गोपालाष्टकम् (परमहंसस्वामिब्रह्मानन्दकृतम्)

विकिस्रोतः तः
Jump to navigation Jump to search

श्री गणेशाय नमः ॥

यस्माद्विश्वं जातमिदं चित्रमतर्क्यं यस्मिन्नानन्दात्मनि नित्यं रमते वै ।
यत्रान्ते संयाति लयं चैतदशेषं तं गोपालं सन्ततकालं प्रति वन्दे ॥ १॥

यस्याज्ञानाज्जन्मजरारोगकदम्बं ज्ञाते यस्मिन्नश्यति तत्सर्वमिहाशु ।
गत्वा यत्रायाति पुनर्नो भवभूमिं तं गोपालं सन्ततकालं प्रति वन्दे ॥ २॥

तिष्ठन्नन्तर्यो यमयत्येतदजस्रं यं कश्चिन्नो वेद जनोऽप्यात्मनि सन्तम् ।
सर्वं यस्येदं च वशे तिष्ठति विश्वं तं गोपालं सन्ततकालं प्रति वन्दे ॥ ३॥

धर्मोऽधर्मेणेह तिरस्कारमुपैति काले यस्मिन्मत्स्यमुखैश्चारुचरित्रैः ।
नानारूपैः पाति तदा योऽवनिबिम्बं तं गोपालं सन्ततकालं प्रति वन्दे ॥ ४॥

प्राणायामैर्ध्वस्तसमस्तेन्द्रियदोषा रुध्वा चित्तं यं हृदि पश्यन्ति समाधौ ।
ज्योतीरूपं योगिजनामोदनिमग्नास्तं गोपालं सन्ततकालं प्रति वन्दे ॥ ५॥

भानुश्चन्द्रश्चोडुगणैश्चैव हुताशो यस्मिन्नैवाभाति तडिच्चापि कदापि ।
यद्भासा चाभाति समस्तं जगदेतत् तं गोपालं सन्ततकालं प्रति वन्दे ॥ ६॥

सत्यज्ञानं मोदमवोचुर्निगमा यं यो ब्रह्मेन्द्रादित्यगिरीशार्चितपादः ।
शेतेऽनन्तोऽनन्ततनावम्बुनिधौ यस्तं गोपालं सन्ततकालं प्रति वन्दे ॥ ७॥

शैवाः प्राहुर्यं शिवमन्ये गणनाथं शक्तिं चैकेऽर्कं च तथान्ये मतिभेदात् ।
नानाकारैर्भाति य एकोऽखिलशक्तिस्तं गोपालं सन्ततकालं प्रति वन्दे ॥ ८॥

श्रीमद्गोपालाष्टकमेतत् समधीते भक्त्या नित्यं यो मनुजो वै स्थिरचेताः ।
हित्वा तूर्णं पापकलापं स समेति पुण्यं विष्णोर्धाम यतो नैव निपातः ॥ ९॥

इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्री गोपालाष्टकं सम्पूर्णम् ॥