सामग्री पर जाएँ

गौडपादकारिका/तृतीयप्रकरणम्

विकिस्रोतः तः
← द्वितीयप्रकरणम् गौडपादकारिका/तृतीयप्रकरणम्
गौडपादः
चतुर्थप्रकरणम् →

अथ गौडपादीयकारिकास्वद्वैताख्यं तृतीयं प्रकरणम् । ओं


उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते  ।

प्रागुत्पत्तेरजं सर्वं तेनासौ कृपणः स्मृतः  ॥ ३.१ ॥

अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम्  ।

यथा न जायते किंचिज्जायमानं समन्ततः  ॥ ३.२ ॥

आत्मा ह्याकाशवज्जीवैर्घटाकाशैरिवोदितः  ।

घटादिवच्च संघातैर्जातावेतन्निदर्शनम्  ॥ ३.३ ॥

घटादिषु प्रलीनेषु घटाकाशादयो यथा  ।

आकाशे संप्रलीयन्ते तद्वज्जीवा इहात्मनि  ॥ ३.४ ॥

यथैकस्मिन् घटाकाशे रजोधूमादिभिर्युते  ।

न सर्वे संप्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः  ॥ ३.५ ॥

रूपकार्यसमाख्याश्च भिद्यन्ते तत्र तत्र वै  ।

आकाशस्य न भेदोऽस्ति तद्वज्जीवेषु निर्णयः  ॥ ३.६ ॥

नाकाशस्य घटाकाशो विकारावयवौ यथा  ।

नैवात्मनः सदा जीवो विकारावयवौ तथा  ॥ ३.७ ॥

यथा भवति बालानां गगनं मलिनं मलैः  ।

तथा भवत्यबुद्धानामात्मापि मलिनो मलैः  ॥ ३.८ ॥

मरणे संभवे चैव गत्यागमनयोरपि  ।

(स्थितौ /स्थितः) सर्वशरीरेषु (आकाशेना[K,ष्]चाकाशेना)विलक्षणः  ॥ ३.९ ॥

संघाताः स्वप्नवत्(सर्वे /ष्]सर्वे)  आत्ममायाविसर्जिताः  ।

आधिक्ये सर्वसाम्ये वा नोपपत्तिर्हि विद्यते  ॥ ३.१० ॥

रसादयो हि ये कोशा व्याख्यातास्तैत्तिरीयके  ।

तेषामात्मा परो जीवः (खं यथा /सयथा) संप्रकाशितः  ॥ ३.११ ॥

द्वयोर्द्वयोर्मधुज्ञाने परं ब्रह्म प्रकाशितम्  ।

पृथिव्यामुदरे चैव यथाकाशः प्रकाशितः  ॥ ३.१२ ॥

जीवात्मनोरनन्यत्वमभेदेन प्रशस्यते  ।

नानात्वं निन्द्यते यच्च तदेवं हि समञ्जसम्  ॥ ३.१३ ॥

जीवात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेः प्रकीर्तितम्  ।

भविष्यद्वृत्त्या गौणं तन्मुख्यत्वं (हि न /न हि) युज्यते  ॥ ३.१४ ॥

मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथा  ।

उपायः सोऽवताराय नास्ति भेदः कथंचन  ॥ ३.१५ ॥

आश्रमास्त्रिविधा हीन  मध्यमोत्कृष्टदृष्टयः  ।

उपासनोपदिष्टेयं तदर्थमनुकम्पया  ॥ ३.१६ ॥

स्वसिद्धान्तव्यवस्थासु द्वैतिनो निश्चिता दृढम्  ।

परस्परं विरुध्यन्ते तैरयं न विरुध्यते  ॥ ३.१७ ॥

अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते  ।

तेषामुभयथा द्वैतं तेनायं न विरुध्यते  ॥ ३.१८ ॥

मायया भिद्यते ह्येतन्नान्यथाजं कथंचन  ।

तत्त्वतो भिद्यमाने हि मर्त्यताममृतं व्रजेत् ॥ ३.१९ ॥

अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः  ।

अजातो ह्यमृतो भावो मर्त्यतां कथमेष्यति  ॥ ३.२० ॥

न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा  ।

प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति  ॥ ३.२१ ॥

स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम्  ।

कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः  ॥ ३.२२ ॥

भूततोऽभूततो वापि सृज्यमाने समा श्रुतिः  ।

निश्चितं युक्तियुक्तं च यत्तद्भवति नेतरत् ॥ ३.२३ ॥

नेह नानेति चाम्नायादिन्द्रो मायाभिरित्यपि  ।

अजायमानो बहुधा मायया जायते तु सः  ॥ ३.२४ ॥

संभूतेरपवादाच्च संभवः प्रतिषिध्यते  ।

को (न्व्[/ष्]त्व्) एनं जनयेदिति कारणं प्रतिषिध्यते  ॥ ३.२५ ॥

स एष नेति नेतीति व्याख्यातं निह्नुते यतः  ।

सर्वमग्राह्यभावेन हेतुनाजं प्रकाशते  ॥ ३.२६ ॥

सतो हि मायया जन्म युज्यते न तु तत्त्वतः  ।

तत्त्वतो जायते यस्य जातं तस्य हि जायते  ॥ ३.२७ ॥

असतो मायया जन्म तत्त्वतो नैव युज्यते  ।

वन्ध्यापुत्रो न तत्त्वेन मायया वापि जायते  ॥ ३.२८ ॥

यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः  ।

तथा जाग्रद्द्वयाभासं स्पन्दते मायया मनः  ॥ ३.२९ ॥

अद्वयं च द्वयाभासं मनः स्वप्ने न संशयः  ।

अद्वयं च द्वयाभासं तथा जाग्रन्न संशयः  ॥ ३.३० ॥

मनोदृश्यमिदं द्वैतं यत्किंचित्सचराचरम्  ।

मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते  ॥ ३.३१ ॥

आत्मसत्यानुबोधेन न संकल्पयते यदा  ।

अमनस्तां तदा याति ग्राह्याभावे (तदग्रहम् /तदग्रहात्)  ॥ ३.३२ ॥

अकल्पकमजं ज्ञानं ज्ञेयाभिन्नं प्रचक्षते  ।

ब्रह्म ज्ञेयमजं नित्यमजेनाजं विबुध्यते  ॥ ३.३३ ॥

निगृहीतस्य मनसो निर्विकल्पस्य धीमतः  ।

प्रचारः स तु विज्ञेयः सुषुप्तेऽन्यो न तत्समः  ॥ ३.३४ ॥

लीयते हि सुषुप्ते तन्निगृहीतं न लीयते  ।

तदेव निर्भयं ब्रह्म ज्ञानालोकं समन्ततः  ॥ ३.३५ ॥

अजमनिद्रमस्वप्नमनामकमरूपकम्  ।

सकृद्विभातं सर्वज्ञं नोपचारः कथंचन  ॥ ३.३६ ॥

सर्वाभिलापविगतः  सर्वचिन्तासमुत्थितः  ।

सुप्रशान्तः सकृज्ज्योतिः समाधिरचलोऽभयः  ॥ ३.३७ ॥

ग्रहो न तत्र नोत्सर्गश्चिन्ता यत्र न विद्यते  ।

आत्मसंस्थं तदा ज्ञानमजाति समतां गतम्  ॥ ३.३८ ॥

अस्पर्शयोगो (वै नाम /नामैष)  दुर्दर्शः सर्वयोगिभिः  ।

योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः  ॥ ३.३९ ॥

मनसो निग्रहायत्तमभयं सर्वयोगिणाम्  ।

दुःखक्षयः प्रबोधश्चाप्यक्षया शान्तिरेव च  ॥ ३.४० ॥

उत्सेक उदधेर्यद्वत् कुशाग्रेणैकबिन्दुना  ।

मनसो निग्रहस्तद्वद्भवेदपरिखेदतः  ॥ ३.४१ ॥

उपायेन निगृह्णीयाद्विक्षिप्तं कामभोगयोः  ।

सुप्रसन्नं लये चैव यथा कामो लयस्तथा  ॥ ३.४२ ॥

दुःखं सर्वमनुस्मृत्य (काम[ष्]काय)भोगान्निवर्तयेत् ।

अजं सर्वमनुस्मृत्य जातं नैव तु पश्यति  ॥ ३.४३ ॥

लये संबोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः  ।

सकषायं (विजानीयात्सम /विजानीयाच्छम)प्राप्तं न चालयेत् ॥ ३.४४ ॥

नास्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् ।

निश्चलं निश्चरत्चित्तमेकीकुर्यात्प्रयत्नतः  ॥ ३.४५ ॥

यदा न लीयते चित्तं न च विक्षिप्यते पुनः  ।

अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा  ॥ ३.४६ ॥

स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम्  ।

अजमजेन ज्ञेयेन सर्वज्ञं परिचक्षते  ॥ ३.४७ ॥

न कश्चिज्जायते जीवः संभवोऽस्य न विद्यते  ।

एतत्तदुत्तमं सत्यं यत्र किंचिन्न जायते  ॥ ३.४८ ॥


[चोलिति (गौडपादीयकारिकायामद्वैताख्यं /गौडपादीये आगमशास्त्रेऽद्वैताख्यं) तृतीयं

(प्रकरणम्  ॥ ओं तत्सत् ॥ /प्रकरणं समाप्तम्) चोल्]