गोपथ ब्राह्मणम्/भागः २ (उत्तर भागः)/प्रपाठकः ५

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

2.5.1
ओम् अहर् वै देवा आश्रयन्त रात्रीम् असुरास्
ते समावद्वीर्या एवासन्
नो व्यावर्तन्त
सो ऽब्रवीद् इन्द्रः कश् चाहं चेमान् असुरान् रात्रीम् अन्वैष्यावहा इति [एद्. अन्वैष्यामह, चोर्र्. ড়त्यल्]
स देवेषु न प्रत्यविन्दत्
अबिभयू रात्रेस्तमसो मृत्योस्
तम इव हि रात्रिः
मृत्युर् वै तमस्
तस्माद् धाप्य् एतर्हि भूयान् इव नक्तं स यावन् मात्रम् इवापक्रम्य बिभेति
तं वै छन्दांस्य् एवान्ववायन्
तद् यच् छन्दांस्य् एवान्ववायंस् तस्माद् इन्द्रश् च छन्दांसि च रात्रिं वहन्ति
न निविच् छस्यते न पुरोरुङ् न धाय्या नान्या देवता
इन्द्रश् च ह्य् एव छन्दांसि च रात्रिं वहन्ति
तान् वै पर्यायैः पर्यायम् अनुदन्त
यत् पर्यायैः पर्यायम् अनुदन्त तस्मात् पर्यायास्
तत् पर्यायाणां पर्यायत्वम्
तान् वै प्रथमैर् एव पर्यायैः पूर्वरात्राद् अनुदन्त मध्यमैर् मध्यरात्राद् उत्तमैर् अपररात्रात्
अपिशर्वर्या अपिस्मसीत्य् अब्रुवन्
तद् यद् अपिशर्वर्या अपिस्मसीत्य् अब्रुवंस् तद् अपिशर्वराणाम् अपिशर्वरत्वम्
शर्वराणि खलु ह वा अस्यैतानि छन्दांसीति ह स्माह
एतानि ह वा इन्द्रं रात्र्यास् तमसो मृत्योर् अभिपत्यावारयन्
तद् अपिशर्वराणाम् अपिशर्वरत्वम् ॥ १ ॥
2.5.2
प्रथमेषु पर्यायेषु स्तुवते प्रथमान्य् एव पदानि पुनर् आददते
यद् एवैषां मनोरथा आसंस् तद् एवैषां तेनाददते
मध्यमेषु पर्यायेषु स्तुवते मध्यमान्य् एव पदानि पुनर् आददते
यद् एवैषाम् अश्वा गाव आसंस् तद् एवैषां तेनाददते
उत्तमेषु पर्यायेषु स्तुवत उत्तमान्य् एव पदानि पुनर् आददते
यद् एवैषां वासो हिरण्यं मणिर् अध्यात्मम् आसीत् तद् एवैषां तेनाददते
आ द्विषतो वसु दत्ते निर् एवैनम् एभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद ॥ २ ॥
2.5.3
पवमानवद् अहर् इत्य् आहुर् न रात्रिः पवमानवती
कथम् उभे पवमानवती भवतः
केन ते समावद्भाजौ भवत इति
यद् एवेन्द्राय मद्वने सुतम् इदं वसो सुतम् अन्ध इदं ह्य् अन्वोजसा सुतम् इति स्तुवन्ति च शंसन्ति च तेन रात्रिः पवमानवती
तेनोभे पवमानवती भवतस्
तेन ते समावद्भाजौ भवतः
पञ्चदशस्तोत्रम् अहर् इत्य् आहुर् न रात्रिः पञ्चदशस्तोत्रा
कथम् उभे पञ्चदशस्तोत्रे भवतः
केन ते समावद्भाजौ भवत इति
द्वादश स्तोत्राण्य् अपिशर्वराणि
तिसृभिर् देवताभिः संधिना राथंतरेणाश्विनाय स्तुवते
तेन रात्रिः पञ्चदशस्तोत्रा
तेनोभे पञ्चदशस्तोत्रे भवतस्
तेन ते समावद्भाजौ भवतः
परिमितं स्तुवन्त्य् अपरिमितमनुशंसन्ति
परिमितं भूतम् अपरिमितं भव्यम्
अपरिमितान्य् एवावरुन्ध्याद् इत्य् अतिशंसति स्तोमम्
अति वै प्रजास्यात्मानम् अति पशवस्
तद् यद् एवास्यात्यात्मानं तद् एवास्यैतेनाप्याययन्ति
अथो द्वयं वा इदं सर्वं स्नेहश् चैव तेजश् च
अथ तद् अहोरात्राभ्याम् आप्तम्
स्नेहतेजसोर् आप्त्यै
गायत्रान् स्तोत्रियानुरूपाञ् छंसन्ति
तेजो वै गायत्री
तमः पाप्मा रात्रिस्
तेन तेजसा तमः पाप्मानं तरन्ति
पुनरादायं शंसन्ति
एवं हि सामगा स्तुवते
यथा स्तुतम् अनुशस्तं भवति
न हि तत् स्तुतं यन् नानुशस्तम्
तद् आहुर् अथ कस्माद् उत्तमात् प्रतीहाराद् आहूय साम्ना शस्त्रम् उपसंतन्वन्तीति ॥ ३ ॥
2.5.4
पुरुषो वै यज्ञस्
तस्य शिर एव हविर्धानम्
मुखम् आहवनीयः
उदरं सदः
अन्नम् उक्थानि
बाहू मार्जालीयश् चाग्नीध्रीयश् च
या इमा देवतास् ते ऽन्तःसदसं धिष्ण्याः
प्रतिष्ठे गार्हपत्यव्रतश्रपणाव् इत्य् अथापरम्
तस्य मन एव ब्रह्मा
प्राण उद्गाता
अपानः प्रस्तोता
व्यानः प्रतिहर्ता
वाग् घोता
चक्षुर् अध्वर्युः
प्रजाति सदस्यः
अङ्गानि होत्राशंसिनः
आत्मा यजमानस्
तद् यद् अध्वर्युः स्तोत्रम् उपाकरोति सोमः पवत इति चक्षुर् एव तत् प्राणैः संदधाति
अथ यत् प्रस्तोता ब्रह्माणम् आमन्त्रयते ब्रह्मन्त् स्तोष्यामः प्रशास्तर् इति मनो ऽग्रणीर् भवति
एतेषां प्राणानां मनसा हि प्रसूता स्तोमेन स्तुयामेति
प्राणान् एव तन् मनसा संदधाति
अथ यद् ब्रह्मा स्तुतेत्य् उच्चैर् अनुजानाति मनो वै ब्रह्मा
मन एव तत् प्राणैः संदधाति
अथ यत् प्रस्तोता प्रस्तौत्य् अपानम् एव तत् प्राणैः संदधाति
अथ यत् प्रतिहर्ता प्रतिहरति व्यानम् एव तद् अपानैः संदधाति
अथ यद् उद्गातोद्गायति समानम् एव तत् प्राणैः संदधाति
अथ यद् धोता साम्ना शस्त्रम् उपसंतनोति वाग् वै होता वाचम् एव तत् प्राणैः संदधाति
अथ यत् सदस्यो ब्रह्माणम् उपासीदति प्रजातिर् वै सदस्यः प्रजातिम् एवाप्नोति
अथ यद् धोत्राशंसिनः सामसंततिं कुर्वन्त्य् अङ्गानि वै होत्राशंसिनो ऽङ्गान्य् एवास्य तत् प्राणैः संदधाति
अथ यद् यजमानः स्तोत्रम् उपासीदत्य् आत्मा वै यजमान आत्मानम् एवास्य तत् कल्पयति
तस्मान् नैनं बहिर्वेद्यभ्याश्रावयेत्
नाभ्युदियात्
नाभ्यस्तमियात्
नाधिष्ण्ये प्रतपेत्
नेत् प्राणेभ्य आत्मानम् अन्तरगाद् इति ॥ ४ ॥
2.5.5
प्रथमेषु पर्यायेषु स्तुवते प्रथमेषु पदेषु निनर्दयन्ति प्रथमरात्राद् एव तद् असुरान् निर्घ्नन्ति
मध्यमेषु पर्यायेषु स्तुवते मध्यमेषु पदेषु निनर्दयन्ति
मध्यमरात्राद् एव तद् असुरान् निर्घ्नन्ति
उत्तमेषु पर्यायेषु स्तुवत उत्तमेषु पदेषु निनर्दयन्ति
उत्तमरात्राद् एव तद् असुरान् निर्घ्नन्ति
तद् यथाभ्यागारं पुनःपुनः पाप्मानं निर्हरन्त्य् एवम् एवैतत् स्तोत्रियानुरूपाभ्याम् अहोरात्राभ्याम् एव तद् असुरान् निर्घ्नन्ति
गायत्रीं शंसन्ति तेजो वै ब्रह्मवर्चसं गायत्री
तेज एवास्मै तद् ब्रह्मवर्चसं यजमाने दधति
गायत्रीः शस्त्वा जगतीः शंसन्ति
ब्रह्म ह वै जगती
ब्रह्मणैवास्मै तद् ब्रह्मवर्चसं यजमाने दधति
व्याह्वयन्ते गायत्रीश् च जगतीश् चान्तरेण
छन्दांस्य् एव तन् नानावीर्याणि कुर्वन्ति
जगतीः शस्त्वा त्रिष्टुभः शंसन्ति
पशवो वै जगती
पशून् एव तत् त्रिष्टुब्भिः परिदधति
बलं वै वीर्यं त्रिष्टुप्
बलम् एव तद् वीर्ये ऽन्ततः प्रतिष्ठापयति
अन्धस्वत्यो मद्वत्यः सुतवत्यः पीतवत्यस् त्रिष्टुभो याज्याः समृद्धाः सुलक्षणाः
एतद् वै रात्रीरूपम्
जागृयाद् रात्रिम्
यावद् उ ह वै न वा स्तुवते न वा शस्यते तावद् ईश्वरा असुरा रक्षांसि च यज्ञम् अन्ववनयन्ति
तस्माद् आहवनीयं समिद्धम् आग्नीध्रीयं गार्हपत्यं धिष्ण्यान् समुज्ज्वलयतेति भाषेरन्
ज्वलयेरन्
प्रकाशम् इवैव तत् स्यात्
आरेभन्तः शयीरन्
तान् ह तः श्रेष्ठो वा इति पाप्मा नाभिवृक्णोति
ते तमः पाप्मानम् अपाघ्नते ते तमः पाप्मानमपाघ्नते ॥ ५ ॥
2.5.6
विश्वरूपं वै त्वाष्ट्रम् इन्द्रो ऽहन्
स त्वष्टा हतपुत्रो ऽभिचरणीयम् अपेन्द्रं सोमम् आहरत्
तस्येन्द्रो यज्ञवेशसं कृत्वा प्रासहा सोमम् अपिबत्
स विष्वङ् व्यार्छत्
तस्मात् सोमो नानुपहूतेन [न] पातव्यः
सोमपीथो ऽस्य व्यर्धुको भवति
तस्य मुखात् प्राणेभ्यः श्रीर् यशांस्य् ऊर्ध्वान्य् उदक्रामन् [एद्. प्रणेभ्यः, चोर्र्. ড়त्यल्]
तानि पशून् प्राविशन्
तस्मात् पशवो यशः
यशो ह भवति य एवं वेद
ततो ऽस्मा एतद् अश्विनौ च सरस्वती च यज्ञं समभरन्त् सौत्रामणिं भैषज्याय
तयेन्द्रम् अभ्यषिञ्चन्
ततो वै स देवानां श्रेष्ठो ऽभवत्
श्रेष्ठः स्वानां चान्येषां च भवति य एवं वेद यश् चैवंविद्वान्त् सौत्रामण्याभिषिच्यते ॥ ६ ॥
2.5.7
अथ साम गायति ब्रह्मा
क्षत्रं वै साम
क्षत्रेणैवैनं तद् अभिषिञ्चति
अथो साम्राज्यं वै साम
साम्राज्येनैवैनं तत् साम्राज्यं गमयति
अथो सर्वेषां वा एष वेदानां रसो यत् साम
सर्वेषाम् एव तद् वेदानां रसेनाभिषिञ्चति
बृहत्यां गायति
बृहत्यां वा असाव् आदित्यः श्रियां प्रतिष्ठायां प्रतिष्ठितस् तपति
ऐन्द्र्यां बृहत्यां गायति
ऐन्द्रो वा एष यज्ञक्रतुर् यत् सौत्रामणिः
इन्द्रायतन एष एतर्हि यो यजते
स्व एवैनं तद् आयतने प्रीणाति
अथ कस्मात् संशानानि नाम
एतैर् वै सामभिर् देवा इन्द्रम् इन्द्रियेण वीर्येण समश्यन्
तथैवैतद् यजमाना एतैर् एव सामभिर्
इन्द्रियेणैव वीर्येण संश्यन्ति [एद्. वीर्येन]
संश्रवसे विश्रवसे सत्यश्रवसे श्रवस इति सामानि भवन्ति
एष्व् एवैनं लोकेषु प्रतिष्ठापयति चतुर्निधनं भवति
चतस्रो वै दिशः
दिक्षु तत् प्रतितिष्ठन्ते
अथो चतुष्पादः पशवः
पशूनाम् आप्त्यै
तद् आहुर् यद् एतत् साम गीयते ऽथ क्वैतस्य साम्न उक्थं का प्रतिष्ठा
त्रया देवा एकादशेत्य् आहुः
एतद् वा एतस्य साम्न उक्थम् एषा प्रतिष्ठा
त्रयस्त्रिंशं ग्रहं गृह्णाति
साम्नः प्रतिष्ठायै प्रतिष्ठायै ॥ ७ ॥
2.5.8
प्रजापतिर् अकामयत वाजम् आप्नुयां स्वर्गं लोकम् इति
स एतं वाजपेयम् अपश्यत्
वाजपेयो वा एष य एष तपति
वाजम् एतेन यजमानः स्वर्गं लोकम् आप्नोति
शुक्रवत्यो ज्योतिष्मत्यः प्रातःसवने भवन्ति
तेजो ब्रह्मवर्चसं ताभिर् आप्नोति
वाजवत्यो माध्यंदिने सवने
स्वर्गस्य लोकस्य समष्ट्यै
अन्नवत्यो गणवत्यः पशुमत्यस् तृतीयसवने भवन्ति
भूमानं ताभिर् आप्नोति
सर्वः सप्तदशो भवति
प्रजापतिर् वै सप्तदशः
प्रजापतिम् एवाप्नोति
हिरण्यस्रज ऋत्विजो भवन्ति
महस एव तद् रूपं क्रियते
एष मे ऽमुष्मिंल् लोके प्रकाशो ऽसद् इति
ज्योतिर् वै हिरण्यम्
ज्योतिषैवैनम् अन्तर्दधति
आजिं धावन्ति
यजमानम् उज्जापयन्ति
नाकं रोहति समहसे रोहति विश्वमहसे रोहति सर्वमहसे रोहति
मनुष्यलोकाद् एवैनम् अन्तर्दधति
देवस्य सवितुः सवे स्वर्गं लोकं वर्षिष्ठं नाकं रोहेयम् इति ब्रह्मा रथचक्रं सर्पति
सवितृप्रसूत एवैनं तत् सर्पति
अथो प्रजापतिर् वै ब्रह्मा
प्रजापतिम् एवैनं वज्राद् अधिप्रसुवति
नाकस्योज्जित्यै
वाजिनां संतत्यै
वाजिसामाभिगायति
वाजिमान् भवति
वाजो वै स्वर्गं लोकः
स्वर्गम् एव तल् लोकं रोहति
विष्णोः शिपिविष्टवतीषु बृहद् उत्तमं भवति
स्वर्गम् एव तल् लोकं रूढ्वा ब्रध्नस्य विष्टपम् अतिक्रामत्य् अतिक्रामति ॥ ८ ॥
2.5.9
अथातो ऽप्तोर्यामा
प्रजापतिर् वै यत् प्रजा असृजत ता वै तान्ता असृजत
ताः सृष्टाः पराच्य एवासन्
नोपावर्तन्त
ता एकेन स्तोमेनोपागृह्णात्
ता अत्यरिच्यन्त
ता द्वाभ्याम्
ताः सर्वैस्
तस्मात् सर्वस्तोमस्
ता एकेन पृष्ठेनोपागृह्णात्
ता अत्यरिच्यनत
ता द्वाभ्याम्
ताः सर्वैस्
तस्मात् सर्वपृष्ठस्
ता अतिरिक्तोक्थे वारवन्तीयेनावारयन्
तस्माद् एषो ऽतिरिक्तोक्थवान् भवति
तस्माद् वारवन्तीयम्
ता यद् आप्त्वायच्छद् अतो वा अप्तोर्यामा
अथो प्रजा वा अप्तुर् इत्य् आहुः
प्रजानां यमन इति हैवैतद् उक्तं ता बर्हिः प्रजा अश्नायेरन् [एद्. प्रजाश्नायेरंस्, चोर्र्. ড়त्यल्]
तर्हि हैतैन यजते
स एषो ऽष्टापृष्ठो भवति
तद् यथान्यस्मिन् यज्ञे विश्वजितः पृष्ठम् अनु संचरं भवति कथम् एतद् एवम् अत्रेति
पितैष यज्ञानाम्
तद् यथा श्रेष्ठिनि संवश्रेयुर् अपि विद्विषाणा एवम् एवैतच् छ्रेष्ठिनो वशेयान्नम् अन्नस्यानुचर्याय क्षमन्ते ॥ ९ ॥
2.5.10
तद्यथैवादो ऽह्न उक्थानाम् आग्नेयं प्रथमं भवत्य् एवम् एवैतद् अत्राप्य् आग्नेयं प्रथमं भवति
ऐन्द्रे वाव तत्रोत्तरे [एद्. ऐद्रे]
ऐन्द्रे वा एते
ऐन्द्रावैष्णवम् अच्छावाकस्योक्थं भवति
चतुराहावान्य् अतिरिक्तोक्थानि भवन्ति
पशवो वा उक्थानि
चतुष्टया वै पशवः
अथो चतुष्पादः पशवः
पशूनाम् आप्त्यै
त एते स्तोत्रियानुरूपास् तृचा अर्धर्चशस्याः
प्रतिष्ठा वा अर्धर्चः
प्रतिष्ठित्या एव
अथैतेषाम् एवाश्विनानां सूक्तानां द्वे द्वे समाहावम् एकैकम् अहरहः शंसति
अश्विनौ वै देवानां भिषजौ
तस्माद् आश्विनानि सूक्तानि शंसति
तद् अश्विभ्यां प्रददुर् इदं भिषज्यतम् इति
क्षैत्रपत्याः परिधानीया भवन्ति
यत्र हतस् तत् प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता आसंस् ता दीना एताभिर् यथाक्षेत्रं पाययां चकार तर्पयां चकार [एद्. ह तस्तत्, चोर्र्. ড়त्यल्]
अथो इयं वै क्षेत्रं पृथिवी
अस्याम् अदीनायाम् अन्ततः प्रतिष्ठास्यामह इति
त्रिष्टुभो याज्या भवन्ति
यत्र हतस् तत् प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता बभूवुस् ता हैवैना एताभिर् यथौकसं व्यवसाययां चकार
तस्माद् एता याज्या भवन्ति तस्माद् एता याज्या भवन्ति ॥ १० ॥
2.5.11
अथातो ऽनैकाहिकम् [एद्. अथतो]
श्वस्तोत्रियम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने
अहीनम् एव तत् संतन्वन्ति
अहीनस्य संतत्यै
तद् यथा ह वा एकाहः सुत एवम् अहीनः सुतस्
तद् यथैकाहस्य सुतस्य सवनानि संतिष्ठमानानि यन्त्य् एवम् अहीनस्य सुतस्याहानि संतिष्ठमानानि यन्ति
तद् यच् छ्वस्तोत्रियम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने
अहर् एवं तद् अह्नो ऽनुरूपं कुर्वन्ति
अपरेणैव तद् अह्नापरम् अहर् अभ्यारभन्ते तत्
तथा न माध्यंदिने सवने
श्रीर् वै पृष्ठानि
तानि तस्मिन्न् एवावस्थितानि भवन्ति
एतेनैव विधिना तृतीयसवने
न श्वस्तोत्रियम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति ॥ ११ ॥
2.5.12
अथात आरम्भणीया एव
<ऋजुनीती नो वरुण> इति मैत्रावरुणस्य <मित्रो नयतु विद्वान् [ऋ. १.९०.१]> इति
प्रणेता वा एष होत्रकाणां यन् मैत्रावरुणस्
तस्माद् एषा प्रणेतृमती भवति [एद्. प्रणेत्रिमती, चोर्र्. ড়त्यल्]
<इन्द्रं वो विश्वतस् परि [ऋ. १.७.१०अ, शौ.सं. २०.३९.१/२०.७०.१६अ]> इति ब्राह्मणाच्छंसिनः
<हवामहे जनेभ्यः [ऋ. १.७.१०ब्, शौ.सं. २०.३९.१/२०.७०.१६ब्]>इतीन्द्रम् एवैतयाहरहर् निर्ह्वयन्ते
न हैवैषां विहवे ऽन्य इन्द्रं वृङ्क्ते यत्रैवंविद्वान् ब्राह्मणाच्छंस्य् एताम् अहरहः शंसति
<यत् सोम आ सुते नरः [ऋ. ७.९४.१०अ]>इत्य् अच्छावाकस्य
<इन्द्राग्नी अजोहवुः [ऋ. ७.९४.१०ब्]>इतीन्द्राग्नी एवैतयाहरहर् निर्ह्वयन्ते
न हैवैषां विहवे ऽन्य इन्द्राग्नी वृङ्क्ते यत्रैवंविद्वान् अच्छावाक एताम् अहरहः शंसति
ता वा एताः स्वर्गस्य लोकस्य नावः संतारण्यः
स्वर्गम् एवैताभिर् लोकम् अनुसंतरन्ति ॥ १२ ॥
2.5.13
अथातः परिधानीया एव
<ते स्याम देव वरुण [ऋ. ७.६६.९अ]>इति मैत्रावरुणस्य
<इषं स्वश् च धीमहि [ऋ. ७.६६.९ब्]>इत्य् अयं वै लोक इषम् इत्य् असौ लोकः स्वर् इति
उभाव् एवैनौ तौ लोकाव् आरभते
<व्य् अन्तरिक्षम् अतिरत् [ऋ. ८.१४.७अ, शौ.सं. २०.२८.१अ, २०.३९.२अ]>इति ब्राह्मणाच्छंसिनः
विवत् तृचम्
स्वर्गम् एवैताभिर् लोकं विवृणोति
<मदे सोमस्य रोचनेन्द्रो यद् अभिनद् वलम् [ऋ. ८.१४.७ब्च्, शौ.सं. २०.२८.१ब्च्, २०.३९.२ब्च्]> इति
सिषासवो ह वा एते यद् दीक्षितास्
तस्माद् एषा वलवती भवति
<उद् गा आजद् अङ्गिरोभ्य आविष् कृण्वन् गुहा सतीः । अर्वाञ्चं नुनुदे वलम् [ऋ. ८.१४.८, शौ.सं. २०.२८.२, २०.३९.३]> इति [एद्. कृवन्, चोर्र्. ড়त्यल्]
सनिम् एतेभ्य एतयावरुन्द्धे
<इन्द्रेण रोचना दिवो दृढानि दृंहितानि च । स्थिराणि न पराणुदे [ऋ. ८.१४.९, शौ.सं. २०.२८.३, २०.३९.४]>इति
स्वर्गम् एवैतयाहरहर् लोकम् अवरुन्द्धे
<आहं सरस्वतीवतोः [ऋ. ८.३८.१०अ]>इत्य् अच्छावाकस्य [एद्. स्वरस्वतीवतोर्, चोर्रेच्तेद् प्. ३०३]
<इन्द्राग्न्योर् अवो वृणे [ऋ. ८.३८.१०ब्]>इति
एतद् ध वा इन्द्राग्न्योः प्रियं धामो यद् वाग् इति प्रियेणैवैनौ तद् धाम्ना समर्धयति
प्रियेणैव धाम्ना समृध्यते य एवं वेद ॥ १३ ॥
2.5.14
उभय्यो होत्रकाणां परिधानीया भवन्त्य् अहीनपरिधानयाश् चैकाहिनस्य
तत ऐकाहिकीभिर् एव मैत्रावरुणः परिदधाति
तेनास्माल् लोकान् न प्रच्यवते
आहिनीकीभिर् अच्छावाकः
स्वर्गस्य लोकस्याप्त्यै
उभयीभिर् ब्राह्मणाच्छंसी
एवम् असाव् उभौ व्यन्वारभमाण एतीमं च लोकम् अमुं च
अथो ऽहीनं चैकाहं चाथो संवत्सरं चाग्निष्टोमं चाथो मैत्रावरुणं चाच्छावाकं च
एवम् असाव् उभौ व्यन्वारभमाण एति
अथ तत ऐकाहिकीभिर् एव तृतीयसवने होत्रकाः परिदधति
तेनास्माल् लोकान् न प्रच्यवते
आहिनीकीभिर् अच्छावाकः
स्वर्गस्य लोकस्य समष्ट्यै
कामं तद् धोता शंसेद् यद् धोत्रकाः पूर्वेद्युः शंसेयुः
यद् वै होता तद् धोत्रकाः
प्राणो वै होताङ्गानि होत्रकाः
समानो वा अयं प्राणो ऽङ्गान्य् अनुसंचरति
तस्मात् तत् कामं होता शंसेद् यद् धोत्रकाः पूर्वेद्युः शंसेयुः
यद् वै होता तद् धोत्रकाः
आत्मा वै होताङ्गानि होत्रकाः
समाना वा इमे ऽङ्गानाम् अन्तास्
तस्मात् तत् कामं होता शंसेद् यद् धोत्रकाः पूर्वेद्युः शंसेयुः [एद्. पुर्वेद्युः]
यद् वै होता तद् धोत्रकाः
सूक्तान्तैर् होता परिदधाति
अथ समान्य एव होत्रकाणां परिधानीया भवन्ति ॥ १४ ॥
2.5.15
यः श्वस्तोत्रियस् तम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने
अहीनम् एव तत् संतन्वन्ति
अहीनस्य संतत्यै
त एते होत्रकाः प्रातःसवने षडहस्तोत्रियं शस्त्वा माध्यंदिने ऽहीनसूक्तानि शंसन्ति
<आ सत्यो यातु मघवां ऋजीषी [ऋ. ४.१६.१, शौ.सं. २०.७७.१]>इति सत्यवान् मैत्रावरुणः [एद्. सत्यवन्, चोर्र्. ড়त्यल्]
<अस्मा इद् उ प्र तवसे तुराय [ऋ. १.१६.१, शौ.सं. २०.३५.१]>इति ब्राह्मणाच्छंसी
<शासद् वह्निर् दुहितुर् नप्त्यं गात् [ऋ. ३.३१.१]>इत्य् अच्छावाकस्
तद् आहुः कस्माद् अच्छावाको वह्निवद् एतत् सूक्तम् उभयत्र शंसति स पराक्षु चैवाहःस्वर्वाक्षु चेति
वीर्यवान् वा एष बह्वृचो यद् अच्छावाकः
वहति ह वै वह्निर् धुरो यासु युज्यते
तस्माद् अच्छावाको वह्निवद् एतत् सूक्तम् उभयत्र शंसति स पराक्षु चैवाहःस्वर्वाक्षु चेति
तानि पञ्चस्व् अहःसु शस्यन्ते चतुर्विंशे ऽभिजिति विषुवति विश्वजिति महाव्रते
तान्य् एतान्य् अहीनसूक्तानीत्य् आचक्षते
न ह्य् एषु किं चन हीयते
पराञ्चि ह वा एतान्य् अहान्य् अनभ्यावर्तीनि भवन्ति
तस्माद् एतान्य् एतेष्व् अहःसु शस्यन्ते
यद् एतानि शंसन्ति तत् स्वर्गस्य लोकस्य रूपम्
यद् वेवैतानि शंसन्तीन्द्रम् एवैतैर् निर्ह्वयन्ते यथर्षभं वाशितायै
ते वै देवाश् चर्षयश् चाब्रुवन्त् समानेन यज्ञं संतन्वामहा इति [एद्. चाब्रुवंत्]
तद् एतद् यज्ञस्य समानम् अपश्यन्
समानान् प्रगाथान्त् समानीः प्रतिपदः समानानि सूक्तानि [एद्. प्रगाथांत्]
ओकःसारी वा इन्द्रः
यत्र वा इन्द्रः पूर्वं गच्छति गच्छत्य् एव तत्रापरम्
यज्ञस्यैव सेन्द्रतायै ॥ १५ ॥

इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे पञ्चमः प्रपाठकः ॥