गोभिलगृह्यसूत्रम्/तृतीयः प्रपाठकः

विकिस्रोतः तः


अथातः षोडशे वर्षे गोदानम् १ चूडाकरणेन केशान्तकरणं व्याख्यातम् २ ब्रह्मचारी केशान्तान्कारयते ३ सर्वाण्यङ्गलोमानि संहारयते ४ गोमिथुनं दक्षिणा ब्राह्मणस्य ५ अश्वमिथुनं क्षत्रियस्य ६ अविमिथुनं वैश्यस्य ७ गौर्वैव सर्वेषाम् ८ अजः केशप्रतिग्राहाय ९ उपनयनेनैवोपनयनं व्याख्यातम् १० न त्विहाहतं वासो नियुक्तम् ११ नालङ्कारः १२ नाचरिष्यन्तं संवत्सरमुपनयेत् १३ वार्क्षं चास्मै दण्डं प्रयच्छन्नादिशति १४ आचार्याधीनो भवान्यत्राधर्मचरणात् १५ क्रोधानृते वर्जय १६ मैथुनम् १७ उपरिशय्याम् १८ कौशीलवगन्धाञ्जनानि १९ स्नानम् २० अवलेखनदन्तप्रक्षालनपादप्रक्षालनानि २१ क्षुरकृत्यम् २२ मधुमाँ से २३ गोयुक्तारोहणम् २४ अन्तर्ग्राम उपानहोर्धारणम् २५ स्वयमिन्द्रि यमोचनमिति २६ मेखलाधारणभैक्षचर्यदण्डधारणसमिदाधानोदकोपस्पर्शनप्रातरभिवादा इत्येते नित्यधर्माः २७ गोदानिकव्रातिकादित्यव्रतौपनिषदज्यैष्ठसामिकाः संवत्सराः २८ तेषु सायंप्रातरुदकोपस्पर्शनम् २९ आदित्यव्रतं तु न चरन्त्येके ३० ये चरन्त्येकवाससो भवन्ति ३१ आदित्यं च नान्तर्दधतेऽन्यत्र वृक्षशरणाभ्याम् ३२ नापोऽभ्यवयन्त्यूर्ध्वं जानुभ्यामगुरुप्रयुक्ताः ३३ १


द्वादश महानाम्निकाः संवत्सराः १ नव षट् त्रयः २ इति विकल्पः ३ संवत्सरमप्येके ४ व्रतं तु भूयः ५ पूर्वैश्चेच्छ्रुता महानाम्न्यः ६ अथापि रौरुकिब्राह्मणं भवति ७ कुमारान्ह स्म वै मातरः पाययमाना आहुः ८ शक्वरीणां पुत्रका व्रतं पारयिष्णवो भवतेति ९ तास्वनुसवनमुदकोपस्पर्शनम् १० नानुपस्पृश्य भोजनं प्रातः ११ सायमुपस्पृश्याभोजनमा समिदाधानात् १२ कृष्णवस्त्रः १३ कृष्णभक्षः १४ आचार्याधीनः १५ अपन्थदायी १६ तपस्वी १७ तिष्ठेद्दिवा १८ आसीत नक्तम् १९ वर्षति च नोपसर्पेच्छन्नम् २० वर्षन्तं ब्रूयादापः शक्वर्य इति २१ विद्योतमानं ब्रूयादेवंरूपाः खलु शक्वर्यो भवन्तीति २२ स्तनयन्तं ब्रूयान्मह्या महान्घोष इति २३ न स्रवन्तीमतिक्रामेदनुपस्पृशन् २४ न नावमारोहेत् २५ प्राणसंशये तूपस्पृश्यारोहेत् २६ तथा प्रत्यवरुह्य २७ उदकसाधवो हि महानाम्न्य इति २८ एवं खलु चरतः कामवर्षी पर्जन्यो भवति २९ अनियमो वा कृष्णस्थानासनपन्थभक्षेषु ३० तृतीये चरिते स्तोत्रीयामनुगापयेत् ३१ एवमितरे स्तोत्रीये ३२ सर्वा वान्ते सर्वस्य ३३ उपोषिताय संमीलितायानुगापयेत् ३४ कँ समपां पूरयित्वा सर्वौषधीः कृत्वा हस्ताववधाय प्रदक्षिणमाचार्योऽहतेन वसनेन परिणह्येत् ३५ परिणहनान्ते वानुगापयेत् ३६ परिणद्धो वाग्यतो न भुञ्जीत त्रिरात्रमहोरात्रौ वा ३७ अपि वारण्ये तिष्ठेदास्तमयात् ३८ श्वो भूतेऽरण्येऽग्निमुपसमाधाय व्याहृतिभिर्हुत्वाथैनमवेक्षयेत् ३९ अग्निमाज्यमादित्यं ब्रह्माणमनड्वाहमन्नमपो दधीति ४० स्वरभिव्यख्यं ज्योतिरभिव्यख्यमिति ४१ एवं त्रिः सर्वाणि ४२ शान्तिं कृत्वा गुरुमभिवादयते ४३ सोऽस्य वाग्विसर्गः ४४ अनड्वान्कँ सो वासो वर दक्षिणाः ४५ प्रथमे विकल्पः ४६ आच्छादयेद्गुरुमित्येके ४७ ऐन्द्रः स्थालीपाकस्तस्य जुहुयादृचं साम यजामह इत्येतयर्चा सदसस्पतिमद्भुतमिति वोभाभ्यां वा ४८ अनुप्रवचनीयेष्वेवम् ४९ सर्वत्राचार्षं तदशकं तेनारात्समुपगामिति मन्त्रविशेषः ५० आग्नेयेऽज ऐन्द्रे मेषो गौः पावमाने पर्वदक्षिणाः ५१ प्रत्येत्याचार्यं सपरिषत्कं भोजयेत् ५२ सब्रह्मचारिणश्चोपसमेतान् ५३ ज्येष्ठसाम्नो महानाम्निकेनैवानुगापनकल्पो व्याख्यातः ५४ तत्रैतानि नित्यव्रतानि भवन्ति ५५ न शूद्रा मुपेयात् ५६ न पक्षिमाँ सं भुञ्जीत ५७ एकधान्यमेकदेशमेकवस्त्रं च वर्जयेत् ५८ उद्धृताभिरद्भिरुपस्पृशेत् ५९ आदेशनात्प्रभृति न मृण्मयेऽश्नीयात् ६० न पिबेत् ६१ श्रवणादित्येके ६२ २


प्रौष्ठपदीं हस्तेनोऽपाकरणम् १ व्याहृतिभिर्हुत्वा शिष्याणां सावित्र्यनुवचनं यथोपनयने २ सामसावित्रीं च ३ सोमं राजानं वरुणमिति च ४ आदितश्छन्दसोऽधीत्य यथार्थम् ५ अक्षतधाना भक्षयन्ति धानावन्तं करम्भिणमिति ६ दध्नः प्राश्नन्ति दधिक्राव्णोऽकारिषमिति ७ आचान्तोदकाः खाण्डिकेभ्योऽनुवाक्या अनुगेयाः कारयेत् ८ सावित्रमहः काङ्क्षन्ते ९ उदगयने च पक्षिणीं रात्रिम् १० उभयत एके त्रिरात्रम् ११ आचार्याणां चोदकोत्सेचनमुभयत्र १२ श्रवणामेक उपाकृत्यैतमा सावित्रात्कालं काङ्क्षन्ते १३ तैषीमुत्सृजन्ति १४ प्राङ्वोदङ्वा ग्रामान्निष्क्रम्य या आपोऽनवमेहनीयास्ता अभ्येत्योपस्पृश्य च्छन्दाँ स्यृषीनाचार्याँ श्च तर्पयेयुः १५ तस्मिन्प्रत्युपाकरणेऽभ्रानध्याय आ पुनरुपाकरणाच्छन्दसः १६ विद्युत्स्तनयित्नुपृषितेष्वाकालम् १७ उल्कापातभूमिचलज्योतिषोरुपसर्गेषु १८ निर्घाते च १९ अष्टकामावास्यासु नाधीयीरन् २० पौर्णमासीषु २१ तिसृषु कार्त्तिक्यां फाल्गुन्यामाषाढ्यां च २२ अहोरात्रम् २३ सब्रह्मचारिणि च प्रेते २४ स्वे च भूमिपतौ २५ त्रिरात्रमाचार्ये २६ उपसन्ने त्वहोरात्रम् २७ गीतवादित्ररुदितातिवातेषु तत्कालम् २८ शिष्टाचारोऽतोऽन्यत्र २९ अद्भुते कुलपत्योः प्रायश्चित्तम् ३० वँ शमध्यमयोर्मणिके वा भिन्ने व्याहृतिभिर्जुहुयात् ३१ दुःस्वप्नेष्वद्य नो देव सवितरित्येतामृचं जपेत् ३२ अथापरम् ३३ चित्ययूपोपस्पर्शनकर्णक्रोशाक्षिवेपनेषु सूर्याभ्युदितः सूर्याभिनिम्लुप्त इन्द्रि यैश्च पापस्पर्शैः पुनर्मामैत्विन्द्रि यमित्येताभ्यामाज्याहुती जुहुयात् ३४ आज्यलिप्ते वा समिधौ ३५ जपेद्वा लघुषु ३६ ३


ब्रह्मचारी वेदमधीत्य १ उपन्याहृत्य गुरवे २ अनुज्ञातो दारान्कुर्वीत ३ असगोत्रान् ४ मातुरसपिण्डा ५ अनग्निका तु श्रेष्ठा ६ अथाप्लवनम् ७ उत्तरतः पुरस्ताद्वाचार्यकुलस्य परिवृतं भवति ८ तत्र प्रागग्रेषु दर्भेषूदङ्ङाचार्य उपविशति ९ प्राग्ब्रह्मचार्युदगग्रेषु दर्भेषु १० सर्वौषधिविफाण्टाभिरद्भिर्गन्धवतीभिः शीतोष्णाभिराचार्योऽभिषिञ्चेत् ११ स्वयमिव तु १२ मन्त्रवर्णो भवति १३ ये अप्स्वन्तरग्नयः प्रविष्टा इत्यपामञ्जलिमवसिञ्चति १४ यदपां घोरं यदपां क्रूरं यदपामशान्तमिति च १५ यो रोचनस्तमिह गृह्णामीत्यात्मानमभिषिञ्चति १६ यशसे तेजस इति च १७ येन स्त्रियमकृणुतमिति च १८ तूष्णीं चतुर्थम् १९ उपोत्थायदित्यमुपतिष्ठेतोद्यन्भ्राजभृष्टिभिरित्येतत्प्रभृतिना मन्त्रेण २० यथालिङ्गं वा विहरन् २१ चक्षुरसीत्यनुबध्नीयात् २२ मेखलामवमुञ्चत उदुत्तमं वरुणपाशमिति २३ ब्राह्मनान्भोजयित्वा स्वयं भुक्त्वा केशश्मश्रुरोमनखानि वापयीत शिखावर्जम् २४ स्नात्वालङ्कृत्याहते वाससी परिधाय स्रजमाबध्नीत श्रीरसि मयि रमस्वेति २५ नेत्र्यौ स्थो नयतं मामित्युपानहौ २६ गन्धर्वोऽसीति वैणवं दण्डं गृह्णाति २७ आचार्यं सपरिषत्कमभ्येत्याचार्यपरिषदमीक्षते यक्षमिव चक्षुषः प्रियो वो भूयासमिति २८ उपोपविश्य मुख्यान्प्राणान्संमृशन्नोष्ठापिधाना नकुलीति २९ अत्रैनमाचार्योऽर्हयेत् ३० गोयुक्तं रथमुपसंक्रम्य पक्षसी कूबरबाहू वाभिमृशेद्वनस्पते वीड्वङ्गो हि भूया इति ३१ आस्थाता ते जयतु जेत्वानीत्यातिष्ठति ३२ प्राङ्वोदङ्वाभिप्रयाय प्रदक्षिणमावृत्योपयाति ३३ उपयाताया र्घ्यमिति कौहलीयाः ३४ ४


अत ऊर्ध्वं वृद्धशीली स्यादिति समस्तोद्देशः १ तत्रैतान्याचार्याः परिसंचक्षते २ नाजातलोम्न्योपहासमिच्छेत् ३ नायुग्वा ४ न रजस्वलया ५ न समानर्ष्या ६ नापरया द्वारा प्रपन्नमन्नं भुञ्जीत ७ न द्विःपक्वम् ८ न पर्युषितम् ९ अन्यत्र शाकमाँ सयवपिष्टविकारेभ्यः १० न वर्षति धावेत् ११ नोपानहौ स्वयं हरेत् १२ नोदपानमवेक्षेत् १३ न फलानि स्वयं प्रचिन्वीत १४ नागन्धां स्रजं धारयेत् १५ अन्यां हिरण्यस्रजः १६ न मालोक्ताम् १७ स्रगिति वाचयेत् १८ भद्र मित्येतां वृथावाचं परिहरेत् १९ भद्र मिति ब्रूयात् २० तत्रैते त्रयः स्नातका भवन्ति २१ विद्यास्नातको व्रतस्नातको विद्याव्रतस्नातक इति २२ तेषामुत्तमः श्रेष्ठस्तुल्यौ पूर्वौ २३ नार्द्रं परिदधीत २४ नैकं परिदधीत २५ न मनुष्यस्य स्तुतिं प्रयुञ्जीत २६ नादृष्टं दृष्टतो ब्रुवीत २७ नाश्रुतं श्रुततः २८ स्वाध्यायविरोधिनोऽर्थानुत्सृजेत् २९ तैलपात्रमिवात्मानं दिधारयिषेत् ३० न वृक्षमारोहेत् ३१ न प्रतिसायं ग्रामान्तरं व्रजेत् ३२ नैकः ३३ न वृषलैः सह ३४ न कासृत्या ग्रामं प्रविशेत् ३५ न चाननुचरश्चरेत् ३६ एतानि समावृत्तव्रतानि ३७ यानि च शिष्टा विदध्युः ३८ ५
 

गाः प्रकाल्यमाना अनुमन्त्रयेतेमा मे विश्वतो वीर्य इति १ प्रत्यागता इमा मधुमतीर्मह्यमिति २ पुष्टिकामः प्रथमजातस्य वत्सस्य प्राङ्मातुः प्रलेहनाज्जिह्वया ललाटमुल्लिह्य निगिरेद्गवां श्लेष्मासीति ३ पुष्टिकाम एव संप्रजातासु निशायां गोष्ठेऽग्निमुपसमाधाय विलयनं जुहुयात्संग्रहण संगृहाणेति ४ पुष्टिकाम एव संप्रजातास्वौदुम्बरेणासिना वत्समिथुनयोर्लक्षणं करोति पुँ स एवाग्रेऽथ स्त्रिया भुवनमसि साहस्रमिति ५ कृत्वा चानुमन्त्रयेत लोहितेन स्वधितिनेति ६ तन्त्रीं प्रसार्यमाणां बद्धवत्सां चानुमन्त्रयेतेयं तन्ती गवां मातेति ७ तत्रैतान्यहरहः कृत्यानि भवन्ति ८ निष्कालनप्रवेशने तन्त्रीविहरणमिति ९ गोयज्ञे पायसश्चरुः १० अग्निं यजेत पूषणमिन्द्र मीश्वरम् ११ ऋषभपूजा १२ गोयज्ञेनैवा श्वयज्ञो व्याख्यातः १३ यमवरुणौ देवतानामत्राधिकौ १४ गन्धैरभ्युक्षणं गवां गन्धैरभ्युक्षणं गवाम् १५ ६


अथातः श्रवणाकर्म १ पौर्णमास्यां कृत्यम् २ पुरस्ताच्छालाया उपलिप्य शालाग्नेरग्निं प्रणयन्ति ३ अभितश्चत्वार्युपलिम्पन्ति ४ प्रतिदिशम् ५ साधिके प्रक्रमे ६ अग्नौ कपालमाधाय सकृत्संगृहीतं यवमुष्टिं भृज्जत्यनुपदहन् ७ पश्चादग्नेरुलूखलं दृँ हयित्वावहन्त्युद्वेचम् ८ सुकृतान्सक्तून्कृत्वा चमस ओप्य शूर्पेणापिधाय निदधाति ९ दक्षिणपश्चिमे अन्तरेण संचरः १० अस्तमिते चमसदर्व्यावादाय शूर्पं चातिप्रणीतस्यार्धं व्रजति ११ शूर्पे सक्तूनावपति चमसे चोदकमादत्ते १२ सकृत्संगृहीतान्दर्व्या सक्तून्कृत्वा पूर्व उपलिप्त उदकं निनीय बलिं निवपति यः प्राच्यां दिशि सर्पराज एष ते बलिरिति १३ उपनिनयत्यपां शेषं यथा बलिं न प्रवक्ष्यतीति १४ सव्यं बाहुमन्वावृत्य चमसदर्व्यावभ्युक्ष्य प्रताप्यैवं दक्षिणैवं प्रतीच्येवमुदीची यथालिङ्गमव्यावर्तमानः १५ शूर्पेण शेषमग्नावोप्यानतिप्रणीतस्यार्धं व्रजति १६ पश्चादग्नेर्भूमौ न्यञ्चौ पाणी प्रतिष्ठाप्य नमः पृथिव्या इत्येतं मन्त्रं जपति १७ प्रदोषे पायसश्चरुः १८ तस्य जुहुयाच्छ्रवणाय विष्णवेऽग्नये प्रजापतये विश्वेभ्यो देवेभ्यः स्वाहेति १९ स्थालीपाकावृतान्यत् २० उत्तरतोऽग्नेर्दर्भस्तम्बं समूलं प्रतिष्ठाप्य सोमो राजेत्येतं मन्त्रं जपति यां सन्धां समधत्तेति च २१ श्वस्ततोऽक्षतसक्तून्कारयित्वा नवे पात्रेऽपिधाय निदधाति २२ अहरहस्तूष्णीं बलीन्हरेत्सायं प्राग्घो मादाग्रहायण्याः २३ ७


आश्वयुज्यां पौर्णमास्यां पृषातके पायसश्चरू रौद्रः १ तस्य जुहुयादा नो मित्रावरुणेति प्रथमां मा नस्तोक इति द्वितीयाम् २ गोनामभिश्च पृथक् काम्यासीत्येतत्प्रभृतिभिः ३ स्थालीपाकावृतान्यत् ४ पृषातकं प्रदक्षिणमग्निं पर्याणीय ब्राह्मणानवेक्षयित्वा स्वयमवेक्षेत तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत्पश्येम शरदः शतं जीवेम शरदः शतमिति ५ ब्राह्मणान्भोजयित्वा स्वयं भुक्त्वा जातुषान्मणीन्सर्वौषधिमिश्रानाबध्नीरन्स्वस्त्ययनार्थम् ६ सायं गाः पृषातकं प्राशयित्वा सहवत्सा वासयेत ७ स्वस्ति हासां भवति ८ नवयज्ञे पायसश्चरुरैन्द्रा ग्नः ९ तस्य मुख्यां हविराहुतिं हुत्वा चतसृभिराज्याहुतिभिरभिजुहोति शतायुधायेत्येतत्प्रभृतिभिः १० स्थालीपाकावृतान्यत् ११ हविरुच्छिष्टशेषं प्राशयेद्यावन्त उपेताः स्युः १२ सकृदपामुपस्तीर्य द्विश्चरोरवद्यति १३ त्रिर्भृगूणाम् १४ अपां चैवोपरिष्टात् १५ असंस्वादं निगिरेद्भद्रा न्नः श्रेय इति १६ एवं त्रिः १७ तूष्णीं चतुर्थम् १८ भूय एवावदाय १९ कामं तत्र संस्वादयेरन् २० आचान्तोदकाः प्रत्यभिमृशेरन्मुखं शिरोऽङ्गानीत्यनुलोमममोऽसीति २१ एतयैवावृता श्यामाकयवानाम् २२ अग्निः प्राश्नातु प्रथम इति श्यामाकानाम् २३ एतमु त्यं मधुना संयुतं यवमिति यवानाम् २४ ८


आग्रहायण्यां बलिहरणम् १ तच्छ्रावणेनैव व्याख्यातम् २ नमः पृथिव्या इत्येतं मन्त्रं न जपति ३ अथ पूर्वाह्ण एव प्रातराहुतिं हुत्वा दर्भाञ्शमीं वीरणां फलवतीमपामार्गं शिरीषमित्येतान्याहारयित्वा तूष्णीमक्षतसक्तूनामग्नौ कृत्वा ब्राह्मणान्स्वस्तिवाच्यैस्तैः सम्भारैः प्रदक्षिणमग्न्यागारात्प्रभृति धूमं शातयन्गृहाननुपरीयात् ४ उत्सृजेत्कृतार्थान्सम्भारान् ५ जातशिलासु मणिकं प्रतिष्ठापयति वास्तोष्पत इत्येतेन द्विकेन पर्केण ६ द्वावुदकुम्भौ मणिक आसिञ्चेत्समन्या यन्तीत्येतयर्चा ७ प्रदोषे पायसश्चरुः ८ तस्य जुहुयात्प्रथमा हव्युवाससेति ९ स्थालीपाकावृतान्यत् १० पश्चादग्नेर्बर्हिषि न्यञ्चौ पाणी प्रतिष्ठाप्य प्रति क्षत्र इत्येता व्याहृतीर्जपति ११ पश्चादग्नेः स्वस्तरमास्तारयेत् १२ उदगग्रैस्तृणैः १३ उदक्प्रवणम् १४ तस्मिन्नहतान्यास्तरणान्यास्तीर्य दक्षिणतो गृहपतिरुपविशति १५ अनन्तरा अवरे यथाज्येष्ठम् १६ अनन्तराश्च भार्याः सजाताः १७ समुपविष्टेषु गृहपतिः स्वस्तयेन्न्यञ्चौ पाणी प्रतिष्ठाप्य स्योना पृथिवि नो भवेत्येतामृचं जपति १८ समाप्तायां संविशन्ति दक्षिणैः पार्श्वैः १९ एवं त्रिरभ्यात्ममावृत्य २० स्वस्त्ययनानि प्रयुज्य यथाज्ञानम् २१ अरिष्टं सामसंयोगमेके २२ अप उपस्पृश्य यथार्थम् २३ ९
अष्टका रात्रिदेवता १ पुष्टिकर्म २ आग्नेयी पित्र्या वा प्राजापत्यर्तुदेवता वैश्वदेवीति देवताविचाराः ३ चतुरष्टको हेमन्तः ४ ताः सर्वाः समाँ साश्चिकीर्षेत् ५ इति कौत्सः ६ त्र्यष्टक इत्यौद्गाहमानिः ७ तथा गौतमवार्कखण्डी ८ योर्ध्वमाग्रहायण्यास्तामिस्राष्टमी तामपूपाष्टकेत्याचक्षते ९ स्थालीपाकावृता तण्डुलानुपस्कृत्य चरुं श्रपयति १० अष्टौ चापूपान्कपालेऽपरिवर्तयन् ११ एककपालान् १२ अमन्त्रानित्यौद्गाहमानिः १३ त्रैयम्बकप्रमाणान् १४ शृतानभिघार्योदगुद्वास्य प्रत्यभिघारयेत् १५ स्थालीपाकावृतावदाय चरोश्चापूपानां चाष्टकायै स्वाहेति जुहोति १६ स्थालीपाकावृतान्यत् १७ तैष्या ऊर्ध्वमष्टम्यां गौः १८ तां सन्धिवेलासमीपं पुरस्तादग्नेरवस्थाप्योपस्थितायां जुहुयाद्यत्पशवः प्र ध्यायतेति १९ हुत्वा चानुमन्त्रयेतानु त्वा माता मन्यतामिति २० यवमतीभिरद्भिः प्रोक्षेदष्टकायै त्वा जुष्टां प्रोक्षामीति २१ उल्मुकेन परिहरेत्परि वाजपतिः कविरिति २२ अपः पानाय दद्यात् २३ पीतशेषमधस्तात्पशोरवसिञ्चेदात्तं देवेभ्यो हविरिति २४ अथैनामुदगुत्सृप्य संज्ञपयन्ति २५ प्राक्शिरसमुदक्पदीं देवदेवत्ये २६ दक्षिणाशिरसं प्रत्यक्पदीं पितृदेवत्ये २७ संज्ञप्तायां जुहुयाद्यत्पशुर्मायुमकृतेति २८ पत्नी चोदकमादाय पशोः सर्वाणि स्रोताँ सि प्रक्षालयेत् २९ अग्रेण नाभिं पवित्रे अन्तर्धायानुलोममाकृत्य वपामुद्धरन्ति ३० तां शाखाविशाखयोः काष्ठयोरवसज्याभ्युक्ष्य श्रपयेत् ३१ प्रश्च्युतितायां विशसतेति ब्रूयात् ३२ यथा न प्रागग्नेर्भूमिं शोणितं गच्छेत् ३३ शृतामभिघार्योदगुद्वास्य प्रत्यभिघारयेत् ३४ स्थालीपाकावृता वपामवदाय स्विष्टकृदावृता वाष्टकायै स्वाहेति जुहोति ३५ स्थालीपाकावृतान्यत्स्थालीपाकावृतान्यत् ३६ १०
इति तृतीयः प्रपाठकः