सम्मुखभागम्
पश्चाद्भागम्
राजमुद्रा
सिद्धं स्वस्ति ॥
श्रीमान्मानित-शासनो निजबलैरध्यासितो वीर्यवानर्यानन्द-स्वभूति-नन्दितमना दान-प्रियः क्षान्तिमान् ।
भास्वद्वंश-भवः प्रजा-हितकरो निःशेष-भूमीश्वरः सिद्धार्थो भुवनानि पातु सुगतः पाता च धर्म-स्थितेः ॥ (१)
नृपतिरिह बभूव ध्वस्त-दोषान्धकारो रविरिव पटु-धाम्नान्धाम-गोपाल-नामा ।
अगणित-गुण-रत्नं यं समासाद्य जातं हरि-वसति सुखेभ्यो दत्त-तोयाञ्जलिः श्रीः ॥ (२)
अत्युद्धत-द्विषदनीक-जयार्जित-श्रीः श्री-धर्मपाल-इति तस्य सुतो बभूव ।
प्रक्षालितानि कलि-सन्तमसाविलानि यस्येन्दुनेव यशसा ककुभाम्मुखानि ॥ (३)
दुर्वारान् द्विषतो विजित्य समरे तानिन्द्रराजादिकान् सिन्धूनामधिप-प्रमथ्य रभसादुन्मूलितं क्ष्माभृता ।
दत्ता येन मही महोदयवती विक्रान्तिभाजा निजा निर्व्याजानति-वामनाय बलिना चक्रायुधार्थिने ॥ (४)
रेणून्यस्याङ्गणेभ्यो हत-रिपु-महिषी श्वास-वाता हरन्ति सिञ्चन्त्येतानि माद्यत्करि-करट-गलद्दान-तोय-प्रवाहाः ।
राज्ञां सेवापराणाम्प्रणत-निज-शिरो-रत्न-पुष्प-प्रतानैर्दौर्दर्पानीता-लक्ष्मी-कर-कमल-धृतः पूजितः पाद-पद्मः ॥ (५)
नीतेर्विलास-भवनम्प्रिय-विक्रमायः श्री-देवपाल-इति तत्तनयो बभूव ।
यः कौतुकादिव जगत्पदवीन्दिदृक्षुश्चंक्रम्यते स्म भवनाङ्गण-लीलयेव ॥ (६)
दण्डोपनीत-कनकैर्वसुधाधिपानां राजा महा-समर-नाटक-सूत्रधारः ।
यो निर्मित सुगत-सद्म गृहञ्च गौर्या यत्कौतुकञ्च तिलकञ्च जगत्त्रयेऽपि ॥ (७)
दुर्वारास्त्र-निपात-भीषण-रणात् सन्नाह-लब्धोदयं साक्षीकृत्य विभावसुं रण-शिरोवेदी महा-मण्डपे ।
खड़्गावर्जित-वैरि-वारण-सटा-कुम्भासृगम्भः प्लुतो यो जग्राह करं क्षितीश्वर-वरो निःशेष-भूभृद्भुवाम् ॥ (८)
यं योधयामासुररातयस्ते येषां रिरंसा सुर-सुन्दरीभिः ।
तथा विवस्वद्भ्रमणावधीनि यैः क्रेतुमिष्टान्यसुभिर्यशांसि ॥ (९)
धर्मस्य प्रसवेन येन विपुलाम्भूतिं चिरं बिभ्रता भ्रू-लीला-हृत-कामरूप-विभवेनारोहताद्यम्भूषम् ।
दुर्गायाश्च हिमालयाचल-भुवः श्लाघ्यं करं गृह्नता सम्यक् स्वम्परमेश्वरत्वमपरन्देवेन सन्दर्शितम् ॥ (१०)
स चाहमानान्वय-वारिधीन्दोः साध्वीं सुतान्-दुर्लभराज-नाम्नः ।
श्री-माहटां धर्मपरां नरेन्द्रस्त्रैतीमिवोढ़ः सुलक्षणाङ्गीम् ॥ (११)
सा देवकीव नर-देव-सहस्र-वन्द्यं सौकर्यतो वसुमती-भरमुद्वहन्तम् ।
लक्ष्म्याः स्वयंवर-पतिम्पुरुषोत्तमञ्च देवं सुतोत्तममसूत महेन्द्रपालम् ॥ (१२)
यस्याशा-विजय-प्रयाणे रजसां सान्द्रे समुत्सर्पति व्यूहे निर्भर-पूरिताम्बरतया सम्पादितोर्वी-भ्रमे ।
स्पृष्टे पादतलैरकाण्ड-पतनाशङ्का-चमत्कारिणी-विद्यामुत्पतनैक-हेतुमजपन् विद्याधराणां गणाः ॥ (१३)
आ-प्रालेय-गिरेर्वृषाङ्क-वृषभ-क्षुण्णाग्र-रत्न-स्थलादा-सिन्धोर्दश-कन्धरारि-विशिख-व्यालोड़ितान्तर्जलात् ।
आ-पूर्वापर-दिङ्मुखैक-तिलकात् शैल-द्वयाद्भूभुजा निर्व्याजं निपतन्ति यस्य चरणे दूरानतैर्मौलिभिः ॥ (१४)
खड़्गोत्खात-महेभ-कुम्भ-विगलत्कीलाल-धारा-जले जातो वैरि-वधू-विलोचन-वमद्बाष्पाम्बुभिर्वर्धितः ।
सन्तीर्यापि पतीनपाम्प्रतिदिशं यातः सहस्रैर्मुखैश्चित्रं वाधक-कारुण्यैर्विलासितो यस्य प्रतापानलः ॥ (१५)
त्वं सर्वदा नृपति-चन्द्र-जयश्रियार्थी स्वप्नेऽपि न प्रणयिनी भवतोऽहमासम् ।
इत्थम्भिया कुपितयेव रिपून् भजन्त्या व्याजघ्निरे समर-केलि-सुखानि यस्य ॥ (१६)
स खलु भागीरथी-पथ-प्रवर्तमान-नानाविध-नौवाटक-सम्पादित-सेतुबन्ध-निहित-शैल-शिखर-श्रेणि-विभ्रमात् । निरतिशय-घन-घनाघन-घटा-श्यामायमान-वासर-लक्ष्मी-समारब्ध-सन्तत-जलद-समय-सन्देहात् । उदीचीनानेक-नरपति-प्राभृतीकृताप्रमेय-हयवाहिनी-खर-खुरोत्खात-धूलि-धूसरित-दिगन्तरालात् परमेश्वर-सेवा-समायाताशेष-जम्बूद्वीप-भूपाल-पादात-भर-नमदवनेः कुद्दालखातक-समावासित-श्रीमज्जयस्कन्धावारात् परमसौगत-परमेश्वर-परमभट्टारक-महाराजाधिराज-श्री-देवपालदेव-पादानुध्यातः परमसौगतः परमेश्वरः परमभट्टारको महाराजाधिराजः श्रीमान् महेन्द्रपालदेवः कुशली ॥ श्री-पुण्ड्रवर्धन-भुक्तौ । कुद्दालखातक-विषय नन्ददीर्घिकोद्रङ्गे सीमा । तत्र पार्वेण टङ्गिल-नद्यर्ध-स्रोतः परिच्छिन्ना दक्षिणेनापि कुब्ज-घटिकाऽर्ध-स्रोतिकया काशिग्गड़ बन्धाक-मध्येन नारायण-वासीय पूर्व-सीमावधिः । पश्चिमेनापि गोलयि-निर्झरेनाजगर-वासकावखातेन वल्मीक-स्तूपेनाश्वत्थ-वृक्षेण स्वल्प-नन्दाधार-पश्चिम-पाटेन बिल्व-वृक्षेण बिज्जग-बन्धाकं पश्चिम-षण्णलान्तरामलकी वृक्ष-पर्यन्तः । उत्तरेणाप्यतः पूर्वा-मुखोत्तर-कुण्डा दक्षिणेन नन्दासुराल्या टङ्गिलार्ध-स्रोतोऽवधिः । एवन्निवं नियमित-सीम्नि समुपगतान् सर्वानेव राजनक-राजपुत्र-कुमारामात्य-भुक्तिपति-विषयपति । सेनापत्युपरिक-तदायुक्तक । विनियुक्तक-दाण्डिक-दण्डपाशिक । चौरोद्धरणिक । दौःसाध्यसाधनिक-खोल-दूत-गमागमिकाभित्वरमाण-हस्त्याश्वोष्ट्र-नौबल-व्यापृतक-गोमहिष्यजाविका-वड़वाध्यक्षादि राजपादोपजीविनोऽन्यांश्च चाट-भट-जातीयान् यथाकालाध्यासि-विषय-व्यवहारिणः स-करणान् ब्राह्मण-मानना-पूर्वकं प्रतिवासिनः क्षेत्रकरांश्च यथार्हम्मानयति बोधयति समादिशति च । मतमस्तु भवताम् । महासेनापति श्री-वज्रदेवेन दूतक-मुखेन वयं विज्ञापिताः । यथा माता-पित्रोरात्मनः सकलस्य च सत्त्व-राशेः पुण्याभिवृद्धये नन्ददीर्घिकोद्रङ्गे मया विहारः कारितः तत्र यथोपरिलिखित-नन्ददीर्घिकोद्रङ्गं भगवतो बुद्ध-भट्टारकस्य प्रज्ञापारमितादि सकल-धर्म-नेत्री-स्थानस्य आर्यावैवर्तिक-बोधिसत्त्व-गणस्याष्ट-महापुरुष-पुद्गलार्य-भिक्षु-सङ्घस्य यथार्हं पूजन-लेखनाद्यर्थं चीवर-पिण्डपात-शयनासन-ग्लान-प्रत्यय भैषज्य-परिष्काराद्यर्थं खण्ड-स्फुटित-समाधानार्थम् अन्येषामपि ममाभिमतानाम्मत्परिकल्पित-विभागेनानवद्य-भोगार्थं श्रीमद्भट्टारक-पाद ददत्विति । अतोऽस्माभिस्तदीया विज्ञप्त्या अयं यथोपरिलिखित-उद्रङ्गः स्व-सम्बद्ध-भूमि-समेतश्चतुःसीमा-पर्यन्तः सतलः सोद्देशः सोपरिकरः सघट्ट-तरोपेतः सदशापचारः सचौरोद्धरणः परिहृत-सर्व-पीड़ः । अ-चाट-भट-प्रवेशोऽकिञ्चित्प्रग्राह्यः । राजकुलाभाव्य सर्व-प्रत्याय-समेतो भूमिच्छिद्र-न्यायेनाचन्द्रार्क-क्षिति-समकालं तथैव प्रदत्तः । यतो भवद्भिः सर्वैरेव दानमिदमनुमोदनीयं प्रतिवासिभिः । क्षेत्रकरैश्चाज्ञ-श्रवण-विधेयैर्भूत्वा समुचित-कर-पिण्डादि प्रत्यायोपनयः कार्यः । भाविभिरपि भूपतिभिर्भूमेर्दान-फल-गौरवादपहरणे महा-नरक-पात-भयाच्च दानमिदमनुमोद्य परिपालनीयमिति । संवत् ७ वैशाख-दिने २ । तथा च धर्मानुशंसिनः श्लोकाः ।
बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ (१७)
षष्टिर्वर्ष-सहस्राणि स्वर्गे मोदति भूमिदः ।
आक्षेप्ता चानुमन्ता च तान्येव नरके वसेत् ॥ (१८)
स्व-दत्ताम्पर-दत्तां वा यो हरेत वसुन्धराम् ।
स विष्ठायां कृमिर्भूत्वा पितृभिः सह पच्यते ॥ (१९)
इति कमल-दलाम्बु-विन्दु-लोलां श्रियमनुचिन्त्य मनुष्य-जीवितञ्च ।
सकलमिदमुदाहृतञ्च बुद्ध्वा न हि पुरुषैः पर-कीर्तयो विलोप्याः ॥ (२०)
श्रीमत् सङ्ग्राम-तारेण कृते सुकृत-कर्मणि ।
सौमित्रिरिव रामेण शूरपालोऽत्र दूतकः ॥ (२१)
श्रीमान् कुले महति देवरदेव-नामा श्लाघ्यो बभूव धरणी-तल-गीत-कीर्तिः ।
अद्यापि सद्गुण-कथासु य एक-एव संकीर्त्यते प्रथममेव जनैर्महद्भिः ॥ (२२)
अन्योऽन्य-स्पर्धया वृद्धमनन्य-जन-गोचरम् ।
त्यागः सत्यञ्च शौर्यञ्च यस्य चैतद्गुण-त्रयम् ॥ (२३)
तस्यात्मजोऽभूत् कमला-निवासः श्रीमान् स नारायणदेव-नामा ।
धर्म-प्रियः प्राण-समान-सत्यो बलेन युक्तो गुरुणा महीयान् ॥ (२४)
अमलिन-तरवारि-स्फार-धारा-निपातैः प्लुत-वपुररि-वृन्दं म्लानयन्ति समन्तात् ।
अपि करिवर-भेदोद्भूत-रक्तानुलिप्ता दिशि दिशि सितिमानं यस्य कीर्तिस्ततान ॥ (२५)
त्यागो-निर्भर-पूरितार्थि-हृदयः शौर्यं जितारातिकं सत्य-निर्मित-नाक-धाम-धिषणा विज्ञात-वस्तु-स्थितिः ।
रूपं नेत्र-विनोद-दान-चतुरं शीलं जनानन्दकृत् कीर्तिर्दिक् सरसीषु कैरव-वनच्छायेव यस्याभवत् ॥ (२६)
वह्निर्वैरीन्धनाम् नय-शत-मुकुटोद्घृष्ट-पादारविन्दः पाता लोक-स्थितीनां प्रणयि-जन-सरोजाकरार्कायमानः ।
यः पृथ्यामेकनाथः प्रथित-निज-गुण-श्लघया वर्जितात्मा चक्रे श्री-धर्मपालो नृपतिरधिपतिम्मण्डले दर्दरण्ड्याम् ॥ (२७)
बभूव लक्ष्मीरिव तस्य जाया वपुस्त्रिलोकी-तिलकं वहन्ती ।
सिद्धिस्त्रिवर्गस्य वपुष्मतीव कल्याणदेवीति यथार्थ-नामा ॥ (२८)
कुल-कमलिनी-लीला-लक्ष्मीरुतालय-देवता स्व-पति-हृदय-ग्राहिण्येषा सती किमरुन्धती ।
किमुत वसुधारेयमिव वित्त-प्रसाधित-मन्दिरा इति मनसि याविष्टान् लोकांश्चकार वितर्कितान् ॥ (२९)
दिवीव तस्यां रविणेव तेन धामेव सम्यग्विधिनोदपादि ।
सत्त्वोपकारैक-रतः प्रतापी श्री-वज्रदेवो विमल-स्वभावः ॥ (३०)
यो लक्ष्मीङ्कुलजान्दधत् प्रणयिणीं वीर्योदयाल्लीलया खड़्गावर्जित दन्ति-कुम्भ-विगलद्रक्ताम्बुभिः प्लावितः ।
हुत्वा शस्त्र-हुताशने रिपु-हविर्मन्त्रान्वितो दुर्लभां सङ्ग्रामे विजय-श्रियम्परिणयन् लोके वरत्वं गतः ॥ (३१)
त्यागो द्रवो च सत्ये सदसि पटु-गिरोर्नापवादे परस्य प्रज्ञा शास्त्रे न जातु व्यपगत-तमसो वञ्चनेऽपि प्रजार्थाः ।
क्षान्तिर्दाने न भूयो द्विषति रण-वरे सम्मुखे शस्त्र-पाणौ मैत्री-त्यागे स्थिरोऽभून्न तु चल वनिता-सम्प्रयोगेऽपि यस्य ॥ (३२)
आर्येषु जह्नु-तनया सलिलाभिषेको दिक्कामिनीषु घन-चन्दन-पङ्क-लेपः ।
दुर्वार-वैरि-वनिता-वदनाम्बुजेषु यस्येन्दु-धाम-कलितो यशसां वितानः ॥ (३३)
हंसस्यैताः प्रकृति-पटवो यावदेवेह गावः तत्त्वालोकं विहत-तमसः तन्वते सर्व-दिक्कम् ।
यावत् पृथ्वी-वलय-वहनाश्चर्य-कर्मा च कूर्मः तावत्तस्य व्रजतु कृतिनः कीर्तिरेषा प्रतिष्ठाम् ॥ (३४)
उत्कीर्णमिदं शासनं सामन्त-श्री-माहटेन ।
छन्दांसि
१, ४, ८, १०, १३-१५, २६
शार्दूलविक्रीड़ित
३, ६, ७, १२, १६, २२, ३३
वसन्ततिलक
२, २५
मालिनी
१७-१९, २१, २३
अनुष्टुभ्
९, ११, २४, २८, ३०
उपजाति
३४
मन्दाक्रान्ता
५, ७, ३१, ३२
स्रग्धरा
२९
हरिणी