चन्द्रालोकः/दशमो मयूखः

विकिस्रोतः तः
← नवमो मयूखः चन्द्रालोकः
दशमो मयूखः
जयदेवः

धर्मं कंचित्पुरस्कृत्य प्रायः शब्दः प्रवर्तते ।
ययार्थं स्पष्टं आचष्टे शब्दस्तां अभिधां विदुः ।। १०.१ ।।

जात्या गुणेन क्रियया वस्तुयोगेन संज्ञया ।
निर्देशेन तथा प्राहुः षड्विधां अभिधां बुधाः ।। १०.२ ।।

गौर्नीलः पाचको दण्डी डित्थः कंस इति क्रमात् ।
कं संहिनस्ति कंसारिर्नरं च कं समाश्रितम् ।। १०.३ ।।

न योगादेरायतनं न सङ्केतनिकेतनम् ।
वृत्त्या निर्देशशब्दोऽयं मुख्यया स्वाभिधेयया ।। १०.४ ।।

पीयूषवर्षप्रभवं चन्द्रालोकमनोहरम् ।
सुधानिधानं आसाद्य श्रयध्वं विबुधा मुदम् ।। १०.५ ।।

जयन्ति याज्ञिकश्रीमन्-महादेवाङ्गजन्मनः ।
सूक्तिपीयूषवर्षस्य जयदेवकवेर्गिरः ।। १०.६ ।।

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति दशसंख्यः सुखयतु ।। १०.७ ।।