चण्डीशतकम् (सटिप्पणम्)

विकिस्रोतः तः
चण्डीशतकम् (सटिप्पणम्)
बाणभट्टः
१९३७

  मा भाङ्क्षीर्विभ्रमं भ्रूरधर विधुरता केयमास्यास्य रागं
  पाणे प्राण्येव नायं कलयसि कलहश्रद्धया किं त्रिशूलम् ।

 इत्युद्यत्कोपकेतून्प्रकृतिमवयवान्प्रापयन्त्येव देव्या
  न्यस्तो वो मूर्ध्नि मुल्यान्मरुदसुहृदसून्संहरन्नङ्घ्रिरंहः ॥१॥

 देव्या अङ्घ्रिश्चरणो वो युष्माकमंहः पापं मुध्याद्धरतु । किं कुर्वन् । मरुद- सुहृदसून्देववैरिप्राणान्संहरन् । कीदृशोऽङ्घ्रिः । मूर्ध्नि न्यस्तः । अर्थान्मरुदसुहृदो महिषासुरस्यैव । किंभूतया देव्या । इत्यमुना प्रकारेण उद्यत्कोपकेतूनाविर्भवत्क्रोधचिह्नानवयवान्निजाङ्गान्प्रकृतिं पूर्वावस्थां प्रापयन्त्या इव । इति कथम् । हे भ्रूः, विभ्रमं विलास मा भाङ्क्षीः मा आमर्दयः । हे अधर ओष्ठ, केयं विधुरता किमिदं वैकल्यम् । हे आस्य मुख, रागं लौहित्यमस्य क्षिप। 'असु क्षेपणे' । हे पाणे हस्त, अयं महिषः प्राण्येव चेतनावानेव न । कलहश्रद्धया सङ्ग्रामवाञ्छया त्रिशूलं किं कलयसि । यद्वायं ना पुरुषः प्राण्येव जन्तुमात्रोऽयमस्मत्पादतलाघातमात्रसाध्यः, तत्किं युष्माभिरसमय एव वृथा कोपाद्विकृतिरास्थीयते, स्वस्था भवन्तु भवन्तः । उत्प्रेक्षालंकारः ।।

 हुंकारे न्यकृतोदन्वति महति जिते शिञ्जितैर्नूपुरस्य
  श्लिष्यच्छृङ्गक्षतेऽपि क्षरदसृजि निजालक्तकभ्रान्तिभाजि ।
 स्कन्धे विन्ध्याद्रिबुद्ध्या निकषति महिषस्याहितोऽसूनहार्षी -
  दज्ञानादेव यस्याश्चरण इति शिवं सा शिवा वः करोतु ॥२॥

 सा शिवा भगवती वः शिवं कल्याणं करोतु । सा का । इत्यज्ञानादेव यस्याश्चरणो महिषस्यासून्प्राणानहार्षीत् । किंभूतश्चरणः । बिन्ध्यादिबुद्ध्या अस्मन्निवासोऽयं विन्ध्यपर्वत इति धिया स्कन्धे अर्थान्महिषस्य आवृतो न्यस्तः । किंभूते च स्कन्धे । विन्ध्याद्रिबुद्ध्या निकषति कण्डूत्यपनात्यर्थ निकषण कुर्वति । श्यामत्वाद्देवीचरणस्य तस्मिन्महिषस्कन्धस्यापि विन्ध्याद्रे भ्रमो जातः । अत एव घर्षणं करोति । इति किम् । महति न्यक्कृतोवति तिरस्कृतसमुद्रघोषे हुंकारे अर्थान्महिषस्य नूपुरस्य शिञ्जितैर्जिते सति स्कन्धनिकषणेनैव नूपुरध्वनिः समुत्पन्नः । हुंकारेण महिषोऽयमिति ज्ञान शक्यः । हुंकारस्य नूपुरशिञ्जततिरस्कृतत्वात् । अन्यच्च श्लिष्यच्छृङ्गपि

क्षरदसृजि गलद्रुधिरे [अर्थाद्देव्याश्चरणे] निजालक्तकभ्रान्तिभाजि स्वदवकरसभ्रमयुक्ते सति । एवमुपन्यस्तहेतुत्रयाद्भ्रान्तिः समुत्पन्ना ॥

 जाह्नव्या या न जातानुनयपरहरक्षिप्तया क्षालयन्त्या
  नूनं नो नूपुरेण ग्लपितशशिरुचा ज्योत्स्नया वा नखानाम् ।
 तां शोभामादधाना जयति नवमिवालक्तकं पीडयित्वा
  पादेनैव क्षिपन्ती महिषमसुरसादाननिष्कार्यमार्या ॥ ३ ॥

 आर्या देवी जयत्युत्कर्षेण वर्तते । कथंभूता । नवमलक्तकमिव पादेनैव पीडयित्वा महिषं क्षिपन्ती । पादेनैवेति नियमेनान्ययोगव्यवच्छेदः । पुनः कथंभूता । तां शोभामादधाना धारयन्ती । [अर्थाच्चरणे । तां काम् । यानु- नयपरहरक्षिप्तया प्रसादनतत्परमहादेवप्रेरितया अत एव अक्षालयन्त्या । [ अर्था-च्चरणम् ।] जाह्नव्या गङ्गया न जाता । नूनं नूपुरेण या शोभा नो जाता। नखानां ज्योत्स्नया कान्त्या वा नो जाता । ग्लपित्तशशिरुत्वा इति जाह्नवीनूपुरज्योत्स्नानां विशेषणम् । कथंभूतं महिषम् । असुरसादाननिष्कार्यम् । अलवः प्राणा एव रसस्तस्यादानं ग्रहणं तेन निष्कार्य निष्प्रयोजनम् । यथाल- क्तकं पादेन निष्पीड्य तदीयं रसमादाय निःसारभागं क्षिपति कश्चित् , एवं देवी रसभूतान्प्राणानादाय महिषं क्षिप्तवतीति भावः । तां शोभामिति अलक्तकरसादाने या रक्तत्वलक्षणा भवति । किं त्वलक्तकेन कृत्रिमा शोभा, इयं तु स्वाभाविकी॥

 मृत्योस्तुल्यं त्रिलोकीं ग्रसितुमतिरसान्निःसृताः किं नु जिह्वाः
  किं वा कृष्णाङ्घ्रिंपद्मद्युतिभिररुणिता विष्णुपद्याः पदव्यः ।
 प्राप्ताः संध्याः स्मरारेः स्वयमुत नुतिभिस्तिस्त्र इत्यूह्यमाना
  देवैर्देवीत्रिशूलाहतमहिषजुषो रक्तधारा जयन्ति ॥ ४ ॥

 देवीत्रिशूलाहतमहिषजुषो देवीत्रिशूलकृतच्छिद्रमहिषशरीरादुद्गतास्तिस्रो रक्तधारा जयन्ति । किंभूताः। देवैरित्यमुना प्रकारेणो-ह्यमाना उत्प्रेक्ष्यमाणाः। इतीति किम् । अतिरसादतिगार्थ्याचुल्यं युगपदेव त्रिलोकीं ग्रसितुं मृत्योः किं नु जिह्वा निःसृताः। अर्थान्मुख-कुहरात् । किं वा कृष्णाङ्घ्रिंपद्मद्युतिभि-र्विष्णुचरणपङ्कजकान्तिभिररुणिता रक्ततां नीता विष्णुपद्या गङ्गायाः पदव्यः प्रवाहाः। काव्यमाला। उत्त अथवा स्मरारेः शिवस्य नुतिभिः प्रार्थनाभिस्तिस्त्रः संध्याः स्वयंप्राप्ताः । संध्या अपि रक्तवर्णा भवन्ति ॥ दत्ते दर्पात्प्रहारे सपदि पदभरोपिष्टदेहावशिष्टां श्लिष्टां शृङ्गस्य कोटिं महिषसुररिपोर्नूपुरग्रन्थिसीम्नि । मुष्याद्वः कल्मषाणि व्यतिकरविरतावाददानः कुमारो मातुः प्रभ्रष्टलीलाकुवलयकलिकाकर्णपूरादरेण ॥५॥ अस्मिन्श्लोके कुमारो वः कल्मषाणि मुष्यादित्यन्वयो यदि विधीयते तदा कुमारस्याप्राकरणिकत्वादप्रस्तुतान्वयता स्यात् । तस्मादेवमध्याहृत्य व्याख्ये- यम्-सा माता वः कल्मषाणि मुष्यात् । यस्या मातुः कुमारो व्यतिकरवि- रतौ महिषेण सह युद्धसमाप्तौ प्रभ्रष्टलीलाकुवलयकलिकाकर्णपूरादरेण शृङ्गस्य कोटिमग्रमाददानो वर्तते । नेयं महिषङ्गकोटिः, किंतु मम मातुः कर्णा- श्युत्तो नीलोत्पलकलिकारूपः कर्णपूर एवायमिति श्रद्धयेति भावः । कीदृ- शीम् । दर्पान्मदात्प्रहारे दत्ते सति सपदि तत्क्षणं पदभरेण चरणगुरुत्वेनो- स्पिष्टश्चूर्णितः स चासौ देहश्च तस्मादवशिष्टाम् । अथ च नूपुरग्रन्थिसीम्नि श्लिष्टां लग्नाम् । कस्य देहावशिष्टाम् । महिषसुररिपोर्महिषरूपः सुररिपुस्तस्य । महिषशृङ्गाणि प्रायेण कठिनानि भवन्तीति शृङ्गकोटेरवशिष्टत्वकारणम् ॥ शश्वद्विश्वोपकारप्रकृतिरविकृतिः सास्तु शान्त्यै शिवा वो यस्याः पादोपशल्ये त्रिदेशपतिरिपुर्दूरदुष्टाशयोऽपि । नाके प्रापत्प्रतिष्ठामसकृदभिमुखो वादयञ्शृङ्गकोट्या हत्वा कोणेन वीणामिव रणितमणिं मण्डलीं नूपुरस्य ॥ ६ ॥ सा शिवा वः शान्त्यै सुखायास्तु । किंभूता। विश्वोपकारप्रकृतिः सर्वोप- कृतिस्वभावा जगदुपकारशीला वा । शश्वन्निरन्तरम् । पुनः कीदृशी । अवि- कृतिर्विकाररहिता । यस्याः पादोपशल्ये चरणप्रान्ते त्रिदशपतिरिपुरिन्द्रवैरी महिषो नाके स्वर्ग प्रतिष्ठां स्थितिं प्रापत् । चरणसंसर्गजनितपुण्यातिशयेन स्वर्गनिवासी जात इति भावः । कीदृशः। दूरदुष्टाशयोऽपि नितरां नीचस्व- भावोऽपि । किं कुर्वन् । रणितमणिं नूपुरमण्डलीमसकृद्वारंवारमभिमुखः संमुखः सञ्शृङ्गाग्रकोट्या हत्वा कोणेन वादनदण्डेन वीणामिव वादयन् । • यः किल देवीपादमूले वीणां वादयति स मृतः स्वर्गमवाप्नोति॥ निष्ठ्यूतोऽङ्गुष्ठकोट्या नखशिखरहतः पार्ष्णिनिर्यातसारो गर्भे दर्भाग्रसूचीलघुरिव गणितो नोपसर्पन्समीपम् । नाभौ वक्त्रं प्रविष्टाकृतिविकृति यया पादपातेन कृत्वा दैत्याधीशो विनाशं रणभुवि गमितः सास्तु देवी श्रिये वः ॥७॥ सा देवी कः श्रियेऽस्तु । यया दैत्याधीशो महिषो रणभुवि विनाशं गमितः प्रापितः । कथंभूतः । अङ्गुष्ठकोठ्या निष्ट्यूतो निरस्तः । पुनः । नखशिखरेणा- ङ्गुष्टनखाग्रेण हतस्ताडितः । पुनः । पार्ष्ण्या गुल्फाधोभागेन निर्यातः सारो यस्य सः । पादपश्चिमाधोभागनिष्पीडित इति यावत् । पुनः । गर्भे पादमध्ये दर्भाग्रसूचीलघुरिव न गणितः अतितुच्छो दृष्टः । किं कृत्वा । प्रविष्टाकृति- विकृति यथा स्यात्तथा पादपातेन नाभौ वक्रं कृत्वा । आदौ पादघातेन त- द्वक्त्रं तदीयनाभौ प्रवेशितम् , तदनन्तरं व्यापादितः । यद्वा प्रविष्टाकृतेः स्वरूपस्य विकृतिर्विकारो यस्मिंस्तादृशं महिषस्य चक्रं पादपातेन तदीयनाभौ प्रवेशयित्वा ॥ ग्रस्ताश्वः शष्पलोभादिव हरितहरेरप्रसोढानलोष्मा स्थाणौ कण्डूं विनीय प्रतिमहिषरुषेवान्तकोपान्तवर्ती । कृष्णं पङ्कं यथेच्छन्वरुणमुपगतो मज्जनायेव यस्याः स्वस्थोऽभूत्पादमाप्त्वा ह्रदमिव महिषः सास्तु दुर्गा श्रिये वः ॥८॥ सा दुर्गा वः श्रियेऽस्तु । यस्याः पादं ह्रदं सरोवरमिव प्राप्य महिषः स्वस्थो निर्वृतः स्वर्गस्थश्चाभूत् । किंभूतः । हरितहरेः सूर्यस्य शष्पलोभाद्वाल- तृणगार्ध्यादिव ग्रस्ताश्वः । सूर्यस्याश्वा हरिद्वर्णाः सन्तीति महिषेण हरितको- मलतृणबुद्ध्या कवलीकृताः । पुनः । अप्रसोढानलोष्मा असोढाग्नितेजाः । देव- पक्षतयाग्नेस्तस्य दर्प न सहते । स्थाणौ महादेवे कण्डूं विनीय शिवेन सह समरं कृत्वा मदकण्डूतिमपनीय । महिषो हि स्थाणौ कीलके कण्डूत्यपनयन करोति । पुनः। प्रतिमहिषरुषा महिषान्तरकोपेनेवान्तकोपान्तवर्ती यमस- मीपगन्ता जातः। पुनः । कृष्णं विष्णुं कृष्णवर्णत्वात्पङ्कमिवेच्छन्मज्जनाय जला- वगाहायेव वरुणं जलाधीशमुपगतः। एवं बहुष्वपि हरिदश्वप्रभृतिस्थानेषु भ्राम्यन्स्वास्थो यो न बभूव, स महिषश्चण्डीपादमूले स्वस्थतां प्राप । अन्यो- ऽपि महिषो हरिततृणलोलुपो भवति, अनलोष्माणं न सहते, स्थाणौ कण्डू- तिमपनयति, द्वितीयं महिषं विलोक्य कोपाविष्टो भवति, कृष्णवर्णकर्दमे लुठनेच्छया जलाशयं गच्छति, ह्रदं प्राप्य च स्वस्थो भवति ॥ त्रैलोक्यातङ्कशान्त्यै प्रविशति विवशे धातरि ध्यानतन्द्री- मिन्द्राद्येषु द्रवत्सु द्रविणपतिपयःपालकालानलेषु । ये स्पर्शेनैव पिष्ट्वा महिषमतिरुषं त्रातवन्तस्त्रिलोकीं पान्तु त्वां पञ्च चण्ड्याश्चरण खनिभेनापरे लोकपालाः॥९॥ चण्ड्याश्चरणनखनिभेनापरे पञ्च लोकपालास्त्वां पान्तु । किंभूताः । स्पर्शे- नैवातिरुषं महिषं पिष्ट्वा चूर्णयित्वा ये त्रिलोकीं त्रातवन्तो रक्षमाणाः । ननु ब्रह्मादयः क्व गताः, येन चण्डीपादनखा महिषं पिष्ट्वा लोकपालाः संवृत्ता- स्तत्राह-विवशे विह्वले धातरि ब्रह्मणि त्रैलोक्यातङ्कशान्त्यै त्रैलोक्योपद्रव- निवृत्तये ध्यानतन्द्रीं चिन्तारूपां प्रमीलां प्रविशति सति । यो हि तन्द्रीग्रस्तो भवति स विवशो भवत्येव । कथं लोकरक्षा भविष्यतीति चिन्ताकारणम् । किं च इन्द्रद्येष्विन्द्रप्रधानेषु द्रविणपतिपयःपालकालानलेषु कुबेरवरुणय- माग्निषु द्रवत्सु सङ्ग्रामान्निवर्तमानेषु सत्सु । इन्द्राद्याः पञ्च पलायिता इति देवीपादनखा लोकपाला जाताः । प्रालेयोत्पीडपीन्वां नखरजनिकृतामातपेनातिपाण्डुः पार्वत्याः पातु युष्मान्पितुरिव तुलिताद्रीन्द्रसारः स पादः । यो धैर्यान्मुक्तलीलासमुचितपतनापातपीतासुरासी- न्नो देव्या एव वामश्छलमहिषतनोर्ना कलोकद्विषोऽपि ॥ १०॥ नखरजनिकृतां नखचन्द्राणामातपेन प्रकाशेनातिपाण्डुरतिशुभ्रः पार्वत्याः स पादो युष्मान्पातु । कथंभूतानां नखरजनिकृताम् । प्रालेयोत्पीडपीनाम् प्रालेयं हिमं तच्च धवलं भवति । तदुत्पीडनेन धवलिम्नः पुष्टता भवति । भगवती च प्रायेण प्रालेयशैलसंचारिणी । कस्येव पादः। पितुरिव हिमाच- लस्येव पादः प्रत्यन्तपर्वतः । पादशब्दो द्विरावर्तनीयः । अथवा स्वपितृचर- णसदृशश्चरणः । पितृसद्दशी कन्या धन्येति प्रशस्तत्वकथनम् । कीदृशः पादः। तुलितान्द्रीन्द्रसारः । अतिगुरुरिति यावत् । स कः । यः पादो देव्या एव नो वामः सव्यः, अपि तु छलमहिषतनोः कपटमहिषस्य नाकलोकद्विषो देव- शत्रोरपि वामो वैरी प्रतिकूलो वा । कुतः । धैर्यात्सत्त्वाधिक्यान्मुक्ता या लीला तस्याः समुचितं यत्पतनं पातस्तस्यापाते आरम्भे यद्वा समुचितपत- नेन आपाततः पीता गिलिता असवः प्राणा येन [अर्थान्महिषस्य] । यत्र धीररसविभावका धैर्यशौर्यादयो भवन्ति तत्र शृङ्गारव्यञ्जिका लीला न भव- ति। अत एव लीलामुक्तत्वमुक्तम् । ततो वैरिव्यापादनमुचितम् । तत आपा- ततोऽविभावितविचारं पीतासुत्वम् ॥ वक्षो व्याजैणराजः स दशभिरभिनत्पाणिजैः प्राक्सुरारेः पञ्चैवास्तं नयामो युवतिचरणजाः शत्रुमेते वयं तु । इत्युत्पन्नाभिमानैर्नखंशशिमणिभिर्ज्योत्स्नया स्वांशुमय्या यस्याः पादे हतारौ हसित इव हरिः सास्तु काली श्रिये वः ११ सा काली वः श्रियेऽस्तु । सा का । यस्याः पादे हतारौ घातितशत्रौ सति स्वांशुमय्या ज्योत्स्नया नखशशिमणिभिर्नखचन्द्रकान्तैर्ह रिरिति हसित इव बभूव । इतीति किम् । प्राक्पूर्व सुरारेर्हिरण्यकशिपोर्वक्ष उरःस्थलं व्याजैण- राजः कपटसिंहो नरहरिर्दशभिः पाणिजैनखैरभिनत् । एते वयं तु युवतिच- रणजाः, पञ्चैव शत्रुमस्तं नयाम इत्युत्पन्नाभिमानैर्जातगर्वैः । हरेर्नखा: करजाः, चयं युवतिचरणजाः, ते दश वयं पञ्च, तैर्वक्षोमात्रं विदारितमस्माभिस्तु शत्रुरस्तं नीतः, इत्यभिमानकारणम् ॥ रक्ताक्तेऽलक्तकश्रीर्विजयिनि विजये नो विराजत्यमुष्मि- न्हासो हस्ताग्रसंवाहनमपि दलितान्द्रीन्द्रसारद्विषोऽस्य । त्रासेनैवाद्य सर्वः प्रणमति कदनेनामुनेति क्षतारिः पादोऽव्याचुम्बितो वो रहसि विहसता त्र्यम्बकेणाम्बिकायाः१२ इति विहसता त्र्यम्बकेण रहस्पेकान्तेऽन्यं विनयप्रकारमपश्यता चुम्बितः क्षतारिर्व्यापादितशत्रुरम्बिकायाः पादो वो युष्मानव्याद्रक्षतु । इतीति किम् । हे विजये पार्वतिसखि, अथवा विजये सति अमुष्मिन्विजयिनि विजयशा- लिनि रक्ताक्ते महिषरुधिराद्रींभूते ते पादेऽलक्तकश्रीर्न चिराजति । अथ च दलिताद्रीन्द्रसारद्विषो नाशितः पर्वतेन्द्रसमानगरिमा शत्रुर्येन तस्यास्य तव पादस्य हस्ताग्रेण संवाहनमपि हासः । किं चाद्याधुनामुना कदनेन महिषव- धेन सर्वो जनस्त्रासेनैव प्रणमतीति । चरणे यावकरसरञ्जनं हस्ताग्रेण संवाहनं प्रणामश्चेति त्रयमुचितम् । किं त्वत्र त्रयमपि न घटत इति महादेवेन तच्चु- म्बनमेव कृतम् ॥ भङ्गो न भ्रूलतायास्तुलितबलतयानास्थमस्थां तु चक्रे न क्रोधात्पादपद्मं महदमृतभुजामुद्धृतं शल्यमन्तः । वाचालं नूपुरं नो जगदजनि जयं शंसदंशेन पार्ष्णे- र्मुष्णन्त्यासून्सुरारेः समरभुवि यया पार्वती पातु सा वः ॥१३॥ सा पार्वती वः पातु । यया पार्ष्णेरंशेन पादतलपश्चाभागैकदेशेन समर- भुवि सुरारेर्महिषस्यासून्मुष्णन्त्या न केवलं भ्रूलताया एव भङ्गः कृतः, अपि तु तुलितबलतया अनास्थं यथा स्यात्तथा अस्थां कीकसानमपि अर्थान्महि- षस्य भङ्गचूर्णनं चक्रे । यस्य बलं तुलितं भवति तस्य पराजयेऽनास्था क्रिय- ते । भ्रूलताभङ्गो भ्रूकटिलत्वं क्रोधेन । किं च क्रोधात्पादपद्ममेव नोद्धृतम्, अपि तु अमृतभुजां देवानां महदन्तः शल्यमप्युद्धृतम् । देवा हि महिषं श- ल्यभूतमन्तश्चिन्तयन्ति स्म । अन्यच्च नूपुरमेव वाचालं मुखरं नो जातम्, अपि तु जयं शंसत्कथयजगदपि वाचालमजनि ॥ निर्यन्नानास्त्रशस्त्रावलि वलति बलं केवलं दानवानां द्राङ् नीते दीर्घनिद्रां द्विषति न महिषीत्युच्यसे प्रायशोऽद्य । अस्त्रीसंभाव्यवीर्या त्वमसि खलु मया नैवमाकारणीया कात्यायन्यात्तकेलाविति हसति हरे ह्रीमती हन्त्वरीन्वः ॥१४॥ हरे आत्तकेलौ गृहीतकीडे इति हसति सति ह्रीमती लज्जाकुला कात्या- यनी वो युष्माकमरीञ्शत्रून्हन्तु । इतीति किम् । अद्य त्वं महिषीति मया नोच्यसे । यतः, अस्त्रीसंभाव्यवीर्या । स्त्रीष्वेतादृशं वीर्य न संभाव्यते । द्रा- अझटिति द्विषति शत्रौ महिषे दीर्घनिन्द्रां मृत्युं नीते सति, त्वयेत्यर्थात् , नि- र्गन्नानास्त्रशस्त्रावलि दानवानां बलं सैन्यं केवलं स्वामिशून्यमद्य वलति चलति यथागतं याति । महिषी कृताभिषेका राज्ञी सैरभी च । या महिष- वधं करोति सा कथं महिषीशब्दाभिधेया। महिषी महिषाद्धीनबला भवति, त्वं तु महिषात्कोटिगुणाधिकबला । प्रायशो बाहुल्येन । एवं मया त्वं नाका- रणीया । स्त्रीरूपाया एव भार्याया आकारणमाह्वानं युक्तम् । त्वं तु पुरुषचे. ष्टितेति हासः॥ जाता किं ते हरे भीर्भवति महिपतो भीरवश्यं हरीणा- मद्येन्दोर्द्वौ कलङ्कौ त्यजति पतिरपां धैर्यमालोक्य चन्द्रम् । वायो कम्प्यस्त्वयान्यो नय यम महिषादात्मयुग्यं ययारौ पिष्टे नष्टं जहास द्युजनमिति जया सास्तु देवी श्रिये वः ॥१५॥ सा देवी वः श्रियेऽस्तु । सा का । यया अरौ महिषाख्ये शत्रौ पिष्टे चू- र्णिते सति जया तत्प्रतीहारी नष्टं महिषभयात्पलायितं द्युजनमिन्द्राद्यमिति जहास । इतीति किम् । हे हरे इन्द्र अथवा विष्णो, ते तव भीर्भयं किं जाता । अथ वा युक्तमेतत् । यतोऽवश्यमेव महिषतो हरीणां भीर्भवति । अत्र हरिशब्दोऽश्ववाचकः । किं चाद्य इन्दोश्चन्द्रस्य द्वौ कलङ्कौ जातौ । एक- स्तावत्सहजः, द्वितीयस्तु महिषयुद्धे पलायनान्निन्दारूपः । अपां पतिर्वरुण- श्चन्द्रं नष्टमालोक्य धैर्य त्यजति कातरो भवति । उचितमेतत् । अपांपतिः समुद्रश्चन्द्रमालोक्य धैर्य त्यजेद्वेलाभिमुखं प्रसरेत् । हे वायो, त्वयान्यः कम्प्यः कम्पनीयः, त्वं तु स्वयं कम्पस इति भावः । अपि च हे यम, म- हिषादात्मयुग्यं स्ववाहनं नय अपसारय । महिषो महिषान्तरं दृष्ट्वा क्रुध्य- तीति भावः॥ शूलप्रोतादुपात्तप्लुतमहि महिषादुत्पतन्त्या स्रवन्त्या वर्मन्यारज्यमाने सपदि मखभुजां जातसंध्याप्रमोहः । नृत्यन्हासेन मत्वा विजयमहमहं मानयामीतिवादी यामाश्लिष्य प्रनृत्तः पुनरपि पुरभित्पार्वती पातु सा वः ॥१६॥ सा पार्वती वः पातु । यामाश्लिष्य पुरभिच्छिवः पुनरपि प्रनृत्तो नर्तितु- मारब्धवान् । किं कुर्वन् । नृत्यन् । कथंभूतः । सपदि तत्क्षणं मखभुजां वर्त्म- नि देवमार्ग आकाश उपान्ते समीपे प्लुता मही यस्मिन्नेवं यथा स्यात्तथा शू- लप्रोतात्रिशूलविद्धादुत्पतन्त्योच्छलन्त्या स्त्रवन्त्या रुधिरनद्यारज्यमाने रक्ती- क्रियमाणे सति जातसंध्याप्रमोहः समुत्पन्नसंध्याकालभ्रान्तिः। संध्यासमये हरो नृत्यतीति भावः । पुनश्च मत्वा बुध्द्वा । अस्मद्भार्याशूलप्रोतमहिषोत्पत- द्रक्तनदीरक्तमेव व्योम नायं संध्याकाल इति ज्ञात्वेति भावः । ततो हासेन परितोषेण विजयमहं विजयोत्सवं मानयाम्यहमिति वादी । उपान्तप्लुतमहीति , क्रियाविशेषणम् । समासान्तविधेरनित्यत्वान्न कप् ॥ नाकौकोनायकाद्यैर्द्युवसतिभिरसिश्यामधामा धरित्रीं रुन्धन्वर्धिष्णुविन्ध्याचलचकितमनोवृत्तिभिर्वीक्षितो यः । पादोत्पिष्टः स यस्या महिषसुररिपुर्नूपुरान्तावलम्बी लेमे लोलेन्द्रनीलोपलशकलतुलां स्तादुमा सा श्रिये वः ॥१७॥ सा उमा वः श्रिये स्तात् । सा का । यस्याः पादोत्पिष्टो महिषाख्यः सुर- रिपुर्नूपुरान्तावलम्बी लोलेन्द्रनीलपाषाणखण्डसाम्यं लेभे । नूपुरसमीप इन्द्र- नीलशकलेनावश्यमेव भाव्यम् । कथंभूतः । नाकौकोनायकाद्यैरिन्द्राद्यैर्द्युव- सतिभिर्देवैर्धरित्रीं रुन्धन्पृथ्वीमावृण्वन्दृष्टः । कथंभूतैः । वर्धिष्णुविन्ध्याचल- चकितमनोवृत्तिभिः । किमयं विन्ध्याचल एव पुनर्वृद्धिं गच्छतीति भीतैः । असिश्यामधामा खङ्गवन्मेचककान्तिः ।। दुर्वारस्य द्युधाम्नां महिषितवपुषो विद्विषः पातु युष्मा- न्पार्वत्या प्रेतपालखपुरुषपरुषः प्रेषितोऽसौ पृषत्कः । यः कृत्वा लक्ष्यभेदं हृतभुवनभयो गां विभिद्य प्रविष्टः पातालं पक्षपालीपवनकृतपतत्तार्क्ष्यशङ्काकुलाहिः ॥ १८ ॥ महिषितवपुषो महिषीकृतकायस्य विद्विषः पार्वत्या प्रेषितः प्रहितोऽसौ पृ- षत्को बाणो युष्मान्पातु । कथंभूतः पृषत्कः । प्रेतपालस्य यमस्य ये स्वपुरुषाः स्वकीयदूतास्तद्वत्परुषः क्रूरः । कथंभूतस्य विद्विषः । द्युधाम्नां देवानां दुर्वारस्य दुःखेन वारयितुं शक्यस्य । यः पृषत्को लक्ष्यस्य महिषस्य भेदं कृत्वा हृतभु- वनभयः सन् । महिषहिंसनाद्भुवनभयहरणम् । गां भूमिं विभिद्य पातालं प्रविष्टः । कथंभूतः । पक्षपाल्याः पत्रपङ्क्तेः पवनेन कृता पततस्तार्क्ष्यस्य गरु- डस्य शङ्कया आकुला अहयः सर्पा येन सः । पूर्व गरुडेन पातालं प्रविशता पक्षपवनेन फणिनस्त्रासितास्तथा पार्वतीशरेणापीति भावः ॥ वज्रं विन्यस्य हारे हरिकरगलितं कण्ठसूत्रे च चक्रं केशान्बद्ध्वाब्धिपाशैधृतधनदगदा प्राक्प्रलीनान्विहस्य । देवानुत्सारणोत्का किल महिषहतौ मीलतो ह्वेपयन्ती ह्रीमत्या हैमवत्या विमतिविहतये तर्जिता स्ताज्जया वः ॥१९॥ जया देव्याः प्रतीहारी वो विमतिविहतये स्ताद्दुर्बुद्धिविनाशाय भवतु । किंभूता। ह्रिमत्या लज्जितया हैमवत्या पार्वत्या तर्जिता । कुतः । प्राक्प्रली- नान्पूर्व पलायितान्महिषहतौ महिषवधे जाते सति मीलत एकीभवतो दे- वान्ह्रेपयन्ती लजितान्कुर्वाणा । किं कृत्वा ह्रेपयन्ती | हरिकरगलितं महि- षभीत्या इन्द्रहस्ताच्युतं वज्रं हारे विन्यस्य । एवं हरिकरगलितं विष्णुह- स्तात्पतितं चक्रं कण्ठसूत्रे च विन्यस्य । केशानब्धिपाशैर्वरुणपाशैर्बध्द्वा । धृत- धनदगदा । तत्त्यक्तायुधधारणेन तेषां हास इति भावः । कथंभूता । उत्सार- णोत्का उत्सारणे दूरीकरणे । देवानामित्यर्थः । उत्का उत्कण्ठिता ॥ खङ्गे पानीयमाह्लादयति हि महिषं पक्षपाती पृषत्कः शूलेनेशो यशोभाग्भवति परिलघुः स्याद्वधार्हेऽपि दण्डः। हित्वा हेतीरितीवाभिहतिबहलितप्राक्तनापाटलिम्ना पार्ष्ण्यैव प्रोषितासुं सुररिपुमवतात्कुर्वती पार्वती वः ॥ २० ॥ काव्यमाला। पार्ष्ण्यैव पादपश्चाद्धागेनैव सुररिपुं महिषं प्रोषितासुं गतप्राणं कुर्वती पा- र्वती वोऽवतात् । किंभूतया पार्ष्ण्या । अभिहत्याभिधातेन बहलितः सान्द्री- कृतः प्राक्तन आपाटलिमा यस्याः । देवीचरणे नैसर्गिकमारक्तत्वं महिषघात- 'नेन बहुलीभूतमिति भावः । कुतः । खङ्गे पानीयं तिष्ठति तत्प्रत्युत महिष- माह्लादयति न घातयति । पृषत्को बाणः । पक्षपाती पक्षैः पत्रैः पतनशीलः, अथ च महिषस्य पक्षपाती सहायभूतः। शूलेन ईशः शिवो यशोभाक्शिव एवं शूली नान्यः । यदि महिषं प्रति शूलं प्रेष्यते तदायमपि शूली स्यात् । चधार्हे दण्डोऽपि परिलघुः शीघ्रं भाव्यः स्यात् । उत्तिष्ठमानः परो नोपेक्ष्य 'इति । इतीव हेतीरायुधानि हित्वा पार्ष्ण्यैव महिषं व्यापादितवती ॥ कृत्वदृक्कर्म लज्जाजननमनशने शक्र मासून्विहासी- र्वित्तेश स्थाणुकण्ठे जहि गदमगदस्यायमेवोपयोगः । जातश्चक्रिन्विचक्रो दितिज इति सुरांस्त्यक्तहेतीब्रुवन्त्या व्रीडांव्यापादितारिर्जयति विजयया नीयमाना भवानी ॥२१॥ विजयया देव्याः सख्या व्यापादितारिर्भवानी व्रीडां नीयमाना जयति । किंभूतया । त्यक्तहेतीन्सुरानिति ध्रुवन्त्या । इतीति किम् । हे शक्र, ईदृग्ल- ज्जाजननं कर्म युद्धात्पलायनं कृत्वा अनशनेऽभोजनविषयेऽसून्प्राणान्मा वि. हासीर्मा त्यज । अथ च अशनिर्वज्रं तदहितोऽनशनिस्तत्संबोधनं हे अनशने त्यक्तवज्र । युद्धात्पलायनं लज्जाजननम् । यो हि लज्जाजननं कर्मं करोति सोऽनशनेन प्राणांस्त्यजतीति भावः । हे वित्तेश कुबेर, स्थानुकण्ठे गदं रोगं जहि । यतो भवानगदो गदारहित औषधरूपश्च । भवानोनयरूपः संवृत्तोऽतो भवन्मित्रस्य शिवस्य कण्ठरोगं दूरीकुर्विति भावः । हे चक्रिन् विष्णो, दितिजो महिषो विचक्रः सैन्यरहितो जातः । यथा भवांश्चक्रीभूत्वापि त्यक्तचक्र स्तथा महिषोऽपि विचक्र इति भावः॥ देयाद्वो वाञ्छितानि च्छलमयमहिषोत्पेषरोषानुषङ्गा- न्नीतः पातालकुक्षिं हृतभुवनभयो भद्रकाल्याः स पादः । १. 'अर्थश'. २. 'लज्जाम्'. ३. 'दोषा-', ४. 'कृतपरमभयो'. चण्डीशतकम् । यः प्रादक्षिण्यकाङ्क्षावलयितवपुषा वन्द्यमानो मुहूर्तं शेषेणेवेन्दुकान्तोपलरचितमहानूपुराभोगलक्ष्मीः ॥ २२ ॥ छलमयस्य महिपस्योत्पेष उत्पेषणं तेन यो रोषानुषङ्गः क्रोधसंबन्धस्त- स्मात्पातालकुक्षि नीतो हृतभुवनभयो भद्रकाल्याः स पादो वो वाञ्छितानि देयात् । यः पाद इन्दुकान्तोपलरचितमहानूपुराभोगलक्ष्मीश्चन्द्रकान्तमणि-- घटितनूपुरशोभमानो यः पादः प्रादक्षिण्यवाञ्छया वलयीकृतशरीरेण शेषेण मुहूर्तं वन्धमान इव भाति । देवीपादस्य क्षणं पाताले स्थितस्य चन्द्रकान्तनू-- पुरे शेषकायोत्प्रेक्षणम् ॥ शूलं तूलं नु गाढं प्रहर हर हृषीकेश केशोऽपि वक्र- श्चक्रेणाकारि किं मे पविरवति नहि त्वाष्ट्रशत्रो द्युराष्ट्रम् । पाशाः केशाब्जनालान्यनल न लभसे भातुमित्यात्तदर्पं जल्पन्देवान्दिवौकोरिपुरवधि यया सास्तु शान्त्यै शिवा वः २३ आत्तदर्प गृहीतमदं यथा स्यात्तथा इति देवाञ्जल्पन्दिवौकोरिपुर्देवशत्रु- र्महिषो यया अवधि हतः सा शिवा वः शान्त्यै अस्तु । इतीति किम् । है हर, शूलं अर्थात्तव तूलं नु कर्पासतुल्यं किमु, अतस्त्वं गाढं प्रहर । हे हृषी- केश, तव चक्रेण किं मम केशोऽपि वक्रीकृतः । अपि तु न । हे त्वाष्ट्रशत्रो इन्द्र, तव पविर्वज्रं धुराष्ट्रं स्वर्गदेशं नावति न रक्षति । हे केश जलेश वरुण, तव पाशा अलानालानि कमलनालवदतिमृदवः । हे अनल, भातुं न लभसे। 'मत्प्रभया हतस्त्वमित्यर्थः॥ शार्ङ्गिन्बाणं विमुञ्च भ्रमसि बलिरसौ संयतः केन बाणो गोत्रारे ह्रन्म्यहं ते रिपुममररिपुस्त्वेष गोत्रस्य शत्रुः । दैत्या व्यापाद्यतां द्रागज इव महिषो हन्यते मन्महेऽद्ये- त्युत्प्रास्योमा पुरस्तादनु दनुजतनुं मृद्गती त्रायतां वः ॥ २४ ॥ पुरस्तात्पूर्वमित्युत्प्रास्योपहस्य । अर्थाद्देवान् । अनु पश्चानुजतनुं महिषदेहं १. 'पार्वती पातु सा व २. 'असुररिपुः', काव्यमाला। मृद्गती चूर्णयन्ती उमा वस्त्रायताम् । इतीति किम् । हे शार्ङ्गिन् विष्णो, बाणं विमुञ्च । बाणं तन्नामानं दैत्यं शरं च । असौ बलिरिति भ्रमसि भ्रान्तिं क- रोषि । बाणः केन संयतः । त्वं बलिबन्धनकर्ता अतस्तव बाणमोक्षो युक्त इति भावः । हे गोत्रारे इन्द्र, ते रिपुमहं हन्मि । एषोऽमररिपुर्महिषो गो- त्रस्य स्वकुलस्य शत्रुः। यतो देवा दैत्याश्च काश्यषेयाः। अतोऽयमपि गोत्रा- रिः, तस्माद्गोत्रारिद्वयं नोचितमित्येनं तव रिपुं हन्मीति भावः । अत एव दैत्या अपि शास्यन्ते हे दैत्याः, मन्महे मदीयोत्सवेऽज इव च्छाग इव महिषो हन्यते, अतोऽयं महिषो द्राक्शीघ्रं व्यापाद्यतामद्य । देवीपर्वणि च्छागो हन्यत एव ॥ स्पर्धावर्धितविन्ध्यदुर्भरभरव्यस्ताद्विहायस्तलं हस्तादुत्पतिता प्रसादयतु वः कृत्यानि कात्यायनी यां शूलामिव देवदारुघटितां स्कन्धेन मोहान्धधी- र्वध्योद्देशमशेषबान्धवकुलध्वंसाय कंसोऽनयत् ॥ २५ ॥ स्पर्धया पराभवेच्छया वर्धितो यो विन्ध्यस्तद्वदुर्भरो यो भरस्तेन व्यस्ता- द्विकलास्तात् । अर्थात्कंसस्य । विहायस्तलं गगनतलमुत्पतिता कात्यायनी वः कृत्यानि कार्याणि प्रसादयतु प्रसन्नानि निर्विघ्नानि करोतु । यां कात्यायनी- मशेषबान्धवकुलध्वंसाय मोहान्धधीः कंसो देवदारुघटितां शूलमिव स्कन्धेन वध्योद्देशं वध्यप्रदेशमनयत् ॥ तूर्णं 1तोषात्तुराषाट्प्रभृतिषु शमिते शात्रवे स्तोत्रकृत्सु क्लान्तेवोपेत्य पत्युस्ततभुजयुगलस्यालमालम्बनाय । देहार्धे गेहबुद्धिं प्रतिविहितवती लज्जयालीय काली कृच्छ्रं वोऽनिच्छयैवापतितघनतराश्लेषसौख्या विहन्तु ॥२६॥ पत्युर्देहार्धे गेहबुद्धिं प्रतिविहितवती काली वः कृच्छ्रं विहन्तु । किं कृत्वा । शात्रवे महिषे शमिते तुराषाट्प्रभृतिषु इन्द्रादिषु तूर्णं तोषास्तोत्रकृत्सु सत्सु लज्जयालीय लीना भूत्वा । महान्तो हि प्रत्यक्षप्रशंसया सुतरां लज्जन्ते। कथंभूतस्य पत्युः । आलम्बनायालं ततभुजयुगलस्य । अत एवानिच्छयैच १. 'रोषात्'. चण्डीशतकम् । इच्छां विनैव आपतितघनतराश्लेषसौख्या प्राप्तसदृढालिङ्गानसुखा । उत्प्रेक्षते- क्लान्तेवोपेत्य । यो हि क्लान्तो भवति स क्वाप्यालम्बनमिच्छति ॥ आस्तां मुग्धेऽर्धचन्द्रः क्षिप सुरसरितं या सपत्नी भवत्याः क्रीडा द्वाभ्यां विमुच्चापरमलममुनैकेन मे पाशकेन । शूलं प्रागेव लग्नं शिरसि यदबला युध्यसेऽव्याद्विदग्धं सोत्प्रासालापपातैरिति दनुजमुमा निर्दहन्ती दृशा वः ॥२७॥ इतीत्थं सोत्प्रासाः समनास्सिता य आलापास्तेषां पातैर्विदग्धं चतुरं दनु- जं महिषं दशा निर्दहन्ती उमा वोऽव्यात् । इतीति किम् । हे मुग्धे, अर्ध- चन्द्रो बाणविशेषश्चन्द्रार्ध च आस्तां तिष्ठतु । अनेन तव भर्तृमूर्धस्थितेनार्ध- चन्द्रेण किमपराद्धं वराकेणेति भावः । सुरसरितं गङ्गां क्षिप या भवत्याः सपत्नी वर्तते । अस्थानकोपवती त्वमत एव मुग्धापदेन संबोध्यसे । अमुनै केन पाशकेनाल्पपाशेन द्यूतसाधनेनाक्षेण मे चालम् । अपरं द्वितीयमपि पा- शकं मुञ्च । यतः क्रीडा द्वाभ्यां पाशकाभ्यां भवति । एकेन क्रीडितुं न श- क्यते । कालमायुधं व्याधिश्च । शूलं किमिति त्यजसि । मम शिरसि प्रागेव शूलं रोगविशेषो लग्नम् । यतो मया सहाबला योषियुध्यसे । इदमकीर्ति- रूपं शूलम् । यद्वा अहं सबलः ससैन्यः, त्वं पुनरबला एकाकिनीति । इदम- कीर्तिरूपं शूलं मम शिरसि लग्नमेव ॥ वक्राणां विक्लवः किं वहसि बत रुचं स्कन्द षण्णां विषण्णा- मन्याः षण्मातरस्ते भव भव सकलस्त्वं शरीरार्धलब्ध्या । जिह्मा हन्म्यद्य कालीमिति सममसुभिः कण्ठतो निर्गता गी- र्गीर्वाणारेर्ययेच्छा1मृदुपदमृदितस्याद्रिजा सावताद्वः ॥ २८॥ यथेच्छया मृदुपदमृदितस्य कोमलचरणन्यासचूर्णीकृतस्य गीर्वाणारेमहि- षस्य कण्ठतोऽसुभिः प्राणैः सममिति गीर्वाङ निःसृता सा अद्रिजा पार्वती वोऽव्यात् । इतीति किम् । हे स्कन्द, त्वं विक्लवः सन् षण्णां वक्राणां रुचं कान्तिं विषण्णां बत खेदे किं वहसि । यतोऽन्याः कृत्तिकारूपाः षट् मातरस्ते १. 'यदृच्छामृदु-. काव्यमाला। तव सन्ति । पार्वत्यां तव मातरि हतायां तास्वेव मातृस्नेहं बधान विषादं मा कृथा इति भावः । अन्यच्च हे भव शिव, त्वं शरीरार्धलब्ध्या सकलः समग्रो भव । पार्वत्या भवच्छरीरार्धं हृतमस्ति, अधुना तन्नाशात्पुनरपि भवतः संपूर्णशरीरलाभः स्यात् । अद्याहं जिह्यां दुष्टाशयां कालीं हन्मि । इयं कुटि- ला काली च, त्वं पुनः सरलो गौरश्चेति न युवयोर्योगः साधीयान् , अतो धातयाम्येतामिति भावः ॥ गाहस्व व्योममार्गं गतमहिषभयैर्ब्रध्न विश्रब्धमश्वैः शृङ्गाभ्यां विश्वकर्मन्घटयसि न नवं शार्ङ्गिणः शार्ङ्गमन्यत् । ऐभी त्वङ्निष्ठुरेयं बिभृहि मृदुमिमामीश्वरेत्यात्तहासा गौरी वोऽव्यात्क्षतारिः स्वचरणगरिमग्रस्तगीर्वाणगर्वा ॥२९॥ क्षतारिर्नाशितशत्रुः, स्वचरणगरिमग्रस्तगीर्वाणगर्वा स्वपादगौरवनाशितदे- वाहंकारा । यत्कर्मं देवैः शस्त्रास्त्रशक्तिमद्भिर्न कृतं तद्देव्या स्वचरणव्यापार- मात्रेणैव कृतमिति भावः । अथ च इत्यात्तहासा इत्यमुना प्रकारेण कृतपरि- हासा गौरी वोऽव्यात् । इतीति किम् । हे ब्रध्न सूर्य, त्वं गतमहिषभयैर-- श्वैर्विश्रब्धं यथा स्यात्तथा व्योममार्गमाकाशपथं गाहस्व । हे विश्वकर्मन् देव- शिल्पिन् , एताभ्यां महिषस्य शृङ्गाम्यां शार्ङ्गिणो विष्णोर्नवमन्यच्छाङ्गं धनुर्न घटयसि । किमनेन पुराणधनुषेति काकुः । हे ईश्वर, इयमैमी त्वग्गजचर्म निष्ठुरा कठोरा इमां अर्थान्माहिषी त्वचं बिभृहि धारय । क्षिप्तो बाणः कृतस्ते त्रिकविनतिततो निर्वलिमध्यदेशः प्रह्लादो नूपुरस्य क्षतरिपुशिरसः पादपातैर्दिशोऽगात् । सङ्ग्रामे सं1नताङ्गि व्यथयसि महिषं नैकमन्यानपि त्वं ये 2युध्यन्तेऽत्र नैवेत्यक्तु पतिपरीहासहृष्टा3 शिवा कः॥३०॥ इति पतिपरीहासहृष्टा शिवा वः पातु । इसीति किम् । हे संनताङ्गि, त्वं सङ्ग्रामे एकं महिषमेव व्यथयसीति न, अन्यानपि येऽत्र न युध्यन्ते तानपि व्यथयसि । कथम् । बाणः शरः क्षिप्तः कृतः, पक्षे बाणोऽसुरविशेषः क्षिप्तो १. 'संतता वो'. २. 'विद्यन्ते'. ३. 'तुष्टा भवानी'. चण्डीशतकम् । गलहस्तितः । ते त्रिकविनतिततो मध्यदेशो निर्वलिखिवलिरहितः कृतः। बाणक्षेपणसमये हि शरीरस्योर्ध्वोत्तम्भनान्मध्यदेशो निर्वलिर्जात इति भावः । पझे बलिर्दानवविशेषः । क्षतरिमुशिरसो नूपुरस्य पादपाते प्रह्लादो ध्वनिर्दि- शोऽगात् । नूपुरशब्दो दिगन्तगामी जात इत्यर्थः । पक्षे प्रह्लादोऽसुरविशेषः । अत्र युद्धे बाणबलिप्रह्लादा न सन्ति, भवती तानपि व्यथयतीति परीहासः ॥ मेरौ मे रौद्रशृङ्गक्षतवपुषि रुषो नैव नीता नदीनां भर्तारो रिक्ततां यत्तदपि हितमभून्निःसपत्नोऽत्र कोऽपि । एतन्नो मृष्यते यन्महिष कलुषिता खर्धुनी मूर्ध्नि मान्या शंभोभिन्द्याद्धसन्ती पतिमिति शमितारातिरीतीरुमा वः ॥३॥ शमितारातिः पार्वती पतिमिति हसन्ती वः ईतीरुपद्वान्भिन्धात् । इती- ति किम् । हे महिष, मेरौ रौद्रश्चङ्गक्षतवपुषि सति मे रुषो नैव । त्वया शृङ्गाभ्यां मेरुपर्वते क्षते मम क्रोधो नास्ति । अन्यच्च यन्नदीनां भर्तारः समुद्रा रिक्ततां नीतास्तदपि हितमभूत् । तत्रापि मे रुषो नैव । अत्र कोऽपि निःस- पत्नो जातः । समुद्रो महादेवश्च गङ्गापतिः । समुद्ररिक्तीकरणे तु महादेवस्य निःसपत्नं गङ्गापतित्वं जातमिति भावः । एतत्तु नो मृष्यते इदं न क्षम्यते यच्छंभोमूर्ध्नि मान्या अर्थाच्छंभोरेव स्वर्धुनी गङ्गा कलुषिता कलुषीकृता । सेयं परपुरुषसङ्गात्कलुषा जातेति भावः ॥ सद्यः साधितसाध्यमुद्धृतवती शूलं शिवा पातु वः पादप्रान्तविषक्त एव महिषाकारे सुरद्वेषिणि । दिष्ट्या देव वृषध्वजो यदि भवानेषापि नः स्वामिनी संजाता महिषध्वजेति जयया केलौ कृतेऽर्धस्मिता ।। ३२ ।। पादप्रान्ते महिषाकारे सुरद्वेषिणि विषक्ते एव साधितसाध्यं कृतकार्य शूल- मुद्धृतवती, अथ च जयया इति केलौ परीहासे कृते सति अर्धस्मिता शिवा वः पातु । इतीति किम् । हे देव, यदि भवान्वृषध्वजः, एषापि नः स्वामिनी पार्वती महिषध्वजा दिष्ट्या संजाता । साधु युवयोर्योगो यद्वावपि पशुध्वजौ ।। त्वं वृषारूढः, इयं पुनर्महिषारूढेति हास्यम् ॥ १. 'प्रोतप्रान्त- २चतु काव्यमाला । विद्राणेन्द्राणि किं त्वं द्रविणददयिते पश्य संख्यं स्वसख्याः स्वाहे स्वस्था स्वभर्तर्यमृतभुजि मुघा रोहिणी रोदितीव । लक्ष्मि श्रीवत्सलक्ष्मोरसि वससि पुरेत्यातमाश्वासयन्त्यां स्वर्गस्त्रैणं जयायां जयति हतरिपो१र्ह्रेपितं हैमवत्या ॥ ३३॥ स्वर्गस्त्रैणं स्वर्गस्त्रीसमूहं जयायामित्याश्वासयन्त्यां सत्यां हैमवत्या ह्रेपितं लजितं जयति । कथंभूतं स्वर्गस्त्रैणम् । आर्तम् । कथंभूताया हैमवत्याः । हतरिपोः । इतीति किम् । हे इन्द्राणि, त्वं किं विद्राणा । हे द्रविणददयिते कुबेरपत्नि, स्वसख्याः पार्वत्याः संख्यं युद्धं पश्य । हे स्वाहे अग्निदयिते, त्वं स्वभतर्यग्नौ अमृतभुजि सति स्वस्था भव । महिषे ह्रतेऽधुना सुखेन ब्राह्मणै- हूयते इति भावः। रोहिणी चन्द्रपत्नी मुधा वृथा रोदितीव । असंजातक्षतिरिति भावः । हे लक्ष्मि, श्रीवत्सलक्ष्मोरसि विष्णुवक्षःस्थले पुरा वससि वत्स्यसि । इति सर्व देवस्त्रीणामाश्वासनमाकर्ण्य देवी लज्जितेति भावः ॥ निर्वाणः किं त्वमेको रणशिरसि शिखिञ्शार्ङ्गधन्वापि विध्यं- स्तत्ते धैर्य व यातं जहिहि जलपते दीनतां त्वं न दीनः । शक्तो नो शत्रुभङ्ग्ने भयपिशुन सुनासीर नासीरधूलि- र्धिग्यासि केति जल्पन्रिपुरवधि यया पार्वती पातु सा वः ॥३४॥ इति जल्परिपुर्महिषो ययावधि हतः सा पार्वती वः पातु । इतीति किम् । हे शिखिन् वह्ने, किं त्वमेको रणशिरसि निर्वाणः शान्तः किं तु शार्ङ्गधन्वा विष्णुरपि विध्यञ्शरान्मुञ्चन्निर्बाणो बाणरहितो जातः । श्लेषे वयोरभेदः । हे जलपते वरुण, तत्ते धैर्य क्व यातं क्व गतम् । दीनतां जहिहि त्यज, यतस्त्वं न दीनः दीनो न भवलि, अथ च नदीनामिनः प्रभुर्नदीनः । हे भयपिशुन भयसूचक सुनासीर इन्द्र, नासीरधूलिः सेनामुखोत्थधूलिः शत्रुभङ्गेनो शक्तः, धिक् त्वं क्व यासि । यथा पूर्वं तव सेनामुखोत्थधूलिमात्रमेव विलोक्य शत्रवः पलायन्ते स्म न तथाधुनेति भावः । यत्र यास्यसि तत्रैव हन्यसे । नन्दिन्नानन्ददो मे तब मुरजमृदुः संप्रहारे प्रहारः किं दन्ते रोम्णि रुग्णे व्रजसि गजमुख त्वं वशीभूत एव । १. 'अभृतसृज्रि. चण्डीशतकम् । निघ्नन्निघ्नन्निदानीं द्युजनमिह महाकाल एकोऽस्मि नान्यः कन्याद्रेदैत्यमित्थं प्रमथपरिभवे मृद्गती त्रायतां वः ॥ ३५ ॥ इत्थं प्रमथानां पार्षदानां परिभवे सति दैत्यं मृद्गती मर्दयन्ती अद्रेः कन्या पार्वती वस्त्रायताम् । इत्थं कथम् । हे नन्दिन् , संप्रहारे युद्धे तव प्रहारो मे आनन्ददः सुखप्रदः । यतो मुरजमृदुर्मृदङ्गध्वनिकोमलः । हे गज- मुख गणेश, रोम्णि रोमतुल्ये दन्ते रुग्णे भग्ने सति किं व्रजसि । यतस्त्वं प- लायितोऽपि वशीभूत एव । लम्बोदरत्वाद्दूरं पलायनं कर्तुमशक्त इति भावः। द्युजनमिन्द्राद्यं निघ्नन्निघ्नन्नितरां मारयन्नहमेवैको महाकालः । अन्यो नास्ति ॥ वज्रं मज्ञो मरुत्वानरि हरिरुरसः शूलमीशः शिरस्तो दण्डं तुण्डात्कृतान्तस्त्वरितगतिगदामस्थितोऽर्थाधिनाथः । प्रापन्यत्पादपिष्टे द्विषि महिषवपुष्यङ्गलग्नानि भूयो- ऽप्यायूंषीवायुधानि द्युवसतय इति स्तादुमा सा श्रिये वः ३६ महिषवपुषि द्विषि यत्पादपिष्टे सति युवसतय इन्द्रादयोऽङ्गलग्नान्यायु- धान्यायूंषीव भूयोऽपीति प्रापन्प्राप्तवन्तः सा उमा वः श्रियेऽस्तु । पूर्वं महि- षयुद्धे सर्वदेवायुधानि तच्छरीरे ममान्यासन् , अधुना देव्या महिषे पिष्टे पुनरपि तैः स्वायुधानि प्राप्तानि तद्वन्महिषविनाशादायूंष्यपि लब्धानि, अन्य- था तु जीवनं संदिग्धमेवासीदिति भावः । इति कथम् । मज्ञः मज्जधातोः सकाशादिन्द्रो वज्रं प्रापत् । अरि चक्रं हरिस्तस्योरसः प्रापत् । ईशः शिवः शिरस्तः शूलमापत् । कृतान्तो यमस्तुण्डान्मुखाद्दण्डं प्रापत् । अर्थाधिनाथः कुबेरोऽस्थितस्त्वरितगतिशालिनी गदां प्रापत् ॥ दृष्टावासक्तदृष्टिः 1प्रथममिव तथा संमुखीनाभिमुख्ये स्मेरा हासप्रगल्भे प्रियवचसि कृतश्रोत्रपेयाधिकोक्तिः । उद्युक्ता नर्मकर्मण्यवतु 2पशुपतौ पूर्ववत्पार्वती वः कुर्वाणा सर्वमीषद्विनिहितचरणालक्तकेव क्षतारिः ।। ३७ ॥ पशुपतौ महिषे सर्वमीषदाभासमानं कुर्वाणा पार्वती वोऽवतु रक्षतु । १. 'कृतमखविकृतिः'. २. 'पशुपतेः'. २० काव्यमाला। कथंभूता । नर्मकर्मणि सङ्ग्रामाख्ये उद्युक्ता । यथा पशुपतौ शिवे सर्वं नर्म- कर्माकरोन्न तथा महिषे किं तु ईषत् । दृष्टौ अर्थान्महिषस्यासक्तदृष्टिः । तथा आभिमुख्ये प्रथममिव संमुखीना । हासप्रगल्भे स्मेरा । प्रियवचसि कृतश्रो- न्नपेयाधिकोक्तिः । कथंभूता । क्षतारिः अत एव विनिहितचरणालक्तकेव । पूर्ववद्यथा शिवे नर्मकर्माकरोत्तद्वदित्यर्थः ॥ दैत्यो दोर्दर्पशाली नहि महिषवपुः कल्पनीयाभ्युपायो वायो वारीश विष्णो वृषगमन 1वृषन्किं विषादो वृथैव । बध्नीत ब्रध्नमिश्राः कवचमचकिताश्चित्रभानो दहारी- नेवं देवाञ्जयोक्ते जयति ह्रतरिपोर्ह्वेपितं हैमवत्याः ॥ ३८॥ देवान्प्रति जयया एवमुक्ते सति हत्तरिपोर्हैमवत्याः पार्वत्या ह्रेपितं लज्जितं जयति । एवं कथम् । हे वायो, हे वारीश वरुण, हे विष्णो, हे वृषगमन शिव, हे वृषन् इन्द्र, महिषवपुर्दैत्यो दोर्दर्पशाली अतो न कल्पनीयाभ्युपायः सामादिप्रयोगसाध्यः । किं वृथैव विषादः कियते । तस्माद्बध्नमिश्राः सूर्यस- हिता यूयमचकिताः सन्तः कवचं बध्नीत संनद्धा भवत । हे चित्रभानो वह्ने, अरीन्दह भस्मीकुरु । आ व्योमव्यापिसीम्नां वनमतिगहर्न गाहमानो भुजाना- मर्चिमोक्षेण मूर्च्छन्दवदहनरुचां लोचनानां त्र3यस्य । यस्या निर्मज्जमज्जचरणभरनतो गां विभिद्य प्रविष्टः पातालं पङ्कपातोन्मुख इव महिषः स्तादुमा सा श्रिये वः ॥३९॥ यस्या निर्मज्जमज्जच्चरणभरनतो महिषो गां भुवं विभिद्य पङ्कपातोन्मुख इव पातालं प्रविष्टः सा उमा वः श्रिये स्तात् । निर्गता मज्जा यस्मादसौ निर्मज्जः स चासौ चरणभरनतश्चेति । कथंभूतः । आ व्योम व्यापिसीम्नां भु- जानामर्थाद्देच्या अतिगहनं वनं गाहमानः । पुनः कथंभूतः । दवदहनरुचां लोचनानां त्रयस्यार्चिमोंक्षेण मूर्छन् । यथा वने भ्राम्यन्दावाग्नितप्तोऽन्यो महिषः कर्दमपातोन्मुखो गर्तं प्रविशति तथायमपि देवीलोचनार्चिभिर्दन्द- ह्यमानः पातालं प्रविष्टः ॥ १. 'बृहत्'. २. 'हतरिपुर्ह्रेपितस्वर्निकाया'. ३. 'त्रयेण'. ४. 'सा शिवास्तु'. चण्डीशतकम् । नीते निर्व्याजदीर्घां मघवति मघवद्वज्रलज्ज्जानिदाने निद्रां दागेव देवद्विषि 1मुषितरुषः संस्मरन्त्याः स्वभावम् । देव्या हरभ्यस्तिसृभ्यस्त्रय इव गलिता राशयो 2रक्तताया- स्त्रा3यन्तां वस्त्रिशूलक्षतकुहरभुवो लोहिताम्भःसमुद्राः ॥ ४०॥ त्रिशूलक्षतकुहरभुवो लोहिताम्भःसमुद्रा रुधिररूपजलसमुद्रा वस्त्रायन्ता- भू। उत्प्रेक्षते-मघवद्वज्रलजानिदाने अधवति पापिनि । देवद्विषि महिषे द्रागेव निर्व्याजदीर्घां निन्द्रां मरणं नीते सति मुषितरुषो निवृत्तकोपाया अत एव स्वभावं संस्मरन्त्या देव्यास्तिसृभ्यो दृग्भ्यो नेत्रेभ्यस्त्रयो रक्तताया आरू- ण्यस्य राशय इव गलिताः । क्रोधाभावाद्देव्या नेत्राणां रक्तत्वं निवृत्तं तदेव रुधिरसमुद्रत्वेन संभावितम् ॥ काली कल्पान्तकालाकुलमिव सकलं लोकमालोक्य पूर्वं पश्चाच्छिष्टे विषाणे विदितदितिसुता लोहिता मत्सरेण । पादोस्पिष्टे परासौ निपतति महिषे प्राक्खभावेन गौरी गौरी वः पातु पत्युः प्रतिनयनमिवाविष्कृतान्योन्यरूपा ॥४१॥ पत्युः शिवस्य प्रतिनयनं लोचनान्तरमिव आविष्कृतान्योन्यरूपा गौरी वः पातु । आविष्कृतमन्योन्यस्य रूपं यया । स्वस्य रूपं भर्तृलोचनस्य, भर्तृलो- चनरूपमात्मन इति भावः । किंभूता । महिषोपप्लवेन कल्पान्तकालाकुल- मिव सकलं लोकमालोक्य पूर्वं काली कृष्णा जाता । पश्चादनन्तरं विदित- दितिसुता ज्ञातदैत्या मत्सरेणामर्षेण लोहिता रक्ता जाता । क्व सति । विषाणे शृङ्गे अर्थान्महिषस्य श्लिष्टे लग्ने सति । पुनः । महिषे पादोत्पिष्टे अत एव परासौ गतप्राणे निपतति सति प्राक्स्वभावेन पूर्वप्रकृत्या गौरी अवदाता जाता । एवं त्रिरूपा देवी त्रिभिर्महादेवनयनैस्तुल्येति भावः ॥ गम्यं नाग्नेर्न चेन्दोः दिनकृतां द्वादशानामसह्यं शक्रस्याक्षणां सहस्रं सह सुरसदसा सादयन्तं प्रसह्य । १. 'मुषितभियः'. २. 'शोणितस्य'. ३. 'रक्षन्तु त्वाम्'. ४. 'प्रतिनयन इवाविष्कृतान्योन्यभावा'. ५. 'जितेन्दुम्'. ६. 'अशक्यम्'. काव्यमाला। उत्पातोग्रान्धकारागममिव महिषं निघ्नती शर्म दिश्या- द्देवी वो वामपादाम्बुरुहनखमयैः पञ्चभिश्चन्द्रमोभिः ॥ ४२ ।। वामपादकमलनस्वरूपैः पञ्चभिश्चन्द्रैरुत्पातोग्रान्धकारागममिव महिषं नि- ध्नती देवी वः शर्म दिश्यात् । कथंभूतम् । अग्नेर्न गम्यं न तिरस्करणीयम्। इन्दोश्चन्द्रस्य च न गम्यम् । सपदि द्वादशानां दिनकृतामादित्यानामसह्यम् । सुरसदसा देवसभया सह शक्रस्याक्ष्णां सहस्रं प्रसह्य सादयन्तं म्लानयन्तम्।। दत्त्वा स्थूलान्त्रमालावलिविघसहसद्धस्मरप्रेतकान्तं कात्यायन्यात्मनैव त्रिदशरिपुमहादैत्यदेहोपहारम् । विश्रान्त्यै पातु युष्मान्क्षणमुपरि 1धृतं केसरिस्कन्धभित्ते- र्बिभ्रत्तत्केसरालीमलिमुखररणन्नूपुरं पादपद्मम् ।। ४३ ॥ कात्यायन्या केसरिस्कन्धभित्तेरुपरि विश्रान्त्यै क्षणं धृतं पादपद्मं युष्मान्पा- तु । कथंभूतं पादपद्मम् । तत्केसरालीः सिंहस्कन्धसटा बिभ्रत् । पुनः । अलि- वन्मुखरो वाचालो रणनूपुरो यत्र तत् । पद्मे हि केसरैर्भ्रमरैश्च भाव्यम् । किं कृत्वा । आत्मनैव त्रिदशरिपुमहादैत्यदेहोपहारं दत्त्वा । कथंभूतमुपहा. रम् । स्थूलात्रमालावलिः स एव विघसो भोजनशेषस्तेन हसन्त्यो घस्2राः प्रेतकान्ता यत्र । निःसारा आत्रावलिरेवासदर्थमवशेषिता देव्येति प्रेत- कान्तानां हासकारणम् ॥ कोपेनेवारुणत्वं दधद1धिकतरालक्ष्यलाक्षारसश्रीः श्लिष्यच्छृङ्गाग्रकोणक्वणितमणितुलाकोटिहुंकारगर्भः । प्रत्यासन्नात्ममृत्युप्रतिभयमसुरैरीक्षितो हन्त्वरीन्वः पादो देव्याः कृतान्तोऽपर इव महिषस्योपरिष्टानिविष्टः॥४४॥ महिषस्योपरिष्टान्निविष्टोऽपरः कृतान्तो यम इव देव्याः पादो वोऽरीन्हन्तु । कथंभूतः पादः । कोपेनेवारुणत्वं दधत् । अत एवाधिकतरालक्ष्यलाक्षारस- श्रीः । पुनः कीदृशः । श्लिष्यच्छृङ्गाग्रमेव कोणो वीणादिवादनकीलस्तेन क्व-. १. 'कृतम्'. २. 'अधिक्रमलम्. चण्डीशतकम् । २३ णिता या मणितुलाकोटिमणिनूपुरं स एव हुंकारो गर्भे यस्य । पुनः । प्रत्या- सन्नात्ममृत्युप्रतिभयं यथा स्यादेवमसुरैर्वीक्षितः । यमोऽपि कोपारुणो हुंका- रं कुर्वन्महिषोपरिस्थित आसन्नमृत्युभीतैः पुरुषैर्विक्ष्यते ॥ आहन्तुं1 नीयमाना भरविधुरभुजस्रंसमानोभयांसं कंसेनैनांसि सा वो हरतु हरियशोरक्षणाय क्षमापि । प्राक्प्राणानस्य नास्यद्गगनमुदपतद्गोचरं या शिलायाः संप्राप्यागामिविन्ध्याचलशिखरशिलावासयोगोद्यतेव ॥ १५॥ भरविधुरभुजस्रंमानोभयांसं यथा स्यादेवं कंसेनाहन्तुं नीयमाना क्षमापि समर्थापि हरियशोरक्षणायास्य कंसस्य प्राणान्प्राक्पूर्वं नास्यन्नाहरत् , किंतु शिलाया गोचरं विषयं प्राप्य आगामिविन्ध्याचलशिखरशिलावासयोगोद्यतेव गगनमुदपतत्त्, सा व एनांसि पापानि हरतु ॥ साम्ना नाम्नाययोनेर्धृतिमकृत हरेर्नापि चक्रेण भेदा- त्सेन्द्रस्यैरावणस्याप्युपरि 2कलुषितः केवलं दानवृष्टया। दान्तो दण्डेन मृत्योर्न च विफलयथोक्ताभ्युपायो हतोऽरि- र्येनोपायः स पादः सुखयतु भवतः पञ्चमश्चण्डिकायाः ॥४६॥ येन पादेनारिः शत्रुर्महिषो हतः स पञ्चम उपायश्चण्डिकायाः पादो वः सुखयतु । यो महिष आम्नाययोनेर्ब्रह्मणः साम्ना वेदविशेषेण प्रथमोपायेन च धृतिं नाकृत न कृतवान् । हरेश्चक्रेण भेदाद्विदारणाद्वितीयोपायाच्चापि धृतिं परितोषं न कृतवान् । सेन्द्रस्यैरावणस्य दानवृष्ट्या मदवर्षणेन तृतीयोपायेन च केवलमुपरि कलुषितो मलिनत्वं गतः, अथवा क्रोधं गतो न तु तुष्टः । न च मृत्योर्यमस्य दण्डेनायुधेन चतुर्थोपायेन च दान्तो दमितः । अत एवं विफलयथोक्ताभ्युपायः निष्फलीकृतसामाद्युपायः ॥ भर्ता कर्ता त्रिलोक्यास्त्रिपुरवधकृती पश्यति त्र्यक्ष एष क्व स्त्री क्वायोधनेच्छा न तु सदृशमिदं प्रस्तुतं किं मयेति । १. 'आघातम्'. २. 'पुलकितः'. ३. 'नुदतु भवदधम्'. २४ काव्यमाला। मत्वा सव्याजसव्येतर1चरणचलाङ्गुष्ठकोणाभिमृष्टं सद्यो या लज्जितेवासुरपतिमवधीत्पार्वती पातु सा वः॥ ४७ ॥ सव्याजं यथा स्यादेवं सव्येतरचरणस्य वामपादस्य चलाङ्गुष्टकोणेनाभि- मृष्टमसुरपतिं सद्यो यावधीत्सा पार्वती वः पातु । या इति मत्वा लज्जितेव । इतीति किम् । त्रिलोक्याः कर्ता त्रिपुरवधकृती एष ध्यक्षः शिवो मम भर्ता पश्यति । स्त्री क्व, आयोधनेच्छा क्व । न त्विदं सदृशमुचितम् । मया किं प्रस्तुतमारब्धम् ॥ वृद्धोक्षो न क्षमस्ते भवतु भव भवद्वाह एषोऽधुनेति क्षिप्तः पादेन देवं प्रति झटिति यया केलिकान्तं विहस्य । दन्तज्योत्स्नावितानैर2तनुभिरतनुर्यक्कृतार्धेन्दुभाभि- र्गौरो गौरेव जातः क्षणमिव महिषः सावतादम्बिका वः ॥४८॥ हे भव शिव, ते वृद्धोक्षो वृद्धवृषो न क्षमः, अधुना एव महिषो भवद्वाहो भवत्विति केलिकान्तं यथा स्यादेवं विहस्य देवं शिवं प्रति झटिति यया महिषः पादेन क्षिप्तः सा अम्बिका वोऽवतात् । कथंभूतो महिषः । अतनु- भिर्यक्कृतार्धेन्दुभाभिर्दन्तज्योत्स्नावितानैर्गौरः शुभ्रः, अतः क्षणमिव क्षण- मात्रं गौरेव वृष एव जातः॥ प्राक्कामं दहता कृतः परिभवो येन त्रि3संध्यानतैः सेर्ष्या वोऽवतु चण्डिका चरणयोः स्वं पातयन्ती पतिम् । कुर्वत्याभ्यधिकं कृते प्रतिकृतं मुक्तेन मौलौ मुहु- र्बाष्पेणाहितकज्जलेन लिखितं स्वं नाम चन्द्रे यया ।। ४९॥ त्रिसंध्यानतैस्त्रिसंध्यानमनैः स्वं पतिं चरणयोः पातयन्ती चण्डिका वोऽवतु । येन पत्या प्राक्पूर्वं कामं दहता परिभवः कृतः । अत एव सेर्ष्या । यया चण्डिकया कृतेऽभ्यधिकं प्रतिकृतं कुर्वत्या आहितकज्जलेन मुहुर्मौलो १. 'चरणनखाङ्गुष्ठकोणेन पिष्ट्वा'. २. 'अलभत तनुभिः'. ३. 'त्रिसंध्या- नतेः'. ४. 'नामेव'. 1 चण्डीशतकम् । २५ मुक्तेन बाष्पेण स्वं नाम चन्द्रे लिखितम् । हरेण गौरीसमक्षं कामो दग्धः, तया च काममुत्पादयन्त्या हरश्चरणयोः पातित इति कृताभ्यधिकं प्रतिकृतम् ॥ तु1ङ्गां शृङ्गाग्रभूमिं श्रितवति मरुतां प्रेत2काये निकाये कुञ्जौत्सुक्याद्विशत्सु श्रुतिकुहरपुटं द्राक्क्कुप्कुञ्जरेषु । स्मित्वा वः संहृतासोर्दशनरुचिकृताकाण्डकैलासभासः पायात्पृष्ठाधिरूढे स्मरमुषि महिषस्योच्चहासेव देवी ॥ ५० ॥ स्मित्वा संहृतासोर्दशनरुचिकृताकाण्डकैलासभासो महिषस्य प्रेतकाये मरुतां निकाये देवसमूहे शृङ्गाग्रभूमिं श्रितवति सति । ककुष्कुञ्जरेषु दिग्ग- जेषु कुञ्जौत्सुक्याच्छ्रुतिकुहरपुटं द्राक् विशत्सु सत्सु । स्मरमुषि शिवे पृष्ठा- धिरूढे सति उच्चहासेव देवी वः पायात् ॥ कृत्वा 3पातालपङ्के क्षयरयमिलितैकार्णवेच्छावगाहं दाहान्नेत्रत्रयाग्नेर्विलयन4विगलच्छृङ्गशून्योत्तमाङ्गः । क्रीडाक्रोडाभिशङ्कां विदधदपिहितव्योमसीमा महिम्ना वीक्ष्य क्षुण्णो ययारिस्तृणमिव महिषः सावताद5म्बिका वः ५१ यया महिषोऽरिर्वीक्ष्य तृणमिव क्षुण्णश्चूर्णीकृतः साम्बिका वोऽवतात् । किं कृत्वा । क्षयरयेण प्रलयवेगेन मिलितः स चासावेकार्णवश्च तत्रेच्छया- वगाहस्तं पातालपङ्के कृत्वा । यथादिवराहः प्रलयैकार्णवेऽवगाहं कृतवान्, तथानेन पातालपङ्के कृतमिति भावः । कथंभूत । नेत्रत्रयाग्नेर्दाहाद्विलयनं तेन विगलन्ती ये शृङ्गे ताभ्यां शून्यमुत्तमाङ्गं शिरो यस्य । पुनः कथंभूतः । महिम्ना महत्त्वेनापिहितव्योमसीमाच्छादितगगनप्रान्तः । अत एव क्रीडाक्रो- डाभिशङ्कां लीलावराहभ्रान्तिं विदधत्कुर्वाणः ॥ शूले शैलाविकम्पं न निमिषितमिषौ पट्टिशे साट्टहासं प्रासे सोत्यासमव्याकुलम6पि कुलिशे जातशङ्कं न शङ्कौ । १. 'तुङ्गाः शृङ्गाग्रभूमीः'. २. 'प्रोतकाये', ३. 'पातालपड्केः क्षयरयमि- लितैरर्णवेच्छा-'. ४. 'विलसत्'. ५. 'कालिका वः'. ६. 'इव'. काव्यमाला॥ चक्रेऽ1वक्रं कृपाणे न कृपणमसुरारातिभिः पात्यमाने दैत्यं पादेन देवी महिषितवपुषं पिंषती वः पुनातु ॥ ५२ ।। महिषितवपुषं दैत्यं पादेन पिंषती चूर्णयन्ती देवी वः पुनातु । किंभू- तम् । असुरारातिभिर्देवैः पात्यमाने शूले शैलवदविकम्पम् । इषौ शरे न निमिषितं निर्निमेषलोचनम् । पट्टिशे साट्टहासम् । प्रासे कुन्ते सोत्प्रासं सम- नाक्सिराम् । कुलिशे वज्रेऽपि अन्याकुलम् । शङ्कौ आयुधविशेषे न जात. शङ्कम् । चक्रेऽवक्रं सरलमेव स्थितम् । कृपाणे खड़गे न कृपणं न दीनम् । असुरारातिभिः पात्यमाने इति सर्वत्र योज्यम् ॥ चक्रे चक्रस्य नाख्या न च खलु परशोर्न क्षुरप्रस्य नासे- र्यद्वक्रं कैतवाविष्कृतमहिषतनौ विद्विषत्याजिभाजि । प्रोताप्रासेन मूर्ध्नः सघृणमभिमुखायातया कालरात्र्या कल्याणान्याननाब्जं सृजतु तदसृजो धारया वक्रितं वः ॥५३॥ यञ्चक्रस्य । अर्थान्महिषक्षिप्तस्य । अख्या धारया वक्रं न चक्रे न च खलु परशोः कुठारस्य, अख्या । न क्षुरप्रस्य बाणविशेषस्य । न चासेः खड्ग- स्य । कस्मिन्सति । कैतवाविष्कृतमहिषतनौ कपटमहिषे विद्विषति शत्रौ आ- जिभाजि युद्धं कुर्वति सति । किं तु प्रासेन कुन्तेन प्रोतान्मूर्ध्नो महिषमस्त- कादभिमुखायातया संमुखागतया असृजो रुधिरस्य धारया सघृणं यथा स्या- देवं वक्रितं तत्कालरात्र्या भगवत्या आननाब्जं मुखकमलं वः कल्याणानि सृजतु करोतु । सङ्ग्रामे नानायुधपातेऽपि भगवत्या मुखं न कूणितम् । किंतु संमुखमापतन्त्या महिषमस्तकोद्भूतरुधिरधारया घृणया कूणितमिति भावः ॥ हस्तादुत्पत्य यान्त्या गगनमगणिताधैर्यवीर्यावलेपं वैलक्ष्येणेव पाण्डुद्युतिमदितिसुतारातिमापादयन्त्याः । देर्पानल्पाट्टहासद्विगुणतरसिताः सप्तलोकीजनन्या- स्तर्जन्या जन्यदूतो नैखरुचिततयस्तर्जयन्त्या जयन्ति ॥ ५४॥ तर्जयन्त्या भर्त्संयन्त्या । अर्थादैत्यान् । सप्तलोकीजनन्या जगदम्बाया- १. 'वक्रं कृपाण'. २. 'दर्पानल्पाहासाद्विगुणितरसिताः'. ३. 'नखरुचिररुचः चण्डीशतकम् । स्तर्जन्याः प्रदेशिन्या नखरुचिततयो जयन्ति । कथंभूताः । जन्यस्य सङ्ग्रा- मस्य दूत्यः सङ्ग्रामसूचिकाः । कथंभूताः । दर्पणानल्पो योऽट्टहासस्तेन द्विगु- णतरं सिता अधिकशुक्लीभूताः । कथंभूतायाः । हस्तात् । अर्थात्कंसस्य । उत्पत्य गगनं यान्त्याः । पुनः कथंभूतायाः । अगणितोऽधैर्येण कातरत्वेन वीर्यावलेपो येन तमदितिसुतारातिं देवशत्रु कंसं वैलक्ष्येणेव पाण्डुद्युतिं धवलमापादयन्त्याः ॥ प्रालेयाचलपल्बलैकबिसिनी सार्यास्तु वः श्रेयसे यस्याः पादसरोजसीम्नि महिषक्षोभात्क्षणं विद्रुताः । निष्पिष्टे पतितास्त्रिविष्टपरिपौ गीत्युत्सवोल्लासिनो लोकाः सप्त सपक्षपातमरुतो भान्ति स्म भृङ्गा इव ॥ ५५ ॥ प्रालेयाचलो हिमालयः स एव पल्वलं सरस्तत्रैका मुख्या बिसिनी पद्मिनी आर्या गौरी वः श्रेयसेऽस्तु । यस्याः पादसरोजसीम्नि चरणकमलपर्यन्ते सप्त लोका भृङ्गा इव भान्ति स्म । कथंभूताः । महिषक्षोभात्क्षणं विद्रुताः, त्रिवि- ष्टपरिपौ महिषे निष्पिष्टे सति पतिप्ताः पुनर्मिलिताः । पुनः कथंभूताः । गीत्यु- त्सवोल्लासिनः । पुनः । सपक्षपाताः पक्षपातसहिता मरुतो देवा येषांते । पद्मस्थिता भ्रमरा अपि महिषादिक्षोभे सति क्षणं विद्रवन्ते क्षोभे निवृत्ते पुन- रागच्छन्ति, गीत्युत्सवोल्लासिनः पक्षपातसमुत्पन्नेन मरुतासहिताश्च भवन्ति । आ1प्राप्येषुरुदासितासिरशनेरारात्कुतः शङ्कुत- श्चक्रव्युक्रमकृत्परोक्षपरशुः शूलेन शून्यो यया । मृत्युर्दैत्यपतेः कृतः सुसदृशः पादाङ्गुली2पर्वतः पार्वत्या प्रतिपाल्यतां त्रिभुवनं निःशल्यकल्यं तया ॥ ५६ ।। तया पार्वत्या त्रिभुवनं परिपाल्यताम् । कथंभूतम् । निःशल्यकल्यं निर्ग- तेन महिषरूपशल्येन निरातुरम् । यया पार्वत्या दैत्यपतेर्महिषस्य पादाङ्गुली- पर्वतः सुसदृशो मृत्युः कृतः । कथंभूतो मृत्युः । अप्राप्येषुर्बाणागोचरः । 'उदासितासिर्निर्व्यापारः खड्गो यन्न तादृशः । अशनेर्वज्रस्याराद्दूरे वर्तमानः । १. 'अप्राप्तेषुः'. २. 'पर्वणा'. काव्यमाला। कुतः । शङ्कुतः । यो वज्रादीनामप्यसाध्यः स शङ्कुतः कुतः साध्य इति भावः। चक्रव्युक्रमकृदतिक्रान्तचक्रः । परोक्षः परशुर्यत्र सः । शूलेन शून्यः ॥ नष्टानष्टौ गजेन्द्रानवत न वसवः किं दिशो द्राग्गृहीताः शार्ङ्गिन्सङ्ग्रामयुक्त्या लघुरसि गमितः साधु तार्क्ष्येण तैक्ष्ण्यम् । उत्खाता नेत्रपङ्क्तिर्न तव 1समरतः पश्य नश्यद्बलं स्वं स्वर्र्नाथेत्यात्तदर्प व्यसुमसुरमुमा कुर्वती त्रायतां वः ॥ ५७ ॥ इत्यमुना प्रकारेणात्तदर्पं गृहीतगर्वमसुरं महिषं व्यसुं गतप्राणं कुर्वती उमा वस्त्रायताम् । इतीति कथम् । हे वसवः, नष्टान्पलायितानष्टौ गजे- न्द्रान्दिग्गजान्न अवत, किं दिशो द्राक् गृहीताः यूयमपि पलायिताः । हे शार्ङ्गिन् विष्णो, तार्क्ष्येण गरुडेन तैक्ष्ण्यं शीघ्रतां गमितः सङ्ग्रामयुक्त्या लघु- रसि इति साधु युक्तम् । हे स्वर्नाथ इन्द्र, तव नेत्रपङ्क्तिनोत्खाता केनापि नोत्पाटिता, अतस्त्वं समरतः सङ्ग्रामानश्यत्स्वं बलं सेनां पश्य ॥ श्रुत्वा शत्रुं दुहित्रा निहतमतिजडोऽप्यागतोऽह्वाय हर्षा- दाश्लिष्यञ्छैलकल्पं महिषमवनिभृद्वान्धवो विन्ध्यबुद्ध्या । यस्याः श्वेतीकृतेऽसिन्स्मितदशनरुचा तुल्यरूपो हिमाद्रि- र्द्राग्द्राधीयानिवासी2देवतमसनिरासाय सा स्तादुमा वः ॥५८॥ सा उमा वोऽवतमसनिरासाय अज्ञानान्धकारदूरीकरणाय स्वाद्भवतु । सा का । यस्याः स्मिते या दशनरुक् तया श्वेतीकृतेऽस्मिन्महिषे तुल्यरूपो हिमाद्रिद्राग्द्राधीयानिवासीत् । कथंभूतः । दुहित्रा पार्वत्या निहतं शत्रु महिषं श्रुत्वातिजडोऽप्यह्वाय शीघ्र हर्षादागतो विन्ध्यबुद्ध्या शैलकल्पं महिषमा. श्लिष्यन् । कीदृशः । अवनिभृतः पर्वता बान्धवा यस्य तादृशः॥ क्षिप्तोऽयं मन्दराद्रिः पुनरपि भवता वेष्ट्यतां वासुकेऽब्3धौ

  • 4प्रीयस्स्वानेन किं ते बिसतनुतनुभिर्भक्षितस्तार्क्ष्य नागैः ।

१. 'सुरपते'. २. 'अतनुजनुनिरासाय'. ३. 'असौ'. ४. 'प्रीतोऽनेनैव'. चण्डीशतकम् । अष्टाभिर्दिग्गजेन्द्रैः सह न हरिकरी कर्षतीमं हते वो ह्रीमत्या हैमवत्यास्त्रि1दशरिपुपतौ पान्त्विति व्याहृतानि ॥५९॥ त्रिदशरिपुपतौ महिपे हते ह्रीमत्या लज्जिताया हैमवत्याः पार्वत्या इति व्याहृतानि वः पान्तु । हे वासुके, अयं मन्दराद्रिर्मन्दरादितुल्यो महिषोऽब्धौ समुद्रे क्षिप्तो भवता पुनरपि वेष्ट्यताम् । हे तार्क्ष्य गरुत्मन् , अनेन महिषेण प्रीयस्व तृप्तो भव । बिसतनुतनुभिर्मृणालकोमलैर्नोगैर्क्षितैस्ते किम् । इमं महिषमष्टाभिर्दिग्गजेन्द्रैः सह हरिकरी ऐरावतो न कर्षति ॥ एष प्लोष्टा पुराणां त्रयमसुहृदुरःपाटनोऽयं नृसिंहो हन्ता त्वाष्ट्रं धुराष्ट्राधिप इति विविधान्युत्सवेच्छाहतानाम् । विद्वाणानां विमर्दे दितितनयमये नाकलोकेश्वराणा- मश्रद्धेयानि कर्माण्यवतु विदधती पार्वती को हतारिः॥६०॥ दितितनयमये विमर्दै दैत्यसङ्ग्रामे विद्राणानां पलायितानां पुनर्महिषव- धानन्तरमुत्सदेच्छयाहृतानामेकीभूतानां नाकलोकेश्वराणामिन्द्रादीनामश्रद्धे- यान्यसंभावनीयानि विविधानि कर्माणि विदधती कुर्वती हतारिः पार्वती वोऽवतु रक्षतु । एष पुराणां त्रयं प्लोष्टा । यद्यनेन त्रिपुरदाहः कृतः किमिति महिषसङ्ग्रामे पलायित इति भावः । एवमग्रेऽपि योज्यम् । असुहृदुरःपाट- नोऽयं नृसिंहः । अयं त्वाष्टुं वृत्रं हन्ता धुराष्ट्राधिप इन्द्रः ॥ शत्रौ शातत्रिशूलक्षतवपुषि रुषा प्रेषिते प्रेतकाष्ठां काली कीलालकुल्यात्रयम3धिकरयं वीक्ष्य विश्वासितद्यौः । त्रिस्रोतास्त्र्यम्बकेयं वहति तव भृशं पश्य रक्ता विशेषा- न्नो मूर्ध्ना धार्यते किं हसितपतिरिति प्रीतये कल्पतां वः ॥६१॥ शातत्रिशूलक्षतवपुषि शत्रौ रुषा प्रेतकाष्ठां यमदिशं प्रेषिते सति अधिकर- यमधिकवेगयुक्तं कीलालकुल्यात्रयं रुधिरधारात्रयं वीक्ष्य इति हसित्तपतिः काली वः प्रीतये कल्पताम् । इतीति किम् । हे त्र्यम्बक, इयं विश्वासि. १. 'त्रिदिवरिपुहतो'. २. 'प्रोषिते'. ३. 'अधिकतरम्'. ३० काव्यमाला। तद्यौः परिचितद्यौ रक्ता रक्तवर्णानुरक्ता च निस्रोता वहति पश्य । इयं तव मूर्ध्ना भृशं किं भो धार्यते ॥ शृङ्गे पंश्योर्ध्वदृष्ट्याधिकतरमतनुः सन्न पुष्पायुधोऽस्मि व्यालासङ्गेऽपि नित्यं न भवति भवतो मीर्नयज्ञोऽस्मि येन। त्वं मुञ्चोच्चैः पिनाकिन्पुनरपि विशिखं दानवानां पुरोऽहं पायात्सोत्प्रासमेवं हसितहरममा मृद्गती दानवं वः ॥ ६२ ।। एवं सोत्प्रासं समनाक्स्मितं यथा स्यात्तथा हसितहरं दानवं महिषं मृद्गती उमा वः पायात् । एवं कथम् । हे पिनाकिन् , ' ऊर्ध्वदृष्टया तृतीयलोचनेन मम श्रृङ्गे विषाणद्वयमधिकतरं पश्य । किं त्वहमतनुः सन्न पुष्पायुधः का- मोऽस्मि । कामोऽप्यतनुरनङ्गः, अहं चातनुरकृशः । यथा स्वयोर्ध्वदृष्ट्या कामो दग्धस्तथाहं दग्धुं न शक्यः । अथ च व्यालस्य बाणस्थासङ्गेऽपि भवतो नित्यं भीर्नं भवति। यतोऽहं यज्ञो नास्मि।यथा तव बाणपातमीत्या यज्ञः पलायित- स्तथा नाहम् । व्यालाः सर्पाश्च तेषामासङ्गेऽपि मम भीर्न, यतोऽहं नयज्ञो गारुडशास्त्रज्ञोऽस्मि । अहं दानवानां पुरः पुरत्रयमस्मि त्वं पुनरपि विशिखं बाणमुच्चैर्मुञ्च । पक्षे दानवानां पुरोऽग्रे अस्मि । दानवाग्रेसरोऽहमिति भावः । 'व्यालः स्याद्वाणसर्पयोः ॥ नन्दीशोत्सार्यमाणापसृतिसमनमन्नाकिलोकं नुवत्या नप्मुर्हस्तेन हस्तं तदनुगतगतेः षण्मुखस्यावलम्ब्य । जामातुर्मातृमध्योपगमपरिह्रते दर्शने शर्म दिश्या- न्3नेदीयच्चुम्ब्यमाना महिषवधमहे मेनया मूर्ध्युमा वः ॥६३॥ महिषवधमहे मेनया हिमवद्भार्यया मूर्ध्नि चुम्ब्यमाना उमा वः शर्म दिश्यात् । किंभूतया मेनया । नन्दीशेन उत्सार्यमाणं अपमृतिसमं अपसरण- कालतुल्यं नाकिलोकं नुवत्या स्तुवत्या । किं कृत्वा । तदनुगतगतेः षण्मु- खस्य हस्तं हस्तेनालम्ब्य । कस्सिन्सति । जामातुर्दर्शने मातृमध्योपगमपरिह्रते सति । नेदीयः समीपम् , अर्थाज्जामातुः, गौरी मेनया चुम्बिता ॥ १. 'यस्य'. २. 'नाकिनृत्यम्'. ३. "देवी संतुष्यमाणा'. a चण्डीशतकम् । भक्त्या भृग्वत्रिमुख्यैर्मुनिभिरभिनुता बिभ्रती नैव गर्वं शर्वाणी शर्मणे वः प्रशमितसकलोपप्लवा सा सदास्तु । या पार्ष्णिक्षुण्णशत्रुर्विगलितकुलिशप्रासपाशत्रिशूलं नानौकोलोकमेव स्वमपि भुजवनं संयुगेऽवस्त्वमंस्त ॥ ६४ ॥ भक्त्या भृग्वत्रिमुख्यैर्मुनिभिरभिनुता, तथा गर्वं नैव बिभ्रती, प्रशमित- सकलोप्लवा सा शर्वाणी वः शर्मणे सदास्तु । या पार्ष्णिक्षुण्णशत्रुर्नाकौको- लोकं देवलोकं स्वं भुजवनमप्यवस्त्वपदार्थममंस्त । कथंभूतम् । संयुगे विग- लितकुलिशप्रासपाशत्रिशूलम् । देवहस्तेभ्यो भयेन भवानीभुजेभ्यश्च प्रहा- रार्थं कुलिशादीनि गलितानि ॥ चक्र शौरेः प्रतीपं प्रतिहतमगमत्प्राग्द्युधाम्नां तु पश्चा- दापच्चापं बलारेर्न परमगुणतां पूस्त्रयप्लोषिणोऽपि । शक्त्यालं मां विजेतुं न जगदपि शिशौ षण्मुखे का कथेति न्यक्कुर्वन्नाकिलोकं रिपुरवधि यया सावतात्पार्वती वः ॥६५॥ इत्यमुना प्रकारेण नाकिलोकं न्यक्कुर्वन्यया रिपुरवधि शत्रुर्हतः सा पार्वती वोऽवतात् । इतीति किम् । शौरेर्विष्णोश्चक्रं सुदर्शनं प्रतिहतं सत्प्राक्प्रथमं प्रतीपमगमत् , द्युधाम्नां देवानां तु चक्रं सैन्यं पश्चात् । बलारेरिन्द्रस्य चापं परं केवलमगुणतां नापत् , पूस्त्रयप्लोषिणः शिवस्यापि । शक्त्या सामर्थेन मां जेतुं जगदपि नालं न समर्थम्, शिशौ बाले षण्मुखे का कथा । षण्मुखः शक्त्यायुधविशेषेण मां जेष्यतीति दूरापास्तमिति भावः ॥ विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे । वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिघ्नं निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥६६॥ १. 'विगलितकुलिशापास्तशस्त्रीपिनाकम्'; 'नगणितकुलिशप्रासशस्त्रीपिना- २. 'एवं खमपि भुजवनं संयुगे'; 'आर्त द्रुतमिति रभसा संयुगे'. ३. 'अपतत्'. ४. अयं श्लोकः सरस्वतीकण्ठाभरणे शाईधरपद्धतौ च वर्तते. ३२ काव्यमाला। हे गजानन, रुद्रवृन्दे विद्राणे पलायिते सति, सवितरि सूर्ये तरले सति, वज्रिणीन्द्रे ध्वस्तवज्रे सति, शशाङ्के जाताशङ्के सति, मरुति वायौ विरमति सति, कुबेरे त्यक्तवैरे सति, वैकुण्ठे विष्णौ कुण्ठितास्त्रे सति, अतिरुषं पौरुषोपघ्ननिघ्नं पौरुषाश्रयाधीनं महिषं निर्विघ्नं यथा स्यादेवं निघ्नती भूरिभावा भवानी वो दुरितं शमयतु ॥ भूषां भूयस्तवाद्य द्विगुणतरमहं दातुमेवैष लग्नो भग्ने दैत्येन दोर्पान्महिषितवपुषा किं विषाणे विषण्णः । इत्युक्त्वा पातु मातुर्महिषवधमहे कुञ्जरेन्द्राननस्य न्यस्यन्नास्ये गुहो वः स्मितसित्तरुचिनी द्वेषिणो द्वे विषाणे॥६७॥ मातुर्महिषवधमहे महिषवधोत्सवे इत्युक्त्वा द्वेषिणो महिषस्य द्वे विषाणे शृङ्गद्वयं कुञ्जरेन्द्राननस्य गणपतेरास्ये मुखे न्यस्यन्क्षिपन्गुहो वः पातु । कथं- भूते विषाणे । स्मितसितरुचिनी स्मितेन धवलकान्ती । इतीति किम् । हे गजानन, महिषितवपुषा दैत्येन विषाणे दन्ते भग्ने सति त्वं किं विष- ण्ण: खिन्नः, अहमेष द्विगुणतरं यथा स्यादेवं भूयः पुनरपि तवाद्य भूषां दातुं लग्न एव ॥ विश्राम्यन्ति श्रमार्ता इव तपनभृतः सप्तयः सप्त यस्मि- न्सुप्ताः सप्तापि लोकाः स्थितिमुषि महिषे यामिनीधाम्नि यत्र । धाराणां रौधिरीणामरुणिमनि नभःसान्द्रसंध्यां दधान- स्तस्य ध्वंसात्सुतानेरपरदिनपतिः पातु वः पादपातैः ॥ ६८ ॥ अपरदिनपतिर्द्वितीयः सूर्योऽर्द्रेः सुता पार्वती वः पातु । कथंभूतोऽपरदि- नपतिः । यामिनीधाम्नि रात्रितुल्यवर्णे । कृष्णवर्ण इति यावत् । स्थितिमुषि लोकव्यवहारनाशके महिषे सति यस्मिञ्श्रमार्ता इव तपनभृतः सूर्यस्य सप्त सप्तयोऽश्वा विश्राम्यन्ति । किं च यत्र सप्तापि लोकाः सुप्ता इव सन्ति, तस्य महिषस्य पादपातैश्चरणप्रहारैर्ध्वंसान्नाशात् रौधिरीणां रुधिरसंबन्धिनीनां धारा- णामरुणिमनि रक्तत्वे नमःसान्द्रसंध्या नभसि या सान्द्रा निबिडा संध्या तां दधानः । सूर्योऽपि निखिललोकस्थितिहारिणीं विश्रामकारिणीं रात्रिं पादपातैः किरणपतनैर्नाशयति । रक्तवर्णां संध्यां च धारयति ॥ चण्डीशतकम् । देवारेर्दानवारेर्द्रुतमिह महिषच्छद्मनः पद्मसद्मा विद्रातीत्यत्र चित्रं तव किमिति भवन्नाभिजातो यतः सः । नाभीतोऽभूत्वयंभूरिव समरभुवि त्वं तु यद्विस्मितास्मी- त्युक्त्वा तद्विस्मितं वः स्मररिपुमहिषीविक्रमेऽव्याज्जयायाः ६९ स्मररिपोः शिवस्य महिष्याः पार्वत्या विक्रमे जयाया इत्युक्त्वा तद्विस्मितं विस्मयो व. पातु । इतीति किम् । महिषच्छद्मनो देवारेः सकाशात्पद्मसद्मा ब्रह्मा द्रुतं विद्राति पलायत इत्यत्र तव किं चिन्नम् । यतः स दानवारेर्विष्णो- र्नाभिजातो विष्णुनाभिसमुत्पन्नो भवन्वर्तते । अथ च अभिजातः कुलीनो न कुलीनस्य पलायनमनुचितम् । अत्र हे शिव इति संबोधनपदमध्याहार्यम् । यत्समरभुवि त्वं तु त्वमपि स्वयंभूरिव ब्रह्मेव नाभीतो नाभिसकाशात् , अथ च अभीतो निर्भयो नाभूत् , तद्विस्मितास्मि ॥ निस्त्रिंशेनोचितं ते विशसनमुरसश्चण्डि कर्मास्य घोरं ब्रीडामस्योपरि त्वं कुरु दृढहृदये मुञ्च शस्त्राण्यमूनि । इत्थं दैत्यैः सदैन्यं समदमपि सुरैस्तुल्यमेवोच्यमाना रुद्राणी दारुणं वो द्रवयतु दुरितं दानवं दारयन्ती ॥ ७० ॥ इत्थममुना प्रकारेण सदैन्यं दैत्यैः समदं सहर्ष च सुरैस्नुल्यमेवोच्यमाना दानवं महिषं दारयन्ती रुद्राणी वो दारुणं दुरितं द्रवयतु । इत्थं कथम् । हे निस्त्रिंशे निर्दये, उरसः, अर्थान्महिषस्य, विशसनं ते नोचितम् । हे चण्डि, घोरं कर्म महिषवधरूपमस्य क्षिप । 'असु क्षेपणे' । अस्योपरि त्वं व्रीडां कुरु । पशुवधेन लज्जा भवति । हे दृढहृदये, दृढमपराधसहिष्णु हृदयं यस्या- स्तत्संबुद्धौ । अमूनि शस्त्राणि मुञ्च दूरे परिहर । इत्थं दैत्यैरुच्यमाना । देवै- स्तु हे चण्डि, निस्त्रिंशेन खड्गेनोरसः, अर्थान्महिषस्य वक्षसः, ते विशसन- मुचितम् । यतोऽस्य कर्म घोरं वर्तते । व्रीडामस्योपरि त्वं कुरु । यदि महि- षवधो न क्रियते तदा महती व्रीडा तव भविष्यतीति भावः । हे दृढहृदये कठिनहृदये, अमूनि शस्त्राण्यस्योपरि मुञ्च । सर्वैः शस्त्रैर्युगपदेव प्रहर ॥ १. "विस्मितास्मांस्त्यक्त्वा'; 'विस्मितासीत्युक्त्वा'. २. 'जया वः'. ३. 'दृढ- हृदयम्'. ३ चतु काव्यमाला। चक्षुर्दिक्षु क्षिपन्त्याश्चलितकमलिनीचारुकोषाभिताग्रं मन्द्रध्वानानुयातं झटिति वलयिनो मुक्तबाणस्य पाणेः । चण्ड्याः सव्यापसव्यं सुररिपुषु शरान्प्रेरयन्त्या जयन्ति त्रुट्यन्तः पीनभागे स्तनवलनभरात्संधयः कञ्चुकस्य ।। ७१ ॥ स्तनवलनभरात्पीनभाग उपचितप्रदेशे त्रुट्यन्तश्चण्ड्याः कञ्चुकस्य संधयो जयन्ति । कथंभूतायाः । चलितकमलिनीचारुकोषामिताभ्रम् , अथ च वल- यिनो झटिति मुक्तबाणस्य पाणेर्हस्तस्य मन्द्रध्वानेनानुयातं चक्षुर्दिक्षु क्षिप- स्त्याः । पुनः कथंभूतायाः । सव्यापसव्यं सुररिपुषु शरान्प्रेरयन्त्याः ॥ बाहूत्क्षेपसमुल्लसत्कुचतटं प्रान्तस्फुटत्कञ्चुकं गम्भीरोदरनाभिमण्डलगलत्काञ्चीधृतार्धांशुकम् । पार्वत्या महिषासुरव्यतिकरे व्यायामरम्यं वपुः पर्यस्तावधिबन्धबन्धुरलसत्केशोच्चयं पातु वः ॥ ७२ ॥ महिषासुरव्यतिकरे बाहूत्क्षेपसमुल्लसत्कुचतटम् , प्रान्तस्फुटत्कञ्चुकम् , गम्भीरोदरनाभिमण्डलगलत्काञ्चीधृतार्धांसशुकम्, व्यायामरम्यम् , पर्यस्ताव- धिबन्धबन्धुरलसत्केशोच्चयं पार्वत्या वपुर्वः पातु ॥ चक्रं चक्रायुधस्य क्वणति निपतितं रोमणि ग्रावणीव स्थाणोर्बाणश्च लेभे प्रतिहतिमुरुणा चर्मणा वर्मणेव । यस्येति क्रोधगर्भं हसितहरिहरा तस्य गीर्वाणशत्रोः पायात्पादेन मृत्युं महिषतनुभृतः कुर्वती पार्वती वः ॥७३॥ क्रोधगर्भं इति हसितहरिहरा महिषतनुभृतस्तस्य गीर्वाणशत्रोमृत्युं पादेन कुर्वती पार्वती वः पायात् । इतीति किम् । ग्रावणि पाषाणे इव यस्य रोमणि, अर्थान्महिषस्य निपतितं चक्रायुधस्य चक्रं क्वणति । स्थाणोः शिवस्य बाणश्व उरुणा चर्मणा वर्मणा कवचेनेव प्रतिहतिं प्रतिघातं लेभे 1 विष्णोश्चक्रमस्थ रोममपि नाच्छिनत् । शिवस्य बाणश्वास चर्ममानमपि नाभिनदिति भावः॥ १, 'रुद्राण्याः', २. 'शाररम्यम्'. चण्डीशतकम्। ३५ कृत्वा वक्रेन्दुबिम्बं चलदलकलसद्भ्रूलताचापभङ्गं क्षोभव्यालोलतारं स्फुरदरुणरुचिस्फारपर्यन्तचक्षुः । संध्यासेवापराद्धं भवमिव पुरतो वामपादाम्बुजेन क्षिप्रं दैत्यं क्षिपन्ती महिषितवपुषं पार्वती वः पुनातु ॥७४॥ संध्यायाः सेवा तयापराद्धं कृतापराधं भवं शिवमिव वामपादाम्बुजेन महिषितवपुषं दैत्यं पुरतः क्षिप्रं क्षिपन्ती पार्वती वः पुनातु । किं कृत्वा । चलदलकलसद्भ्रूलताचापभङ्गं, क्षोभव्यालोलतारं, स्फुरदरुगरुचिस्फारपर्यन्त- चक्षुर्वक्रेन्दुबिम्बं कृत्वा ॥ गङ्गासंपर्कदुष्यत्कमलवनसमुद्धूतधूलीविचित्रो वाञ्छासंपूर्णभावादधिकतररसं तूर्णमायान्समीपम् । क्षिप्तः पादेन दूरं वृषग इव यया वामपादाभिलाषी देवारिः कैतवाविष्कृतमहिषवपुः सावतादम्बिका कः ॥७५॥ कैतवाविष्कृतमहिषवपुर्ढेवारिर्यया वृषगः शिव इव पादेन दूरं क्षिप्तः साम्बिका वोऽवतात् । कथंभूतो देवारिर्वृषगश्च । गङ्गासंपर्कदुष्यत्कमलवन- समुद्धूतधूलीविचित्रः । पुनः कथंभूतः । वाञ्छासंपूर्णभावादधिकतररसं यथा स्यादेवं तूर्णं समीपमायानागच्छन् । कथंभूतः । वामपादाभिलाषी प्रसाद- यितुमपकर्तुं च वामपादे लगितुकामः ॥ भद्रे भ्रूचापमेतन्नमयसि नु वृथा विस्फुरन्नेत्रबाणं नाहं केलौ रहस्ये प्रतियुवतिकृतख्यातिदोषः पिनाकी । देवी सोत्प्रासमेवं धृतमहिषतनुं दृप्तमन्तःसकोपं देवारिं पातु युष्मानतिपरुषपदा निघ्नती भद्रकाली ।। ७६ ॥ एवं सोत्प्रासं दृप्तमन्तःसकोपं धृतमहिषतनुं देवारिमतिपरुषपदात्यन्तक- ठोरचरणेन निघ्नती भद्रकाली देवी युष्मान्पातु । एवं कथम् । हे भद्रे, १. 'कोपात्'. २. 'शमय मम रुषा' 'शमयसि तु रुषा'. ३. 'महि- पितवपुषम्'. काव्यमाला। विस्फुरन्नेत्रबाणभेतद्भ्रूचापं वृथा नमयसि नु । रहस्ये केलौ प्रतियुक्त्याः सपत्न्या कृतः ख्यातिदोषो येन तादृशः पिनाकी नाहम् । नाहं कृतगोत्रस्ख- लनः शिव इति भावः ॥ अन्योन्यासङ्गगाढव्यतिकरदलितभ्रष्टकापालमालां खां भोः संत्यज्य शंभौ खुरपुटदलितप्रोल्लसद्भूलिपाण्डुः । भद्रे क्रीडाभिमर्दी तव सविधमहं कामतः प्राप्त ईशो- त्रैवं सोत्प्रासमव्यान्महिषसुररिपुं निम्नती पार्वती वः ॥७॥ एवं सोत्यासं महिषसुररिपुं निम्नती पार्वती वोऽव्यात् । एवं कथम् । भो भद्रे, अन्योन्यासङ्गेन यो गाढव्यतिकरस्तस्मिन्दलिता अत एव भ्रष्टा या कपालसंबन्धिनी माला तां स्वां मालां शंभौ संत्यज्य खुरपुटदलितप्रोल्लसद्धू- लिपाण्डुः क्रीडयाभिमर्दो गाढालिङ्गनम् , पक्षे सङ्ग्रामः स यस्य सोऽहमीश- स्तव सविधं कामतोऽत्र प्राप्तः ॥ ज्वालाधाराकरालं ध्वनितकृतभयं यं प्रभेत्तुं न शक्तं चक्र विष्णोर्दृढास्त्रि प्रतिविहतरयं दैत्यमालाविनाशि । क्षुण्णस्तस्यास्थिसारो विबुधरिघुपतेः पादपातेन यस्या रुद्राणी पातु सा वः प्रशमितसकलोपप्लवा निर्विघातम् ॥७८|| सा प्रशमितसकलोपप्लवा रुद्राणी निर्विघातं वः पातु । सा का । यस्याः पादपातेन तस्य विबुधरिपुपतेर्महिषस्यास्थिसारः क्षुण्णः पिष्टः । तस्य कस्य । ज्वालाधाराकरालं ध्वनितकृतमयं दृढास्त्रि दैत्यमालाविनाशि विष्णोश्चकं प्रति- विहतरयं सत् यं प्रभेत्तुं न शक्तम् ।। गाढावष्टम्भपादप्रबलभरनमत्पूर्वकायोर्ध्वभागं दैत्यं संजातशिक्षं जनमहिषमिव यक्कृतात्र्याङ्गभागम् । १. 'कापालमालं खाझं विन्यस्य'. २. 'शंभोः'. ३.'क्रोडाभिमदी'. ४. 'अत्र' इति पुस्तकान्तरे नास्ति. ५. 'खनित'. ६. 'यत्र कर्तुम्'. ७. 'दृढाधि'. ८, 'स- तिविहतरयम्'. ९. 'दैत्यमायाविलासि'. १०, 'रिपुविभोः'. ११. 'भुवनोपद्रवा'. १२. 'प्रचुर'. १३. 'निज्ञातशिक्षम्'; 'नितिशिष्यम्'; 'निर्यातसारम्'; 'निर्जात- शिष्टम्'. १४. 'प्राकृताम्यानभागम्'. चण्डीशतकम् । आरूढा शूलपाणिः कृतविबुधभयं हन्तुकामं सगर्वं देयाद्वश्चिन्तितानि द्रुतमहिषवधावाप्ततुष्टिर्भवानी ॥ ७९ ॥ गाढावष्टम्भपादस्य प्रबलभरेण नमत्पूर्वकायोर्ध्वभागं न्यक्कृताग्र्याङ्गभा- गम्, अत एवं संजातशिक्षं शिक्षितं जनमहिषमिव लौकिकं महिषमिव आरूढा, शूलपाणिः, द्रुतमहिषवधावाप्ततुष्टिर्भवानी वश्चिन्तितानि देयात् । कथंभूतम् । कृतविबुधभयम् , हन्तुकामम् , सगर्वम् ॥ ब्रह्मा योगैकतानो विरहभवभयाद्धूर्जटिः स्त्रीकृतात्मा वक्षः शौरेर्विशालं प्रणयकृतपदा पद्मवासाधिशेते । युद्धक्ष्मामेवमेते विजहतु धिगिमं यस्त्यजत्येष शको दृप्तं दैत्येन्द्रमेवं सुखयतु समदा निघ्नती पार्वती वः ॥ ८०॥ ब्रह्मा योगैकतानो योगनिष्ठः । विरहभवभयाद्धूर्जटिः शिवः स्वीकृतात्मा । शौरविष्णोर्विशालं वक्षः पद्मवासा लक्ष्मीरधिशेते । एवमेते युद्धक्ष्मां सङ्गा- मभूमिं विजहतु नाम । किं तु य एष शको युद्धभूमिं त्यजति इमं धिक् । एवं दृप्तं सगर्व दैत्येन्द्रं निघ्नती समदा पार्वती वः सुखयतु ॥ एवं मुग्धे किलासीः करकमलरुचा मा मुहुः केशपाशं सोऽन्यस्त्रीणां रतादौ कलहसमुचितो यः प्रिये दोपलब्धे । वैदग्ध्यादेवमन्तःकलुषितवचनं दुष्टदेवारिनाथं देवी वः पातु पार्ष्ण्या दृढतनुमसुभिर्मोचयन्ती भवानी ॥८१॥ हे मुग्धे, एवं करकमलरुचा किल केशपाशं मुहुः मा आसीः मा क्षिप। यः दोषलब्धे प्रिये अन्यस्त्रीणां रतादौ कलहसमुचितः। एवं वैदग्ध्यादन्तःक- लुषितवचनं दुष्टाश्च ते देवारयो दैत्यास्तेषां नार्थ महिषं दृढतर्नु पार्ष्ण्या असु- भिर्मोचयन्ती भवानी देवी वः पातु ॥ १. 'विबुधरुपम्'. २. 'ब्रह्मन्'. ३. 'भवविरह'. ४. 'स्वीकृतात्मा'. ५. 'धिगिमान्यत्त्यजत्येष शत्रुः', 'विदिशं द्राक्त्यजत्वेष शक्रः'. ६. 'दृष्टम्'. ७. 'करकमलतवा'.८. 'कोपलब्धे'. काव्यमाला। बालोऽद्यापीशजन्मा समरमुडुपभृत्पांसुलीलाविलासी नागास्यः शातदन्तः स्वतनुकरमदाद्विह्वलः सोऽपि शान्तः । धिग्यासि क्वेति दुष्टं मुदिततनुमुदं दानवं सस्फुरोक्तं पायाद्वः शैलपुत्री महिषतनुभृतं निघ्नती वामपार्ष्ण्या ॥ ८२ ॥ इति सस्फुरोक्तं मुदिततनुसुदं महिपतनुभृतं दानवं वामपार्ष्ण्या निघ्नती शैलपुत्री वः पायात् । सस्फुरं स्फुरणयुक्तमुक्तं यस्य तम् । मुदितायां रोमा- ञ्चितायां तनौ मुद् यस्य तम् । इति किम् । समरं सङ्ग्रामं प्रति ईशजन्मा कार्तिकयोऽद्यापि बालः । उडुपभ्रूच्चन्द्रशेखरः शिवः पांमुलीलाविलासी भस्मो- द्धूलनासक्तः । नागास्यो गणपतिः शातदन्तः, अथ च स्वतनुकरमदाद्विह्वलः अत एव सोऽपि शान्तः । अधुना त्वं क्व यासि धिक् ॥ मूर्ध्नः शूलं ममैतद्विफलमभिमुखं शंकरोत्खानशूलं सङ्ग्रामाद्दूरमेतद्धृतमरि हरिणा मन्मनः कर्पतीव । गर्वादेवं क्षिपन्तं विवुधजनविभून्दैत्यसेनाधिनाथं शर्वाणी पातु युष्मान्पदभरदलनात्प्राणतो दूरयन्ती ॥ ८३ ॥ विबुधजनविभून्देकाधिनाधादिञ्शवादीन् , एवं गर्वाक्षिपन्तं तिरस्कुर्वाणं देत्यसेनाधिनाथं महिषं पदभरदलनाप्राणतो दूरयन्ती गतप्राणं कुर्वाणा शर्वाणी युष्मान्पानु । एवं कथम् । शंकरेणोत्खातं प्रहारार्थमुत्तम्भितं शूल- मभिमुखं सद्विफलं जातम् , एतन्मम मूर्ध्नः शूलं शिशःपीडाज्जनकम् । अतीव दुःखमिति यावत् । हरिणा एतत् अरि सुदर्शनं चक्रं सङ्ग्रामाद्दूरं धृत्तं सत् सन्मनः कर्षतीव॥ भ्राम्यद्धामौर्वदाहक्षुभितजलचरव्यस्तवीचीन्सकम्पा- न्कृत्वैवाशु प्रसन्नान्पुनरपि जलधीन्मन्दरक्षोभभाजः । १ समरसुरपतिभस्मलीलाविलासी'. २. 'लीलाभियोग्य ४. 'मृदिततनुमुदम्'. ५. 'मुस्फुटोक्तम्'. ६. 'दूरमस्मस्थितमरि. ७. 'भ्राम्य- हीमोरुदेहक्षुभितचलजल-'. ८. 'कृत्वा दागप्रसन्नान्'. चण्डीशतकम् । दर्पादायान्तमेव श्रुतिपुटपरुषं नादमभ्युद्धिरन्तं कन्याद्रेः पातु युप्मांश्चरणभरनतं पिंपती दैत्यनाथम् ।। ८४ ॥ भ्राम्यद्धामौर्वदाहैन क्षुभितैर्जलचरैर्व्यता वाचयो येषां नान्प्रसन्नान्निर्मला- ञ्जलपीन्पुनरपि मन्दरक्षोभभाजः, अर्थादाविलान, आशु कन्या दर्पदायान्च- मेव, अथ च श्रुतिपुटपस्यं कर्णकठोरं नादमभ्युदिन्नं दैत्यनाथ चरगभरेण नतं पियती अद्रेः कन्या युष्मान्पानु । मैनामिन्दोऽभिनैपी: श्रितथुशिखरां शृङ्गयुग्मस्य पार्श्व युद्धक्ष्मायां तनुं स्वां रतिनदविलसत्स्त्रीकटाक्षमेयम् । भानो किं वीक्षितेन क्षितिमहिपतनौ त्वं हि संन्यस्तपादो दर्पादेवं हत्तन्तं व्यनुमनुग्मुना कुवैती त्रायतां वः !! ८५ ।। हे इन्दो, श्रितपृथुशिखरां पर्वतशिखराश्रयां स्वां ननुं शृङ्गयुग्मस्थ, अर्था- म्मम, पार्श्व मामिनैषीः अभिमुखः मा नय । अनन्तवयं ननुः रनिमदविल- सत्स्त्रीकटाक्षक्षमा । हे भानो, वीक्षिनेन किम् । त्वं क्षितिमाहियेषु प्राकृ- तमहिषेत्र संन्यम्नवादः । अहं तादृशो महिषो न भवामि । यत्र स्वं पाद- न्यासं कर्तुमिच्छमीनि भावः। एवं इडियन्नममु व्यचं मनमा कृर्वती उमा वखायनाम्॥ सङ्ग्रामात्रस्तुमेनं त्यज निजनहितं लोकजीवेश मृत्यों स्थातुं शूलाग्रभूमौ गतमयमजयं मत्तमेनं गृहाण । दैत्ये पादेन बस्छ महिना मायने दीर्घनिद्रां भावोत्पतौ जयैवं हसति पिनृपति सान्त्रिका वः पुनातु ॥८॥ यस्याः पादेन च्छलमहिष्तनौ दैत्ये दीर्घनिद्रां दायिते सात जया भा- वोत्पत्तौ सत्वां पितृपति यममेवं हसति साम्बिका वः पुनातु । एवं कथम् । हे लोकजीवच मृत्यो, महामायन मीठमेनं निजमद्वियं लश, अलाप्रभूनी स्थातुं गमत्रमजयमेन मत्तं गृहाण | १. 'मैनां सुध. २. पाचम्. ३. शस्नानभूमी. ४. 'प्रापिढे'. ५. 'दा- दुर्मदे', ६. "इनिपनिम्. काव्यमाला। श्रुत्वैतत्कर्म भावादनिभृतरभसं स्थाणुनाभ्येत्य दूरा- च्छ्लिष्टा बाहुप्रसारं श्वसितभरचलत्तारका धूतहस्ता । दैत्ये 'गीर्वाणशत्रौ भुवनसुखमुषि प्रेषिते प्रेतकाष्ठां गौरी वोऽव्यान्मिलसु त्रिदिविषु तमलं लज्जया वारयन्ती ८७ भुवनसुखमुषि गीर्वाणशत्रौ दैत्ये प्रेतकाष्टां प्रेषिते सति एतत्कर्म महिष- वधरूपं श्रुत्वा भावादनिभृतरभसं यथा स्यादेवं स्थाणुना दूरादभ्येत्य बाहु- प्रसारं बाहू प्रसार्य श्लिष्टा आलिङ्गिता, अत एव धूतहस्ता श्वसितभरचल- त्तारका गौरी त्रिदिविषु देवेषु मिलत्सु सत्सु तं स्थाणु लज्जया वारयन्ती सती धोऽन्यात् ॥ भद्रे स्थाणुस्तवाड्व्रिः क्षतमहिषरणव्याजकण्डूतिरेष त्रैलोक्यक्षेमदाता भुवनभयहरः शंकरोऽतो हरोऽपि । देवानां नायिके त्वद्गुणकृतवचनोऽतो महादेव एष केलावेवं स्मरारिर्हसति रिपुवधे यां शिवा पातु सा वः॥८८॥ रिपुवधे स्मरारिः शिवो यां केलौ क्रीडायामेवं हसति सा शिवा वः पातु । एवं कथम् । क्षता महिषस्य रणब्याजेन कण्डूतिर्थेन एतादृशस्तवाङ्गिः स्थाणुः अर्थान्नाहं स्थाणुः । स्थाणौ महिषस्य कण्डूतिशमनं प्रसिद्धम् । त्रै- कोक्यक्षेमदाता तवाङ्घ्रिः, अतः शंकरः । भुवनभयहरः, अतो हरोऽपि तवाङ्घ्रिः। हे देवानां नायिके, त्वद्गुणेन कृतं वचनं शब्दो यस्य । महत्त्वं त्व- द्गुणस्तेन जातवचनो महादेवः, अत एष तवाङ्घ्रिःर्महादेवोऽपि । महिषवधे- नान्वर्थत्वात्स्थावरादयः संज्ञास्तव चरणस्यैव युज्यन्ते, नास्माकमिति भावः ॥ खड्गः कृष्णस्य नूनं रहितगुणगतिर्नन्दकाख्यां प्रयातः शत्रोर्भङ्गेन वामस्तव मुदितसुरो नन्दकस्त्वेष पादः । १. 'ईदृक्कर्म'. २. 'शंभुनागत्य'. ३. 'बाहूपसादम्'. ४. 'कोद्भूतहस्ता'. ५, 'संतापितारी'. ६. 'पोषिते'. ७. 'गौरी वोऽव्यात्स्वरूपं त्रिदशपतिपुरो लज्जया धारयन्ती'. ८. 'एव'. ९. 'क्षेमदानात'. १०. 'देवानां नायकत्वाद्गुण-'; 'देवैब्रह्मादिभिस्त्वद्गुण-'. ११. 'स्मारारौ वदति रिपुवधे पार्वती वः पुनातु'. चण्डीशतकम्। ४१ भावादेवं जयायां नुतिकृति नितरां संनिधौ देवतानां सव्रीडा भद्रकाली हतरिपुरवताद्वीक्षिता शंभुना वः ॥ ८९ ॥ देवतानां संनिधौ जयायां भावाद्भक्तिविशेषादेवं नितरां नुतिकृति सत्यां हतरिपुः सव्रीडा शंभुना वीक्षिता भद्रकाली वोऽवतात् । एवं कथम् । रहि- तगुणगतिर्नन्दकत्वगुणरहितः कृष्णस्य खड्गो नन्दकाख्यां प्रयातः । शत्रोर्भङ्गेन मुदितसुरस्तवैष वामः पादो नन्दकः ॥ एकेनैवोद्गमेन प्रविलयमसुरं प्रापयामीति पादो यस्याः कान्त्या नखानां हसति सुररिपुं हन्तुमुद्यन्सगर्वम् । विष्णोस्निः पादपद्मं वलिनियमविधावुद्धृतं कैतवेन क्षिप्रं सा वो रिपूणां वितरतु विपदं पार्वती क्षुण्णशत्रुः ॥२०॥ सुरिपुं हन्तुं सगर्वमुद्यन्यस्याः पादो नखानां कान्त्या इति हसति सा क्षुण्णशत्रुः पार्वती वो रिपूणां विपदं क्षिप्रं वितरतु । इतीति किम् । अहमेके- जैवोद्गमेनासुरं प्रविलयं प्रापयामि, विष्णोः पादपद्मं बलिनियमविधौ कैतवेन त्रिरुद्धृतम् ॥ खंड्गं खट्वाङ्गयुक्तं युवतिरपि विभो ते शरीरार्धलीना हास्यं प्रागेव लब्धं सुरजनसमितौ दुष्कृतेन त्वयैवम् । जाता भूयोऽपि लज्जा रणत इयमलं हास्यता शूलभर्त- र्दपादेवं हसन्तं भवमसुरमुमा निघ्नती त्रायतां वः ॥ ९१ ॥ दादहंकाराद्भवं शिवमेवं हसन्तमसुरं निघ्नती उमा वस्त्रायताम् । एवं कथम् । हे शूलर्भतः, तव खड्गं खट्वाङ्गयुक्तम् । हे विभो, युवतिर्भार्यापि ते शरीराध लीना । एवं दुष्कृतेन दुष्टाचरणेन त्वया सुरजनसमितौ देव- सभायां प्रागेव हास्यं लब्धम् । भूयोऽपि रणतो युद्धादियं लज्जा पलायनरूपा जाता । इयमलं परिपूर्णरूपेण हास्यता ॥ १. 'गतानाम्'. २. 'उद्गतेन प्रविजयमपरम्'. ३. 'सह विबुधरिपुम्'. 'हसितसुररिपुम्'. ४. 'उद्तम्'. ५. 'क्षिप्तम्'. ६. 'गङ्गा मौलौ विलग्नायुवति- रिति'; 'खटाझं खड्गयुक्तं युवतिरपि'. ७. 'लमम्'. ८. 'याता'. ९. 'हरम्'. ४२ काव्यमाला। स्थाणौ कण्डूविनोदो नुदति दिनकृतस्तेजसा तापितं नो तोयस्थाने न चाप्तं सुखमधिकतरं गाहनेनाङ्गजातम् । शून्यायां युद्धभूमौ वदति हि धिगिदं माहिषं रूपमेकं रुद्राण्यारोपितो वः सुखयतु महिषे प्राणहृत्पादपद्मः ॥ ९२॥ सर्वदेवपलायनाच्छून्यस्यां युद्धभूमौ इति वदति महिपे रुद्राण्या आरो- पितः प्राणहृत्पादपद्मो वः सुखयतु । इतीति किम् । स्थाणौ शिवे कीलके च यदि कण्डूविनोदः क्रियते तदा तं नुदति । यतोऽयं स्थाणुः स्थिरो नास्तीति भावः । नोऽस्माकमङ्गजातमङ्गसमूहो दिनकृतः सूर्यस्य तेजसा तापितम् , किंतु तोयस्थाने वरुणालये च गाहनेनाधिकतरं सुखं नाप्तम् । वरुणोऽपि पलाय्य गत इति भावः । तस्मादिमं माहिषं रूपं धिक् ॥ पिंषञ्छैलेन्द्रकल्पं महिषमतिगुरुर्भग्नगीर्वाणगर्वं शंभोर्जातो लधीयाञ्छ्रमरहितर्वपुर्दूरमभ्यूह्यपातः । वामो देवारिपृष्ठे कनकगिरिसदां क्षेमकारोऽड्व्रिपद्मो यस्या दुर्वार एवं विविधगुणगतिः सावतादम्बिका वः ॥९३॥ यस्या अङ्घ्रिपद्म एवं विविधगुणगतिरस्ति साम्बिका वोऽवतात् । कथं- भूतः । भन्नगीर्वाणगर्वं शैलेन्द्रकल्पं महिषं पिंषन् , अतिगुरुरपि शंभोर्लघी- याञ्जातः । पुनः कथंभूतः । श्रमरहितवपुः दूरमभ्यूह्योऽभ्यूहनीयः पातो गतिर्यस्य । यो हि गुरुर्भवति स श्राम्यति, दूरं च न याति । अयं तु श्रमर- हितवपुर्दूरपाती च । देवारेर्महिषस्य पृष्ठे वामः प्रतिकूल: । कनकगिरिसदां देवानां क्षेमकारः कल्याणजनकः ।। मार्गं शीतांशुभाजां सरभसमलघुं हन्तुमुद्यन्सुरारिं नेत्रैरुद्वृत्ततारैः सचकितममरैरुन्मुखैर्वीक्ष्यमाणः । १. 'कण्डूविनोदात्'. २. 'नः'; 'वः'. ३. 'एवम्'. ४. 'शीर्णगीर्वाणगर्वम्'; 'शीर्णगीर्वाणगर्वः'. ५. 'यातो गरीयान्'. ६. 'वपुर्व्यस्त उत्पात्य कोपात्'. ७. 'क्षेमकारो हि यस्याः पादोऽतुल्यप्रभाव.'. ८. 'असुरैः'. चण्डीशतकम् । ४३ यस्या वामो महीयान्मुदितसुरमनाः प्राणहृत्पादपद्मः प्राप्तस्तन्मूर्धसीमां सुखयतु भवतः सा भवानी हतारिः ॥९॥ यस्था वामः पादपद्मस्तस्य महिषस्य मूर्धसीमां प्राप्तः सा मुदिनसुरमना हतारिर्भवानी वः सुखयतु । कथंभूतः पादपद्मः । सरभसं यथा स्यादेवम- लघु सुरारिं हन्तुं शीतांशुभाजां नक्षत्राणां मार्गमाकाशमुद्यन्नुत्पतन् । अत एव सचकितं यथा स्यादेवमुद्वृत्तारैर्नेवैरुन्मुखैरमरैवीक्ष्यमाणः । पुनः कथंभूतः । प्राणहृत् । अर्थान्महिषस्य ॥ मूर्धन्यापातभग्ने मिषमहिषतनुः सन्ननिःशब्दकण्ठः शोणाब्जाताम्रकान्तिप्रततधनबृहन्मण्डले पादपद्मे । यस्या लेभे सुरारिमधुरसनिभृतद्वादशार्धाड्घ्रिलीलां शर्वाणी पातु सा वस्त्रिभुवनभयहृत्वर्गिभिः स्तूयमाना ।।९५॥ यस्याः पादपद्मे मिषमहिपतनुः कपटमहिषः सुरारिर्मधुरसे निभृतस्य नि- श्वलस्य द्वादशार्धाङ्घ्रेः षट्पद्रस्य भ्रमरख लीलां लेभे सा त्रिभुवनभयहृत्स्व- र्गिभिर्देवैः स्तूयमाना शर्वाणी वः पातु । कथंभूने पादपद्मे । शोणाबदा- ताम्रा कान्तिर्यस्य, प्रततं प्रकर्षेण बिस्तीण घनं निबिडं बृहन्मण्डलमाभोगो यस्य तयोः समाहारस्तस्मिन् । कथंभूतं सुरारिः । मूर्धनि मस्तक आपातेन प्रहारेण भने सति मन्ननिःशब्दकण्ठः । अत एव निश्चलभ्रमरतुल्यतां गत ॥ पादोत्क्षेपाद्व्रजद्भिर्नखकिरणशतैभूषितश्चन्द्रगौरै- र्मूर्धाग्रे चापतद्भिश्चरणतलगतैरंशुभिः शोणशोभः । संन्यस्तालीनरत्नप्रविरचितकरैश्चर्चितः क्षिप्तकायै- र्यत्या देवैः प्रणीतो हविरिव महिषः सावतादम्बिका व: २६ यस्याः क्षिप्तकायैर्दण्डवत्प्रणमद्भिर्देवर्हविरिव संस्कृतं हव्यमिव महिषः प्रणीत उपनीतः साम्बिका वोऽवतान् । कथंभूतो महिपः । पादोत्क्षेपाद्र- जनिश्चन्द्रगौरैर्नस्वकिरणशतैर्भूषितः । पुनः कथंभूतः । मूर्धाग्र आपतद्भिश्च- १. 'सुरमहियतनुः'; "मिषतनुमहियः'. ६. 'कान्तिः', ३. 'लसन्मण्डल'. ४. 'मधुपमुनिमृत-'. ५. 'सर्वत्रिभुवन-'. ६. 'पद्मशोणः', काव्यमाला। रणतलगतैरंशुभिः शोणशोभः । पुनः कथंभूतः। संन्यस्तान्यालीनानि च यानि रत्नानि । अर्थाद्देवमुकुटेषु । तेषां प्रविरचितैः करैः किरणैश्चर्चितः । यो हि देवतायै हविरुपनयति स दण्डवत्प्रणतो भवति । अत्र हविर्मांसपि- ण्डम् । तच्च शुक्लं रक्तं च भवति । क्वायं तीक्ष्णोग्रधाराशतनिशितवपुर्वज्ररूपः सुरारिः पादश्चायं सरोजद्युतिरनतिगुरुर्योषितः क्वेति देव्याः । ध्यायं ध्यायं स्तुतो यः सुररिपुमथने विस्मयावद्धचित्तैः पार्वत्याः सोऽवताद्वस्त्रिभुवनगुरुभिः सादरं वन्द्यमानः ॥९॥ त्रिभुवनगुरुभिर्ब्रह्माद्यैः सुररिपुमथने विस्मयाबद्धचित्तैरिति ध्यायं ध्याय ध्यात्वा ध्यात्वा यः स्तुतः सादरं वन्द्यमानश्च स पार्वत्याः पादो वोऽवतात् । इति कथम् । तीक्ष्णोग्रधाराशतनिशितवपुरयं वज्ररूपः सुरारिः क्व । अयं सरोजद्युतिर्योषितो देव्या अनतिगुरुः पादश्च क्व । महदन्तरमिति भावः ।। वजित्वं वज्रपाणेर्दितितनयभिदश्चक्रिणश्चक्रकृत्यं शूलित्वं शूलभर्तुः सुरकटकविभोः शक्तिता षण्मुखस्य । यस्याः पादेन सर्वं कृतममररिपोर्बाधयैतत्सुराणां रुद्राणी पातु सा वो दनुविफलयुधां स्वर्गिणां क्षेमकारी ॥९८|| यस्याः पादेनामररिपोर्महिषस्य बाधया सुराणामेतत्सर्वं कृतं सा रुवाणी वः पातु । कथंभूतानां सुराणाम् । दनुषु दनुजेषु विफलं युद्धं येषां तेषाम् । कथंभूता रुद्राणी । स्वर्गिणां क्षेमकारी देवकल्याणकर्वी । एतत्किम् । वज्र- पाणरिन्द्रस्य वज्रित्वं वज्रकार्यम् । दितितनयभिदश्चक्रिणो विष्णोश्चक्रित्वम् । शूलभर्तुः शिवस्य शूलित्वम् । सुरकटकविभोर्देवसेनापतेः षण्मुखस्य कार्तिके- यस्य शक्तिता । वज्रादीनां कृत्यं देव्याश्चरणेनैव साधितमिति भावः ॥ १. 'अमरगुरोयोपितः'. २. 'ध्यात्वा ध्यात्वा'. ३. 'सावतात्'. ४. 'वीक्ष्य- माग.'; 'वन्दित्तायाः'. ५. 'दितिदनुजभिदः'. ६. सुरसमितिविभोः'. ७. 'दिति- तनयभृतः'. चण्डीशतकम् । ४५ पङ्गुर्नेता हरीणामसमहरियुतः स्वन्दनश्चैकचक्रो भानोः सामग्र्यपेतः कृत इति विधिना त्यक्तवैरः पतङ्गे । दर्पाद्भ्राम्यन्रणक्ष्मां प्रतिभटसमराश्लेषलुब्धः सुरारि- र्यस्याः पादेन नीतः पितृपतिसदनं सावतादम्बिका वः ॥९९॥ पतङ्गे सूर्ये इति त्यक्तवैरः प्रतिभटसमराश्लेषलुब्धः अत एव दर्पाद्रणक्ष्मां युद्धभूमिं भ्राम्यन्सुरारिर्यस्याः पादेन पितृपतिसदनं यमलोकं नीतः साम्बिका वोऽवतात् । इति किम् । हरिणामश्वानां नेता सारथिः पङ्गुः । स्यन्दनो रथोऽसमहरियुतो विषमाश्व एकचक्रश्च । एवं भानो रथो विधिना सामग्न्य- पेतः सामग्रीविकलः कृतः । इति हेतोः सूर्ये त्यक्तवैरः ।। युक्तं तावद्गजानां प्रतिदिशमयनं युद्धभूमेर्दिगीशां हीयेताशागजत्वं सुभटरणकृतां कर्मणा दारुणेन । यद्येष स्थाणुसंज्ञो भयचकितदृशा नश्यतीत्यद्भुतं त- द्दर्पादेवं हसन्तं सुररिपुमवतान्निघ्नती पार्वती वः ।। १०० ॥ दर्पादेवं हसन्तं सुररिपुं निघ्नती पार्वती वोऽवत्तान् । एवं कथम् । दि. गीशां गजानां दिग्गजानां युद्धभूमेः सकाशात्प्रतिदिशमयनं स्वस्वदिग्गमनं तावद्युक्तम् । यतः सुभटैः सह रणकृतामेषां दारुणेन कर्मणा मरणरूपेगा- शागजत्वं दिग्गजत्वं हीयेत । यद्येष स्थाणुसंज्ञः शिवो भयचकितद्दशोपलक्षि- तो नश्यति इत्यद्भुतम् । स्थाणोः पलायनमाश्चर्यमिति भावः ॥ स्रस्ताङ्गः सन्नचेष्टो भयहतवचनः सन्नदोर्दण्डशाखः स्थाणुर्दृष्ट्वा यमाजौ क्षणमिह सरुपं स्थाणुरेवोपजातः । तस्य ध्वंसात्सुरारेर्महिषितवपुषो लब्धमानावकाशः पार्वत्या वामपादः शमयतु दुरितं दारुणं वः सदैव ॥१०॥ 'प्रतिदिशगमनम्'. २. 'रणयुधाम्'. ३. 'या चैषां स्थाणुसंज्ञा भयत्र- कितदृशाम्'. ४. “यं दृष्ट्वा सस्तचेष्टः'. ५. स्थाणुदैलं तमाजी'; 'स्थाणुर्दैवं यमा- औ', 'स्थाणुदृष्ट्वा सुरारिम्'. ६. 'इव सभयम्'. ७. 'भवतां ध्वान्तमन्तर्हितार्कः'. काव्यमाला। यं सुरारिं सरुषं सक्रोधमाजौ युद्धे क्षणं दृष्ट्वा स्रस्ताङ्गः सन्नचेष्टो भयहत- वचनः सन्नदोर्दण्डशाखः स्थाणुः शिवः स्थाणुः कीलक एव जातः । जडीभूत इति यावत् । तस्य महिषितवपुषः सुरारेर्ध्वंसाल्लब्धमानावकाशः पार्वत्या वामपादो वो दारुणं दुरितं सदैव शमयतु ॥ कुन्ते दन्तैर्निरुद्धे धनुषि विमुखितज्ये विषाणेन मूला- ल्लाङ्गेलेन प्रकोष्ठे वलयिनि पतिते तत्कृपाणे स्वपाणेः । शूले लोलाङ्घ्रिपातैर्ललितकरतलात्प्रच्युते दूरमुर्व्यां सर्वाङ्गीणं लुलायं जयति चरणतश्चण्डिका चूर्णयन्ती ॥१०२॥ देव्याः कुन्ते दन्तैर्महिषेण निरुद्धे सति, विषाणेन धनुषि मूलाद्विमुखि- तज्ये विमुखीभूतमौर्वीके सति, लाङ्गूलेन देव्याः प्रकोष्ठे वलयिनि वेष्टिते सति, अत एव तत्कृपाणे तदीये खड्गे स्वपाणेः स्वहस्तात्पतिते सति, लोला- ङ्घ्रिपातैर्ललितकरतलाच्छूले दूरमुर्व्या भूमौ प्रच्युते सति । चण्डिका चरणतः सर्वाङ्गीणं लुलायं महिषं चूर्णयन्ती जयति ॥ इति महाकविश्रीवाणभद्दविरचितं चण्डीशतकं सटिप्पणं समाप्तम् ।