गौरगणोद्देशदीपिका

विकिस्रोतः तः
Jump to navigation Jump to search
गौरगणोद्देशदीपिका
विष्णुस्तोत्राणि
[[लेखकः :|]]

गौरगणोद्देशदीपिका

श्रीपरमानन्दसेनकविकर्णपूरस्य कृतिरियम् ।

श्रीवृन्दावनभुवि पुरा सच्चिदानन्दसान्द्रो
गौराङ्गीभिः सदृशरुचिभिः श्यामधामा ननर्त ।
तासां शश्वद्दृढतरपरीरम्भ सम्भेदतः किं
गौराङ्गः सन्जयति स नवद्वीपमालम्भमानः ॥१॥

नमस्यामोऽस्यैव प्रियपरिजनान्वत्सलहृदः
प्रभोरद्वैतादीनपि जगदघौघक्षयकृतः ।
समानप्रेमानः समगुणगणास्तुल्यकरुनाः
स्वरूपाद्या येऽमी सरसमधुरास्तानपि नुमः ॥२॥

गुरुं नः श्रीनाथाभिधमवनिदेवान्वयविधुं
नुमो भूषारत्नं भुव इव विभोरस्य दयितम् ।
यदा स्यादुन्मीलन्निरवकरवृन्दावनरहः
कथास्वादं लब्ध्वा जगति न जनः कोऽपि रमते ॥३॥

पितरं श्रीशिवानन्दं सेनवंशप्रदीपकम् ।
वन्देऽहं परया भक्त्या पार्षदाग्र्यं महाप्रभोः ॥४॥

ये विख्याताः परिवराः श्रीचैतन्यमहाप्रभोः ।
नित्यानन्दाद्वैतयोश्च तेषामपि महीयसाम् ॥
गोपालानां च पूर्वाणि नामानि यानि कानिचित।
स्वस्वग्रन्थे स्वरूपाद्यैर्दर्शितान्यादिसूरिभिः ॥
विलोक्यान्यानि साधूनां मथुरौड्रनिवासिनाम् ।
गौडीयानामपि मुखान्निशम्य स्वमनीषया ॥
विविच्याम्रेडितः कैश्चित्कैश्चित्तानि लिखाम्यहम् ।
नाम्ना श्रीपरमानन्ददासः सेवितशाशनः ॥५॥

यद्वत्पुरा कृष्णचन्द्रः पञ्चतत्त्वात्मकोऽपि सन।
यातः प्रकटतां तद्वद्गौरः प्रकटतामियत॥६॥
स्वाभिन्नेन यतः तत्त्वं पञ्चतत्त्वमिहोच्यते ।
अन्यथा तदसम्बन्धात्तत्तत्त्वं स्याच्चतुष्टयम् ॥७॥
तद्भिन्नं यत्तदेवात्र तदभिन्नं विभाव्यताम् ।
यतः स्वयेच्छया शक्त्या कृष्णस्तादृशतां गतः ॥८॥
अतः स्वरूपचरणैरुक्तं तत्त्वनिरूपणे ।
उपाधिभेदात्पञ्चत्वं तत्त्वस्येह प्रदर्श्यते ॥९॥
पञ्चतत्त्वात्मकं कृष्णं भक्तरूपस्वरूपकम् ।
भक्तावतारं भक्त्याख्यं नमामि भक्तिशक्तिकम् ॥१०॥

अस्यार्थो विवृतस्तैर्यः स सङ्क्षिप्य विलिख्यते ।
भक्तरूपो गौरचन्द्रो यतोऽसौ नन्दनन्दनः ॥
भक्तस्वरूपो नित्यानन्दो व्रजे यः श्रीहलायुधः ।
भक्तावतार आचार्योऽद्वैतो यः श्रीसदाशिवः ॥
भक्ताख्याः श्रीनिवासाद्या यतस्ते भक्तरूपिनः ।
भक्तशक्तिर्द्विजाग्रण्यः श्रीगदाधरपण्डितः ॥११॥

श्रीविश्वम्भराद्वैतनित्यानन्दावधूतकाः ।
अत्र त्रयः समुन्नेया विग्रहाः प्रभवाश्च ते ॥
एको महाप्रभुर्ज्ञेयह्श्रीचैतन्यदयाम्बुधिः ।
प्रभू द्वौ श्रीयुतौ नित्यानन्दाद्वैतमहाशयौ ॥
गोस्वामिनो विग्रहाश्च ते द्विजाश्च गदाधरः ।
पञ्चतत्त्वात्मक एते श्रीनिवासश्च पण्डितः ॥१२॥

यदुक्तं तत्र गोस्वामिश्रीस्वरूपपदाम्बुजैः
त्रयोऽत्र विग्रहा ज्ञेयाः प्रभवश्चात्र ते त्रयः ।
एको महाप्रभुर्ज्ञेयो द्वौ प्रभू सम्मतौ सतम् ॥१३॥
एषां पार्षदवर्गा ये महन्तः परिकीर्तितः ।
नित्यानन्दगणाः सर्वे गोपाला गोपवेशिनः ॥
एषां सम्बन्धसम्पर्कादुपगोपालसत्तमाः ॥१४॥
तत्र श्रीमन्नवद्वीपे विश्वम्भरसमीपतः ।
विलसन्ति स्म ते ज्ञेया वैष्णवा हि महत्तमाः ॥१५॥
नीलाचले ये ये ख्यातास्ते हि ज्ञेया महत्तराः ।
दक्षिणादिदिशां याने यैर्यैः सङ्गो महाप्रभोः ।
ते ते महन्तो मन्तव्याः परे ज्ञेयाः स्वयोग्यतः ॥१६॥
अतः स्वरूपचरणैरुक्तं गौरनिरूपणे ।
पञ्चतत्त्वस्य सम्पर्कात्ये ये ख्याता महत्तमः ।
ते ते महन्तो गोपालाः स्थानाच्छ्रैष्ठ्यादिवाचकः ॥१७॥

रसज्ञाः श्रीवृन्दावनमिति यमाहुर्बहुविदो
यमेतं गोलोकं कतिपयजनाः प्राहुरपरे ।
सितद्वीपं प्राहुर्परमपि परव्योम जगदुर्
नवद्वीपः सोऽयं जयति परमाश्चर्यमहिमा ॥१८॥

तस्मिन्वासमुरीचकार नृहरिर्विश्वम्भराख्यं दधात्
तच्चेष्टावशतः समस्तमहतां वासोऽपि तत्राभवत।
तैः साकं महती हरेरनुगुणाकारापि लीलाभवद्
यत्रासीज्जगतां मनोऽपि परमानन्दाय मग्नं यतः ॥१९॥

यः सत्ये सितवर्णमादधदसौ श्रीशुक्ल नामाभवत्
त्रेतायां मखमुन्मखाख्य उचितोऽभुद्रक्तवर्णं दधत।
यः श्यामो दधदास वर्णकममुं श्यामं युगे द्वापरे
सोऽयं गौरविधुर्विभाति कलयन्नामावतारं कलौ ॥२०॥

प्रादुर्भूताः कलियुगे चत्वारः सम्प्रदायिकः ।
श्रीब्रह्मरुद्रसनकाः पाद्मे यथा स्मृताः ॥
अतः कलौ भविष्यन्ति चत्वारः सम्प्रदायिनः ।
श्रीब्रह्मरुद्रसनका वैष्णवाः क्षितिपावनाः ॥२१॥

तत्र माध्वी सम्प्रदायः प्रस्तवादत्र लिख्यते—

परव्योमेश्वरस्यासीच्छिष्यो ब्रह्मा जगत्पतिः ॥
तस्य शिष्यो नारदोऽभूद्व्यासस्तस्याप शिष्यताम् ।
शुको व्यासस्य शिष्यत्वं प्राप्तो ज्ञानावरोधतात॥
तस्य शिष्याः प्रशिष्याश्च बहवो भूतले स्थिताः ।
व्यासाल्लब्धकृष्णदीक्षो मध्वाचार्यो महायशः ॥
चक्रे वेदान्विभज्यासौ संहितां शतदूषणीम् ।
निर्गुणाद्ब्रह्मणो यत्र सगुणस्य परिष्क्रिया ॥
तस्य शिष्योऽभवत्पद्मनाभाचार्यो महाशयः ।
तस्य शिष्यो नरहरिस्तच्छिष्यो माधवद्विजः ॥
अक्षोभ्यस्तस्य शिष्योऽभूत्तच्छिष्यो जयतीर्थकः ।
तस्य शिष्यो ज्ञानसिन्धुस्तस्य शिष्यो महानिधिः ॥
विद्यानिधिस्तस्य शिष्यो राजेन्द्रस्तस्य सेवकः ।
जयधर्ममुनिस्तस्य शिष्यो यद्गणमध्यतः ॥
श्रीमद्विष्णुपुरी यस्तु भक्तिरत्नावलीकृतिः ।
जयधर्मस्य शिष्योऽभूद्ब्राह्मणः पुरुषोत्तमः ॥
व्यासतीर्थस्तस्य शिष्यो यश्चक्रे विष्णुसंहिताम् ।
श्रीमान्लक्ष्मीपतिस्तस्य शिष्यो भक्तिरसाश्रयः ॥
तस्य शिष्यो माधवेन्द्रो यद्धर्मोऽयं प्रवर्तितः ।
कल्पवृक्षस्यावतारो व्रजधामनि तिष्ठितः ।
प्रीतप्रेयो वत्सलतोज्ज्वलाख्य फलधारिणः ॥२२॥
तस्य शिष्योऽभवच्छ्रीमानीश्वराख्यपुरीयतिः ॥
कलयामास शृङ्गारं यः शृङ्गारफलात्मकः ॥२३॥
अद्वैतः कलयामास दास्यसाख्ये फले उभे ।
श्रीमान्रङ्गपुरी ह्येष वात्सल्ये यः समाश्रितः ॥२४॥

ईश्वराख्यपुरीं गौर उररीकृत्य गौरवे ।
जगदाप्लावयामास प्राकृताप्राकृतात्मकम् ॥२५॥
स्वीकृत्य राधिका भाव कान्ति पूर्व सुदुष्करे ।
अन्तर्बही रसाम्बोधिः श्रीनन्दनन्दनोऽपि सन॥२६॥
आद्य व्यूहोऽपि चैतन्यमविशद्यः पुरे पुरा ।
विचुक्षोभ मनस्तस्य दृष्ट्वा गन्धर्वनर्तनम् ॥२७॥
द्वारकास्थोऽपि भगवानविशत्श्रीशचीसुतम् ।
नानावतारः सुतरामेककाल प्रभावतः ॥२८॥
यथा श्यामोऽविशत्कृष्णं भगवन्तं पुरा स्वयम् ॥२९॥

योगमायाबलादेते तिष्ठन्तोऽन्यत्र यद्यपि ।
तथापि प्राविशन्गौरेऽचिन्त्यलक्षणलक्षितः ॥३०॥
यथोक्तं व्यासचरणैः प्रभासखण्डमध्यतः ।
अचिन्त्याः खलु ये भावा न तंस्तर्केण योजयेत॥३१॥
रघुनाथं प्रविश्यापि यथा तिष्ठति भार्गवः ।
एवं श्रीनारदमुखास्तिष्ठन्त्यन्येषु धामसु ।
तथैव प्रभुना सार्धं दिव्यन्ति श्रुतिदेहवत॥३२॥
किन्तु यद्यद्भक्तगणा यद्यद्भावविलासिनः ।
तत्तद्भावानुसारेण व्रजे तेषामभूद्गतिः ॥३३॥
गौरचन्द्रोदयेऽद्वैतं प्रति गौरवचो यथा—

दास्ये केचन केचन प्रणयिनः सख्यैक एवोभये
राधामाधवनैष्ठिकाः कतिपये श्रीद्वारकाधीशितुः ।
सख्यादावुभयत्र केचन परे ये वावतारान्तरे
मय्याबद्धहृदोऽखिलान्वितनवै वृन्दावनासङ्गिनः ॥३४॥ [CःCःण् १०.७३]

पर्जन्यो नामा गोपाल आसीत्कृष्णपितामहः ।
उपेन्द्रमिश्रः सन्जातः श्रीहट्टे सप्तपुत्रवान॥३५॥
महामन्याभिधा गोपी व्रजे यासीद्वरीयसी ।
कृष्णपितामही सैव नाम्नात्र कमलावती ॥३६॥

पुरा यशोदाव्रजराजनन्दौ
वृन्दावने प्रेमरसाकरौ यौ ।
शचीजगन्नाथपुरन्दराभिधौ
बभूवतुस्तौ न च संशयोऽत्र ॥३७ ॥

अमू आविशतामेव देवावदितिकश्यपौ ।
श्रीकौशल्यादशरथौ तथा श्रीपृश्णितत्पती ॥३८ ॥
देवकी वसुदेवौ यौ पितरौ रामकृष्णयोः ।
तावप्यमू अविशतामिति जल्पन्ति केचन ।
अन्यथा राममूर्तेः श्रीविश्वरूपस्य नोद्भवः ॥३९॥
रोहिणी वसुदेवौ यौ पितरौ रामकृष्णयोः ।
पद्मवतीमुकुन्दौ तौ सन्तौ जातौ द्विजोत्तमौ ।
श्रीसुमित्रादशरथौ तावप्यविशताममू ॥४०॥

पौर्णमासी व्रजे यासीद्गोविन्दानन्दकारिणी ।
आचार्यः श्रीलगोविन्दो गीतपद्यादिकारकः ॥४१॥
नाम्नाम्बिका व्रजे धात्री स्तन्यदात्री स्थिता पुरा ।
सैवेयं मलिनी नाम्नी श्रीवासगृहिणी मता ॥४२॥
अम्बिकायाः स्वसा यासीन्नाम्ना श्रीलकिलिम्बिका ।
कृष्णोच्छिष्टं प्रभुञ्जाना सेयं नारायणी मता ॥४३॥
पुरासीज्जनको राजा मिथिलाधिपतिर्महान।
अधुना वल्लभाचार्यो भीष्मकोऽपि च सम्मतः ॥४४॥
श्रीजानकी रुक्मिणी च लक्ष्मी नाम्नी च तत्सुता ।
चैतन्यचरिते व्यक्ता लक्ष्मीनाम्नी च सा यथा ॥४५॥

सा वल्लभाचार्यसुता चलन्ती
स्नातुं सखीभिः सुरदीर्घिकायाम् ।
लक्ष्मीरनेनैव कृतावतारा
प्रभोर्ययौ लोचनवर्त्म तत्र ॥४६॥

श्रीसनातनमिश्रोऽयं पुरा सत्राजितो नृपः ।
विष्णुप्रिया जगन्माता यत्कन्या भूस्वरूपिणी ॥४७ ॥
उक्ता प्रसङ्गात्कलिना श्रीचैतन्यविधूदये ।
भुवोऽंशरूपां परमं च विष्णुप्रियां विदित्वा परिणीय कान्ताम् ॥४८॥ इत्यादि ।

विश्वामित्रोऽपि घटकः श्रीरामोद्वहकर्मणि ।
रुक्मिण्या प्रेषितो विप्रो यश्च श्रीकेशवं प्रति ।
तावरां वनमाली यत्कर्मणाचार्यतां गतः ॥४९॥
यश्च सत्राजिता विप्रः प्रहितो माधवं प्रति ।
सत्योद्वाहाय कुलकः श्रीकाशीनाथ एव सः ॥५०॥
केनावान्तरभेदेन भेदं कुर्वन्ति सात्वताः ।
सत्यभामा प्रकाशोऽपि जगदानन्दपण्डितः ॥५१ ॥
मथुरायां यज्ञसूत्रं पुरा कृष्णाय यो मुनिः ।
ददौ सान्दीपनिः सोऽभूदद्य केशवभारती ॥५२ ॥
पुरासीद्रघुनाथस्य यो वशिष्ठ मुनिर्गुरुः ।
स प्रकाशविशेषेण गङ्गादाससुदर्शनौ ॥५३ ॥

वृषभानुतया ख्यातः पुरा यो व्रजमण्डले ।
अधुना पुण्डरीकाक्षो विद्यानिधिमहाशयः ॥५४॥
स्वकीय भावमासाद्य राधा विरह कातरः ।
चैतन्यः पुण्डरीकाह्वये तातावदत्स्वयम् ॥५५॥
प्रेमनिधितया ख्यातिं गौरो यस्मै ददौ सुखी ।
माधवेन्द्रस्य शिष्यत्वात्गौरवं च सदाकरोत॥५६॥

तत्प्रकाशविशेषोऽपि मिश्रः श्रीमाधवो मतः ।
रत्नावती तु तत्पत्नी कीर्तिदा कीर्तिता बुधैः ॥५७॥
अंशांशिनोरभेदेन व्यूह आद्यः शचीसुतः ।
बलदेवो विश्वरूपो व्यूहः सङ्कर्षणो मतः ॥५८॥
नित्यानन्दावधूतश्च प्रकाशेन स उद्यते ।
गौरचन्द्रोदये धर्मं प्रतिवाक्यं कलेर्यथा ॥५९॥

अस्याग्रजस्त्वकृत दारपरिग्रहः सन्
सङ्कर्षणः स भगवान्भुवि विश्वरूपः ।
स्वीयं महः किल पुरीश्वरमापयित्वा
पूर्वं परिव्रजित एव तिरोबभूव इति ॥६०॥ [CःCःण् १.२५]

नित्यानन्दावधूतो मह इति महितं हन्त सङ्कर्षणो यः इति च ॥६१॥

यदा श्रीविश्वरूपोऽयं तिरोभूतः सनातनः ।
नित्यानन्दावधूतेन मिलित्वापि तदा स्थितः ॥६२॥

ततोऽवधूतो भगवान्बलात्मा
भवान्सदा वैष्णववर्गमध्ये ।
जज्वाल तिग्मांशुसहस्रतेजा
इति ब्रुवन्मे जनको ननर्त ॥६३॥

स्वांशेन शेषेण य एष शय्या
विष्णोश्च कृष्णस्य च वासभूषा ।
स्वाङ्गस्य भूषावलयादिरूपैर्
लीलाख्यया वेदनिगूढलीलाम् ॥६४॥

श्रीवारुणीरेवतवंशसम्भवे
तस्य प्रिये द्वे वसुधा च जाह्नवी ।
श्रीसूर्यदासस्य महात्मनः सुते
ककुद्मीरूपस्य च सार्यतेजसः ॥६५॥

केचित्श्रीवसुधादेवीं कलावपि विवृण्वते ।
अनङ्गमञ्जरीं केचिज्जाह्नवीं च प्रचक्षते ।
उभयं तु समीचीनं पूर्वन्यायात्सतां मतम् ॥६६॥

सङ्कर्षणस्य यो व्यूहः पयोब्धिशायिनामकः ।
स एव वीरचन्द्रोऽभूच्चैतन्याभिन्नविग्रहः ॥६७॥
अमुं प्राविशतां कार्यात्सजहौ निषठोल्मुकौ ।
मीनकेतनरामादिर्व्यूहः सङ्कर्षणोऽपरः ॥६८॥
विष्णुपादोद्भवा गङ्गा यासीत्सा निज नामतः ।
नित्यानन्दात्मजा जाता माधवः शन्तनुर्नृपः ॥६९॥
व्यूहस्तृतीयः प्रद्युम्नः प्रियनर्मसखोऽभवत।
चक्रे लीलासहायं यो राधामाधवयोर्व्रजे ।
श्रीचैतन्याद्वैततनुः स एव रघुनन्दनः ॥७०॥
व्यूहस्तूर्योऽनिरुद्धो यो स वक्रेश्वरपण्डितः ।
कृष्णावेशजनृत्येन प्रभोः सुखमजीजनत॥७१॥
सहस्रगायकान्मह्यं देहि त्वं करुणामय ।
इति चैतन्यपदे यः उवाच मधुरं वचः ॥७२॥
स्वप्रकाशाविभेदेन शशिरेखा तमाविशत।
आविर्भावो गौरहरेर्नकुलब्रह्मचारिणि ॥७३॥
आवेशश्च तथा ज्ञेयो मिश्रे प्रद्युम्नसंज्ञके ।
आचार्यो भगवान्खञ्जः कला गौरस्य कथ्यते ॥७४॥
गोपीनाथाचार्यनाम्ना ब्रह्मा ज्ञेयो जगत्पतिः ।
नवव्यूहे तु गणितो यस्तन्त्रे तन्त्रवेदिभिः ॥७५॥

व्रजे आवेशरूपत्वाद्व्यूहो योऽपि सदाशिवः ।
स एवाद्वैतगोस्वामी चैतन्याभिन्नविग्रहः ॥७६॥
यश्च गोपालदेहः सन्व्रजे कृष्णस्य सन्निधौ ।
ननर्त श्रीशिवतन्त्रे भैरवस्य वचो यथा ॥७७॥
एकदा कार्त्तिके मासि दीपयात्रा महोत्सवे ।
सरामः सहगोपालः कृष्णो नृत्यति यत्नवान॥७८॥
निरीक्ष्य मद्गुरुर्देवो गोपभावाभिलाषवान।
प्रियेण नर्तितुमारब्धश्चक्रभ्रमणलीलया ॥७९॥
श्रीकृष्णस्य प्रसादेन द्विविधोऽभूत्सदाशिवः ।
एकस्तत्र शिवः साक्षादन्यो गोपालविग्रहः ॥८०॥
महादेवस्य मित्रं यः कुवेरो गुह्यकेश्वरः ।
कुवेरपण्डितः सोऽद्य जनकोऽस्य विदाम्बरः ॥८१॥
पुरा कुवेरः कैलासे सिद्धसाध्यनिषेविते ।
जजाप परमं मन्त्रं शैवं श्रीशिववल्लभः ॥८२॥
ततो दयालुर्भगवान्वरं वृण्विति सोऽब्रवीत।
तदा कुवेरो वरयामास त्वं मे सुतो भव ॥८३॥
प्रार्थितस्तेन देवेशो वरदेशो सदाशिवः ।
जन्मन्यन्तरे पुत्रः प्राप्स्यामि पुत्रतां तव ॥८४॥
इति प्राप्य वरं कष्टं कियन्तं कालमास्थितः ।
कार्यादीशवशात्सोऽद्याद्वैतस्य जनकोऽभवत॥८५॥

योगमाया भगवती गृहिणी तस्य साम्प्रतम् ।
सीतारूपेणावतीर्णा श्रीनाम्ना तत्प्रकाशतः ॥८६॥
तस्य पुत्रोऽच्युतानन्दः कृष्णचैतन्यवल्लभः ।
श्रीमत्पण्डितगोस्वामिशिष्यः प्रिय इति श्रुतम् ॥८७॥
यः कार्त्तिकेयः प्रागासीदिति जल्पन्ति केचन ।
केचिदाहू रसविदोऽच्युतनाम्नी तु गोपिका ॥
उभयं तु समीचीनं द्वयोरेकत्र सङ्गतात।
कार्त्तिकेयः कृष्णमिश्रस्तत्साम्यादिति केचन ॥८८॥

नन्दिनी जङ्गली ज्ञेया जया च विजया क्रमात॥८९॥
श्रीवासपण्डितो धीमान्यः पुरा नारदो मुनिः ।
पर्वताख्यो मुनिवरो य आसीन्नारदप्रियः ।
स रामपण्डितः श्रीमान्स्तत्कनिष्ठसहोदरः ॥९०॥
मुरारि गुप्तो हनुमानङ्गदः श्रीपुरन्दरः ।
यः श्रीसुग्रीवनामासीद्गोविन्दानन्द एव सः ॥९१॥
विभीषणो यः प्रागासीद्रामचन्द्रपुरी स्मृतः ।
उवाचातो गौरहरिर्नैतद्रामस्य कारणम् ॥
जटिला राधिकाश्वश्रूः कार्यतोऽविशदेव तम् ।
अतो महाप्रभुर्भिक्षासङ्कोचादि ततोऽकरोत॥९२॥

ऋचीकस्य मुनेः पुत्रो नाम्ना ब्रह्मा महातपाः ।
प्रह्लादेन समं जातो हरिदासाख्यकोऽपि सन॥९३॥
मुरारिगुप्तचरणैश्चैतन्यचरितामृते ।
उक्तो मुनिसुतः प्रातस्तुलसीपात्रमाहरन॥९४॥
अधौतमभिषप्तस्तं पिता यावनतां गतः ।
स एव हरिदासः सन्जातः परम भक्तिमान॥९५॥
वृन्दावने यः प्रागासन्नणिमाद्यष्टसिद्धयः ।
त एवाष्टौ भक्तरूपा भूता गौडे च ते यथा ॥९६॥
अनतश्च सुखानन्दो गोविन्दो रघुनाथकः ।
कृष्णानन्दः केशवश्च श्रीदामोदरराघवौ ।
पुर्युपाधिक्रमाज्ज्ञेया अणिमाद्यष्टसिद्धयः ॥९७॥
जायन्तेयाः स्थिता ऊर्ध्वरेतसः समदर्शिनः ।
नवभागवताः पूर्वं श्रीभागवतसंहिताः ॥९८॥
प्रत्यूचुर्जनकं तेऽद्य भूत्वा सन्न्यासिनः सदा ।
प्रभुना गौरहरिणा विहरन्ति स्म ते यथा ॥९९॥
श्रीनृसिंहानन्दतीर्थः श्रीसत्यानन्दभारती ।
श्रीनृसिंहचिदानन्दजगन्नाथा हि तीर्थकाः ॥१००॥
तीर्थाभिधो वासुदेवः श्रीरामः पुरुषोत्तमः ।
गरुडाख्यावधूतश्च श्रीगोपेन्द्राख्य आश्रमः ॥१०१॥

लोके ये निधयः ख्याताः पद्मशङ्खादयो नव ।
अत्रैव निधिरत्नाख्यगर्भजाताः प्रभोः प्रियाः ॥१०२॥
श्रीश्रीनिधिश्च श्रीगर्भः कविरत्नः सुधानिधिः ।
विद्यानिधिर्गुणनिधी रत्नबाहुर्द्विजाग्रणीः ।
श्रीमानाचार्यरत्नश्च श्रीरत्नाकर पण्डितः ॥१०३॥

नीलाम्बरस्चक्रवर्ती गौरस्य भाविजन्म यत।
सभायां कथायमास तेनासौ गर्ग उच्यते ॥१०४॥
श्रीशच्या जनकत्वेन सुमुखो बल्लवो मतः ।
पतलाया व्रजे ख्याता ज्ञेया तस्य सधर्मिणी ॥१०५॥
पुराणानामर्थवेत्ता श्रीदेवानन्दपण्डितः ।
पुरासीन्नन्दपरिषत्पण्डितो भागुरिर्मुनिः ॥१०६॥
काशीनाथो लोकनाथः श्रीनाथो रामनाथकः ।
चत्वारोऽमी ज्ञानीभक्ताः सनकाद्या न संशयः ॥१०७॥
चतुर्ष्वप्येषु शब्देषु नाथशब्दस्य कीर्तनात।
चतुःसनवदेवात्र चतुर्नाथा उदीरितः ॥१०८॥

वेदव्यासो य एवासीद्दासो वृन्दावनोऽधुना ।
सखा यः कुसुमापीडः कार्यतस्तं समाविशत॥१०९॥

भट्टो वल्लभ नामाभूच्छुको द्वैपायनात्मजः ॥११०॥
आचार्यः श्रीजगन्नाथो गङ्गादासः प्रभुप्रियः ।
आसीन्निधुवने प्राग्यो दुर्वासा गोपिकाप्रियः ॥१११॥
चन्द्रशेखर आचार्यश्चन्द्रो ज्ञेयो विचक्षणैः ।
श्रीमानुद्धवदासोऽपि चन्द्रावेशावतारकः ॥११२॥
अतश्चैतन्य हरिणा कथितोऽयं निशापतिः ।
श्रीमद्विश्वेश्वराचार्यो यः प्रागासीद्दिवाकरः ॥११३॥

विश्वकर्मा पुरा योऽभूदद्य भास्करठक्कुरः ।
भिक्षको वनमाली यः सुदामासीद्द्विजो पुरा ।
धनं प्राप्य प्रभोः सङ्गे दुःखं मत्वाभ्रमद्यतः ॥११४॥
वैकुण्ठे द्वारपालौ यौ जयाद्यविजयान्तकौ ।
तावद्य जातौ स्वेच्छातः श्रीजगन्नाथमाधवौ ॥११५॥
पुण्डरीकाक्षकुमुदौ ख्यातौ वैकुण्ठमण्डले ।
गोविन्दगरुडाख्यौ तौ जातौ गौडे प्रभोः प्रियौ ॥११६॥
गरुडः पण्डितः सोऽद्य गरुडो यः पुरा श्रुतः ।
पुरा योऽक्रूरनामासीत्स गोपीनाथसिंहकः ।
इति केचित्प्रभाषन्तेऽक्रूरः केशवभारती ॥११७॥

पुरी परमानन्दो य आसीदुद्धवः पुरा ॥
इन्द्रद्युम्नो महाराजो जगन्नाथार्चकः पुरा ।
जातः प्रतापरुद्रः सन्सम इन्द्रेण सोऽधुना ॥११८॥
भट्टाचार्यः सार्वभौमः पुरासीद्गीष्पतिर्दिवि ॥११९॥

प्रियनर्मसखा कश्चिदर्जुनः पाण्डवोऽर्जुनः ।
मिलित्वा समभूद्रामानन्दरायः प्रभोः प्रियः ॥१२०॥
अतो राधाकृष्णभक्तिप्रेमतत्त्वादिकं कृती ।
रामानन्दो गौरचन्द्रं प्रत्यवर्णयदन्वहम् ॥१२१॥
ललितेत्याहुरेके यत्तदेकेनानुमन्यन्ते ।
भवानन्दं प्रति प्राह गौरो यत्त्वं पृथापतिः ॥१२२॥
गोप्यार्जुनीयया सार्धमेकीभायापि पाण्डवः ।
अर्जुनो यद्रायरामानन्द इत्याहुरुत्तमाः ॥१२३॥
अर्जुनीयाभवत्तूर्णमर्जुनोऽपि च पाण्डवः ।
इति पाद्मोत्तरखण्डे व्यक्तमेव विराजते ।
तस्मादेतत्त्रयं रामानन्दरायमहाशयः ॥१२४॥

व्रजे भक्ताः समासेन कथ्यन्तेऽथ यथा मतिः ॥१२५॥
पुरा श्रीदामनामासीदभिरामोऽधुना महान।
द्वात्रिंशता जनैरेव बाह्यं काष्ठमुवाह यः ॥१२६॥
पुरा सुदामनामासीदद्य सुन्दरठक्कुरः ।
वसुदामसखा यश्च पण्डितः श्रीधनञ्जयः ॥१२७॥
सुबलो यः प्रियश्रेष्ठः स गौरीदासपण्डितः ।
कमलाकरपिप्पलाइनाम्नासीद्यो महाबलः ॥१२८॥
सुबाहुर्यो व्रजे गोपो दत्त उद्धारणाख्यकः ।
महेशपण्डितः श्रीमन्महाबाहुर्व्रजे सखा ॥१२९॥
स्तोककृष्णः सखा प्राग्यो दासः श्रीपुरुषोत्तमः ॥१३०॥
सदाशिवसुतो नाम्ना नागरः पुरुषोत्तमः ।
वैद्यवंशोद्भवो नाम्ना दामा यो बल्लवो व्रजे ॥१३१॥
नाम्नार्जुनः सखा प्राग्यो दासः स परमेश्वरः ।
कालः श्रीकृष्णदासः स यो लवङ्गः सखा व्रजे ॥१३२॥
खोलावेचतया ख्यातः पण्डितः श्रीधरो द्विजः ।
आसीद्व्रजे हास्यकारी यो नाम्ना कुसुमासवः ॥१३३॥
बलरामसखा कश्चित्प्रबलो गोपबालकः ।
आसीद्व्रजे पुरा योऽद्य स हलायुधठक्कुरः ॥१३४॥
वरूथपः सखा नाम्ना कृष्णचन्द्रस्य यो व्रजे ।
आसीत्स एव गौराङ्गवल्लभो रुद्रपण्डितः ॥१३५॥
गन्धर्वो यो व्रजे गोपः कुमुदानन्दपण्डितः ॥१३६॥
पुरा वृन्दावने चेटौ स्थितौ भृङ्गरभङ्गुरौ ।
श्रीकाशीश्वर गोविन्दौ तौ जातौ प्रभुसेवकौ ॥१३७॥
वृन्दावने स्थितौ प्राग्यौ भृत्यौ रक्तकपत्रकौ ।
गौराङ्गसेवकावद्य हरिदासबृहच्छिशू ॥१३८॥
पयोदवारिदौ प्राग्यौ नीरसंस्कारकारिणौ ।
तावद्य भृत्यौ रामयिर्नन्दयिश्चेति विश्रुतौ ॥१३९॥
व्रजे स्थितौ गायकौ यौ मधुकण्ठमधुव्रतौ ।
मुकुन्दवासुदेवौ तौ दत्तौ गौराङ्गगायकौ ॥१४०॥
नटश्चन्द्रमुखः प्राग्यः स कारो मकरध्वजः ॥१४१॥
पुरासीद्यो व्रजे नाम्ना मृदङ्गी श्रीसुधाकरः ।
स श्रीशङ्करघोषोऽद्य दम्फवाद्यविशारदः ॥१४२॥
आसीद्व्रजे चन्द्रहासो नर्तको रसकोविदः ।
सोऽयं नृत्यविनोदी श्रीजगदीशाख्यपण्डितः ॥१४३॥
वेणुं च मुरलीं योऽधन्नाम्ना मालाधरो व्रजे ।
सोऽधुना वनमालाख्यः पण्डितो गौरवल्लभः ॥१४४॥
वृन्दावने यौ विख्यातौ शुकौ दक्षविचक्षणौ ।
तावद्य जातौ मज्ज्येष्ठौ चैतन्यरामदासकौ ॥१४५॥

अधुना बल्लवीवर्गा ये ये भूताः प्रभुप्रियाः ।
ते त एव प्रकाश्यन्ते यथामति यथाश्रुतम् ॥१४६॥

श्रीराधा प्रेमरूपा या पुरा वृन्दावनेश्वरी ।
सा श्रीगदाधरो गौरवल्लभः पण्डिताख्यकः ॥१४७॥
निर्णीतः श्रीस्वरूपैर्यो व्रजलक्ष्मीतया यथा ॥१४८॥
पुरा वृन्दावने लक्ष्मीः श्यामसुन्दरवल्लभा ।
साद्य गौरप्रेमलक्ष्मीः श्रीगदाधरपण्डितः ॥१४९॥
राधामनुगता यत्तल्ललिताप्यनुराधिका ।
अतः प्राविशदेषा तं गौरचन्द्रोदये यथा ॥१५०॥

इयमपि ललितैव राधिकाली
न खलु गदाधर एष भूसुरेन्द्रः ।
हरिरयमथवा स्वयैव शक्त्या
तिर्तयमभूत्सा सखी च राधिका च ॥१५१॥ [CःCःण् ३.४४]

ध्रुवानन्दब्रह्मचारी ललितेत्यपरे जगुः ।
स्वप्रकाशविभेदेन समीचीनं मतं तु तत॥१५२॥
अथवा भगवान्गौरः स्वेच्छयागात्रिरूपताम् ।
अतः श्रीराधिकारूपः श्रीगदाधरपण्डितः ॥१५३॥

राधाविभूतिरूपा या चन्द्रकान्तिः पुरा स्थिता ।
साद्य गौराङ्ग निकटे दासवंशगदाधरः ॥१५४॥
पूर्णानन्दा व्रजे यासीद्बलदेवप्रियाग्रणीः ।
सापि कार्यवशादेव प्राविशतं गदाधरम् ॥१५५॥

पुरा चन्द्रावली यासीद्व्रजे कृष्णप्रिया परा ।
अधुना गौडदेशे सा कविराजः सदाशिवः ॥१५६॥
यस्या वक्षसि सुष्वाप कृष्णो वृन्दावने पुरा ।
सा श्रीभद्राद्य गौराङ्ग प्रियः शङ्करपण्डितः ॥१५७॥
पुरा श्रीतारकापाल्यौ ये स्थिते व्रजमण्डले ।
ते साम्प्रतं जगन्नाथश्रीगोपालौ प्रभोः प्रियौ ॥१५८॥
शैब्या यासीद्व्रजे चण्डी स दामोदरपण्डितः ।
कुतश्चित्कार्यतो देवी प्राविशत्तं सरस्वती ॥१५९॥
कलामशिक्षयद्राधां या विशाखा व्रजे पुरा ।
साद्य स्वरूपगोस्वामी तत्तद्भावविलासवान॥१६०॥
केशविन्यासमकरोद्राधां चित्रा व्रजे पुरा ।
सेदनीं कविराजः श्रीवनमाली प्रभोः प्रियः ॥१६१॥
श्रीराधाप्राणरूपा या श्रीचम्पकलता व्रजे ।
साद्य राघवगोस्वामी गोवर्धनकृतस्थितिः ।
भक्तिरत्नप्रकाशाख्यग्रन्थो येन विनिर्मितः ॥१६२॥
तुङ्गविद्या व्रजे यासीत्सर्वशास्त्रविशारदा ।
सा प्रबोधानन्दयतिर्गौरोद्गानसरस्वती ॥१६३॥
इन्दुलेखा व्रजे यासीच्छ्रीराधायाः सखी पुरा ।
कृष्णदासब्रह्मचारी कृतवृन्दावनस्थितिः ॥१६४॥
रङ्गदेवी पुरा यासीदद्य भट्टो गदाधरः ।
अनन्ताचार्य गोस्वामी या सुदेवी पुरा व्रजे ॥१६५ ॥
श्रीकाशीश्वरगोस्वामी शशिरेखा पुरा व्रजे ।
धनिष्ठा भक्ष्यसामग्रीं कृष्णायादाद्व्रजेऽमिताम् ।
सैव सम्प्रति गौराङ्गप्रियो राघवपण्डितः ॥१६६॥
गुणमाला व्रजे यासीद्दमयन्ती तु तत्स्वसा ।
रत्नरेखा कृष्णदासः कृष्णानन्दः कलावती ॥१६७॥
गौरसेनी पुरा नारायणवाचस्पतिः कृती ।
पीताम्बरस्तु कावेरी सुकेशी मकरध्वजः ॥१६८॥
माधवी माधवाचार्य इन्दिरा जीवपण्डितः ॥१६९॥
व्रजे यासीत्सुमधुरा तुङ्गविद्या प्रिया पुरा ।
विद्यावाचस्पतिर्गौरप्रियो व्रजजनप्रियः ॥१७०॥
बलभद्राख्यको भट्टाचार्यः श्रीमधुरेक्षणा ।
श्रीनाथमिश्रस्चित्राङ्गी कविचन्द्रो मनोहरा ॥१७१॥

व्रजे नान्दीमुखी यासीत्साद्य सारङ्गठक्कुरः ।
प्रह्लादो मन्यते कैश्चिन्मत्पित्रा न स मन्यते ॥१७२॥
कलकण्ठीसुकण्ठ्यौ ये व्रजे गान्धर्वनाटिके ।
रामानन्दवसुसत्यराजाश्चापि यथायथम् ॥१७३॥

व्रजे कत्यायनी यासीदद्य श्रीकान्तसेनकः ॥१७४॥
व्रजाधिकारिणी यासीद्वृन्दादेवी तु नामतः ।
सा श्रीमुकुन्ददासोऽद्य खण्डवासः प्रभुप्रियः ॥१७५॥
पुरा वृन्दावने वीरा दूती सर्वाश्च गोपिकाः ।
निनाय कृष्णनिकरं सेदानीं जनको मम ।
व्रजे बिन्दुमती यासीदद्य सा जानकी मम ॥१७६॥
पुरा मधुमती प्राणसखी वृन्दावने स्थिता ।
अधुना नरहर्याख्यः सरकारः प्रभोः प्रियः ॥१७७॥
पुरा प्राणसखी यासीन्नाम्ना रत्नावली व्रजे ।
गोपीनाथाख्यकाचार्यो निर्मलत्वेन विश्रुतः ॥१७८॥
वंशी कृष्णप्रिया यासीत्सा वंशीदासठक्कुरः ।१७९॥

श्रीरूपमञ्जरी ख्याता यासीद्वृन्दावने पुरा ।
साद्य रूपाख्यगोस्वामी भूत्वा प्रकटतामियात॥१८०॥
या रूपमञ्जरीप्रेष्ठा पुरासीद्रतिमञ्जरी ।
सोच्यते नामभेदेन लवङ्गमञ्जरी बुधैः ॥१८१॥
साद्य गौराभिन्नतनुः सर्वाराध्यः सनातनः ।
तमेव प्राविशत्कार्यान्मुनिरत्नः सनातनः ॥१८२॥
श्रीमल्लवङ्गमञ्जर्याः प्रकाशत्वेन विश्रुतः ।
शिवानन्दश्चक्रवर्ती कृतवृन्दावनस्थितिः ॥१८३॥
अनङ्गमञ्जरी यासीत्साद्य गोपालभट्टकः ।
भट्टगोस्वामिनं केचिदाहुः श्रीगुणमञ्जरी ॥१८४॥
रघुनाथाख्यको भट्टः पुरा या रागमञ्जरी ।
कृतश्रीराधिकाकुण्डकुटीरवसतिः स तु ॥१८५॥
दासश्रीरघुनाथस्य पूर्वाख्या रसमञ्जरी ।
अमुं केचित्प्रभाषन्ते श्रीमतीं रतिमञ्जरीम् ।
भानुमत्याख्यया केचिदाहुस्तं नामभेदतः ॥१८६॥
भूगर्भठक्कुरस्यासीत्पूर्वाख्या प्रेममञ्जरी ।
लोकनाथाख्यगोस्वामी श्रीलीलामञ्जरी पुरा ॥१८७॥
कलावती रसोल्लासा गुणतुङ्गा व्रजे स्थिता ।
श्रीविशाखाकृतं गीतं गायन्ति स्माद्य ता मताः ।
गोविन्दमाधवानन्दवासुदेवा यथाक्रमम् ॥१८८॥
रागलेखाकलाकेल्यौ राधादास्यौ पुरा स्थिते ।
ते ज्ञेये शिखिमाहाती तत्स्वसा माधवीक्रमात॥१८९॥
पुलिन्दतनया मल्ली कालिदासोऽधुनाभवत॥१९०॥
शुक्लाम्बरो ब्रह्मचारी पुरासीद्यज्ञपत्निका ।
प्रार्थयित्वा यदन्नं श्रीगौराङ्गो भुक्तवान्प्रभुः ।
केचिदाहुर्ब्रह्मचारी याज्ञिकब्राह्मणः पुरा ॥१९१ ॥
अपरे यज्ञपत्न्यौ श्रीजगदीशहिरण्यकौ ।
एकादश्यां ययोरन्नं प्रार्थयित्वाघसत्प्रभुः ॥१९२॥
मथुरायां पुरा यासीत्सैरन्ध्री कृष्णवल्लभा ।
साद्य नीलाचलावासः काशीमिश्रः प्रभोः प्रियः ॥१९३॥
मलती चन्द्रलतिका मञ्जुमेधा वराङ्गदा ।
रत्नावली च कमला गुणचूडा सुकेशिनी ॥१९४॥
कर्पूरमञ्जरी श्याममञ्जरी श्वेतमञ्जरी ।
विलासमञ्जरी कामलेखा च मौनमञ्जरी ॥१९५॥
गन्धोन्मादा रसोन्मादा चन्द्रिका कलभाषिणी ।
गोपाली हरिणी काली कलाक्षी नित्यमञ्जरी ॥१९६॥
कलकण्ठी कुराङ्गाक्षी चन्द्रिका चन्द्रशेखरा ।
या याः स्वयोग्यसेवायां नियुक्ताः सन्ति राधया ॥१९७॥
गौरेण तत्प्रियैः सार्धं धृतपुरुषविग्रहः ।
खेलन्ति स्म स्वभावानुसारात्ताः क्रमशो यथा ॥१९८॥
शुभानन्दो द्विजो ब्रह्मचारी श्रीधर नामकः ।
परमानन्दगुप्तो यत्कृता कृष्णस्तवावली ॥१९९॥
रघुनाथो द्विजः कश्चिद्गौराङ्गानन्यसेवकः ।
कंसारिसेनः सेनश्रीजगन्नाथो महाशयः ॥२००॥
सुबुद्धिमिश्रः श्रीहर्षो रघुमिश्रो द्विजोत्तमः ॥२०१॥
रिपवः षट्काममुख्या जिता येन वशीकृताः ।
यथार्थनाम गौरेण जितामित्रः स निर्मितः ॥२०२॥
निर्मिता पुस्तिका येन कृष्णप्रेमतरङ्गिणी ।
श्रीमद्भागवताचार्यो गौराङ्गात्यन्तवल्लभः ॥२०३॥
सुशीलः पण्डितः श्रीमान्जीवः श्रीवल्लभात्मजः ।
वाणीनाथद्विजश्चम्पहट्टवासी प्रभोः प्रियः ॥२०४॥
ईशानाचार्यकमलौ लक्ष्मीनाथाख्यपण्डितः ।
गङ्गा मन्त्री जगन्नाथो मामूपाधिर्द्विजोत्तमः ॥२०५॥
श्रीकण्ठाभरणोपाधिरनन्तश्चट्टवंशजः ।
हस्तिगोपालनामा च रङ्गवासी च वल्लभः ॥२०६॥
हर्याचार्यो गौरसङ्गी मिश्रः श्रीनयनस्तथा ।
कविदत्तो रामदासश्चिरञ्जीवसुलोचनौ ॥२०७॥
केचिन्महन्तः केचित्स्युर्महन्तश्चोपपूर्वकाः ।
उभयेषां गुणास्तुल्यास्तेनामी गणिता मया ॥२०८॥
खण्डवासौ नरहरेः सहाचार्यान्महत्तरौ ।
गौराङ्गैकान्तशरणौ चिरञ्जीवसुलोचनौ ॥२०९॥
गुरोर्नाम न गृह्णीतादिति शास्त्रानुसारतः ।
श्रीश्रीनाथस्य पूर्वाख्या मया न प्रकटीकृता ॥२१०॥
व्याचकार परिपाट्याद्यो भागवतसंहिताम् ।
कुमारहट्टे यत्कीर्तिः कृष्णदेवो विराजते ॥२११॥

ये ये महन्तः क्रमभङ्गभूतास्
ते मेऽपराधं कृपया क्षमन्तम् ।
गुणान्विनिर्णीय सतां समस्तान्
ब्रह्मेशशेषाः कथितुं न शक्ताः ॥२१२॥

मीमांसकेभ्यः शठतर्किकेभ्यो
विशेषतो हेतुरतेभ्य एव ।
गोप्यः प्रयत्नाद्रसशास्त्रविद्भ्यो
देयः सदा गौरपदाश्रयेभ्यः ॥२१३॥

श्रीगौरगणोद्देशा दीपिका रचिता मया ।
दीप्यतां परमानन्दसन्दोहभक्तवेश्मनि ॥२१४॥

शके वसुग्रहमिते मनुनैव युक्ते
ग्रन्थोऽयमाविरभवत्कतमस्य घस्रात।
चैतन्यचन्द्रचरितामृतमग्नचित्तैः
शोध्यः समाकलितगौरगणाख्य एषः ॥२१५॥

"https://sa.wikisource.org/w/index.php?title=गौरगणोद्देशदीपिका&oldid=92901" इत्यस्माद् प्रतिप्राप्तम्