सामग्री पर जाएँ

चतुःषष्ट्युपचारमानसपूजास्तोत्रम् (शङ्कराचार्यविरचितम्)

विकिस्रोतः तः
चतुःषष्ट्युपचारमानसपूजास्तोत्रम्
शङ्कराचार्यः

श्रीशंकराचार्यविरचितं चतुःषष्ट्युपचारमानसपूजास्तोत्रम् । उषसि मागधमङ्गलगायनैर्झटिति जागृहि जागृहि जागृहि । अतिकृपार्द्रकटाक्षनिरीक्षणैर्जगदिदं जगदम्ब सुखीकुरु ॥ १ ॥ कनकमयवितर्दिशोभमानं दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् । मणिमयगृहमध्यमेहि मातर्मयि कृपया हि समर्चनं ग्रहीतुम् ॥ २ ॥ कनककलशशोभमानशीर्षं जलधरलम्बि समुल्लसत्पताकम् । भगवति तव संनिवासहेतोर्मणिमयमन्दिरमेतदर्पयामि ॥३॥ तपनीयमयी सुतूलिकाकमनीया मृदुलोत्तरच्छदा। नवरत्नविभूषिता मया शिबिकेयं जगदम्ब तेऽर्पिता ॥ ४ ॥ कनकमयवितर्दिस्थापिते तूलिकाढ्ये विविधकुसुमकीर्णे कोटिबालार्कवर्णे । भगवति रमणीये रत्नसिंहासनेऽस्मि- न्नुपविश पदयुग्मं हेमपीठे निधेहि ॥ ५ ॥ मणिमौक्तिकनिर्मितं महान्तं कनकस्तम्भचतुष्टयेन युक्तम् । कमनीयतमं भवानि तुभ्यं नवमुल्लोचमहं समर्पयामि ॥ ६ ॥ १. अस्य स्तोत्रस्य पुस्तकद्वयं समासादितम् . तत्रैकं क-चिंह्नितं जयपुरराजगुरुश्री- नारायणपर्वणीकराणां नवपत्रात्मकम् अपरं ख चिह्नितं चातुर्वैदिकोपाख्यगौडराम चन्द्रशर्मतनूजनाथूनारायणशर्मणां चतुर्दशपत्रात्मकं समासादितम्. २ 'हेमपूर्णकुम्भ' क. ३. 'मण्डपमेतदेहि' ख. ४. 'चुम्बि' ख. काव्यमाला। दूर्वया सरसिजान्वितविष्णुक्रान्तयापि सहितं कुसुमाढ्यम् । पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः ॥ ७ ॥ गन्धपुष्पयवसर्षपदूर्वासंयुतं तिलकुशाक्षतमिश्रम् । हेमपात्रनिहितं सह रत्नैरर्ध्यमेतदुररीकुरु मातः ॥ ८ ॥ जलजद्युतिना करेण जातीफलकङ्कोललवङ्गगन्धयुक्तैः । अमृतैरमृतैरिवातिशीतैर्भगवत्याचमनं विधीयताम् ॥ ९॥ निहितं कनकस्य संपुटे पिहितं रत्नपिधानकेन यत् । तदिदं भवतीकरेऽर्पितं मधुपर्के जननि प्रगृह्यताम् ॥ १० ॥ एतच्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्भ्रमद्भिर्वृतम् । सानन्दं सुरसुन्दरीभिरभितो हस्ते धृतं तन्मया केशेषु भ्रमरप्रभेषु सकलेष्वङ्गेषु चालिप्यते ॥ ११ ॥ मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तबोद्वर्तनं भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः । केशानामलकैर्विशोध्य निशदान्कस्तूरिकाद्यर्चितैः स्नानं ते नवरत्नकुम्भविधिना संवासितोष्णोदकैः ।। १२ ॥ दधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः। स्रपयामि बताहमादृतो जननि त्वां पुनरुष्णवारिभिः ॥ १३ ॥ एलोशीरसुवासितैः सकुसुमैर्गङ्गादितीर्थोदकै- र्माणिक्यद्रवमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः। मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादरा- त्स्नानं ते परिकल्पयामि जननि स्नानं त्वमङ्गीकुरु ॥१४॥ बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम्।मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १५ ॥ १ 'केसरम्' ख.२, 'सुकुसुमैः' ख. ३. 'क्यामृत' ख. ४, 'मन्त्रिकान्' ख ५ 'सस्पर्धि क. ६ 'च कञ्चक' ख. चतुःषष्ट्युपचारमानसपूजास्तोत्रम् । १५३ नवरत्नमये मयार्पिते कमनीये तपनीयपादुके । सविलासमिदं पदद्वयं कृपया देवि तयोर्निधीयताम् ॥ १६ ॥ बहुभिरगुरुधूपैः सादरं धूपयित्वा भगवति तव केशान्कङ्कतैर्जयित्वा । सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ १७ ॥ सौवीराञ्जनमिदमम्ब चक्षुषोस्ते विन्यस्तं कनकशलाकया मया यत् । तन्न्यूनं मलिनमपि त्वदक्षिसङ्गाद्ब्रह्मेन्द्रांद्यभिलषणीयतामियाय ॥ १८॥ मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौ मुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले। केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा- ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ १९ ॥ धम्मिल्ले तव देवि हेमकुसुमान्याधाय भालस्थले मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् । मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः कट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥ २०॥ मातर्भालतले तवातिविमले काश्मीरकस्तूरिका- कर्पूरागरुभिः करोमि तिलकं देहाङ्गरोगं तव वक्षोजादिषु यक्षकर्दमरसं सिक्तासु पुष्पाक्षतैः पादौ कुङ्कुमलेपनादिमिरहं संपूजयामि क्रमात् ॥ २१ ॥ रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः । अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा ॥ २२ ॥ जननि चम्पकतैलमिदं पुरो मृगमदोऽयमिदं पटवासकम् । सुरभिगन्धमिदं च चतुःसमं सपदि सर्वमिदं प्रतिगृह्यताम् ॥२३॥ सीमन्ते ते भगवति मया सादरं न्यस्तमेत- त्सिन्दूरं ते हृदयकमले हर्षवर्षे तनोतु । १ 'युते' ख. २. 'मञ्जीरान्' क. ३. 'विराजिहेमलतिकां' ख. ४. 'रागात्ततः' क ५ 'भयं पटवासकः' ख. जव गुरु.१४ काव्यमाला। बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ति- रन्तर्ध्वान्तं हरतु सततं चेतसा चिन्तयामि ॥ २४ ॥ मन्दारकुन्दकरवीरलवङ्गपुष्पै- स्त्वां देवि संततमहं परिपूजयामि । जातीजपाबकुलचम्पककेतकानि नानाविधानि कुसुमानि च तेऽर्पयामि ॥ २५ ॥ मालतीबकुलहेमपुष्पिकाकाञ्चनारकरवीरकैतकैः । कर्णिकारगिरिकर्णिकादिभिः पूजयामि जगदम्ब ते वपुः ॥ २६ ॥ पारिजातशतपत्रपाटलैर्मल्लिकाबकुलचम्पकादिभिः । अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब ते वपुः ॥ २७ ॥ लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः कर्पूराकलितैः सितामधुयुतैर्गोसर्पिषा लोडितैः । श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि- र्धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ २८ ॥ रत्नालंकृतहेमपात्रनिहितैर्गोसर्पिषा दीपितै- र्दीपैर्दीर्घतरान्धकारभिदुरैर्वालार्ककोटिप्रमैः । आताम्रज्वलदुज्वलज्वलनवद्रत्नप्रदीपैः सदा मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥ २९ ॥ मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसंतानिकाः सूपापूपसिताधृतैः सवटकै; सक्षुद्ररम्भाफलैः । एलाजीरकहिङ्गुनागरनिशाकस्तूरिकासंस्कृतैः शाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यम्बिके ॥ ३० ॥ सापूपसूपदधिदुग्धसिताधृतानि सुस्वादुभक्ष्यपरमान्नपुरःसराणि । १ 'रन्तर्ध्यानं' क. २. 'कुरण्ट' क. ३. 'अम्बुजैश्च कुसुमैश्च' ख. ४. 'जननी धूपं' क ५ 'सायषोद्दीपितैः' क. ६. प्रीभैस्तथा' ख ७, 'कुस्तम्बरीसंस्कृतैः' ख चतुः षष्ट्युपचारमानसपूजास्तोत्रम् । शाकोल्लसन्मरिचजीरकवाल्हिकानि भक्ष्याणि भक्ष जगदम्ब मयार्पितानि ॥ ३१ ॥ क्षीरमेतदिदमुत्तमोत्तमं प्राज्यमाज्यमिदमुत्तमं मधु । मातरेतदमृतोपमं स्वया संभ्रमेण परिपीयतां मुहुः ॥ ३२॥ उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे । कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्तय चन्दनेन ॥ ३३ ॥ अतिशीतमुशीरवासितं तपनीयावपने निवेदितम् ।। पटपूतमिदं जितामृतं शुचि गङ्गामृतमम्ब पीयताम् ॥ ३४ ॥ जम्ब्वाम्ररम्भाफलसंयुतानि द्राक्षाफलाक्रोडसमन्वितानि । सनालिकेराणि सदाडिमानि फलानि ते देवि समर्पयामि ॥ ३५ ॥ कलिङ्गकोशातकिसंयुतानि जम्बीरनारङ्गसमन्वितानि । सबीजपूराणि सबादराणि फलानि ते चाम्ब समर्पयामि ॥ ३६ ॥ कर्पूरेण युतैर्लवङ्गसहितैः कङ्कोलचूर्णान्वितैः मुखादुक्रमुकैः सगौरखांदेरैः सुस्निग्धजातीफलैः मातः केतकपञ्चपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः सानन्दं मुखमण्डनीयमतुलं ताम्बूलमङ्गीकुरु ॥ ३७ ॥ एलालवङ्गादिसमन्वितानि कङ्कोलकर्पूरसमिश्रितानि । ताम्बूलवल्लीदलसंयुतानि पूगानि ते देवि समर्पयामि ॥ ३८ ॥ ताम्बूलवल्लिदलनिर्जितहेमवर्णे स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम् । रत्नस्थगिस्थितमिदं खदिरेण युक्तं ताम्बूलमम्ब वदनाम्बुरुहे गृहाण ॥ ३९ ॥ महति कनकपात्रे स्थापयित्वा विशाला- न्डमरुसदृशरूपान्बद्धगोधूमदीपान् बहुधृतमथ तेषु न्यस्य दीपानुकम्पा- न्भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥ ४० ॥ १. 'भुङ्क्ष्व' ख. २. 'तपनीयाचमनैर्निवे' ख. ३. ३ 'आताम्र' ख.४, 'कुष्माण्डी' ख ५ 'सजाम्बवानि' ख.६ 'देवि' ख. ७ 'मिन्दुरुचिमि'क ८ 'सार्ध' ख. काव्यमाला सविनयमथ दत्त्वा जानुयुग्मं धरण्यां सपदि शिरसि धृत्वा पात्रमारार्तिकस्य । मुखकमलसमीपे तेऽम्ब सार्ध त्रिवारं भ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥ ४१ ॥ अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः । मिलितविविधमुक्तादिव्यलावण्ययुक्तां जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ ४२ ।। मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम् । भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् ॥ ४३॥ शरदिन्दुमरीचिगौरवर्णैर्मणिमुक्ताविलसत्सुवर्णदण्डैः । जगदम्ब विचित्रचामरैस्त्वामहमानन्दभरेण वीजयामि ॥ ४४ ॥ मार्तण्डमण्डलनिभो जगदम्ब योऽयं भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते । पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय- मस्मिन्विलोकय विलोलविलोचने त्वम् ।। ४५ ॥ इन्द्रादयो नतिनतैर्मुकुटप्रदीपै- र्नीराजयन्ति सततं तब पादपीठम् । तस्मादहं तव समस्तशरीरमेत- न्नीराजयामि जगदम्ब सहस्रदीपैः ॥ ४६ ॥ प्रियगतिरतितुङ्गो रत्नपल्लाणयुक्तः कनकमयविभूषः स्निग्धगम्भीरघोषः । भगवति कलितोऽयं वाहनार्थ मया ते तुरगशतसमेतो वायुवेगस्तुरंगः ॥ ४७ ।। १ 'धरिण्यां' क-ख. २. 'जननि तव प्रकुर्वे नित्यमारार्तिकं ते' ख.इ. ३ 'प्रीत्यै स्वह ख. ४. 'पर्यङ्क' ख चतुःषष्ट्युपचारमानसपूजास्तोत्रम् । मधुकरवृतकुम्भे न्यस्तासिन्दूररेणुः कनककलितघण्टः किङ्किणीशोभिकण्ठः । श्रवणयुगलचञ्चच्चामरो मेघतुल्यो जननि तव मुदे स्तान्मत्तमातङ्ग एषः ॥ ४८॥ द्रुततरतुरगैर्विराजमानं मणिमयचक्रचतुष्टयेन युक्तम् । कनकमयमहं वितानवन्तं भगवति ते हि रथं समर्पयामि ॥ ४९ ॥ हयगजरथपत्तिशोभमानं दिशि दिशि दुंदुभिमेघनादयुक्तम् । अतिबहुचतुरङ्गसैन्यमेतद्भगवति भक्तिभरेण तेऽर्पयामि ॥ ५० ॥ परिस्वीकृतसप्तसागरं बहुसंपत्सहितं मयाम्ब ते । विपुलं धरणीतलाभिधं प्रबलं दुर्गमिदं समर्पितम् ॥ ५१ ॥ शतपत्रयुतैः स्वभावशीतैरतिसौरभ्ययुतैः परागपीतैः । भ्रमरीमुखराकृतैरनन्तैर्व्यजनैस्त्वां जगदम्ब वीजयामि ॥ ५२ ॥ भ्रमरललितलोलकुन्तलाली विगलितकाल्यविकीर्णरङ्गभूमिः । इयमतिरुचिरा नटी नटन्ती तव हृदये मुदमातनोतु मातः ।। ५३ ॥ मुखनयनविलासलोलवेणीविलसितनिर्जितलोलभृङ्गमालाः । युवजनसुखकारिचारुलीला भगवति ते पुरतो नटन्ति बालाः ॥ ५४ ॥ रुचिरकुचतटीनां नाट्यकाले नटीनां प्रतिगृहमथ तत्र प्रत्यहं प्रादुरासीत् । धिमिकितिधिमिधिद्धी घिद्धिघिद्धीधिमिद्धी धिमिकितिधिमितत्ताथेयथेयेति शब्दः ।। ५५ ॥ भ्रमदलिकुलतुल्या लोलधम्मिल्लमारा सितमुखकमलोद्यद्दिव्यलावण्यपूरा । अनुपमतमवेषा वारयोषा नटन्ती परभृतकलकण्ठी देवि धैर्यं तनोतु ॥ ५६ ॥ डमरुडिण्डिमझुर्झुरभल्ली मृदुरवार्द्राघटार्द्राघटाहयः । झटिति झाङ्कृतिभिर्जगदम्बिके मुहुरिमे हृदयं सुखयन्तु ते ॥ ५७ ॥ काव्यमाला। विपञ्चीषु सप्त स्वरान्वादयन्त्यस्तव द्वारि गायन्ति गन्धर्वकान्ता: । क्षणं सावधानेन चित्तेन मातः समाकर्णय त्वं मया प्रार्थितासि ॥५८॥ अभिनवकमनीयैर्नर्तनैर्नकीनां क्षणमथ रमयित्वा चेत एवं त्वदीयम् । स्वयमहमपि चित्रैर्नृत्यवाद्यप्रगीतै- र्भगवति भवदीयं मानसं रञ्जयामि ॥ ५९॥ तव देवि गुणानुवर्णने चतुरा नो चतुराननादयः । तदिहैकमुखेषु जन्तुषु स्तवनं कस्तव कर्तुमीश्वरः ॥ ६० ॥ पदे पदे या परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति । तो सर्वपापक्षयहेतुभूतां प्रदक्षिणां ते परिकल्पयामि ॥ ६१ ।। रक्तोत्पलारक्तलताप्रमाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् । अशेषवृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ।। ६२ ।। चरणनलिनयुग्मं पङ्कजैः पूजयित्वा कनककमलमालां कण्ठदेशेऽर्पयित्वा । शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते हृदयकमलमध्ये देवि हर्षे तनोतु ।। ६३ ।। अथ मणिमयमञ्चकामिरामे द्युतिमति पुष्पवितानराजमाने । प्रसरदगरुधूपधूपितेऽस्मिन्भगवति वासगृहेऽस्तु ते निवासः ॥६४॥ तव देवि सरोजचिह्नयोः पदयोर्निर्जितपद्मरागयोः । अतिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम् ॥ ६५ ॥ अथ मारुतशीतवासितं निजताम्बूलरसेन रञ्जितम् । तपनीयमये हि पट्टके मुखगण्डूषजलं निधीयताम् ॥ ६६ ॥ एतस्मिन्मणिखचिते सुवर्णपीठे त्रैलोक्याभयवरदे निधाय पादौ । विस्तीर्णे मृदुतरलोत्तरच्छदेऽस्मिन्पर्यङ्के कनकमये निषीद मातः ॥६७॥ क्षणमथ जगदम्ब मञ्चकेऽस्मिन्मृदुतरतूलिकया विरोजमाने । अतिरहसि दा शिवेन सार्धे सुखशयनं कुरु मां हृदि स्मरन्ती ।।६८|| चतुःषष्ट्युपचारमानसपूजास्तोत्रम् । मुक्ताकुन्देन्दुगौरां मणिमयमुकुटा रत्नताटङ्कयुक्ता- मक्षस्त्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् । नानालंकारयुक्तां सुरमुकुटमणिद्योतितस्वर्णपीठां सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥ ६९ ॥ एषा भक्त्या तव विरचिता या मया देवि पूजा स्वीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमस्व । न्यूनं यत्तत्तव करुणया पूर्णतामेति सर्वं सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ७० ॥ पूजामिमां पठेत्प्रातः पूजां कर्तुमनीश्वरः । पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति ॥ ७१ ।। प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत् । वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत् ॥ ७२ ॥ पूजामिमां यः पठति प्रभाते मध्याह्नकालेऽप्यथवा प्रदोषे । धर्मार्थकामान्पुरुषोऽभ्युपैति देहावसाने शिवतामुपैति ॥ ७३ ।। इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्यविरचितचतुःषाष्ट्युपचार- मानसपूजास्तोत्रं समाप्तम् ।