गौरगोविन्दर्चनस्मरणपद्धतिः

विकिस्रोतः तः
गौरगोविन्दर्चनस्मरणपद्धति
विष्णुस्तोत्राणि
[[लेखकः :|]]

ध्यानचन्द्र गोस्वामी गौरगोविन्दर्चनस्मरणपद्धति
श्रीपाद ध्यानचन्द्र गोस्वामी
साधको ब्राह्ममुहूर्ते चोत्थाय निजेष्टनामानि स्मरेत्कीर्तयेद्वा
स जयति विशुद्धविक्रमः
कनकाभः कमलायतेक्षणः ।
वरजानुलम्बिसद्भुजो
बहुधा भक्तिरसाभिनर्तकः ।। १ ।।

श्रीरामेति जनार्दनेति जगतां नाथेति नारायणे*
त्यानन्देति दयापरेति कमलाकान्तेति कृष्णेति च ।
श्रीमन्नाममहामृताब्धिलहरीकल्लोलमग्नं मुहुर्
मुह्यन्तं गलद्अश्रुनेत्रं अवशं मां नाथ नित्यं कुरु ।। २ ।।

श्रीकान्त कृष्ण करुणामय कञ्जनाभ
कैवल्यवल्लभ मुकुन्द मुरान्तकेति ।
नामावलीं विमलमौक्तिकहारलक्ष्मी
लावण्यवञ्चनकरीं करवाणि कण्ठे ।। ३ ।।

कृष्ण राम मुकुन्द वामन वासुदेव जगद्गुरो
मत्स्य कच्छप नरसिंह वराह राघव पाहि मां ।
देवदानवनारदादि मुनीन्द्रवन्द्य दयानिधे
देवकीसुत देहि मे तव पादभक्तिं अचञ्चलां ।। ४ ।।

हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते
हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव ।
हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां
हे गोपीजननाथ पालय परं जानामि न त्वां विना ।। ५ ।।

श्रीनारायण पुण्डरीकनयन श्रीराम सीतापते
गोविन्दाच्युत नन्दनन्दन मुकुन्दानन्द दामोदर ।
विष्णो राघव वासुदेव नृहरे देवेन्द्रचूडामणे
संसारार्णवकर्णधारक हरे श्रीकृष्ण तुभ्यं नमः ।। ६ ।।

भाण्डीरेण शिखण्डमण्डन वर श्रीखण्डलिप्ताङ्ग हे
वृन्दारण्यपुरन्दर स्फुरद्अमन्देन्दीवर श्यामल ।
कालिन्दीप्रिय नन्दनन्दन परानन्दारविन्देक्षण
श्रीगोविन्द मुकुन्द सुन्दरतनो मां दीनं आनन्दय ।। ७ ।।

(Pअद्यावली ३३३८)
समुद्रमेखले देवि पर्वतस्तनमण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ।। ८ ।।

ततो बहिर्गत्वा मैत्रकृत्यादिविधिं कुर्यात्, दन्तधावनादिं आचरेत्, शुद्धऽसने पूर्वाभिमुखी उपविश्य निश्चलमनाः
स्मरेत्श्रीमद्गौरचन्द्रं स्वर्धुन्या दक्षिणे तटे ।
चिन्तामणिचित्तधाम्नि श्रीनवद्वीपनामके ।। ९ ।।

स्वर्धुन्यां चारुतीरे स्फुरितं अतिबृहत्कुर्मपृष्ठाभगात्रं
रम्यारामावृतं सन्मणिकनकमहासद्मषण्डैः परीतं ।
नित्यं प्रत्यालयोद्यत्प्रणयभरलसत्कृष्णसंकीर्तनाट्यं
श्रीवृन्दाटव्यभिन्नं त्रिजगदनुपमं श्रीनवद्वीपं ईडे ।। १० ।।

फुल्लच्छ्रीमद्द्रुमवल्लीतल्लजलसत्तीरा तरङ्गावली
रम्या मन्दमरुम्मरालजलजश्रेणिषु भृङ्गास्पदं ।
सद्रत्नाचितदिव्यतीर्थनिवहा श्रीगौरपादाम्बुज
धूलिधूसरिताङ्गभावनिचिता गङ्गास्ति सम्पावनी ।। ११ ।।

तस्यास्तीरसुरम्यहेमसुरसामध्ये लसच्छ्रीनव
द्वीपो भाति सुमङ्गलो मधुरिपोरानन्दवन्यो महान् ।
नानापुष्पफलाढ्यवृक्षलतिकारम्यो महत्सेवितो
नानावर्णविहङ्गमालिनिनदैर्हृत्कर्णहारी हि यः ।। १२ ।।

काण्डं मारकतं प्रभूतविटपीशाखा सुवर्णात्मिका
पत्रालिः कुरुविन्दकोमलमयी प्रावालिकाः कोरकाः ।
पुष्पाणां निकरः सुहीरकमयो वैदूर्यकीया फल
श्रेणी यस्य स कोऽपि शाखिनिकरो यत्रातिमात्रोज्ज्वलः ।। १३ ।।

तन्मध्ये द्विजभव्यलोकनिकरागारालिरम्याङ्गनम्
आरामोपवनालिविलसद्वेदीविहारास्पदं ।
सद्भक्तिप्रभया विराजितमहाभक्तालिनित्योत्सवं
प्रत्यागारं अघारिमूर्तिसुमहद्भातीह यत्पत्तनं ।। १४ ।।

एवंभूते श्रीनवद्वीपमध्ये मनसि निवासं कृत्वा तत्र श्रीगुरुदेवस्य शय्योत्थानमुखप्रक्षालनदन्तधावनादिक्रमेण यथायोग्यं सेवां कुर्यात्सेवानन्तरं ध्यायेत्यथा यामले
तत्र श्रीगुरुध्यानम्
कृपामरन्दान्वितपादपङ्कजं
श्वेताम्बरं गौररुचिं सनातनं ।
शन्दं सुमाल्याभरणं गुणालयं
स्मरामि सद्भक्तं अहं गुरुं हरिं ।। १५ ।।

श्रीगुरुपरमगुरुपरात्परगुरुपरमेष्ठिगुरूणां अनुगामित्वेन श्रीमन्महाप्रभोर्मन्दिरं गच्छेथ् ।
तत्र तद्आज्ञया श्रीनवद्वीपचन्द्रस्य शय्योत्थानं सुवासितजलेन श्रीमुखप्रक्षालनादिक्रमेण सेवां कुर्याथ् ।
तत्र श्रीमन्महाप्रभोर्ध्यानं यथा ऊर्द्ध्वाम्नाये (३.१५)
द्विभुजं स्वर्णरुचिरं वराभयकरं तथा ।
प्रेमालिङ्गनसम्बद्धं गृणन्तं हरिनामकं ।। १६ ।।

अनन्तरं श्रीवृन्दावनं ध्यायेत्
वृन्दावनं दिव्यलतापरीतं
लताश्च पुष्पस्फुरिताग्रभाजः ।
पुष्पाण्यपि स्फीतमधुव्रतानि
मधुव्रताश्श्रुतिहारिगीताः ।। १७ ।।

मध्ये वृन्दावने रम्ये पञ्चाशत्कुञ्जमण्डिते ।
कल्पवृक्षनिकुञ्जे तु दिव्यरत्नमये गृहे ।। १८ ।।

तत्र सिद्धदेहेन श्रीराधाकृष्णयोर्निशान्तलीलां स्मरेद्यथा
निशावसाने श्रीराधाकृष्णौ श्रीवृन्दानियुक्तरसमयपरमविदग्धशुकशारिवृन्दपद्यपठनजनितप्रबोधावपि गाढोपगूहनसुखभङ्गादसहिष्णुतया क्षणं अवकाश्यमानजागरौ तत्तत्पद्यप्रपठितनिशावसानसातङ्कौ पुष्पमयानन्दतल्पोत्थितौ स्वस्वकुञ्जात्तत्कालागतश्रीमल्ललिताविशाखादिप्रियसखीवृन्दसनर्मवाग्विलासेन सान्तरानन्दौ कक्खट्य्उदितजटिलाश्रवणात्सशङ्कौ सङ्गत्यागभयम्
असहमानौ तौ भीत्योत्कण्ठाकुलौ स्वस्वगृहं गच्छतः ।
एवं क्रमेण श्रीगौरचन्द्रस्य श्रीराधाकृष्णयोर्लीलां स्मरेथ् ।
निशान्तलीलास्मरणानन्तरं गुर्व्आदीन्दण्डवत्प्रणमेत्यथा
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।। १९ ।।

इति मन्त्रं पठित्वा श्रीगुरुं दण्डवत्प्रशम्य एवं परमगुरुपरात्परगुरुपरमेष्ठिगुरुगोस्वामिचरणान्क्रमेण दण्डवत्प्रणमेथ् ।
ततः श्रीगौरचन्द्रं प्रणमेत्
विश्वम्भराय गौराय चैतन्याय महात्मने ।
शचीपुत्राय मित्राय लक्ष्मीशाय नमो नमः ।। २० ।।

नित्यानन्दं अहं वन्दे कर्णे लम्बितमौक्तिकं ।
चैतन्याग्रजरूपेण पवित्रीकृतभूतलं ।। २१ ।।

निस्तारिताशेषजनं दयालुं
प्रेमामृताब्धौ परिमग्नचित्तं ।
चैतन्यचन्द्रादृतं अर्चितं तम्
अद्वैतचन्द्रं शिरसा नमामि ।। २२ ।।

गदाधर नमस्तुभ्यं यस्य गौराङ्गो जीवनं ।
नमस्ते श्रीश्रीनिवासपण्डित प्रेमविग्रह ।। २३ ।।

एवं क्रमेण गौरभक्तगणान्दण्डवत्प्रणमेथ् ।
श्रीनवद्वीपधाम्ने नमः ।
श्रीगङ्गायै नमः ।
श्रीसङ्कीर्तनाय नमः ।
श्रीगौडमण्डलाय नमः ।
कन्दर्पकोटिरम्याय स्फुरद्इन्दीवरत्विषे ।
जगन्मोहनलीलाय नमो गोपेन्द्रसूनवे ।। २४ ।।

तप्तकाञ्चनगौराङ्गि राधे वृन्दावनेश्वरि ।
वृषभानुसुते देवि प्रणमामि हरिप्रिये ।। २५ ।।

श्रीराधिकाप्राणसमां कनीयसीं
विशाखिकाशिक्षितसौख्यसौष्ठवां ।
लीलामृतेनोच्छलिताङ्गमाधुरीं
अनङ्गपुर्वां प्रणमामि मञ्जरीं ।। २६ ।।

ललितादिपरमप्रेष्ठसखीवृन्देभ्यो नमः ।
कुसुमिकादिसखीवृन्देभ्यो नमः ।
कस्तूर्यादिनित्यसखीवृन्देभ्यो नमः ।
शशिमुख्यादिप्राणसखीवृन्देभ्यो नमः ।
कुरङ्गाक्ष्यादिप्रियसखीवृन्देभ्यो नमः ।
श्रीरूपादिमञ्जरीभ्यो नमः ।
श्रीदामादिसखिवृन्देभ्यो नमः ।
सर्वगोपगोपीभ्यो नमः ।
व्रजवासिभ्यो नमः ।
श्रीवृन्दाविपिनेभ्यो नमः ।
श्रीरासमण्डलाय नमः ।
श्रीयमुनायै नमः ।
श्रीराधाकुण्डश्यामकुण्डाभ्यां नमः ।
श्रीगोवर्धनाय नमः ।
श्रीद्वादशविपिनेभ्यो नमः ।
श्रीव्रजमण्डलाय नमः ।
श्रीमथुरामण्डलाय नमः ।
सर्वावतारेभ्यो नमः ।
अनन्तकोटिवैष्णवेभ्यो नमः ।
वाञ्छाकल्पतरुभ्यश्च कृपासिन्धुभ्य एव च ।
पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः ।। २७ ।।

अथ स्नानं आचरेत्यथानद्यादौ प्रवाहाभिमुखे तडागादिषु पूर्वाभिमुखी तीर्थानि आह्वयेद्यथा
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धो कावेरि जलेऽस्मिन्सन्निधिं कुरु ।। २८ ।।

महापापभङ्गे दयालो नु गङ्गे
महेशोत्तमाङ्गे लसच्चित्तरङ्गे ।
द्रवब्रह्मधामाच्युताङ्घ्र्यब्जजे मा
पुनीहीनकन्ये प्रवाहोर्मिधन्ये ।। २९ ।।

विष्णोर्नाभ्य्अम्बुमध्याद्वरकमलं अभूत्तस्य नालीसुमेरोर्
मध्ये निःस्यन्दमाना त्वं असि भगवति ब्रह्मलोकात्प्रसूता ।
खाद्भ्रष्टा रुद्रमूर्ध्नि प्रणिपतितजला गां गतासीति गङ्गा
कस्त्वां यो नाभिवन्देन्मधुमथनहरब्रह्मसम्पर्कपूतां ।। ३० ।।

गङ्गा गङ्गेति यो ब्रूयाथ्योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ।। ३१ ।।

चिदानन्दभानोः सदा नन्दसूनोः
परप्रेमपात्री द्रवब्रह्मगात्री ।
अघानां लवित्री जगत्क्षेमधात्री
पवित्रीक्रियान्नो वपुर्मित्रपुत्री ।। ३२ ।।

राधिकासमसौभाग्य सर्वतीर्थप्रवन्दित ।
प्रसीद राधिकाकुण्ड स्नामि ते सलिले शुभे ।। ३३ ।।

ततः शुक्लवस्त्रे परिधाय श्रीहरिमन्दिरधारणं कृत्वा श्रीहरिनामाक्षरं अङ्कयेद्गात्रे
ललाटे केशवं ध्यायेन् नारायणं अथोदरे ।
वक्षःस्थले माधवं तु गोविन्दं कण्ठकूपके ।। ३४ ।।

विष्णुं च दक्षिणे कुक्षौ बाहौ च मधुसूदनं ।
त्रिविक्रमं कन्धरे तु वामनं वामपार्श्वके ।। ३५ ।।

श्रीधरं वामबाहौ तु हृषीकेशं च कन्धरे ।
पृष्ठे तु पद्मनाभं च कट्यां दामोदरं न्यसेथ् ।
तत्प्रक्षालनतोयं तु वासुदेवेति मूर्धनि ।। ३६ ।।

पूर्ववत्स्थिरासने स्थिरचित्तः तत्रादौ श्रीनवद्वीपमध्ये श्रीरत्नमन्दिरे रत्नसिंहासनोपरि भक्तवृन्दपरिसेवितं श्रीश्रीकृष्णचैतन्यदेवं गुर्वादिक्रमेण ध्यात्वा पूजयेथ् ।
तत्रादौ श्रीजगन्नाथमिश्रस्य मन्दिरं ध्यायेथ् ।
यथा चैतन्यार्चनचन्द्रिकायाम्
श्रीजगन्नाथमिश्रस्य मन्दिराङ्गनं उत्तमैः ।
नानारत्नमणियुक्तैर्विचित्रमन्दिरपुरं ।। ३७ ।।

तन्मध्ये रविकान्तिनिन्दिकनकप्राकारसतोरशं
श्रीनारायणगेहं अग्रविलसत्संकीर्तनप्राङ्गणं ।
लक्ष्म्य्अन्तःपुरपाकभोगशयनश्रीचन्द्रशालं पुरं
यद्गौराङ्गहरेर्विभाति सुखदं स्वानन्दसंवृहितं ।। ३८ ।।

तन्मध्ये नवचूडरत्नकलसं व्रजेन्द्ररत्नान्तरा*
मुक्तादामविचित्रहेमपटलं सद्भक्तिरत्नाचितं ।
वेदद्वारसद्अष्टमृष्टमणिरुट्शोभाकवाटान्वितं
सच्चन्द्रातपपद्मरागविधुरत्नालम्बियन्मन्दिरं ।। ३९ ।।

तन्मध्ये मणिचित्रहेमरचिते मन्त्रार्णयन्त्रान्विते
षट्कोणान्तरकर्णिकारशिखरश्रीकेशरैः सन्निभे ।
कूर्माकारमहिष्ठयोगमहसि श्रीयोगपीठाम्बुजे
राकेशावलिसूर्यलक्षविमले यद्भाति सिंहासनं ।। ४० ।।

पार्श्वाधःपद्मपटिघटितहरिमणिस्तम्भवैदूर्यपृष्ठं
चित्रछादावलम्बिप्रवरमणिमहामौक्तिकं कान्तिजालं ।
तूलान्तश्चीनचेलासनम्उडुपमृदुप्रान्तपृष्ठोपधानं
स्वर्णान्तश्चित्रमन्त्रं वसुहरिचरणध्यानगम्याष्टकोशं ।। ४१ ।।

तन्मध्ये श्रीगौरचन्द्रं वामे श्रीलगदाधरं ।
तद्दक्षिणेऽवधूतेन्द्रं श्रीलाद्वैतं ततः स्मरेथ् ।। ४२ ।।

तद्दक्षिणे श्रीनिवासं स्मरेत्श्रीपण्डितोत्तमं ।
स्मरेत्श्रीभक्तवृन्दं च चतुर्दिक्षु सुवेष्टितं ।। ४३ ।।

श्रीमद्गौरभक्तवृन्दे स्वीयस्वीयगणान्विते ।
रूपस्वरूपप्रमुखे स्वगणस्थान्गुरून्स्मरेथ् ।। ४४ ।।

तत्रादौ श्रीगुरुस्मरणं यथा सनत्कुमारसंहितायाम्
शशाङ्कायुतसंकाशं वराभयलसत्करं ।
शुक्लाम्बरधरं दिव्यशुक्लमाल्यानुलेपनं ।। ४५ ।।

प्रसन्नवदनं शान्तं भजनानन्दनिर्वृतं ।
दिव्यरूपधरं ध्यायेद्वरदं कमलेक्षणं ।। ४६ ।।

रूपपूर्वगुरुगणान्उगतं सेवनोत्सुकं ।
एवं रूपं गुरुं ध्यायेन्मनसा साधकः शुचिः ।। ४७ ।।

तत्समीपे सेवोत्सुकं आत्मानं भावयेद्यथा
दिव्यश्रीहरिमन्दिराढ्यतिलकं कण्ठं सुमालान्वितं
वक्षः श्रीहरिनामवर्णसुभगं श्रीखण्डलिप्तं पुनः ।
शुद्धं शुभ्रनवाम्बरं विमलतां नित्यं वहन्तीं तनुं
ध्यायेच्छ्रीगुरुपादपद्मनिकटे सेवोत्सुकां चात्मनः ।। ४८ ।।

श्रीमन्मौक्तिकदामबद्धचिकुरं सुस्मेरचन्द्राननं
श्रीखण्डागुरुचारुचित्रवसनं स्रग्दिव्यभूषाञ्चितं ।
नृत्यावेशरसानुमोदमधुरं कन्दर्पवेशोज्ज्वलं
चैतन्यं कनकद्युतिं निजजनैः संसेव्य्मानं भजे ।। ४९ ।।

कञ्जारेन्द्रविनिन्दिसुन्दरगतिं श्रीपादं इन्दीवर*
श्रेणीश्यामसद्अम्बरं तनुरुचा सान्ध्येन्दुसंमर्दकं ।
प्रेमोद्घूर्णसुकञ्जखञ्जनमदाजिन्नेत्रहास्याननं
नित्यानन्दं अहं स्मरामि सततं भूषोज्ज्वलाङ्गश्रियं ।। ५० ।।

सद्भक्तालिनिषेविताङ्घ्रिकमलं कुन्देन्दुशुक्लाम्बरं
शुद्धस्वर्णरुचिं सुबाहुयुगलं स्मेराननं सुन्दरं ।
श्रीचैतन्यदृशं वराभयकरं प्रेमाङ्गभूषाञ्चित*
मद्वैतं सततं स्मरामि परमानन्दैककन्दं प्रभुं ।। ५१ ।।

कारुण्यैकमरन्दपद्मचरणं चैतन्यचन्द्रद्युतिं
ताम्बूलार्पणभङ्गिदक्षिणकरं श्वेताम्बरं सद्वरं ।
प्रेमानन्दतनुं सुधास्मितमुखं श्रीगौरचन्द्रेक्षणं
ध्यायेच्छ्रीलगदाधरं द्विजवरं माधुर्यभूषोज्ज्वलं ।। ५२ ।।

श्रिचैतन्यपदारविन्दमधुपाः सत्प्रेमभूषोज्ज्वलाः
शुद्धस्वर्णरुचो दृग्अम्बुपुलकस्वेदैः सद्अङ्गश्रियः ।
सेवोपायनपाणयः स्मितमुखाः शुक्लाम्बराः सद्वराः
श्रीवासादिमहाशयान्सुखमयान्ध्यायेम तान्पार्षदान् ।। ५३ ।।

इति स्मरणानन्तरं श्रीगुरोराज्ञया श्रीमन्महाप्रभुं षोडशोपचारादिभिः तन्मूलमन्त्रेणैव पूजयेथ् ।
श्रीमन्महाप्रभुमन्त्रोद्धारो यथा ऊर्द्ध्वाम्नाये श्रीव्यासं प्रति श्रीनारदवाक्यं (३.१४१६)
अहो गूढतमः प्रश्नो भवता परिकीर्तितः ।
मन्त्रं वक्ष्यामि ते ब्रह्मन्महापुण्यप्रदं शुभं ।। ५४ ।।

क्लीं गौराय नम इति सर्वलोकेषु पूजितः ।
मायारमानङ्गबीजैः वाग्बीजेन च पूजितः ।
षडक्षरः कीर्तितोऽयं मन्त्रराजः सुरद्रुमः ।। ५५ ।।

मन्त्रो यथाक्लिं गौराय नमः; ह्रीं, श्रीं, क्लीं, ऐं गौराय नमः ।
एतत्पाद्यम्, एतदर्घ्यम्, एतदाचमनीयम्, एष गन्धः, एतत्पुष्पम्, एष धूपः, एष दीपः, एतन्नैवेद्यम्, एतत्पानीयजलम्, इदं आचमनीयम्, एतत्ताम्बूलम्, एतद्गन्धमाल्यम्, एष पुष्पाञ्जलिरित्यादि ।
एवं श्रीनित्यानन्दप्रभुं पूजयेत्, श्रीमन्नित्यानन्दप्रभोर्मन्त्रोद्धारो यथा (ब्रह्माण्डपुराणे धरणीशेषसम्वादे)
इति नामाष्टशतकं मन्त्रं निवेदितं शृणु ।
मया त्वयि पुरा प्रोक्तं कामबीजेति संज्ञकं ।। ५६ ।।

वह्निबीजेन पूतान्ते चादौ देव नमस्तथा ।
जाह्नवीपदं तत्रैव वल्लभाय ततः परं ।
इति मन्त्रो द्वादशार्णः सर्वत्रैव मनोहरः ।। ५७ ।।

मन्त्रो यथाक्लिं देवजाह्नवीवल्लभाय स्वाहा ।
इति मन्त्रेणैव पूजयेथ् ।
एवं श्रीअद्वैतप्रभुं पूजयेथ् ।
अथ श्रीअद्वैतप्रभोर्मन्त्रोद्धारो यथा पाद्मे
अहो गूढतमः प्रश्नो नारद मुनिसत्तम ।
न प्रकाश्यस्त्वया ह्येतद्गुह्याद्गुह्यतरं महथ् ।। ५८ ।।

कामबीजसमायुक्ता अद्वैतवह्निनायिका ।
ङेऽन्ता वै ऋषिवर्णोऽयं मन्त्रः सर्वातिदुर्लभः ।। ५९ ।।

मन्त्रो यथाक्लीं अद्वैताय स्वाहा ।
तद्अनन्तरं श्रीमन्महाप्रभोः शेषनिर्माल्येन श्रीगदाधरपण्डितं पूजयेत्तन्मन्त्रेणैव, श्रीगदाधरपण्डितमन्त्रो यथाश्रीं गदाधराय स्वाहा ।
अथ तथैव श्रीश्रीवासादिभक्तान्गुरुवर्गादीन्महाप्रभुनिर्माल्यप्रसादेन पूजयेत्, स्वस्वनामचतुर्थ्यन्तेन श्रीगुरुदेवं तु तन्मूलमन्त्रेणैव पूजयेथ् ।
श्रीगुरुमन्त्रोद्धरो यथा बृहद्ब्रह्माण्डपुराणे सूतशौनकसम्वादे
श्रीं गुं इत्येव भगवद्गुरवे वह्निवल्लभा ।
दशार्णमन्त्रराजश्च सर्वकार्येषु रक्षिता ।। ६० ।।

मन्त्रो यथाश्रीं गुं भगवद्गुरवे स्वाहा ।
ततोऽवशेषनिर्माल्यादिकं गृह्णीयात्; स्थानान्तरे च संस्थाप्य प्रभुपादपद्मे पुष्पाञ्जलिं दत्त्वा आरात्रिकं कुर्याथ् ।
तद्अन्तरं चामरव्यजनादिकं कृत्वा श्रीगुरुपार्श्वे तिष्ठन्ध्यानानुक्रमेण निरीक्षणं कृत्वा ततो बहिःपूजयेथ् ।
बहिःपूजां कृत्वानन्तरं स्वस्वगायत्रीमन्त्रान्जपेत्क्रमात्
तत्रादौ श्रीगुरुगायत्री यथा पाद्मेश्रीं गुरुदेवाय विद्महे गौरप्रियाय धीमहि तन्नो गुरुः प्रचोदयाथ् ।
प्रथमं मन्त्रगुरोः पूजा पश्चाच्चैव ममार्चनं ।
कुर्वन्सिद्धिं अवाप्नोति ह्यन्यथा निष्फलं भवेथ् ।। ६१ ।।

ध्यानादौ श्रीगुरोर्मूर्तिं पूजादौ च गुरोः पूजां ।
जपादौ च गुरोर्मन्त्रं ह्यन्यथा निष्फलं भवेथ् ।। ६२ ।।

ततो जपलक्षणं यथा (श्रीहरिभक्तिविलासः १७.१४३, १२९)
न कम्पयेच्छिरो ग्रीवां दन्तान्नैव प्रकाशयेथ् ।
मनःसंहरणं शौचं मौनं मन्त्रार्थचिन्तनं ।। ६३ ।।

मनोमध्ये स्थितो मन्त्रो मन्त्रमध्ये स्थितं मनः ।
मनोमन्त्रं समायुक्तं एतद्धि जपलक्षणं ।। ६४ ।।

अथ जपाङ्गुल्यादिनियमः (श्रीहरिभक्तिविलासः १७.११६१२०)
तत्राङ्गुलिजपं कुर्वन्साङ्गुष्ठाङ्गुलिभिर्जपेथ् ।
अङ्गुष्ठेन विना कर्म कृतस्तदफलं भवेथ् ।। ६५ ।।

कनिष्ठानामिका मध्या चतुर्थी तर्जनी मता ।
तिस्रोऽङ्गुल्यस्त्रिपर्वा स्युर्मध्यमा चैकपर्विका ।। ६६ ।।

पर्वद्वयं मध्यमाया जपकाले विवर्जयेथ् ।
एवं मेरुं विजानीयाद्ब्रह्मणा दूषितं स्वयं ।। ६७ ।।

आरभ्यानामिकामध्यात्प्रदक्षिणं अनुक्रमाथ् ।
तर्जनीमूलपर्यन्तं क्रमाद्दशसु पर्वसु ।। ६८ ।।

अङ्गुलिर्न वियुञ्जीत किञ्चित्सङ्कोचयेत्तलं ।
अङ्गुलीनां वियोगे तु छिद्रेषु स्रवते जपः ।। ६९ ।।

मध्यमा चैकपर्विका इत्युक्तेः केचित्मध्यमामध्यपर्व गृह्णन्ति तन्न ।
अथ जपक्रमो यथा
प्रथमं गुरुदेवस्य मन्त्रगायत्रीं संस्मरेथ् ।
ततः श्रीगौरचन्द्रस्य गायत्र्युच्चारणं तथा ।। ७० ।।

श्रीलावधूतेन्द्राद्वैतमन्त्रगायत्रीं संस्मरेथ् ।
ततः श्रीगदाधरस्य श्रीवासपण्डितस्य च ।। ७१ ।।

श्रीगुरुदेवस्य मन्त्रो यथाश्रीं गुं भगवद्गुरवे स्वाहा ।
अथ गायत्रीश्रीं गुरुदेवाय विद्महे, गौरप्रियाय धीमहि, तन्नो गुरुः प्रचोदयाथ् ।
इति श्रीगुरुगायत्रीस्मरणानन्तरं गुरुवर्गान्स्मरेत्; स्मरणक्रमो यथा
श्रीगुरुपरमगुरुरित्यादिक्रमेण स्वस्वप्रणाल्य्अनुसारेण स्वस्वपरिवारेश्वरपरमपरमेष्ठिगुरुपर्यन्तं ध्यानं कृत्वा स्वीयस्वीयनामानि चतुर्थ्यन्तं कृत्वा जपानन्तरं श्रीश्रीचैतन्यमहाप्रभोर्मन्त्रं गायत्रीं च स्मरेथ् ।
मन्त्रो यथा क्लीं गौराय स्वाहा ।
गायत्री यथा क्लीं चैतन्याय विद्महे विश्वम्भराय धीमहि तन्नो गौरः प्रचोदयाथ् ।
मन्त्रो यथा क्लीं देवजाह्नवीवल्लभाय स्वाहा ।
गायत्री यथा क्लीं नित्यानन्दाय विद्महे सङ्कर्षणाय धीमहि तन्नो बलः प्रचोदयाथ् ।
मन्त्रो यथा क्लीं अद्वैताय स्वाहा ।
गायत्री यथा क्लीं अद्वैताय विद्महे महाविष्णवे धीमहि तन्नो अद्वैतः प्रचोदयाथ् ।
मन्त्रो यथा श्रीं गदाधराय स्वाहा ।
गायत्री यथा गां गदाधराय विद्महे पण्डिताख्याय धीमहि तन्नो गदाधरः प्रचोदयाथ् ।
मन्त्रो यथा श्रीं श्रीवासाय स्वाहा ।
गायत्री यथा श्रीं श्रीवासाय विद्महे नारदाख्याय धीमहि तन्नो भक्तः प्रचोदयाथ् ।
श्री श्री गौरगदाधर मन्त्रो यथा क्लीं श्रीं गौरगदाधराय स्वाहा ।
अनन्तरं स्तवप्रणामादि कृत्वा श्रीगौरचन्द्राष्टकालीयसूत्रानुसरेण स्मरेत्
गौरस्य शयनोत्थानात्पुनस्तच्छयनावधि ।
नानोपकरणैः कुर्यात्सेवनं तत्र साधकः ।। ७२ ।।

श्रीनवद्वीपचन्द्रस्य चरितामृतं अद्भुतं ।
चिन्त्यतां चिन्त्यतां नित्यं मानससेवनोत्सुकः ।। ७३ ।।

निशान्ते गौरचन्द्रस्य शयनं च निजालये ।
प्रातःकाले कृतोत्थानं स्नानं तद्भोजनादिकं ।। ७४ ।।

पूर्वाह्नसमये भक्तमन्दिरे परमोत्सुकं ।
मध्याह्ने परमाश्चर्यकेलिं सुरसरित्तटे ।। ७५ ।।

अपराह्ने नवद्वीपभ्रमणं भूरिकौतुकं ।
सायाह्ने गमनं चारुशोभनं निजमन्दिरे ।। ७६ ।।

प्रदोषे प्रियवर्गाढ्यं श्रीवासभवने तथा ।
निशायां स्मरेदानन्दं श्रीमत्संकीर्तनोत्सवं ।। ७७ ।।

एवं श्रीचैतन्यदेवं निषेव्य सिद्धदेहेन श्रीकृष्णसेवाङ्गं विदध्याथ् ।
अत्र कारिका
तच्चिन्तनादिसमये कुर्यात्तदनुसारतः ।
चिन्तनं तु तयोस्तत्र वसन्गुरुगणान्वितः ।। ७८ ।।

पुनश्चाक्षुषलीलेऽस्मिन्सिद्धदेहेन साधकः ।
मनसा मानसीं सेवां अष्टकालोचितां व्रजेथ् ।। ७९ ।।

साधकः सिद्धदेहेन कुर्यात्कृष्णप्रियागृहे ।
गुरुरूपप्रियापार्श्वे ललितादि सखीगणे ।। ८० ।।

निवासं यावटे नित्यं गुरुरूपासखीयुतः ।
श्रीयावटपुरे श्रीमद्वृषभानुपुरेऽपि च ।। ८१ ।।

नन्दीश्वरपुरे राधाकृष्णकुण्डतटद्वये ।
श्रीमद्वृन्दावने रम्ये श्रीमद्वृन्दावनेशयोः ।। ८२ ।।

प्रातराद्यष्टसमये सेवनं तु क्रमेण च ।
नानोपकरणैर्दिव्यैर्भक्ष्यभोज्यादिभिः सदा ।
चामरव्यजनाद्यैश्च पादसंवाहनादिभिः ।। ८३ ।।

किशोरी गोपवनिता सर्वालङ्कारभूषिता ।
पृथुतुङ्गकुचद्वन्द्वा चतुःषष्टिगुणान्विता ।। ८४ ।।

निगूढभावा गोविन्दे मदनानन्दमोहिनी ।
नानारसकलालापशालिनी दिव्यरूपिनी ।। ८५ ।।

सङ्गीतरससंजातभावोल्लासभरान्विता ।
दिवानिशं मनोमध्ये द्वयोः प्रेमाभराकुला ।। ८६ ।।

सर्वलक्षनसम्पन्ना भावहावादिभूषिता ।
गुरुप्रसादजननी गुरुरूपाप्रियानुगा ।
गान्धर्विकास्वयूथस्था ललितादिगणान्विता ।। ८७ ।।

स्वयूथेश्वर्य्अनुगता यावटग्रामवासिनी ।
चिन्तनीयाकृतिः सा च कामरूपानुगामिनी ।। ८८ ।।

चिद्आनन्दरसमयी द्रुतहेमसमप्रभा ।
सुचीननीलवसना नानालङ्कारभूषिता ।। ८९ ।।

श्रीराधाकृष्णयोः पार्श्ववर्तिनी नवयौवना ।
गुरुदत्तस्य नाम्नोऽस्या माता वर्गाद्यमञ्जरी ।
पिता वर्गतृतीयाख्यो वर्गान्ताह्वयकः पतिः ।। ९० ।।

निवासो यावटे तस्या दक्षिणा मृद्विका हि सा ।
श्रीराधावस्त्रसेवाढ्या नानालङ्कारभूषिता ।। ९१ ।।

अस्यैव सिद्धदेहस्य साधनानि यथाक्रमं ।
एकादशप्रसिद्धानि लक्ष्यन्तेऽतिमनोहरं ।। ९२ ।।

नाम रूपं वयो वेशः सम्बन्धो यूथ एव च ।
आज्ञा सेवा पराकाष्ठा पाल्यदासी निवासकः ।। ९३ ।।

एतेषां विशेषलक्षणान्युच्यन्ते
श्रीरूपमञ्जरीत्यादिनामाख्यानानुरूपतः ।
चिन्तनीयं यथायोग्यं स्वनाम व्रजसुभ्रुवां ।। ९४ ।।

रूपं यूथेश्वरीरूपं भावनीयं प्रयत्नतः ।
त्रैलोक्यमोहनं कामोद्दीपनं गोपिकापतेः ।। ९५ ।।

वयो नानाविधं तत्र यत्तु त्रिदशवत्सरं ।
माधुर्याद्भुतकैशोरं विख्यातं व्रजसुभ्रुवां ।। ९६ ।।

वेशो नीलपटाद्यैश्च विचित्रालङ्कृतैस्तथा ।
स्वस्य देहानुरूपेण स्वभावरससुन्दरः ।। ९७ ।।

सेव्यसेवकसम्बन्धः स्वमनोवृत्तिभेदतः ।
प्राणात्ययेऽपि सम्बन्धं न कदा परिवर्तयेथ् ।। ९८ ।।

यथा यूथेश्वरीयूथः सदा तिष्ठति तद्वशे ।
तथैव सर्वथा तिष्ठेद्भूत्वा तद्वशवर्तिनी ।। ९९ ।।

यूथेश्वर्याः शिरस्याज्ञामादाय हरिराधयोः ।
यथोचितां च शुश्रूषां कुर्यादानन्दसंयुता ।। १०० ।।

चामरव्यजनादीनां सर्वाज्ञाप्रतिपालनं ।
इति सेवा परिज्ञेया यथामति विभागशः ।। १०१ ।।

श्रीराधाकृष्णयोर्यद्वद्रूपमञ्जरिकादयः ।
प्राप्त नित्यसखीत्वं च तथा स्यां इति भावयेथ् ।। १०२ ।।

पाल्यदासी च सा प्रोक्ता परिपाल्या प्रियंवदा ।
स्वमनोवृत्तिरूपेण या नित्यपरिचारिका ।। १०३ ।।

निवासो व्रजमध्ये तु राधाकृष्णस्थली मता ।
वंशीवटश्च श्रीनन्दीश्वरश्चाप्यतिकौतुकः ।। १०४ ।।

अनङ्गमञ्जरी प्रोक्ता विलासमञ्जरी तथा ।
अशोकमञ्जरी चेति रसमञ्जरिका तथा ।। १०५ ।।

रसालमञ्जरी नाम्ना तथा कमलमञ्जरी ।
करुणामञ्जरी ख्याता विख्याता गुणमञ्जरी ।। १०६ ।।

एवं सर्वाश्च विख्याताः स्वस्वनामाक्षरैः पराः ।
मञ्जर्यो बहुशः रूपगुणशीलवयोऽन्विताः ।। १०७ ।।

नामरूपादि तत्सर्वं गुरुदत्तं च भावयेथ् ।
तत्र तत्र स्थिता नित्यं भजेत्श्रीराधिकाहरी ।। १०८ ।।

भावयन्साधको नित्यं स्थित्वा कृष्णप्रियागृहे ।
तदाज्ञापालको भूत्वा कालेष्वष्टसु सेवते ।। १०९ ।।

सखीनां सङ्गिनीरूपां आत्मानं भावनामयीं ।
आज्ञासेवापराकाष्ठाकृपालङ्कारभूषितां ।
ततश्च मञ्जरीरूपान्गुर्वादीनपि संस्मरेथ् ।। ११० ।।

अथ प्रातःपूर्वाह्नलीलां स्मृत्वा मध्याह्ने सङ्गमितौ राधाकृष्णौ परस्परसङ्गजनितनानासात्त्विकविकारभूषितौ ललितादिप्रियसखीवृन्दसनर्मवाग्विलासेन जनितपरमानन्दौ नानारसविलासचिह्नौ सम्मग्नमानसौ विहितारण्यलीलौ वृन्दारण्ये सुमहीरुहमूले योगपीठोपरि उपविष्टौ एवम्भूतौ राधाकृष्णौ संस्मरेथ् ।
प्रथमं षड्दलं पद्मं तद्बहिर्वसुपत्रकं ।
तद्बहिर्दशपत्रं च दशोपदलसंयुतं ।। १११ ।।

श्रीमद्राधाकृष्णलीलारसपूरितविग्रहं ।
तत्तद्इच्छावशेनैवोन्मीलितं भाति मुद्रितं ।। ११२ ।।

प्राकारास्तद्बहिस्तत्र दिक्षु द्वारचतुष्टयं ।
चतुष्कोणाश्च षड्दल्यां षट्पद्य्अष्टादशाक्षरी ।। ११३ ।।

यथा ब्रह्मसंहितायां (२४)
सहस्रपत्रं कमलं गोकुलाख्यं महत्पदं ।
तत्कर्णिकारं तद्धाम तद्अनन्तांशसम्भवं ।। ११४ ।।

कर्णिकारं महद्यन्त्रं षट्कोशं वज्रकीलकं ।
षड्अङ्गं षट्पदीस्थानं प्रकृत्या पुरुषेण च ।। ११५ ।।

प्रेमानन्दमहानन्दरसेनावस्थितं हि यथ् ।
ज्योतीरूपेण मनुना कामबीजेन सङ्गतं ।। ११६ ।।

तत्किञ्जल्कं तद्अंशानां तत्पत्राणि श्रियां अपि ।। ११७ ।।

एवम्भूत योगपीठे श्रीश्रीराधाकृष्णौ स्मरेथ् ।
अथ श्रीकृष्णचन्द्रस्य वयोवेशादयोऽखिलाः ।
रसशास्त्रानुसारेण निरूप्यन्ते यथामति ।। ११८ ।।

 (भक्तिरसामृतसिन्धु २.१.३०८, ९)
वयः क्ॐआरपौगण्डकैशोरं इति तत्त्रिधा ।। ११९ ।।

क्ॐआरं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।
आषोडशाच्च कैशोरं यौवनं स्यात्ततः परं ।। १२० ।।

आद्यमध्यान्तभेदेन क्ॐआरादीनि च त्रिधा ।
अष्टमासाधिकं वर्षं भागत्वेन च कीर्तितं ।। १२१ ।।

तद्यथाआद्यक्ॐआरं अष्टमासाधिकं एकवर्षं एवं मध्यक्ॐआरम्, एवं च शेषक्ॐआरम्; एवं पञ्चमवर्षपर्यन्तं क्ॐआरं ज्ञेयं ।
आद्यपौगण्डं अष्टमासाधिकं एकवर्षम्; एवं मध्यपौगण्डम्; एवं च शेषपौगण्डम्; एवं च क्रमेण षष्ठवर्षं आरभ्य दशवर्षपर्यन्तं पौगण्डं ज्ञेयं ।
आद्यकैशोरं सार्धदिनद्वयोत्तरैकादशमासाधिकं एकवर्षम्; एवं मध्यकैशोरम्; एवं शेषकैशोरम्; क्रमेणैकादशवर्षं आरभ्य पञ्चदशवर्षनवमाससार्धसप्तदिनपर्यन्तं कैशोरं ज्ञेयं ।
अथ श्रीकृष्णस्य व्रजलीलातत्र श्रीकृष्णस्य व्रजलीला पञ्चदिनोत्तरषड्मासाधिकदशवर्षीया ज्ञेया (१०६५) अथ च (भ्P३.२.२६)
एकादशसमास्तत्र गूढार्चिः सबलोऽवसथ् ।। १२२ ।।

महाराजकुमारतया भोगातिशयेन समृद्ध्या वर्षमासदिनानां सार्धतया सार्धसप्तदिनोत्तरनवमासाधिकपञ्चदशवर्षपरिमितं श्रीकृष्णस्य वयो ज्ञेयं (१५९७ १ ।२) ।
अत्रैव शेषकैशोरे षोडशहायने सदा ।
व्रजे विहारं कुरुते श्रीमन्नन्दस्य नन्दनः ।। १२३ ।।

वंशीपाणिः पीतवासा इन्द्रनीलमणिद्युतिः ।
कण्ठे कौस्तुभशोभाढ्यो मयूरदलभूषणः ।। १२४ ।।

गुञ्जाहारलसद्वक्षा रत्नहारविराजितः ।
वनमालाधरो निष्क शोभोल्लसितकण्ठकः ।। १२५ ।।

वामभागस्थितस्वर्णरेखाराजद्उरःस्थलः ।
वैजयन्तीलसद्वक्षा गजमौक्तिकनासिकः ।। १२६ ।।

कर्णयोर्मकराकारकुण्डलाभ्यां विराजितः ।
रत्नकङ्कनयुग्घस्तः कौङ्कुमं तिलकं दधथ् ।। १२७ ।।

किङ्किणीयुक्तकटिको रत्ननूपुरयुक्पदः ।
मालतीमल्लिके जातियूथी केतकीचम्पके ।। १२८ ।।

नागकेशर इत्यादि पुष्पमालास्वलङ्कृतः ।
इति वेशधरः श्रीमान्ध्येयः श्रीनन्दनन्दनः ।। १२९ ।।

शृङ्गं वामोदरपरिसरे तुन्दबन्धान्तरस्थं
दक्षे तद्वन्निहितमुरलीं रत्नचित्रां दधानः ।
वामेनासौ सरललगुणं पाणिना पीतवर्णं
लीलाम्भोजं कमलनयनः कम्पयन्दक्षिणेन ।। १३० ।।

अस्यैव कृष्णचन्द्रस्य मन्त्राः सन्ति त्रयोऽमलाः ।
सिद्धाः कृष्णस्य सत्प्रेमभक्तिसिद्धिकरा मताः ।। १३१ ।।

तत्रादौ मन्त्रोद्धारो यथा सनत्कुमारसंहितायाम्
हरेकृष्णौ द्विरावृत्तौ
कृष्ण तादृक्तथा हरे ।
हरे राम तथा राम
तथा तादृग्घरे मनुः ।। १३२ ।।

हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ।
हरे राम हरे राम राम राम हरे हरे ।। १३३ ।।

अस्य ध्यानं यथा तत्रैव
ध्यायेद्वृन्दावने रम्ये
गोपगोभिरलङ्कृते ।
कदम्बपादपच्छाये
यमुनाजलशीतले ।। १३४ ।।

राधया सहितं कृष्णं
वंशीवादनतत्परं ।
त्रिभङ्गललितं देवं
भक्तानुग्रहकारकं ।। १३५ ।।

विशेषतो दशार्णोऽयं
जपमात्रेण सिद्धिदः ।
पञ्चाङ्गान्यस्य मन्त्रस्य
विज्ञेयानि मनीषिभिः ।। १३६ ।।

इति गौतमीयतन्त्रवाक्यात्रागमार्गे दशाक्षरगोपालमन्त्रस्य प्रसिद्धिः; तद्उद्धारो लिख्यते, स यथा गौतमीयतन्त्रे
खान्ताक्षरं समुद्धृत्य
त्रयोदशस्वरान्वितं ।
पार्णं तुर्यस्वरयुतं
छान्तं धान्तं तथा द्वयं ।। १३७ ।।

अमृतार्णं मांसयुग्मं
मुखवृत्तेन संयुतं ।
भार्शं तु मुखवृत्ताढ्यं
पवनार्णं तथैव च ।। १३८ ।।

बीजशक्तिसमायुक्तो
मन्त्रोऽयं समुदाहृतः ।
गुप्तबीजस्वभावत्वाद्
दशार्णः खलु कथ्यते ।। १३९ ।।

ब्रह्मार्णं तुर्यसंयुक्तं
मांसद्वयसमन्वितं ।
नादबिन्दुसमायुक्तं
जगद्बीजं उदाहृतं ।। १४० ।।

शुक्रार्णं अमृतार्णेन
मुखवृत्तेन संयुतं ।
गगनं मुखवृत्तेन
प्रोक्ता शक्तिः परात्परा ।। १४१ ।।

दशाक्षरो मन्त्रो, यथा क्लीं गोपीजनवल्लभाय स्वाहा ।
अष्टादशाक्षरो मन्त्रो, यथा क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा ।
फुल्लेन्दीवरकान्तिं इन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कं उदारकौस्तुभधरं पीताम्बरं सुन्दरं ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ।। १४२ ।।

अथ कामगायत्रीमन्त्रोद्धारो यथा स्वायम्भुवागमे
क्लीं ततः कामदेवाय विद्महे च पदं ततः ।
ततश्च पुष्पबाणाय धीमहीति पदं ततः ।। १४३ ।।

ततस्तन्नोऽनङ्ग इति ततश्चैव प्रचोदयाथ् ।
एषा वै कामगायत्री चतुर्विंशाक्षरी माता ।। १४४ ।।

कामगायत्री, यथा क्लीं कामदेवाय विद्महे पुष्पबाणाय धीमहि तन्नोऽनङ्गः प्रचोदयाथ् ।
क्रीडासक्तो मदनवशगो राधयालिङ्गिताङ्गः
सभ्रूभङ्गः स्मितसुवदनो मुग्धनेपथ्यशोभः ।
वृन्दारण्ये प्रतिनवलतासद्मसु प्रेमपूर्णः
पूर्णानन्दो जयति मुरलीं वादयानो मुकुन्दः ।। १४५ ।।

यथा बृहद्गौतमीयतन्त्रे
देवी कृष्णमयि प्रोक्ता राधिका परदेवता ।
सर्वलक्ष्मीमयी सर्वकान्तिः सम्मोहिनी परा ।। १४६ ।।

ऋक्परिशिष्टे च
राधया माधवो देवो
माधवेनैव राधिका
विभ्राजन्ते जनेष्वा ।। १४७ ।।

मात्स्ये च
वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे ।
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ।। १४८ ।।

पाद्मे च (ऊण्४.५)
यथा राधा प्रिया विष्णोस्तस्याः कुण्डं प्रियं तथा ।
सर्वगोपीषु सैवैका विष्णोरत्यन्तवल्लभा ।। १४९ ।।

 (ऊण्४.३४, ६७)
महाभावस्वरूपेयं गुणैरतिवरीयसी ।
गोपालोत्तरतापन्यां यद्गान्धर्वेति विश्रुता ।। १५० ।।

ह्लादिनी या महाशक्तिः सर्वशक्तिवरीयसी ।
तत्सारभावरूपेयं इति तन्त्रे प्रतिष्ठिता ।। १५१ ।।

सुष्ठुकान्तस्वरूपेयं सर्वदा वार्षभानवी ।
धृतषोडशशृङ्गारा द्वादशाभरणान्विता ।। १५२ ।।

तत्र सुष्ठुकान्तस्वरूपा, यथा श्रीकृष्णवाक्यं (ऊण्४.८)
कचास्तव सुकुञ्चिता मुखं अधीरदीर्घेक्षणं
कठोरकुचभाग्उरः क्रशिमशालि मध्यस्थलं ।
नते शिरसि दोर्लते करजरत्नरम्यौ करौ
विधूनयति राधिके त्रिजगदेष रुपोत्सवः ।। १५३ ।।

धृतषोडशशृङ्गारा यथा (ऊण्४.९)
स्नाता नासाग्रजाग्रन्मणिरसितपटा सूत्रिणी बद्धवेणी
सोत्तंसा चर्चिताङ्गी कुसुमितचिकुर स्रग्विणी पद्महस्ता ।
ताम्बूलास्योरुबिन्दुस्तवकितचिबुका कज्जलाक्षी सुचित्रा
राधालक्तोज्ज्वलाङ्घ्रिः स्फुरिति तिलकिनी षोडशाकल्पिनीयं ।। १५४ ।।

द्वादशाभरणाश्रिता यथा (ऊण्४.१०)
दिव्यश्चूडामणीन्द्रः पुरटविरचिताः कुण्डलद्वन्द्वकाञ्चि*
निष्काश्चक्रीशलाकायुगवलयघटाः कण्ठभूषोर्मिकाश्च ।
हारास्तारानुकार भुजकटकतुलाकोटयो रत्नक्प्ता*
स्तुङ्गा पादाङ्गुरीयच्छविरिति रविभिर्भूषणैर्भाति राधा ।। १५५ ।।

मध्ये वयसि कैशोर एव तस्याः स्थितिः ।
पूर्ववद्दिवसगणनया विंशतिदिनोत्तरपञ्चमासाधिकनववर्षपरिमितं मध्यकैशोरं वयः (९५२०); राजकुमारीत्वाद्भोगातिशयेन समृद्ध्या वर्षमासदिनानां सार्धतया पञ्चदशदिनोत्तरमासद्वयाधिकचतुर्दशवर्ष परिमितं वयोऽस्याः ज्ञेयं (१४२१५) ।
अस्या मदीयताभावो मधुस्नेहस्तथैव च ।
मञ्जिष्ठाख्यो भवेद्रागः समर्था केवला रतिः ।। १५६ ।।

कन्दर्पकौतुकं कुञ्जं गृहं अस्यास्तु यावटे ।
मातास्याः कीर्तिदा प्रोक्ता वृषभानुः पिता स्मृतः ।। १५७ ।।

अभिमन्युः पतिस्तस्या दुर्मुखो देवरः स्मृतः ।
जटिलाख्या स्मृता श्वश्रूर्ननन्दा कुटिला मता ।। १५८ ।।

यथा स्युर्नायकावस्था निखिला एव माधवे ।
तथैव नायिकावस्था राधायां प्रायशो मताः ।। १५९ ।।

(ऊण्४.५०५४)
तस्या वृन्दावनेश्वर्याः सख्यः पञ्चविधा मताः ।
सख्यश्च नित्यसख्यश्च प्राणसख्यश्च काश्चन ।
प्रियसख्यश्च परमप्रेष्ठसख्यश्च विश्रुताः ।। १६० ।।

सख्यः कुसुमिकाविन्ध्याधनिष्ठाद्याः प्रकीर्तिताः ।
नित्यसख्यश्च कस्तूरीमणिमञ्जरिकादयः ।। १६१ ।।

प्राणसख्यः शशिमुखीवासन्तीलासिकादयः ।
गता वृन्दावनेश्वर्याः प्रायेणेमाः स्वरूपतां ।। १६२ ।।

प्रियसख्यः कुरङ्गाक्षी सुमध्या मदनालसा ।
कमला माधुरी मञ्जुकेशी कन्दर्पसुन्दरी ।
माधवी मालती कामलता शशिकलादयः ।। १६३ ।।

परमप्रेष्ठसख्यस्तु ललिता सविशाखिका ।
सचित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका ।
रङ्गदेवी सुदेवी चेत्यष्टौ सर्वगणाग्रिमाः ।। १६४ ।।

(ऊण्३.६१)
यूथाधिपात्वेऽप्यौचित्यं दधाना ललितादयः ।
स्वेष्टराधादिभावस्य लोभात्सख्यरुचिं दधुः ।। १६५ ।।

मदीयताभावलक्षणं यथा
शृङ्गाररससर्वस्वः कृष्णः प्रियतमो मम ।
इति यः प्रौढनिर्बन्धो भावः स स्यान्मदीयता ।। १६६ ।।

उदाहरणं यथा
शिखिपिञ्छलसन्मुखाम्बुजो
मुरलीवान्मम जीवनेश्वरः ।
क्व गतोऽत्र विहाय मां इतो
वद नारायण सर्ववित्तम ।। १६७ ।।

भुजचतुष्टयं क्वापि नर्मणा दर्शयन्नपि ।
वृन्दावनेश्वरीप्रेम्णा द्विभुजः क्रियते हरिः ।। १६८ ।।

यथा (ऊण्५.७)
रासारम्भविधौ निलीय वसता कुञ्जे मृगाक्षीगणै*
र्दृष्टं गोपयितुं समुद्धुरधिया या सुष्ठु संदर्शिता ।
राधायाः प्रणयस्य हन्त महिमा यस्य श्रिया रक्षितुं
सा शक्या प्रभविष्णुनापि हरिणा नासीच्चतुर्बाहुता ।। १६९ ।।

मधुस्नेहलक्षणं यथा (ऊण्१४.९३९४)
मदीयतातिशयभाक्
प्रिये स्नेहो भवेन्मधु ।
स्वयं प्रकटमाधुर्यो
नानारससमाहृतिः ।। १७० ।।

मत्ततोष्मधरः स्नेहो
मधुसाम्यान्मधूच्यते ।। १७१ ।।

उदाहरणं यथा (ऊण्१४.९५)
राधा स्नेहमयेन हन्त रचिता माधुर्यसारेण सा
सौधीव प्रतिमा घनाप्युरुगुणैर्भावोष्मणा विद्रुता ।
यन्नामन्यपि धामनि श्रवणयोर्याति प्रसङ्गेन मे
सान्द्रानन्दमयी भवत्यनुपमा सद्यो जगद्विस्मृति ।। १७२ ।।

माञ्जिष्ठरागलक्षणं यथा (ऊण्१४.१३९)
अहार्योऽनन्यसापेक्षो
यः कान्त्या वर्द्धते सदा ।
भवेन्माञ्जिष्ठरागोऽसौ
राधामाधवयोर्यथा ।। १७३ ।।

उदाहरणं यथा (ऊण्१४.१४१)
धत्ते द्रागनुपाधि जन्म विधिना केनापि नाकम्पते
सूतेऽत्याहितसञ्चयैरपि रसं ते चेन्मिथो वर्त्मने ।
ऋद्धिं सञ्चिनुते चमत्कृतिकरोद्दामप्रमोदोत्तरां
राधामाधवयोरयं निरुपमः प्रेमानुबन्धोत्सवः ।। १७४ ।।

समर्थारतेर्लक्षणं यथा (ऊण्१४.५२५३)
कञ्चिद्विशेषं आयान्त्या सम्भोगेच्छा ययाभितः ।
रत्या तादात्म्यं आपन्ना सा समर्थेति भण्यते ।। १७५ ।।

स्वस्वरूपात्तदीयाद्वा जाता यत्किञ्चिदन्वयाथ् ।
समर्था सर्वविस्मारिगन्धा सान्द्रतमा मता ।। १७६ ।।

उदाहरणं यथा (ऊण्१४.५४, ५५, ५७)
प्रेक्ष्याशेषे जगति मधुरां स्वां वधूं शङ्कया ते
तस्याः पार्श्वे गुरुभिरभितस्त्वत्प्रसङ्गो न्यवारि ।
श्रुत्वा दूरे तदपि भवतः सा तुलाकोटिनादं
हा कृष्णेत्यश्रुतचरं अपि व्याहरन्त्युन्मदासीथ् ।। १७७ ।।

सर्वाद्भुतविलासोर्मिचमत्कारकरश्रियः ।
सम्भोगेच्छाविशेषोऽस्या रतेर्जातु न भिद्यते ।
इत्यस्यां कृष्णसौख्यार्थं एव केवलं उद्यमः ।। १७८ ।।

इयं एव रतिः प्रौढा महाभावदशां व्रजेथ् ।
या मृग्या स्याद्विमुक्तानां भक्तानां च वरीयसां ।। १७९ ।।

यथा श्रीदशमे (१०.४७.५८)
एताः परं तनुभृतो भुवि गोपवध्वो
गोविन्द एव निखिलात्मनि रूढभावाः ।
वाञ्छन्ति यद्भवभियो मुनयो वयं च
किं ब्रह्मजन्मभिरनन्तकथारसस्य ।। १८० ।।

श्रीराधामन्त्रोद्धारो यथा गौरीतन्त्रे
श्रीनादबिन्दुसंयुक्ता तथाग्निर्मुखवृत्तयुक् ।
चतुर्थी वह्निजायान्ता राधिकाष्टाक्षरो मनुः ।। १८१ ।।

मन्त्रो यथा श्रीं रां राधिकायै स्वाहा ।
गायत्री यथा श्रीराधिकायै विद्महे, प्रेमरूपायै धीमहि, तन्नो राधा प्रचोदयाथ् ।
अस्या ध्यानं यथा तत्रैव
स्मेरां श्रीकुङ्कुमाभां स्फुरद्अरुणपटप्रान्तक्प्तावगुण्ठां
रम्यां वेशेन वेणीकृतचिकुरशिखालम्बिपद्मां किशोरीं ।
तर्ज्जन्य्अङ्गुष्ठयुक्त्या हरिमुखकमले युञ्जतीं नागवल्ली*
पर्णं कर्णायताक्षीं त्रिजगति मधुरां राधिकां अर्चयामि ।। १८२ ।।

तप्तहेमप्रभां नीलकुन्तलबद्धमल्लिकां ।
शरच्चन्द्रमुखीं नृत्यचकोरीचञ्चलेक्षणां ।। १८३ ।।

बिम्बाधरस्मितज्योत्स्नां जगज्जीवनदायिकां ।
चारुरत्नस्तनालम्बिमुक्तादामविभूषणां ।। १८४ ।।

नितम्बनीलवसनां किङ्किणीजालमण्डितां ।
नानारत्नादिनिर्माणरत्ननूपुरधारिणीं ।। १८५ ।।

सर्वलावण्यमुग्धाङ्गीं सर्वावयवसुन्दरीं ।
कृष्णपार्श्वस्थितां नित्यं कृष्णप्रेमैकविग्रहां ।
आनन्दरससम्मग्नां किशोरीं आश्रये वने ।। १८६ ।।

सौरीं रक्ताम्बरां रम्यां सुनेत्रां सुस्मिताननां ।
श्यामां श्यामाखिलाभीष्टां राधिकां आश्रये वने ।। १८७ ।।

विना राधाप्रसादेन कृष्णप्राप्तिर्न जायते ।
ततः श्रीराधिकाकृष्णौ स्मरणीयौ सुसंयुतौ ।। १८८ ।।

यथा भविष्योत्तरे
प्रेमभक्तौ यदि श्रद्धा मत्प्रसादं यदीच्छसि ।
तदा नारद भावेन राधायाराधको भव ।। १८९ ।।

तथा च नारदीये
सत्यं सत्यं पुनः सत्यं सत्यं एव पुनः पुनः ।
विना राधाप्रसादेन मत्प्रसादो न विद्यते ।। १९० ।।

श्रीराधिकायाः कारुण्यात्तत्सखीसंगतिं इयाथ् ।
तत्सखीनां च कृपया योषिद्अङ्गं अवाप्नुयाथ् ।। १९१ ।।

अनङ्गसुखदाख्योऽस्ति कुञ्जस्तस्योत्तरे दले ।
विज्ञेयोऽयं तडिद्वर्णो नानापुष्पद्रुमावृतः ।। १९२ ।।

ललितानन्ददो नित्यं उत्तरे कुञ्जराजकः ।
गोरोचनाभा ललिता तत्र तिष्ठति नित्यशः ।। १९३ ।।

मयूरपिञ्छसदृशवसना कृष्णवल्लभा ।
खण्डिताभावं आपन्ना रतियुक्ता हरौ सदा ।। १९४ ।।

चन्द्रताम्बूलसेवाढ्या दिव्याभरणमण्डिता ।
सप्तविंशत्य्अहो युक्ताष्टमासमनुहायना (१४८२७) ।। १९५ ।।

अस्या वयःप्रमाणं यत्पिता माता विशोककः ।
शारदा च पतिर्यस्या भैरवाख्यो मतो बुधैः ।। १९६ ।।

स्वरूपदामोदरतां प्राप्ता गौररसे त्वियं ।
इयं तु वामप्रखरा गृहं अस्यास्तु यावटे ।। १९७ ।।

खण्डितालक्षणं, यथा (ऊण्५.८५८६)
उल्लङ्घ्य समयं यस्याः प्रेयानन्योपभोगवान् ।
भोगलक्ष्माङ्कितः प्रातरागच्छेत्सा हि खण्डिता ।
एषा तु रोषनिःश्वासतूष्णींभावादिभाग्भवेथ् ।। १९८ ।।

यावैर्धूमलितं शिरो भुजतटीं ताटङ्कमुद्राङ्कितां
संक्रान्तस्तनकुङ्कुमोज्ज्वलमुरो मालां परिम्लापितां ।
घूर्णाकुड्मलिते दृशौ व्रजपतेर्दृष्ट्वा प्रगे श्यामला
चित्ते रुद्रगुणं मुखे तु सुमुखी भेजे मुनीनां व्रतं ।। १९९ ।।

वामप्रखरालक्षणं यथा (ऊण्६.२५)
सौभाग्यादेरिहाधिक्यादधिका साम्यतः समा ।
लघुत्वाल्लघुरित्युक्तास्त्रिधा गोकुलसुभ्रुवः ।। २०० ।।

प्रत्येकं प्रखरा मध्या मृद्वी चेति पुनस्त्रिधा ।। २०१ ।।

प्रगल्भवाक्या प्रखरा ख्याता दुर्लङ्घ्यभाषिता ।
तदूनत्वे भवेन्मृद्वी मध्या तत्साम्यं आगता ।। २०२ ।।

तत्र लघुप्रखरा (ऊण्८.३१)
सा लघुप्रखरा द्वेधा भवेद्वामाथ दक्षिणा ।। २०३ ।।

तत्र वामा (ऊण्८.३२)
मानग्रहे सदोद्युक्ता तच्छैथिल्ये च कोपना ।
अभेद्या नायके प्रायः क्रूरा वामेति कीर्त्यते ।। २०४ ।।

(ऊण्८.३७)
यूथेऽत्र वामप्रखरा ललिताद्याः प्रकीर्तिताः ।। २०५ ।।

वामप्रखरोदाहरणं, यथा (ऊण्८.३६)
अमूर्व्रजमृगेक्षणाश्चतुर्अशीतिलक्षाधिकाः
प्रतिस्वं इति कीर्तितं सवयसा तवैवामुना ।
इहापि भुवि विश्रुता प्रियसखी महार्घ्येत्यसौ
कथं तदपि साहसी शठ! जिघृक्षुरेनां असि ।। २०६ ।।

अस्या यूथो, यथा (श्रीकृष्णगणोद्देशदीपिका १.२४२)
रत्नरेखा (प्रभा) रतिकला सुभद्रा चन्द्र (भद्र) रेखिका ।
सुमुखी च धनिष्ठा च कलहंसी कलापिनी ।। २०७ ।।

अस्या मन्त्रोद्धारो, यथा सम्मोहनतन्त्रे
लक्ष्मी लीला च ललिता ङे ततो वह्निनायिका ।
एषोऽष्टार्णो महामन्त्रो ललितायास्तु रागदः ।। २०८ ।।

मन्त्रो यथाश्रीं लां ललितायै स्वाहा ।
अस्या ध्यानं, यथा तत्रैव
गोरोचनाद्युतिविडम्बितनूं सुवेशीं
मयूरपिञ्छवसनां शुभभूषणाढ्यां ।
ताम्बूलसेवनरतां व्रजराजसूनोः
श्रीराधिकाप्रियसखीं ललितां स्मरामि ।। २०९ ।।

ईशानदल आनन्दनामकं कुञ्जं अस्ति हि ।
मेघवर्णं श्रीविशाखा यत्रास्ते कृष्णवल्लभा ।। २१० ।।

स्वाधीनभर्तृकाभावं आपन्ना हि हरौ सदा ।
वस्त्रालङ्कारसेवाढ्या गौराङ्गी तारकाम्बरा ।। २११ ।।

पक्षाहर्युग्युग्ममाससंयुक्तमनुहायना (१४२१५) ।
अस्या वयः पिता माता पावनो दक्षिणा क्रमाथ् ।। २१२ ।।

पतिर्यस्या बाहुकाख्योऽप्यसौ गौररसे पुनः ।
रायरामानन्दतया विख्याताभूत्कलौ युगे ।। २१३ ।।

इयं त्वधिकमध्या हि गृहं अस्यास्तु यावटे ।। २१४ ।।

स्वाधीनभर्तृकालक्षणं (ऊण्५.९१)
स्वायत्तासन्नदयिता भवेत्स्वाधीनभर्तृका ।
सलिलारण्यविक्रीडाकुसुमावचयादिकृथ् ।। २१५ ।।

उदाहरणं यथा (ऊण्५.९२)
मुदा कुर्वन्पत्राङ्कुरं अनुपमं पीनकुचयोः
श्रुतिद्वन्द्वे गन्धाहृतमधुपं इन्दीवरयुग्मं ।
सखेलं धम्मिल्लोपरि च कमलं कोमलं असौ
निरावाधां राधां रमयति चिरं केशिदमनः ।। २१६ ।।

 (ऊण्८.१९)
अत्र यूथे विशाखाद्या भवन्त्यधिकमध्यमाः ।। २१७ ।।

अधिकमध्योदाहरणं यथा (ऊण्८.१७)
दामार्प्यतां प्रियसखीप्रहितां त्वयैव
दामोदरे कुसुमं अत्र मयावचेयं ।
नाहं भ्रमाच्चतुरिके सखि सूचनीया
कृष्णः कदर्थयति मां अधिकं यदेषः ।। २१८ ।।

अस्या यूथो यथा (कृष्णगणोद्देशदीपिका १.२४३)
मालती माधवी चन्द्ररेखा चापि शुभानना ।
कुञ्जरी हरिणी चैव सुरभिश्चपलापि च ।। २१९ ।।

अस्या मन्त्रोद्धारो, यथा बृहद्गौतमीये
वाग्भवः स्ॐ ततो ङेऽन्ता विशाखा वह्निजायिका ।
अष्टाक्षरो विशाखाया मन्त्रोऽयं प्रेमवृद्धिदः ।। २२० ।।

मन्त्रो यथा ऐं स्ॐ विशाखायै स्वाहा ।
अस्या ध्यानं, यथा तत्रैव
सच्चम्पकावलिविडम्बितनुं सुशीलां
ताराम्बरां विविधभूषणशोभमानां ।
श्रीनन्दनन्दनपुरो वसनादिभूषा*
दाने रतां सुकुतुकां च भजे विशाखां ।। २२१ ।।

चित्रं पूर्वदले कुञ्जं पद्मकिञ्जल्कनामकं ।
श्रीचित्रा स्वामिनी तत्र वर्तते कृष्णवल्लभा ।। २२२ ।।

अभिसारिकात्वं आपन्ना हरौ रतिसमन्विता ।
लवङ्गमालासेवाढ्या काश्मीरवर्णसंयुता ।। २२३ ।।

काचतुल्याम्बरा चासौ सदा चित्रगुणान्विता ।
अस्याश्चैव वयोमानं मनुसंख्यादिनान्वितं ।। २२४ ।।

ऋषिमासाधिकं शक्रहायनं चेति विश्रुतं (१४७१४) ।। २२५ ।।

चतुरोऽस्याः पिता प्रोक्तो जनन्यस्याश्च चर्च्चिका ।
पतिः पीठरकश्चास्या असौ गौररसे पुनः ।। २२६ ।।

गोविन्दानन्दतां प्राप्ता चतुर्थयुगमध्यके ।
इयं त्वधिकमृद्वी च गृहं अस्यास्तु यावटे ।। २२७ ।।

अभिसारिकालक्षणं यथा (ऊण्५.७१७२)
याभिसारयते कान्तं स्वयं वाभिसरत्यपि ।
सा ज्योत्स्नी तामसी यानयोग्यवेषाभिसारिका ।। २२८ ।।

लज्जया स्वाङ्गलीनेव निःशब्दाखिलमण्डना ।
कृतावगुष्ठा स्निग्धैकसखीयुक्ता प्रियं व्रजेथ् ।। २२९ ।।

उदाहरणं यथा तत्र (१) ज्योत्स्न्य्अभिसारिकायाः (ऊण्५.७४)
इन्दुस्तुन्दिलमण्डलं प्रणयते वृन्दावने चन्द्रिकां
सान्द्रां सुन्दरि नन्दनो व्रजपतेस्त्वद्वीथिं उद्वीक्षते ।
त्वं चन्द्राञ्चितचन्दनेन खचिता क्ष्ॐएण चालङ्कृता
किं वर्त्मन्यरविन्दचारुचरणद्वन्द्वं न सन्धित्ससि ।। २३० ।।

(२) तामस्य्अभिसारिकायाः (Vइं ४.२२, ऊण्५.७५)
तिमिरमसिभिः संवीताङ्ग्यः कदम्बवनान्तरे
सखि बकरिपुं पुण्यात्मानः सरन्त्यभिसारिकाः ।
तव तु परितो विद्युद्वर्णास्तनुद्युतिसूचयो
हरि हरि घनध्वान्तान्येताः स्ववैरिणि भिन्दते ।। २३१ ।।

 (ऊण्८.२१)
अधिका मृदवश्चात्र चित्रा मधुरिकादयः ।। २३२ ।।

अधिकमृद्व्य्उदाहरणं, यथा (ऊण्८.२०)
दरापि न दृग्अर्पिता सखि शिखण्डचूडे मया
प्रसीद बत मा कृथा मयि वृथा पुरोभागितां ।
नटन्मकरकुण्डलं सपदि चण्डि लीलागतिं
तनोत्ययं अदूरतः किं इह संविधेयं मया ।। २३३ ।।

अस्या यूथो यथा (श्रीकृष्णगणोद्देशदीपिका १.२४५)
रसालिका तिलकिनी शौरसेनी सुगन्धिका ।
वामनी वामनयना नागरी नागवल्लिका ।। २३४ ।।

अस्या मन्त्रोद्धारो, यथा स्कान्दे
लक्ष्मीश्चित्रा चतुर्थ्यन्ता वह्निजाया षडक्षरः ।
मन्त्रोऽयं चित्रिकानाम्न्याः कृष्णसख्या उदीरितः ।। २३५ ।।

मन्त्रो यथाश्रीं चित्रायै स्वाहा ।
अस्या ध्यानं, यथा तत्रैव
काश्मीरवर्णां सहितां विचित्र*
गुणैः स्मिताशोभिमुखीं च चित्रां ।
काचाम्बरां कृष्णपुरो लवङ्ग*
मालाप्रदाने नितरां स्मरामि ।। २३६ ।।

आग्नेयपत्रे पूर्णेन्दुकुञ्जस्वर्णाभवर्णके ।
श्रीइन्दुलेखा वसत्यत्र हरितालसमाङ्गिका ।। २३७ ।।

दाडिम्बकुसुमोद्भासिवसना कृष्णवल्लभा ।
प्रोषितभर्तृकाभावं आपन्ना रतियुग्घरौ ।। २३८ ।।

अमृताशनसेवाढ्या यासौ नन्दात्मजस्य वै ।
वयोमानं भवेत्तस्याः सर्वशास्त्रेषु सम्मतं ।। २३९ ।।

सार्धदिग्वासरैर्युक्ता द्विमासमनुहायना (१४२१० १ ।२) ।
असौ तु वामप्रखरा हरेश्चामरसेविनी ।। २४० ।।

गृहं अस्यास्तु यावटे पिता सागरसंज्ञकः ।। २४१ ।।

अस्या माता भवेद्वेला पतिरस्यास्तु दुर्बलः ।
वसुरामानन्दतया ख्याता गौररसे ह्यसौ ।। २४२ ।।

प्रोषितभर्तृकालक्षणं यथा (ऊण्५.८९)
दूरदेशं गते कान्ते भवेत्प्रोषितभर्तृका ।
प्रियसंकीर्तनं दैन्यं अस्यास्तानवजागरौ ।
मालिन्यं अनवस्थानं जाड्यचिन्तादयो मताः ।। २४३ ।।

उदाहरणं यथा (ऊण्५.९०)
विलासी स्वच्छन्दं वसति मथुरायां मधुरिपु*
र्वसन्तः सन्तापं प्रथयति समन्तादनुपदं ।
दुराशेयं वैरिण्यहह मद्अभीष्टोद्यमविधौ
विधत्ते प्रत्यूहं किं इह भविता हन्त शरणं ।। २४४ ।।

वामप्रखरालक्षणोदाहरणे तूक्ते; अस्या यूथो यथा श्रीकृष्णगणोद्देशदीपिकायां (१.२४७)
तुङ्गभद्रा चित्रलेखा सुरङ्गी रङ्गवाटिका ।
मङ्गला सुविचित्राङ्गी मोदिनी मदनापि च ।। २४५ ।।

अस्या मन्त्रोद्धारो यथा ईशानसंहितायाम्
वाग्भवश्चेन्दुलेखा च चतुर्थी वह्निजायिका ।
मन्त्रः स्याच्चेन्दुलेखाया अष्टार्णः समुदीरितः ।। २४६ ।।

मन्त्रो यथाऐं इन्दुलेखायै स्वाहा ।
अस्या ध्यानं यथा तत्रैव
हरितालसमानदेहकान्तिं
विकसद्दारिमपुष्पशोभिवस्त्रां ।
अमृतं ददतीं मुकुन्दवक्त्रे
भज आलीं अहं इन्दुलेखिकाख्यां ।। २४७ ।।

दक्षिणेऽस्मिन्दले कामलतानामास्ति कुञ्जकं ।
अत्यन्तसुखदं तप्तजाम्बूनदसमप्रभं ।। २४८ ।।

श्रीचम्पकलता तिष्ठत्यमुष्मिन्कृष्णवल्लभा ।
असौ वासकसज्जात्वं आपन्ना रतियुग्घरौ ।। २४९ ।।

वाममध्या चम्पकाभा चातकाभशुभाम्बरा ।
तत्सेवा रत्नमालाया दानं चामरचालनं ।। २५० ।।

सार्धत्रयोदशदिनमासद्वयसमन्विताः ।
मनुसंख्याहायनाश्च वयोमानं भवेत्पुनः (१४२१३ १ ।२) ।। २५१ ।।

मातास्या वाटिका ख्याता पिता चारामसंज्ञकः ।
अस्याश्च भर्ता चण्डाख्यस्तथा गौररसे ह्यसौ ।
शिवानन्दतया ख्यातिं आगता हि कलौ युगे ।। २५२ ।।

वासकसज्जालक्षणं यथा (ऊण्५.७६७७)
स्ववासकवशात्कान्ते समेष्यति निजं वपुः ।
सज्जीकरोति गेहं च या सा वासकसज्जिका ।। २५३ ।।

चेष्टास्याः स्मरसंक्रीडासङ्कल्पवर्त्मवीक्षणं ।
सखीविनोदवार्त्ता च मुहुर्दूतिक्षणादयः ।। २५४ ।।

उदाहरणं यथा (ऊण्५.७८)
रतिक्रीडाकुञ्जं कुसुमशयनीयोज्ज्वलरुचिं
वपुः सालङ्कारं निजं अपि विलोक्य स्मितमुखी ।
मुहुर्ध्यायं ध्यायं किं अपि हरिणा सङ्गमविधिं
समृद्ध्यन्ति राधा मदनमदमाद्यन्मतिरभूथ् ।। २५५ ।।

वामप्रखरालक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (कृष्णगणोद्देशे १.२४४)
कुरङ्गाक्षी सुरचिता मण्डली मणिमण्डना ।
चण्डिका चन्द्रलतिका कन्दुकाक्षी सुमन्दिरा ।। २५६ ।।

अस्या मन्त्रोद्धारो यथा गारुडे
आदौ च चम्पकलता ङेऽन्ता वैश्वानरप्रिया ।
मन्त्रोऽयं चम्पकलताप्रेमदो वसुवर्णकः ।। २५७ ।।

मन्त्रो यथाचम्पकलतायै स्वाहा ।
अस्या ध्यानं यथा तत्रैव
चम्पकावलिसमानकान्तिकां
चातकाभवसनां सुभूषणां ।
रत्नमाल्ययुतचामरोद्यतां
चारुचम्पकलतां सदा भजे ।। २५८ ।।

रक्षोदले श्यामवर्णे कुञ्जे श्रीरङ्गदेविका ।
सुखदाख्ये निवसति नित्यं श्रीहरिवल्लभा ।। २५९ ।।

पद्मकिञ्जल्कवर्णाभा जबापुष्पनिभाम्बरा ।
उत्कण्ठिताभावयुक्ता श्रीकृष्णे रतिभाक्सदा ।। २६० ।।

असौ चन्दनसेवाढ्या वाममध्या भवेत्पुनः ।
गृहं अस्या यावटे तु वयोमानं भवेत्पुनः ।। २६१ ।।

सार्धवेददिनैर्युक्तं द्विमासं मनुहायनं (१४२४ १ ।२) ।
माता श्रीकरुणा प्रोक्ता पिता श्रीरङ्गसागरः ।। २६२ ।।

पतिर्वक्रेक्षणः प्रोक्तो ह्यसौ गौररसे पुनः ।
गोविन्दानन्दघोषाख्यां आपन्ना हि कलौ युगे ।। २६३ ।।

उत्कण्ठितालक्षणं यथा (ऊण्५.७९८०)
अनागसि प्रियतमे चिरयत्युत्सुका तु या ।
विरहोत्कण्ठिता भाववेदिभिः सा समीरिता ।। २६४ ।।

अस्यास्तु चेष्टा हृत्तापो वेपथुर्हेतुतर्कणं ।
अरतिर्वाष्पमोक्षण्च स्वावस्थाकथनादयः ।। २६५ ।।

उदाहरणं यथा (ऊण्५.८१)
सखि किं अभवद्बद्धो राधाकटाक्षगुणैरयं
समरं अथवा किं प्रारब्धं सुरारिभिरुद्धुरैः ।
अहह बहुलाष्टम्यां प्राचीमुखेऽप्युदिते विधौ
विधुमुखि! न यन्मां सस्मार व्रजेश्वरनन्दनः ।। २६६ ।।

वाममध्यालक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (श्रीकृष्णगणोद्देशे १.२४८)
कलकण्ठी शशिकला कमला प्रेममञ्जरी ।
माधवी मधुरा कामलता कन्दर्पसुन्दरी ।। २६७ ।।

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
लक्ष्मीरग्निरङ्गदेवी ङेऽन्ता वह्निप्रिया ततः ।
रङ्गदेव्यास्तु मन्त्रोऽयं अष्टार्णो रागभक्तिदः ।। २६८ ।।

मन्त्रो यथाश्रीं रां रङ्गदेव्यै स्वाहा ।
अस्या ध्यानं च तत्रैव
राजीवकिञ्जल्कसमानवर्णां
जबाप्रसूनोपमवासस्आढ्यां ।
श्रीखण्डसेवासहितां व्रजेन्द्र
सूनोर्भजे रासगरङ्गदेवीं ।। २६९ ।।

कुञ्जोऽस्ति पश्चिमे दलेऽरुणवर्णः सुशोभनः ।
तुङ्गविद्यानन्ददो नाम्नेति विख्यातिं आगतः ।। २७० ।।

नित्यं तिष्ठति तत्रैव तुङ्गविद्या समुत्सुका ।
विप्रलब्धात्वं आपन्ना श्रीकृष्णे रतियुक्सदा ।। २७१ ।।

चन्द्रचन्दनभूयिष्ठकुङ्कुमद्युतिशालिनी ।
पाण्डुमण्डनवस्त्रेयं दक्षिणप्रखरोदिता ।। २७२ ।।

मेधायां पौष्कराजाता पतिरस्यास्तु बालिशः ।
नृत्यगीतादिसेवाढ्या गृहं अस्यास्तु यावटे ।। २७३ ।।

द्वाविंशतिदिनैर्युक्ता द्विमासमनुहायनाः (१४२२२) ।। २७४ ।।

अस्या वयःप्रमाणं स्यादसौ गौररसे पुनः ।
वक्रेश्वर इति ख्यातिं आपन्ना हि कलौ युगे ।। २७५ ।।

विप्रलब्धालक्षणं यथा (ऊण्५.८३८४)
कृत्वा सङ्केतं अप्राप्ते दैवाज्जीवितवल्लभे ।
व्यथमानान्तरा प्रोक्ता विप्रलब्धा मनीषिभिः ।
निर्वेदचिन्ताखेदाश्रुमूर्छानिःश्वसितादिभाक् ।। २७६ ।।

उदाहरणं यथा
विन्दति स्म दिवं इन्दुरिन्दिरा*
नायकेन सखि वञ्छिता वयं ।
कुर्महे किं इह शाधि सादरं
द्रागिति क्लममगान्मृगेक्षणा ।। २७७ ।।

दक्षिणालक्षणं यथा (ऊण्८.३८, ४२)
असहा माननिर्बन्धे नायके युक्तवादिनी ।
सामभिस्तेन भेद्या च दक्षिणा परिकीर्तिता ।। २७८ ।।

तुङ्गविद्यादिका चात्र दक्षिणप्रखरा भवेथ् ।। २७९ ।।

उदाहरणं यथा (श्रीगीतगोविन्दे ९.१०)
स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि
द्वेषं यासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये ।
तद्युक्तं विपरीतकारिणि! तव श्रीखण्डचर्चा विषं
शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ।। २८० ।।

अस्या यूथो यथा (श्रीकृष्णगणोद्देशे १.२४६)
मञ्जुमेधा सुमधुरा सुमध्या मधुरेक्षणा ।
तनूमध्या मधुस्यन्दा गुणचूडा वराङ्गदा ।। २८१ ।।

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
लक्ष्मीपूर्वा तुङ्गविद्या चतुर्थी हुतभुक्प्रिया ।
मन्त्रोऽयं तुङ्गविद्याया वसुवर्णः समीरितः ।। २८२ ।।

मन्त्रो यथाश्रीं तुङ्गविद्यायै स्वाहा ।
अस्या ध्यानं, यथा तत्रैव
चन्द्राढ्यैरपि चन्दनैः सुललितां श्रीकुङ्कुमाभद्युतिं
सद्रत्नान्वितभूषणाञ्चिततनुं शोणाम्बरोल्लासितां ।
सद्गीतावलिसंयुतां बहुगुणां डम्फस्य शब्देन वै
नृत्यन्तीं पुरतो हरे रसवतीं श्रीतुङ्गविद्यां भजे ।। २८३ ।।

वायव्यदलके कुञ्जं आस्ते हरितवर्णकं ।
वसन्तसुखदं अत्र सुदेवी वर्तते सदा ।। २८४ ।।

कलहान्तरिताभावं आपन्ना रतियुग्घरौ ।
पद्मकिञ्जल्करुचिरा जबापुष्पनिभाम्बरा ।। २८५ ।।

असौ च जलसेवाढ्या वामा प्रखरिका मता ।
वेदवासरसंयुक्तद्विमासमनुहायना (१४२४) ।। २८६ ।।

अस्या वयःपरिमाणं यावटे तु निकेतनं ।
मातास्याः करुणा प्रोक्ता जनको रङ्गसागरः ।। २८७ ।।

भ्रात्रा वक्रेक्षणस्येयं परिणीता कनीयसा ।
श्रीवासुदेवघोषाख्यां आप्ता गौररसे त्वसौ ।। २८८ ।।

कलहान्तरितालक्षणं यथा (ऊण्५.८७)
या सखीनां पुरः पादपतितं वल्लभं रुषा ।
निरस्य पश्चात्तपति कलहान्तरिता हि सा ।
अस्याः प्रलापसन्तापग्लानिनिःश्वसितादयः ।। २८९ ।।

उदाहरणं यथा (ऊण्५.८८)
स्रजः क्षिप्ता दूरे स्वयं उपहृताः केशिरिपुणा
प्रियवाचस्तस्य श्रुतिपरिसरान्तेऽपि न कृताः ।
नमन्नेष क्षौनीविलुठितशिखं प्रैक्षि न मया
मनस्तेनेदं मे स्फुटति पुटपाकार्पितं इव ।। २९० ।।

वामप्रखरालक्षणोदाहरणे तूक्ते; अस्या यूथो यथा (श्रीकृष्णगणोद्देशे १.२४९)
कावेरी चारुकवरी सुकेशी मञ्जुकेशिका ।
हारहिरा हारकण्ठी हारवल्ली मनोहरा ।। २९१ ।।

अस्या मन्त्रोद्धारो यथा रुद्रयामले
द्वे वाग्भवे रमा ङेऽन्ता सुदेवी दहनप्रिया ।
उक्तः सुदेव्या मन्त्रोऽयं अष्टार्णः प्रेमभक्तिदः ।। २९२ ।।

मन्त्रो यथाऐं स्ॐ श्रीं सुदेव्यै स्वाहा ।
अस्या ध्यानं यथा तत्रैव
अम्भोजकेशरसमानरुचिं सुशीलां
रक्ताम्बरां रुचिरहासविराजिवक्त्रां ।
श्रीनन्दनन्दनपुरो जलसेवनाढ्यां
सद्भूषणावलियुतां च भजे सुदेवीं ।। २९३ ।।

कुञ्जोऽस्ति रूपोल्लासाख्यो ललिताकुञ्जकोत्तरे ।
सदा तिष्ठति तत्रैव सुशोभा रूपमञ्जरी ।। २९४ ।।

प्रियनर्मसखीमुख्या सुन्दरी रूपमञ्जरी ।
गोरोचनासमाङ्गश्रीः केकिपत्रांशुकप्रिया ।। २९५ ।।

सार्धत्रिदशवर्षासौ (१३६) वाममध्यात्वं आश्रिता ।
रङ्गणमालिका चेति प्रवदन्ति मनीषिणः ।। २९६ ।।

इयं लवङ्गमञ्जर्या एकेनाह्ना कनीयसी ।
कलौ गौररसे रूपगोस्वामित्वं समागता ।। २९७ ।।

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
श्रीबीजेन समायुक्ता ङेऽन्ता वै रूपमञ्जरी ।
अयं अष्टाक्षरो रूपमञ्जर्या मन्त्र ईरितः ।। २९८ ।।

मन्त्रो यथाश्रीं रूपमञ्जर्यै स्वाहा ।
अस्या ध्यानं यथा तत्रैव
गोरोचनानिन्दिनिजाङ्गकान्तिं
मायूरपिञ्छाभसुचीनवस्त्रां ।
श्रीराधिकापादसरोजदासीं
रूपाख्यकां मञ्जरिकां भजेऽहं ।। २९९ ।।

रत्यम्बुजाख्यः कुञ्जोऽस्ति इन्दुलेखाकुञ्जदक्षिणे ।
तत्रैव तिष्ठति सदा सुरूपा रतिमञ्जरी ।। ३०० ।।

तारावलीदुकूलेयं तडित्तुल्यतनुच्छविः ।
दक्षिणा मृद्वीका ख्याता तुलसीति वदन्ति यां ।। ३०१ ।।

अस्या वयो द्विमासाढ्यहायनास्तु त्रयोदश (१३२) ।
इयं श्रीरघुनाथाख्यां प्राप्ता गौररसे कलौ ।। ३०२ ।।

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
नादबिन्दुयुतो वह्निर्मुखवृत्तसमन्वितः ।
स्वाहान्ता मञ्जरी ङेऽन्ता रतिमञ्जरिकामनुः ।। ३०३ ।।

मन्त्रो यथारां रतिमञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव
तारालिवासोयुगलं वसानां
तडित्समानस्वतनुच्छविं च ।
श्रीराधिकाया निकटे वसन्तीं
भजे सुरूपां रतिमञ्जरीं तां ।। ३०४ ।।

कुञ्जस्य तुङ्गविद्यायाः कुञ्जः पूर्वत्र वर्तते ।
लवङ्गसुखदो नाम्ना सुदृशां सुमनोहरः ।। ३०५ ।।

लवङ्गमञ्जरी तत्र मुदा तिष्ठति सर्वदा ।
सा तु रूपाख्यमञ्जर्या एकेनाह्ना वरीयसी ।। ३०६ ।।

उद्यद्विद्युत्समानश्रीस्तारावलीपटावृता ।
श्रीकृष्णानन्ददा नित्यं दक्षिणा मृद्विका मता ।। ३०७ ।।

वय एकदिनं सार्धहायनास्तु त्रयोदश (१३६१) ।
श्रीसनातननामासौ ख्याता गौररसे कलौ ।। ३०८ ।।

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
श्रीलीलाभ्यां समायुक्ता
ङेऽन्ता लवङ्गमञ्जरी ।
स्वाहा लवङ्गमञ्जर्या
मन्त्रोऽयं दशवर्णकः ।। ३०९ ।।

मन्त्रो यथाश्रीं लां लवङ्गमञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव
चपलाद्युतिनिन्दिकान्तिकां
शुभतारावलिशोभिताम्बरां ।
व्रजराजसुतप्रमोदिनीं
प्रभजे तां च लवङ्गमञ्जरीं ।। ३१० ।।

रसानन्दप्रदो नाम्ना चित्राकुञ्जस्य पश्चिमे ।
कुञ्जोऽस्ति तत्र वसति सर्वदा रसमञ्जरी ।। ३११ ।।

श्रीरूपमञ्जरीसम्यग्जिवातु सा प्रकीर्तिता ।
हंसपक्षदुकूलेयं फुल्लचम्पककान्तिभाक् ।। ३१२ ।।

लवङ्गमञ्जरीतुल्या प्रायेण गुणसम्पदा ।
अतीव प्रियतां प्राप्ता श्रीरूपमञ्जरीश्रिता ।। ३१३ ।।

सन्धानचतुरा सेयं दौत्ये कौशलं आगता ।
त्रयोदशशरद्युक्ता (१३) दक्षिणा मृद्विका मता ।। ३१४ ।।

सा कलौ रघुनाथाख्यायुक्तभट्टत्वं आगता ।। ३१५ ।।

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
मुखवृत्तयुतो वह्निनादबिन्दुसमन्वितः ।
स्वाहान्तसम्प्रदानान्तो मन्त्रो वै रसमञ्जरी ।। ३१६ ।।

मन्त्रो यथारां रसमञ्जर्यै स्वाहा ।
अस्या ध्यानं यथा तत्रैव
हंसपक्षरुचिरेण वाससा
संयुतां विकचचम्पकद्युतिं ।
चारुरूपगुणसम्पदान्वितां
सर्वदापि रसमञ्जरीं भजे ।। ३१७ ।।

ऐशान्ये चम्पकलताकुञ्जात्कुञ्जोऽस्ति शोभनः ।
गुणानन्दप्रदो नाम्ना तत्रास्ते गुणमञ्जरी ।। ३१८ ।।

रूपमञ्जरिकासौख्याभिलाषा सा प्रकीर्तिता ।
जबाराजिदुकूलेयं तडित्प्रकरकान्तिभाक् ।। ३१९ ।।

कनिष्ठेयं भवेत्तस्यास्तुलस्यास्तु त्रिभिर्दिनैः ।
श्रीकृष्णामोददाक्षिण्यं आश्रिता प्रखरोदिता ।। ३२० ।।

वयोऽस्या एकमासाढ्या हायनास्तु त्रयोदश ।
सप्तविंशतिभिर्युक्तं दिनैश्च समुदीरितं (१३१२७) ।। ३२१ ।।

गोपालभट्टनामासौ ख्याता गौररसे कलौ ।। ३२२ ।।

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
गणेशो मुखवृत्ताढ्यो नादबिन्दुसमन्वितः ।
ङेऽन्ता वह्निप्रियान्ता च मन्त्रो वै गुणमञ्जरी ।। ३२३ ।।

मन्त्रो यथागां गुणमञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव
जबानिभदुकूलाढ्यां तडिद्आलितनुच्छविं ।
कृष्णामोदकृतापेक्षां भजेऽहं गुणमञ्जरीं ।। ३२४ ।।

लीलानन्दप्रदो नाम्ना सुदेव्याः कुञ्जकोत्तरे ।
तत्रैव तिष्ठति सदा मञ्जुलाली सुमञ्जरी ।। ३२५ ।।

रूपमञ्जरिकासख्यप्राया सा गुणसम्पदा ।
जबाराजिदुकूलेयं तप्तहेमतनुच्छविः ।। ३२६ ।।

लीलामञ्जरी नामास्या वाममध्यात्वं आश्रिता ।
वयःसप्ताहयुक्तासौ सार्धत्रिदशहायना (१३६७) ।। ३२७ ।।

कलौ गौररसे लोकनाथगोस्वामितां गता ।। ३२८ ।।

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
लक्ष्मीयुक्ता मञ्जुलाली मञ्जरी वह्निजायिका ।
चतुर्थ्यन्ता भवेन्मन्त्रो दशार्णः खलु कथ्यते ।। ३२९ ।।

मन्त्रो यथाश्रीं मञ्जुलालीमञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव
प्रतप्तहेमाङ्गरुचिं मनोज्ञां
शोणाम्बरां चारुसुभूषणाढ्यां ।
श्रीराधिकापादसरोजदासीं
तां मञ्जुलालीं नियतं भजामि ।। ३३० ।।

वैशाखकुञ्जादाग्नेये कुञ्जोऽस्ति सुमनोहरः
विलासानन्ददो नाम्नात्रास्ते विलासमञ्जरी ।। ३३१ ।।

विलासमञ्जरी रूपमञ्जरीसख्यं आश्रिता ।
स्वकान्त्या सदृशीं चक्रे या दिव्यां स्वर्णकेतकीं ।। ३३२ ।।

चञ्चरीकदुकूलेयं वामा मृद्वीत्वं आश्रिता
कनिष्ठा रसमञ्जर्याश्चतुर्भिर्दिवसैरियं (१२११२६) ।। ३३३ ।।

जीवगोस्वामितां प्राप्ता कलौ गौररसे त्वसौ ।। ३३४ ।।

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
श्रिया प्रचेतसा चैव नादबिन्द्वास्यवृत्तगा ।
विलासमञ्जरी ङेऽन्ता स्वाहान्तो मनुरीरितः ।। ३३५ ।।

मन्त्रो यथाश्रीं वां विलासमञ्जर्यै स्वाहा
अस्या ध्यानं यथा तत्रैव
स्वर्णकेतकविनिन्दिकायकां
निन्दितभ्रमरकान्तिकाम्बरां ।
कृष्णपादकमलोपसेवनीम्
अर्चयामि सुविलासमञ्जरीं ।। ३३६ ।।

नैरृते श्रीरङ्गदेवीकुञ्जात्कुञ्जोऽस्ति पश्चिमः ।
कौस्तूर्यानन्ददो नाम्ना तत्रास्ते कौस्तूरीमञ्जरी ।। ३३७ ।।

काचतुल्याम्बरा चासौ शुद्धहेमाङ्गकान्तिभाक् ।
वयस्त्रिदशवर्षासौ वामा मृद्वीत्वं आश्रिता ।। ३३८ ।।

श्रीकृष्णकविराजाख्यां प्राप्ता गौररसे कलौ ।। ३३९ ।।

अस्या मन्त्रोद्धारो यथा किशोरीतन्त्रे
श्रीबीजेन समायुक्ता ङेऽन्ता कौस्तूरीमञ्जरी ।
स्वाहान्त इति वै प्रोक्तो नवार्णमन्त्र उच्यते ।। ३४० ।।

मन्त्रो यथा श्रीं कस्तूरीमञ्जर्यै स्वाहा ।
अस्या ध्यानं यथा तत्रैव
विशुद्धहेमाब्जकलेवराभां
काचद्युतिचारुमनोज्ञचेलां ।
श्रीराधिकाया निकटे वसन्तीं
भजाम्यहं कौस्तूरीमञ्जरिकां ।। ३४१ ।।

अथ वृन्दावनाधीशौ पद्मकेशरमध्यगौ ।
कोटिकन्दर्पलावण्यौ ध्यायेत्प्रियसखीवृतौ ।। ३४२ ।।

उक्तवेशवयोरूपसंयुतौ सुमनोहरौ ।
संस्मरेत्सिद्धदेहेन साधकः साधनैर्युतः ।। ३४३ ।।

तत्रादौ मञ्जरीरूपान्गुर्वादीन्तु स्वीयान्स्वीयान्प्रणाल्य्अनुसारेण संस्मरेत्श्रीगुरुपरमगुरुक्रमेणेति ततः श्रीराधिकां ध्यायेथ् ।
ततः श्रीनन्दनन्दनं ।
अथ युगलमन्त्रोद्धारो यथा सनत्कुमारसंहितायाम्
गोपीजनवल्लभेति चरणानिति च क्रमाथ् ।
शरणं च प्रपद्ये च तत एतत्पदद्वयं ।। ३४४ ।।

पदत्रयात्मको मन्त्रः षोडशार्ण उदाहृतः ।
नमो गोपीजनेत्युक्त्वा वल्लभाभ्यां वदेत्ततः ।
पदद्वयात्मको मन्त्रो दशार्णः खलु कथ्यते ।। ३४५ ।।

मन्त्रो यथागां गोपीजनवल्लभचरणान्शरणं प्रपद्ये,
नमो गोपीजनवल्लभाभ्यां ।
अस्य ध्यानं यथा तत्रैव
अथ ध्यानं प्रवक्ष्यामि मन्त्रस्यास्य द्विजोत्तम ।
पीताम्बरं घनश्यामं द्विभुजं वनमालिनं ।। ३४६ ।।

बर्हिबर्हकृतापीशं शशिकोटिनिभाननं ।
घूर्णायमाननयनं कर्णिकारावतंसिनं ।। ३४७ ।।

अभितश्चन्दनेनाथ मध्ये कुङ्कुमबिन्दुना ।
विचित्रतिलकं भाले विभृतं मण्डलाकृतिं ।। ३४८ ।।

तरुणादित्यसङ्काशकुण्डलाभ्यां विराजितं ।
घर्माम्बुकणिकाराजद्दर्पणाभकपोलकं ।। ३४९ ।।

प्रियामुखे कृतापाङ्गलीलया चोन्नतभ्रुवं ।
अग्रभागलसन्मुक्तास्फुरद्उच्चसुनासिकं ।। ३५० ।।

दशनज्योत्स्नया राजत्पक्वबिम्बफलाधरं ।
केयूराङ्गदसद्रत्नमुद्रिकादिलसत्करं ।। ३५१ ।।

विभृतं मुरलीं वामे पाणौ पद्मं तथोत्तरे ।
काञ्चीदामस्फुरन्मध्यं नूपुराभ्यां लसत्पदं ।। ३५२ ।।

रतिकेलिरसावेशचपलं चपलेक्षणं ।
हसन्तं प्रियया सार्धं हासयन्तं च तां मुहुः ।। ३५३ ।।

इत्थं कल्पतरोर्मूले रत्नसिंहासनोपरि ।
वृन्दारण्ये स्मरेत्कृष्णं संस्थितं प्रियया सह ।। ३५४ ।।

वामपार्श्वे स्थितां तस्य राधिकां च स्मरेत्ततः ।
सुचीननीलवसनां द्रुतहेमसमप्रभां ।। ३५५ ।।

पटाञ्चलेनावृताङ्गां सस्मिताननपङ्कजां ।
कान्तवक्त्रे न्यस्तनृत्यच्चकोरीं चञ्चलेक्षणां ।। ३५६ ।।

अङ्गुष्ठतर्ज्जनीभ्यां च निजप्रियमुखाम्बुजे ।
अर्पयन्तीं नागवल्लीं पूगचूर्णसमन्वितां ।। ३५७ ।।

मुक्ताहारस्फुरच्चारुपीनोन्नतपयोधरां ।
क्षीणमध्यां पृथुश्रोणिं किङ्किणीजालमण्डितां ।। ३५८ ।।

रत्नताडङ्कमञ्जीररत्नपादाङ्गुलीयकां ।
लावण्यसारमुग्धाङ्गीं सर्वावयवसुन्दरीं ।। ३५९ ।।

आनन्दरससम्मग्नां प्रसन्नां नवयौवनं ।
सख्यश्च तस्या विप्रेन्द्र तत्समानवयोगुणाः ।
तत्सेवनपरा भाव्याश्चामरव्यजनादिभिः ।। ३६० ।।

अथ च
दीव्यद्वृन्दारण्यकल्पद्रुमाधः
श्रीमद्रत्नागारसिंहासनस्थौ ।
श्रीमद्राधाश्रीलगोविन्ददेवौ
प्रेष्ठालीभिः सेव्यमानौ स्मरामि ।। ३६१ ।।

स्मरेदेवं क्रमेणैव सिद्धदेहेन साधकः ।
ससाधनेन पद्मस्य व्रजेशौ केशरस्थितौ ।। ३६२ ।।