गोपथ ब्राह्मणम्/भागः २ (उत्तर भागः)/प्रपाठकः २

विकिस्रोतः तः
Jump to navigation Jump to search

ओं मांसीयन्ति वा आहिताग्नेर् अग्नयस्
त एनम् एवाग्रे ऽभिध्यायन्ति यजमानम्
य एतम् ऐन्द्राग्नं पशुं षष्ठे षष्ठे मास आलभते तेनैवेन्द्राग्निभ्यां ग्रसितम् आत्मानं निरवदयते
आयुष्काम आलभेत
प्राणापानौ वा इन्द्राग्नी
प्राणापानाव् एवात्मनि धत्ते
आयुष्मान् भवति
प्रजाकाम आलभेत
प्राणापानौ वा इन्द्राग्नी
प्राणापानौ प्रजा अनुप्रजायन्ते
प्रजावान् भवति
पशुकाम आलभेत
प्राणापानौ वा इन्द्राग्नी
प्राणापानौ पशवो ऽनुप्रजायन्ते
पशुमान् भवति
यामं शुकं हारितम् आलभेत शुण्ठं वा यः कामयेतानामयः पितृलोके स्याम् इति
एतेन ह वै यमो ऽमुष्मिंल् लोक आर्ध्नोत्
पितृलोक एवार्ध्नोति
त्वाष्ट्रं वडवम् आलभेत प्रजाकामः
प्रजापतिर् वै प्रजाः सिसृक्षमाणः स द्वितीयं मिथुनं नाविन्दत्
स त्वाष्ट्रं वडवम् अपश्यत्
त्वष्टा हि रूपाणां प्रजनयिता
तेन प्रजा असृजत
तेन मिथुनम् अविन्दत्
प्रजावान् मिथुनवान् भवति य एवं वेद यश् चैवंविद्वान् एतम् आलभते
योनीन् वा एष काम्यान् पशून् आलभते यो ऽनिष्ट्वैन्द्राग्नेन काम्यं पशुम् आलभत इष्ट्वालम्भः समृद्ध्यै ॥ २.२.१ ॥

पञ्चधा वै देवा व्युदक्रामन्न् अग्निर् वसुभिः सोमो रुद्रैर् इन्द्रो मरुद्भिर् वरुण आदित्यैर् बृहस्पतिर् विश्वैर् देवैस्
ते देवा अब्रुवन्न् असुरेभ्यो वा इदं भ्रातृव्येभ्यो रध्यामो यन् मिथो विप्रियाः स्मः
या न इमाः प्रियास् तन्वस् ताः समवद्यामहा इति
ताः समवाद्यन्त
ताभ्यः स निरृच्छाद्यो नः प्रथमो ऽन्यो ऽन्यस्मै द्रुह्याद् इति
यत् तन्वः समवाद्यन्त तत् तानूनप्त्रस्य तानूनप्त्रत्वम्
ततो देवा अभवन् परासुरास्
तस्माद् यः सतानूनप्त्रिणां प्रथमो द्रुह्यति स आर्तिम् आर्छति
यत् तानूनप्त्रं समवद्यति भ्रातृव्याभिभूत्यै
भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति ॥ २.२.२ ॥

पञ्च कृत्वो ऽवद्यति
पाङ्क्तो यज्ञः
पञ्चधा हि ते ताः समवाद्यन्त
आपतये त्वा गृह्णामीत्य् आह
प्राणो वा आपतिः
प्राणम् एव तेन प्रीणाति
परिपतये त्वेत्य् आह
मनो वै परिपतिः
मन एव तेन प्रीणाति
तनूनप्त्र इत्य् आह
तन्वो हि ते ताः समवाद्यन्त
शाक्वरायेत्य् आह
शक्त्यै हि ते ताः समवाद्यन्त
शक्मन ओजिष्ठायेत्य् आह
ओजिष्ठं हि ते तद् आत्मनः समवाद्यन्त
अनाधृष्टम् इत्य् आह
अनाधृष्टं ह्य् एतत्
अनाधृष्यम् इत्य् आह
अनाधृष्यं ह्य् एतत्
देवानाम् ओज इत्य् आह
देवानां ह्य् एतद् ओजः
अभिशस्तिपा इत्य् आह
अभिशस्तिपा ह्य् एतत्
अनभिशस्तेन्यम् इत्य् आह
अनभिशस्तेन्यं ह्य् एतत् [एद्. अनभिशस्तेनं, चोर्र्. ড়त्यल्]
अनु मे दीक्षां दीक्षापतिर् मन्यताम् अनु तपस् तपस्पतिर् अञ्जसा सत्यम् उप गेषं स्विते मा धा इत्य् आह यथायजुर् एवैतत् ॥ २.२.३ ॥

घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन्
स्रुचौ बाहू
तस्मात् स्रुचौ सौमीम् आहुतिं नाशाते
अवधीयेत सोमस्
तस्मात् स्रुचौ चाज्यं चान्तिकम् आहार्षीत्
अन्तिकम् इव खलु वा अस्यैतत् प्रचरन्ति यत् तानूनप्त्रेण प्रचरन्ति
अंशुर् अंशुष् टे देव सोमाप्यायताम् इन्द्रायैकधनविद इत्य् आह
यद् एवास्यापवायते यन् मीयते तद् एवास्यैतेनाप्याययन्ति
आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्वेत्य् आह
उभाव् एवेन्द्रं च सोमं चाप्याययन्ति
आप्याययास्मान्त् सखीन्त् सन्या मेधया प्रजया धनेनेत्य् आह
ऋत्विजो वा एतस्य सखायस्
तान् एवास्यैतेनाप्याययन्ति
स्वस्ति ते देव सोम सुत्याम् उदृचम् अशीयेत्य् आह
आशिषम् एवैताम् आशास्ते
प्र वा एतस्माल् लोकाच् च्यवन्ते ये सोमम् आप्याययन्ति
अन्तरिक्षदेवत्यो हि सोम आप्यायितः
एष्टा राय एष्टा वामानि प्रेषे भगाय
ऋतम् ऋतवादिभ्यो नमो दिवे नमः पृथिव्या इति
द्यावापृथिवीभ्याम् एव नमस्कृत्यास्मिंल् लोके प्रतितिष्ठति प्रतितिष्ठति ॥ २.२.४ ॥

मख इत्य् एतद् यज्ञनामधेयं छिद्रप्रतिषेधसामर्थ्यात्
छिद्रं खम् इत्य् उक्तम्
तस्य मेति प्रतिषेधः
मा छिद्रं करिष्यतीति
छिद्रो हि यज्ञो भिन्न इवोदधिर् विस्रवति
तद् वै खलु छिद्रं भवत्य् ऋत्विग्यजमानविमानाद् वा
अपि वैषां व्यपेक्षया मन्त्रकल्पब्राह्मणानाम् अप्रयोगाद् यथोक्तानां वा दक्षिणानाम् अप्रदानाद् धीनाद् वातिरिक्ताद् वोत्पाताद्भुतेषु प्रायश्चित्तव्यतिक्रमाद् इति
एतद् वै सर्वं ब्रह्मण्य् अर्पितम्
ब्रह्मैव विद्वान् यद् भृग्वङ्गिरोवित् सम्यग् अधीयानश् चरितब्रह्मचर्यो ऽन्यूनानतिरिक्ताङ्गो ऽप्रमत्तो यज्ञं रक्षति
तस्य प्रमादाद् यदि वाप्य् असांनिध्याद् यथा भिन्ना नौर् अगाधे महत्य् उदके संप्लवेन् मत्स्यकच्छपशिंशुमारनक्रमकरपुरीकयजषरजसपिशाचानां भागधेयं भवत्य् एवमादीनां चान्येषां विनष्टोपजीविनाम्
एवं खल्व् अपि यज्ञश् छिन्नभिन्नो ऽपध्वस्त उत्पाताद्भुतो बहुलो ऽथर्वभिर् असंस्कृतो ऽसुरगन्धर्वयक्षरक्षसपिशाचानां भागधेयं भवत्य् एवमादीनां चान्येषां विनष्टोपजीविनां
तद् अपि श्लोकाः
छिन्नभिन्नो ऽपध्वस्तो विश्रुतो बहुधा मखः । इष्टापूर्तद्रविणंगृह्य यजमानस्यावापतत् ॥
ऋत्विजां च विनाशाय राज्ञो जनपदस्य च । संवत्सरविरिष्टं तद् यत्र यज्ञो विरिष्यते ॥
दक्षिणाप्रवणीभूतो यज्ञो दक्षिणतः स्मृतः । हीनाङ्गो रक्षसां भागो ब्रह्मवेदाद् असंस्कृतः ॥
चतुष्पात् सकलो यज्ञश् चातुर्हौत्रविनिर्मितः । चतुर्विधै स्थितो मन्त्रैर् ऋत्विग्भिर् वेदपारगैः ॥
प्रायश्चित्तैर् अनुध्यानैर् अनुज्ञानानुमन्त्रणैः । होमैश् च यज्ञविभ्रंशं सर्वं ब्रह्मा प्रपूरयेद् ॥ इति
तस्माद् यजमानो भृग्वङ्गिरोविदम् एव तत्र ब्रह्माणं वृणीयात्
स हि यज्ञं तारयतीति ब्राह्मणम् ॥ २.२.५ ॥

यज्ञो वै देवेभ्य उदक्रामन् न वो ऽहम् अन्नं भविष्यामीति
नेति देवा अब्रुवन्न् अन्नम् एव नो भविष्यसीति
तं देवा विमेथिरे
स एभ्यो विहृतो न प्रबभूव
ते होचुर् देवाः
न वै न इत्थं विहृतो ऽलं भविष्यति
हन्तेमं संभराम् एति
तं संजभ्रुस्
तं संभृत्योचुर् अश्विनाव् इमं भिषज्यतम् इति [एद्. अश्विणाव्, चोर्र्. ড়त्यल्]
अश्विनौ वै देवानां भिषजौ
अश्विनाव् अध्वर्यू
तस्माद् अध्वर्यू घर्मं संभरतस्
तं संभृत्योचतुर् ब्रह्मन् घर्मेण प्रचरिष्यामो होतर् घर्मम् अभिष्टुह्य् उद्गातः सामानि गायेति
प्रचरत घर्मम् इत्य् अनुजानाति
ब्रह्मप्रसूता हि प्रचरन्ति
ब्रह्म हेदं प्रसवानाम् ईशे
सवितृप्रसूततायै
<घर्मं तपामि [पै.सं. ५.१६.२, सकल अत् Vऐत्ष् १४.१]> <ब्रह्म जज्ञानम् [पै.सं. ५.२.२, शौ.सं. ४.१.१, Vऐत्ष् १४.१]> <इयं पित्र्या राष्ट्र्य् एत्व् अग्रे [पै.सं. ५.२.१, शौ.सं. ४.१.२, Vऐत्ष् १४.१]>इति घर्मं ताप्यमानम् उपासीत शस्त्रवद् अर्धर्चश आहावप्रतिगरवर्जं रूपसमृद्धाभिः
एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्धम्
यत् कर्म क्रियमाणम् ऋग् यजुर् वाभिवदति स्वस्ति तस्य यज्ञस्य पारम् अश्नुते य एवं वेद
देवमिथुनं वा एतद् यद् घर्मस्
तस्माद् अन्तर्धाय प्रचरन्ति
अन्तर्हिता वै मिथुनं चरन्तीति
तद् एतद् देवमिथुनम् इत्य् आचक्षते
तस्य यो घर्मस् तच्छिश्नम्
यौ शफौ ताव् आण्ड्यौ
योपयमनी ते श्रोणिकपाले
यत् पयस् तद् रेतस्
तद् अग्नौ देवयोन्यां रेतो ब्रह्ममयं धत्ते प्रजननाय
सो ऽग्निर् देवयोनिर् ऋङ्मयो यजुर्मयः साममयो ब्रह्ममयो ऽमृतमय आहुतिमयः सर्वेन्द्रियसंपन्नो यजमान ऊर्ध्वः स्वर्गं लोकम् एति
तद् आहुर् न प्रथमयज्ञे प्रवर्ग्यं कुर्वीतानुपनामुका ह वा एनम् उत्तरे यज्ञक्रतवो भवन्तीति
कामं तु यो ऽनूचानः श्रोत्रियः स्यात् तस्य प्रवृञ्ज्यात्
आत्मा वै स यज्ञस्येति विज्ञायते
अपशिरसा ह वा एष यज्ञेन यजते यो ऽप्रवर्ग्येण यजते
शिरो ह वा एतद् यज्ञस्य यत् प्रवर्ग्यस्
तस्मात् प्रवर्ग्यवतैव याजयेन् नाप्रवग्येण
तद् अप्य् एषाभ्यनूक्ता <चत्वारि शृङ्गा [पै.सं. ८.१३.३, सकल अत् १,२.१६f]>इति ॥ २.२.६ ॥

देवाश् च ह वा ऋषयश् चासुरैः संयत्ता आसन् [एद्. चिआसुरैः]
तेषाम् असुराणाम् इमाः पुरः प्रत्यभिजिता आसन्न् अयस्मयी पृथिवी रजतान्तरिक्षं हरिणी द्यौस्
ते देवाः संघातंसंघातं पराजयन्त
ते ऽविदुर् अनायतना हि वै स्मस्
तस्मात् पराजयामहा इति [एद्. पराजयामह, चोर्र्. ড়त्यल्]
त एताः पुरः प्रत्यकुर्वत हविर्धानं दिव आग्नीध्रम् अन्तरिक्षात् सदः पृथिव्यास्
ते देवा अब्रुवन्न् उपसदम् उपायाम
उपसदा वै महापुरं जयन्तीति
त एभ्यो लोकेभ्यो निरघ्नन्
एकयामुष्माल् लोकाद् एकयान्तरिक्षाद् एकया पृथिव्यास्
तस्माद् आहुर् उपसदा वै महापुरं जयन्तीति
त एभ्यो लोकेभ्यो निर्हता ऋतून् प्राविशन्
ते षड् उपायन्
तान् उपसद्भिर् एवर्तुभ्यो निरघ्नन्
द्वाभ्याम् अमुष्माल् लोकाद् द्वाभ्याम् अन्तरिक्षाद् द्वाभ्यां पृथिव्यास्
त ऋतुभ्यो निर्हताः संवत्सरं प्राविशन्
ते द्वादशोपायन्
तान् उपसद्भिर् एव संवत्सरान् निरघ्नन्
चतसृभिर् अमुष्माल् लोकाच् चतसृभिर् अन्तरिक्षाच् चतसृभिः पृथिव्यास्
ते संवत्सरान् निर्हता अहोरात्रे प्राविशन्
ते यत् सायम् उपायंस् तेनैनान् रात्र्या अनुदन्त यत् प्रातस् तेनाह्नस्
तस्माद् गौः सायं प्रातस्तनम् आप्यायते प्रातः सायन्तनम्
तान् उपसद्भिर् एवैभ्यो लोकेभ्यो नुदमाना आयन्
ततो देवा अभवन् परासुराः
सर्वेभ्य एवैभ्यो लोकेभ्यो भ्रातृव्यं नुदमान एति य एवंविद्वान् उपसदम् उपैति ॥ २.२.७ ॥

न द्वादशाग्निष्टोमस्योपसदः स्युः
अशान्ता निर्मृज्युर् न तिस्रो ऽहीनस्य
उपरिष्टाद् यज्ञक्रतुर् गरीयान् अभिषीदेद् यथा गुरुर् भारो ग्रीवा निःशृणीयाद् आर्तिम् आर्छेत्
द्वादशाहीनस्य कुर्यात्
प्रत्युत्तब्ध्यै सयत्वाय
तिस्रो ऽग्निष्टोमस्योपसदः स्युः शान्त्या अनिर्मार्गाय
ते देवा असुर्यान् इमांल् लोकान् नान्ववैतुम् अधृष्णुवन्
तान् अग्निना मुखेनान्ववायन्
यद् अग्निम् अन्त्य् उपसदां प्रतीकानि भवन्ति यथा क्षेत्रपतिः क्षेत्रे ऽन्ववनयत्य् एवम् एवैतद् अग्निना मुखेनेमांल् लोकान् अभिनयन्तो यन्ति [एद्. ऽन्ववनयन्त्य्, चोर्र्. ড়त्यल्]
यो ह वै देवान् साध्यान् वेद सिध्यत्य् अस्मै
इमे वाव लोका यत् साध्या देवाः
स य एवम् एतान्त् साध्यान् वेद सिध्यत्य् अस्मै
सिध्यत्य् अमुष्मै सिध्यत्य् अस्मै लोकाय य एवंविद्वान् उपसदम् उपैति ॥ २.२.८ ॥

अथ यत्राहाध्वर्युर् अग्नीद् देवपत्नीर् व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्याम् आह्वयेति तद् अपरेण गार्हपत्यं प्राङ्मुखस् तिष्ठन्न् अनवानन्न् आग्नीध्रो देवपत्नीर् व्याचष्टे
पृथिव्य् अग्नेः पत्नी
वाग् वातस्य पत्नी
सेनेन्द्रस्य पत्नी
धेना बृहस्पतेः पत्नी
पथ्या पूष्णः पत्नी
गायत्री वसूनां पत्नी
त्रिष्टुब् रुद्राणां पत्नी
जगत्य् आदित्यानां पत्नी
अनुष्टुब् मित्रस्य पत्नी
विराड् वरुणस्य पत्नी
पङ्क्तिर् विष्णोः पत्नी
दीक्षा सोमस्य राज्ञः पत्नीति
अति भ्रातृव्यान् आरोहति नैनं भ्रातृव्या आरोहन्त्य् उपरि भ्रातृव्यान् आरोहति य एवंविद्वान् आग्नीध्रो देवपत्नीर् व्याचष्टे ॥ २.२.९ ॥

यथा वै रथ एकैकम् अरम् अभिप्रतितिष्ठन् वर्तत एवं यज्ञ एकैकां तन्वम् अभिप्रतितिष्ठन्न् एति
पुरा प्रचरितोर् आग्नीध्रीये होतव्याः
एतद् ध वा उवाच वासिष्ठः सात्यहव्यो ऽस्कन् सोम इत्य् उक्ते मा सूर्क्षत प्रचरत प्रातर् वावाद्याहं सोमं समस्थापयम् इति
नास्य सोम स्कन्दति य एवंविद्वान्त् सोमं पिबति
स ह स्म वै स आसन्द्याम् आसीनः सक्तुभिर् उपमथ्य सोमं पिबति
अहं वाव सर्वतो यज्ञं वेद य एतान् वेद
न माम् एष हिंसिष्यतीति
नैनं सोमपीथो न पेयो हिनस्ति य एवंविद्वान्त् सोमं पिबति
तं ह स्म यद् आहुः कस्मात् त्वम् इदम् आसन्द्याम् आसीनः सक्तुभिर् उपमथ्य सोमं पिबसीति
(२,२.१०ज्) देवतास्व् एव यज्ञं प्रतिष्ठापयामीत्य् अब्रवीद् ब्राह्मणो यस्यैवंविदुषो यस्यैवंविद्वान् यज्ञार्त्या यज्ञे प्रायश्चित्तं जुहोति [एद् ब्रह्मणो, चोर्र्. ড়त्यल्]
देवतास्व् एव यज्ञं प्रतिष्ठापयति
यज्ञार्तिं प्रतिजुहुयात्
सयोनित्वाय
त्रयस्त्रिंशद् वै यज्ञस्य तन्व इति
एकान्नत्रिंशत् स्तोमभागास्
त्रीणि सवनानि
यज्ञश् चतुर्थः
स्तोमभागैर् एवैतत् स्तोमभागान् प्रतिप्रयुङ्क्ते सवनैः सवनानि यज्ञेन यज्ञम्
सर्वा ह वा अस्य यज्ञस्य तन्वः प्रयुक्ता भवन्ति सर्वा आप्ताः सर्वा अवरुद्धाः
देवस्य सवितुः प्रसवे बृहस्पतये स्तुतेति
यद्यद् वै सविता देवेभ्यः प्रासुवत् तेनार्ध्नुवन्
सवितृप्रसूता एव स्तुवन्ति
ऋध्नुवन्ति
ऋध्यन्ते ह वा अस्य स्तोमा यज्ञे
ऋध्यते यजमान ऋध्यते प्रजायाः [एद्. ऋध्यते ऋध्यते, चोर्रेच्तेद् प्. ३०२]
ऋध्यते पशुभ्यः
ऋध्यते ब्रह्मणे यस्यैवंविद्वान् ब्रह्मा भवति ॥ २.२.१० ॥

देवाश् च ह वा असुराश् चास्पर्धन्त
ते देवाः समावद् एव यज्ञे कुर्वाणा आसन्
यद् एव दवा अकुर्वत तद् असुरा अकुर्वत
ते न व्यावृतम् अगच्छन्
ते देवा अब्रुवन् नयतेमं यज्ञं तिर उपर्य् असुरेभ्यस् तंस्यामह इति
तम् एताभिर् आच्छाद्योदक्रामन् यजूंषि यज्ञे समिधः स्वाहेति
तं तिर उपर्य् असुरेभ्यो यज्ञम् अतन्वत
तम् एषां यज्ञम् असुरा नान्ववायन्
ततो देवा अभवन् परासुराः
स य एवंविद्वांस् तिर उपर्य् असुरेभ्यो यज्ञं तनुते भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति
एतैर् एव जुहुयात् समृतयज्ञे चतुर्भिश् चतुर्भिर् अन्वाख्यायम्
पुरस्तात् प्रातरनुवाकस्य जुहुयात्
एतावान् वै यज्ञो यावान् एष यज्ञस् तं वृङ्क्ते
सयज्ञो भवति
अयज्ञ इतरः
एतैर् एव जुहुयात् पुरस्ताद् द्वादशाहस्य
एष ह वै प्रत्यक्षं द्वादशाहस्
तम् एवालभ्यैतैर् एव जुहुयात्
पुरस्ताद् दीक्षायाः
एषा ह वै प्रत्यक्षं दीक्षा
ताम् एवालभ्यैतैर् एवातिथ्यम् अभिमृशेद् <यज्ञेन यज्ञम् अयजन्त देवाः [शौ.सं. ७.५.१, पै.सं. २०.२.२, Vऐत्ष् १६.१५]> इति ॥ २.२.११ ॥

यत्र विजानाति ब्रह्मन्त् सोमो ऽस्कन्न् इति तम् एतयालभ्याभिमन्त्रयते<अभूद् देवः सविता वन्द्यो नु न इदानीम् अह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् [ऋ. ४.५४.१]>इति
<ये अग्नयो अप्स्व् अन्तर् [शौ.सं. ३.२१.१, Vऐत्ष् १६.१६, च्f. पै.सं. १०.९.१?]> इति सप्तभिर् अभिजुहोति
यद् एवास्यावस्कन्नं भवति तद् एवास्यैतद् अग्नौ स्वगाकरोति
अग्निर् हि सुकृतीनां हविषां प्रतिष्ठा
अथ विसृप्य वैप्रुषान् होमाञ् जुहोति <द्रप्सश् चस्कन्द [ऋ. १०.१७.११, पै.सं. २०.१३.७, शौ.सं. १८.४.२८, Vऐत्ष् १६.१७]>इति [एद्. जुह्वति, चोर्र्. ড়त्यल्]
या एवास्याभिषूयमाणस्य विप्रुष स्कन्दन्त्य् अंशुर् वा ता एवास्यैतद् आहवनीये स्वगाकरोति [एद्. आहवणीये]
आहवनीयो ह्य् आहुतीनां प्रतिष्ठा
<यस् ते द्रप्स स्कन्दति [ऋ. १०.१७.१२अ, पै.सं. २०.१३.८अ, Vऐत्ष् १६.१७]>इति
स्तोको वै द्रप्सः
<यस् ते अंशुर् बाहुच्युतो धिषणाया उपस्थात् [ऋ. १०.१७.१२ब्, पै.सं. २०.१३.८ब्, Vऐत्ष् १६.१७]>इति बाहुभिर् अभिच्युतो ऽंशुर् अधिषवणाभ्याम् अधिस्कन्दति
<अध्वर्योर् वा परि यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतम् [पै.सं. २०.१३.८च्द्, ऋ. १०.१७.१२च्द्, Vऐत्ष् १६.१७]> इति
तद् यथा वषट्कृतं स्वाहाकृतं हुतम् एवं भवति ॥ २.२.१२ ॥

ऋषयो वा इन्द्रं प्रत्यक्षं नापश्यन्
तं वसिष्ठ एव प्रत्यक्षम् अपश्यत्
सो ऽबिभेद् इतरेभ्य ऋषिभ्यो मा प्रवोचद् इति
सो ऽब्रवीद् ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्ते
अथेतरेभ्य ऋषिभ्यो मा प्रवोच इति
तस्मा एतान् स्तोमभागान् उवाच
ततो वसिष्ठपुरोहिताः प्रजाः प्राजायन्त
स्तोमो वा एते एतेषां भागस्
तत् स्तोमभागानां स्तोमभागत्वम्
रश्मिर् असि क्षयाय त्वेति
क्षयो वै देवाः
देवेभ्य एव यज्ञं प्राह
प्रेतिर् असि धर्मणे त्वेति
धर्मो मनुष्याः
मनुष्येभ्य एव यज्ञं प्राह
अन्वितिर् असि संधिर् असि प्रतिधिर् असीति [एद्. अनितिर्, चोर्र्. ড়त्यल्]
त्रयो वै लोकाः
लोकेष्व् एव यज्ञं प्रतिष्ठापयति
विष्टम्भो ऽसीति
वृष्टिम् एवावरुन्द्धे
प्रावो ऽस्य् अह्नांसीति मिथुनम् एव करोति
उशिग् असि प्रकेतो ऽसि सुदितिर् असीति
अष्टौ वसव एकादश रुद्रा द्वादशादित्या वाग् द्वात्रिंशी स्वरस् त्रयस्त्रिंशस्त्रयस्त्रिंशद् देवाः
देवेभ्य एव यज्ञं प्राह
ओजो ऽसि पितृभ्यस् त्वेति
बलम् एव तत्पितॄन् अनुसंतनोति
तन्तुर् असि प्रजाभ्यस् त्वेति
प्रजा एव पशून् अनुसंतनोति
रेवद् अस्य् ओषधीभ्यस् त्वेति
ओषधीष्व् एव यज्ञं प्रतिष्ठापयति
पृतनाषाड् असि पशुभ्यस् त्वेति
प्रजा एव पशून् अनुसंतनोति
अभिजिद् असीति
वज्रो वै षोडशी
व्यावृत्तो ऽसौ वज्रस्
तस्माद् एषो ऽन्यैर् व्यावृत्तः
नाभुर् असीति
प्रजापतिर् वै सप्तदशः
प्रजापतिम् एवावरुन्द्धे ॥ २.२.१३ ॥

अधिपतिर् असि धरुणो ऽसि संसर्पो ऽसि वयोधा असीति
प्राणो ऽपानश् चक्षुः श्रोत्रम् इत्य् एतानि वै पुरुषम् अकरन् प्रणान् उपैति
प्रजात्या एव
त्रिवृद् असि प्रवृद् असि स्ववृद् अस्य् अनुवृद् असीति
मिथुनम् एव करोति
आरोहो ऽसि प्ररोहो ऽसि संरोहो ऽस्य् अनुरोहो ऽसीति [एद्. आरुओहो]
प्रजापतिर् एव
वसुको ऽसि वस्यष्टिर् असि वेषश्रीर् असीति
प्रतिष्ठितिर् एव
आक्रमो ऽसि संक्रमो ऽस्य् उत्क्रमो ऽस्य् उत्क्रान्तिर् असीति
ऋद्धिर् एव
यद् यद् वै सविता देवेभ्यः प्रासुवत् तेनार्ध्नुवन्
सवितृप्रसूता एव स्तुवन्ति
ऋध्नुवन्ति
बृहस्पतये स्तुतेति
बृहस्पतिर् वा आङ्गिरसो देवानां ब्रह्मा
तद् अनुमत्यैवों भूर् जनद् इति प्रातःसवने
ऋग्भिर् एवोभयतो ऽथर्वाङ्गिरोभिर् गुप्ताभिर् गुप्तै स्तुतेति
एवों भुवो जनद् इति माध्यंदिने सवने
यजुर्भिर् एवोभयतो ऽथर्वाङ्गिरोभिर् गुप्ताभिर् गुप्तैः
स्तुतेत्य् एवों स्वर् जनद् इति तृतीयसवने
सामभिर् एवोभयतो ऽथर्वाङ्गिरोभिर् गुप्ताभिर् गुप्तै स्तुतेत्य् एव
अथ यद्य् अहीन उक्थ्यः षोडशी वाजपेयो ऽतिरात्रो ऽप्तोर्यामा वा स्यात् सर्वाभिः सर्वाभिर् अत ऊर्ध्वं व्याहृतिभिर् अनुजानाति
ओं भूर् भुवः स्वर् जनद् वृधत् करद् रुहन् महत् तच् छम् ओम् इन्द्रवन्त स्तुतेति सेन्द्रान् मापगायत सेन्द्रान् स्तुतेत्य् एव
इन्द्रियवान् ऋद्धिमान् वशीयान् भवति य एवं वेद यश् चैवंविद्वान्त् स्तोमभागैर् यजते ॥ २.२.१४ ॥

यो ह वा आयतांश् च प्रतियतांश् च स्तोमभागान् विद्यात् स विष्पर्धमानयोः समृतसोमयोर् ब्रह्मा स्यात्
<स्तुतेषे स्तुतोर्जे स्तुत देवस्य सवितुः सवे बृहस्पतिं वः प्रजापतिं वो वसून् वो देवान् रुद्रान् वो देवान् आदित्यान् वो देवान् साध्यान् वो देवान् आप्त्यान् वो देवान् विश्वान् वो देवान् सर्वान् वो देवान् विश्वतस् परि हवामहे [Vऐत्ष् १७.७]>
<जनेभ्यो ऽस्माकम् अस्तु केवलः [Vऐत्ष् १७.७ (च्f. पै.सं. ५.४.९च्)]>
<इतः कृणोतु वीर्यम् [Vऐत्ष् १७.७ (पै.सं. ५.४.९द्)]> इति
एते ह वा आयताश् च प्रतियताश् च स्तोमभागास्
ताञ् जपन्न् उपर्युपरि परेषां ब्रह्माणम् अवेक्षेत
तत एषाम् अधःशिरा ब्रह्मा पतति
ततो यज्ञस्
ततो यजमानः
यजमाने ऽधःशिरसि पतिते स देशो ऽधःशिराः पतति यस्मिन्न् अर्धे यजन्ते
देवाश् च ह वा असुराश् च समृतसोमौ यज्ञाव् अतनुताम्
अथ बृहस्पतिर् आङ्गिरसो देवानां ब्रह्मा
स आयतांश् च प्रतियतांश् च स्तोमभागाञ् जपन्न् उपर्युपर्य् असुराणां ब्रह्माणम् अवैक्षत
तत एषाम् अधःशिरा ब्रह्मापतत्
ततो यज्ञस्
ततो ऽसुरा इति ॥ २.२.१५ ॥

देवा यज्ञं पराजयन्त
तम् आग्नीध्रात् पुनर् उपाजयन्त
तद् एतद् यज्ञस्यापराजितं यद् आग्नीध्रम्
यद् आग्नीध्राद् धिष्ण्यान् विहरति तत एवैनं पुनस् तनुते
पराजित्यै
अप खलु वा एते गच्छन्ति ये बहिष्पवमानं सर्पन्ति
बहिष्पवमाने स्तुत आह
अग्नीद् अग्नीन् विहर बर्हि स्तृणीहि पुरोडाशान् अलंकुर्व् इति
यज्ञम् एवापराजित्य पुनस् तन्वाना आयन्ति
अङ्गारैर् द्वे सवने विहरति शलाकाभिस् तृतीयसवनं सश्रुक्रत्वाय
अथो संभवत्य् एवम् एवैतत्
दक्षिणतो वै देवानां यज्ञं रक्षांस्य् अजिघांसन् [एद्. अजिधांसन्]
तान्य् आग्नीध्रेणापाघ्नत
तस्माद् दक्षिणामुखस् तिष्ठन्न् अग्नीत् प्रत्याश्रावयति
यज्ञस्याभिजित्यै रक्षसाम् अपहत्यै रक्षसाम् अपहत्यै ॥ २.२.१६ ॥

तद् आहुर् अथ कस्मात् सौम्य एवाध्वरे प्रवृताहुतीर् जुह्वति न हविर्यज्ञ इति
अकृत्स्ना वा एषा देवयज्या यद् धविर्यज्ञः
अथ हैषैव कृत्स्ना देवयज्या यत् सौम्यो ऽध्वरस्
तस्मात् सौम्य एवाध्वरे प्रवृताहुतीर् जुह्वति
जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाग् यद् वाचो मधुमत्तमं तस्मिन् मा धाः स्वाहा वाचे स्वाहा वाचपतये स्वाहा सरस्वत्यै स्वाहा सरस्वत्या इति पुरस्तात् स्वाहाकारेण जुहोति [एद्. -स्वाहाकरेण]
तस्माद् वाग् अत ऊर्ध्वम् उत्सृष्टा यज्ञं वहति मनसोत्तराम्
मनसा हि मनः प्रीतम्
तद् उ हैके सप्ताहुतीर् जुह्वति सप्त छन्दांसि प्रवृत्तानि प्रतिमन्त्रम् इति वदन्तः
यथा मेखला पर्यस्यते मेध्यस्य चामेध्यस्य च विहृत्या एवं हैवैते न्युप्यन्ते मेधस्य चामेध्यस्य च विहृत्यै यज्ञस्य विहृत्यै
प्राचीनं हि धिष्ण्येभ्यो देवानां लोकाः प्रतीचीनं मनुष्याणाम्
तस्मात् सोमं पिबता प्राञ्चो धिष्ण्या नोपसर्प्याः
जनं ह्य् एतत्
देवलोकं ह्य् अध्यारोहन्ति
तेषाम् एतद् आयतनं चोदयनं च यद् आग्नीध्रं च सदश् च
तद् यो ऽविद्वान्त् संचरत्य् आर्तिम् आर्छत्यि
अथ यो विद्वान्त् संचरति न स धिष्णीयाम् आर्तिम् आर्छति ॥ २.२.१७ ॥

प्रजापतिर् वै यज्ञस्
तस्मिन्त् सर्वे कामाः सर्वा इष्टीः सर्वम् अमृतत्वम्
तस्य हैते गोप्तारो यद् धिष्ण्यास्
तान्त् सदः प्रस्रप्स्यन् नमस्करोति
नमो नम इति
न हि नमस्कारम् अति देवास्
ते ह नमसिताः कर्तारम् अतिसृजन्तीति
तत एतं प्रजापतिं यज्ञं प्रपद्यते नमो नम इति
न हि नमस्कारम् अति देवाः
स तत्रैव यजमानः सर्वान् कामान् आप्नोति सर्वान् कामान् आप्नोति ॥ २.२.१८ ॥

यो वै सदस्यान् गन्धर्वान् वेद न सदस्याम् आर्तिम् आर्छति
सदः प्रस्रप्स्यन् ब्रूयाद् उपद्रष्ट्रे नम इति
अग्निर् वै द्रष्टा तस्मा उ एवात्मानं परिददाति
सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद
सदः प्रसृप्य ब्रूयाद् उपश्रोत्रे नम इति
वायुर् वा उपश्रोता
तस्मा उ एवात्मानं परिददाति
सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद
सदः प्रसर्पन् ब्रूयाद् अनुख्यात्रे नम इति
आदित्यो वा अनुख्याता
तस्मा उ एवात्मानं परिददाति
सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद
सदः प्रसृप्तो ब्रूयाद् उपद्रष्ट्रे नम इति
ब्राह्मणो वा उपद्रष्टा
तस्मा उ एवात्मानं परिददाति
सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद
ते वै सदस्या गन्धर्वाः
स य एवम् एतान्त् सदस्यान् गन्धर्वान् अविद्वान्त् सदः प्रसर्पति स सदस्याम् आर्तिम् आर्छति
अथ यो विद्वान्त् संचरति न सदस्याम् आर्तिम् आर्छति
एतेन ह स्म वा अङ्गिरसः सर्वं सदः पर्याहुस्
ते न सदस्याम् आर्तिम् आर्छन्ति
अथ यान् कामयेत न सदस्याम् आर्तिम् आर्छेयुर् इति तेभ्य एतेन सर्वं सदः परिब्रूयात्
ते न सदस्याम् आर्तिम् आर्छन्ति
अथ यं कामयेत प्रमीयतेति तम् एतेभ्य आवृश्चेत्
प्रमीयते ॥ २.२.१९ ॥

तद् आहुर् यद् ऐन्द्रो यज्ञो ऽथ कस्माद् द्वाव् एव प्रातःसवने प्रस्थितानां प्रत्यक्षाद् ऐन्द्रीभ्यां यजतो होता चैव ब्राह्मणाच्छंसी च
<इदं ते सोम्यं मधु [ऋ. ८.६५.८]>इति होता यजति
<इन्द्र त्वा वृषभं वयम् [ऋ. ३.४०.१, Vऐत्ष् १९.६]> इति ब्राह्मणाच्छंसी
नानादेवत्याभिर् इतरे
कथं तेषाम् ऐन्द्र्यो भवन्ति
<मित्रं वयं हवामहे [ऋ. १.२३.४अ]>इति मैत्रावरुणो यजति
<वरुणं सोमपीतये [ऋ. १.२३.४ब्]>इति
यद् वै किं च पीतवत् तद् ऐन्द्रं रूपम्
तेनेन्द्रं प्रीणाति
<मरुतो यस्य हि क्षये [ऋ. १.८६.१अ, शौ.सं. २०.१.२अ]>इति पोता यजति
<स सुगोपातमो जनः [ऋ. १.८६.१च्, शौ.सं. २०.१.२च्]>इति
इन्द्रो वै गोपास्
तद् ऐन्द्रं रूपम्
तेनेन्द्रं प्रीणाति
<अग्ने पत्नीर् इहा वह [ऋ. १.२२.९अ]>इति नेष्टा यजति
<त्वष्टारं सोमपीतये [ऋ. १.२२.९च्]>इति
यद् वै किं च पीतवत् तद् ऐन्द्रं रूपम्
तेनेन्द्रं प्रीणाति
<उक्षान्नाय वशान्नाय [ऋ. ८.४३.११अ, पै.सं. ३.१२.६अ, शौ.सं. ३.२१.६अ/२०.१.३अ]>इत्य् आग्नीध्रो यजति
<सोमपृष्ठाय वेधसे [ऋ. ८.४३.११ब्, पै.सं. ३.१२.६ब्, शौ.सं. ३.२१.६ब्/२०.१.३ब्]>इति
इन्द्रो वै वेधास्
तद् ऐन्द्रं रूपम्
तेनेन्द्रं प्रीणाति
<प्रातर्यावभिर् आ गतं देवेभिर् जेन्यावसू इन्द्राग्नी सोमपीतये [ऋ. ८.३८.७]>इति
स्वयंसमृद्धा अच्छावाकस्य
एवम् उ हैता ऐन्द्र्यो भवन्ति
यन् नानादेवत्यास् तेनान्या देवताः प्रीणाति
यद् गायत्र्यस् तेनाग्नेय्यस्
तस्माद् एताभिस् त्रयम् अवाप्तं भवति ॥ २.२.२० ॥

ते वै खलु सर्व एव माध्यंदिने प्रस्थितानां प्रत्यक्षाद् ऐन्द्रीभिर् यजन्ति
अभितृणवतीभिर् एके
<पिबा सोमम् अभि यम् उग्र तर्दः [ऋ. ६.१७.१]>इति होता यजति
<स ईं पाहि य ऋजीषी तरुत्रः [ऋ. ६.१७.२]>इति मैत्रावरुणः
<एवा पाहि प्रत्नथा मन्दतु त्वा [ऋ. ६.१७.३]>इति ब्राह्मणाच्छंसी
<अर्वाङ् एहि सोमकामं त्वाहुः [ऋ. १.१०४.९]>इति पोता
<तवायं सोमस् त्वम् एह्य् अर्वाङ् [ऋ. ३.३५.६]> इति नेष्टा
<इन्द्राय सोमाः प्रदिवो विदानाः [ऋ. ३.३६.२]>इत्य् अच्छावाकः
<आपूर्णो अस्य कलशः स्वाहा [ऋ. ३.३२.१५]>इत्य् आग्नीध्रः [एद्. स्वहोत्य्]
एवम् उ हैता अभितृणवत्यो भवन्ति
इन्द्रो वै प्रातःसवनं नाभ्यजयत्
स एताभिर् माध्यंदिनं सवनम् अभ्यतृणत्
तद् यद् एताभिर् माध्यंदिनं सवनम् अभ्यतृणत् तस्माद् एता अभितृणवत्यो भवन्ति ॥ २.२.२१ ॥

तद् आहुर् यद् ऐन्द्रार्भवं तृतीयसवनम् अथ कस्माद् एक एव तृतीयसवने प्रस्थितानां प्रत्यक्षाद् ऐन्द्रार्भव्या यजति
<इन्द्र ऋभुभिर् वाजवद्भिः समुक्षितम् [ऋ. ३.६०.५]> इति होतैव
नानादेवत्याभिर् इतरे
कथं तेषाम् ऐन्द्रार्भव्यो भवन्ति
<इन्द्रावरुणा सुतपाव् इमं सुतम् [ऋ. ६.६८.१०, पै.सं. २०.७.५अ, शौ.सं. ७.५८.१अ]> इति मैत्रावरुणो यजति [एद्. सतम्, चोर्रेच्तेद् प्. ३०२]
<युवो रथो अध्वरो देववीतये [पै.सं. २०.७.५च्, शौ.सं. ७.५८.१च्, ऋ. ६.६८.१०च्]>इति बहूनि वाह
तद् ऋभूणां रूपम्
<इन्द्रश् च सोमं पिबतं बृहस्पतये [ऋ. ४.५०.१०अ, Vऐत्ष् २२.११]>इति ब्राह्मणाच्छंसी यजति
<आ वां विशन्त्व् इन्दवः स्वाभुवः [ऋ. ४.५०.१०च्]>इति बहूनि वाह
तद् ऋभूणां रूपम्
<आ वो वहन्तु सप्तयो रघुष्यदः [ऋ. १.८५.६अ]>इति पोता यजति
<रघुपत्वानः प्र जिगात बाहुभिः [ऋ. १.८५.६ब्]>इति बहूनि वाह
तद् ऋभूणां रूपम्
<अमेव नः सुहवा आ हि गन्तन [ऋ. २.३६.३]>इति नेष्टा यजति
गन्तनेति बहूनि वाह
तद् ऋभूणां रूपम्
<इन्द्राविष्णू पिबतं मध्वो अस्य [ऋ. ६.६९.७अ]>इत्य् अच्छावाको यजति
<आ वाम् अन्धांसि मदिराण्य् अग्मन् [ऋ. ६.६९.७च्]>इति बहूनि वाह
तद् ऋभूणां रूपम्
<इमं स्तोमम् अर्हते जातवेदसे [ऋ. १.९४.१अ]>इत्य् आग्नीध्रो यजति
<रथम् इव सं महेमा मनीषया [ऋ. १.९४.१ब्]>इति बहूनि वाह
तद् ऋभूणां रूपम्
एवम् उ हैता ऐन्द्रार्भव्यो भवन्ति
यन् नानादेवत्यास् तेनान्या देवताः प्रीणाति
यद् उ जगत्प्रासाहा जागतम् उ वै तृतीयसवनम्
तृतीयसवनस्य समष्ट्यै ॥ २.२.२२ ॥

विचक्षणवतीं वाचं भाषन्ते चनसितवतीम्
विचक्षयन्ति ब्राह्मणम्
चनसयन्ति प्राजापत्यम्
सत्यं वदन्ति
एतद् वै मनुष्येषु सत्यं यच् चक्षुस्
तस्माद् आहुर् आचक्षाणम् अद्राग् इति
स यद् आहाद्राक्षम् इति तथाहास्य श्रद्दधति
यद्य् उ वै स्वयं वै दृष्टं भवति न बहूनां जनानाम् एष श्रद्दधाति
तस्माद् विचक्षणवतीं वाचं भाषन्ते चनसितवतीम्
सत्योत्तरा हैवैषां वाग् उदिता भवति ॥ २.२.२३ ॥

समृतयज्ञो वा एष यद् दर्शपूर्णमासौ
कस्य वाव देवा यज्ञम् आगच्छन्ति कस्य वा न
बहूनां वा एतद् यजमानानां सामान्यम् अहस्
तस्मात् पूर्वेद्युर् देवताः परिगृह्णीयात्
यो ह वै पूर्वेद्युर् देवताः परिगृह्णाति तस्य श्वो भूते यज्ञम् आगच्छन्ति
तस्माद् विहव्यस्य चतस्र ऋचो जपेत्
यज्ञविदो हि मन्यन्ते एव सोम एव समृत इति यज्ञो यज्ञेन समृतः ॥ २.२.२४ ॥

इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे द्वितीयः प्रपाठकः ॥