चतुर्दण्डीप्रकाशिका/वीणाप्रकरणम्
दिखावट
चतुर्दण्डीप्रकाशिका वीणाप्रकरणम् वेङ्कटमखी |
श्रुतिप्रकरणम् → |
- चतुर्णां पुरुषार्थानां त्यागं यस्मात्करोत्यतः ।
- त्यागराज इति ख्यातं सोमास्कन्दमुपास्महे ॥१.१
- संगीतशास्त्रं विततं समालोड्य धिया स्वयम् ।
- विधत्ते वेङ्कटमखी चतुर्दण्डीप्रकाशिकाम् ॥१.२
- अस्यां वाग्गेयकारैकसंजीवनसुधानिधौ ।
- आद्यं वीणाप्रकरणं श्रुतिप्रकरणं ततः ॥१.३
- स्वरप्रकरणं पश्चान्मेलप्रकरणं ततः ।
- ततो रागप्रकरणालापप्रकरणे क्रमात् ॥१.४
- ठायप्रकरणं चाथ गीतप्रकरणं ततः ।
- प्रबन्धानां प्रकरणं तालप्रकरणं ततः ॥१.५
- दशप्रकरणोपेता कृतिर्विद्वदलंकृतिः ।
- तत्रापि प्रथमोद्दिष्टं वीणालक्षणमुच्यते ॥१.६
- सा च वीणा त्रिभेदेति लक्षणज्ञाः प्रचक्षते ।
- शुधमेलाख्यवीणाद्या द्वितीया मध्यमेलका ॥१.७
- तृतीया रघुनाथेन्द्रमेलवीणा प्रकीर्तिता ।
- प्रत्येकमेतास्तिस्रोपि वीणाः स्युर्द्विविधा मताः ॥१.८
- एकैकरागसंबन्धिस्वराणां मेलनं यथा ।
- मध्ये तारे च सा त्वेकरागमेलाभिधा स्मृता ॥१.९
- मध्ये तारे च सकलैः स्वरैर्युक्ता तु या भवेत् ।
- सा सर्वरागमेलाख्या वीणेति स्मर्यते परा ॥१.१०
- मध्यमेलाख्यवीणायां तृतीयो भेद इष्यते ।
- पूर्वतन्त्रीत्रयं त्यक्त्वा षड्जयुक्तां चतुर्थिकाम् ॥१.११
- तन्त्रीं त्रिस्थानसारीभिर्योजयेत्सैकतन्त्रिका ।
- किंचिद्दीर्घः प्रवालः स्यादस्यां त्रिस्थानशुद्धये ॥१.१२
- तत्रादौ शुद्धमेलाख्यवीणाया लक्ष्म चक्ष्महे ।
- लक्ष्यज्ञेन प्रवीणेन निर्मितायां तु शिल्पिना ॥१.१३
- वीणायामुपरिस्थाने चतुस्तन्त्रीः प्रसारयेत् ।
- पित्तलारचिते चाद्यद्वितीये लोहजे परे ॥१.१४
- पार्श्वोपरिस्थतन्त्रीणां वामे चतसृणामपि ।
- आद्यायां मन्द्रषड्जाख्यं स्वरं तन्त्र्यां नियोजयेत् ॥१.१५
- ततः पञ्चमनामानां द्वितीयायां निवेशयेत् ।
- तृतीयायां तन्त्रिकायां मध्यषड्जं निवेशयेत् ॥१.१६
- मध्यमध्यमनामानां तुरीयायां निवेशयेत् ।
- तिसृणां पार्श्वतन्त्रीणां स्वरयोजनमुच्यते ॥१.१७
- आद्या टीप्याभिधा तारषड्जतुल्यध्वनिर्भवेत् ।
- द्वितीया तन्त्रिका ज्ञेया मध्यपञ्चमसंमिता ॥१.१८
- तृतीया मध्यषड्जेन संमिता झल्लिकाभिधा ।
- तिसृणामपि चैतासां श्रुतिसंज्ञा प्रकीर्तिता ॥१.१९
- पर्वणां संनिवेशोथ वक्ष्यते लक्ष्यसंमतः ।
- मेरोः पुरस्तात्पर्वाणि षट् क्रमेण निवेशयेत् ॥१.२०
- षट्सु तेष्वाद्यया तन्त्र्या मन्द्रषड्जाभिधानया ।
- क्रमेण शुद्धरिषभः शुद्धगांधारकस्तथा ॥१.२१
- साधारणाख्यगांधारो गांधारोन्तरसंज्ञकः ।
- शुद्धमध्यमनामा च वरालीमध्यमस्तथा ॥१.२२
- इति स्वराः प्रजायन्ते तन्त्र्या चाथ द्वितीयया ।
- मन्द्रपञ्चमनादिन्या षट्सु तेष्वेव पर्वसु ॥१.२३
- शुद्धश्च धैवतः शुद्धो निषादश्च ततः परम् ।
- कैशिक्याख्यनिषादश्च काकल्याख्यनिषादकः ॥१.२४
- षड्जर्षभौ च जायन्ते व्यक्तमेते स्वराः क्रमात् ।
- मध्यषड्जनिनादिन्या तन्त्र्या चाथ तृतीयया ॥१.२५
- सर्वेष्वेतेषु ये जातास्तान्स्वरान्कथयाम्यहम् ।
- शुद्धावृषभगांधारौ तथा साधारणाभिधः ॥१.२६
- गांधारोन्तरसंज्ञश्च शुद्धमध्यम एव च ।
- वरालीमध्यमश्चेति जायन्ते क्रमशः स्वराः ॥१.२७
- मध्यमध्यमनादिन्या तन्त्र्या चाथ तुरीयया ।
- षट्सु पर्वसु चैतेषु स्वरान्समभिदध्महे ॥१.२८
- वरालीमध्यमः पूर्वः पञ्चमः शुद्धधैवतः ।
- ततः शुद्धनिषादश्च कैशिक्याख्यनिषादकः ॥१.२९
- काकल्याख्यनिषादश्चेत्येते स्युः क्रमशः स्वराः ।
- अस्यां तुरीयतन्त्र्यां यः काकली षष्ठपर्वजः ॥१.३०
- तदग्रे सप्त पर्वाणि यथायोगं निवेशयेत् ।
- तेषां प्रवाले दीर्घाणि त्रीणि पर्वाणि विन्यसेत् ॥१.३१
- सरिगाख्यास्त्रयस्तत्र प्रजयन्ते स्वराः क्रमात् ।
- पीठे ह्रस्वाणि पर्वाणि चत्वारि विनिवेशयेत् ॥१.३२
- एतेषु मपधन्याख्याश्चत्वारः स्युः स्वराः क्रमात् ।
- शुद्धमध्यमदं ह्रस्वं पर्व पीठे यदा भवेत् ॥१.३३
- तथा प्रवाले पीठं च वैणिकैर्विनिवेश्यताम् ।
- एकं सर्वोत्तरं ह्रस्वं पर्व पीठे निवेशयेत् ॥१.३४
- तत्रातितारषड्जाख्यो द्वाविंशोपि स्वरो भवेत् ।
- लक्ष्यज्ञैर्गृह्यते सोयं रक्तिलाभैकलोभतः ॥१.३५
- शुद्धमेलाख्यवीणायामेतत्पर्वाष्टके पुनः ।
- द्वौ षड्जौ पञ्चमश्चेति ध्रुवं पर्वत्रयं सदा ॥१.३६
- अन्यानि पञ्च पर्वाणि तत्तद्रागानुसारतः ।
- क्रमाद्रिगमधन्याख्यस्वरोत्पादनसिद्धये ॥१.३७
- उत्पाद्योत्पाद्य वेश्यानि यथायोगं विचक्षणैः ।
- सर्वाण्याहृत्य दीर्घाणि नव ह्रस्वानि पञ्च च ॥१.३८
- एषैकरागमेलाख्यवीणैवं सति जायते ।
- अस्यां तुरीयतन्त्र्यां यः काकली षष्थपर्वजः ॥१.३९
- तदग्रे शुद्धविकृतस्वराणां द्वादशात्मनाम् ।
- सिद्ध्यै द्वादश पर्वाणि विनिवेश्यानि वैणिकैः ॥१.४०
- अतिताराख्यषड्जार्थं ह्रस्वं चान्यत्त्रयोदशम् ।
- तेषु प्रवाले दीर्घाणि पञ्च पर्वाणि विन्यसेत् ॥१.४१
- अष्ट पर्वाणि पीठे तु ह्रस्वानि विनिवेशयेत् ।
- अस्यां दीर्घाणि पर्वाणि मिलित्वैकादशाभवन् ॥१.४२
- अष्टौ ह्रस्वानि पर्वाणि समजायन्त तत्र तु ।
- तत्सर्वरागमेलाख्यवीणैवं सति जायते ॥१.४३
- लक्षितैवं शुधमेलवीणा भेदद्वयान्विता ।
- एतस्यामेव वीणायां स्वराणमेकविंशतेः ॥१.४४
- निरूपयामः स्थानानि स्वरांस्त्रेधा विभज्य च ।
- तत्रोपरि स्थितानां तु वामे चतसृणामपि ॥१.४५
- आद्यया मन्द्रषड्जाख्यतन्त्र्या तावच्चतुःस्वराः ।
- संग्राह्याः षड्जरिषभौ तथा गांधारमध्यमौ ॥१.४६
- पञ्चमाद्या न गृह्यन्ते तस्यां जाता अपि स्वराः ।
- मन्द्रपञ्चमनामा यो द्वितीयायां निवेशितः ॥१.४७
- तस्यां त्रयः स्वरा ग्राह्याः पञ्चमो धैवतश्च निः ।
- षद्जादयो न गृह्यन्ते जाता पति ततः परम् ॥१.४८
- तदेवं मन्द्रके स्थाने स्वराः सप्त प्रदर्शिताः ।
- अथ मध्यस्थानके तु तृतीयायां त्रयः स्वराः ॥१.४९
- तुरीयायां तु चत्वारः सत्येवं स्थानगाः स्वराः ।
- तत्र स्युर्मध्यषड्जायां मध्यषद्द्जादयस्त्रयः ॥१.५०
- जाता अपि न गृह्यन्ते तदूर्ध्वं स्थानसिद्धये ।
- मध्यमध्यमनादिन्यां तुरीयायामपि स्वराः ॥१.५१
- चत्वार एव गृह्यन्ते मपधन्यभिधाः स्वराः ।
- मध्यस्थानगता एवं स्वराः सप्त प्रदर्शिताः ॥१.५२
- तस्यामेव तुरीयायां मध्यस्थाननिषादतः ।
- अग्रे षड्जादयः सप्त तारस्थानगताः स्वराः ॥१.५३
- संग्राह्या इति सप्तोक्तास्तारस्थानगताः स्वराः ।
- तन्मन्द्रमध्यताराख्यस्थानानां त्रितये स्वराः ॥१.५४
- प्रतिस्थानं सप्तसप्तेत्येकविंशतिरीरिताः ।
- द्वाविंशमतिताराख्यं चतुर्थमपि षड्जकम् ॥१.५५
- लक्ष्यज्ञाः परिगृह्णन्ति रक्तिलाभैकलोभतः ।
- स्थानप्रसङ्गे बैकाररामो बभ्राम तद्यथा ॥१.५६
- उपरिस्थचतुस्तन्त्रीष्वाद्यायां विनिवेशिते ।
- अनुमन्द्राख्यषड्जेस्मिन्स्वराः सरिगमाभिधाः ॥१.५७
- चत्वारः समुपादेयास्त्वनुमन्द्राख्यपञ्चमः ।
- द्वितीयायां निवेश्योत्र पधनीति त्रयः स्वरः ॥१.५८
- ग्राह्यास्ततोनुमन्द्राख्यस्थानगाः सप्त दर्शिताः ।
- स्वरास्तन्त्र्यां तृतीयायां मन्द्रषड्जो निवेश्यते ॥१.५९
- तस्यां सरिगनामानां संगृह्यन्त त्रयः स्वराः ।
- तुरीयायां तन्त्रिकायां निवेश्यो मन्द्रमध्यमः ॥१.६०
- तस्यां तु मपधन्याख्याः संगृह्यन्ते चतुः स्वराः ।
- मन्द्रस्थानस्वराः सप्त तदेवं दर्शिता इति ॥१.६१
- नैतत्संगच्छते मन्द्रमध्यताराभिधानि हि ।
- त्रिस्थानानीति सकलसंगीतिकमतस्थितिः ॥१.६२
- आद्यद्वितीययोस्तन्त्र्योः स्वराः सप्त त्वयेरिताः ।
- अनुमन्द्राभिधे स्थाने तृतीयकतुरीययोः ॥१.६३
- मन्द्रस्थानगताः सप्त स्वराश्च परिकल्पिताः ।
- तत्पुरोवर्तिनः सप्त स्वरास्तावदमी पुनः ॥१.६४
- मध्यस्थानगताः किं वा तारस्थानगता उत ।
- न तावदाद्यस्ताराख्यस्थानभङ्गप्रसङ्गतः ॥१.६५
- न द्वितीयोपि मध्याख्यस्थानाभावे कथं पुनः ।
- तारस्थानं प्रजायेतानुपनीतविवाहवत् ॥१.६६
- तस्मादस्माभिरुक्तैव रीतिः स्थानविभाजने ।
- मन्द्रादिष्वनुमन्द्रादिव्यवहारस्तु लौकिकः ॥१.६७
- गतानुगतिकन्यायाद्भ्रान्तिमात्रविजृम्भितः ।
- लक्षितेयं शुद्धमेलवीणा लक्ष्यानुसारतः ॥१.६८
- अथोच्यते मध्यमेलवीणाया लक्षणं मया ।
- तन्त्र्याद्या चानुमन्द्राख्यपञ्चमेन युता यदि ॥१.६९
- द्वितीया मन्द्रषड्जेन तन्त्रिका चेत्समन्विता ।
- मन्द्रपञ्चमसंयुक्ता तृतीया यदि तन्त्रिका ॥१.७०
- तुरीया मन्द्रषड्जेन तन्त्रिका चेत्समन्विता ।
- तथा भवेन्मध्यमेलवीणा पार्श्वे त्रितन्त्रिका ॥१.७१
- तिसृणां पार्श्वतन्त्रीणां वक्ष्येथ स्वरयोजनम् ।
- आद्या टीप्यभिधा तारषड्जतुल्यध्वनिर्भवेत् ॥१.७२
- द्वितीया तन्त्रिका ज्ञेया मध्यपञ्चमसंमिता ।
- तृतीया मध्यषड्जेन संमिता झल्लिकाभिधा ॥१.७३
- इत्येवं मध्यमेलाख्यवादित्रस्वरयोजनम् ।
- अथास्याः पर्वसंदेशं वक्ष्ये लक्ष्यैकसंमतम् ॥१.७४
- मेरोः पुरस्तात्पर्वाणि षडस्यामपि विन्यसेत् ।
- तन्त्रीचतुष्टये चैवं प्रत्येकं षट्सु पर्वसु ॥१.७५
- ये स्वराः संप्रसूयन्ते क्रमशास्तान्प्रचक्ष्महे ।
- आद्यतन्त्र्यानुमन्द्राख्यपञ्चमाञ्चितया क्रमात् ॥१.७६
- शुद्धश्च धैवतः शुद्धो निषादश्च ततः परम् ।
- कैशिक्याख्यनिषादश्च काकल्याख्यनिषादकः ॥१.७७
- षड्जर्षभौ च जायन्ते षट्सु पर्वसु षट् क्रमात् ।
- तन्त्र्या द्वितीयया मन्द्रषड्जगर्जितया पुनः ॥१.७८
- शुद्धश्च रिषभः शुद्धगांधाराख्यः स्वरस्ततः ।
- साधारणाख्यगांधारो गांधारोन्तरसंज्ञकः ॥१.७९
- शुद्धमध्यमनामा च वरालीमध्यमस्ततः ।
- क्रमादमी षट् स्वराः स्युः षट्सु तेष्वेव पर्वसु ॥१.८०
- मन्द्रपञ्चमशोभिन्या तन्त्र्या चाथ तृतीयया ।
- शुधश्च धैवतः शुद्धनिषादश्च ततः परम् ॥१.८१
- कैशिक्याख्यनिषादश्च काकल्याख्यनिषादकः ।
- षड्जः शुद्धर्षभश्चेति स्वरा षट्सु च पर्वसु ॥१.८२
- १.८३अब् तन्त्र्या तुरीयया मध्यषड्जगर्जितया पुनः
- शुद्धश्च र्षभः शुद्धगांधाराख्यः स्वरस्ततः ॥१.८३
- साधारणख्यगांधारो गांधारोन्तरसंज्ञकः ।
- शुद्धमध्यमनामा च वरालीमध्यमस्ततः ॥१.८४
- एते स्वराः प्रजायन्ते षट्सु तेष्वेव पर्वसु ।
- वरालीमध्यमस्याग्रे त्रीणि पर्वाणि विन्यसेत् ॥१.८५
- पर्वसु त्रिषु चैतेषु तन्त्र्या तावत्तुरीयया ।
- क्रमेण संप्रसूयन्ते पधनीति त्रयः स्वराः ॥१.८६
- तदूर्ध्वं सप्त पर्वाणि विनिवेश्यानि तेष्वथ ।
- आद्यं तु दीर्घपर्वं स्यात्प्रवाले तारषड्जकम् ॥१.८७
- रिगादिषट्स्वरोत्पत्त्यै ह्रस्वपर्वाणि षट् पुनः ।
- पीठे संवेशनीयानि तदग्रे पर्व सप्तमम् ॥१.८८
- ॒ अतिताराख्यषड्जस्य स्थितये विनिवेशयेत् ।
- शुद्धर्षभकरं ह्रस्वं पर्व पीठे यदा भवेत् ॥१.८९
- ॒ तथा प्रवाले पीठं च वैणिकैर्विनिवेश्यताम् ।
- मेरोः परस्ताद्यत्पर्व सप्तमं पञ्चमाभिधम् ॥१.९०
- अनेन सह जातानि पर्वाण्येकादश क्रमात् ।
- एतेषु तारषड्जातितारषड्जाख्यपर्वणी ॥१.९१
- द्वे पर्वणी पञ्चमयोश्चत्वारि स्युर्ध्रुवाणि हि ।
- अन्यानि सप्त पर्वाणि तत्तद्रागानुसारतः ॥१.९२
- उत्पाद्योत्पाद्य वेश्यनि सकलस्वरसिद्धये ।
- अस्यां दीर्घाणि पर्वाणि दश ह्रस्वानि सप्त च ॥१.९३
- एषैकरागमेलाख्यवीणैवं सति जायते ।
- प्रवाले दीर्घपर्वाणि वेश्यानि द्वादश क्रमात् ॥१.९४
- एकादश ह्रस्वपर्वाण्यथ पीठे निवेशयेत् ।
- सर्वस्थानेषु सकलस्वराणां सिद्धये यदि ॥१.९५
- तत्सर्वरागमेलाख्यवीणैवं सति जायते ।
- न कैशिकीनिषदोस्यामस्ति पीठस्थपर्वसु ॥१.९६
- वादयन्ति हि तत्स्थाने काकलीमेव वैणिकाः ।
- पीठेपि केचित्कैशिक्याः पर्व ह्रस्वं प्रकुर्वते ॥१.९७
- पीठे द्वादश पर्वाणि तेन जातानि तन्मते ।
- लक्षितैवं मध्यमेलवीणा भेदद्वयान्विता ॥१.९८
- एतस्यामपि वीणायां स्वराणामेकविंशतेः ।
- शुद्धायामिव मन्द्रादिस्थाननीतिविनिश्चयः ॥१.९९
- प्रथमादिषु तन्त्रीषु तद्वदित्येव निश्चयः ।
- तन्त्रीराद्यानुमन्द्राख्यपञ्चमेन समन्विता ॥१.१००
- मध्यमेलाख्यवीणायां तिस्रः स्थानविभाजने ।
- वरास्तद्रक्तिलाभाय तां निबध्नन्ति वैणिकाः ॥१.१०१
- मन्द्रषड्जादिकास्वेव तन्त्रिकासु तिसृष्वतः ।
- स्वरान्स्थानविभागेन दर्शयाम्येकविंशतिम् ॥१.१०२
- तत्र तन्त्र्यां द्वितीयायां मन्द्रषड्जो निवेश्यते ।
- तस्यां ग्राह्याः सरिगमाश्चत्वारो न पधादयः ॥१.१०३
- मन्द्रपञ्चमनामा यस्तृतीयायां निवेशितः ।
- तस्यां पधनिनामानो ग्राह्या न सरिगादयः ॥१.१०४
- मन्द्रस्थानस्वराः सप्त तदेवं संप्रदर्शिताः ।
- मध्यषड्जसमेतायां तुर्यतन्त्र्यामथ स्वराः ॥१.१०५
- सप्त ग्राह्याः सरिगमपधनीति क्रमादमी ।
- मध्यस्थानगता एते सप्त संदर्शिताः स्वराः ॥१.१०६
- प्रवालस्थान्तिमस्थूलपर्वप्रभृतिषु स्वराः ।
- ग्राह्याः षड्जादयः सप्त पीठस्तह्रस्वपर्वसु ॥१.१०७
- तारस्थानगता एवं स्वराः सप्त निदर्शिताः ।
- एकविंशतिरित्युक्ताः स्वराः स्थानत्रये स्फुटम् ॥१.१०८
- एतेषु मन्द्रषड्जस्य ये स्वराः स्युरधस्तनाः ।
- तेनुमन्द्राभिधस्थानस्वरा इति विनिर्णयः १०९ ॥१.१०९
- येतितारस्थषड्जस्य स्वरस्याग्रे व्यवस्थिताः ।
- तेतितारस्वरा ज्ञेया इति सर्वं समज्जसम् ॥१.११०
- अत्रापि स्थानगणने रामो बभ्राम तद्यथा ।
- तन्त्रीराद्यानुमन्द्राख्यपञ्चमेन युता यदि ॥१.१११
- द्वितीया मन्द्रषड्जेन तन्त्रिका संयुता यदि ।
- मन्द्रपञ्चमसंयुक्ता तृतीया तन्त्रिका यदि ॥१.११२
- तुरीया मन्द्रषड्जेन तन्त्रिका चेत्समन्विता ।
- तदा भवेन्मध्यमेलवीणेत्येतदसंगतम् ॥१.११३
- दिवीयायां तन्त्रिकायां मन्द्रषड्जो निवेशितः ।
- पुनः कथं तुरीयायां मन्द्रषड्जो निवेश्यते ॥१.११४
- उच्चोच्चतरनादिन्यश्चतस्रः खलु तन्त्रिकाः ।
- द्वितीयतुर्ययोस्तासु द्वयोस्तन्त्रिकयोरपि ॥१.११५
- मन्द्रषड्जाभिधस्यैकस्वरस्य विनिवेशनम् ।
- अयुक्तमिति नैतत्किं पशुपालोपि बुध्यते ॥१.११६
- तस्मादस्माभिरुक्तेन वर्त्मनैव विचक्षणैः ।
- ज्ञातव्यं मध्यमेलायां तन्त्रीषु स्वरयोजनम् ॥१.११७
- स्थानत्रयस्वराश्चोक्तवर्त्मना त्वेकविंशतिः ।
- एकविंशतिसंख्याकस्वरेष्वेतेषु वादकैः ॥१.११८
- गायकैश्च चतुर्दण्ड्यां ग्राह्याः सप्तदशैव तु ।
- तदा हि वादकाः सप्त मध्यस्थानगतान्स्वरान् ॥१.११९
- तारस्थानगतान्सप्त षड्जमप्यतितारगम् ।
- धनी च मन्द्रस्थानस्थावेवं सप्तदश स्वरान् ॥१.१२०
- समादाय चतुर्दण्डीवादनं कुर्वतेखिलाः ।
- अयं च सारणीमार्गो वैणिकैः परिकल्पितः ॥१.१२१
- मध्यस्थानस्थयोर्धन्योर्मध्ये त्वन्यतरः स्वरः ।
- गृह्यते सारणीमार्गे चतुर्दण्डीप्रसिद्धये ॥१.१२२
- प्रायशस्तेन संजाताः षोडशैव स्वराः खलु तथापि ।
- मन्द्रस्थानस्थधन्याख्यस्वरयोर्द्वयोः ॥१.१२३
- क्वचित्क्वचिदुपादानात्स्वराः सप्तदशेरिताः ।
- गायकास्तु स्वरान्सप्त मन्द्रस्थानसमुद्भवान् ॥१.१२४
- मध्यस्थानस्वरान्सप्त तारषड्जं तथा परम् ।
- धनी चैवानुमन्द्रस्थावेवं सप्तदश स्वरान् ॥१.१२५
- समादाय चतुर्दण्डीगानं सर्वेपि कुर्वते ।
- अत्रापि चानुमन्द्रस्थधन्याख्यस्वरयोर्द्वयोः ॥१.१२६
- सारणीमार्गसंबन्धी स्वरोन्यतर ईरितः ।
- क्वाचित्कतामभिप्रेत्य स्वराः सप्तदशेरिताः ॥१.१२७
- एतेषामग्रतो ये स्युः स्वरा ये चाप्यधस्तनाः ।
- क्वचित्गीतप्रबन्धादौ दृश्यन्ते ते स्वराः खलु ॥१.१२८
- तत्पुनः संप्रदायज्ञैस्तानप्पाद्यैरनादृतम् ।
- यद्येवं मध्यताराख्यस्थानगैरेव तु स्वरैः ॥१.१२९
- निर्वाहः स्याच्चतुर्दण्ड्यां मन्द्रस्थानं वृथा भवेत् ।
- इत्याशङ्कयैव मन्द्राख्यस्थानसाफल्यसिद्धये ॥१.१३०
- पक्कसारणिमार्गोयं वैणिकैः परिगृह्यते ।
- पक्कसारणिमार्गस्तु लक्ष्यतामिति चेच्छृणु ॥१.१३१
- शुद्धमेलाख्यवीणायां पक्कसारणिवर्त्मनि ।
- ये गृह्यन्ते विकल्पेन तान्स्वरनभिदध्महे ॥१.१३२
- मन्द्रस्थानजुषां सप्तस्वराणां गणनाविधौ ।
- आद्यतन्त्र्या ग्रहीतव्याः स्वराः सरिगमाभिधाध् ॥१.१३३
- चत्वार एव षड्जाद्याः पञ्चमादिर्न गृह्यते ।
- पक्कसारणिमार्गे तु तया तन्त्र्याद्यया पुनः ॥१.१३४
- विकल्पेन ग्रहीतव्यः पञ्चमः शुद्धधैवतः ।
- अथ द्वितीयया मन्द्रपञ्चमस्वरयुक्तया ॥१.१३५
- ग्राह्याः पधनिनामानः स्वरा च सरिगादयः ।
- पक्कसारणिमार्गे तु तया तन्त्र्या द्वितीयया ॥१.१३६
- उपादेया विकल्पेन मध्यस्थानसमुद्भवाः ।
- षड्जः शुद्धर्षभश्चैव शुद्धगांधार इत्यपि ॥१.१३७
- तन्त्र्या तृतीयया चाथ मध्यषड्जेन युक्तया ।
- मध्यस्थानस्वराणां तु गणने सरिगाभिधाः ॥१.१३८
- त्रय एव स्वरा ग्राह्या न पुनर्मध्यमादयः ।
- पक्कसारणिमार्गे तु तया तन्त्र्या तृतीयया ॥१.१३९
- शुद्धमध्यमसंज्ञश्च वरालीमध्यमस्तथा ।
- पञ्चमश्चेति संग्राह्या विकल्पेन त्रयः स्वराः ॥१.१४०
- मध्यस्थानसमुद्भूता इत्यस्माभिर्विनिश्चितम् ।
- शुद्धमेलाख्यवीणायां पक्कसारणिवर्त्मनि ॥१.१४१
- निर्वाहकाश्चतुर्दण्ड्याः स्वराः पञ्चदशैव तु ।
- अनुमन्द्रस्तयोर्धन्योः स्थाने स्यान्मध्यषड्जकः ॥१.१४२
- इत्येवं शुद्धमेलायां पक्कसारणिवादने ।
- ये गृह्यन्ते विकल्पेन स्वरास्ते संप्रदर्शिताः ॥१.१४३
- अथातो मध्यमेलाख्यवीणायामभिदध्महे ।
- वादने पक्कसारण्या ये स्वरास्तान्विकल्पितान् ॥१.१४४
- मन्द्रस्थानजुषां सप्तस्वराणां गणनाविधौ ।
- आद्यतन्त्रिकया ग्राह्याः स्वराः सरिगमाभिधाः ॥१.१४५
- चत्वार एव न पुनः पञ्चमाद्यास्तदुद्भवाः ।
- पक्कसारणिमार्गे तु ते गृह्यन्ते विकल्पिताः ॥१.१४६
- मन्द्रपञ्चमशोभिन्या तन्त्र्या चाथ द्वितीयया ।
- पधनीति स्वरा ग्राह्यास्त्रयो न सरिगादयः ॥१.१४७
- पक्कसारणिमार्गे तु ते गृह्यन्ते विकल्पिताः ।
- ततश्च मध्यमेलायां पक्कसारणिवर्त्मनि ॥१.१४८
- ग्राह्या मन्द्रस्वराः सप्त सप्त मध्यस्वरास्तथा ।
- तरषड्जोनुमन्द्रस्थौ धनी सप्तदश स्वराः ॥१.१४९
- गृह्यन्ते पक्कसारण्यां गाने दण्ड्यामिव स्फुटम् ।
- कर्णाटान्ध्रतुरुष्कादिपदगानेषु संग्रहम् ॥१.१५०
- तारस्थानरिगादीनां कुर्वते खलु गायकाः ।
- गाने च वादने चैव स्वराणामेकविंशतेः ॥१.१५१
- विनियोगप्रकारस्तु विविच्य परिदर्शितः ।
- लक्षितैवं मध्यमेलवीणा लक्ष्यानुसारतः ॥१.१५२
- ततोनु रघुनाथेन्द्रमेलवीणा निरूप्यते ।
- तल्लक्षणं तु संगीतसुधानिधिरिति श्रुते ॥१.१५३
- चेव्वयाच्युतभूपालरघुनाथनृपाङ्किते ।
- अस्मत्तातकृते ग्रन्थे प्रोक्तं श्लोकाल्द्{ं लिखामि तान् ॥१.१५४
- " पूर्वोक्तवीणाद्वय एव मध्यमेलाख्यवीणा खलु या च तस्याम्
- तन्त्रीसमेतश्रुतिपञ्चमां च तथैव मन्द्रस्थितपञ्चमां च
- तदाद्यतन्त्रीमपि पञ्चमेनानुमन्द्रपूर्वेण विराजमानाम्
- विधाय तिस्रोपि समाननादास्तन्त्रीः सहाधस्तनमध्यमेन
- आद्यं स्वरं पञ्चममेव कृत्वा वाद्येत वीणा यदि वैणिकेन
- एषाच्युतश्रीरघुनाथभूपमेलाख्यवीणा कथिता तृतीया "
- आद्यं स्वरं पञ्चममित्यस्यार्थः कथ्यते मया ।
- मध्यमेलाख्यवीणास्थं मध्यषड्जाभिधं स्वरम् ॥१.१५५
- आद्यं केवलसारिण्या जातं कृत्वाथ पञ्चमम् ।
- वादयेत तथा मध्यमेलवीणास्थमध्यमः ॥१.१५६
- रघुनाथेन्द्रवीणायां षड्जः संपद्यते ततः ।
- तथापि वादनं कुर्युर्वीणायां वैणिका इति ॥१.१५७
- यत्सर्वरागमेलैकरागमेलेति चेरितम् ।
- द्वैविध्यं मध्यमेलायामस्यामपि तदूह्यताम् ॥१.१५८
- तदेवं रघुनाथेन्द्रमेलवीणा निरूपिता ।
- एवं त्रिविधवीणानां स्वरूपं च निरूपितम् ॥१.१५९
- अथास्मत्कल्पितं वीणाद्वयं संदर्शयामहे ।
- निरूपितायां वीणायामुपरि द्वे प्रसारयेत् ॥१.१६०
- तन्त्रिके पित्तलमयी त्वाद्या लोहमयी परा ।
- आद्यायां तन्त्रिकायां तु मन्द्रषड्जं प्रयोजयेत् ॥१.१६१
- तस्यां सरिगनामानः संगृह्यन्ते त्रयः स्वराः ।
- तन्त्रिकायां द्वितीयस्यां योजयेन्मन्द्रमध्यमम् ॥१.१६२
- तन्त्रीरियं द्वितीयैव शिष्टैस्त्रिस्थानपर्वभिः ।
- योजनीया भवेन्मन्द्रवरालीमध्यमादिभिः ॥१.१६३
- एषा द्वितन्त्रिका वीणा वेङ्कटाध्वरिकल्पिता ।
- एकतन्त्र्याख्यवीणायां यादृशं पूर्वमीरितम् ॥१.१६४
- परिमाणं प्रवालस्य तादृशं चात्र कीर्तितम् ।
- पूर्ववच्छ्रुतितन्त्रीषु स्वरसंयोजनादिकम् ॥१.१६५
- अस्यमेव द्वितन्त्र्याख्यवीणायामुपरिस्थयोः ।
- तन्त्र्योः प्रथमतन्त्र्यां हि मन्द्रषड्जो निवेशितः ॥१.१६६
- तस्यां सरिगमाभिख्याञ्शृणुयाम चतुःस्वरान् ।
- तन्त्रिकायां द्वितीयस्यां योजयेन्मन्द्रपञ्चमम् ॥१.१६७
- द्रष्टव्यमवशिष्टं तु पूर्ववत्सर्वमत्र च ।
- द्वितन्त्रिका च वीणैवं वेङ्कटाध्वरिकल्पिता ॥१.१६८
- तदेवमेकतन्त्र्येका द्वितन्त्र्यौ द्वे ततः परम् ।
- शुद्धमेलाह्वयैकाथ मध्यमेलाभिधा परा ॥१.१६९
- तृतीया रघुनाथेन्द्रमेलाख्या परिकीर्तिता ।
- आहत्य षड्विधा वीणा जाता सामन्यतः पुनः ॥१.१७०
- तत्सर्वरागमेलैकरागमेलत्वभेदतः ।
- प्रत्येकं द्विविधा तस्माद्वीणा द्वादश कीर्तिताः ॥१.१७१
- एकतन्त्रीद्वितन्त्र्यादिव्यवहारस्त्वसौ पुनः ।
- ऊर्ध्वतन्त्रीरपेक्ष्यैव न तिस्रः श्रुतितन्त्रिकाः ॥१.१७२
- द्वादशेति कथं भेदाः स्फुटं निर्धार्यते त्वया ।
- शुद्धमेलामध्यमेलारघुनाथेन्द्रमेलकाः ॥१.१७३
- इति वीणात्रयेप्यस्मिन्मन्द्रपञ्चमसंगताः ।
- तन्त्रिकाः सन्ति यास्तिस्रस्तासु मध्यस्थमध्यमाम् ॥१.१७४
- निवेश्य वीणात्रितयं शक्यं कल्पयितुं पुनः ।
- तिसृणामपि वीणानं भवेद्भेदत्रयं पुनः ॥१.१७५
- सर्वरागैकरागत्वभेदस्यैवाथ योजने ।
- षड् वीणाः साकमेताभिर्भवन्त्यष्द् तादशेति चेत् ॥१.१७६
- सत्यमेवं भवन्त्येताः षड् वीणाः स्युर्न रक्तिदाः ।
- ततो वीणा द्वादशैवेत्यस्माकं जयदुन्दुभिः ॥१.१७७
- द्वादशस्वपि वीणासु भिद्यन्ते याः खलूपरि ।
- तन्त्रिकास्तासु सर्वासु चतुःश्रुतिकतां गताः ॥१.१७८
- निवेश्यन्ते स्वराः षड्जशुद्धमध्यमपञ्चमाः ।
- नापरे संभवन्त्यर्हा विनिवेशयितुं स्वराः ॥१.१७९
- तथात्वे नैव लभ्येत स्थानत्रितयसंभवः १.१७९ef
- इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्रसाग्निचित्याप्तवाजपेययाजिगोविन्ददीक्षितनागमाम्बिकावरद्वितीयनन्दनस्य साग्निचित्यसर्वक्रतुयाजि
- -यज्ञनारायणदीक्षिताव्यवहितानुजस्याच्युतविजयराघवभूपालप्रेरितस्य वेङ्कटेश्वरदीक्षितस्य कृतौ चतुर्दण्दीप्रकाशिकायामाद्यं
- वीणाप्रकरणं संपूर्णम्