गोरक्षशतकम्

विकिस्रोतः तः
Jump to navigation Jump to search

ॐ गोरक्ष-शतकं वक्ष्ये भव-पाश-विमुक्तये ।
आत्म-बोध-करं पुंसां विवेक-द्वार-कुञ्चिकां ॥ १ ॥

एतद्विमुक्ति-सोपानं एतत्कालस्य वञ्चनं ।
यद्व्यावृत्तं मनो मोहादासक्तं परमात्मनि ॥ २ ॥

द्विज-सेवित-शाखस्य श्रुति-कल्प-तरोः फलं ।
शमनं भव-तापस्य योगं भजति सज्जनः ॥ ३ ॥

आसनं प्राण-संयामः प्रत्याहारोऽथ धारणा ।
ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षठ् ॥ ४ ॥

आसनानि तु तावन्ति यावत्यो जीव-जातयः ।
एतेषां अखिलान्भेदान्विजानाति महेश्वरः ॥ ५ ॥

चतुराशीति-लक्षाणां एकं एकं उदाहृतं ।
ततः शिवेन पीठानां षोडेशानं शतं कृतं ॥ ६ ॥

आसनेभ्यः समस्तेभ्यो द्वयं एव विशिष्यते ।
एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनं ॥ ७ ॥

योनि-स्थानकं अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेन्मेढ्रे पादं अथैकं एव नियतं कृत्वा समं विग्रहं ।
स्थाणुः संयमितेन्द्रियोऽचल-दृशा पश्यन्भ्रुवोरन्तरं एतन्मोक्ष-कवाट-भेद-जनकं सिद्धासनं प्रोच्यते ॥ ८ ॥

वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढं ।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रं आलोकयेदेतद्-व्याधि-विकार-हारि यमिनां पद्मासनं प्रोच्यते ॥ ९ ॥

आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकं ।
योनि-स्थानं द्वयोर्मध्ये काम-रूपं निगद्यते ॥ १० ॥

आधाराख्ये गुद-स्थाने पङ्कजं यच्चतुर्दलं ।
तन्-मध्ये प्रोच्यते योनिः कामाख्या सिद्ध-वन्दिता ॥ ११ ॥

योनि-मध्ये महालिङ्गं पश्चिमाभिमुखं स्थितं ।
मस्तके मणिवद्भिन्नं यो जानाति स योगविथ् ॥ १२ ॥

तप्त-चामीकराभासं तडिल्-लेखेव विस्फुरथ् ।
चतुरस्रं पुरं वह्नेरधो-मेढ्रं एवाभिधीयते ॥ १३ ॥

स्व-शब्देन भवेत्प्राणः स्वाधिष्ठानं तद्-आश्रयः ।
स्वाधिष्ठानाख्यया तस्मान्मेढ्रं एवाभिधीयते ॥ १४ ॥

तन्तुना मणिवत्प्रोतो यत्र कन्दः सुषुम्णया ।
तन्-नाभि-मण्डलं चक्रं प्रोच्यते मणि-पूरकं ॥ १५ ॥

ऊर्ध्वं मेढ्रादधो नाभेः कन्द-योनिः स्व-गाण्डवथ् ।
तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः ॥ १६ ॥

तेषु नाडि-सहस्रेषु द्विसप्ततिरुदाहृताः ।
प्राधान्यात्प्राण-वाहिन्यो भूयस्तत्र दश स्मृताः ॥ १७ ॥

इडा च पिङ्गला चैव सुषुम्णा च तृतीयका ।
गान्धारी हस्ति-जिह्वा च पूषा चैव यशस्विनी ॥ १८ ॥

अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता ।
एतन्नाडि-मयं चक्रं ज्ञातव्यं योगिभिः सदा ॥ १९ ॥

इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा ।
सुषुम्णा मध्य-देशे तु गान्धारी वाम-चक्षुषि ॥ २० ॥

दक्षिणे हस्ति-जिह्वा च पूषा कर्णे च दक्षिणे ।
यशस्विनी वाम-कर्णे चासने वाप्यलम्बुषा ॥ २१ ॥

कूहुश्च लिङ्ग-देशे तु मूल-स्थाने च शङ्खिनी ।
एवं द्वारं उपाश्रित्य तिष्ठन्ति दश नाडिकाः ॥ २२ ॥

सततं प्राण-वाहिन्यः सोम-सूर्याग्नि-देवताः ।
इडा-पिङ्गला-सुषुम्णा च तिस्रो नाड्य उदाहृताः ॥ २३ ॥

प्राणापानौ समानश्च ह्युदानो व्यान एव च ।
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ २४ ॥

नागाद्याः पञ्च विख्याताः प्राणाद्याः पञ्च वायवः ।
एते नाडि-सहस्रेषु वर्तन्ते जीव-रूपिणः ॥ २५ ॥

प्राणापान-वशो जीवो ह्यधश्चोर्ध्वं च धावति ।
वाम-दक्षिण-मार्गेण चञ्चलत्वान्न दृश्यते ॥ २६ ॥

आक्षिप्तो भुवि दण्डेन यथोच्चलति कन्दुकः ।
प्राणापान-समाक्षिप्तस्तथा जीवोऽनुकृष्यते ॥ २७ ॥

रज्जु-बद्धो यथा श्येनो गतोऽप्याकृष्यते(?) ।
गुण-बद्धस्तथा जीवः प्राणापानेन कृष्यते ॥ २८ ॥

अपानः कर्षति प्राणः प्राणोऽपानं च कर्षति ।
ऊर्ध्वाधः संस्थितावेतौ यो जानाति स योगविथ् ॥ २९ ॥

कन्दोर्ध्वे कुण्डली-शक्तिरष्टधा कुण्डली-कृता ।
ब्रह्म-द्वार-मुखं नित्यं मुखेनावृत्य तिष्ठति ॥ ३० ॥

प्रबुद्धा वह्नि-योगेन मनसा मारुता हता ।
प्रजीव-गुणं आदाय व्रजत्यूर्ध्वं सुषुम्णया ॥ ३१ ॥

महामुद्रां नमो-मुद्रां उड्डियानं जलन्धरं ।
मूल-बन्धं च यो वेत्ति स योगी सिद्धि-भाजनं ॥ ३२ ॥

वक्षो-न्यस्त-हनुर्निपीड्य सुचिरं योनिं च वामाङ्घ्रिणा हस्ताभ्यां अवधारितं प्रसरितं पादं तथा दक्षिणं ।
आपूर्य श्वसनेन कुक्षि-युगलं बद्ध्वा शनै रेचयेदेषा पातक-नाशिनी सुमहती मुद्रा नॄणां प्रोच्यते ॥ ३३ ॥

कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा ।
भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ ३४ ॥

ऊर्ध्वं मेढ्रादधो नाभेरुड्डियानं प्रचक्षते ।
उड्डियान-जयो बन्धो मृत्यु-मातङ्ग-केसरी ॥ ३५ ॥

जालन्धरे कृते बन्धे कण्ठ-सङ्कोच-लक्षणे ।
न पीयूषं पतत्यग्नौ न च वायुः प्रकुप्यति ॥ ३६ ॥

पार्ष्णि-भागेन सम्पीड्य योनिं आकुञ्चयेद्गुदं ।
अपानं ऊर्ध्वं आकृष्य मूल-बन्धो निगद्यते ॥ ३७ ॥

यतः काल-भयात्ब्रह्मा प्राणायाम-परायणः ।
योगिनो मुनयश्चैव ततः प्राणं निबन्धयेथ् ॥ ३८ ॥

चले वाते चलं सर्वं निश्चले निश्चलं भवेथ् ।
योगी स्थाणुत्वं आप्नोति ततो वायुं निबन्धयेथ् ॥ ३९ ॥

षट्-त्रिंशद्-अङ्गुलं हंसः प्रयाणं कुरुते बहिः ।
वाम-दक्षिण-मार्गेण ततः प्राणोऽभिधीयते ॥ ४० ॥

बद्ध-पद्मासनो योगी नमस्कृत्य गुरुं शिवं ।
नासाग्र-दृष्टिरेकाकी प्राणायामं समभ्यसेथ् ॥ ४१ ॥

प्राणो देह-स्थितो वायुरायामस्तन्-निबन्धनं ।
एक-श्वास-मयी मात्रा तद्योगी गगनायते ॥ ४२ ॥

बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेथ् ।
धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेथ् ॥ ४३ ॥

अमृतोदधि-सङ्काशं क्षीरोद-धवल-प्रभं ।
ध्यात्वा चन्द्रमयं बिम्बं प्राणायामे सुखी भवेथ् ॥ ४४ ॥

प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः ।
कुम्भयित्वा विधानेन भूयश्चन्द्रेण रेचयेथ् ॥ ४५ ॥

प्रज्वलज्-ज्वलन-ज्वाला- पुञ्जं आदित्य-मण्डलं ।
ध्यात्वा नाभि-स्थितं योगी प्राणायामे सुखी भवेथ् ॥ ४६ ॥

रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः ।
प्राणायामो भवेत्त्रेधा मात्रा द्वादश-संयुतः ॥ ४७ ॥

द्वादशाधमके मात्रा मध्यमे द्विगुणास्ततः ।
उत्तमे त्रिगुणा मात्राः प्राणायामस्य निर्णयः ॥ ४८ ॥

अधमे च घनो घर्मः कम्पो भवति मध्यमे ।
उत्तिष्ठत्युत्तमे योगी बद्ध-पद्मासनो मुहुः ॥ ४९ ॥

अङ्गानां मर्दनं शस्तं श्रम-संजात-वारिणा ।
कट्व्-अम्ल-लवण-त्यागी क्षीर-भोजनं आचरेथ् ॥ ५० ॥

मन्दं मन्दं पिबेद्वायुं मन्दं मन्दं वियोजयेथ् ।
नाधिकं स्तम्भयेद्वायुं न च शीघ्रं विमोचयेथ् ॥ ५१ ॥

ऊर्ध्वं आकृष्य चापानं वातं प्राणे नियोजयेथ् ।
मूर्धानं नीयते शक्त्या सर्व-पापैः प्रमुच्यते ॥ ५२ ॥

प्राणायामो भवत्येवं पातकेन्धन-पातकः ।
एनोम्बुधि-महा-सेतुः प्रोच्यते योगिभिः सदा ॥ ५३ ॥

आसनेन रुजो हन्ति प्राणायामेन पातकं ।
विकारं मानसं योगी प्रत्याहारेण सर्वदा ॥ ५४ ॥

चन्द्रामृत-मयीं धारां प्रत्याहारति भास्करः ।
तत्-प्रत्याहरणं तस्य प्रत्याहारः स उच्यते ॥ ५५ ॥

एका स्त्री भुज्यते द्वाभ्यां आगता सोम-मण्डलाथ् ।
तृतीयो यो भवेत्ताभ्यां स भवत्यजरामरः ॥ ५६ ॥

नाभिदेशे भवत्येको भास्करो दहनात्मकः ।
अमृतात्मा स्थितो नित्यं तालुमूले च चन्द्रमाः ॥ ५७ ॥

वर्षत्यधोमुखश्चन्द्रो ग्रसत्यूर्ध्व-मुखो रविः ।
ज्ञातव्यं करणं तत्र येन पीयूषं आप्यते ॥ ५८ ॥

ऊर्ध्व-नाभिरधस्तालु ऊर्ध्व-भानुरधः शशी ।
करणं विपरीताख्यं गुरु-वक्त्रेण लभ्यते ॥ ५९ ॥

त्रिधा बद्धो वृषो यत्र रौरवीति महास्वनं ।
अनाहतं च तच्चक्रं हृदये योगिनो विदुः ॥ ६० ॥

अनाहतं अतिक्रम्य चाक्रम्य मणिपूरकं ।
प्राप्ते प्राणं महापद्मं योगित्वं अमृतायते ॥ ६१ ॥

विशब्दः संस्मृतो हंसो निर्मलः शुद्ध उच्यते ।
अतः कण्ठे विशुद्धाख्ये चक्रं चक्र-विदो विदुः ॥ ६२ ॥

विशुद्धे परमे चक्रे धृत्वा सोम-कला-जलं ।
मासेन न क्षयं याति वञ्चयित्वा मुखं रवेः ॥ ६३ ॥

सम्पीड्य रसनाग्रेण राज-दन्त-बिलं महथ् ।
ध्यात्वामृतमयीं देवीं षण्-मासेन कविर्भवेथ् ॥ ६४ ॥

अमृतापूर्ण-देहस्य योगिनो द्वि-त्रि-वत्सराथ् ।
ऊर्ध्वं प्रवर्तते रेतोऽप्यणिमादि-गुणोदयः ॥ ६५ ॥

इन्धनानि यथा वह्निस्तैल-वर्ति च दीपकः ।
तथा सोमकला-पूर्णं देही देहं न मुञ्चति ॥ ६६ ॥

आसनेन समायुक्तः प्राणायामेन संयुतः ।
प्रत्याहारेण संयुक्तो धारणां च समभ्यसेथ् ॥ ६७ ॥

हृदये पञ्च-भूतानां धारणां च पृथक्पृथक् ।
मनसो निश्चलत्वेन धारणा च विधीयते ॥ ६८ ॥

या पृथ्वी हरि-ताल-देश-रुचिरा पीता लकारान्विता संयुक्ता कमलासनेन हि चतुष्कोणा हृदि स्थायिनी ।
प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेदेषा स्तम्भकरी सदा क्षितिजयं कुर्याद्भुवो धारणा ॥ ६९ ॥

अर्धेन्दु-प्रतिमं च कुन्द-धवलं कण्ठेऽम्बु-तत्तवं स्थितं यत्पीयूष-व-कार-बीज-सहितं युक्तं सदा विष्णुना ।
प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेदेषा दुर्वह-काल-कूट-जरणा स्याद्वारिणी धारणा ॥ ७० ॥

यत्ताल-स्थितं इन्द्र-गोप-सदृशं तत्त्वं त्रिकोणोज्ज्वलं तेजो-रेफ-मयं प्रवाल-रुचिरं रुद्रेण यत्सङ्गतं ।
प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेदेषा वह्नि-जयं सदा विदधते वैश्वानरी धारणा ॥ ७१ ॥

यद्भिन्नाञ्जन-पुञ्ज-सान्निभं इदं तत्त्वं भ्रुवोरन्तरे वृत्तं वायुमयं य-कार-सहितं यत्रेश्वरो देवता ।
प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेदेषा खे गमनं करोति यमिनां स्याद्वायवी धारणा ॥ ७२ ॥

आकाशं सुविशुद्ध-वारि-सदृशं यद्ब्रह्म-रन्ध्रे स्थितं तत्राद्येन सदा-शिवेन सहितं शान्तं ह-काराक्षरं ।
प्राणं तत्र विनीय पञ्च-घटिकाश्चित्तान्वितं धारयेदेषा मोक्ष-कवाट-पाटन-पटुः प्रोक्ता नभो-धारणा ॥ ७३ ॥

स्तम्भनी द्रावणी चैव दहनी भ्रामणी तथा ।
शोषणी च भवन्त्येवं भूतानां पञ्च धारणाः ॥ ७४ ॥

कर्मणा मनसा वाचा धारणाः पञ्च दुर्लभाः ।
विधाय सततं योगी सर्व-पापैः प्रमुच्यते ॥ ७५ ॥

सर्वं चिन्ता-समावर्ति योगिनो हृदि वर्तते ।
यत्तत्त्वे निश्चितं चेतस्तत्तु ध्यानं प्रचक्षते ॥ ७६ ॥

द्विधा भवति तद्ध्यानं स-गुणं निर्गुणं तथा ।
सगुणं वर्ण-भेदेन निर्गुणं केवलं विदुः ॥ ७७ ॥

आधारं प्रथमं चक्रं तप्त-काञ्चन-सन्निभं ।
नासाग्रे दृष्टिं आदाय ध्यात्वा मुञ्चति किल्बिषं ॥ ७८ ॥

स्वाधिष्ठानं द्वितीयं तु सन्-माणिक्य-सुशोभनं ।
नासाग्रे दृष्टिं आदाय ध्यात्वा मुञ्चति पातकं ॥ ७९ ॥

तरुणादित्य-संकाशं चक्रं च मणिपूरकं ।
नासाग्रे दृष्टिं आदाय ध्यात्वा संक्षोभयेज्जगथ् ॥ ८० ॥

विद्युत्-प्रभावं हृत्-पद्मे प्राणायाम-विभेदनैः ।
नासाग्रे दृष्टिं आदाय ध्यात्वा ब्रह्म-मयो भवेथ् ॥ ८२ ॥

सन्ततं घण्टिका-मध्ये विशुद्धं चामृतोद्भवं ।
नासाग्रे दृष्टिं आदाय ध्यात्वा ब्रह्म-मयो भवेथ् ॥ ८३ ॥

भ्रुवोर्मध्ये स्थितं देवं स्निग्ध-मौक्तिक-सन्निभं ।
नासाग्रे दृष्टिं आदाय ध्यात्वाऽनन्दमयो भवेथ् ॥ ८४ ॥

निर्गुणं च शिवं शान्तं गगने विश्वतोमुखं ।
नासाग्रे दृष्टिं आदाय ध्यात्वा दुःखाद्विमुच्यते ॥ ८५ ॥

गुदं मेढ्रं च नाभिं च हृत्-पद्मे च तद्-ऊर्ध्वतः ।
घण्टिकां लम्पिका-स्थानं भ्रू-मध्ये परमेश्वरं ॥ ८६ ॥

निर्मलं गगनाकारं मरीचि-जल-सन्निभं ।
आत्मानं सर्वगं ध्यात्वा योगी योगं अवाप्नुयाथ् ॥ ८७ ॥

कथितानि यथैतानि ध्यान-स्थानानि योगिनां ।
उपाधि-तत्त्व-युक्तानि कुर्वन्त्यष्ट-गुणोदयं ॥ ८८ ॥

उपाधिश्च तथा तत्त्वं द्वयं एवं उदाहृतं ।
उपाधिः प्रोच्यते वर्णस्तत्त्वं आत्माभिधीयते ॥ ८९ ॥

उपाधिरन्यथा-ज्ञानं तत्त्वं संस्थितं अन्यथा ।
समस्तोपाधि-विध्वंसि सदाभ्यासेन योगिनां ॥ ९० ॥

आत्म-वर्णेन भेदेन दृश्यते स्फाटिको मणिः ।
मुक्तो यः शक्ति-भेदेन सोऽयं आत्मा प्रशस्यते ॥ ९१ ॥

निरातङ्कं निरालम्बं निष्प्रपञ्चं निराश्रयं ।
निरामयं निराकारं तत्त्वं तत्त्वविदो विदुः ॥ ९२ ॥

शब्दाद्याः पञ्च या मात्रा यावत्कर्णादिषु स्मृताः ।
तावदेव स्मृतं ध्यानं तत्-समाधिरतः परं ॥ ९३ ॥

यदा संक्षीयते प्राणो मानसं च विलीयते ।
तदा सम-रसैकत्वं समाधिरभिधीयते ॥ ९४ ॥

धारणाः पञ्च-नाड्यस्तु ध्यानं च षष्ठि-नाडिकाः ।
दिन-द्वादशकेनैव समाधिः प्राण-संयमः ॥ ९६ ॥

न गन्धं न रसं रूपं न स्पर्शं न च निःस्वनं ।
आत्मानं न परं वेत्ति योगी युक्तः समाधिना ॥ ९७ ॥

खाद्यते न च कालेन बाध्यते न च कर्मणा ।
साध्यते न च केनापि योगी युक्तः समाधिना ॥ ९८ ॥

निर्मलं निश्चलं नित्यं निष्क्रियं निर्गुणं महथ् ।
व्योम-विज्ञानं आनन्दं ब्रह्म ब्रह्म-विदो विदुः ॥ ९९ ॥

दुग्धे क्षीरं धृते सर्पिरग्नौ वह्निरिवार्पितः ।
अद्वयत्वं व्रजेन्नित्यं योगवित्परमे पदे ॥ १०० ॥

भव-भय-वने वह्निर्मुक्ति-सोपान-मार्गतः ।
अद्वयत्वं व्रजेन्नित्यं योगवित्परमे पदे ॥ १०१ ॥

"https://sa.wikisource.org/w/index.php?title=गोरक्षशतकम्&oldid=39526" इत्यस्माद् प्रतिप्राप्तम्