमतिथिजनमपर्यापर्युत्सुकसौमित्रिसमाहृतकन्दमूलफलकल्पितैकदेशमविनाभूतजनकदुहितृचरणनलिनविन्यासमपहसत साकेतरामणीयकं रामाश्रमं भरतः ससम्भ्रममभजत ।

अथावासं शान्तेरकृत सुकृतानामसुलभं नवाम्भोदश्यामं नलिननयनं वल्कलधरम् ।
जटाजूटपीडं भुजगपतिभोगोपमभुजं ददर्श श्रीमन्तं विपिनमुवि सीतासहचरम् ॥७७॥

ततस्तस्योपान्ते जनकयजनाधीनजननां ववन्दे वैदेहीं रजनीकररेखामिव नवाम् ।
अरण्यानां पुण्यात्पदकमलमुद्रापरिचयादयोध्यासध्रिचीमविकलमवस्थां विदधतीम् ॥७८॥

स्वतःसिद्धं यस्मिन्नितरदुरवापं विजयते सुमित्रापुत्रत्वादपि जगति रामानुजपदम् ।
यदीयाक्षिद्वन्द्वप्रतिनिधि भवेदम्बुजयुगं निशीथे निर्निद्रं यदि तमसि साक्षादकृत सः ॥७९॥

तदनन्तरं मरुपथे पृथुतरग्रीष्मणि दैवात्कृतोपलम्भमम्भोरुहतटाकं सुधासारपूरितापं भूरितापः सतृष्ण इव कृष्णसारः सरमसं समुपेत्य पादयोर्निपत्य चिरं रुदन्दशरथकथां कथयित्वा मैथिलीसहिताय सलक्ष्मणाय रामाय शोकमूर्च्छां प्रायच्छत् ।

वेलोल्लङ्घनमेतेषां शोकोदन्वति तन्वति ।
अगस्त्यायितमेतस्मिन्वशिष्ठेनात्मवेदिना ॥८०॥

ततः प्रतिपद्य संज्ञामनुज्ञया गुरोरमरसरिति विरचितसमुचितनिवापकृत्यं प्रणिपत्य रामं प्रतिनिवर्तयितुं भरतः प्रावर्तत ।

विकर्तनकुलस्य यदनुकूलं गुणगणस्य यदनुगुणं यशोरूपस्य यदनुरूपं समाचारस्य यत्समुचितं प्राचीनभाग्यस्य यद्योग्यं लोकगर्हणाय यदनर्हं श्रुतस्य वा यत्सदृशं तादृशमाशयं प्रकाशयन्ती भरतोपज्ञा विज्ञापना ।

तत्क्षणं क्षणप्रभाभङ्गुरलक्ष्मीसमावेशलक्ष्मणि क्षोणिपतिशतधृतोज्झिते मुकुटे विघटिताशं सादरं प्रणिपत्य मां पादुकाभ्यां परिष्कुरुतं युवामिति स्वयमेव प्रार्थ्य पआतिश्रावयितुं स्थण्डिलशायि चरणमिव बभार भरतस्योत्तमाङ्गम् ।

त्वया मया च कर्तव्यः सत्यवाचः पितुर्विधिः ।
इति प्रत्यादिशद्रामो भारतीमपि भारतीम् ॥८१॥

तत्र जावालिप्रार्थनायामपि व्यर्थायाम् ।

भरतस्तदनु प्रार्थ्य लेभे लाभविदां वरः ।
काकुस्थपादुकाकारं महार्घं मुकुटद्वयम् ॥८२॥

स एष सानुजः प्रायादयोध्यां भ्रातृशासनात् ।
अटवीं पितृसंदेशाद्ययौ रामः सलक्ष्मणः ॥८३॥

विलङ्घ्य विविधान्देशान्भरतो धृतवल्कलः ।
विषयं स्वमुपाश्रित्य विषये विमुखोऽभवत् ॥८४॥

ततश्चायं यावदार्यस्य प्रत्यागमनं तावदयोध्यां नाध्यासे । तस्मिन्नवधिमतिक्रम्य चिरायति सद्य एवाश्रयाशमाश्रित्यापिप्राणान्नन्दयिष्यामीति नन्दीग्रामसंज्ञमाश्रममशिश्रयत् ।

दाशरथिरपि शमधनजनकथितनिशिचरगणरचितकदनपरिहरणाय गहनजठरमवजगाहे ।

विस्तीर्णाक्षैर्विपिनहरिणैर्वीतभीतिप्ररोहैर्दर्भग्रासेऽप्यकृतरुचिभिः सस्पृहं वीक्ष्यमाणः ।
रामः प्राप्य प्रकृतिमहितं स्थानमत्रेर्महर्षेर्जग्राहास्य प्रमुदितधियः प्रेमपर्यां सपर्याम् ॥

सीतामप्यनुसूयाभिधानास्य पत्नी स्वभूषणैस्तोषयत् ।

खण्डनाय वसुधावधूमनःपुण्डरीकतुहिनत्विषां द्विषाम् ।
दण्डकावनमवाप राघवश्चण्डभानुरिव मेघमण्डलम् ॥८६॥

श्लोकसंख्या-१

गच्छता दशरथेन निर्वृत्तिं भूभुजामसुलभां भुजाबलात् ।
मातुलस्य नगरे युधाजितः स्थिपितौ भरतलक्ष्मणानुजौ ॥१॥

श्लोकसंख्या-२

अथ दशरथः पुत्रं रामं स्वतस्त्रिजगत्पतिं स्वविषयमहीमात्रे कर्तुं पतिं विदधे मतिम् ।
भुवनभरणे कल्यं कल्याणभूधरमादरात्स्व गृहपटलीधूर्यस्तम्भं विधातुमना इव ॥२॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः -
भरतशतृघ्नयोः मातुलालयगमनात् परं दशरथः श्रीरामस्य राज्याभिषेकं कर्तुं ऐच्छत् ।
पदच्छेदः -
अथ | दशरथः | पुत्रम् | रामम् | स्वतः | त्रिजगत्पतिम् | स्वविषयमहीमात्रे | कर्तुम् | पतिम् | विदधे | मतिम् | भुवनभरणे | कल्यम् | कल्याणभूधरम् | आदरात् | स्वगृहपटलीधूर्यस्तम्भम् | विधातुमना | इव ॥
अन्वयः -
अथ दशरथः स्वतः त्रिजगत्पतिम् पुत्रम् रामम् पतिम् कर्तुम् मतिम् विदधे । भुवनभरणे कल्यम् कल्याणभूधरम् आदरात् स्वगृहपटलीधूर्यस्तम्भम् विधातुमना इव (अभवत्) ॥

व्याख्या -
अथ (भरतशतृघ्नयोः मातुलालयगमनात् परं ) दशरथः (तन्नाम गाजा) स्वतः (स्वयं) त्रिजगत्पतिम् (त्रयाणां जगतां स्वामिं) पुत्रम् रामम् (पुत्रगामभद्रम्) पतिम् (स्वामी) कर्तुम् (करणाय) मतिम् (आग्रहं) विदधे (कृतवान्) । भुवनभरणे (त्रिजगतस्य धारणे) कल्यम् (सक्षमं) कल्याणभूधरम् (स्वग्णाचलं) आदरात् (स्नेहात्) स्वगृहपटलीधूर्यस्तम्भम् (निजगृहे स्तम्भं) विधातुमना (कृतनिश्चितः) इव ॥

विषद्व्याख्या -
रामः विष्णोः अवतारः । ततः सः त्रिभुवनपतिः - त्रिभुवनं धारयितुं सः सक्षमः । एतादृशं क्षमतासम्पन्नं रामं दशरथः केवलमात्र अयोध्याराज्यस्य राज्यभारं ददाति इति उत्प्रेक्षा ।
व्याकरणम् -

(१) सन्धिः -
स्वतस्त्रिजगत्पतिं = स्वतः + त्रिजगत्पतिं
कल्याणभूधरमादरात् = कल्याणभूधरम् + आदरात्
२) समासः -
त्रिजगत्पतिं = त्रयाणां जगतां समाहारः त्रिजगत् (द्विगु), तस्य पतिः यः सः (बहुव्रीहि), तम् ।
कल्याणभूधरम् = कल्याणमय भूधरम् (स्वर्णाभ पर्वतम्) मध्यपदलोपी कर्मधारयसमासः ।
(३) कृदन्तम्-
राम = √रम् + घञ्
कर्तुम् = √कृ + तुमुन्
(४) तद्धितान्तम् -

(५)छन्दः -
हरिणीवृत्तम्, तस्य लक्षणं = “भवति हरिणी न्सौ म्रौ स्लौ गो रसाम्बुधिविष्ट्पैः ।
(६) अलङ्कारः -
(१) व्याजस्तुति (२) निदर्शना (३) दृष्टान्त (४) उत्प्रेक्षा
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी) - वैदर्भी
(८) गुणः (ओज/प्रसाद/माधुर्य) - प्रसाद
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥) - अद्भूतम् ।

1. अत्र त्रिजगत्पतिं इति पदं कस्य विशेषणम् -
उत्तरम् - “त्रिजगत्पतिं” पदं “राम” इति पदस्य विशेषणम् ।

2 अत्र पतिं इति पदस्य अर्थमस्ति - (क) राजा (ख) वरः (ग) दशरथः (घ) किमपि न -
उत्तरम् - (क) अत्र पतिं इति पदस्य अर्थमस्ति “राजा” ।

3. अत्र एकमव्ययपदं चिनोतु -
उत्तरम् -अत्र “इव” इति अव्ययपदं वर्तते ।

4. अत्र द्वे क्रियापदे उल्लेखयतु -
उत्तरम् - अत्र द्वे क्रियापदे यथा - (१) विदधे (२) करतुम् ।

5. स्वविषय - अत्र समासं स्पष्टयतु -
उत्तरम् - स्वस्य विषयः = स्वविषयः , षष्ठीतत्पुरुषसमासः ।

तदनन्तरमसौ समंन्त्र्य मन्त्रिभिः सह पौरवृद्धान् वृद्धश्रवः पुरोधः समान्समाहूय समादिदेश ।

विदितमेव हि भवतां शिवतातिमेव मतिं दधानाः सुपथा संचरमाणाः प्राणिनां दयमानमानसा मानधनाः यशः समार्जनजागरुकाः जनोपपात संमार्जनतत्पराः परां निर्वृत्तिंमुपेत्य देवभूयं गताः सर्वे नः पूर्वपुरुषा इति ।

तस्मादस्मादिभिरपि तेषां मनीषामनुसरमाणैरेतावन्तं कालं परिपालिताः सकलाः प्रजाः ।

प्रमाणमत्र परिपालनक्रीयामिमां मदीयामनुभवन्तो ननु भवन्त एव ।

भवतामभ्ुसगमानां निगमानां प्रतीपगामिनीं पदवीं न प्रत्येति खलु लोकस्तदस्ति किंचिदभ्यर्थनीयम् ।

श्लोकसंख्या-३

मम सुरनरगीतख्यातिभिर्हेतिभिर्वा दिवि भुवि च समानप्रक्रमैर्विक्रमैर्वा ।
नियतमपरिहार्या या जरा सा मदङ्गे विकचकमलपण्डे चन्द्रिकेवाविरासीत् ॥३॥
प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः -
रामस्य राज्याभिषेकाय दशरथः उत्तरपक्षं प्रस्तौति ।
पदच्छेदः -
मम | सुरनरगीतख्यातिभिः | हेतिभिः | वा | दिवि | भुवि | च | समानप्रक्रमैः | विक्रमैः | वा | नियतम् | अपरिहार्या | या | जरा | सा | मदङ्गे | विकचकमलपण्डे | चन्द्रिका | इव | आविः | आसीत् ॥

अन्वयः -
मम सुरनरगीतख्यातिभिः हेतिभिः वा दिवि भुवि च समानप्रक्रमैः विक्रमैः वा या जरा नियतम् अपरिहार्या सा मदङ्गे विकचकमलपण्डे चन्द्रिका इव आविः आसीत् ॥

व्याख्या -
मम (दशरथस्य) सुरनरगीतख्यातिभिः (सुरैः नरैः च गीतः यः ख्यातयः, ताभिः) हेतिभिः (शस्त्रैः) वा दिवि (देवलोके) भुवि (भुलोके) च समानप्रक्रमैः (तुल्यप्रकारैः) विक्रमैः (पराक्रमैः) वा या जरा (बृद्धावस्था) नियतम् (निश्चितम्) अपरिहार्या (परिहर्तुम् अशक्त्या) सा (जरा) मदङ्गे (दशरथस्य शरीरे) विकचकमलपण्डे (प्रस्फुटितकमलोदरे) चन्द्रिका इव (चन्द्रकिरणेव) आविः आसीत् (आविर्भूता अभवत्) ॥

विषद्व्याख्या -
दशरथः स्वस्य वार्ध्यक्यं सूचयति । यद्यपि सः कदाचित् अतिवलवान् आसीत्, तथापि कालस्य कुटीलप्रभावात् बृद्धावस्थया सः आक्रान्तः इति सूचयति ।

व्याकरणम् -

(१) सन्धिः -
सुरनरगीतख्यातिभिर्हेतिभिर्वा = सुरनरगीतख्यातिभिः +हेतिभिः + वा ।
समानप्रक्रमैर्विक्रमैर्वा = समानप्रक्रमैः + विक्रमैः + वा ।
नियतमपरिहार्या = नियतम् +अपरिहार्या ।
मदङ्गे = मत + अङ्गे ।
चन्द्रिकेवाविरासीत् = चन्द्रिका + इव +आविः + आसीत् ।

२) समासः -

(३) कृदन्तम्-

(४) तद्धितान्तम् -

(५)छन्दः -
अत्र मालिनी वृत्तम् - “न न म य य युतेऽयं मालिनी भोगिलोकैः” इति लक्षणात् ।
(६) अलङ्कारः -
उपमालङ्कारः । उपमेय = अङ्गम् , उपमान = कमलम्, साधारणधर्मः = जरा, उपमावाचकशब्दः = इव ।
(७) रीतिः
(वैदर्भी/पाञ्चाली/गौडी) - पाञ्चाली
(८) गुणः (ओज/प्रसाद/माधुर्य) - प्रसाद
(९) रस - करुण
(शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥) - अद्भूतम् ।

तस्मात्समस्तक्षत्रवर्गगर्वपाटन वरिष्टधारापरश्वधभरणभीषणवेषभार्गवभङ्गादपरिच्छिन्नतरशौर्यशालिनि सौन्दर्यभाजने जनानुरागनिलये निर्मत्सरे वत्सले वत्सेऽस्मिन्विश्वम्भराभारं चिरकालधार्यमाणमार्यैरनुमतः सन्नवतार्य विश्रान्तिसुखमनुभवितुमभिलषामिति ।

ततः प्रावृषेण्यपयोवाहव्यूहस्तनितनादाकर्णनसमुदीर्णनिरतिशयाह्लादसंसर्गनिरर्गलनिर्गलत्केकालापिनः कलापिनः इव जनाः प्रमदभवकलकलरवमुखरितहरिन्मुखा वभूवुः ।

ततः

प्रावृषेण्यपयोवाहव्यूहस्तनितनादाकर्णनसमुदीर्णनिरतिशयाह्लादसंसर्गनिरर्गलनिर्गलत्केकालापिनः =
प्रावृषेण्यः (वर्षाकालसमुद्भूतः) यः पयोवाहव्यूहः (मेघसमूहः) तस्य स्तनितनादः (गर्जितध्वनिः) तस्य आकर्णनेन (श्रवणेन) समुदीर्णः (समुत्पन्नः) निरतिशयाह्लाद (समधिक-आनन्दः) तस्य संसर्गेण (सम्बन्धेन) निरर्गलम् (अनियन्त्रितं) यथा स्यात् तथा निर्गलन्ती (निर्गच्छन्ती) केका (मयूरवाणई) ताम् आलापन्ति (कूजन्ति) तत् शीलाः

कलापिनः (मयूराः) इव जनाः

प्रमदभवकलकलरवमुखरितहरिन्मुखा = प्रमदभवः (हर्षोत्फुल्लः) यः कलकलरवः (कलकलध्वनिः) तेन मुखरितम् (मुखरीकृतं) हरिन्मुखम् (दिगन्तरमेवमुखं) यः, ते

वभूवुः (अभवन्) ॥

श्लोकसंख्या-४
आनन्दवाष्पविसरो वदने प्रजाना - माविर्बभूव मकरन्द इवारविन्दे ।
रामस्य कान्तिमभिषेकदिने भवित्रिं प्रक्षाल्य चक्षुरिव वीक्षितुमादरेण ॥ ४॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः -
रामस्य राज्याभिषेकं श्रवणात् प्रजानां हर्षोल्लासः वर्णितः ।
पदच्छेदः -
आनन्दवाष्पविसरो | वदने | प्रजानाम् | आविर्बभूव | मकरन्दः | इव | अरविन्दे | रामस्य | कान्तिम् | अभिषेकदिने | भवित्रिं | प्रक्षाल्य | चक्षुः | इव | वीक्षितुम् | आदरेण ॥

अन्वयः -
अरविन्दे मकरन्दः इव प्रजानाम् वदने आनन्दवाष्पविसरः (अभवत्) । अभिषेकदिने भवित्रिं रामस्य कान्तिम् चक्षुः प्रक्षाल्य आदरेण वीक्षितुम् इव आविर्बभूव ॥

व्याख्या -
अरविन्दे (कमले) मकरन्दः (पुष्पमधुः) इव प्रजानाम् (जनानां) वदने (मुखे) आनन्दवाष्पविसरः (आनन्दाश्रुपूरितः) (अभवत्) । अभिषेकदिने (अभिषेकसमये) भवित्रिं (भाविनीम्) रामस्य कान्तिम् (शोभाम्) चक्षुः प्रक्षाल्य (नेत्रं प्रमृज्य) आदरेण (स्नेहेन) वीक्षितुम् (द्रष्टुं) इव आविर्बभूव (प्रादुरासीत्) ॥

विषद्व्याख्या -
रामस्य राज्याभिषेकं चिन्तयित्वा प्रजागणाः आनन्देन अश्रुविमोचनं कृतवन्तः ।
छन्दः -
वसन्ततिलकावृत्तम् ।
अलङ्कारः -
(१) प्रथमार्धे उपमा ।
(२) द्वितीयार्धे उत्प्रेक्षा ।
(३) ततः परस्परनैर्यपेक्षेण संसृष्टिः ।
(७) रीतिः
(वैदर्भी/पाञ्चाली/गौडी) - पाञ्चाली
(८) गुणः (ओज/प्रसाद/माधुर्य) - प्रसाद
(९) रस - अद्भूतम् ।
(शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥) - अद्भूतम् ।

राजापि तेषां संपत्स्यमानमहोत्सवोत्सुकजनसंमर्दजनिष्यमाणरजोराजिपातपरिजिहीर्षयेव रोमाञ्चप्रपञ्चेन कञ्चुकिताङ्गानां प्रमाणातीतां प्रीतिं प्रपन्नानां हर्षप्रकर्षेण द्विगुणीकृतमानन्दमन्तर्नियम्य सुमन्तप्रमुखान् मन्त्रीमुख्यानेवमाचख्यौ ।

श्लोकसंख्या-५
अस्माननाश्रिततपोवनभूमिभागा- नुन्मुच्यमार्ग परिपालनजागरुकाम् ।
अम्लानमौग्ध्यमचिरादवलम्ब्य राम- मेवंविधः कथमुदिते जनानुरागः ॥५॥

तेऽपि नियमितनिजमनोरथाय जशरथाय सविनयमेवं व्यजिज्ञपन् ।

श्लोकसंख्या-६
देवे स्थितेऽपि तनयं तवरामभद्रं लोकः स्वयं भजतु नाम किमत्र चित्रम् ।
चन्द्रं विना यदुपलम्भनहेतुभूतं क्षीरोदमाश्रयति किं तृषितश्चकोरः ॥६॥

तदनन्तरतत्वरे तत्परस्तत्वविदां वरिष्ठस्य वशिष्ठस्य शासनादभिषेकोपकरणाहरणाय सामात्यः पौरवर्गः ।

श्लोकसंख्या-७
आहूय रामं विनयाभिराम- माविः प्रमोदः प्रभुरेवमूचे ।
तवोत्तमाङ्गे मुकुटं विधातु- मह्नाय तिष्ये दिवसे यतिष्ये ॥७॥

अथ दशरथमनोरथं कौशल्यायै निवेद्य स्वभवनमुपागतस्य रामस्य भगवान् वशिष्ठः सञ्जातकौतुकः कौतुकमङ्गलं निवर्तयामास ।

श्लोकसंख्या-८
आपूरयन्मङ्गलतूर्यघोषै- राशावशावल्लभकर्णतालम् ।
उज्जृम्भितः कोऽपि गिरामभूमि- रुन्मस्तकः पौरजनप्रमोदः ॥८॥

श्लोकसंख्या-९

यामेवाहुर्निशिचरकुलोन्मूलने मूलहेतुं यस्याश्चित्तं प्रकृतिकुटिलं गात्रमित्रं बभूव ।
अम्भोजिन्याः शिशिरसरसं कासरीवाच्छमम्भः कैकेय्याः सा हृदयमदयं मन्थरा निर्ममन्थ ॥९॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
श्रीरामस्य राज्याभिषेकात् प्राक् मन्थरया कैकेयाः चित्तं भमितं कृतम् । तस्येव प्राक्सूचना अत्र दीयते ।
पदच्छेदः -
याम् | एव | आहुः | निशिचरकुल-उन्मूलने | मूलहेतुम् | यस्याः | चित्तम् | प्रकृतिकुटिलं | गात्रमित्रं | बभूव | अम्भोजिन्याः | शिशिरसरसं | कासरी | इव | अच्छम् | अम्भः | कैकेय्याः | सा | हृदयम् | अदयं | मन्थरा | निर्ममन्थ ॥
अन्वयः -
याम् एव निशिचरकुल-उन्मूलने मूलहेतुम् आहुः, यस्याः प्रकृतिकुटिलं चित्तम् गात्रमित्रं बभूव, सा मन्थरा कैकेय्याः हृदयम् अम्भोजिन्याः शिशिरसरसं अच्छम् अम्भः कासरी इव अदयं निर्ममन्थ ॥
व्याख्या -
याम् (मन्थरां) एव निशिचरकुल-उन्मूलने (राक्षसाना हनने) मूलहेतुम् (प्रधानं कारणं) आहुः (उक्ता), यस्याः (मन्थरायाः) प्रकृतिकुटिलं (कुटिलस्वभावं) चित्तम् (मनं) गात्रमित्रं (शरीरबत्) बभूव (आसीत्), सा मन्थरा कैकेय्याः हृदयम् (अन्तर्देशम्) अम्भोजिन्याः (पुष्करीण्याः) शिशिरसरसं (शिशिरेण सरसं मधुरम्) अच्छम् (निर्मलम्) अम्भः (पयः) कासरी (वनमहीषी) इव अदयं (दयारहितं) निर्ममन्थ (आलोडयामास) ॥
विषद्व्याख्या -
यथा वनमहीषी पुष्करिण्यां प्रविष्टा सन् निर्मलं जलं आलोडयति, तथैव मन्थरा कैकेय्याः शुद्धं मनं दूषयति ।
व्याकरणम् -
(१) सन्धिः -
यामेवाहुर्निशिचरकुलोन्मूलने = याम् + एव + आहुः + (निशिचरकुल+उन्मूलने)
यस्याश्चित्तं = यस्याः + चित्तम्
कासरीवाच्छमम्भः = कासरी + इव + अच्छम् + अम्भः
२) समासः -
निशिचरकुलोन्मूलने = निशिषुचरति इति निशिचरः (उपपदतत्पुरुषः) तेषाम् उन्मूलने (षष्ठीतत्पुरुषः)
प्रकृतिकुटिलं = प्रकृत्या कुटिलं (तृतीयातत्पुरुषः)
शिशिरसरसं = शिशिरेण सरसं (तृतीयातत्पुरुषः),
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
मन्दाक्रान्तावृत्तम् । “मन्दाक्रान्ताऽभ्बुधिरसनगैर्मो भनौ तौ ग-युग्मम् ” इति लक्षणात् ।
(६) अलङ्कारः -
उपमालङ्कारः । उपमेयौ = कैकेय्याः मनः, मन्थरा । उपमानौ = अम्भोजीन्याः अच्छमम्भः, कासरी
सामान्यधर्मः = कलुषः, योजकशब्दः = इव
(७) रीतिः (समग्रगुणा वैदर्भी/माधुर्यसौकुमार्योपपन्ना पाञ्चाली/ओजःकान्तिमयी गौडीया)
 पाञ्चाली
(८) गुणः (ओज/प्रसाद/माधुर्य)
प्रसादः
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
अद्भूतम् ।

श्लोकसंख्या-१०
अलघुचलितझञ्झावातनिष्पेषदोषा- दशनिरिव कठोरः शीतलाम्भोदपङ्कौ ।
अपहृतजनसौख्यान्मन्थराभेदवाक्या- दपि भरतजनन्यां हन्त दौर्जन्यमासीत् ॥१०॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
मन्थरायाः वाण्याः कैकेयी प्रति दुष्प्रभावः ।
पदच्छेदः -
अलघुचलितझञ्झावातनिष्पेषदोषात् | अशनिः | इव | कठोरः | शीतलाम्भोदपङ्कौ | अपहृतजनसौख्यात् | मन्थराभेदवाक्यात् | अपि | भरतजनन्यां | हन्त | दौर्जन्यम् | आसीत् ॥
अन्वयः -
हा ! हन्त ! अलघुचलितझञ्झावातनिष्पेषदोषात् शीतलाम्भोदपङ्कौ कठोरः अशनिः इव अपहृतजनसौख्यात् मन्थराभेदवाक्यात् भरतजनन्यां अपि दौर्जन्यम् आसीत् ॥
व्याख्या -
हा ! हन्त ! अलघुचलितझञ्झावातनिष्पेषदोषात् (तीव्रवेगेनप्रवाहितभीषणपवनकारणात्) शीतलाम्भोदपङ्कौ (शीतलमेघखण्डे) कठोरः (परुषः) अशनिः (वज्र) इव अपहृतजनसौख्यात् (विध्वंसित जनानं सौख्यं, तस्मात्) मन्थराभेदवाक्यात् (मन्थरायाः उपजापकारणात्) भरतजनन्यां (कौकेयां) अपि दौर्जन्यम् (आसुरीभावं) आसीत् ॥

विषद्व्याख्या -
तीव्रवेगेन प्रवाहितेन पवनेन शीतलमेघखण्डे अपि कुलिशस्य सृष्टिः भवति । तथैव मन्थरायाः परुषवचनेन कैकेयाः निष्पापनमसि सौजन्यशून्यतायाः आविर्भावः अभवत् ।
व्याकरणम् -
(१) सन्धिः -
अलघुचलितझञ्झावातनिष्पेषदोषादशनिरिव = अलघुचलितझञ्झावातनिष्पेषदोषात् + अशनिः + इव
शीतलाम्भोदपङ्कौ = शीतल + अम्भोदपङ्कौ
अपहृतजनसौख्यान्मन्थराभेदवाक्यादपि = अपहृतजनसौख्यात् + मन्थराभेदवाक्यात् + अपि
दौर्जन्यमासीत् = दौर्जन्यम् + आसीत्
२) समासः -
अलघुचलितझञ्झावातनिष्पेषदोषात् = न लघु इति अलघु, अलघुना चलित यः सः, तद्वत् झञ्झावातः, तेन निष्पेषितः यः सः, तस्य दोषात्
(३) कृदन्तम्-
चलित = √चल् + क्त
अपहृत = अप (उपसर्गः) + हृ + क्त
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र मालिनी वृत्तम् - “न न म य य युतेऽयं मालिनी भोगिलोकैः” इति लक्षणात् ।
(६) अलङ्कारः -
उपमालङ्कारः ।
उपमानाः -
अलघुचलितझञ्झावातः
शीतलाम्भोदपङ्कौ
अशनिः
उपमेयाः -
मन्थराभेदवाक्यम्
भरतजननी
दौर्जन्यम्
योजकशब्दः = इव
(७) रीतिः (समग्रगुणा वैदर्भी/माधुर्यसौकुमार्योपपन्ना पाञ्चाली/ओजःकान्तिमयी गौडीया)
पाञ्चाली
(८) गुणः (ओज/प्रसाद/माधुर्य)
ओज
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
भयानकः

सैषा मन्थराभिधानपिशाचिकावेशपरवशनिजाशया पूर्वं दण्डके वैजयन्तपुरवास्तव्यशम्बरासुरसंगरसंगतवेदनापनोदनाथमात्मने वितीर्ण वराय दशरथाय वरद्वयं न्यवेदयत् ।

श्लोकसंख्या-११
तयोराकस्य संरम्भो भरतस्यभिषेचनम् ।
अन्यस्य वन्यवृत्त्यैव वने रामस्य वर्तनम् ॥११॥

श्लोकसंख्या-१२
तस्मिन् क्षणे वरयुगं चिरतप्तताम्र-
नाराचवाधपरुषं श्रवसी विदार्य ।
सत्यप्रहाणचकितस्य नृपस्य काम-
मूरीचकार हृदये पुटपाकरीतिम् ॥१२॥

श्लोकसंख्या-१३
तनयविरहवार्तामात्रसंतप्तमाना-
दथ दशरथचित्ताच्चेतना निर्जगाम ।
दवहुतवहरोचिर्ज्वालया लेह्यमाना-
ज्झटिति गहनगुहादुज्झिहाना मृगीव ॥१३॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
रामस्य वनगमनवार्ता श्रवणेन दशरथस्य दुरवस्था वर्णिता अत्र ।
पदच्छेदः -
तनयविरहवार्तामात्रसंतप्तमानात् | अथ | दशरथचित्तात् | चेतना | निर्जगाम | दवहुतवहरोचिर्ज्वालया | लेह्यमानात् | झटिति | गहनगुहात् | उज्झिहाना | मृगी | इव ॥
अन्वयः -
अथ तनयविरहवार्तामात्रसंतप्तमानात् दशरथचित्तात् चेतना दवहुतवहरोचिर्ज्वालया लेह्यमानात् गहनगुहात् उज्झिहाना मृगी इव झटिति निर्जगाम ॥
व्याख्या -
अथ (अनन्तरं) तनयविरहवार्तामात्रसंतप्तमानात् ( तनयः इति रामः तस्य विरहवार्ता वियोगवार्ता श्रवणमात्रेण संतप्तमानः दह्यमानः यः सः, तस्मात्) दशरथचित्तात् चेतना (संज्ञा) दवहुतवहरोचिर्ज्वालया (वनाग्नि-ज्वालया) लेह्यमानात् (आस्वादनात्) गहनगुहात् (काननकुञ्जात्) उज्झिहाना (निर्गमनशीला) मृगी (हरिणी) इव झटिति (शीघ्र) निर्जगाम (निरगात्) ॥
विषद्व्याख्या -
यथा वनाग्निकारणात् कुरङ्गी कुञ्जकाननात् निर्गत्य झटिति पलायति, तथैव रामस्य वनगमनवार्ताश्रवणात् दशरथस्य संज्ञा गतवान् (सः संज्ञाहीनः अभवत्) ।
व्याकरणम् -
(१) सन्धिः -
तनयविरहवार्तामात्रसंतप्तमानादथ = तनयविरहवार्तामात्रसंतप्तमानात् + अथ
दशरथचित्ताच्चेतना = दशरथचित्तात् + चेतना
दवहुतवहरोचिर्ज्वालया = दवहुतवहरोचिः +ज्वालया
लेह्यमानाज्झटिति = लेह्यमानात् + झटिति
गहनगुहादुज्झिहाना = गहनगुहात् उज्झिहाना
मृगीव = मृगी + इव
२) समासः -
(३) कृदन्तम्-
(४) तद्धितान्तम् -
लेह्यमानम् = लेह्य + शानच्
(५)छन्दः -
अत्र मालिनी वृत्तम् - “न न म य य युतेऽयं मालिनी भोगिलोकैः” इति लक्षणात् ।
(६) अलङ्कारः -
उपमालङ्कारः ।
उपमानाः -
मृगी
दवहुतवहरोचिर्ज्वालया
उपमेयाः -
दशरथस्य संज्ञा
तनयविरहवार्तामात्रसंतप्तमानात्
योजकशब्दः = इव
(७) रीतिः (समग्रगुणा वैदर्भी/माधुर्यसौकुमार्योपपन्ना पाञ्चाली/ओजःकान्तिमयी गौडीया)
पाञ्चाली
(८) गुणः (ओज/प्रसाद/माधुर्य)
माधुर्यः
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
करुणरसः ।

अथ दशरथः कथमपि लब्धसंज्ञः कैकेयीमभाषत ।

श्लोकसंख्या-१४
रामः काममुपाश्रियति वनं त्यक्त्वा धृतं कौतुकम्
लोकस्त्यक्षति कौतुकं चिरधृतं तस्याभिषेके कथम् ।
धर्मापायभयेन वत्सविरहं वक्ष्यामि वक्ष्यामि किं
यावत्कल्पमकीर्तिरार्तिजननी जायेत जाये तव ॥१४॥

श्लोकसंख्या-१५
वत्सं कठोरहृदये नयनाभिरामं
रामं विना न खलु तिष्ठति जीवीतं मे ।
धातुर्वलादुपयमस्त्वयि जातपूर्वः
कैकेयि मामुपयमं नयतीति मन्ये ॥१५॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
दशरथः कैकेयीं भर्त्सना करोति ।
पदच्छेदः -
वत्सम् | कठोरहृदये | नयनाभिरामम् | रामम् | विना | न | खलु | तिष्ठति | जीवीतम् | मे |धातुः | वलात् | उपयमः | त्वयि | जातपूर्वः | कैकेयि | माम् | उपयमम् | नयति | इति | मन्ये |
अन्वयः -
हे कठोरहृदये ! नयनाभिरामम् वत्सं रामम् विना खलु मे जीवीतम् न तिष्ठति । हे कैकेयि ! धातुः बलात् त्वयि मे जातपूर्वः उपयमः माम् उपयमम् नयति इति मन्ये ।
व्याख्या -
हे कठोरहृदये (कैकेयि) ! नयनाभिरामम् (नेत्रानन्दकरं) वत्सं रामं (पुत्रं रामं) विना (विहाय) खलु मे (मम) जीवीतम् (जीवनं) न तिष्ठति । हे कैकेयि ! धातुः बलात् (विधिबलात्) त्वयि (विषये) मे (मम) जातपूर्वः (पुर्वं जातः) उपयमः (विवाहः) माम् (दशरथं) उपयमं (यमस्य समीपं) नयति इति (अहं) मन्ये ।
विषद्व्याख्या -
सुष्ठु काव्यमिदम् । “उपयम” इति शब्दस्य अर्थः विवाहः । किन्तु उप-उपसर्गपूर्वक ‘यम’ (कृतान्त) इति शब्स्य योजनात् अर्थः भवति ‘धर्मराजस्य निकटे’ । अतएव उपयमः एव मां उपयमं नयति इति दशरथः विचारयति ।
व्याकरणम् -
(१) सन्धिः -
धातुर्वलादुपयमस्त्वयि = धातुः + वलात् + उपयमः + त्वयि
मामुपयमं = माम् + उपयमं
नयतीति = नयति + इति

२) समासः -
कठोरहृदये = कठोरं हृदयं यस्य सः, तस्मिन् ।
नयनाभिरामं = नयनयोः अभिरामं यः सः, तम् ।
यमस्य निकटं उपयमम् (अव्ययीभावसमासः)
(३) कृदन्तम्-
रामः = √रम् + घञ्
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र वसन्ततिलकाच्छन्दः - “उक्तावसन्ततिलका तभजा जगौ गः” इति लक्षणात् ।
(६) अलङ्कारः -
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
वैदर्भी
(८) गुणः (ओज/प्रसाद/माधुर्य)
ओजः
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
करुणरसः ।
√ = option +221a

तदनु निजमनोरथैकपरिपूरणे कृतादरा कैकेयीसोपहासमवादीत् ।

श्लोकसंख्या-१६
सत्यविप्लवमपत्यसंगतः
संगतं भृशमपशयतस्तव ।
आश्रुतस्य विफलत्वमस्ति चेत्
आश्रुतस्य रचितोऽयमञ्जलिः ॥१६॥

श्लोकसंख्या-१७
किं नागतस्ते श्रवसोः सकाश-
मरिंदमः सत्यगिरां पुरोगः ।
श्येनामिषीभूतकपोतपोत-
जीवातवे शस्त्रनिकृत्तगात्रः ॥१७॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः -
दशरथं कैकेयी पूर्वोरीकृते वरे प्रदानाय प्रार्थयति । वररूपेण श्रीरामस्य वनगमनं श्रुत्वा दशरथः कैकेयीं भर्त्सनां करोति । कैकेयी अपि स्वमते अचला तिष्टति । स्वमतस्य पुष्टिकरणाय सा पूर्वसूरीणां कृतयः, तेषां सत्यवद्धता च उदाहरणतया उपस्थापयति । अस्मिन् श्लोके सा पुण्यश्लोकस्य शिविमहाराजस्य सत्यनिष्ठामुपस्थापयति भर्तारं समक्षे ।
पदच्छेदः -
किम् | न | आगतः | ते | श्रवसोः | सकाशम् | अरिन्दमः | सत्यगिराम् | पुरोगः | श्येनामिषीभूतकपोतपोतजीवातवे | शस्त्रनिकृत्तगात्रः ॥
अन्वयः -
 सत्यगिरां पुरोगः श्येनामिषीभूतकपोतपोतजीवातवे शस्त्रनिकृत्तगात्रः अरिन्दमः ते श्रवसोः सकाशं न आगतः किम् ॥
व्याख्या -
 सत्यगिरां { सत्या गिर्वाणी येषां ते सत्यगिरः, तेषाम् } पुरोगः {अग्रगण्यः} श्येनामिषीभूतकपोतपोतजीवातवे { श्येनस्य - श्येनवेशधारिणः इन्द्रस्य, आमिषीभूतः - भोग्यवस्तुभूतः, यः कपोतपोतः - यः कपोतशिशुः कपोतवेशधारी यमः, तस्य जीवातवे { जीवनौषधार्थं - तज्जीवनरक्षणार्थमित्यर्थः } शस्त्रनिकृत्तगात्रः { शस्त्रेण - खड्गेन, निकृतं - खण्डितं, गात्रं - शरीरं येन सः, तथोक्तम् } अरिन्दमः { अरिन् दमयति इति अरिन्दमः, शिविनाम महाराजः } ते { तव - दशरथस्य } श्रवसोः { कर्णयाः } सकाशं { समीपम् } नागतः किम् { एतादृशस्य महाराजस्य नाम भवता न श्रुतं किम् - इत्यर्थः } ।
विषद्व्याख्या -
पुरा शिविनाम सत्यसन्धः धर्मात्मा च राजा आसीत् । तस्य सत्यसन्धतायां परीक्षणार्थं श्येनवेषेण इन्द्रः अपि च कपोतवेषेण यमः आगतवन्तौ । श्येनेन अनुगस्यमानः कपोतः शिवेः शरणमयाचत । श्येनः स्वस्य खाद्यं कपोतं अकाङ्क्षयत् । श्येनः कपोतस्य स्थाने भिन्नं किमपि पिशितं प्रार्थयितुम् आज्ञापयत् । तदा श्येनः कपोतस्य तुलयितं स्वमांसं दातुं राजानं अवदत् । राजा श्येनवचनमङ्गीकृत्य स्वशरीरं निकृत्य अतुलयत् । तुलायन्त्रे सर्वथा कपोतः एव गुरुतरः अभवत् । ततः शिविः स्वस्य सम्पूर्णदेहं कपोतरक्षणाय दत्तवान् ।

एतायाः कथायाः वर्णनेन कैकेयी दशरथं स्ववाक्यप्रतिरक्षणाय प्रेरयति ।
व्याकरणम् -
(१) सन्धयः -
नागतस्ते = न + आगतः + ते (सवर्णदीर्धसन्धिः विसर्गसन्धिः च)
सकाशमरिंदमः = सकाशम् + अरिंदमः (हल्सन्धिः)

(२) समासाः व्याख्यायां प्रदर्शिताः ।
 (३) कृदन्तौ
आगतः = आ (उपसर्ग) + गम् (धातुः) + क्त + सुप् (प्रथम्येकवचने) ।
निकृत = नि (उपसर्ग) + कृ (धातुः) + क्त ।
छन्द -
उपजाति, तस्य लक्षणम् -
 उपजातिवृत्तम् - इन्द्रवज्रा-उपेन्द्रवज्रायोः मेलनात् ।
इन्द्रवज्रा वृत्तम् - “स्यादिन्द्रवज्रा यदि तौ जगौ गः” इति लक्षणात् ।
उपेन्द्रवज्रा वृत्तम् - “उपेन्द्रवज्रा जतजा ततो गः” इति लक्षणात् ।
(६) अलङ्कारः -
दृष्टान्तालङ्कारः ।
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
पाञ्चाली
(८) गुणः (ओज/प्रसाद/माधुर्य)
ओजः गुणः ।
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
वीररसः ।

किञ्च-
श्लोकसंख्या-१८
अभ्यर्च्य कस्मैचिदुपाश्रिताय
वितीर्य विप्राय विलोचने स्वे ।
आपूरयत्कश्चिदलर्कसंज्ञः
प्राज्ञः प्रतिज्ञा प्रथितप्रभावः ॥१८॥

श्लोकसंख्या-१९
असुरसमरवेलाजातबाधावसाने
वरयुगमदिशस्त्वं प्रीतिपूर्वं यथा मे ।
अशिथिलरुणवन्धाः सत्यसन्धा नरेन्द्रा
जललिपिरिति कामं संगरन्तां गिरं ताम् ॥१९॥

किं बहुना-
श्लोकसंख्या-२०
सत्योद्यां गिरमिह निर्वहस्व मा वा
सम्मानं भुवि न सहेय राममातुः ।
संस्थास्ये विषमुपभुज्य पश्यतस्ते
संनाहं त्यजसि न चेत्प्रवर्तमानम् ॥२०॥

एवं वादीनीमेनां भूयोऽपि भूपतिरवदत् ।

अयि कठिनहृदये किमुन्मुक्तलोकमर्यदया दयापेतयात्वयेति ।

श्लोकसंख्या-२१
नैवाभवस्त्वमिह शीलवतीषु गण्या
नैवाभजत्पितृमतां गणना स रामः ।
नैवापमात्मजसुखान्यहमप्यनार्ये
नैवापमम्बु भरतेन न मे प्रदेयम् ॥२१॥

किञ्च-
श्लोकसंख्या-२२
वासस्त्वचां भवतु किञ्चन तारवीणां
छायाद्रुमाश्च भवनानि भवन्तु धन्याः ।
कैकेयि तस्य शयनानि कथं भवेयु-
स्त्वच्चेतसोऽपि कठिनानि शिलातलानि ॥२२॥

श्लोकसंख्या-२३
एवं भर्त्रा भर्त्सिताप्यार्द्रचित्ता
नाभूदेषा मन्थराक्रान्तवृत्तिः ।
राकाचन्द्रे राजमानेप्यवाधं
वीरुच्छन्ना चन्द्रकान्तस्थलीव ॥२३॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
कैकेय्याः परुषवृत्तिः प्रदर्शिता ।
पदच्छेदः -
एवं | भर्त्रा | भर्त्सिता | अपि | आर्द्रचित्ता | न | अभूत् | एषा | मन्थराक्रान्तवृत्तिः | राकाचन्द्रे | राजमाने | अपि | अवाधं | वीरुच्छन्ना |चन्द्रकान्तस्थली | इव ॥
अन्वयः -
एवं भर्त्रा भर्त्सिता अपि मन्थराक्रान्तवृत्तिः एषा राकाचन्द्रे अवाधं राजमाने अपि वीरुच्छन्ना चन्द्रकान्तस्थली इव आर्द्रचित्ता न अभूत् ॥
व्याख्या -
एवं (एवंविधरूपेण) भर्त्रा (स्वामिना, दशरथेन) भर्त्सिता (तिरष्कृता) अपि मन्थराक्रान्तवृत्तिः (मन्थरया आक्रन्ता आक्रमिता वृत्तिः चित्तः) एषा (कैकेयी) राकाचन्द्रे (पूर्णिमाचन्द्रे) अवाधं (वाधाहीनं) राजमाने (उदिते) अपि वीरुच्छन्ना (लताच्छादिता) चन्द्रकान्तस्थली (चन्द्रकान्तमणिसदृश स्थली) इव आर्द्रचित्ता (कोमलचित्ता) न अभूत् ॥
विषद्व्याख्या -
यथा विराजिते पूर्णचन्द्रेऽपि लताच्छादितभूतलः ज्योत्स्नाप्लावितः भवितुं न अर्हति, तथैव मन्थरया आविष्टा सन् कैकेय्याः वुद्धिः आर्द्रता नागता - दशरथेन भर्त्सनाकृतानन्तरमपि ।
व्याकरणम् -
(१) सन्धिः -
भर्त्सिताप्यार्द्रचित्ता = भर्त्सिता + अपि +आर्द्रचित्ता
मन्थराक्रान्तवृत्तिः = मन्थरा + आक्रान्तवृत्तिः
२) समासः -
आर्द्रचित्ता = आर्द्रं चित्तं यस्याः सा
मन्थराक्रान्तवृत्तिः = मन्थरया आक्रान्तः वृत्ति यस्याः सा
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र शालिनी वृत्तम् - “शालिन्युक्ता म्रौ तगौ गोऽब्धिलोकैः ” इति लक्षणात् ।
(६) अलङ्कारः -
विशेषोक्तिः/उपमा/काव्यलिङ्गः/संकरः
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
वैदर्भी
(८) गुणः (ओज/प्रसाद/माधुर्य)
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)

√ = option +221a

तदनु मुहूर्तमात्रमपि राममुखावलोकनसुखमनुबुभुषुर्दशरथः कुमारमानयेति सुमन्त्रमादिदेश ।

तेन सत्वरं राजभवनप्रविशितो रामः कृतप्रणामः पितरमथाभूतमुखविकासमारादालक्ष्य चकितः किमिदमिति कैकेयीमन्वयुङ्क्तः ।

सापि पापाशया प्रत्यवादीत् ।

वत्स, प्रतिश्रुतवरद्वयनिर्वहणे निपुणेतरस्तातस्ते सम्प्रति सानुशयस्तनयवात्सल्यात्सत्यव्यत्यासत्रासाच्च गाढमगाधे शोकसागरे निमज्जतीति ।

वरद्वयं तावत्तव मुनिवृत्त्यैव वने वर्तनमवनेरवनं भरतस्येति ।

रामस्तदाकर्ण्य प्रमुदितहृदयः कृताञ्जतिरेनां प्रति व्यज्ज्ञपत् ।

श्लोकसंख्या-२४
भीतो भूभरतः किमम्ब भरतः किंवा वनात्पावना-
त्त्रस्तोऽहं सगरान्ववायककुदस्तातः कुतः शोचति ।
दिव्यायाः सरितो निवापकरणाल्लध्वीं प्रतिज्ञामिमा-
मावाभ्यामभिपूरयिष्यन्ति न चेत्पुत्री कथं स्यादयम् ॥२४॥

श्लोकसंख्या-२५
वनभुवि तनुमात्रत्राणमाज्ञापितं मे
सकलबुवनभारः स्थापितो वत्समूर्ध्नि ।
तदिह सुकरतायामावयोस्तर्कितायां
मयि पतति गरीयानमम्ब ते पक्षपातः ॥२५॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।

सन्दर्भः-
रामः वनवासादेशं अति सहजतया गृह्णाति ।
पदच्छेदः -
वनभुवि | तनुमात्रत्राणम् | आज्ञापितं | मे | सकलबुवनभारः | स्थापितः | वत्समूर्ध्नि | तत् | इह | सुकरतायाम् | आवयोः | तर्कितायां | मयि | पतति | गरीयान् | अम्ब | ते | पक्षपातः ॥

अन्वयः -
हे अम्ब  ! मे वनभुवि तनुमात्रत्राणम् आज्ञापितं, वत्समूर्ध्नि सकलबुवनभारः स्थापितः । तत् इह आवयोः सुकरतायाम् तर्कितायां मयि ते गरीयान् पक्षपातः पतति ॥

व्याख्या -
विषद्व्याख्या -
(i) गरीयान् पक्षपातः श्रीरामे पतति । “मयि पतति गरीयानम्ब ते पक्षपातः” इति श्रीरामस्य उक्तिना स्पष्टम् एतत् ।
(ii) श्रीरामे गरीयान् पक्षपातः पतितः इति उक्तेः याथार्थ्य प्रतिपादनाय श्रीरामः यं युक्तिमुपस्थापयति सः भवति यथा - हे अम्ब ! त्यया भरतस्य स्कन्धोपरि राज्यशासनरूपं गुरुभारं अवस्थापितम्, अपि च अहं वनगमनरूपं लघुकार्यसाधनाय आज्ञापितम् ! अतः मां प्रति त्वया गुरुतरः पक्षपातः कृतः ।

विसमेऽपि समस्यायां कथं स्वचित्तवृत्तेः स्थैर्यमवधारणं कार्यम्, तत् एतस्मिन् काकोध्वनिना श्लोकेन प्रदर्शितम् । यथा श्रीरामः पितृमुखात् स्वस्य राज्याबिषेकसम्वादं श्रुत्वा आनन्दविभोरः नाभवत् तथैव मातुः कैकेयीमुखात् स्वस्य वनगमनादेशमपि निर्विकारतया गृहीतवान् । तस्य चरित्रं तपस्वीसुतभं इति स्पष्टीभवति यतः “द्वन्दसहनं तपः” इति योगशास्त्रे उपलब्ध तपसः सज्ञा ।
व्याकरणम् -
(१) सन्धिः -
सुकरतायामावयोस्तर्कितायाम् = सुकरतायाम् + आवयोः + तर्कितायाम् ।
 सुकरतायाम् + आवयोः = सुकरतायामावयोः (हल् सन्धिः)
सुकरतायामावयोः + तर्कितायाम् = सुकरतायामावयोस्तर्कितायाम् (विसर्गसन्धिः) विसर्जनीयस्य सः इति सूत्रात् ।
२) समासः -
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र मालिनी वृत्तम् - “न न म य य युतेऽयं मालिनी भोगिलोकैः” इति लक्षणात् ।
(६) अलङ्कारः -
विषमालङ्कारः (विरुद्धकार्यस्य उत्पत्तिः/ अनर्थस्य उत्पत्तिः/विरूपघटनायाः उत्पत्तिः)
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
वैदर्भी
(८) गुणः (ओज/प्रसाद/माधुर्य)
माधुर्य
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
अद्बूतरसः ।
श्लोकसंख्या-२६
तातः स्ववाचा व्यवहृत्य हृद्यं
वत्साभिषेकोत्सवमङ्गलं मे ।
प्रणामसंज्ञस्य मयार्पितस्य
किं पूर्णपात्रस्य न पात्रमासीत् ॥२६॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
काकुध्वनिना रामचन्द्रस्य पितरौ प्रतिज्ञां समर्थनम् ।
पदच्छेदः -
तातः | स्ववाचा | व्यवहृत्य | हृद्यं | वत्साभिषेकोत्सवमङ्गलं | मे | प्रणामसंज्ञस्य | मया | अर्पितस्य | किं | पूर्णपात्रस्य | न | पात्रम् | आसीत् |
अन्वयः -
तातः स्ववाचा हृद्यं वत्साभिषेकोत्सवमङ्गलं मे व्यवहृत्य मया अर्पितस्य प्रणामसंज्ञस्य पूर्णपात्रस्य पात्रम् न आसीत् किम् ।
व्याख्या -
तातः (पिता दशरथः) स्ववाचा (स्ववचनेन) हृद्यं (मनोहरं) वत्साभिषेकोत्सवमङ्गलं (वत्सस्य अभिषेकात्मकं मङ्गलसमाचारं) मे (मां) व्यवहृत्य (ज्ञापयित्वा) मया (राम्ण) अर्पितस्य (दत्तस्य) प्रणामसंज्ञस्य (नमस्काराख्यस्य) पूर्णपात्रस्य (उत्सवस्य) पात्रम् (योग्यम्) न आसीत् किम् ? अवश्यम् आसीत् - इत्यर्थः ।
विषद्व्याख्या -
काकुः ध्वनिः ध्वन्यते अय श्लोके । रामः कैकेय्याः स्वस्य वनवासवार्ता अपि च भरतस्य राज्याभिषेकवार्ता प्राप्तः । सः जानाति इमे मर्मभेदीवार्ते आदेशाय दशरथः सर्वथा अक्षमः । ततः सः पितरम् उद्दिश्य वदति यत् - “पिता आदेशं इमं स्वयं कथं न दत्तवान् ? यदि सः स्वयं आदिशति, तदा अहं तस्यदेशं शिरोधार्यं करोमि । वनवासगमने मम चित्ते नास्ति कोऽपि ग्लानि अथवा द्विधा” - इति ध्वन्यते अत्र ।
व्याकरणम् -
(१) सन्धिः -
वत्साभिषेकोत्सवमङ्गलं = वत्स + अभिषेक + उत्सवमङ्गलं
मयार्पितस्य = मया + अर्पितस्य
पात्रमासीत् = पात्रम् + आसीत्
२) समासः -
स्ववाचा = स्वस्य वाक्, तेन (तृतीयातत्पुरुषसमासः)
वत्साभिषेकोत्सवमङ्गलं = वत्सस्य अभिषेकोत्सवमङ्गलं (षष्ठीतत्पुरुषसमासः)
मङ्गलं यत् उत्सवः उत्सवमङ्गलम् (कर्मधारयसमासः)
अभिषेकार्थं उत्सवमङ्गलम् अभिषेकोत्सवमङ्गलं (चतुर्थीतत्पुरुषसमासः)
प्रणामसंज्ञस्य = प्रणामः संज्ञा यस्य सः, तस्य (बहुव्रीहि)
पूर्णपात्रस्य = पूर्णं च असौ पात्रं, तस्य (कर्मधारयसमासः)
(३) कृदन्तम्-
व्यवहृत्य = वि + अव + हृ + ल्यप्
अर्पितस्य = ऋ + णिच् + क्त + ङस्
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र उपजातिवृत्तम् - इन्द्रवज्रा-उपेन्द्रवज्रायोः मेलनात् ।
इन्द्रवज्रा वृत्तम् - “स्यादिन्द्रवज्रा यदि तौ जगौ गः” इति लक्षणात् ।
उपेन्द्रवज्रा वृत्तम् - “उपेन्द्रवज्रा जतजा ततो गः” इति लक्षणात् ।
(६) अलङ्कारः -
काकोध्वनिः ।
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
वैदर्भी
(८) गुणः (ओज/प्रसाद/माधुर्य)
प्रसाद
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
शान्तरसः ।

तत्क्षणमशनिहत इव पर्वतः सर्वतः परीतदवदहन इव वनस्पतिः दिवस्पतिपदभ्रंशविधुर इव नहुषः पपात नाःसज्ञ्य पङ्क्तिरथः ।

ततः सा पितृनिर्देशमाचरेति राममादिदेश ।

श्लोकसंख्या-२७
मातुराज्ञां वहन्मूर्ध्ना मालामिव महायशाः ।
वनाय राम वव्राज जगतामवनाय च ॥२७॥

असौ समासाद्य सद्यः कौसल्यसदनमभिषेकप्रतिबन्धं कैकेयीनिर्बन्धमात्मनश्च वनवासं प्रणामानन्तरं तस्यै न्यवेदयत् ।

सैतदाकर्ण्य विदीर्णहृदया विषदिग्धमुखशिलीमुखविद्धश्रवणयुगलेव सहसा निपत्य विललाप ।

श्लोकसंख्या-२८
रेखारथाङ्गसरसीरुहशङ्खचिह्ने
क्षेमकरे तवकरे जगतां त्रयाणाम् ।
कान्तारकन्दखननं रचयति नून-
मावद्धवान्प्रतिसरं भगवान्वशिष्ठः ॥२८॥

तत्रसौमित्रिरतिमात्रप्रवृद्धमन्युःशतमन्यसमानमेवमग्रजमकथयत् ।

आर्य, अकार्यमिदं लोकगर्हणार्हायाः कैकेय्या वचसा रजसा जरसा च समाक्रान्तस्वान्ततया कृत्याकृत्यविवेकमूकस्य राज्ञः प्रज्ञाशैथिल्यान्निःसृतेन वचसा सन्त्यज्य राज्यमटवीपर्यटनं विधातुम् ।

किन्तु तुभ्यमनभ्यर्थमानाय प्रथममेव पित्रा प्रदत्ता ननु पृथावी ।

क्षत्रधर्मोऽपि धर्म्यात्पथः प्रमाद्यापि वर्णाश्रमरक्षणतः समीचीनः प्रयेण पुरुषं निःश्रेयसे नियोजयेत् ।

नियतं नियतिबलमतिलङ्घ्य पौरुषमेव धीरस्य पुरुषार्थान्समर्थयेत् ।

श्लोकसंख्या-२९
माभूत्त्वत्पदपद्मयोररुणिमा कान्तारसञ्चारतः
पाणौपा़लिमा मनाक्प्रसरतु ज्याकर्णादेव मे ।
कैकेयीपरीभूततातवचने नम्रोभवान्मा स्म भू-
त्किञ्चिन्मामकमार्य शौर्यजलधे नम्रं धनुर्वर्तताम् ॥२९॥
  
एवमाचक्षाणं लक्ष्मणं रामः सान्त्वयन्नेवावोचत् ।

वत्स सवितृवंशजातानां पितृनिर्देश एव देशिकः सर्वसर्मसु ।

बहवः खलु पितृनिर्देशगौरवाद्गोहत्यामपि मातृवधमपि तारुण्यविनिमयमपि कण्डुरैणुकेयपुरुप्रभृतयः कुर्वाणा निर्विचारमाचारवतामग्रण्या इति गण्यते ।

तस्मादवश्यं वश्यं एव पितुरवगाहे गहननिति ।

तत्र विस्तृतपुत्रवात्सल्या कौसल्या तेन सह गन्तुमभिलषन्ती कृतप्रणामेन रामेण सविनयमेवमभिहिता ।

श्लोकसंख्या-३०
कान्तारभाजि मयि केकेयराजपुत्र्याः
कार्कश्यकन्दलुतया दलितस्य वाचा ।
तातस्य शोकदहनग्लपितं शरीरं
मातस्त्वया न कदाचिदुपेक्षणीयम् ॥३०॥

ततः सा तनयस्य स्वस्त्ययनाय समस्तदेवताकीर्तनपुरःसरीमाशिषमाचचक्षे ।

तदनु रामस्तामभिवन्द्य निष्क्रान्तः प्रकान्तनेपथ्यायाः सीतायाः प्रसादमाससाद ।

श्लोकसंख्या-३१
कल्याणवादसुखितां सहसैव कान्तां
कान्तारचारकथया कलुषीचकार ।
अम्भोदनादमुदितां विपिने मयूरीं
संत्रासयन्निव धनुर्ध्वनिना पुलिन्दः ॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
वनगमनकथां शृत्वा जानक्याः प्रतिभाव ॥
पदच्छेदः -
कल्याणवादसुखितां | सहसा | एव | कान्तां | कान्तारचारकथया | कलुषीचकार | अम्भोदनादमुदितां | विपिने | मयूरीं | संत्रासयन् | इव | धनुर्ध्वनिना | पुलिन्दः ॥
अन्वयः -
कल्याणवादसुखितां कान्तां सहसा एव कान्तारचारकथया विपिने अम्भोदनादमुदितां मयूरीं धनुर्ध्वनिना संत्रासयन् पुलिन्दः इव कलुषीचकार ॥
व्याख्या -
कल्याणवादसुखितां (राज्याभिषेकसम्बद्धकथनेन सुखितां) कान्तां (स्त्रीं) सहसा (अचिरेण, हठात्) एव कान्तारचारकथया (वनगमनवार्तया) विपिने (वने) अम्भोदनादमुदितां (मेघस्य निनादे आनन्दितां) मयूरीं (बर्हिं) धनुर्ध्वनिना (धनोः टंकारेण) संत्रासयन् (भीता कृतः सन्) पुलिन्दः (व्याधः) इव कलुषीचकार (व्यथिता कृतवान्) ॥
विषद्व्याख्या -
भर्तुः अभिषेकवार्तां शृत्वा सीता अत्यन्तानन्दिता आसीत् । तस्मिन्नेव समये रामः वनवासवार्तां प्रददाति । तच्छृत्वा सीता अतीव व्यथिता भवति । निनादितं मेघखण्डं दृष्ट्वा नर्तती मयूरी व्याधस्य धनुष्टंकारेण यथा भयभीता भवति, सीतायाः मनोऽवस्था तथैव आसीत् इति उपम्यते ।
व्याकरणम् -
(१) सन्धिः -
सहसैव = सहसा + एव
संत्रासयन्निव = संत्रासयन् + इव
२) समासः -
कल्याणवादसुखितां = कल्याण-रूपकः वादः, तेन सुखिता, ताम् (रूपककर्मधारयः, तृतीयातत्पुरुषः)
कान्तारचारकथया = कान्तारे चारः, तस्य कथा, तया (सप्तमीतत्पुरुषः, षष्ठीतत्पुरुषः)
अम्भोदनादमुदितां = अम्भोदस्य नादः, तेन मुदिता, ताम (षष्ठीतत्पुरुषः, तृतीयातत्पुरुषः)
धनुर्ध्वनिना = धनोः ध्वनिः, तेन (षष्ठीतत्पुरुषः)
(३) कृदन्तम्-
संत्रासयन् = सम + √त्रस् + णिच् + शतृ + सुप्
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र वसन्ततिलकाच्छन्दः - “उक्तावसन्ततिलका तभजा जगौ गः” इति लक्षणात् ।
(६) अलङ्कारः -
उपमा / दृश्टान्तः / संकरः
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
(८) गुणः (ओज/प्रसाद/माधुर्य)
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)

अयमेनामनुगन्तुमुपक्रान्तामकथयत् ।

श्लोकसंख्या-३२
प्रिये जनकनन्दिनि प्रकृतिपेशलामीदृशीं
कथं ग्लपयितुं सहे तव शिरीषमृद्वीं तनुम् ।
गृहीतहरिणीगणत्रिकविसारिनानाशिरा-
क्षतक्षरितशोणिताननेवृकानने कानने ॥३२॥

तदनु नानाविधप्रयत्नेनाप्यनुन्मिषदनुजिगमिषासऐथिल्यां मैथिल्यां लक्ष्मणेऽप्यनवसितानुगमनव्यवसाये वासिष्ठाय सुयज्ञाय भूषणमशेषं नागसहस्रेण सह शत्रुञ्जयाह्वयं मातुलदत्तं मत्तहस्तिनमगस्त्यकौशिकाभ्यां च महार्घानि रत्नानि वितीर्य तदनु निर्जरारिवीर्यनुषी धनुषी निरपायत्राणकर्मणी वर्मणी निर्मर्यादशिलीमुखकृतानुषङ्गौ निसङ्गौ निर्वर्तितवीरपाणौ कृपाणौ वरुणेन जलकसदसि दत्तमेतत्समस्तमायुधजातमादाय मामनुगच्छतेति सौमित्रिमन्वग्रहीत् ।

सीतापि निजाभरणजातं सुयज्ञपत्न्यै न्यदात् ।

ततः सौमित्रिरपि स्वाधीनेन धनेन कञ्चित् कौसल्याश्रितमुपाध्यायमतोषयत् ।

तत्र सकुटुमबाय त्रिजटाभिधानाय निर्धनाय द्विजातये स्वहस्तनिक्षिप्तदण्डपतितदेशावधिकं गोधनं च कपिञ्जलादिभ्यो द्विजातिभ्यश्च रधुपतिर्वित्तानि विविधानि विततार ।

ततस्ते पौरनारीणां निःश्वासझञ्झानिलचलदधरकिशलयानामस्रसलिलासारेण शोकपावकेन च वपुंषि मन्ंसि च सिक्त्वा दग्ध्वा च निषिद्धपरिजनानुगमनतया प्रकाशितप्रवास सिद्धान्ताः शुद्धान्तान्निश्चक्रमुः ।

श्लोकसंख्या-३२
सीता पुरा गगनचारिभिरप्यदृष्टा
मा भूदियं सकलमानवनेत्रपात्रम् ।
इत्याकल्य नियतं पिदधे विधाता
वाष्पोदयेन नयनानि शरीरभाजाम् ॥३३॥

प्रसङ्गः-श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः- पौरजनानां वाष्पविमोचनं “सीता तैः अदृष्टा” इति भोजराजेन उत्प्रेक्षया उक्तम् ।
पदच्छेदः - सीता | पुरा | गगनचारिभिः | अपि | अदृष्टा | मा | भूत् | इयं | सकलमानवनेत्रपात्रम् | इति | आकल्य |नियतं | पिदधे | विधाता | वाष्पोदयेन | नयनानि | शरीरभाजाम् ॥
अन्वयः - पुरा गगनचारिभिः अपि अदृष्टा सीता सकलमानवनेत्रपात्रम् मा भूत इति आकल्य विधाता नियतं शरीरभाजाम् नयनानि वाष्पोदयेन पिदधे ॥
व्याख्या - पुरा (पूर्वं) गगनचारिभिः (खेचरैः) अपि अदृष्टा (अनवलोकिता) सीता (जानकी) सकलमानवनेत्रपात्रम् (सकलजनदृष्टिगोचरा) मा भूत् इति आकल्य (विचिन्त्य) विधाता (ब्रह्मा) नियतं (निश्चितं) शरीरभाजाम् (प्राणिनां) नयनानि (नेत्राणि) वाष्पोदयेन (नेत्रजलेन) पिदधे (आच्छादितवान्) ॥
विषद्व्याख्या -
सीता असूर्यंपश्या आसीत् । तां केऽपि पौरजनाः पूर्वे न दृष्टवन्तः । अधुना सा सर्वसमक्षे आगत्य वनवासम् अधिगच्छति । अतः सा अधुना अपि जनैः न द्रष्टव्या इति मनसि विधाय स्ययं ब्रह्मा लोकानां नेत्राणि वाष्पाकुलानि अकरोत् इति उत्प्रेक्षा । कोमलाङ्गीं सीतां वनगमनाभीमुखी दृष्ट्वा सर्वे लोकाः क्रन्दन्ति इति आशयः ।
व्याकरणम् -
(१) सन्धिः -
गगनचारिभिरप्यदृष्टा = गगनचारिभिः + अपि + अदृष्टा
इत्याकल्य = इति + आकल्य
मा भूदियं = मा भूत + इयं
वाष्पोदयेन = वाष्प + उदयेन

२) समासः -
गगनचारिभिः = गगने चरन्ति इति (उपपदतत्पुरुषसमासः)
 सकलमानवनेत्रपात्रम् = सकलनां मानवानां नेत्राणां पात्रम्
सकलाः मानवाः = सकलमानवाः (कर्मधारयसमासः), तेषां नेत्राणि (षष्ठीतत्पुरुषसमासः), तेषां पात्रम् (षष्ठीतत्पुरुषसमासः) ।
वाष्पोदयेन = वाष्पाणां उदयः वाष्पोदयः, तेन (तृतीयातत्पुरुषसमासः) ।
(३) कृदन्तम्-
नयनम् = ने + ल्युट्
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र वसन्ततिलकाच्छन्दः - “उक्तावसन्ततिलका तभजा जगौ गः” इति लक्षणात् ।
(६) अलङ्कारः -
उत्प्रेक्षा ।
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
वैदर्भी
(८) गुणः (ओज/प्रसाद/माधुर्य)
माधुर्य ।
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
करुणरसः ।

श्लोकसंख्या-३४
रुद्धापि यान्तमनुगच्छति मैथिली मां
वत्सो जहाति न कदाचन लक्ष्मणोऽपि ।
इत्येतयोरनुगतिं प्रतिवोध्य गन्तुं
भूयोऽपि राजभवनं प्रविवेष रामः ॥३४॥

तस्मिन्सुमन्त्रेण विज्ञाय प्रदर्शिते बूपतिर्भूताविष्ट इव विष्टरान्निपत्य सदारः सदारचितपरिदेवना वनोत्कण्ठां स्वयमप्यकरोत् ।

तदा सुमन्त्रः कैकेयीमव्रवीत् ।

देवि, विरम रामाभिषेकसमुन्मिषिताह्लादाङ्कुरावग्रहादाग्रहात् ।

पुरा खलु वरप्रसादादवगतसकलप्राणिभाषणतया पर्यङ्कपर्यन्तपरिसरत्पिपीलिकालापे तव पितरं हसनकारणं पृष्ट्वा तद्विवरणं पत्युर्मरणकरणमित्यवेत्यापि भूयसो निर्बन्धात्कुपितेन राज्ञावज्ञाताया मातुस्ते मानुकुर्वीथा इति ।

श्लोकसंख्या-३५
कृतासमञ्जनिर्यासं सगरं केकयात्मजा
निदर्शनत्वे निर्दिश्य निरबध्नान्निजं पतिम् ॥३५॥

श्लोकसंख्या-३६
सिद्धार्थको महामात्यस्तत्परित्यागमब्रवीत् ।
सरयुपातितानेकप्रजामरणकारणात् ॥३६॥

अथ दशरथेन रामः सपरिच्छद एव गच्छेति निर्दिष्टः केवलं खनित्रपिटकौ वल्कलयुगलं च प्रार्थयत ।

श्लोकसंख्या-३७
सुखोचितानां सुव्यक्तदिव्यलावण्यसम्पदाम् ।
त्रयाणामपि कैकेयी वल्कलादीन्युपाहरत् ॥३७॥

श्लोकसंख्या-३८
अथ रधुकुलनाथो मध्यमाम्बानियोगाद्
गुणवति परिधाने मङ्गलार्हे निराशः ।
अधिकुचतटवल्गज्जानकीबाष्पसेका-
दपगतखरभावं वल्कलं पर्यधत्त ॥३८॥

तत्राचित्रीयन्त सर्वे निर्विकारवदनलक्ष्मिकमिक्ष्वाकुकुलाध्यक्षमध्यक्षयन्तस्तेषामेव शोकशङ्कुकीलितमानसानामाननेषु पारम्पर्येणास्फुरद्विकारः ।

श्लोकसंख्या-३९
सवल्कले दाशरथौ विषादा-
दामीलिताक्षो यदभूद्वशिष्ठः ।
तदेव जातं करणं महर्षेः
काकुस्थ्ययाथार्थ्यविलोकनस्य ॥३९॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
वशिष्ठस्य शोकाकुलहृदयावस्था प्रदर्शिता ।
पदच्छेदः -
सवल्कले | दाशरथौ | विषादात् | आमीलिताक्षः | यत् |अभूत् | वशिष्ठः | तत् | एव | जातं | करणं | महर्षेः |काकुस्थ्ययाथार्थ्यविलोकनस्य ॥
अन्वयः -
दाशरथौ सवल्कले विषादात् वशिष्ठः यत् आमीलिताक्षः अभूत्, तत् एव महर्षेः काकुस्थ्ययाथार्थ्यविलोकनस्य करणं जातं ॥
व्याख्या -
दाशरथौ (श्रीरामलक्ष्मणौ) सवल्कले (वल्कलाभ्यां सह, बृक्षत्वक्परिहितौ) विषादात् (दुःखात्) वशिष्ठः (महर्षिः वशिष्ठः ) यत् आमीलिताक्षः (मुद्रितनयनः) अभूत् (अभवत्) , तत् एव महर्षेः (वशिष्ठस्य) काकुस्थ्ययाथार्थ्यविलोकनस्य (श्रीरामस्य प्रकृतरूपदर्शनस्य) करणं (भावनं) जातं (उपजातम्) ॥
विषद्व्याख्या -
प्रियं श्रीरामं वल्कलधारणावस्थायां दृष्ट्वा महर्षिवशिष्ठः अपि वाष्पाकुलनयनः अभवत् । तस्य नयने मुद्रिते अभवताम् । सः रामस्य विष्णुरूपं ध्यानावस्थायां द्रष्टुं आमीलिताक्षः अभवत् इति उत्प्रेक्षा ।
व्याकरणम् -
(१) सन्धिः -
विषादादामीलिताक्षो = विषादात् + आमीलित + अक्षः
यदभूद्वशिष्ठः = यत् + अभूत + वशिष्ठः
२) समासः -
सवल्कले = वल्कलेन सह (तृतीयातत्पुरुषसमासः) ।
आमीलिताक्षः = आमीलिते अक्षे यस्य सः (बहुवीहि)
काकुस्थ्ययाथार्थ्यविलोकनस्य = काकुस्थ्यस्य याथार्थ्यम् विलोकनं करोति यः सः, तस्य (षष्ठीतत्पुरुषसमासः, बहुवीहि)
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र उपजातिवृत्तम् - इन्द्रवज्रा-उपेन्द्रवज्रायोः मेलनात् ।
इन्द्रवज्रा वृत्तम् - “स्यादिन्द्रवज्रा यदि तौ जगौ गः” इति लक्षणात् ।
उपेन्द्रवज्रा वृत्तम् - “उपेन्द्रवज्रा जतजा ततो गः” इति लक्षणात् ।
(६) अलङ्कारः -
उत्प्रेक्षा
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
वैदर्भी
(८) गुणः (ओज/प्रसाद/माधुर्य)
प्रसाद
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
अद्भूतरसः ।

श्लोकसंख्या-४०
अस्य पीताम्बरत्यागे किं जाता विक्रियाऽपुरा ।
इति प्रत्यग्दृशां श्रेष्ठो वशिष्ठो नातिविव्यथे ॥४०॥
 
सोऽयं मैथिलीवल्कलधारणमरुणदरुणसारथिकुलगुरुः ।

तत्र प्रयाणाय प्रणिपतन्तीं स्नुषामाश्लिष्य प्रस्नुतपुत्रवात्सल्या कौसल्या बाष्पगद्गदमभवत् ।

श्लोकसंख्या-४१
घर्मे निदाघकिरणस्य करैः कठोरैः
कान्तारमध्यपदवीषु नखंपचासु ।
त्वां वीक्ष्य संस्थुलपदां वनदेवताभि
र्निन्दिष्यन्ते नियतमेव निमेषहानिः ॥ ४१॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
कौसल्या सीतायाः दुर्दशां चिन्तयित्वा व्यथिता भवति ।
पदच्छेदः -
घर्मे | निदाघकिरणस्य | करैः | कठोरैः | कान्तारमध्यपदवीषु | नखंपचासु | त्वां | वीक्ष्य | संस्थुलपदां | वनदेवताभिः | निन्दिष्यन्ते |नियतम् | एव | निमेषहानिः ॥
अन्वयः -
घर्मे निदाघकिरणस्य कठोरैः करैः नखंपचासु कान्तारमध्यपदवीषु संस्थुलपदां त्वां वीक्ष्य वनदेवताभिः नियतम् एव निमेषहानिः निन्दिष्यन्ते ॥
व्याख्या -
घर्मे (ग्रीष्मर्तौ) निदाघकिरणस्य (उष्ण-अंशोः) कठोरैः (तीक्ष्णैः) करैः (किरणैः) नखंपचासु (संतपयन्त्सु) कान्तारमध्यपदवीषु (गहनान्तरालमार्गेषु) संस्थुलपदां (परिस्खलितपादविन्यासां) त्वां वीक्ष्य (दृष्ट्वा) वनदेवताभिः (वनेस्थितैः देवैः) नियतम् (निश्चयम्) एव निमेषहानिः (निर्निमेषत्वं) निन्दिष्यन्ते (गर्हिष्यतः)॥
विषद्व्याख्या -
देवाः निष्पलकाः । सीतालक्ष्मणभ्यां गम्यमानः रामः अनभ्यासात् स्खलितपथः भवति, प्रखरसूर्यकिरणैः सन्तापितः अपि भवति । तस्य एतादृशं दयनीयावस्थां दृष्ट्वा काननवासीनः देवाः अपि निर्निमेषत्वं निन्दन्ति इति उत्प्रेक्षा ।
व्याकरणम् -
(१) सन्धिः -
नियतमेव = नियतम् + एव
२) समासः -
निदाघकिरणस्य = निदाघपूर्ण किरणः, तस्य (मध्यपदलोपीकर्मधारयसमासः) ।
कान्तारमध्यपदवीषु = कान्तारस्य मध्य, तस्मिन् पदवी, तेषु (सप्तमीतत्पुरुषसमासः) ।
संस्थुलपदां = संस्थुलं पदं यस्य सः, ताम् ।
(३) कृदन्तम्-
वीक्ष्य = वि + इक्ष् + ल्यप् ।
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र वसन्ततिलकाच्छन्दः - “उक्तावसन्ततिलका तभजा जगौ गः” इति लक्षणात् ।
(६) अलङ्कारः -
उत्प्रेक्षा
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
(८) गुणः (ओज/प्रसाद/माधुर्य)
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)

अथ मैथिलीनाथः सलक्ष्मणः सप्रदक्षिणं राजानं जननीजनं च प्रणम्य प्रतिसिद्धप्रतिहारचक्रो निश्चक्राम ।

रथोऽपि दशरथाज्ञापरतन्त्रेण सुमन्त्रेण द्वारि समानीतः ।

श्लोकसंख्या-४२
प्रारब्धयात्रस्य रघूद्वहस्य
प्रागेव सीता रथमारुरोह ।
आनीलरथ्यं रथमारुरुक्षो-
रह्नां प्रभोरग्रसरी प्रभेव ॥४२॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
प्रथमे सीतायाः रथारोहणम् वर्णितम् ।
पदच्छेदः -
प्रारब्धयात्रस्य | रघूद्वहस्य | प्राक् | एव | सीता | रथम् | आरुरोह | आनीलरथ्यं | रथम् | आरुरुक्षोः | अह्नां |प्रभोः | अग्रसरी | प्रभा | इव ॥
अन्वयः -
सीता प्रारब्धयात्रस्य रघूद्वहस्य प्राक् एव रथम् आरुरोह । (कथम् ?) आनीलरथ्यं रथम् आरुरुक्षोः अह्नां प्रभोः अग्रसरी प्रभा इव (रथम् आरुरोह) ।
व्याख्या -
सीता (जानकी) प्रारब्धयात्रस्य (प्रारब्धा यात्रा येन सः, तस्य) रघूद्वहस्य (रघुनन्दनस्य) प्राक् (अग्रसरी) एव रथम् आरुरोह (आरूढवती) । (कथम् ?) आनीलरथ्यं (आनीला ईषत् नीलाः हरिद्रावर्णा, रथं वहन्तीति रथ्याः) रथम् आरुरुक्षोः (आरूढोमिच्छोः) अह्नां प्रभोः (अर्हपतेः, सूर्यस्य )अग्रसरी (पुरःसरी) प्रभा (दीप्ति) इव (रथम् आरुरोह) ।
विषद्व्याख्या -
यथा सूर्यस्य प्रभा प्रथमे (सूर्यागमात् प्राक्) रथम् आगच्छति, तथैव सीता प्रथमे रथं आरुरोह ।
व्याकरणम् -
(१) सन्धिः -
प्रागेव = प्राक् + एव
रथमारुरोह = रथमम् + आरुरोह
रथमारुरुक्षोरह्नां = रथमम् + आरुरुक्षोः + अह्नां
प्रभोरग्रसरी = प्रभोः + अग्रसरी
प्रभेव = प्रभा + इव
२) समासः -
प्रारब्धयात्रस्य = प्रारब्धा यात्रा येन सः, तस्य (बहुव्रीहि)
रघूद्वहस्य = रघुं उद्वहति यः सः, तस्य (बहुव्रीहि)
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र इन्द्रवज्रा वृत्तम् - “स्यादिन्द्रवज्रा यदि तौ जगौ गः” इति लक्षणात् ।
(६) अलङ्कारः -
चित्रविम्बम् / उपमा
उपमेया = सीता,
उपमाना = सूर्यस्य प्रभा,
सामान्यधर्मम् = रथारोहणम्,
योजकशब्दः = इव ।
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
वैदर्भी
(८) गुणः (ओज/प्रसाद/माधुर्य)
माधुर्य
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
शान्तरसः ।

दाशरथी च रथमारुरुहतुः ।

श्लोकसंख्या-४३
यथा यथा राघवराजधानीं
विहाय सीता विपिनोत्सुकाभूत् ।
तथा तथाजायत यातुकामा
लङ्कां विना राक्षसराजलक्ष्मीः ॥४३॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
सीतायाः वनागमनात् राक्षसानां श्रीहानिः दर्शिता ।
पदच्छेदः -
यथा | यथा | राघवराजधानीं | विहाय | सीता | विपिनोत्सुका | अभूत् | तथा | तथा | अजायत | यातुकामा | लङ्कां | विना | राक्षसराजलक्ष्मीः ॥
अन्वयः -
सीता यथा यथा राघवराजधानीं विहाय विपिनोत्सुका अभूत् तथा तथा राक्षसराजलक्ष्मीः लङ्कां विना यातुकामा अजायत ॥
व्याख्या -
सीता यथा यथा राघवराजधानीं (साकेतं) विहाय (त्यक्त्वा) विपिनोत्सुका (वनोन्मुखिनी) अभूत् (अभवत्) तथा तथा राक्षसराजलक्ष्मीः (असुराणां श्रीः) लङ्कां विना (लङ्कां विहाय) यातुकामा (पलायनोन्मुखी) अजायत (अभवत्) ॥
विषद्व्याख्या -
सीता राक्षसानां निधनानां मुख्यकारणम् । यदा सा अग्रेसरति, राक्षसानां श्रीः अपि दूरं अपसरति ।
व्याकरणम् -
(१) सन्धिः -
विपिनोत्सुकाभूत् = विपिन + उत्सुक + अभूत्
तथाजायत = तथा + अजायत
२) समासः -
राघवराजधानीं = राघवस्य राजधानी, तम् (षष्ठीतत्पुरुषसमासः)
विपिनोत्सुका = विपिनाय उत्सुका (चतुर्थीतत्पुरुषसमासः)
राक्षसराजलक्ष्मीः = राक्षसस्य राजलक्ष्मीः (षष्ठीतत्पुरुषसमासः)
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र उपजातिवृत्तम् - इन्द्रवज्रा-उपेन्द्रवज्रायोः मेलनात् ।
इन्द्रवज्रा वृत्तम् - “स्यादिन्द्रवज्रा यदि तौ जगौ गः” इति लक्षणात् ।
उपेन्द्रवज्रा वृत्तम् - “उपेन्द्रवज्रा जतजा ततो गः” इति लक्षणात् ।
(६) अलङ्कारः -
उत्प्रेक्षा / विशेषोक्तिः
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
वैदर्भी
(८) गुणः (ओज/प्रसाद/माधुर्य)
माधुर्य
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
अद्भूतरसः ।

श्लोकसंख्या-४४
आवालवृद्धमनुगच्छति रामभद्र-
मेषा पुरी तदिह मा खलु निर्गुणा स्याम ।
इत्यादरादिव धरा बहुधा विधाय
धूलिच्छलान्निजतनुं तमनुप्रतस्थे ॥४४॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
पृथिव्याः रामानुगमनं उत्प्रेक्षते ।
पदच्छेदः -
आवालवृद्धम् | अनुगच्छति | रामभद्रम् | एषा | पुरी | तत् | इह | मा | खलु | निर्गुणा | स्याम् | इति | आदरात् | इव | धरा | बहुधा | विधाय | धूलिच्छलात् | निजतनुं | तम् | अनु-प्रतस्थे ॥
अन्वयः -
एषा पुरी आवालवृद्धम् रामभद्रम् अनुगच्छति तत् इह (अहं) निर्गुणा मा खलु स्याम् इति (हेतोः) आदरात् इव धरा धूलिच्छलात् निजतनुं बहुधा विधाय तम् (रामं) अनु-प्रतस्थे ॥
व्याख्या -
एषा पुरी (अयोध्या) आवालवृद्धम् (वालाश्च वृद्धाश्च वालवृद्धाः, तान् अभिवाप्य इति आवालवृद्धम् ) रामभद्रम् (रामं) अनुगच्छति (पश्चाद्गच्छति) तत् इह (अहं) निर्गुणा मा खलु स्याम् इति (हेतोः) आदरात् (स्नेहात्) इव धरा (पृथ्वी) धूलिच्छलात् (रजोव्याजात्) निजतनुं (स्वशरीरं) बहुधा (बहुप्रकारं) विधाय (कृत्वा) तम् (रामं) अनु-प्रतस्थे (पश्चाद्-गच्छति) ॥
विषद्व्याख्या -
सर्वे जनाः राममनुसरन्ति । एतद् दृष्ट्वा भूमाता ‘अहमपि अग्रेसरामि’ इति चिन्तयित्वा स्वशरीरं धूलिधूसरितं कृत्वा राममनुसरति । वहुजनैः रामः अनुसृयते । तज्जनितधूलिं विलक्ष्य भोजराजः उत्प्रेक्षति यत् पृथिवी अपि रामस्य अनुगमनं करोति इत्यर्थः ।
व्याकरणम् -
(१) सन्धिः -
आवालवृद्धमनुगच्छति = आवालवृद्धम् + अनुगच्छति ।
रामभद्रमेषा = रामभद्रम् + एषा ।
तदिह = तत् + इह ।
इत्यादरादिव = इति + आदरात् + इव ।
धूलिच्छलान्निजतनुं = धूलिच्छलात् + निजतनुं ।
तमनुप्रतस्थे = तम + अनुप्रतस्थे ।
२) समासः -
आवालवृद्धम् = वालाश्च वृद्धाश्च वालवृद्धाः, तान् अभिवाप्य इति आवालवृद्धम् (अव्ययीभावसमासः) ।
अनुगच्छति = पश्चाद्गच्छति (अव्ययीभावसमासः) ।
निर्गुणा = निर् + गुण + टाप् ।
धूलिच्छलात् = धूलेः + छलम्, तस्मात् ।
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र वसन्ततिलकाच्छन्दः - “उक्तावसन्ततिलका तभजा जगौ गः” इति लक्षणात् ।
(६) अलङ्कारः -
उत्प्रेक्षा, व्याजस्तुतिः, अपह्नुतिः
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
पाञ्चाली
(८) गुणः (ओज/प्रसाद/माधुर्य)
माधुर्य
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
अद्भूतरसः ।

श्लोकसंख्या-४५
नृपसुखविमुखेन स्वेन कान्तेन साकं
दुहितरि विधिपाकात्काननाय व्रजन्त्याम् ।
अकुशलमिति मत्वा नूनमह्नाय धात्री
परजनमुखवाष्पं पांशुभिः पर्यहार्षीत् ॥४५॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
पृथिव्याः मातायाः अनुभावः ।
पदच्छेदः -
नृपसुखविमुखेन | स्वेन | कान्तेन | साकं | दुहितरि | विधिपाकात् | काननाय | व्रजन्त्याम् | अकुशलम् | इति | मत्वा | नूनम् | अह्नाय | धात्री | परजनमुखवाष्पं | पांशुभिः | पर्यहार्षीत् ॥
अन्वयः -
नृपसुखविमुखेन स्वेन कान्तेन साकं विधिपाकात् काननाय व्रजन्त्याम् दुहितरि अकुशलम् इति मत्वा धात्री नूनम् अह्नाय परजनमुखवाष्पं पांशुभिः पर्यहार्षीत् ॥
व्याख्या -
नृपसुखविमुखेन (राजभोगात् विमुखेन) स्वेन (स्वकीयेन) कान्तेन (प्रणनाथेन) साकं (सार्द्धम्) विधिपाकात् (धातृवशात्) काननाय (वनाय) व्रजन्त्याम् (गच्छन्तां) दुहितरि (सुतायां) अकुशलम् (अमङ्गलं) इति मत्वा (चिन्तयित्वा) धात्री (पृथिवी) नूनम् (निश्चयं) अह्नाय (झटिति) परजनमुखवाष्पं (जनानां नेत्रजलं) पांशुभिः (परागैः, धूलिभिः) पर्यहार्षीत् (परिहृतवती) ॥
विषद्व्याख्या -
जनाः रामवियोगात् अश्रुसोचनं कुर्वन्ति । ततः कन्यायाः सीतायाः अमङ्गलः न भवेत् इति मत्वा धात्री परागैः जनानां नेत्रजलान् शोषयति - इति उत्प्रेक्षा ।
व्याकरणम् -
(१) सन्धिः -
नूनमह्नाय = नूनम् + अह्नाय
२) समासः -
नृपसुखविमुखेन = नृपस्य सुखं नृपसुखं, तस्मात् विमुखः, तेन (षष्ठीतत्पुरुषसमासः, पञ्चमीतत्पुरुषसमासः))
विधिपाकात् = विधेः पाकम्, तस्मात् (पञ्चमीतत्पुरुषसमासः)
परजनमुखवाष्पं = परजनानां मुखवाष्पं (षष्ठीतत्पुरुषसमासः)
(३) कृदन्तम्-
मत्वा = √मन् + क्त्वा ।
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र मालिनी वृत्तम् - “न न म य य युतेऽयं मालिनी भोगिलोकैः” इति लक्षणात् ।
(६) अलङ्कारः -
उत्प्रेक्षा
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
वैदर्भी ।
(८) गुणः (ओज/प्रसाद/माधुर्य)
माधुर्य
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
करुणरसः ।

श्लोकसंख्या-४६
रामानुसाररसनिर्गतपौरवर्गा
संस्थानमात्रगृहचत्वरराजमार्गा ।
निर्मुक्तभोगभुजगत्वगिव क्षणेन
लघ्वी बभूव रघुपुङ्गवराजधानी ॥४६॥

1) रघुपुङ्गवराजधानी कथं लघ्वी बभूव?
भुजगः यदा स्वत्वचां त्यजति, तस्य गमनानन्तरं त्वक् लघु भवति । तथैव यदा रामेणसह पौरजनाः अयोध्यात् गतवन्तः, तदा सा रघुपुङ्गवराजधानी लघ्वी बभूव ।

2) चत्वरराजमार्गाः कथमभवन्?
चत्वरराजमार्गाः संस्थानमात्रगृहाः (अर्थात् जनानाम् अविद्यमानतया स्थलमात्राः शून्याः याताः ) अभवन् ।

3) अत्र रसपदस्य कोर्थः?
अत्र ‘रस’पदं ‘राग’ ‘अनुराग’ वेति अर्थे व्यवहृतम् ।

4) निर्मुक्तभोगभुजगत्वगिव - अत्र अलङ्कारमस्पष्टयतु।
निर्मुक्तभोगभुजगत्वगिव = निर्मुक्त-भोग-भुजग-त्वक्-इव ।
अत्रोपमालङ्कारः । ‘निर्मुक्तभोगभुजगत्वक्’ इति उपमानः । ‘इव’ इति उपमावाचकशब्दः ।

5) रामानुसाररसनिर्गतपौरवर्गा - अत्र समासं स्पष्टयतु ।

रामानुसाररसनिर्गतपौरवर्गा = रामस्य अनुसारं रामानुसारं, (षष्ठीतत्पुरुषसमासः) ; तत्र यः रसः रामानुसाररसः (सप्तमीतत्पुरुषसमासः) ; तेन निर्गतः रामानुसाररसनिर्गतः (तृतीयातत्पुरुषसमासः) ।
रामानुसाररसनिर्गतः पौरवर्गाः यस्याः सा रामानुसाररसनिर्गतपौरवर्गा (बहुव्रीहिसमासः) ।

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
पौरजनानां रामानुगमनं वर्णितमत्र ।
पदच्छेदः -
रामानुसाररसनिर्गतपौरवर्गाः | संस्थानमात्रगृहचत्वरराजमार्गाः | निर्मुक्तभोगभुजगत्वक् | इव | क्षणेन | लघ्वी | बभूव | रघुपुङ्गवराजधानी ॥
अन्वयः -
रामानुसाररसनिर्गतपौरवर्गाः संस्थानमात्रगृहचत्वरराजमार्गाः रघुपुङ्गवराजधानी क्षणेन निर्मुक्तभोगभुजगत्वक् इव लघ्वी बभूव ॥
व्याख्या -
रामानुसाररसनिर्गतपौरवर्गाः संस्थानमात्रगृहचत्वरराजमार्गाः रघुपुङ्गवराजधानी क्षणेन निर्मुक्तभोगभुजगत्वक् इव लघ्वी बभूव ॥
विषद्व्याख्या -
भुजगः यदा स्वत्वचां त्यजति, तस्य गमनानन्तरं त्वक् लघु भवति । तथैव यदा रामेणसह पौरजनाः अयोध्यात् गतवन्तः, तदा सा रघुपुङ्गवराजधानी लघ्वी बभूव ।
चत्वरराजमार्गाः संस्थानमात्रगृहाः (अर्थात् जनानाम् अविद्यमानतया स्थलमात्राः शून्याः याताः ) अभवन् ।
व्याकरणम् -
(१) सन्धिः -
२) समासः -
रामानुसाररसनिर्गतपौरवर्गा - अत्र समासं स्पष्टयतु ।

रामानुसाररसनिर्गतपौरवर्गा = रामस्य अनुसारं रामानुसारं, (षष्ठीतत्पुरुषसमासः) ; तत्र यः रसः रामानुसाररसः (सप्तमीतत्पुरुषसमासः) ; तेन निर्गतः रामानुसाररसनिर्गतः (तृतीयातत्पुरुषसमासः) ।
रामानुसाररसनिर्गतः पौरवर्गाः यस्याः सा रामानुसाररसनिर्गतपौरवर्गा (बहुव्रीहिसमासः) ।
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र वसन्ततिलकाच्छन्दः - “उक्तावसन्ततिलका तभजा जगौ गः” इति लक्षणात् ।
(६) अलङ्कारः -
निर्मुक्तभोगभुजगत्वगिव - अत्र अलङ्कारमस्पष्टयतु।
निर्मुक्तभोगभुजगत्वगिव = निर्मुक्त-भोग-भुजग-त्वक्-इव ।
अत्रोपमालङ्कारः । ‘निर्मुक्तभोगभुजगत्वक्’ इति उपमानः । ‘इव’ इति उपमावाचकशब्दः ।

उपमा
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
पाञ्चाली
(८) गुणः (ओज/प्रसाद/माधुर्य)
ओज
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
अद्बऊतरसः

अथ दशरथः सान्तःपुरजनः पुरान्निगर्त्य गत्यन्तराभावात्तमेव रामं सुरिचमा लोकयन्नालकपथमतिक्रान्ते सुमन्त्राक्रान्तस्यन्दने रधुनन्दने स्यन्दमानबाष्पप्रवाहो मोहमुपगम्य भूम्यां पपात ।

ततः परजनकृताश्वासाल्लब्धसंज्ञाय राज्ञे सौसल्यासदनमरोचत ।

अथ दाशरथिरहमहमिकया सम्मूर्च्छन्महाजनौघदुरवगाहतया मन्दायमानस्यन्दनवेगः सकलजनविवेककोकनदं मुकुलयन् मोहतमसा तमसातटमुपगमत् ।

श्लोकसंख्या-४७
आविः प्रलापमटवीं भजतो जनस्य
काकुस्थपादविरहासदमानसस्य ।
आस्तीर्णपर्णशयनान्यभवन्गृहाणि
मूलस्थलानि तमसातटभूरुहाणाम् ॥४७॥

अथ निशीथे दाशरथिः सुमन्त्रेण समन्त्र्य वञ्चितजनसंहतिरकतिविनतानन्दनेन स्यन्दनेन व्दश्रुतिगोमतीनिष्यन्दिकानामनदीत्रयपरिष्कृतामिक्ष्वाकवेमनुना दत्ता वसुमतीमतीत्य विविधवनगहनवीरुत्तृणपटलपिहितरथतुरगखुरमुद्रया पदव्या गङ्गातरङ्गसङ्गतरुमूलं गगनगङ्गालिङ्गतशृङ्ग शृङ्गवेरपुरालंकारमिङ्गुदीपादपमुपागमत् ।

श्लोकसंख्या-४८
दृष्ट्वा राममनेकजन्मरचितैर्दृश्यं शुभैः कर्मभिः
श्रुत्वामातृवरद्वयादुपगतां वृत्तिं च वैखानसीम् ।
अत्युज्जृम्भितहर्षशोकजनितैर्वाष्पैर्निषादाधिपः
शीताशीतगुणान्वितैरविरलैः सम्प-क्तवक्त्रोऽभवत् ॥४८॥

सोऽयं प्रियसुहृत्समासाद्य गुहः कृताञ्जलिरञ्जसा रघुनाथमनुनाथितवान् ।

देव, पितृनियोगप्रवणान्तःकरणमपि भवन्तः विज्ञापयितुमज्ञजा नपदरीतिर्भारती मां मुखरयति ।

अस्त्येतदनिवार्यवीर्योद्भट भटदुर्गवर्गयुक्तमनुषक्तभोग्यजातमन्थरं मन्थराहृदयतोदावहमस्मदीयं राज्यम् ।

तदेतदनिदम्प्रमथप्रवृत्तं परिगृह्य किञ्चिदनुगृह्य च परिजनयोग्य भाग्यभाजनममुं जनममुञ्चन्नेव तातादेशं देशेस्मिन्विस्मयनीयानुभावमुनिवृन्दे मन्दाकिनीसन्दर्शनेन मन्दायमानजननीजनवियोगदुर्दर्शश्चतुर्दशदशरथकथिताः समाः समापयतु भवानिति ।

श्लोकसंख्या-४९
तस्मिन्नित्थं प्रार्थनाभाजि सख्यौ
प्रत्याचख्यौ रामभद्रः प्रियोक्त्या ।
मातुर्वाक्याद्वल्कलेनावृतं मे
गात्रं क्षात्रप्रक्रियां नार्हतीति ॥ ४९॥

ततस्तु तदनुरोधेन रोधस्तरोरधस्तात्सुमन्त्रनियन्त्रितरथ्ययोः दाशरथ्योरातिथ्यं समधुपर्कं कर्तुमिव मन्दमन्दमरविन्दवृन्दस्यन्दनमानमकरन्दबिन्दुसंदोहवाहिनि वाहिनीतरङ्गमरुति वाति काननगमनावस्थांकाकुसेथस्य प्रेक्षितुमक्षमायानिव क्ष्माभृति चरमे तिरोहितामह्नामधिदेवतायां सन्ध्यां चरमां रामः समाप्य तस्यां तरुमूलभुवि लक्ष्मणकल्पितम पर्णतल्पमभजत् ।

श्लोकसंख्या-५०
रामे विदेहसुतया तरुमूलसंज्ञ-
मन्तःपुरं विशति लक्ष्मणसौविदल्लम् ।
निध्याय तं नियमितामितबाष्पवृष्टि-
र्निद्रां निरस्य निषसाद निषादनाथः ॥५०॥

व्यतीतायां विभावर्यामर्यममरीचिमालाहारिणि पूर्वोर्वीधरमूर्ध्नि विरचितजटाबन्धौ सह सीतया दाशरथी भीगीरथीकच्छमगच्छताम् ।

तत्र रामः प्रहृष्टचेताः सीतामाचष्ट ।

श्लोकसंख्या-५१
मेध्याश्वमार्गपरिमार्गणसम्भवस्य
दिव्यौषधिं कपिलकोपमहाज्वरस्य
तातानुतर्पणपचेलिमभागधेयां
भागीरथीं भगवतीं शरणं भजामः ॥५१॥

तदनन्तरं रामः शआन्तवचननिवारितसुमन्त्रः प्रार्थयमानया तया मैथिल्या सह गुहेनानीतां नावमारुरोह ।

स एष निषिध्य निषादाधिपतेरनुगमनमपि तूर्णमेवव वितीर्णसुरसरित्पुरः संपूर्णसस्ये वत्साभिधाने जनपदे कृतपदश्च लक्ष्यवेधनचतुरश्चतुरो मृगान्निहत्य कुत्रचिद्वनस्पतिमूले निशामनैषीत् ।

अन्येद्युर्वन्येन पथा प्रयातास्ते प्रयागे प्रतायमानहोमधूमप्राग्भारं भारद्वाजाश्रमं श्रयन्तश्चाभिवन्द्य तममन्दहर्षं महर्षिमनेनादिष्टवर्त्मना वैकर्तनीपूरोपप्लवं प्लवेन वैणवेन निस्तीर्य शमघनजनसन्निधानशमितशास्त्रवसकलसत्वचरित्रविचित्रं चित्रकूटाचलमभजन् ।

श्लोकसंख्या-५२
अनुजरचितपर्णागारहृद्यासु माद्य-
त्परभृतगलचञ्चत्पञ्चमैरञ्चितासु ।
जनकदुहितृयोगाज्जातसाकेतसौख्य-
श्चिरमरमत रामश्चित्रकूटस्थलीषु ॥५२॥
अथ मां वनवासनैरस्यादपि न्म रामः समाह्वयेदिति प्रत्याशया परतन्त्रः सुमन्त्रः कानिचिदहानि गुहसकाशे नीत्वा निराशस्ततः प्रतिनिवृत्तो निवृत्तोत्सवामयोध्यामासाद्य निर्दाशरथिरयं समागत इति शोकातिरेकातुपौरजनजनितदीनाक्रन्दमन्धीभूतनेमि धोषादवरुह्य रथाद्दशरथं प्रयाणोन्मुखप्राणं प्राणंसीत् ।

एतद्दर्शनेन विसंज्ञो दशरथः कौसल्यासुमित्राभ्यां समाश्वासितः कथं प्रयातम रामेण कथं मैथिल्या किंवृत्तः सौमित्रिरिति मुहुर्मुहुरश्रुकुण्ठितकण्ठः सुमन्त्रमन्वयुङ्क्तः ।

सोऽपि राज्ञे व्यजिज्ञपत् ।

देव, कथं ब्रवीमि, कठिनहृदयोऽहम् ।

श्लोकसंख्या-५३
सेवारसानुगतपौरमनोरथस्य
दूरे रथस्य च सुतौ तव वर्तमानौ
भूत्वा विदेहदुहितुर्नवसौविदल्लौ
भीगीरथीतटवने पथिकावभूताम् ॥५३॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
“कथं प्रयातं रामेण” इति दशरथप्रश्नस्य उत्तरे सुमन्त्रः वदति ।
पदच्छेदः -
सेवारसानुगतपौरमनोरथस्य | दूरे | रथस्य | च | सुतौ | तव | वर्तमानौ | भूत्वा | विदेहदुहितुः | नवसौविदल्लौ | भीगीरथीतटवने | पथिकौ | अभूताम् ॥
अन्वयः -
(हे देव !) तव सुतौ सेवारसानुगतपौरमनोरथस्य रथस्य च दूरे वर्तमानौ भीगीरथीतटवने विदेहदुहितुः नवसौविदल्लौ पथिकौ अभूताम् ॥
व्याख्या -
(हे देव (दशरथ) !) तव सुतौ (रामलक्ष्मणौ) सेवारसानुगतपौरमनोरथस्य (सेवा परिचर्या तयोः यः रसः अनुरागः तेन अनुगताः अनुयाताः ये पौराः पौरजनाः तेषां मनोरथस्य अनुगमनरूपाभिलाषस्य) रथस्य (स्यन्दनस्य) च दूरे (विप्रकर्षे) वर्तमानौ (स्थितौ) भीगीरथीतटवने (गङ्गातीरस्थ कानने) विदेहदुहितुः (वैदेङ्याः) नवसौविदल्लौ (नूतनकञ्चुकिनौ भूत्वा) पथिकौ (पादचारिणौ) अभूताम् (अभवताम्) ॥
विषद्व्याख्या -
सुमन्त्रः रामस्य वनगमनकथां दशरथं श्रावयति । ते (राम-लक्ष्मण-सीताः) पौरवासीन् रथं च त्यक्त्वा गङ्गातटस्थ वने पदव्रजेन गतवन्तौ ।
व्याकरणम् -
(१) सन्धिः -
सेवारसानुगतपौरमनोरथस्य = सेवारस + अनुगतपौरमनोरथस्य
विदेहदुहितुर्नवसौविदल्लौ = विदेहदुहितुः + नवसौविदल्लौ
पथिकावभूताम् = पथिकौ + अभूताम्
२) समासः -
सेवारसानुगतपौरमनोरथस्य = सेवा परिचर्या तयोः यः रसः अनुरागः तेन अनुगताः अनुयाताः ये पौराः पौरजनाः तेषां मनोरथस्य अनुगमनरूपाभिलाषस्य
भीगीरथीतटवने = भीगीरथ्याः तटम्, तत्रस्थ वने
विदेहदुहितुः = विदेहस्य दुहिता, तस्याः
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र वसन्ततिलकाच्छन्दः - “उक्तावसन्ततिलका तभजा जगौ गः” इति लक्षणात् ।
(६) अलङ्कारः -
तुल्ययोगुता, रूपकः, श्लेषः, संसृष्टि
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
(८) गुणः (ओज/प्रसाद/माधुर्य)
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)

श्लोकसंख्या-५४
देव त्वत्तनयस्य कुन्तलभरं क्षीरैः स्वधेनूद्भवैः
सेक्तुं नालमरुन्धतीपतिरभूत्तस्याभिषेकोत्सवे ।
सिक्तो हन्त स एष मैथिलसूतावाष्पोदकोत्पादकै-
र्न्यग्रोधक्षरितैर्जटां रचयितुं क्षीरैर्निषादाहृतैः ॥५४॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
सुमन्त्रेण रामस्य यतिवेशधारणम् ।
पदच्छेदः -
देव | त्वत्तनयस्य | कुन्तलभरं | क्षीरैः | स्वधेनूद्भवैः | सेक्तुं | न | अलम् | अरुन्धतीपतिः | अभूत् | तस्य | अभिषेकोत्सवे | सिक्तः | हन्त | सः | एषः | मैथिलसूतावाष्पोदकोत्पादकैः | न्यग्रोधक्षरितैः | जटां | रचयितुं | क्षीरैः | निषादाहृतैः ॥
अन्वयः -
हे देव ! अरुन्धतीपतिः तस्य (रामस्य) अभिषेकोत्सवे स्वधेनूद्भवैः क्षीरैः त्वत्तनयस्य कुन्तलभरं सेक्तुं अलम् न अभूत् । हा हन्त ! सः एषः कुन्तलभरं मैथिलसूतावाष्पोदकोत्पादकैः निषादाहृतैः न्यग्रोधक्षरितैः क्षीरैः जटा रचयितुं सिक्तः ॥
व्याख्या -
हे देव ! अरुन्धतीपतिः (वशिष्ठः) तस्य (रामस्य) अभिषेकोत्सवे (राजयाभिषेकमहोत्सवे) स्वधेनूद्भवैः (स्वस्य कामधेनोः जातैः) क्षीरैः (दुग्धैः) त्वत्तनयस्य (तव सुतस्य रामचन्द्रस्य) कुन्तलभरं (केशकलापं) सेक्तुं (आर्द्रीकृतं) अलम् (शक्तः) न अभूत् । हा हन्त ! सः एषः कुन्तलभरं (केशकलापं) मैथिलसूतावाष्पोदकोत्पादकैः (सीतायाः अश्रुजलैः) निषादाहृतैः (गुहपरिजनानीतैः) न्यग्रोधक्षरितैः (वटवृक्षोद्भवैः) क्षीरैः (दुग्धैः) जटा रचयितुं (कुन्तलभरकर्तुं) सिक्तः (आर्द्रीकृतः) ॥
विषद्व्याख्या -
वशिष्ठैः रामस्य राज्याभिषेकोत्सवस्य आयोजनं कृतवान् दशरथः । तन्नाभवत्, परन्तु वटवृक्षक्षीरैः तस्य केशबन्धनं अभवत् ।
व्याकरणम् -
(१) सन्धिः -
नालमरुन्धतीपतिरभूत्तस्याभिषेकोत्सवे = न + अलम + अरुन्धतीपतिः + अभूत् + तस्य + अभिषेक + उत्सवे
र्न्यग्रोधक्षरितैर्जटां = र्न्यग्रोधक्षरितैः + जटां
क्षीरैर्निषादाहृतैः = क्षीरैः + निषाद + आहृतैः
२) समासः -
अरुन्धतीपतिः = अरुन्धत्याः पतिः
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र शार्दूलविक्रीडितछन्दः, “सूर्याश्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम्” इति लक्षणात् ।
(६) अलङ्कारः -
निदर्शन, विम्ब-प्रतिविम्ब, अतिशयोक्तिः, वस्तुध्वनिः
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
पाञ्चाली
(८) गुणः (ओज/प्रसाद/माधुर्य)
माधुर्य
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
करुणरसः

श्लोकसंख्या-५५
तस्या विदेहदुहितुः पदयोर्नखेषु
लाक्षां विनाप्यरुणिमा सहसा बभूव ।
वन्ये पथि प्रियतमेन सह ब्रजन्त्या
वैवर्ण्यमाविरभवन्न कदापि वक्त्रे ॥५५॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
सुमन्त्रेण सीतायाः दशावर्णनम् ।
पदच्छेदः -
तस्या | विदेहदुहितुः | पदयोः | नखेषु | लाक्षां | विना | अपि | अरुणिमा | सहसा | बभूव | वन्ये | पथि | प्रियतमेन | सह | ब्रजन्त्या | वैवर्ण्यम् | आविः-अभवत् | न | कदापि | वक्त्रे ॥
अन्वयः -
वन्ये पथि प्रियतमेन सह ब्रजन्त्या विदेहदुहितुः पदयोः नखेषु लाक्षां विना अपि सहसा अरुणिमा बभूव । वक्त्रे (तु) कदापि वैवर्ण्यम् न आविरभवत् ॥
व्याख्या -
वन्ये पथि (कान्तार मार्गे) प्रियतमेन सह (भर्त्रा रामेण सह) ब्रजन्त्या (गच्छन्त्या) विदेहदुहितुः (सीतायाः) पदयोः (चरणयाः) नखेषु लाक्षां विना अपि (अलक्तकद्रव्याभावेऽपि) सहसा (शीघ्रं) अरुणिमा (रक्तिमा) बभूव (अभवत्) । वक्त्रे (मुखे) (तु) कदापि (कस्मिन्नपि काले) वैवर्ण्यम् (कान्तिहैन्यं) न आविरभवत् (न प्रादुरभूत्) ॥
विषद्व्याख्या -
वने परिभ्रमणकाले पदचारणकष्टात् सीतायाः पदयुगलं रक्ताभमभवत् । तथापि कष्टात् तस्याः मुखमण्डलं वैवर्णं नाभवत् ।
व्याकरणम् -
(१) सन्धिः -
पदयोर्नखेषु = पदयोः + नखेषु ।
विनाप्यरुणिमा = विना + अपि + अरुणिमा ।
वैवर्ण्यमाविरभवन्न = वैवर्ण्यमम् + आविरभवत् + न ।
२) समासः -
विदेहदुहितुः = विदेहस्य दुहिता, तस्याः
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र वसन्ततिलकाच्छन्दः - “उक्तावसन्ततिलका तभजा जगौ गः” इति लक्षणात् ।
(६) अलङ्कारः -
विभावना, विशेषोक्तिः, संसृष्टिः
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
पाञ्चाली
(८) गुणः (ओज/प्रसाद/माधुर्य)
ओजः
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
करुणरसः ।

श्लोकसंख्या-५६
सीतापतेः किशलयैः परिकल्प्य तल्पं
संचार्य सत्वदमनाय निशासु दृष्टिम् ।
धन्वी तदङ्घ्रिभजनादिव पुण्यलभ्या-
दस्वप्न एव वनवर्त्मनि लक्ष्मणोऽभूत् ॥५६॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
सुमन्त्रेण लक्ष्मणस्य दशावर्णनम् ।
पदच्छेदः -
सीतापतेः | किशलयैः | परिकल्प्य | तल्पं | संचार्य | सत्वदमनाय | निशासु | दृष्टिम् | धन्वी | तदङ्घ्रिभजनात् | इव | पुण्यलभ्यात् | अस्वप्न | एव | वनवर्त्मनि | लक्ष्मणः | अभूत् ॥
अन्वयः -
धन्वी लक्ष्मणः वनवर्त्मनि निशासु सीतापतेः किशलयैः तल्पं परिकल्प्य सत्वदमनाय दृष्टिम् संचार्य पुण्यलभ्यात् तदङ्घ्रिभजनात् इव अस्वप्न एव अभूत् ॥
व्याख्या -
धन्वी (धनुर्धरः) लक्ष्मणः वनवर्त्मनि (कान्तारमार्गे) निशासु (रात्रिषु) सीतापतेः (सीतायाः रामस्य च) किशलयैः (नवपल्लवै) तल्पं (शय्यां) परिकल्प्य (निर्माय) सत्वदमनाय (दुष्टजन्तून् दमयितुं) दृष्टिम् संचार्य (नयनं प्रसार्य) पुण्यलभ्यात् (सुकृतैः प्राप्तात्) तदङ्घ्रिभजनात् (रामपदध्यानात्) इव अस्वप्नः (विनिद्रः) एव अभूत् ॥
विषद्व्याख्या -
लक्ष्मणः सीतारामयोः सेवां कृतवान् । तयोः सकाशं सः रात्रौ शयनव्यवस्था कृतवान् । दुष्टजन्तूनाम् आक्रमणात् तौ रक्षणाय सः चेष्टितः आसीत् ।
व्याकरणम् -
(१) सन्धिः -
लक्ष्मणोऽभूत् = लक्ष्मणः + अभूत्
२) समासः -
सीतापतेः = सीतायाः पतिः, तस्य ।
सत्वदमनाय = सत्वानां दमनं, तस्मै ।
वनवर्त्मनि = वनस्य वर्त्मन्, तस्मिन् ।
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र वसन्ततिलकाच्छन्दः - “उक्तावसन्ततिलका तभजा जगौ गः” इति लक्षणात् ।
(६) अलङ्कारः -
उत्प्रेक्षामूलावाच्यध्वनिः ।
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
वैदर्भी
(८) गुणः (ओज/प्रसाद/माधुर्य)
माधुर्य
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
शृङ्राररसः ।

एवं सुमन्त्रनिवेदितपुत्रचरित्रश्चरमगिरिशिखरजुषि निगमवपुषि ज्योतिषि हृदयलग्नशोकशल्यां सौशल्यां समाश्वास्य नरपतिरित्थमकथयत् ।

पुरा खलु सरयुरोधसि विविधतरुनिवहपिहितदिवस्पतौ मृगयास्पृहया कमपि समयमगमयम् ।

तत्र-
श्लोकसंख्या-५७
तोयदानसनादपुष्करगजभ्रान्त्या तपस्वी मया
विद्धः कश्चन शब्दवेधनविदा पाथः सरय्वां हरन् ।
तत्पित्रोर्जरदन्धयोरनुमृतिं कर्तुं चितिं चिल्वतोः
शापो मध्यपतद्भवानपि सुतप्रेम्णा प्रणश्येदिति ॥५७॥

श्लोकसंख्या-५८
अहं वैश्यस्य शूद्रायां जाततस्मान्नसम्भवेत् ।
ब्रह्महत्येति मामुक्त्वा स्वर्गतो दुर्गतो मुनिः ॥५८॥

तदवश्यं वश्य एवास्मि मृत्योरिति स्मृतिपथगतराम एव विरराम ।

श्लोकसंख्या-५९
मुनिशापकृतोत्पत्तिर्विपत्तिर्निष्प्रतिक्रिया ।
ततो दशरथायाशु दिदेश दशमीं दशाम् ॥५९॥

श्लोकसंख्या-६०
नाक्रान्तस्त्रिदिवः परैः सुमनसां कान्ता न वन्दीकृता
नाकीर्णं पुरहूतशासनधरैः साकेतबाह्याङ्गणम् ।
नादिष्टाः सचिवाश्च भूतलपरित्राणाय यद्यप्यसौ
नाकं शोकवसादगाद्दशरथो नास्थां वहन्वाहने ॥६०॥
प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
दशरथस्य स्वर्गगमनम् ।
पदच्छेदः -
न | आक्रान्तः | त्रिदिवः | परैः | सुमनसां | कान्ताः | न | वन्दीकृता | न | आकीर्णं | पुरहूतशासनधरैः | साकेतबाह्याङ्गणम् | न | आदिष्टाः | सचिवाः | च | भूतलपरित्राणाय | यद्यपि | असौ | नाकं | शोकवसात् | अगात् | दशरथः | न | आस्थां | वहन् | वाहने ॥
अन्वयः -
यद्यपि परैः त्रिदिवः न आक्रान्तः, यद्यपि सुमनसां कान्ता न वन्दीकृता, यद्यपि पुरहूतशासनधरैः साकेतबाह्याङ्गणम् न आकीर्णं, यद्यपि भूतलपरित्राणाय सचिवाः न आदिष्टाः (तथापि) असौ दशरथः शोकवसात् वाहने आस्थां न वहन् नाकं अगात् ॥
व्याख्या -
यद्यपि परैः (शत्रुभिः) त्रिदिवः (स्वर्गः) न आक्रान्तः (आस्कन्दितः), यद्यपि सुमनसां (देवानां) कान्ताः (स्त्रियः) न वन्दीकृताः (नोपगृहीताः), यद्यपि पुरहूतशासनधरैः (इन्द्रज्ञाकरैः दूतैः) साकेतबाह्याङ्गणम् (अयोध्यापुरस्य बहिःचत्वरं) न आकीर्णं (संकीर्णं), यद्यपि भूतलपरित्राणाय (पृथ्वीरक्षणाय) सचिवाः (मन्त्रिणः) न आदिष्टाः (न आज्ञाप्ताः), (तथापि) असौ दशरथः शोकवसात् (पुत्रविरहजनितदुःखात्) वाहने (रथे) आस्थां (विश्वासं) न वहन् (धारयन्) नाकं (स्वर्गं) अगात् (प्राप्तः) ॥
विषद्व्याख्या -
व्याकरणम् -
(१) सन्धिः -
२) समासः -
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र शार्दूलविक्रीडितछन्दः, “सूर्याश्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम्” इति लक्षणात् ।
(६) अलङ्कारः -
विभावना
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
पाञ्चाली
(८) गुणः (ओज/प्रसाद/माधुर्य)
माधुर्य
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
करुणरसः ।

अथ दशरथप्रशंसामांसलैः कैकेयीनिन्दाकन्दलितैः रामगुणकीर्तनगुणितैरवराधवधुजनपरिदेवनारवैर्मुखरितिषु दिङ्मुखेषु ।

श्लोकसंख्या-६१
अभूदराजकम्लानसद्गणं गगनाङ्गणम् ।
आलाक्येव तदा शान्तमशेषं च महीतलम् ॥६१॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतचम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
दशरथस्य महाप्रयाणपरस्य अयोध्यायाः दशा अत्र श्लेषोपेक्षयाभ्यां वर्णिता ।
पदच्छेदः -
अभूत् | अराजकम्लानसद्गणम् | गगनाङ्गणम् | आलोक्य | इव | तदा | शान्तम् | अशेषम् | च | महीतलम् ॥
अन्वयः -
तदा अराजकम्लानसद्गणं गगनाङ्गणम् आलोक्य अशेषं महीतलम् च अराजकः म्लानः सद्गणः शान्तम् अभूत् ॥
व्याख्या -
तदा = तस्मिन् समये, दशरते स्वर्गगते सति; अराजकः= न बिद्यते राजा चन्द्रो वा सस्य सः अराजकः; अतएव म्लानः तेजोहीनः सद्गणः नक्षत्रमण्डलं यस्य; तादृशं गगनाङ्गणम् = आकाशमण्डलम्; आलोक्य = दृष्ट्वा; अशेषं = समस्तम्; महीतलम् = भूमण्डलम्; च (इति अव्ययम्); अराजकः = दशरथविहीनः / कृष्णपक्षरात्रित्वात् चन्द्ररहितः; म्लानः = शोकाकुलः / कान्तिहीनः; सद्गणः = साधुजननिवहः; शान्तम् = निश्चेष्टम्; अभूत् ॥
अत्र “अराजकः” इति पदस्य श्लिष्टप्रयोगमस्ति । राजा = भूपति, चन्द्रः च, पुनः
सद्गणः = नक्षत्रमण्डलं, सज्जनमण्डली च,
शान्तम् = शमितम्, निश्चेष्टम् च,
विषद्व्याख्या -
यथा चन्द्रे गते नभस्थलं प्रभाशून्यं भवति, तथैव दशरथरहितं भूमण्डलमपि खिन्नजनसमाविष्टमभवत् - इत्यर्थः ।
व्याकरणम् -
(१) सन्धिः -
अभूदराजकम्लानसद्गणं = अभूत् + अराजकम्लानसद्गणम् ।
गगनाङ्गणम् = गगन + अङ्गणम् ।
शान्तमशेषं = शान्तम् + अशेषम् ।
२) समासः -
(१) अराजकम्लानसद्गणं = अराजक-कारणात् म्लानः अराजकम्लानः - पञ्चमीतत्पुरुषसमासः;
अराजकम्लानः रूपकः सद्गणः अराजकम्लानसद्गणः (रूपककर्मधारयसमासः); तम् ।
अथवा -
अराजकतया (अराजकेन) म्लानं (३या-तत्पुरुषसमासः) तदेव सद्गणः यस्य (बहुव्रीहि) तादृशम् ।
(३) अशेषम् = न शेषम् (नञ्-ततपुरुषसमासः)
(२)गगनाङ्गणम् = गगनस्य अङ्गणम् (षष्ठीतत्पुरुषसमासः )
(३) कृदन्तम्-
आलोक्य = आ (उपसर्गः) + √लोक + ल्यप्
(४) तद्धितान्तम् -
अराजकः = नास्ति राजा यत्र सः (कप् प्रत्ययः)
(५)छन्दः -
अनुष्टुप्छन्दः, तस्य लक्षणम् यथा -
श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पंचमम्।
द्विचतुष्पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः॥
(६) अलङ्कारः -
श्लेषोत्प्रेक्षायोः अभिन्नेन उपस्थितत्वात् संकरः ।
(७) रीतिः - वैदर्भी रीतिः ।
(८) गुणः - प्रसादगुणः ।
(९) रसः - करुणरसः ।
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)

ततः प्रभाते वशिष्ठवचसा सचिवास्तैलद्रोण्यां निक्षिप्य क्षितिपतेस्तनुं क्षिप्रमेव भरतमकथितदशरथकथा एव आनयतेति दूतान् केकयेषु प्रेषयामासुः ।

तेऽपि जितपवनजवनवाजिसंकोचितपथास्तुरगपतिपुरे दुःस्वप्नदीयमानमानसं भरतमभिवन्द्य गुरुनियोगं व्यजिज्ञपन् ।

सोऽयं मातामहेन युधाजिता चानुज्ञातः कतिपयैरेव दिनैरनिमित्तसम्पातेन सातङ्कः साकेतमाससाद ।

श्लोकसंख्या-६२
अतिचकितमतिः पुरैव पश्य-
न्पुरमयथापुरचारपौरवर्गम् ।
न्यविशत भरतः परीतदूतः
पितृभवनं पितृकाननादनूनम् ॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
पदच्छेदः -
अतिचकितमतिः | पुरा | एव | पश्यन् | पुरम् | अयथापुरचारपौरवर्गम् | न्यविशत | भरतः | परीतदूतः | पितृभवनं |पितृकाननात् | अनूनम् ॥
अन्वयः -
अयथापुरचारपौरवर्गम् पुरम् पुरा एव पश्यन् अतिचकितमतिः परीतदूतः भरतः अनूनम् पितृकाननात् पितृभवनं न्यविशत ॥
व्याख्या -
अयथापुरचारपौरवर्गम् ( पुराभावम् अनतिक्रम्य इति यथापुरम्, न यथापुरम् इति अयथापुरम् चारः व्यवहारः यस्य तादृशः पौरवर्गः पुरवायीसमुदयः यत्र तादृशं) पुरम् (नगरं) पुरा एव (प्रथमे एव) पश्यन् (अवलोकयन्) अतिचकितमतिः (अतीव भयसम्भ्रान्तवुद्धिः) परीतदूतः (परीताः समन्तात् अवर्तमानाः दूताः यस्य सः, तथोक्तः) भरतः अनूनम् ( अन्यूनम्, आक्रन्दयुक्तत्वेन आनन्दरहितेन च) पितृकाननात् (श्मशानात्) पितृभवनं (पितुः भवनम् दशरथस्य भवनम्) न्यविशत (प्रविष्टः) ॥
(पितृभवनं = दशरथभवनम् / श्मशानम् )

विषद्व्याख्या -
दूतैः परिवृतः भरतः सर्वप्रथमं नगरमेव अपश्यत् यत्र पुरवासिना पूर्वव्यवहारविलक्षणव्यवहारः दृश्यमानः आसीत् । एतद्दृष्ट्वा भरतः भयसम्भ्रान्तः सन् पितुर्दशरथस्य गेहं प्रविष्टः यत् श्मशानतुल्यं भयंकारं शून्यं च प्रतीयते इति आशयः ।
व्याकरणम् -
(१) सन्धिः -
पुरैव = पुरा + एव ।
पितृकाननादनूनम् = पितृकाननात् + अनूनम् ।
२) समासः -
अयथापुरचारपौरवर्गम् = पुराभावम् अनतिक्रम्य इति यथापुरम् (अव्ययीभीवसमासः), न यथापुरम् इति अयथापुरम् (नञ्तत्पुरुषसमासः) चारः व्यवहारः यस्य सः (बहुव्रीहिसमासः) तादृशः पौरवर्गः पुरवायीसमुदयः यत्र (बहुव्रीहिसमासः) तादृशं ।
परीतदूतः = परीताः समन्तात् अवर्तमानाः दूताः यस्य सः (बहुव्रीहिसमासः), तथोक्तः ।
(३) कृदन्तम्-
भवनम् = √ भु + ल्युट् + सुप्
(४) तद्धितान्तम् -
(५)छन्दः -
पुष्पिताग्रा
(६) अलङ्कारः -
श्लेषालङ्कारः ।
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
पाञ्चाली ।
(८) गुणः (ओज/प्रसाद/माधुर्य)
प्रसाद ।
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
अद्बूतरसः ।

श्लोकसंख्या-६३
स पितरमनवेक्ष तत्र मातुः
सदनगतः प्रणिपत्य तामपृच्छत् ।
क्वनु मम गतवान्पितेति सैषा
परुषतरं भरताय वाचमुचे ॥६३॥

श्लोकसंख्या-६४
वनचर इव साकं मैथिलीलक्ष्मणाभ्यां
पितृविधिमविरोद्धुं प्रस्थितौ रामभद्रः ।
तदनु तव पिताऽभूत्कालधर्मानुयात-
स्त्वमनुभव यथेच्छं निःसपत्नां धरित्रीम् ॥६४॥

श्लोकसंख्या-६५

मयूरीव महानागं केकया केकयात्मजा ।
भारत्या भरतं चक्रे परिक्षुभितमानसम् ॥६५॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
मातुलगृहादागतं भरतं कैकेयी निष्कण्टकराज्यभोगाय प्रेरयति । एतस्मिन् दारुणदुःखदकाले कैकेयाः एतादृशं वचनं शृत्वा भरतः मर्माहतः भवति ।
पदच्छेदः -
मयूरी | इव | महानागं | केकया | केकयात्मजा | भारत्या | भरतं | चक्रे | परिक्षुभितमानसम् ॥

अन्वयः -
मयूरी केकया महानागं इव केकयात्मजा भारत्या भरतं परिक्षुभितमानसम् चक्रे ॥

व्याख्या -
मयूरी (शिखी) केकया (स्व-कर्कशध्वनिना) महानागं (महासर्पम्) यथा परिक्षुभितमानसं भयभीतं वा करोति, तथैव केकयात्मजा (कैकेयी) भारत्या (स्व-वाण्या) भरतं (रामानुजं कैकेयीसुतं) परिक्षुभितमानसम् (सर्वतः कम्पितमना) चक्रे कृतवती ॥

विषद्व्याख्या -
कैकेयी भरतं दृष्ट्वा वदति यत् - दशरथः स्वर्लोकं गतः, रामोऽपि वनं गतवान्, अतः त्वं निष्कणकं साकेतं भुञ्ज इति । तच्छृत्वा भरतः व्यथितः अभवत् । यथा कस्याऽपि शिख्याः कर्कशवाणीं शृत्वा महासर्पस्य हृत्कम्पनं जायते, तथैव कैकेयाः कटुवचनं शृत्वा भरतस्य चित्तं क्षुभितं भवति ।
व्याकरणम् -
(१) सन्धिः -
मयूरीव = मयूरी + इव ।
केकयात्मजा = केकय + अत्मजा ।
२) समासः -
महानागं = महान् च असौ नागः महानागः, तम् ।
केकयात्मजा = केकयस्य आत्मजा (षष्ठीतत्पुरुषसमासः )
परिक्षुभितमानसम् = परिक्षुभितं मानसम् यस्य सः (बहुव्रीहि), तम् ।
(३) कृदन्तम्-
परिक्षुभितं = परि(उपसर्ग) + √क्षुभ् + क्त + (सुप्-प्रत्ययः) ।
(४) तद्धितान्तम् -
(५)छन्दः -
अनुष्टुप्छन्दः, तस्य लक्षणम् यथा -
श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पंचमम्।
द्विचतुष्पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः॥
(६) अलङ्कारः -
अत्र पूर्णोपमा । उपमेयौ - भरतः / महानागौ; उपमानौ - कैकेयी / मयूरी; साधारणधर्मौ - केका / भारती; उपमावाचकशब्दः - इव
(७) रीतिः - वैदर्भी रीतिः ।
(८) गुणः - प्रसादगुणः ।
(९) रसः - भयानकः ।
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)

तदनु भरतश्चिरतरं विलप्य विलुप्तमानविवेकः कैकेयीमकथयत् ।

श्लोकसंख्या-६६
परिणतिपरुषाणां पाप्मनां सन्निपाता-
न्न हि भवसि चतुर्णां सा त्वमस्माकमम्बा ।
तदिह तनयवत्यः संलपिष्यन्ति कामं
श्रुतिपुटरचितार्तेस्त्वां सवित्रीमकीर्तिः ॥६६॥

तदनु तन्मुखादाकृष्टदृष्टिरनुजमिदमवादीत् ।

श्लोकसंख्या-६७
अविरलमिनवंशं दग्धुमाश्रित्य तापं
जनमनसि किरन्त्यां हन्त सत्यां भवत्याम् ।
अनुसवनमपापैर्देवता पूज्यमाना
वहति कथमिदानीमाश्रयाशाभिधानम् ॥६७॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
अत्र प्रतीपालङ्कारेण भरतः कैकेय्याः दुष्कृतिं वर्णयति ।
पदच्छेदः -
अविरलम् | इनवंशं | दग्धुम् | आश्रित्य | तापं | जनमनसि | किरन्त्यां | हन्त | सत्यां | भवत्याम् | अनुसवनम् | अपापैः | देवता | पूज्यमाना | वहति | कथम् | इदानीम् | आश्रयाशाभिधानम् ॥
अन्वयः -
अविरलम् इनवंशं दग्धुम् आश्रित्य जनमनसि तापं किरन्त्यां सत्यां, हन्त ! अनुसवनम् अपापैः देवता इदानीम् आश्रयाशाभिधानम् कथम् वहति ॥
व्याख्या -
अविरलम् (समृद्धम्, पुत्रपौत्रदिसम्पन्नम् ) इनवंशं (सूर्यकुलम् - ‘इनः’ इति सूर्यः ) दग्धुम् (नाशयितुम्) आश्रित्य (अधिष्ठाय) जनमनसि ( जनानां मनसि) तापं (संतापम् ) किरन्त्यां (विक्षिपन्त्याम्) सत्यां (विद्यमानानाम्) हन्त ! (हन्त इति खेदे) अनुसवनम् (सवने यज्ञे इति ) अपापैः (धार्मिकैः) देवता (वह्निः) इदानीम् (अस्मिन्नवसरे) आश्रयाशाभिधानम् (आश्रयम् -काष्ठादिकम् अश्नातीति आश्रयाशः, आश्रयाशः इति अभिधानम् नामधेयम् ) कथम् वहति (धारयति) ?
विषद्व्याख्या -
वह्निः स्व-आश्रयं काष्ठं दहति । तथैव कैकेयी स्ववंशं सूर्यवंशं भष्मीकरोति ।
व्याकरणम् -
(१) सन्धिः -
२) समासः -
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
(६) अलङ्कारः -
प्रतीपालङ्कारः,
उपमेय > उपमान
अत्र कैकेयी बह्नेः गुरुतरा ।
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
पाञ्चाली
(८) गुणः (ओज/प्रसाद/माधुर्य)
ओज
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
रौद्ररसः ।

श्लोकसंख्या-६८
अविरतकृषितान्तं वत्समालोक्य धेनो-
रपि समजशतानां मातुरस्रं बभूव ।
तदिह तनयशोकं संतरेदेकपुत्रा
कथय कथमिदानीं कोशलेन्द्रस्य पुत्री ॥६८॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
भरतः कौसल्यायाः तनयविरहदुःखं वर्णयति ।
पदच्छेदः -
अविरतकृषितान्तं | वत्सम् | आलोक्य | धेनोः | अपि | समजशतानां | मातुः | अस्रं | बभूव | तत् | इह | तनयशोकं | संतरेत् | एकपुत्रा | कथय | कथम् | इदानीं | कोशलेन्द्रस्य | पुत्री ॥
अन्वयः -
अविरतकृषितान्तं वत्सम् आलोक्य समजशतानां मातुः धेनोः अपि अस्रं बभूव तत् इह एकपुत्रा कोशलेन्द्रस्य पुत्री इदानीं तनयशोकं कथं संतरेत् (इति) कथय ॥
व्याख्या -
अविरतकृषितान्तं (अविरता अविच्छिन्ना या कृषिः क्षेत्रकर्मं तया तान्तं खिन्नं) वत्सम् (पुत्रं) आलोक्य (वीक्ष्य) समजशतानां (समं तुल्यं जायन्त इति समजाः पुत्राः तेषां शतानां) मातुः धेनोः (गोः) अपि अस्रं (रुदितं) बभूव (अभवत्) तत् इह एकपुत्रा ( एकमेव पुत्र यस्या सा) कोशलेन्द्रस्य पुत्री (कौसल्या) इदानीं (अधुना) तनयशोकं (पुत्रविरहदुःखं) कथं संतरेत् (तरितुं शक्नुयात्) (इति) कथय ॥
विषद्व्याख्या -
पुत्रवियोगजनितदुःखै कौसल्यायाः हृदयं शतधा विदीर्णँ भवतीति भरतः मर्मे मर्मे अनुभवति । शतपुत्रान् जममी धेनुः अपि एकस्य पुत्रस्य दुःखात् व्यथिता भवति । एकमात्रस्य पुत्रस्य वियोगात् कौसल्याया वेदना सहजतया अनुमेया ।
व्याकरणम् -
(१) सन्धिः -
वत्समालोक्य = वत्सम् + आलोक्य
संतरेदेकपुत्रा = संतरेत् + एकपुत्रा
कथमिदानीं = कथम् + इदानीं
२) समासः -
अविरतकृषितान्तं (अविरता अविच्छिन्ना या कृषिः क्षेत्रकर्मं तया तान्तं खिन्नं)
समजशतानां (समं तुल्यं जायन्त इति समजाः पुत्राः तेषां शतानां)
एकपुत्रा ( एकमेव पुत्र यस्या सा)
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र मालिनी वृत्तम् - “न न म य य युतेऽयं मालिनी भोगिलोकैः” इति लक्षणात् ।
(६) अलङ्कारः -
अर्थापत्ति (एकस्य वस्तुनो भावात् यत्र वस्त्वन्यथा पतेत् )
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
पाञ्चाली
(८) गुणः (ओज/प्रसाद/माधुर्य)
माधुर्य
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
करुणरसः ।

श्लोकसंख्या-६९
अपिवदियममन्त्रे कालयोगान्नरेन्द्रे
वरयुगरसनाभ्यां प्राणवायुं तदीयम् ।
अपनगरममुष्या वर्तनं युक्तरूपं
पितृवनवसुमत्याम क्वापि वल्मीकवत्याम् ॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
भरतः श्लेषेन कैकेयीं भर्त्सयति ।
पदच्छेदः -
अपिवत् | इयम् | अमन्त्रे | कालयोगात् | नरेन्द्रे | वरयुगरसनाभ्यां | प्राणवायुं | तदीयम् | अपनगरम् | अमुष्याः | वर्तनं | युक्तरूपं | पितृवनवसुमत्याम् | क्वापि | वल्मीकवत्याम् ॥
अन्वयः -
इयम् (कैकेयी) कालयोगात् नरेन्द्रे (दशरथे/विषवैद्ये) अमन्त्रे (मन्त्रणारहिते/विस्मृतसर्पमन्त्रे) वरयुगरसनाभ्यां (वरयुगमेव रसने जिह्वे ताभ्याम्) तदीयम् प्राणवायुं अपिवत् अमुष्याः अपनगरम् वल्मीकवत्याम् क्वापि पितृवनवसुमत्याम् (पितृभवनं / श्मशानं ) वर्तनं युक्तरूपम् ॥
व्याख्या -
इयम् (कैकेयी) कालयोगात् (विधिवशात्) नरेन्द्रे (दशरथे/विषवैद्ये) अमन्त्रे (मन्त्रणारहिते/विस्मृतसर्पमन्त्रे) वरयुगरसनाभ्यां (वरयुगमेव रसने जिह्वे ताभ्याम्) तदीयम् प्राणवायुं अपिवत् अमुष्याः अपनगरम् वल्मीकवत्याम् (भुजगनिवासस्थानं) क्वापि पितृवनवसुमत्याम् (पितृभवनं / श्मशानं ) वर्तनं (स्थानम्) युक्तरूपम् ॥
विषद्व्याख्या -
कालसर्पिणी मन्त्राभावात् द्विरसनायां विषवैद्यस्य प्राणं हरति । तथैव कैकेयी वरद्वयेण दशरथस्य प्राणं हरति । अतः कैकेय्याः अवस्थानं राजनगरे समीचीनं न ।
व्याकरणम् -
(१) सन्धिः -
अपिवदियममन्त्रे = अपिवत् + इयम् + अमन्त्रे
कालयोगान्नरेन्द्रे = कालयोगात् + नरेन्द्रे
अपनगरममुष्या = अपनगरम् + अमुष्याः
२) समासः -
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र मालिनी वृत्तम् - “न न म य य युतेऽयं मालिनी भोगिलोकैः” इति लक्षणात् ।
(६) अलङ्कारः -
अर्थश्लेषः, काव्यलिङ्गम्, संकरः, काकोध्वनिः ।
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
गौडी
(८) गुणः (ओज/प्रसाद/माधुर्य)
ओज
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
वीररसः ।

श्लोकसंख्या-७०
एषा निकृष्टमतिरात्मरुणोचितेषु
वंशेषु सत्सु बहुधा पिशिताशनानाम् ।
माकन्दशालिनि वने विषवलिलीरिव
हा हन्त केकयकुले कथमाविरासीत् ॥७०॥

श्लोकसंख्या-७१
जननीतिविहीना में जननीति स धर्मवित् ।
निरयान्निरयाद्वीरो निरयादिव सानुजः ॥७१॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
भरतस्य गृहत्यगम्
पदच्छेदः -
जननीतिविहीना | मे | जननी | इति | सः | धर्मवित् | निरयात् | निरयात् | वीरः | निरयात् | इव | सानुजः ॥
अन्वयः -
वीरः सः धर्मवित् “मे जननी जननीतिविहीना” इति निरयात् (नरकात्) इव निरयात् (निलयात्) सानुजः निरयात् (निरगच्छत्) ॥
व्याख्या -
वीरः सः (भरतः) धर्मवित् (धर्मज्ञः) “मे (मम) जननी (माता) जननीतिविहीना (लोकमर्यादारहिता)” इति (हेतोः) निरयात् (नरकात्) इव निरयात् (निलयात्) सानुजः (अनुजेन शतृघ्नेन सह) निरयात् (निरगच्छत्) ॥
विषद्व्याख्या -
व्याकरणम् -
(१) सन्धिः -
२) समासः -
जननीतिविहीना = जननीतेः विहीना (पञ्चमी)
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र अनुष्टुप् छन्दः, तस्य लक्षणम् -
श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पंचमम्। द्विचतुष्पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः॥
(६) अलङ्कारः -
अनुप्रासः, उपमा, संसृष्टिः
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
(८) गुणः (ओज/प्रसाद/माधुर्य)
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
वीररसः ।

तत्र सामात्यः समुपेत्य पत्युश्चिताधिरोहणमभिलषन्ती कौसल्या भरतः शपथशतैर्निवार्य वसिष्ठादिष्टेन पथा सदा यागशिलाय यायजुकाभिप्रेतं प्रेतकृत्यमकरोत् ।

श्लोकसंख्या-७२
ताते पितृवनं याते यातुं भ्रातृवनं तथा ।
भरतः प्रार्थयामास प्राञ्जलिः प्रकृतीः कृती ॥ ७२॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
वनगमनाय भरतस्य प्रजान् प्रति प्रार्थना ।
पदच्छेदः -
ताते | पितृवनं | याते | यातुं | भ्रातृवनं | तथा | भरतः | प्रार्थयामास | प्राञ्जलिः | प्रकृतीः | कृती ॥
अन्वयः -
कृती भरतः ताते पितृवनं याते भ्रातृवनं यातुं प्राञ्जलिः (सन्) प्रकृतीः प्रार्थयामास ॥
व्याख्या -
कृती (कृतमनेनेति कृती, कृतपितृप्रेतकत्यतया, कृतकृत्य) भरतः ताते (दशरथे) पितृवनं (श्मशानं, परलोकं) याते (गते) भ्रातृवनं (रामेणाधिष्ठितं वनं) यातुं ( गन्तुं ) प्राञ्जलिः ( कृताञ्जलिः ) (सन्) प्रकृतीः (प्रजाः) प्रार्थयामास (प्रार्थनां कृतवान्) ॥
विषद्व्याख्या -
व्याकरणम् -
(१) सन्धिः -
२) समासः -
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र अनुष्टुप् छन्दः, तस्य लक्षणम् -
श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पंचमम्। द्विचतुष्पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः॥
(६) अलङ्कारः -
शब्दालङ्कारः, अनुप्रासः ।
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
(८) गुणः (ओज/प्रसाद/माधुर्य)
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)

अथ ताभ्यां सुमित्राकौसल्याभ्यामन्तःपुरजनेन च साकमनुनीतः भरतो भवनमभजत ।

अथ यथाविधिविहितौर्ध्वदैहिकं गमितचतुर्दशदिवसकरकुलहितेन पुरोहितेन नगरवृद्धैः सार्धममात्याः समुपेत्य मुकुटस्य भरणाय प्रार्थयामासुः ।

ततस्तान्निर्बध्नतः सोऽयं प्रत्यवादीत् ।

श्लोकसंख्या-७३
बहुभिरिह किमुक्तैस्त्यक्तसौमित्रिवृत्ति-
र्मुकुटमपि वहेयं युष्मदाज्ञा हि पूज्या ।
मम परमवकाशः पर्णशालानुकूलः
क्वचिदपि विपुलायां नास्ति चेद्दण्डकायाम् ॥७३॥

इत्युक्त्वा श्रीरामसेवोत्सुकमना निश्चक्राम ।

श्लोकसंख्या-७४
अनुपधि रचयित्वा सत्पथे पांशुलत्वं
सुजननयनसौख्यप्रातिकूल्यं च कृत्वा ।
नरपतिगृहमध्यात्तूर्णमुद्घूर्णमाना
कुटिलगतिरुदस्थान्मन्थरा नाम वात्या ॥७४॥

श्लोकसंख्या-७५
केशहस्तं स्वहस्तेन गृहीत्वा तद्वधोद्यतम् ।
कौसल्या वारयामास क्रुद्धं रामानुजानुजम् ॥७५॥

तत्र सान्तःपुर एव पुरान्निर्गत्य शिल्पिवर्गसमीकृतसरणिर्भरतः पुरतः प्रसृतनरगजरथतुरगचरणक्षुण्णक्षोणीतलसमुत्कीर्णेन रेणुनिकुरुम्बेण जम्भारयन्नम्बरगङ्गा च सुमन्त्रभणितगुणनिवहगुहानुमत्या निस्तीर्य दीरादेवाश्रमद्वारे निवेशितवल्कलभारो भरद्वाजाभिवन्दनमकरोत् ।

सोऽयं प्रीतमना मुनिर्भरद्वाजो भरतं जननीजनमपि प्रत्येकमालोक्य सेनामप्याहूय यधोचितमातिथ्यमकुरुत ।

श्लोकसंख्या-७६
तथातिथ्यं चक्रे भरतवलभाजां तनुभृतां
भरद्वाजः सोऽयं भ्रुकुटिभटकल्पाखिलसुरः ।
तपस्तप्त्वा घोरं दिवि सुमनसस्तत्फलभुजो
यथा तेषां तोषं क्षणमभिलषेयुर्मुनिकृतम् ॥७६॥

इति तद्दिनं दिनशतकल्पं तत्र नीत्वा मुनेर्निर्देशेन सर्वे चित्रकूटवनोद्देशमविशन् ।

तत्र संन्यस्तसैन्यस्तत इतो गुहेन सह राममन्विष्यन् हव्यगन्धिना गन्धवहेन धूमगन्धेन च दूरादेव विभाव्यमानमचलमृगगणमदृश्यरूपाभिर्वनदेवताभिरवकीर्यमाणबलिकुसुमसम शेषपिशिताशनपिशाचोच्चाटनमन्त्रायमाणलक्ष्मणचापघोषश्रवणसमुचितसामीप्यप्रदेशं नूतनपरिकल्पितपर्णशालावास्तव्यवौखानसकुटुम्बिनिबिरीसभूभागमनोकहशाखावलम्बमानवल्कलाजिनममरतरुशाखापचितैरभिनवपल्लवभङ्गशवलैरम्बरचरपतिपृतनागणकरकिसलयविमुक्तैरविरलैः कुसुमनिकरैरभ्यर्च्यमानजानकीनिवासतरुमूलवेदिकमालक्ष्यमाणखड्गकार्मुकनिषङ्गमतिथिजनमपर्यापर्युत्सुकसौमित्रिसमाहृतकन्दमूलफलकल्पितैकदेशमविनाभूतजनकदुहितृचरणनलिनविन्यासमपहसत साकेतरामणीयकं रामाश्रमं भरतः ससम्भ्रममभजत ।

श्लोकसंख्या-७७
अथावासं शान्तेरकृत सुकृतानामसुलभं
नवाम्भोदश्यामं नलिननयनं वल्कलधरम् ।
जटाजूटपीडं भुजगपतिभोगोपमभुजं
ददर्श श्रीमन्तं विपिनमुवि सीतासहचरम् ॥७७॥

श्लोकसंख्या-७८
ततस्तस्योपान्ते जनकयजनाधीनजननां
ववन्दे वैदेहीं रजनीकररेखामिव नवाम् ।
अरण्यानां पुण्यात्पदकमलमुद्रापरिचया-
दयोध्यासध्रिचीमविकलमवस्थां विदधतीम् ॥७८॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
भरतस्य जानकीदर्शनम्
पदच्छेदः -
ततः | तस्य | उपान्ते | जनकयजनाधीनजननां | ववन्दे | वैदेहीं | रजनीकररेखाम् | इव | नवाम् | अरण्यानां | पुण्यात् | पदकमलमुद्रापरिचयात् | अयोध्यासध्रिचीम् | अविकलम् | अवस्थां | विदधतीम् ॥
अन्वयः -
ततः तस्य उपान्ते नवाम् रजनीकररेखाम् इव जनकयजनाधीनजननां पुण्यात् पदकमलमुद्रापरिचयात् अरण्यानां अविकलम् अयोध्यासध्रिचीम् अवस्थां विदधतीम् वैदेहीं ववन्दे ॥
व्याख्या -
ततः (रामदर्शनात् परं) तस्य (रामस्य) उपान्ते (पार्श्वे) नवाम् (नूतनां) रजनीकररेखाम् इव (चन्द्रकलामिव) जनकयजनाधीनजननां (सीतां) पुण्यात् (पवित्रात्) पदकमलमुद्रापरिचयात् (स्वचरणकमलमुद्रापरिचयात्) अरण्यानां (वनानां) अविकलम् (समग्रभावेन) अयोध्यासध्रिचीम् (अयोध्यासदृशम्) अवस्थां (दशां) विदधतीम् (कुर्वतीं) वैदेहीं (सीतां) ववन्दे (नमश्चकार) ॥
विषद्व्याख्या -
रजनीकररेखाम् इव सीताम् - इति रूपकालङ्कारः, उत्प्रेक्षा च ।
व्याकरणम् -
(१) सन्धिः -
२) समासः -
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र शिखरिणीवृत्तम्, तल्लक्षणम् - “रसै: रुद्रैश्छिन्‍ना यमनसभला ग: शिखरिणी ।”
(६) अलङ्कारः -
उत्प्रेक्षा, रूपक, उपमा, संसृष्टि
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
गौडी
(८) गुणः (ओज/प्रसाद/माधुर्य)
माधुर्य
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
अद्भूतरसः ।

श्लोकसंख्या-७९
स्वतःसिद्धं यस्मिन्नितरदुरवापं विजयते
सुमित्रापुत्रत्वादपि जगति रामानुजपदम् ।
यदीयाक्षिद्वन्द्वप्रतिनिधि भवेदम्बुजयुगं
निशीथे निर्निद्रं यदि तमसि साक्षादकृत सः ॥७९॥
तदनन्तरं मरुपथे पृथुतरग्रीष्मणि दैवात्कृतोपलम्भमम्भोरुहतटाकं सुधासारपूरितापं भूरितापः सतृष्ण इव कृष्णसारः सरमसं समुपेत्य पादयोर्निपत्य चिरं रुदन्दशरथकथां कथयित्वा मैथिलीसहिताय सलक्ष्मणाय रामाय शोकमूर्च्छां प्रायच्छत् ।

श्लोकसंख्या-८०
वेलोल्लङ्घनमेतेषां शोकोदन्वति तन्वति ।
अगस्त्यायितमेतस्मिन्वशिष्ठेनात्मवेदिना ॥८०॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
शोकाकुलानां पुत्राणां वशिष्ठेन शोकापहरणम्
पदच्छेदः -
वेलोल्लङ्घनम् | एतेषां | शोक-उदन्वति | तन्वति | अगस्त्यायितम् | एतस्मिन् | वशिष्ठेन | आत्मवेदिना ॥
अन्वयः -
एतेषां एतस्मिन् शोक-उदन्वति वेलोल्लङ्घनम् तन्वति आत्मवेदिना वशिष्ठेन अगस्त्यायितम् ॥
व्याख्या -
एतेषां (जनानां) एतस्मिन् (पूर्वोक्ते) शोक-उदन्वति (शोकसागरे) वेलोल्लङ्घनम् तन्वति आत्मवेदिना (आत्मतत्वज्ञेन) वशिष्ठेन अगस्त्यायितम् (अगस्त्येनेवाचरितम्) ॥
विषद्व्याख्या -
पुरा अगस्तिमुनिः सागरजलं पीतवान् । अत्र वशिष्ठः जनानां शोकसागरनिर्गतजलं अपसारातवान् । अतः अगस्तिवत् सः आचरणं कृतवान् ।
व्याकरणम् -
(१) सन्धिः -
२) समासः -
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र अनुष्टुप् छन्दः, तस्य लक्षणम् -
श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पंचमम्। द्विचतुष्पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः॥
(६) अलङ्कारः -
समासोपमा, लिंगोपमा
अगस्त्यायितम् इति उपमालिङ्गात् ।
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
(८) गुणः (ओज/प्रसाद/माधुर्य)
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)

ततः प्रतिपद्य संज्ञामनुज्ञया गुरोरमरसरिति विरचितसमुचितनिवापकृत्यं प्रणिपत्य रामं प्रतिनिवर्तयितुं भरतः प्रावर्तत ।

विकर्तनकुलस्य यदनुकूलं गुणगणस्य यदनुगुणं यशोरूपस्य यदनुरूपं समाचारस्य यत्समुचितं प्राचीनभाग्यस्य यद्योग्यं लोकगर्हणाय यदनर्हं श्रुतस्य वा यत्सदृशं तादृशमाशयं प्रकाशयन्ती भरतोपज्ञा विज्ञापना ।

तत्क्षणं क्षणप्रभाभङ्गुरलक्ष्मीसमावेशलक्ष्मणि क्षोणिपतिशतधृतोज्झिते मुकुटे विघटिताशं सादरं प्रणिपत्य मां पादुकाभ्यां परिष्कुरुतं युवामिति स्वयमेव प्रार्थ्य पआतिश्रावयितुं स्थण्डिलशायि चरणमिव बभार भरतस्योत्तमाङ्गम् ।

श्लोकसंख्या-८१
त्वया मया च कर्तव्यः सत्यवाचः पितुर्विधिः ।
इति प्रत्यादिशद्रामो भारतीमपि भारतीम् ॥८१॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
रामेण भरतस्य अनुरोधः प्रत्यावर्तितः ।
पदच्छेदः -
त्वया | मया | च | कर्तव्यः | सत्यवाचः | पितुः। विधिः | इति | प्रत्यादिशत् | रामः | भारतीम् | अपि | भारतीम् |
अन्वयः -
सत्यवाचः पितुः विधिः त्वया मया च कर्तव्यः । इति रामः भारतीम् अपि भारतीम् प्रत्यादिशत् ॥
व्याख्या -
सत्यवाचः पितुः (सत्यसन्धस्य दशरथस्य) विधिः (आदेशः) त्वया (भरतेन) मया (रामेण) च कर्तव्यः । इति (उक्त्वा) रामः भारतीम् (वाचं) अपि भारतीम् (भरतस्य इयम्) प्रत्यादिशत् ॥
विषद्व्याख्या -
व्याकरणम् -
(१) सन्धिः -
२) समासः -
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
अत्र अनुष्टुप् छन्दः, तस्य लक्षणम् -
श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु पंचमम्। द्विचतुष्पादयोर्ह्रस्वं सप्तमं दीर्घमन्ययोः॥
(६) अलङ्कारः -
यमकम्
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
(८) गुणः (ओज/प्रसाद/माधुर्य)
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)

तत्र जावालिप्रार्थनायामपि व्यर्थायाम् ।

श्लोकसंख्या-८२

भरतस्तदनु प्रार्थ्य लेभे लाभविदां वरः ।
काकुस्थपादुकाकारं महार्घं मुकुटद्वयम् ॥८२॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
भरतस्य रामपादुका लाभम् ।
पदच्छेदः -
भरतः | तदनु | प्रार्थ्य | लेभे | लाभविदां | वरः | काकुस्थपादुकाकारं | महार्घं | मुकुटद्वयम् ॥

अन्वयः -
तदनु लाभविदां वरः भरतः प्रार्थ्य काकुस्थपादुकाकारं महार्घं मुकुटद्वयम् लेभे ॥
व्याख्या -
तदनु ( तत्पश्चात् - जावालिप्रार्थनानन्तरं) लाभविदां (अधिकाधिकलाभविधिज्ञानाम्) वरः (श्रेष्ठः) भरतः प्रार्थ्य (प्रार्थनां कृत्वा) काकुस्थपादुकाकारं (श्रीरामपादुकारूपं) महार्घं (बहुमूल्यं) मुकुटद्वयम् (कोटीरयुगलं) लेभे (प्राप) ॥
विषद्व्याख्या -
व्याकरणम् -
(१) सन्धिः -
भरतस्तदनु = भरतः + तदनु
२) समासः -
काकुस्थपादुकाकारं = काकुस्थस्य पादुकाकारं
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
(६) अलङ्कारः -
अत्र लाभविद्वरपदार्थस्य मुकुटद्वयप्राप्तिपदार्थहेतुत्वात्काव्यलिङ्गालङ्कारः ।
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
वैदर्भी
(८) गुणः (ओज/प्रसाद/माधुर्य)
प्रसाद
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
शान्तरसः

श्लोकसंख्या-८३
स एष सानुजः प्रायादयोध्यां भ्रातृशासनात् ।
अटवीं पितृसंदेशाद्ययौ रामः सलक्ष्मणः ॥८३॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
भरतस्य अयोध्याप्रत्यावर्तनं रामस्य वनाभ्यन्तरगमनं ।
पदच्छेदः -
सः | एषः | सानुजः | प्रायात् | अयोध्यां | भ्रातृशासनात् | अटवीं | पितृसंदेशात् | ययौ | रामः | सलक्ष्मणः ॥
अन्वयः -
सः एषः (भरतः) सानुजः भ्रातृशासनात् अयोध्यां प्रायात् । सलक्ष्मणः रामः पितृसंदेशात् अटवीं ययौ ॥
व्याख्या -
विषद्व्याख्या -
व्याकरणम् -
(१) सन्धिः -
२) समासः -
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
(६) अलङ्कारः -
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
(८) गुणः (ओज/प्रसाद/माधुर्य)
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)

श्लोकसंख्या-८४
विलङ्घ्य विविधान्देशान्भरतो धृतवल्कलः ।
विषयं स्वमुपाश्रित्य विषये विमुखोऽभवत् ॥८४॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
भरतस्य राज्यशासने विमुखता
पदच्छेदः -
विलङ्घ्य | विविधान् | देशान् | भरतः | धृतवल्कलः | विषयं | स्वम् | उपाश्रित्य | विषये | विमुखः | अभवत् ॥
अन्वयः -
भरतः धृतवल्कलः विविधान् देशान् विलङ्घ्य स्वम् विषयं उपाश्रित्य विषये विमुखः अभवत् ॥
व्याख्या -
भरतः धृतवल्कलः (परिधृतवल्कलवसनः) विविधान् (नानाविधान्) देशान् (देशान् = आदेशान्, प्रदेशान्, भरद्वाजाश्रमादिप्रदेशाञ्जनपदान्वा) विलङ्घ्य (अतिक्रम्य) स्वम् (स्वकीयं) विषयं (कोशलदेशं) उपाश्रित्य (प्राप्य) विषये (राजोचिते भोगे) विमुखः (निःस्पृहः) अभवत् ॥
(देशान् = दिशान्, आदेशान्, प्रदेशान् | विषयं = मूलभावं, प्रपञ्चं, राज्यम)

विषद्व्याख्या -
- भरतः
- धृतवल्कलः = ज्येष्ठे भ्रातरि रामे वल्कलधारिणि सति मम साधारणवस्त्रधारणम् असमीचीनमिति परिधृतवल्कलवसनः
- विविधान् = नानाविधान्
- देशान् = आदेशान्, प्रदेशान्, भरद्वाजाश्रमादिप्रदेशाञ्जनपदान्वा
- विलङ्घ्य = अतिक्रम्य
स्वम् = स्वकीयं
विषयं = कोशलदेशं
 उपाश्रित्य = प्राप्य
 विषये = राजोचिते भोगे
विमुखः निःस्पृहः
अभवत् ॥
अत्र ध्वनिः (शाब्दीध्वनिः, व्यञ्जना च) =
भरतः नाम कश्चन मुनिः विविधान् तिर्यग्-मनुष्यादिरूपेण बहुप्रकारान् दिश्यन्तः (शरीराणि) विलङ्घ्य तत् तत् कर्मानुसारेण तत् तत् शरीरोपाध्यायवत् छिन्नतया यावत् कर्मानुभवं स्थित्वा तत् तत् कर्मक्षये तानि सर्वाणि अतिक्रम्य इत्यर्थः । धृतवल्कलः चरमशरीरावच्छिन्नदशायां वैराग्यात् वल्कलधारी सन् । स्वं स्वहृदयाकाशान्तस्थविषयं ज्ञेयतया निर्दिष्टं चिदानन्दात्मकं ब्रह्मोपाश्रित्य कुतश्चिद् भाग्योदयात् ध्यानगोचरं कृत्वा विषये तुच्छे सांसारिकसुखे विमुखः विरक्तः अभवत् । अत्राभिधायाः प्रकृतार्थनियन्त्रणात् अप्रकृतमुनिगोचरशब्दमूलोऽयं ध्वनिरिति संक्षेपः ॥
व्याकरणम् -
(१) सन्धिः -
२) समासः -
धृतवल्कलः = धृतम् वल्कलम् येन सः
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः - अनुष्टुप् ।
(६) अलङ्कारः -
शाब्दीध्वनिः, व्यञ्जना
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
वैदर्भी
(८) गुणः (ओज/प्रसाद/माधुर्य)
प्रसाद
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)
शान्तरसः

ततश्चायं यावदार्यस्य प्रत्यागमनं तावदयोध्यां नाध्यासे । तस्मिन्नवधिमतिक्रम्य चिरायति सद्य एवाश्रयाशमाश्रित्यापिप्राणान्नन्दयिष्यामीति नन्दीग्रामसंज्ञमाश्रममशिश्रयत् ।

दाशरथिरपि शमधनजनकथितनिशिचरगणरचितकदनपरिहरणाय गहनजठरमवजगाहे ।

श्लोकसंख्या-८५
विस्तीर्णाक्षैर्विपिनहरिणैर्वीतभीतिप्ररोहै-
र्दर्भग्रासेऽप्यकृतरुचिभिः सस्पृहं वीक्ष्यमाणः ।
रामः प्राप्य प्रकृतिमहितं स्थानमत्रेर्महर्षे-
र्जग्राहास्य प्रमुदितधियः प्रेमपर्यां सपर्याम् ॥

प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
श्रीरामस्य अत्रिमुनि-आश्रमगमनम् -
पदच्छेदः -
विस्तीर्णाक्षैः | विपिनहरिणैः | वीतभीतिप्ररोहैः | दर्भग्रासे | अपि | अकृतरुचिभिः | सस्पृहं |वीक्ष्यमाणः | रामः | प्राप्य | प्रकृतिमहितम् | स्थानम् | अत्रेः | महर्षेः | जग्राह | अस्य |प्रमुदितधियः | प्रेमपर्याम् | सपर्याम् ॥
अन्वयः -
दर्भग्रासे अपि अकृतरुचिभिः विस्तीर्णाक्षैः वीतभीतिप्ररोहैः अकृतरुचिभिः विपिनहरिणैः सस्पृहं वीक्ष्यमाणः रामः प्रकृतिमहितम् अत्रेः महर्षेः स्थानम् प्राप्य प्रमुदितधियः प्रेमपर्याम् सपर्याम् जग्राह ॥
व्याख्या -
विषद्व्याख्या -
व्याकरणम् -
(१) सन्धिः -
२) समासः -
(३) कृदन्तम्-
(४) तद्धितान्तम् -
(५)छन्दः -
(६) अलङ्कारः -
(७) रीतिः (वैदर्भी/पाञ्चाली/गौडी)
(८) गुणः (ओज/प्रसाद/माधुर्य)
(९) रस (शृङ्रारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥)

सीतामप्यनुसूयाभिधानास्य पत्नी स्वभूषणैस्तोषयत् ।

श्लोकसंख्या-८६
खण्डनाय वसुधावधूमनःपुण्डरीकतुहिनत्विषां द्विषाम् ।
दण्डकावनमवाप राघवश्चण्डभानुरिव मेघमण्डलम् ॥८६॥
प्रसङ्गः-
श्लोकोऽयं श्रीभोजराजकृतस्य चम्पूरामायणस्य अयोध्याकाण्डात् आनीतः ।
सन्दर्भः-
श्रीरामचन्द्रस्य दण्डकारण्यप्रवेशः ।
पदच्छेदः -
खण्डनाय | वसुधावधूमनःपुण्डरीकतुहिनत्विषां | द्विषाम् | दण्डकवनम् | अवाप | राघवः | चण्डभातुः | इव | मेघमण्डलम् ॥
अन्वयः -
राघवः वसुधावधूमनःपुण्डरीकतुहिनत्विषां द्विषाम् खण्डनाय चण्डभानुः मेघमण्डलम् इव दण्डकवनम् अवाप ॥