गोपालविंशतिस्तोत्रम्

विकिस्रोतः तः
Jump to navigation Jump to search

.. गोपालविंशतिस्तोत्रम् ..

श्रीमान् वेंकटनाथार्यः कवितार्किककेसरी वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।

वन्दे वृन्दावनचरं वलव्वीजनवल्लभम् जयन्तीसम्भवं धाम वैजयन्तीविभूषणम् ।। १।।

वाचं निजाङ्करसिकां प्रसमीक्षमाणो वक्त्रारविन्दविनिवेशितपांचजन्यः ।

वर्णः त्रिकोणरूचिरे वरपुण्डरीके बद्धासनो जयति वल्लवचक्रवर्ती ।। २।।

आम्नायगन्धरुदितस्फुरिताधरोष्ठम् आस्राविलेक्षणमनुक्षणमन्दहासम् ।

गोपालडिम्भवपुषं कुहना जनन्याः प्राणस्तनन्धयमवैमि परं पुमांसम् ।। ३।।

आविर्भवत्वनिभृताभरणं पुरस्तात् आकुंचितैकचरण निभृहितान्यपादम् ।

दध्नानिबद्धमुखरेण निबद्धतालं नाथस्य नन्दभवने नवनीतनाट्यम् ।। ४।।

कुन्दप्रसूनविशदैर्दशनैश्चर्तुभिः संदश्य मातुरनिशं कुचचूचुकाग्रम् ।

नन्दस्य वक्त्रमवलोकयतो मुरारेर्- मन्दस्थितं मममनीषितमातनोतु ।। ५।।

हर्तुं कुम्भे विनिहितकरः स्वादु हैयङ्गवीनं दृष्ट्वा दामग्रहणचटुलां मातरं जातरोषाम् ।

पायादीषत्प्रचलितपदौ नापगच्छन्न तिष्ठन् मिथ्यागोपः सपदि नयने मीलयन् विश्वगोप्ता ।। ६।।

व्रजयोषिदपाङ्ग वेधनीयं मथुराभाग्यमनन्यभोग्यमीडे ।

वसुदेववधू स्तनन्धयं तद्- किमपि ब्रह्म किशोरभावदृश्यम् ।। ८।।

परिवर्तितकन्धरं भयेन स्मितफुल्लाधरपल्लवं स्मरामि ।

विटपित्वनिरासकं कयोश्चिद्- विपुलोलूखलकर्षकं कुमारम् ।। ९।।

निकटेषु निशामयामि नित्यं निगमान्तैरधुनाऽपि मृग्यमाणम् ।

यमलार्जुनदृष्टबालकेलिं यमुनासाक्षिकयौवनं युवानम् ।। १०।।

पदवीमदवीयसीं विमुक्ते- रटवीं सम्पदम्बु वाहयन्तीम् ।

अरूणाधरसाभिलाषवंशां करूणां कारणमानुषीं भजामि ।। ११।।

अनिमेषनिवेष्णीयमक्ष्णो- रजहद्यौवनमाविरस्तु चित्ते ।

कलहायितकुन्तलं कलापैः करूणोन्मादकविग्रहं महो मे ।। १२।।

अनुयायिमनोज्ञवंशनालै- रवतु स्पर्शितवल्लवीविमोहैः ।

अनघस्मितशीतलैरसौ माम् अनुकम्पासरिदम्बुजैरपाङ्गैः ।। १३।।

अधराहितचारूवंशनाला मकुटालम्बिमयूरपिञ्च्छमालाः ।

हरिनीलशिलाविभङ्गनीलाः प्रतिभाः सन्तु ममान्तिमप्रयाणे ।। १४।।

अखिलानवलोकयामि कालान् महिलादीनभुजान्तरस्यूनः ।

अभिलाषपदं व्रजाङ्गनानाम् अभिलाक्रमदूरमाभिरूप्यम् ।। १५।।

महसे महिताय मौलिना विनतेनाञ्जलिमञ्जनत्विषे ।

कलयामि विमुग्धवल्लवी- वलयाभाषितमञ्जुवेणवे ।। १६।।

जयतु ललितवृत्तिं शिक्षितो वल्लवीनां शिथिलवलयशिञ्जाशीतलैर्हस्ततालैः ।

अखिलभुवनरक्षागोपवेशस्य विष्णो- रधरमणिसुधायामंशवान् वंशनालः ।। १७।।

चित्राकल्पः श्रवसि कलयल्लाङ्गलीकर्णपूरं बर्होत्तंसस्फुरितचिकुरो बन्धुजीवं दधानः ।

गुंजाबद्धामुरसि ललितां धारयन् हारयष्टिं गोपस्त्रीणां जयति कितवः कोऽपि कौमारहारी ।। १८।।

लीलायष्टिं करकिसलये दक्षिणे न्यस्त धन्या- मंसे देव्याः पुलकरुचिरे सन्निविष्टान्यबाहुः ।

मेघश्यामो जयति ललितो मेखलादत्तवेणु- र्गुञ्जापीडस्फुरितचिकुरो गोपकन्याभुजङ्गः ।। १९।।

प्रत्यालीढस्थितिंअधिगतां प्राप्तगाढाङ्कपालीं पश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः ।

भस्त्रायन्त्रप्रणिहितकरो भक्तजीवातुरव्याद् वारिक्रीडानिबिडवसनो वल्लवीवल्लभो नः ।। २०।।

वासो हृत्वा दिनकरसुतासन्निधौ वल्लवीनां लीलास्मेरो जयति ललितामास्थितः कुन्दशाखाम् ।

सव्रीडाभिस्तदनु वसने ताभिरभ्यर्थ्यमाने कामी कश्चित्करकमलयोरञ्जलिं याचमानः ।। २१।।

इत्यनन्यमनसा विनिर्मितां वेंकटेशकविना स्तुतिं पठन् ।

दिव्यवेणुरसिकं समीक्षते दैवतं किमपि यौवतप्रियम् ।। २२।।

।। इति गोपालविंशतिस्तोत्रं सम्पूर्णम् ।।