गोपथ ब्राह्मणम्/उत्तर भागः

विकिस्रोतः तः
Jump to navigation Jump to search

2.1.1
अथ यद् ब्रह्मसदनात् तृणं निरस्यति शोधयत्य् एवैनं तत्
अथोपविशतीदम् अहम् अर्वाग्वसोः सदने सीदामीति
अर्वाग्वसुर् ह वै देवानां ब्रह्मा पराग्वसुर् असुराणाम्
तमेवैतत् पूर्वं सादयति
अरिष्टं यज्ञं तनुताद् इति
अथोपविश्व जपति बृहस्पतिर् ब्रह्मेति
बृहस्पतिर् वा आङ्गिरसो देवानां ब्रह्मा
तस्मिन्न् एवैतद् अनुज्ञाम् इच्छति प्रणीतासु प्रणीयमानासु वाचं यच्छत्य् आ हविष्कृत उद्वादनात्
एतद् वै यज्ञस्य द्वारम्
तद् एतद् अशून्यं करोति
इष्टे च स्विष्टकृत्य् आनुयाजानां प्रसवाद् इति
एतद् वै यज्ञस्य द्वितीयं द्वारम्
तद् एवैतद् अशून्यं करोति
यत् परिधयः परिधीयन्ते यज्ञस्य गोपीथाय
परिधीन् परिधत्ते यज्ञस्य सात्मत्वाय
परिधीन्त् संमार्ष्टि
पुनात्य् एवैनान्
त्रिर् मध्यमम्
त्रय इमे प्राणाः
प्राणान् एवाभिजयति
त्रिर् दक्षिणार्ध्यम्
त्रयो वै लोकाः
लोकान् एवाभिजयति
त्रिर् उत्तरार्ध्यं
त्रयो वै देवलोकाः
देवलोकान् एवाभिजयति
त्रिर् उपवाजयति त्रयो वै देवयानाः पन्थानस्
तान् एवाभिजयति
ते वै द्वादश भवन्ति
द्वादश ह वै मासाः संवत्सरः
संवत्सरम् एव तेन प्रीणाति
अथो संवत्सरम् एवास्मा उपदधाति स्वर्गस्य लोकस्य समष्ट्यै ॥ १ ॥
2.1.2
प्रजापतिर् वै रुद्रं यज्ञान् निरभजत्
सो ऽकामयत
मेयम् अस्मा आकूतिः समर्धि यो मा यज्ञान् निरभाक्षीद् इति
स यज्ञम् अभ्यायम्याविध्यत्
तद् आविद्धं निरकृन्तत्
तत् प्राशित्रम् अभवत्
तद् उदयच्छत्
तद् भगाय पर्यहरन्
तत् प्रत्यैक्षत
तस्य चक्षुः परापतत्
तस्माद् आहुर् अन्धो वै भग इति
अपि ह तं नेच्छेद् यम् इच्छति
तत् सवित्रे पर्यहरन्
तत् प्रत्यगृहात् तस्य पाणी प्रचिच्छेद
तस्मै हिरण्मयौ प्रत्यदधुस्
तस्माद् धिरण्यपाणिर् इति स्तुतस्
तत् पूष्णे पर्यहरन्
तत् प्राश्नात्
तस्य दन्ताः परोप्यन्त
तस्माद् आहुर् अदन्तकः पूषा पिष्टभाजन इति
तद् इध्मायाङ्गिरसाय पर्यहरन्
तत् प्राश्नात्
तस्य शिरो व्यपतत्
तं यज्ञ एवाकल्पयत्
स एष इध्मः
समिधो ह पुरातनस्
तद् बर्हय आङ्गिरसाय पर्यहरन्
तत् प्राश्नात्
तस्याङ्गा पर्वाणि व्यस्रंसन्त
तं यज्ञ एवाकल्पयत्
तद् एतद् बर्हिः
प्रस्तरो ह पुरातनस्
तद् बृहस्पतय आङ्गिरसाय पर्यहरन्
सो ऽबिभेद् बृहस्पतिर् इत्थं वाव स्य आर्तिम् आरिष्यतीति
स एतं मन्त्रम् अपश्यत्
<सूर्यस्य त्वा चक्षुषा प्रतीक्षे [ড়्ष् २०.५७.११, Kऔअ.वे.(शौ.) ९१.२, Vऐत्ष् ३.८]> इत्य् अब्रवीत्
न हि सूर्यस्य चक्षुः किं चन हिनस्ति
सो ऽबिभेत् प्रतिगृह्णन्तं मा हिंसिष्यतीति
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृहामीत्य् अब्रवीत्
सवितृप्रसूत एवैनं तद् देवताभिः प्रत्यगृह्णात्
तद् व्यूह्य तृणानि प्राग्दण्डं स्थण्डिले निदधाति पृथिव्यास् त्वा नाभौ सादयामीति
पृथिवी वा अन्नानां शमयित्री तयैवैनच् छमयां चकार
सो ऽबिभेत् प्राश्नन्तं मा हिंसिष्यतीति
अग्नेष् ट्वास्येन प्राश्नामीत्य् अब्रवीत्
न ह्य् अग्नेर् आस्यं किं चन हिनस्ति
सो ऽबिभेत् प्राशितं मा हिंसिष्यतीति
इन्द्रस्य त्वा जठरे सादयामीत्य् अब्रवीत्
न हीन्द्रस्य जठरं किं चन हिनस्ति
वरुणस्योदर इति न हि वरुणस्योदरं किं चन हिनस्तीति ॥ २ ॥
2.1.3
अथो आहुर् ब्राह्मणस्योदर इति
आत्मास्यात्मन्न् आत्मानं मे मा हिंसीः स्वाहेति
अन्नं वै सर्वेषां भूतानाम् आत्मा तेनैवैनच् छमयां चकार
प्राशितम् अनुमन्त्रयते <यो ऽग्निर् नृमणा नाम ब्राह्मणेषु प्रविष्टः । तस्मिन् म एतत् सुहुतम् अस्तु प्राशित्रं तन् मा मा हिंसीत् परमे व्योमन् [ড়्ष् २०.५७.१५]> इति
तत् सर्वेण ब्रह्मणा प्राश्नात्
तत एनं नाहिनत्
तस्माद् यो ब्रह्मिष्ठः स्यात् तं ब्रह्माणं कुर्वीत
बृहस्पतिर् वै सर्वं ब्रह्म
सर्वेण ह वा एतद् ब्रह्मणा यज्ञं दक्षिणत उद्यच्छते
अप वा एतस्मात् प्राणाः क्रामन्ति य आविद्धं प्राश्नाति
अद्भिर् मार्जयित्वा प्राणान्त् संस्पृशते वाङ् म आस्यन्न् इति
अमृतं वै प्राणाः
अमृतम् आपः
प्राणान् एव यथास्थानम् उपाह्वयते
तद् उ हैक आहुर् इन्द्राय पर्यहरन्न् इति
ते देवा अब्रुवन्न् इन्द्रो वै देवानाम् ओजिष्ठो बलिष्ठस्
तस्मा एनत् परिहरतेति
तत् तस्मै पर्यहरन्
तत् स ब्रह्मणा शयमां चकार
तस्माद् आहुर् इन्द्रो ब्रह्मेति
यवमात्रं भवति
यवमात्रं वै विषस्य न हिनस्ति
यद् अधस्ताद् अभिधारयति तस्माद् अधस्तात् प्रक्षरणं प्रजा अरुर् न हिनस्ति
यद् उपरिष्टाद् अभिधारयति तस्माद् उपरिष्टात् प्रक्षरणं प्रजा अरुर् न हिनस्ति
यद् उभयतो ऽभिघारयत्य् उभयतो ऽभिघारि प्रजा अरुर् घातुकं स्यात्
यत् समयाभिहरेद् अनभिविद्धं यज्ञस्याभिविध्येत् ॥ ३ ॥
2.1.4
अग्रेण परिहरति
तीर्थेनैव परिहरति
वि वा एतद् यज्ञश् छिद्यते यत् प्राशित्रं परिहरति
यद् आह ब्रह्मन् प्रस्थास्यामीति बृहस्पतिर् वै सर्वं ब्रह्म
सर्वेण ह वा एतद् ब्रह्मणा यज्ञं दक्षिणतः संदधाति
अथो अत्र वा एतर्हि यज्ञः श्रितो यत्र ब्रह्मा तत्रैव यज्ञः श्रितस्
तत एवैनम् आलभते
यद् धस्तेन प्रमीवेद् वेपनः स्यात्
यच् छीर्ष्णा शीर्षक्तिमान्त् स्यात्
यत् तूष्णीम् आसीतासंप्रत्तो यज्ञः स्यात्
प्रतिष्ठेत्य् एव ब्रूयात्
वाचि वै यज्ञः श्रितः
यत्र ब्रह्मा यत्रैव यज्ञः श्रितस् तत एवैनं संप्रयच्छति
अग्नीध आदधाति
अग्निमुखान् एवर्तून् प्रीणाति
अथोत्तरासाम् आहुतीनां प्रतिष्ठित्या
अथो समिद्वत्य् अव जुहोति
परिधीन्त् संमार्ष्टि
पुनात्य् एवैनान्
सकृत्सकृत् संमार्ष्टि
पराङ् एव ह्य् एतर्हि यज्ञः
चतुः संपद्यते
अथो चतुष्पादः पशवः
पशूनाम् आप्त्यै
देव सवितर् एतत् ते प्राहेत्य् आह प्रसूत्यै
बृहस्पतिर् ब्रह्मेत्य् आह
स हि ब्रह्मिष्ठः
स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाहि स मां कर्मण्यं पाहीत्य् आह
यज्ञाय च यजमानाय च पशूनाम् आप्त्यै ॥ ४ ॥
2.1.5
न वै पौर्णमास्यां नामावास्यायां दक्षिणा दीयन्ते
य एष ओदनः पच्यते दक्षिणैषा दीयते यज्ञस्यर्द्ध्यै
इष्टी वा एतेन यद् यजते ऽथो वा एतेन पूर्ती य एष ओदनः पच्यते
एष ह वा इष्टापूर्ती य एनं पचति ॥ ५ ॥
2.1.6
द्वया वै देवा यजमानस्य गृहम् आगच्छन्ति सोमपा अन्ये ऽसोमपा अन्ये
हुतादो ऽन्ये ऽहुतादो ऽन्ये
एते वै देवा अहुतादो यद् ब्राह्मणाः
एतद्देवत्य एष यः पुरानीजानः
एते ह वा एतस्य प्रजायाः पशूनाम् ईशते
ते ऽस्याप्रीता इषम् ऊर्जम् आदायापक्रामन्ति
यद् अन्वाहार्यम् अन्वाहरति तान् एव तेन प्रीणाति
दक्षिणतःसद्भ्यः परिहर्तवा आह
दक्षिणावतैव यज्ञेन यजते
आहुतिभिर् एव देवान् हुतादः प्रीणाति दक्षिणाभिर् मनुष्यदेवान्
ते ऽस्मै प्रीता इषम् ऊर्जं नियच्छन्ति ॥ ६ ॥
2.1.7
देवाश् च ह वा असुराश् चास्पर्धन्त
ते देवाः प्रजापतिम् एवाभ्ययजन्त
अन्यो ऽन्यस्यासन्न् असुरा अजुहवुस्
ते देवा एतम् ओदनम् अपश्यन्
तं प्रजापतये भागम् अनुनिरवपन्
तं भागं पश्यन् प्रजापतिर् देवान् उपावर्तत
ततो देवा अभवन् परासुराः
स य एवंविद्वान् एतम् ओदनं पचति भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति
प्रजापतिर् वै देवेभ्यो भागधेयानि व्यकल्पयत्
सो ऽमन्यतात्मानम् अन्तरगाम् इति
स एतम् ओदनम् अभक्तम् अपश्यत्
तम् आत्मने भागं निरवपत्
प्रजापतेर् वा एष भागः
अपरिमितः स्यात्
अपरिमितो हि प्रजापतिः
प्रजापतेर् भागो ऽस्य् ऊर्जस्वान् पयस्वान्
अक्षितो ऽसि
अक्षित्यै त्वा
मा मे क्षेष्ठा अमुत्रामुष्मिंल् लोक इह च
प्राणापनौ मे पाहि
समानव्यानौ मे पाहि
उदानरूपे मे पाहि
ऊर्ग् असि
ऊर्जं मे धेहि
कुर्वतो मे मा क्षेष्ठाः
ददतो मे मोपदसः
प्रजापतिम् अहं त्वया समक्षम् ऋध्यासम् इति
प्रजापतिम् एव समक्षम् ऋध्नोति य एवं वेद य एवं वेद ॥ ७ ॥
2.1.8
ये वा इह यज्ञैर् आर्ध्नुवंस् तेषाम् एतानि ज्योतींषि यान्य् अमूनि नक्षत्राणि
तन् नक्षत्राणां नक्षत्रत्वं यन् न क्षीयन्ति
दर्शपूर्णमासौ वै यज्ञस्यावसानदर्शौ
ये वा अनिष्ट्वा दर्शपूर्णमासाभ्यां सोमेन यजन्ते तेषाम् एतानि ज्योतींषि यान्य् अमूनि नक्षत्राणि पतन्तीव
तद् यथा ह वा इदम् अस्पष्टावसाने नेहावसास्यसि नेहावसास्यसीति नोनुद्यन्त एवं हैवैते ऽमुष्मांल् लोकान् नोनुद्यन्ते
त एते प्रच्यवन्ते ॥ ८ ॥
2.1.9
यस्य हविर् निरुप्तं पुरस्ताच् चन्द्रमा अभ्युदियात् तांस् त्रेधा ताण्डुलान् विभजेत्
ये मध्यमास् तान् अग्नये दात्रे ऽष्टाकपालं निर्वपेत्
ये स्थविष्ठास् तान् इन्द्राय प्रादात्रे दधनि चरुम्
ये क्षोदिष्ठास् तान् विष्णवे शिपिविष्टाय शृते चरुम् [एद्. क्षोदिस्थास्, चोर्र्. ড়त्यल्]
पशवो वा एते ऽतिरिच्यन्ते
तान् एवाप्नोति
तान् अवरुन्द्धे
अग्निर् वै मध्यमस्य दातेन्द्रो वै ज्येष्ठस्य प्रदाता
यद् एवेदं क्षुद्रं पशूनां तद् विष्णोः शिपिविष्टम्
तद् एवाप्नोति
पशून् एवावरुन्द्धे ॥ ९ ॥
2.1.10
या पूर्वा पौर्णमासी सानुमतिः
योत्तरा राका
या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूः
चन्द्रमा एव धाता च विधाता च
यत् पूर्णो ऽन्यां वसत्य् अपूर्णो ऽन्यां तन् मिथुनम्
यत् पश्यत्य् अन्यां नान्यां तन् मिथुनम्
यद् अमावास्यायाश् चन्द्रमा अधि प्रजायते तन् मिथुनम्
तस्माद् एवास्मै मिथुनात् पशून् प्रजनयति ॥ १० ॥
2.1.11
न द्वे यजेत
यत् पूर्वया संप्रति यतेतोत्तरया छम्बट्कुर्यात्
यद् उत्तरया संप्रति यजेत पूर्वया छम्बट्कुर्यात्
नेष्टिर् भवति न यज्ञस्
तद् अनु ह्रीतमुख्य् अपगल्भो जायते
एकाम् एव यजेत
प्रगल्भो हैव जायते
अनादृत्य तद् द्वे यजेत
यज्ञमुखम् एव पूर्वयालभते यजत उत्तरया
देवता एवं पूर्वयाप्नोतीन्द्रियम् उत्तर्या
देवलोकम् एव पूर्वयावरुन्द्धे मनुष्यलोकम् उत्तरया भूयसो यज्ञक्रतून् उपैत्य
एषा ह वै सुमना नामेष्टिः
यम् अद्येजानं पश्चाच् चन्द्रमा अभ्युदियाद् अस्मा अस्मिंल् लोक आर्धुकं भवति ॥ ११ ॥
2.1.12
अग्नावैष्णवम् एकादशकपालं निर्वपेद् दर्शपूर्णमासाव् आरिप्समाणः
अग्निर् वै सर्वा देवता विष्णुर् यज्ञः
देवताश् चैव यज्ञं चारभत ऋद्ध्यै
ऋध्नोत्य् एव
उभौ सहारम्भाव् इत्य् आहुः
उदिन् नु शृङ्गे सितो मुच्यत इति
दर्शो वा एतयोः पूर्वः पौर्णमास उत्तरः
अथ यत् परस्तात् पौर्णमास आरभ्यते तद् यथा पूर्वं क्रियते
तद् यत् पौर्णमासम् आरभमाणः सरस्वत्यै चरुं निर्वपेत् सरस्वते द्वादशकपालम् अमावास्या वै सरस्वती पौर्णमासः सरस्वान् इति
उभाव् एवैनौ सहारभत ऋद्ध्यै
ऋध्नोत्य् एव ॥ १२ ॥
2.1.13
अग्नये पथिकृते ऽष्टाकपालं निर्वपेद् यस्य प्रज्ञातेष्टिर् अतिपद्यते
बहिष्पथं वा एष एति यस्य प्रज्ञातेष्टिर् अतिपद्यते
अग्निर् वै देवानां पथिकृत्
तम् एव भागधेयेनोपासरत्
स एनं पन्थानम् अपिनयति
अनड्वान् दक्षिणा
स हि पन्थानम् अभिवहति ॥ १३ ॥
2.1.14
अग्नये व्रतपतये ऽष्टाकपालं निर्वपेद् य आहिताग्निः सन् प्रवसेत्
बहु वा एष व्रतम् अतिपातयति य आहिताग्निः सन् प्रवसति व्रत्ये ऽहनि स्त्रियं वोपैति मांसं वाश्नाति
अग्निर् वै देवानां व्रतपतिः
अग्निम् एतस्य व्रतम् अगात्
तस्माद् एतस्य व्रतम् आलम्भयते ॥ १४ ॥
2.1.15
अग्नये व्रतभृते ऽष्टाकपालं निर्वपेद् य आहिताग्निर् आर्तिजम् अश्रु कुर्यात्
आनीतो वा एष देवानां य आहिताग्निस्
तस्माद् एतेनाश्रु न कर्तव्यम्
न हि देवा अश्रु कुर्वन्ति
अग्निर् वै देवानां व्रतभृत्
अग्निम् एतस्य व्रतम् अगात्
तस्माद् एतस्य व्रतम् आलम्भयते ॥ १५ ॥
2.1.16
ऐन्द्राग्नम् उस्रम् अनुसृष्टम् आलभेत यस्य पिता पितामहः सोमं न पिबेत्
इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य पिता पितामहः सोमं न पिबति
यद् ऐन्द्र इन्द्रियेणैवैनं तद् वीर्येण समर्धयति
देवताभिर् वा एष वीर्येण व्यृध्यते यस्य पिता पिताम्हः सोमं न पिबति
यद् आग्नेयो ऽग्निर् वै सर्वा देवताः
सर्वाभिर् एवैनं तद् देवताभिः समर्धयति
अनुसृष्टो भवति
अनुसृष्ट इव ह्य् एतस्य सोमपीथो यस्य पिता पितामहः सोमं न पिबति
तस्माद् एष एव तस्या देवतायाः पशूनां समृद्धः ॥ १६ ॥
2.1.17
देवा वा ओषधीषु पक्वास्व् आजिम् अयुः
स इन्द्रो ऽवेद् अग्निर् वावेमाः प्रथम उज्जेष्यतीति
सो ऽब्रवीद् यतरो नौ पूर्व उज्जयात् तन् नौ सहेति
ता अग्निर् उदजयत्
तद् इन्द्रो ऽनूदजयत्
स एष ऐन्द्राग्नः सन्न् आग्नेन्द्रः
एका वै तर्हि यवस्य श्नुष्टिर् आसीद् एका व्रीहेर् एका माषस्यैका तिलस्य
तद् विश्वे देवा अब्रुवन् वयं वा एतत् प्रथयिष्यामो भागो नो ऽस्त्व् इति
तद् भूम एव वैश्वदेवः
अथो प्रथयत्य् एतेनैव
पयसि स्याद् वैश्वदेवत्वाय
वैश्वदेवं हि पयः
अथेमाव् अब्रूतां न वा ऋत आवाभ्याम् एवैतद् यूयं प्रथयत मयि प्रतिष्ठितम् असौ वृष्ट्या पचति नैतदितो ऽभ्युज्जेष्यतीति
भागो नाव् अस्त्व् इति
ताभ्यां वा एष भागः क्रियत उज्जित्या एव
अथो प्रतिष्ठित्या एव यो द्यावापृथिवीयः
सौमीर् वा ओषधीः
सोम ओषधीनाम् अधिराजः
याश् च ग्राम्या याश्चारण्यास् तासाम् एष उद्धारो यच् छ्यामाकः
यच् छ्यामाकः सौम्यस् तम् एव भागिनं कृणुते
यद् अकृत्वाग्रयणं नवस्याश्नीयाद् देवानां भागं प्रतिकॢप्तम् अद्यात्
संवत्सराद् वा एतद् अधिप्रजायते यद् आग्रयणम्
संवत्सरं वै ब्रह्मा
तस्माद् ब्रह्मा पुरस्ताद्धोमसंस्थितहोमेष्व् आवपेत
एकहायनी दक्षिणा
स हि संवत्सरस्य प्रतिमा
रेत एव ह्य् एषो ऽप्रजातः
प्रजात्यै ॥ १७ ॥
2.1.18
अथ हैतद् अप्रतिरथम् <इन्द्रस्य बाहू स्थविरौ वृषाणौ> इति
एतेन ह वा इन्द्रो ऽसुरान् प्रत्यजयत् [एद्. ऽसुरान]
अप्रति ह भवत्य् एतेन यजमानो भ्रातृव्यं जयति
संग्रामे जुहुयाद् अप्रति ह भवति
एतेन ह वै भरद्वाजः प्रतर्दनं समनह्यत्
स राष्ट्र्य् अभवत्
यं कामयेत राष्ट्री स्याद् इति तम् एतेन संनह्येत्
राष्ट्री ह भवति
एतेन ह वा इन्द्रो विराजम् अभ्यजयत्
दशैवान्वाह
दशाक्षरा विराड् वैराजं वा एतेन यजमानो भ्रातृव्यं वृङ्क्ते
तद् उ हैक एकादशान्वाहुः
एकादशाक्षरा वै त्रिष्टुप् त्रैष्टुभो वज्रः
वज्रेणैवैतद् रक्षांस्य् अपसेधति
दक्षिणतो वै देवानां यज्ञं रक्षांस्य् अजिघांसन्
तान्य् अप्रतिरथेनापाघ्नत
तस्माद् ब्रह्माप्रतिरथं जपन्न् एति
यद् ब्रह्माप्रतिरथं जपन्न् एति यज्ञस्याभिजित्यै रक्षसाम् अपहत्यै रक्षसाम् अपहत्यै ॥ १८ ॥
2.1.19
अथातश् चातुर्मास्यानां प्रयोगः
फाल्गुन्यां पौर्णमास्यां चातुर्मास्यानि प्रयुञ्जीत
मुखं वा एतत् संवत्सरस्य यत् फाल्गुनी पौर्णमासी मुखम् उत्तरे फाल्गुन्यौ पुच्छं पूर्वे [एद्. पूर्व]
तद् यथा प्रवृत्तस्यान्तौ समेतौ स्याताम् एवम् एवैतत् संवत्सरस्यान्तौ समेतौ भवतस्
तद् यत् फाल्गुन्यां पौर्णमास्यां चातुर्मास्यैर् यजते मुखत एवैतत् संवत्सरं प्रयुङ्क्ते
अथो भैषज्ययज्ञा वा एते यच् चातुर्मास्यानि
तस्माद् ऋतुसंधिषु प्रयुज्यन्ते
ऋतुसंधिषु वै व्याधिर् जायते
तान्य् एतान्य् अष्टौ हवींस्षि भवन्ति
अष्टौ वै चतसृणां पौर्णमासीनां हवींषि भवन्ति
चतसृणां वै पौर्णमासीनां वैश्वदेवं समासः
अथ यद् अग्निं मन्थन्ति प्रजापतिर् वै वैश्वदेवम्
प्रजात्या एव
अथैतं दैवं गर्भं प्रजनयति
अथ यत् सप्तदश सामिधेन्यः सप्तदशो वै प्रजापतिः
प्रजापतेर् आप्त्यै
अथ यत् सद्वन्ताव् आज्यभागाव् असिसंतीति वै सद्वन्तौ भवतः
अथ यद् विराजौ संयाज्ये अन्नं वै श्रीर् विराड् अन्नाद्यस्य श्रियो ऽवरुद्ध्यै [एद्. ऽवरुद्ध्या ऽथ]
अथ यन् नव प्रयाजा नवानुयाजा अष्टौ हवींषि वाजिनं नवमं तन् नक्षत्रीयां विराजम् आप्नोति
अथो आहुर् दशनीं विराजम् इति प्रयाजानुयाजा हवींष्य् आघाराव् आज्यभागाव् इति ॥ १९ ॥
2.1.20
अथ यद् अग्नीषोमौ प्रथमं देवतानां यजत्य् अग्नीषोमौ वै देवानां मुखम्
मुखत एव तद् देवान् प्रीणाति
अथ यत् सवितारं यजत्य् असौ वै सविता यो ऽसौ तपति
एतम् एव तेन प्रीणाति
अथ यत् सरस्वतीं यजति वाग् वै सरस्वती
वाचम् एतेन प्रीणाति
अथ यन् पूषणं यजत्य् असौ वै पूषा यो ऽसौ तपति
एतम् एव तेन प्रीणाति
अथ यन् मरुतः स्वतवसो यजति घोरा वै मरुतः स्वतवसस्
तान् एव तेन प्रीणाति
अथ यद् विश्वान् देवान् यजत्य् एते वै विश्वे देवा यत् सर्वे देवास्
तान् एव तेन प्रीणाति
अथ यद् द्यावापृथिव्यौ यजति प्रतिष्ठे वै द्यावापृथिव्यौ
प्रतिष्ठित्या एव
अथ यद् वाजिनो यजति पशवो वै वाजिनः
पशून् एव तेन प्रीणाति
अथो ऋतवो वै वाजिनः
ऋतून् एव तेन प्रीणाति
अथो छन्दांसि वै वाजिनः
छन्दांस्य् एव तेन प्रीणाति
अथो देवाश्वा वै वाजिनः
अत्र देवाः साश्वा अभीष्टाः प्रीता भवन्ति
अथ यत् परस्तात् पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वैश्वदेवेनेष्टं भवति ॥ २० ॥
2.1.21
वैश्वदेवेन वै प्रजापतिः प्रजा असृजत
ताः सृष्टा अप्रसूता वरुणस्य यवाञ् जक्षुस्
ता वरुणो वरुणपाशैः प्रत्यबन्धात्
ताः प्रजाः प्रजापतिं पितरम् एत्योपावदन्न् उप तं यज्ञक्रतुं जानीहि येनेष्ट्वा वरुणम् अप्रीणात्
स प्रीतो वरुणः
वरुणपाशेभ्यः सर्वस्माच् च पाप्मनः संप्रमुच्यन्त इति
तत एतं प्रजापतिर् यज्ञक्रतुम् अपश्यद् वरुणप्रघासान्
तम् आहरत्
तेनायजत
तेनेष्ट्वा वरुणम् अप्रीणात्
स प्रीतो वरुणो वरुणपाशेभ्यः सर्वस्माच् च पाप्मनः प्रजाः प्रामुञ्चत्
प्र ह वा एतस्य प्रजा वरुणपाशेभ्यः सर्वस्माच् च पाप्मनो मुच्यन्ते
य एवं वेद
अथ यद् अग्निं प्रणयन्ति यम् एवामुं वैश्वदेवे मन्थन्ति तम् एव तत् प्रणयन्ति
यन् मथ्यते तस्योक्तं ब्राह्मणम्
अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्यभागौ विराजौ संयाज्ये तेषाम् उक्तं ब्राह्मणम्
अथ यन् नव प्रयाजा नवानुयाजा नवैतानि हवींषि
समानानि त्व् एव पञ्च संचराणि हवींषि भवन्ति पौष्णान्तानि
तेषाम् उक्तं ब्राह्मणम् ॥ २१ ॥
2.1.22
अथ यद् ऐन्द्राग्नो द्वादशकपालो भवति बलं वै तेज इन्द्राग्नी
बलम् एव तत् तेजसि प्रतिष्ठापयति
अथ यद् वारुण्य् आमिक्षेन्द्रो वै वरुणः [एद्. आमीक्षेन्द्रो, चोर्र्. ড়त्यल्]
स उ वै पयोभाजनस्
तस्माद् वारुण्य् आमिक्षा [एद्. अमिक्षा]
अथ यन् मारुती पयस्याप्सु वै मरुतः श्रिताः [एद्. श्रितः. चोर्र्. ড়त्यल्]
आपो हि पयः
अथेन्द्रस्य वै मरुतः श्रित ऐन्द्रं पयस्
तस्मान् मारुती पयस्या
अथ यत् काय एककपालः प्रजापतिर् वै कः
प्रजापतेर् आप्त्या
अथो सुखस्य वा एतन् नामधेयं कम् इति [एद्. नामघेयम्]
सुखम् एव तद् अध्य् आत्मन् धत्ते
अथ यन् मिथुनौ गावौ ददाति तत् प्रजात्यै रूपम्
उक्थ्या वाजिनः
अथ यद् अप्सु वरुणं यजति स्व एवैनं तद् आयतने प्रीणाति
अथ यत् परस्तात् पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वरुणप्रघासैर् इष्टं भवति ॥ २२ ॥
2.1.23
ऐन्द्रो वा एष यज्ञक्रतुर् यत् साकमेधास्
तद् यथा महाराजः पुरस्तात् सेनानीकानि व्युह्याभयं पन्थानम् अन्वियाद् एवम् एवैतत् पुरस्ताद् देवता यजति [एद्. सैनानीकानि, चोर्र्. ড়त्यल्]
तद् यथैवादः सोमस्य महाव्रतम् एवम् एवैतद् इष्टिमहाव्रतम्
अथ यद् अग्निम् अनीकवन्तं प्रथमं देवतानां यजत्य् अग्निर् वै देवानां मुखम्
मुखत एव तद् देवान् प्रीणाति
अथ यन् मध्यंदिने मरुतः सांतपनान् यजतीन्द्रो वै मरुतः संतपनाः
ऐन्द्रं माध्यंदिनम्
तस्माद् एतान् इन्द्रेणोपसंहितान् यजति
अथ यत् सायं गृहमेधीयेन चरन्ति पुष्टिकर्म वै गृहमेधीयः
सायं पोषः पशूनाम्
तस्मात् सायं गृहमेधीयेन चरन्ति
अतह् यच् छ्वो भूते गृहमेधीयस्य निष्काशमिश्रेण पूर्णदर्वेण चरन्ति पूर्वेद्युः कर्मणैवैतत् प्रातः कर्मोपसंतन्वन्ति
अथ यत् प्रातर् मरुतः क्रीडिनो यजतीन्द्रो वै मरुतः क्रीडिनस्
तस्माद् एनान् इन्द्रेणोपसंहितान् यजति
अथ यद् अग्निं प्रणयन्ति यम् एवामुं वैश्वदेवे मन्थन्ति तम् एव तत् प्रणयन्ति
यन् मथ्यते तस्योक्तं ब्राह्मणम्
अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्यभागौ विराजौ संयाज्ये तेषाम् उक्तं ब्राह्मणम्
अथ यन् नव प्रयाजा नवानुयाजा अष्टौ हवींषि समानानि त्व् एव षट्संचराणि हवींषि भवन्त्य् ऐन्द्राग्नान्तानि
तेषाम् उक्तं ब्राह्मणम्
अथ यन् महेन्द्रम् अन्ततो यजत्य् अन्तं वै श्रेष्ठी भजते
तस्माद् एनम् अन्ततो यजति
अथ यद् वैश्वकर्मण एककपालो ऽसौ वै विश्वकर्मा यो ऽसौ तपति
एतम् एव तेन प्रीणाति
अथ यद् ऋषभं ददात्य् ऐन्द्रो ह यज्ञक्रतुः ॥ २३ ॥
2.1.24
अथ यद् अपराह्णे पितृयज्ञेन चरन्त्य् अपराह्णभाजो वै पितरस्
तस्माद् अपराह्णे पितृयज्ञेन चरन्ति
तद् आहुर् यद् अपरपक्षभाजो वै पितरः कस्माद् एनान् पूर्वपक्षे यजन्तीति
देवा वा एते पितरस्
तस्माद् एनान् पूर्वपक्षे यजन्तीति
अथ यद् एकां सामिधेनीं त्रिर् अन्वाह सकृद् ह वै पितरस्
तस्माद् एकां सामिधेनीं त्रिर् अन्वाह
अथ यद् यजमानस्यार्षेयं नाह नेद् यजमानं प्रवृणजानीति
अथ यत् सोमं पितृमन्तं पितॄन् वा सोमवतः पितॄन् बर्हिषदः पितॄन् अग्निष्वात्तान् इत्य् आवाहयति
न हैके स्वं महिमानम् आवाहयन्ति यजमानस्यैष महिमेति वदन्त आवाहयेद् इति त्व् एव स्थितम्
अग्नेर् ह्य् एष महिमा भवति
ओं स्वधेत्य् आश्रावयति
अस्तु स्वधेति प्रत्याश्रावयति
स्वधाकारो हि पितॄणाम्
अथ यत् प्रयाजानुयाजेभ्यो बर्हिष्मन्ताव् उद्धरति प्रजा वै बर्हिर् नेत् प्रजां पितृषु दधानीति
ते वै षट् संपद्यन्ते
षड् वा ऋतवः
ऋतवः पितरः
पितॄणाम् आप्त्यै ॥ २४ ॥
2.1.25
अथ यज् जीवनवन्ताव् आज्यभागौ भवतो यजमानम् एव तज् जीवयति
अथ यद् एकैकस्य हविषस् तिस्रस्तिस्रो याज्या भवन्ति ह्वयत्य् एवैनान् प्रथमया
द्वितीयया गमयति
प्रैव तृतीयया यच्छति
अथो देवयज्ञम् एवैतत् पितृयज्ञेन व्यावर्तयति
अथो दक्षिणासंस्थो वै पितृयज्ञस्
तम् एवैतद् उदक्संस्थं कुर्वन्ति
अथ यद् अग्निं कव्यवाहनम् अन्ततो यजत्य् एतत् स्विष्टकृतो पितरस्
तस्माद् अग्निं कव्यवाहनम् अन्ततो यजति
अथ यद् इडाम् उपहूयावघ्राय न प्राश्नन्ति पशवो वा इडा
नेत् पशून् प्रवृणजानीति
अथ यत् सूक्तवाके यजमानस्याशिषो ऽन्वाह नेद् यजमानं प्रवृणजानीति
अथ यत् पत्नीं न संयाजयन्ति नेत् पत्नीं प्रवृणजानीति
अथ यत् पवित्रवति मार्जयन्ते शान्तिर् वै भेषजम् आपः
शान्तिर् एवैषा भेषजम् अन्ततो यज्ञे क्रियते
अथ यद् अध्वर्युः पितृभ्यो निपृणाति जीवान् एव तत् पितॄन् अनु मनुष्याः पितरो ऽनुप्रवहन्ति
अथो देवयज्ञम् एवैनं पितृयज्ञेन व्यावर्तयन्ति
अथो दक्षिणासंस्थो वै पितृयज्ञस्
तम् एवैतद् उदक्संस्थं कुर्वन्ति
अथ यत् प्राञ्चो ऽभ्युत्क्रम्यादित्यम् उपतिष्ठन्ते देवलोको वा आदित्यः
पितृलोकः पितरः
देवलोकम् एवैतत् पितृलोकाद् उपसंक्रामन्तीति
अथ यद् दक्षिणाञ्चो ऽभ्युत्क्रम्याग्नीन् उपतिष्ठन्ते प्रीत्यैव तद् देवेष्व् अन्ततो ऽर्धं चरन्ति
अथ यद् उदञ्चो ऽभ्युत्क्रम्य त्रैयंबकैर् यजन्ते रुद्रम् एव तत् स्वस्यां दिशि प्रीणन्ति [एद्. स्वायां बुत् सेए चोर्रिगेन्द प्. ३०२]
अथो देवयज्ञम् एवैतत् पितृयज्ञेन व्यावर्तयन्ति
अथो दक्षिणासंस्थो वै पितृयज्ञस्
तम् एवैतद् उदक्संस्थं कुर्वन्ति
अथ यद् अन्तत आदित्येष्ट्या यजतीयं वा अदितिः
अस्याम् एवैनम् अन्ततः प्रतिष्ठापयति
अथ यत् परस्तात् पौर्णमासेन यजते तथा हास्य पूर्वपक्षे साकमेधैर् इष्टं भवति ॥ २५ ॥
2.1.26
त्रयोदशं वा एतं मासम् आप्नोति यच् छुनासीर्येण यजते
एतावान् वै संवत्सरो यावान् एष त्रयोदशो मासः
अथ यद् अग्निं प्रणयन्ति यम् एवामुं वैश्वदेवे मन्थन्ति तम् एव तत् प्रणयन्ति
यन् मथ्यते तस्योक्तं ब्राह्मणम्
यद्य् उ न मथ्यते पौर्णमासम् एव तन्त्रं भवति
प्रतिष्ठा वै पौर्णमासम्
प्रतिष्ठित्या एवाथ यद् वायुं यजति प्राणो वै वायुः
प्राणम् एव तेन प्रीणाति
अथ यच् छुनासीरं यजति संवत्सरो वै शुनासीरः
संवत्सरम् एव तेन प्रीणाति
अथ यत् सूर्यं यजत्य् असौ वै सूर्यो यो ऽसौ तपति
एतम् एव तेन प्रीणाति
अथ यच् छ्वेतां दक्षिणां ददात्य् एतस्यैव तद् रूपं क्रियते
अथ यत् प्रायश्चित्तप्रतिनिधिं कुर्वन्ति स्वस्त्ययनम् एव तत् कुर्वन्ति
यज्ञस्यैव शान्तिर् यजमानस्य भैषज्याय
तैर् वा एतैश् चातुर्मास्यैर् देवाः सर्वान् कामान् आप्नुवंत् सर्वा इष्टीः सर्वम् अमृतत्वम्
स वा एष प्रजापतिः संवत्सरश् चतुर्विंशो यच् चातुर्मास्यानि
तस्य मुखम् एव वैश्वदेवम्
बाहू वरुणप्रघासाः
प्राणो ऽपानो व्यान इत्य् एतास् तिस्र इष्टयः [एद्. प्रणो]
आत्मा महाहविः
प्रतिष्ठा शुनासीरम्
स वा एष प्रजापतिर् एव संवत्सरो यच् चातुर्मास्यानि
सर्वं वै प्रजापतिः
सर्वं चातुर्मास्यानि
तत् सर्वेणैव सर्वम् आप्नोति य एवं वेद यश् चैवं विद्वांश् चातुर्मास्यैर् यजते चातुर्मास्यैर् यजते चातुर्मास्यैर्यजते

ल्इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे प्रथमः प्रपाठकः ॥
2.2.1
ओं मांसीयन्ति वा आहिताग्नेर् अग्नयस्
त एनम् एवाग्रे ऽभिध्यायन्ति यजमानम्
य एतम् ऐन्द्राग्नं पशुं षष्ठे षष्ठे मास आलभते तेनैवेन्द्राग्निभ्यां ग्रसितम् आत्मानं निरवदयते
आयुष्काम आलभेत
प्राणापानौ वा इन्द्राग्नी
प्राणापानाव् एवात्मनि धत्ते
आयुष्मान् भवति
प्रजाकाम आलभेत
प्राणापानौ वा इन्द्राग्नी
प्राणापानौ प्रजा अनुप्रजायन्ते
प्रजावान् भवति
पशुकाम आलभेत
प्राणापानौ वा इन्द्राग्नी
प्राणापानौ पशवो ऽनुप्रजायन्ते
पशुमान् भवति
यामं शुकं हारितम् आलभेत शुण्ठं वा यः कामयेतानामयः पितृलोके स्याम् इति [एद्. शुकहरितं, चोर्र्. ড়त्यल्]
एतेन ह वै यमो ऽमुष्मिंल् लोक आर्ध्नोत्
पितृलोक एवार्ध्नोति
त्वाष्ट्रं वडवम् आलभेत प्रजाकामः
प्रजापतिर् वै प्रजाः सिसृक्षमाणः स द्वितीयं मिथुनं नाविन्दत् [एद्. सिसृक्समाणः, चोर्रेच्तेद् प्. ३०२॑ ড়त्यल्॒ रेअद् नाविन्दत?]
स त्वाष्ट्रं वडवम् अपश्यत्
त्वष्टा हि रूपाणां प्रजनयिता
तेन प्रजा असृजत
तेन मिथुनम् अविन्दत्
प्रजावान् मिथुनवान् भवति य एवं वेद यश् चैवंविद्वान् एतम् आलभते
योनीन् वा एष काम्यान् पशून् आलभते यो ऽनिष्ट्वैन्द्राग्नेन काम्यं पशुम् आलभत इष्ट्वालम्भः समृद्ध्यै ॥ १ ॥
2.2.2
पञ्चधा वै देवा व्युदक्रामन्न् अग्निर् वसुभिः सोमो रुद्रैर् इन्द्रो मरुद्भिर् वरुण आदित्यैर् बृहस्पतिर् विश्वैर् देवैस्
ते देवा अब्रुवन्न् असुरेभ्यो वा इदं भ्रातृव्येभ्यो रध्यामो यन् मिथो विप्रियाः स्मः
या न इमाः प्रियास् तन्वस् ताः समवद्यामहा इति
ताः समवाद्यन्त
ताभ्यः स निरृच्छाद्यो नः प्रथमो ऽन्यो ऽन्यस्मै द्रुह्याद् इति
यत् तन्वः समवाद्यन्त तत् तानूनप्त्रस्य तानूनप्त्रत्वम्
ततो देवा अभवन् परासुरास्
तस्माद् यः सतानूनप्त्रिणां प्रथमो द्रुह्यति स आर्तिम् आर्छति
यत् तानूनप्त्रं समवद्यति भ्रातृव्याभिभूत्यै
भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति ॥ २ ॥
2.2.3
पञ्च कृत्वो ऽवद्यति
पाङ्क्तो यज्ञः
पञ्चधा हि ते ताः समवाद्यन्त
आपतये त्वा गृह्णामीत्य् आह
प्राणो वा आपतिः
प्राणम् एव तेन प्रीणाति
परिपतये त्वेत्य् आह
मनो वै परिपतिः
मन एव तेन प्रीणाति
तनूनप्त्र इत्य् आह
तन्वो हि ते ताः समवाद्यन्त
शाक्वरायेत्य् आह
शक्त्यै हि ते ताः समवाद्यन्त
शक्मन ओजिष्ठायेत्य् आह
ओजिष्ठं हि ते तद् आत्मनः समवाद्यन्त
अनाधृष्टम् इत्य् आह
अनाधृष्टं ह्य् एतत्
अनाधृष्यम् इत्य् आह
अनाधृष्यं ह्य् एतत्
देवानाम् ओज इत्य् आह
देवानां ह्य् एतद् ओजः
अभिशस्तिपा इत्य् आह
अभिशस्तिपा ह्य् एतत्
अनभिशस्तेन्यम् इत्य् आह
अनभिशस्तेन्यं ह्य् एतत् [एद्. अनभिशस्तेनं, चोर्र्. ড়त्यल्]
अनु मे दीक्षां दीक्षापतिर् मन्यताम् अनु तपस् तपस्पतिर् अञ्जसा सत्यम् उप गेषं स्विते मा धा इत्य् आह यथायजुर् एवैतत् ॥ ३ ॥
2.2.4
घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन्
स्रुचौ बाहू
तस्मात् स्रुचौ सौमीम् आहुतिं नाशाते
अवधीयेत सोमस्
तस्मात् स्रुचौ चाज्यं चान्तिकम् आहार्षीत्
अन्तिकम् इव खलु वा अस्यैतत् प्रचरन्ति यत् तानूनप्त्रेण प्रचरन्ति
अंशुर् अंशुष् टे देव सोमाप्यायताम् इन्द्रायैकधनविद इत्य् आह
यद् एवास्यापवायते यन् मीयते तद् एवास्यैतेनाप्याययन्ति
आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्वेत्य् आह
उभाव् एवेन्द्रं च सोमं चाप्याययन्ति
आप्याययास्मान्त् सखीन्त् सन्या मेधया प्रजया धनेनेत्य् आह
ऋत्विजो वा एतस्य सखायस्
तान् एवास्यैतेनाप्याययन्ति
स्वस्ति ते देव सोम सुत्याम् उदृचम् अशीयेत्य् आह
आशिषम् एवैताम् आशास्ते
प्र वा एतस्माल् लोकाच् च्यवन्ते ये सोमम् आप्याययन्ति
अन्तरिक्षदेवत्यो हि सोम आप्यायितः
एष्टा राय एष्टा वामानि प्रेषे भगाय
ऋतम् ऋतवादिभ्यो नमो दिवे नमः पृथिव्या इति
द्यावापृथिवीभ्याम् एव नमस्कृत्यास्मिंल् लोके प्रतितिष्ठति प्रतितिष्ठति ॥ ४ ॥
2.2.5
मख इत्य् एतद् यज्ञनामधेयं छिद्रप्रतिषेधसामर्थ्यात्
छिद्रं खम् इत्य् उक्तम्
तस्य मेति प्रतिषेधः
मा छिद्रं करिष्यतीति
छिद्रो हि यज्ञो भिन्न इवोदधिर् विस्रवति
तद् वै खलु छिद्रं भवत्य् ऋत्विग्यजमानविमानाद् वा
अपि वैषां व्यपेक्षया मन्त्रकल्पब्राह्मणानाम् अप्रयोगाद् यथोक्तानां वा दक्षिणानाम् अप्रदानाद् धीनाद् वातिरिक्ताद् वोत्पाताद्भुतेषु प्रायश्चित्तव्यतिक्रमाद् इति
एतद् वै सर्वं ब्रह्मण्य् अर्पितम्
ब्रह्मैव विद्वान् यद् भृग्वङ्गिरोवित् सम्यग् अधीयानश् चरितब्रह्मचर्यो ऽन्यूनानतिरिक्ताङ्गो ऽप्रमत्तो यज्ञं रक्षति
तस्य प्रमादाद् यदि वाप्य् असांनिध्याद् यथा भिन्ना नौर् अगाधे महत्य् उदके संप्लवेन् मत्स्यकच्छपशिंशुमारनक्रमकरपुरीकयजषरजसपिशाचानां भागधेयं भवत्य् एवमादीनां चान्येषां विनष्टोपजीविनाम्
एवं खल्व् अपि यज्ञश् छिन्नभिन्नो ऽपध्वस्त उत्पाताद्भुतो बहुलो ऽथर्वभिर् असंस्कृतो ऽसुरगन्धर्वयक्षरक्षसपिशाचानां भागधेयं भवत्य् एवमादीनां चान्येषां विनष्टोपजीविनां
तद् अपि श्लोकाः
छिन्नभिन्नो ऽपध्वस्तो विश्रुतो बहुधा मखः । इष्टापूर्तद्रविणंगृह्य यजमानस्यावापतत् ॥
ऋत्विजां च विनाशाय राज्ञो जनपदस्य च । संवत्सरविरिष्टं तद् यत्र यज्ञो विरिष्यते ॥ [एद्. विरष्यते, चोर्रेच्तेद् प्. ३०२]
दक्षिणाप्रवणीभूतो यज्ञो दक्षिणतः स्मृतः । हीनाङ्गो रक्षसां भागो ब्रह्मवेदाद् असंस्कृतः ॥
चतुष्पात् सकलो यज्ञश् चातुर्हौत्रविनिर्मितः । चतुर्विधै स्थितो मन्त्रैर् ऋत्विग्भिर् वेदपारगैः ॥
प्रायश्चित्तैर् अनुध्यानैर् अनुज्ञानानुमन्त्रणैः । होमैश् च यज्ञविभ्रंशं सर्वं ब्रह्मा प्रपूरयेद् ॥ इति
तस्माद् यजमानो भृग्वङ्गिरोविदम् एव तत्र ब्रह्माणं वृणीयात्
स हि यज्ञं तारयतीति ब्राह्मणम् ॥ ५ ॥
2.2.6
यज्ञो वै देवेभ्य उदक्रामन् न वो ऽहम् अन्नं भविष्यामीति [एद्. उदक्रमन्, चोर्र्. ড়त्यल्]
नेति देवा अब्रुवन्न् अन्नम् एव नो भविष्यसीति
तं देवा विमेथिरे
स एभ्यो विहृतो न प्रबभूव
ते होचुर् देवाः
न वै न इत्थं विहृतो ऽलं भविष्यति
हन्तेमं संभराम् एति
तं संजभ्रुस्
तं संभृत्योचुर् अश्विनाव् इमं भिषज्यतम् इति [एद्. अश्विणाव्, चोर्र्. ড়त्यल्]
अश्विनौ वै देवानां भिषजौ
अश्विनाव् अध्वर्यू
तस्माद् अध्वर्यू घर्मं संभरतस्
तं संभृत्योचतुर् ब्रह्मन् घर्मेण प्रचरिष्यामो होतर् घर्मम् अभिष्टुह्य् उद्गातः सामानि गायेति
प्रचरत घर्मम् इत्य् अनुजानाति
ब्रह्मप्रसूता हि प्रचरन्ति
ब्रह्म हेदं प्रसवानाम् ईशे
सवितृप्रसूततायै
<घर्मं तपामि [ড়्ष् ५.१६.२, सकल अत् Vऐत्ष् १४.१]> <ब्रह्म जज्ञानम् [ড়्ष् ५.२.२, अ.वे.(शौ.) ४.१.१, Vऐत्ष् १४.१]> <इयं पित्र्या राष्ट्र्य् एत्व् अग्रे [ড়्ष् ५.२.१, अ.वे.(शौ.) ४.१.२, Vऐत्ष् १४.१]>इति घर्मं ताप्यमानम् उपासीत शस्त्रवद् अर्धर्चश आहावप्रतिगरवर्जं रूपसमृद्धाभिः
एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्धम्
यत् कर्म क्रियमाणम् ऋग् यजुर् वाभिवदति स्वस्ति तस्य यज्ञस्य पारम् अश्नुते य एवं वेद
देवमिथुनं वा एतद् यद् घर्मस्
तस्माद् अन्तर्धाय प्रचरन्ति
अन्तर्हिता वै मिथुनं चरन्तीति
तद् एतद् देवमिथुनम् इत्य् आचक्षते
तस्य यो घर्मस् तच्छिश्नम्
यौ शफौ ताव् आण्ड्यौ
योपयमनी ते श्रोणिकपाले
यत् पयस् तद् रेतस्
तद् अग्नौ देवयोन्यां रेतो ब्रह्ममयं धत्ते प्रजननाय
सो ऽग्निर् देवयोनिर् ऋङ्मयो यजुर्मयः साममयो ब्रह्ममयो ऽमृतमय आहुतिमयः सर्वेन्द्रियसंपन्नो यजमान ऊर्ध्वः स्वर्गं लोकम् एति
तद् आहुर् न प्रथमयज्ञे प्रवर्ग्यं कुर्वीतानुपनामुका ह वा एनम् उत्तरे यज्ञक्रतवो भवन्तीति
कामं तु यो ऽनूचानः श्रोत्रियः स्यात् तस्य प्रवृञ्ज्यात्
आत्मा वै स यज्ञस्येति विज्ञायते
अपशिरसा ह वा एष यज्ञेन यजते यो ऽप्रवर्ग्येण यजते
शिरो ह वा एतद् यज्ञस्य यत् प्रवर्ग्यस्
तस्मात् प्रवर्ग्यवतैव याजयेन् नाप्रवग्येण
तद् अप्य् एषाभ्यनूक्ता <चत्वारि शृङ्गा [ড়्ष् ८.१३.३, सकल अत् १,२.१६f]>इति ॥ ६ ॥
2.2.7
देवाश् च ह वा ऋषयश् चासुरैः संयत्ता आसन् [एद्. चिआसुरैः]
तेषाम् असुराणाम् इमाः पुरः प्रत्यभिजिता आसन्न् अयस्मयी पृथिवी रजतान्तरिक्षं हरिणी द्यौस्
ते देवाः संघातंसंघातं पराजयन्त
ते ऽविदुर् अनायतना हि वै स्मस्
तस्मात् पराजयामहा इति [एद्. पराजयामह, चोर्र्. ড়त्यल्]
त एताः पुरः प्रत्यकुर्वत हविर्धानं दिव आग्नीध्रम् अन्तरिक्षात् सदः पृथिव्यास्
ते देवा अब्रुवन्न् उपसदम् उपायाम
उपसदा वै महापुरं जयन्तीति
त एभ्यो लोकेभ्यो निरघ्नन्
एकयामुष्माल् लोकाद् एकयान्तरिक्षाद् एकया पृथिव्यास्
तस्माद् आहुर् उपसदा वै महापुरं जयन्तीति
त एभ्यो लोकेभ्यो निर्हता ऋतून् प्राविशन्
ते षड् उपायन्
तान् उपसद्भिर् एवर्तुभ्यो निरघ्नन्
द्वाभ्याम् अमुष्माल् लोकाद् द्वाभ्याम् अन्तरिक्षाद् द्वाभ्यां पृथिव्यास्
त ऋतुभ्यो निर्हताः संवत्सरं प्राविशन्
ते द्वादशोपायन्
तान् उपसद्भिर् एव संवत्सरान् निरघ्नन्
चतसृभिर् अमुष्माल् लोकाच् चतसृभिर् अन्तरिक्षाच् चतसृभिः पृथिव्यास्
ते संवत्सरान् निर्हता अहोरात्रे प्राविशन्
ते यत् सायम् उपायंस् तेनैनान् रात्र्या अनुदन्त यत् प्रातस् तेनाह्नस्
तस्माद् गौः सायं प्रातस्तनम् आप्यायते प्रातः सायन्तनम्
तान् उपसद्भिर् एवैभ्यो लोकेभ्यो नुदमाना आयन्
ततो देवा अभवन् परासुराः
सर्वेभ्य एवैभ्यो लोकेभ्यो भ्रातृव्यं नुदमान एति य एवंविद्वान् उपसदम् उपैति ॥ ७ ॥
2.2.8
न द्वादशाग्निष्टोमस्योपसदः स्युः
अशान्ता निर्मृज्युर् न तिस्रो ऽहीनस्य
उपरिष्टाद् यज्ञक्रतुर् गरीयान् अभिषीदेद् यथा गुरुर् भारो ग्रीवा निःशृणीयाद् आर्तिम् आर्छेत्
द्वादशाहीनस्य कुर्यात्
प्रत्युत्तब्ध्यै सयत्वाय
तिस्रो ऽग्निष्टोमस्योपसदः स्युः शान्त्या अनिर्मार्गाय
ते देवा असुर्यान् इमांल् लोकान् नान्ववैतुम् अधृष्णुवन्
तान् अग्निना मुखेनान्ववायन्
यद् अग्निम् अन्त्य् उपसदां प्रतीकानि भवन्ति यथा क्षेत्रपतिः क्षेत्रे ऽन्ववनयत्य् एवम् एवैतद् अग्निना मुखेनेमांल् लोकान् अभिनयन्तो यन्ति [एद्. ऽन्ववनयन्त्य्, चोर्र्. ড়त्यल्]
यो ह वै देवान् साध्यान् वेद सिध्यत्य् अस्मै
इमे वाव लोका यत् साध्या देवाः
स य एवम् एतान्त् साध्यान् वेद सिध्यत्य् अस्मै
सिध्यत्य् अमुष्मै सिध्यत्य् अस्मै लोकाय य एवंविद्वान् उपसदम् उपैति ॥ ८ ॥
2.2.9
अथ यत्राहाध्वर्युर् अग्नीद् देवपत्नीर् व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्याम् आह्वयेति तद् अपरेण गार्हपत्यं प्राङ्मुखस् तिष्ठन्न् अनवानन्न् आग्नीध्रो देवपत्नीर् व्याचष्टे
पृथिव्य् अग्नेः पत्नी
वाग् वातस्य पत्नी
सेनेन्द्रस्य पत्नी
धेना बृहस्पतेः पत्नी
पथ्या पूष्णः पत्नी
गायत्री पसूनां पत्नी
त्रिष्टुब् रुद्राणां पत्नी
जगत्य् आदित्यानां पत्नी
अनुष्टुम् मित्रस्य पत्नी
विराड् वरुणस्य पत्नी
पङ्क्तिर् विष्णोः पत्नी
दीक्षा सोमस्य राज्ञः पत्नीति
अति भ्रातृव्यान् आरोहति नैनं भ्रातृव्या आरोहन्त्य् उपरि भ्रातृव्यान् आरोहति य एवंविद्वान् आग्नीध्रो देवपत्नीर् व्याचष्टे ॥ ९ ॥ [एद्. आरुओहन्त्य्, आरुओहति]
2.2.10
यथा वै रथ एकैकम् अरम् अभिप्रतितिष्ठन् वर्तत एवं यज्ञ एकैकां तन्वम् अभिप्रतितिष्ठन्न् एति
पुरा प्रचरितोर् आग्नीध्रीये होतव्याः
एतद् ध वा उवाच वासिष्ठः सात्यहव्यो ऽस्कन् सोम इत्य् उक्ते मा सूर्क्षत प्रचरत प्रातर् वावाद्याहं सोमं समस्थापयम् इति
नास्य सोम स्कन्दति य एवंविद्वान्त् सोमं पिबति
स ह स्म वै स आसन्द्याम् आसीनः सक्तुभिर् उपमथ्य सोमं पिबति
अहं वाव सर्वतो यज्ञं वेद य एतान् वेद
न माम् एष हिंसिष्यतीति
नैनं सोमपीथो न पेयो हिनस्ति य एवंविद्वान्त् सोमं पिबति
तं ह स्म यद् आहुः कस्मात् त्वम् इदम् आसन्द्याम् आसीनः सक्तुभिर् उपमथ्य सोमं पिबसीति
देवतास्व् एव यज्ञं प्रतिष्ठापयामीत्य् अब्रवीद् ब्राह्मणो यस्यैवंविदुषो यस्यैवंविद्वान् यज्ञार्त्या यज्ञे प्रायश्चित्तं जुहोति [एद् ब्रह्मणो, चोर्र्. ড়त्यल्]
देवतास्व् एव यज्ञं प्रतिष्ठापयति
यज्ञार्तिं प्रतिजुहुयात्
सयोनित्वाय
त्रयस्त्रिंशद् वै यज्ञस्य तन्व इति
एकान्नत्रिंशत् स्तोमभागास्
त्रीणि सवनानि
यज्ञश् चतुर्थः
स्तोमभागैर् एवैतत् स्तोमभागान् प्रतिप्रयुङ्क्ते सवनैः सवनानि यज्ञेन यज्ञम्
सर्वा ह वा अस्य यज्ञस्य तन्वः प्रयुक्ता भवन्ति सर्वा आप्ताः सर्वा अवरुद्धाः
देवस्य सवितुः प्रसवे बृहस्पतये स्तुतेति
यद्यद् वै सविता देवेभ्यः प्रासुवत् तेनार्ध्नुवन्
सवितृप्रसूता एव स्तुवन्ति
ऋध्नुवन्ति
ऋध्यन्ते ह वा अस्य स्तोमा यज्ञे
ऋध्यते यजमान ऋध्यते प्रजायाः [एद्. ऋध्यते ऋध्यते, चोर्रेच्तेद् प्. ३०२]
ऋध्यते पशुभ्यः
ऋध्यते ब्रह्मणे यस्यैवंविद्वान् ब्रह्मा भवति ॥ १० ॥
2.2.11
देवाश् च ह वा असुराश् चास्पर्धन्त
ते देवाः समावद् एव यज्ञे कुर्वाणा आसन्
यद् एव दवा अकुर्वत तद् असुरा अकुर्वत
ते न व्यावृतम् अगच्छन्
ते देवा अब्रुवन् नयतेमं यज्ञं तिर उपर्य् असुरेभ्यस् तंस्यामह इति
तम् एताभिर् आच्छाद्योदक्रामन् यजूंषि यज्ञे समिधः स्वाहेति
तं तिर उपर्य् असुरेभ्यो यज्ञम् अतन्वत
तम् एषां यज्ञम् असुरा नान्ववायन्
ततो देवा अभवन् परासुराः
स य एवंविद्वांस् तिर उपर्य् असुरेभ्यो यज्ञं तनुते भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति
एतैर् एव जुहुयात् समृतयज्ञे चतुर्भिश् चतुर्भिर् अन्वाख्यायम्
पुरस्तात् प्रातरनुवाकस्य जुहुयात्
एतावान् वै यज्ञो यावान् एष यज्ञस् तं वृङ्क्ते
सयज्ञो भवति
अयज्ञ इतरः
एतैर् एव जुहुयात् पुरस्ताद् द्वादशाहस्य
एष ह वै प्रत्यक्षं द्वादशाहस्
तम् एवालभ्यैतैर् एव जुहुयात्
पुरस्ताद् दीक्षायाः
एषा ह वै प्रत्यक्षं दीक्षा
ताम् एवालभ्यैतैर् एवातिथ्यम् अभिमृशेद् <यज्ञेन यज्ञम् अयजन्त देवाः [अ.वे.(शौ.) ७.५.१, ড়्ष् २०.२.२, Vऐत्ष् १६.१५]> इति ॥ ११ ॥
2.2.12
यत्र विजानाति ब्रह्मन्त् सोमो ऽस्कन्न् इति तम् एतयालभ्याभिमन्त्रयते<अभूद् देवः सविता वन्द्यो नु न इदानीम् अह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् [ऋ.वे. ४.५४.१]>इति
<ये अग्नयो अप्स्व् अन्तर् [अ.वे.(शौ.) ३.२१.१, Vऐत्ष् १६.१६, च्f. ড়्ष् १०.९.१?]> इति सप्तभिर् अभिजुहोति
यद् एवास्यावस्कन्नं भवति तद् एवास्यैतद् अग्नौ स्वगाकरोति
अग्निर् हि सुकृतीनां हविषां प्रतिष्ठा
अथ विसृप्य वैप्रुषान् होमाञ् जुहोति <द्रप्सश् चस्कन्द [ऋ.वे. १०.१७.११, ড়्ष् २०.१३.७, अ.वे.(शौ.) १८.४.२८, Vऐत्ष् १६.१७]>इति [एद्. जुह्वति, चोर्र्. ড়त्यल्]
या एवास्याभिषूयमाणस्य विप्रुष स्कन्दन्त्य् अंशुर् वा ता एवास्यैतद् आहवनीये स्वगाकरोति [एद्. आहवणीये]
आहवनीयो ह्य् आहुतीनां प्रतिष्ठा
<यस् ते द्रप्स स्कन्दति [ऋ.वे. १०.१७.१२अ, ড়्ष् २०.१३.८अ, Vऐत्ष् १६.१७]>इति
स्तोको वै द्रप्सः
<यस् ते अंशुर् बाहुच्युतो धिषणाया उपस्थात् [ऋ.वे. १०.१७.१२ब्, ড়्ष् २०.१३.८ब्, Vऐत्ष् १६.१७]>इति बाहुभिर् अभिच्युतो ऽंशुर् अधिषवणाभ्याम् अधिस्कन्दति
<अध्वर्योर् वा परि यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतम् [ড়्ष् २०.१३.८च्द्, ऋ.वे. १०.१७.१२च्द्, Vऐत्ष् १६.१७]> इति
तद् यथा वषट्कृतं स्वाहाकृतं हुतम् एवं भवति ॥ १२ ॥
2.2.13
ऋषयो वा इन्द्रं प्रत्यक्षं नापश्यन्
तं वसिष्ठ एव प्रत्यक्षम् अपश्यत्
सो ऽबिभेद् इतरेभ्य ऋषिभ्यो मा प्रवोचद् इति
सो ऽब्रवीद् ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्ते
अथेतरेभ्य ऋषिभ्यो मा प्रवोच इति
तस्मा एतान् स्तोमभागान् उवाच
ततो वसिष्ठपुरोहिताः प्रजाः प्राजायन्त
स्तोमो वा एते एतेषां भागस्
तत् स्तोमभागानां स्तोमभागत्वम्
रश्मिर् असि क्षयाय त्वेति
क्षयो वै देवाः
देवेभ्य एव यज्ञं प्राह
प्रेतिर् असि धर्मणे त्वेति
धर्मो मनुष्याः
मनुष्येभ्य एव यज्ञं प्राह
अन्वितिर् असि संधिर् असि प्रतिधिर् असीति [एद्. अनितिर्, चोर्र्. ড়त्यल्]
त्रयो वै लोकाः
लोकेष्व् एव यज्ञं प्रतिष्ठापयति
विष्टम्भो ऽसीति
वृष्टिम् एवावरुन्द्धे
प्रावो ऽस्य् अह्नांसीति मिथुनम् एव करोति
उशिग् असि प्रकेतो ऽसि सुदितिर् असीति
अष्टौ वसव एकादश रुद्रा द्वादशादित्या वाग् द्वात्रिंशी स्वरस् त्रयस्त्रिंशस्त्रयस्त्रिंशद् देवाः
देवेभ्य एव यज्ञं प्राह
ओजो ऽसि पितृभ्यस् त्वेति
बलम् एव तत्पितॄन् अनुसंतनोति
तन्तुर् असि प्रजाभ्यस् त्वेति
प्रजा एव पशून् अनुसंतनोति
रेवद् अस्य् ओषधीभ्यस् त्वेति
ओषधीष्व् एव यज्ञं प्रतिष्ठापयति
पृतनाषाड् असि पशुभ्यस् त्वेति
प्रजा एव पशून् अनुसंतनोति
अभिजिद् असीति
वज्रो वै षोडशी
व्यावृत्तो ऽसौ वज्रस्
तस्माद् एषो ऽन्यैर् व्यावृत्तः
नाभुर् असीति
प्रजापतिर् वै सप्तदशः
प्रजापतिम् एवावरुन्द्धे ॥ १३ ॥
2.2.14
अधिपतिर् असि धरुणो ऽसि संसर्पो ऽसि वयोधा असीति
प्राणो ऽपानश् चक्षुः श्रोत्रम् इत्य् एतानि वै पुरुषम् अकरन् प्रणान् उपैति
प्रजात्या एव
त्रिवृद् असि प्रवृद् असि स्ववृद् अस्य् अनुवृद् असीति
मिथुनम् एव करोति
आरोहो ऽसि प्ररोहो ऽसि संरोहो ऽस्य् अनुरोहो ऽसीति [एद्. आरुओहो]
प्रजापतिर् एव
वसुको ऽसि वस्यष्टिर् असि वेषश्रीर् असीति
प्रतिष्ठितिर् एव
आक्रमो ऽसि संक्रमो ऽस्य् उत्क्रमो ऽस्य् उत्क्रान्तिर् असीति
ऋद्धिर् एव
यद् यद् वै सविता देवेभ्यः प्रासुवत् तेनार्ध्नुवन्
सवितृप्रसूता एव स्तुवन्ति
ऋध्नुवन्ति
बृहस्पतये स्तुतेति
बृहस्पतिर् वा आङ्गिरसो देवानां ब्रह्मा
तद् अनुमत्यैवों भूर् जनद् इति प्रातःसवने
ऋग्भिर् एवोभयतो ऽथर्वाङ्गिरोभिर् गुप्ताभिर् गुप्तै स्तुतेति
एवों भुवो जनद् इति माध्यंदिने सवने
यजुर्भिर् एवोभयतो ऽथर्वाङ्गिरोभिर् गुप्ताभिर् गुप्तैः
स्तुतेत्य् एवों स्वर् जनद् इति तृतीयसवने
सामभिर् एवोभयतो ऽथर्वाङ्गिरोभिर् गुप्ताभिर् गुप्तै स्तुतेत्य् एव
अथ यद्य् अहीन उक्थ्यः षोडशी वाजपेयो ऽतिरात्रो ऽप्तोर्यामा वा स्यात् सर्वाभिः सर्वाभिर् अत ऊर्ध्वं व्याहृतिभिर् अनुजानाति
ओं भूर् भुवः स्वर् जनद् वृधत् करद् रुहन् महत् तच् छम् ओम् इन्द्रवन्त स्तुतेति सेन्द्रान् मापगायत सेन्द्रान् स्तुतेत्य् एव
इन्द्रियवान् ऋद्धिमान् वशीयान् भवति य एवं वेद यश् चैवंविद्वान्त् स्तोमभागैर् यजते ॥ १४ ॥
2.2.15
यो ह वा आयतांश् च प्रतियतांश् च स्तोमभागान् विद्यात् स विष्पर्धमानयोः समृतसोमयोर् ब्रह्मा स्यात्
<स्तुतेषे स्तुतोर्जे स्तुत देवस्य सवितुः सवे बृहस्पतिं वः प्रजापतिं वो वसून् वो देवान् रुद्रान् वो देवान् आदित्यान् वो देवान् साध्यान् वो देवान् आप्त्यान् वो देवान् विश्वान् वो देवान् सर्वान् वो देवान् विश्वतस् परि हवामहे [Vऐत्ष् १७.७]>
<जनेभ्यो ऽस्माकम् अस्तु केवलः [Vऐत्ष् १७.७ (च्f. ড়्ष् ५.४.९च्)]>
<इतः कृणोतु वीर्यम् [Vऐत्ष् १७.७ (ড়्ष् ५.४.९द्)]> इति
एते ह वा आयताश् च प्रतियताश् च स्तोमभागास्
ताञ् जपन्न् उपर्युपरि परेषां ब्रह्माणम् अवेक्षेत
तत एषाम् अधःशिरा ब्रह्मा पतति
ततो यज्ञस्
ततो यजमानः
यजमाने ऽधःशिरसि पतिते स देशो ऽधःशिराः पतति यस्मिन्न् अर्धे यजन्ते
देवाश् च ह वा असुराश् च समृतसोमौ यज्ञाव् अतनुताम्
अथ बृहस्पतिर् आङ्गिरसो देवानां ब्रह्मा
स आयतांश् च प्रतियतांश् च स्तोमभागाञ् जपन्न् उपर्युपर्य् असुराणां ब्रह्माणम् अवैक्षत
तत एषाम् अधःशिरा ब्रह्मापतत्
ततो यज्ञस्
ततो ऽसुरा इति ॥ १५ ॥
2.2.16
देवा यज्ञं पराजयन्त
तम् आग्नीध्रात् पुनर् उपाजयन्त
तद् एतद् यज्ञस्यापराजितं यद् आग्नीध्रम्
यद् आग्नीध्राद् धिष्ण्यान् विहरति तत एवैनं पुनस् तनुते
पराजित्यै
अप खलु वा एते गच्छन्ति ये बहिष्पवमानं सर्पन्ति
बहिष्पवमाने स्तुत आह
अग्नीद् अग्नीन् विहर बर्हि स्तृणीहि पुरोडाशान् अलंकुर्व् इति
यज्ञम् एवापराजित्य पुनस् तन्वाना आयन्ति
अङ्गारैर् द्वे सवने विहरति शलाकाभिस् तृतीयसवनं सश्रुक्रत्वाय
अथो संभवत्य् एवम् एवैतत्
दक्षिणतो वै देवानां यज्ञं रक्षांस्य् अजिघांसन् [एद्. अजिधांसन्]
तान्य् आग्नीध्रेणापाघ्नत
तस्माद् दक्षिणामुखस् तिष्ठन्न् अग्नीत् प्रत्याश्रावयति
यज्ञस्याभिजित्यै रक्षसाम् अपहत्यै रक्षसाम् अपहत्यै ॥ १६ ॥
2.2.17
तद् आहुर् अथ कस्मात् सौम्य एवाध्वरे प्रवृताहुतीर् जुह्वति न हविर्यज्ञ इति
अकृत्स्ना वा एषा देवयज्या यद् धविर्यज्ञः
अथ हैषैव कृत्स्ना देवयज्या यत् सौम्यो ऽध्वरस्
तस्मात् सौम्य एवाध्वरे प्रवृताहुतीर् जुह्वति
जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाग् यद् वाचो मधुमत्तमं तस्मिन् मा धाः स्वाहा वाचे स्वाहा वाचपतये स्वाहा सरस्वत्यै स्वाहा सरस्वत्या इति पुरस्तात् स्वाहाकारेण जुहोति [एद्. -स्वाहाकरेण]
तस्माद् वाग् अत ऊर्ध्वम् उत्सृष्टा यज्ञं वहति मनसोत्तराम्
मनसा हि मनः प्रीतम्
तद् उ हैके सप्ताहुतीर् जुह्वति सप्त छन्दांसि प्रवृत्तानि प्रतिमन्त्रम् इति वदन्तः
यथा मेखला पर्यस्यते मेध्यस्य चामेध्यस्य च विहृत्या एवं हैवैते न्युप्यन्ते मेधस्य चामेध्यस्य च विहृत्यै यज्ञस्य विहृत्यै
प्राचीनं हि धिष्ण्येभ्यो देवानां लोकाः प्रतीचीनं मनुष्याणाम्
तस्मात् सोमं पिबता प्राञ्चो धिष्ण्या नोपसर्प्याः
जनं ह्य् एतत्
देवलोकं ह्य् अध्यारोहन्ति
तेषाम् एतद् आयतनं चोदयनं च यद् आग्नीध्रं च सदश् च
तद् यो ऽविद्वान्त् संचरत्य् आर्तिम् आर्छत्यि
अथ यो विद्वान्त् संचरति न स धिष्णीयाम् आर्तिम् आर्छति ॥ १७ ॥ [एद्. विद्वन्त्]
2.2.18
प्रजापतिर् वै यज्ञस्
तस्मिन्त् सर्वे कामाः सर्वा इष्टीः सर्वम् अमृतत्वम्
तस्य हैते गोप्तारो यद् धिष्ण्यास्
तान्त् सदः प्रस्रप्स्यन् नमस्करोति
नमो नम इति
न हि नमस्कारम् अति देवास्
ते ह नमसिताः कर्तारम् अतिसृजन्तीति
तत एतं प्रजापतिं यज्ञं प्रपद्यते नमो नम इति
न हि नमस्कारम् अति देवाः
स तत्रैव यजमानः सर्वान् कामान् आप्नोति सर्वान् कामान् आप्नोति ॥ १८ ॥
2.2.19
यो वै सदस्यान् गन्धर्वान् वेद न सदस्याम् आर्तिम् आर्छति
सदः प्रस्रप्स्यन् ब्रूयाद् उपद्रष्ट्रे नम इति
अग्निर् वै द्रष्टा तस्मा उ एवात्मानं परिददाति
सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद
सदः प्रसृप्य ब्रूयाद् उपश्रोत्रे नम इति
वायुर् वा उपश्रोता
तस्मा उ एवात्मानं परिददाति
सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद
सदः प्रसर्पन् ब्रूयाद् अनुख्यात्रे नम इति
आदित्यो वा अनुख्याता
तस्मा उ एवात्मानं परिददाति
सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद
सदः प्रसृप्तो ब्रूयाद् उपद्रष्ट्रे नम इति
ब्राह्मणो वा उपद्रष्टा
तस्मा उ एवात्मानं परिददाति
सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद
ते वै सदस्या गन्धर्वाः
स य एवम् एतान्त् सदस्यान् गन्धर्वान् अविद्वान्त् सदः प्रसर्पति स सदस्याम् आर्तिम् आर्छति
अथ यो विद्वान्त् संचरति न सदस्याम् आर्तिम् आर्छति
एतेन ह स्म वा अङ्गिरसः सर्वं सदः पर्याहुस्
ते न सदस्याम् आर्तिम् आर्छन्ति
अथ यान् कामयेत न सदस्याम् आर्तिम् आर्छेयुर् इति तेभ्य एतेन सर्वं सदः परिब्रूयात्
ते न सदस्याम् आर्तिम् आर्छन्ति
अथ यं कामयेत प्रमीयतेति तम् एतेभ्य आवृश्चेत्
प्रमीयते ॥ १९ ॥
2.2.20
तद् आहुर् यद् ऐन्द्रो यज्ञो ऽथ कस्माद् द्वाव् एव प्रातःसवने प्रस्थितानां प्रत्यक्षाद् ऐन्द्रीभ्यां यजतो होता चैव ब्राह्मणाच्छंसी च [एद्. ऐद्रीभ्यां]
<इदं ते सोम्यं मधु [ऋ.वे. ८.६५.८]>इति होता यजति
<इन्द्र त्वा वृषभं वयम् [ऋ.वे. ३.४०.१, Vऐत्ष् १९.६]> इति ब्राह्मणाच्छंसी
नानादेवत्याभिर् इतरे
कथं तेषाम् ऐन्द्र्यो भवन्ति
<मित्रं वयं हवामहे [ऋ.वे. १.२३.४अ]>इति मैत्रावरुणो यजति
<वरुणं सोमपीतये [ऋ.वे. १.२३.४ब्]>इति
यद् वै किं च पीतवत् तद् ऐन्द्रं रूपम्
तेनेन्द्रं प्रीणाति
<मरुतो यस्य हि क्षये [ऋ.वे. १.८६.१अ, अ.वे.(शौ.) २०.१.२अ]>इति पोता यजति
<स सुगोपातमो जनः [ऋ.वे. १.८६.१च्, अ.वे.(शौ.) २०.१.२च्]>इति [एद्. सुगोपतमो, चोर्रेच्तेद् प्. ३०२]
इन्द्रो वै गोपास्
तद् ऐन्द्रं रूपम्
तेनेन्द्रं प्रीणाति
<अग्ने पत्नीर् इहा वह [ऋ.वे. १.२२.९अ]>इति नेष्टा यजति
<त्वष्टारं सोमपीतये [ऋ.वे. १.२२.९च्]>इति
यद् वै किं च पीतवत् तद् ऐन्द्रं रूपम्
तेनेन्द्रं प्रीणाति
<उक्षान्नाय वशान्नाय [ऋ.वे. ८.४३.११अ, ড়्ष् ३.१२.६अ, अ.वे.(शौ.) ३.२१.६अ/२०.१.३अ]>इत्य् आग्नीध्रो यजति
<सोमपृष्ठाय वेधसे [ऋ.वे. ८.४३.११ब्, ড়्ष् ३.१२.६ब्, अ.वे.(शौ.) ३.२१.६ब्/२०.१.३ब्]>इति
इन्द्रो वै वेधास्
तद् ऐन्द्रं रूपम्
तेनेन्द्रं प्रीणाति
<प्रातर्यावभिर् आ गतं देवेभिर् जेन्यावसू इन्द्राग्नी सोमपीतये [ऋ.वे. ८.३८.७]>इति
स्वयंसमृद्धा अच्छावाकस्य
एवम् उ हैता ऐन्द्र्यो भवन्ति
यन् नानादेवत्यास् तेनान्या देवताः प्रीणाति
यद् गायत्र्यस् तेनाग्नेय्यस्
तस्माद् एताभिस् त्रयम् अवाप्तं भवति ॥ २० ॥
2.2.21
ते वै खलु सर्व एव माध्यंदिने प्रस्थितानां प्रत्यक्षाद् ऐन्द्रीभिर् यजन्ति
अभितृणवतीभिर् एके
<पिबा सोमम् अभि यम् उग्र तर्दः [ऋ.वे. ६.१७.१]>इति होता यजति
<स ईं पाहि य ऋजीषी तरुत्रः [ऋ.वे. ६.१७.२]>इति मैत्रावरुणः
<एवा पाहि प्रत्नथा मन्दतु त्वा [ऋ.वे. ६.१७.३]>इति ब्राह्मणाच्छंसी
<अर्वाङ् एहि सोमकामं त्वाहुः [ऋ.वे. १.१०४.९]>इति पोता
<तवायं सोमस् त्वम् एह्य् अर्वाङ् [ऋ.वे. ३.३५.६]> इति नेष्टा
<इन्द्राय सोमाः प्रदिवो विदानाः [ऋ.वे. ३.३६.२]>इत्य् अच्छावाकः
<आपूर्णो अस्य कलशः स्वाहा [ऋ.वे. ३.३२.१५]>इत्य् आग्नीध्रः [एद्. स्वहोत्य्]
एवम् उ हैता अभितृणवत्यो भवन्ति
इन्द्रो वै प्रातःसवनं नाभ्यजयत्
स एताभिर् माध्यंदिनं सवनम् अभ्यतृणत्
तद् यद् एताभिर् माध्यंदिनं सवनम् अभ्यतृणत् तस्माद् एता अभितृणवत्यो भवन्ति ॥ २१ ॥
2.2.22
तद् आहुर् यद् ऐन्द्रार्भवं तृतीयसवनम् अथ कस्माद् एक एव तृतीयसवने प्रस्थितानां प्रत्यक्षाद् ऐन्द्रार्भव्या यजति
<इन्द्र ऋभुभिर् वाजवद्भिः समुक्षितम् [ऋ.वे. ३.६०.५]> इति होतैव
नानादेवत्याभिर् इतरे
कथं तेषाम् ऐन्द्रार्भव्यो भवन्ति
<इन्द्रावरुणा सुतपाव् इमं सुतम् [ऋ.वे. ६.६८.१०, ড়्ष् २०.७.५अ, अ.वे.(शौ.) ७.५८.१अ]> इति मैत्रावरुणो यजति [एद्. सतम्, चोर्रेच्तेद् प्. ३०२]
<युवो रथो अध्वरो देववीतये [ড়्ष् २०.७.५च्, अ.वे.(शौ.) ७.५८.१च्, ऋ.वे. ६.६८.१०च्]>इति बहूनि वाह
तद् ऋभूणां रूपम्
<इन्द्रश् च सोमं पिबतं बृहस्पतये [ऋ.वे. ४.५०.१०अ, Vऐत्ष् २२.११]>इति ब्राह्मणाच्छंसी यजति
<आ वां विशन्त्व् इन्दवः स्वाभुवः [ऋ.वे. ४.५०.१०च्]>इति बहूनि वाह
तद् ऋभूणां रूपम्
<आ वो वहन्तु सप्तयो रघुष्यदः [ऋ.वे. १.८५.६अ]>इति पोता यजति
<रघुपत्वानः प्र जिगात बाहुभिः [ऋ.वे. १.८५.६ब्]>इति बहूनि वाह
तद् ऋभूणां रूपम्
<अमेव नः सुहवा आ हि गन्तन [ऋ.वे. २.३६.३]>इति नेष्टा यजति
गन्तनेति बहूनि वाह
तद् ऋभूणां रूपम्
<इन्द्राविष्णू पिबतं मध्वो अस्य [ऋ.वे. ६.६९.७अ]>इत्य् अच्छावाको यजति
<आ वाम् अन्धांसि मदिराण्य् अग्मन् [ऋ.वे. ६.६९.७च्]>इति बहूनि वाह
तद् ऋभूणां रूपम्
<इमं स्तोमम् अर्हते जातवेदसे [ऋ.वे. १.९४.१अ]>इत्य् आग्नीध्रो यजति
<रथम् इव सं महेमा मनीषया [ऋ.वे. १.९४.१ब्]>इति बहूनि वाह
तद् ऋभूणां रूपम्
एवम् उ हैता ऐन्द्रार्भव्यो भवन्ति
यन् नानादेवत्यास् तेनान्या देवताः प्रीणाति
यद् उ जगत्प्रासाहा जागतम् उ वै तृतीयसवनम्
तृतीयसवनस्य समष्ट्यै ॥ २२ ॥
2.2.23
विचक्षणवतीं वाचं भाषन्ते चनसितवतीम्
विचक्षयन्ति ब्राह्मणम्
चनसयन्ति प्राजापत्यम्
सत्यं वदन्ति
एतद् वै मनुष्येषु सत्यं यच् चक्षुस्
तस्माद् आहुर् आचक्षाणम् अद्राग् इति
स यद् आहाद्राक्षम् इति तथाहास्य श्रद्दधति
यद्य् उ वै स्वयं वै दृष्टं भवति न बहूनां जनानाम् एष श्रद्दधाति
तस्माद् विचक्षणवतीं वाचं भाषन्ते चनसितवतीम्
सत्योत्तरा हैवैषां वाग् उदिता भवति ॥ २३ ॥
2.2.24
समृतयज्ञो वा एष यद् दर्शपूर्णमासौ
कस्य वाव देवा यज्ञम् आगच्छन्ति कस्य वा न
बहूनां वा एतद् यजमानानां सामान्यम् अहस्
तस्मात् पूर्वेद्युर् देवताः परिगृह्णीयात्
यो ह वै पूर्वेद्युर् देवताः परिगृह्णाति तस्य श्वो भूते यज्ञम् आगच्छन्ति
तस्माद् विहव्यस्य चतस्र ऋचो जपेत्
यज्ञविदो हि मन्यन्ते एव सोम एव समृत इति यज्ञो यज्ञेन समृतः ॥ २४ ॥

ल्इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे द्वितीयः प्रपाठकः ॥
2.3.1
ओं देवपात्रं वै वषट्कारः
यद् वषट्करोति देवपात्रेणैव तद् देवतास् तर्पयति
अथो यद् आभितृष्यन्तीर् अभिसंस्थं तर्पयत्य् एवम् एव तद् देवतास् तर्पयति यद् अनुवषट्करोति
तद् यथैवादो ऽश्वान् वा गा वा पुनरभ्याकारं तर्पयत्य् एवम् एव तद् देवतास् तर्पयति यद् अनुवषट्करोति
इमान् एवाग्नीन् उपासत इत्य् आहुर् धिष्ण्यान्
अथ कस्मात् पूर्वस्मिन्न् एवाग्नौ जुह्वति पूर्वस्मिन् वषट्करोति
यद् एव सोमस्याग्ने वीहीत्य् अनुवषट्करोति तेनैव वषट्करोति धिष्ण्यान् प्रीणाति
अथ संस्थितान् सोमान् भक्षयन्तीत्य् आहुर् येषां नानुवषट्करोति
तद् आहुः को नु सोमस्य स्विष्टकृद्भाग इति
यद् एव सोमस्याग्ने वीहीत्य् अनुवषट्करोति तेनैव संस्थितान् सोमान् भक्षयन्तीत्य् आहुः
स उ एष सोमस्य स्विष्टकृद्भागो यद् अनुवषट्करोति ॥ १ ॥
2.3.2
वज्रो वै वषट्कारः
स यं द्विष्यात् तं मनसा ध्यायन् वषट्कुर्यात्
तस्मिंस् तद् वज्रम् आस्थापयति
षड् इति वषट्करोति
षड् वा ऋतवः
ऋतूनाम् आप्त्यै
वौषड् इति वषट्करोति
असौ वाव वाव् ऋतवः षट्
एतम् एव तद् ऋतुष्व् आदधाति
ऋतुषु प्रतिष्ठापयति
तद् उ ह स्माह वैद एतानि वा एतेन षट् प्रतिष्ठापयति
द्यौर् अन्तरिक्षे प्रतिष्ठिता
अन्तरिक्षं पृथिव्याम्
पृथिव्य् अप्सु
आपः सत्ये
सत्यं ब्रह्मणि
ब्रह्म तपसीति
एता एव तद् देवताः प्रतिष्ठान्याः प्रतितिष्ठन्तीर् इदं सर्वम् अनु प्रतितिष्ठति [एद्. प्रतिस्थान्याः, चोर्र्. ড়त्यल्]
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ २ ॥
2.3.3
त्रयो वै वषट्काराः
वज्रो धामच्छद् रिक्तः
स यद् एवोच्चैर् बलं वषट्करोति स वज्रस्
तं तं प्रहरति द्विषते भ्रातृव्याय वधं यो ऽस्य स्तृत्यस् तस्मै स्तरीतवे
तस्मात् स भ्रातृव्यवता वषट्कृत्यः
अथ यः समः संततो निर्हाणच्छत्स्व धामच्छत्
तं तं प्रजाश् च पशवश् चानूपतिष्ठन्ते
तस्मात् स प्रजाकामेन पशुकामेन वषट्कृत्यः
अथ येनैव षड् अपराध्नोति स रिक्तः
रिणक्त्य् आत्मानं रिणक्ति यजमानम्
पापीयान् वषट्कर्ता भवति पापीयान् यस्मै वषट्करोति
तस्मात् तस्याशां नेयात्
किं स्वित् स यजमानस्य पापभद्रम् आद्रियेतेति ह स्माह यो ऽस्य वषट्कर्ता भवति
अत्रैवैनं यथा कामयेत तथा कुर्यात्
यं कामयेत यथैवानीजानो ऽभूत् तथैवेजानः स्याद् इति यथैवास्यर्चं ब्रूयात् तथैवास्य वषट्कुर्यात्
समानम् एवैनं तत् करोति
यं कामयेत पापीयान् स्याद् इत्य् उच्चैस्तराम् अस्यर्चं ब्रूयान् नीचैस्तरां वषट्कुर्यात्
पापीयांसम् एवैनं तत् करोति
यं कामयेत श्रेयान् स्याद् इति नीचैस्तराम् अस्यर्चं ब्रूयाद् उच्चैस्तरां वषट्कुर्यात्
श्रेयांसम् एवैनं तत् करोति
श्रिय एवैनं तच् छ्रियम् आदधाति ॥ ३ ॥
2.3.4
यस्यै देवतायै हविर् गृहीतं स्यात् तां मनसा ध्यायन् वषट्कुर्यात् [एद्. दवतायै]
साक्षाद् एव तद् देवतां प्रीणाति
प्रत्यक्षाद् देवतां परिगृह्णाति
संततम् ऋचा वषट्कृत्यम्
संतत्यै
संधीयते प्रजया पशुभिर् य एवं वेद ॥ ४ ॥
2.3.5
वज्रो वै वषट्कारः
स उ एष प्रहृतो ऽशान्तो दीदाय तस्य ह न सर्व एव शान्तिं वेद नो प्रतिष्ठाम्
तस्माद् धाप्य् एतर्हि भूयान् इव मृत्युस्
तस्य हैषैव शान्तिर् एषा प्रतिष्ठा यद् वाग् इति
वषट्कृत्य वाग् इत्य् अनुमन्त्रयते
वषट्कार मा मां प्रमृक्षो माहं त्वां प्रमृक्षं बृहता मन उपह्वये व्यानेन शरीरं प्रतिष्ठासि प्रतिष्ठां गच्छ प्रतिष्ठां मा गमयेद् इति [एद्. प्रतिष्ठीसि, चोर्रेच्तेद् प्. ३०२]
तद् उ स्माह दीर्घम् एवैतैत् सदप्रभ्व् ओजः सह ओज इत्य् अनुमन्त्रयेत
ओजश् च ह वै सहश् च वषट्कारस्य प्रियतमे तन्वौ
प्रियाभ्याम् एव तत् तनूभ्यां समर्धयति
प्रियया तन्वा समृध्यते य एवं वेद ॥ ५ ॥
2.3.6
वाक् च वै प्राणापानौ च वषट्कारस्
ते वषट्कृते वषट्कृते व्युत्क्रामन्ति
तान् अनुमन्त्रयते वाग् ओजः सह ओजो मयि प्राणापानाव् इति
वाचं चैव तत् प्राणापानौ च होतात्मनि प्रतिष्ठापयति
सर्वम् आयुर् एति
न पुरा जरसः प्रमीयते य एवं वेद
<शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः । सखेव सख्य उरुशंस धीरः प्र ण आयुर् जीवसे सोम तारीः [ऋ.वे. ८.४८.४, Vऐत्ष् १९.१८]>इत्य् आत्मानं प्रत्यभिमृशति
ईश्वरो वा एषो ऽप्रत्यभिमृष्टो यजमानस्यायुः प्रत्यवहर्तुम् अनर्हन् मा भक्षयेद् इति
तद् यद् एतेन प्रत्यभिमृशत्य् आयुर् एवास्मै तत् प्रतिरते
आप्यायस्व सं ते पयांसीति द्वाभ्यां चमसान् आप्याययन्त्य् अभिरूपाभ्याम्
यद् यज्ञे ऽभिरूपं तत् समृद्धम् ॥ ६ ॥
2.3.7
प्राणा वा ऋतुयाजास्
तद् यद् ऋतुयाजैश् चरन्ति प्राणान् एव तद् यजमाने दधति
षड् ऋतुनेति यजन्ति
प्राणम् एव तद् यजमाने दधति
चत्वार ऋतुभिर् इति यजन्ति
अपानम् एव तद् यजमाने दधति
द्विर् ऋतुनेत्य् उपरिष्टात्
व्यानम् एव तद् यजमाने दधति
स चासु संभृतस् त्रेधा विहृतः प्राणो ऽपानो व्यान इति [एद्. ऽपाणो]
ततो ऽन्यत्र गुणितस्
तथा ह यजमानः सर्वम् आयुर् एत्य् अस्मिंल् लोक आर्ध्नोति
आप्नोत्य् अमृतत्वम् अक्षितं स्वर्गे लोके
ते वा एते प्राणा एव यद् ऋतुयाजास्
तस्माद् अनवानं ततो यजन्ति [एद्. अनवानन्तो, चोर्र्. ড়त्यल्]
प्राणानां सन्तत्यै
सन्तन्ता इव हीमे प्राणाः
अथो ऋतवो वा ऋतुयाजाः
संस्थानुवषट्कारः [एद्. अनुवषट्कुआरो]
यो ऽत्रानुवषट्कुर्याद् असंस्थितान् ऋतून् संस्थापयेत्
यस् तं तत्र ब्रूयाद् असंस्थितान् ऋतून् समतिष्ठिपद् दुःषमं भविष्यतीति शश्वत् तथा स्यात् ॥ ७ ॥
2.3.8
तद् आहुर् यद् धोता यक्षद् धोता यक्षद् इति मैत्रावरुणो होत्रे प्रेष्यत्य् अथ कस्माद् अहोतृभ्यः सद्भ्यो होत्राशंसिभ्यो होता यक्षद् धोता यक्षद् इति प्रेष्यतीति
वाग् वै होता वाक् सर्व ऋत्विजः
वाग् यक्षद् वाग् यक्षद् इति
अथो सर्वे वा एते सप्त होतारो ऽपि वा ऋचाभ्युदितं सप्त होतार ऋतुथा यजन्तीति
अथ य उपरिष्टाद् द्वादशर्चजामितायै
ते वै द्वादश भवन्ति
द्वादश वै मासाः संवत्सरः [एद्. द्वदश, चोर्र्. ড়त्यल्]
संवत्सरः प्रजापतिः
प्रजापतिर् यज्ञः
स यो ऽत्र भक्षयेद् यस् तं तत्र ब्रूयाद् अशान्तो भक्षो ऽननुवषट्कृत आत्मानम् अन्तरगान् न जीविष्यतीति तथा ह स्यात् [एद्. ऽनानुवषट्कृत, चोर्र्. ড়त्यल्]
यो वै भक्षयेत् प्राणो भक्षः प्राण आत्मानम् अन्तरगाद् इति तथैव भवति
लिम्पेद् इवैवावजिघ्रेद् अत्र च द्विदेवत्येषु चेति
तद् उ तत्र शासनं वेदयन्ते
अथ यद् अभू व्यभिचरतो नान्योन्यम् अनुप्रपद्येते अध्वर्यू तस्माद् ऋतुर् ऋतुं नानुप्रपद्यते ॥ ८ ॥
2.3.9
प्रजापतिर् वै यत् प्रजा असृजत ता वै तान्ता असृजत
ता हिंकारेणैवाभ्यजिघ्रत् [एद्. हिंकारेन, चोर्र्. ড়त्यल्]
ताः प्रजा अश्वम् आरंस् तद् बध्यते वा एतद् यज्ञो यद् धवींषि पच्यन्ते यत् सोमः सूयते यत् पशुर् आलभ्यते
हिंकारेण वा एतत् प्रजापतिर् हतम् अभिजिघ्रति यज्ञस्याहततायै यज्ञस्याप्त्यै यज्ञस्य वीर्यवत्ताया इति
तस्माद् उ हिंक्रियते
तस्माद् उ य एव पिता पुत्राणां सूर्क्षति स श्रेष्ठो भवति
प्रजापतिर् हि तम् अभिजिघ्रति
यच् छकुनिर् आण्डम् अध्यास्ते यन् न सूयते तद् धि सापि हिंकृणोति
अथो खल्व् आहुर् महर्षिर् वा एतद् यज्ञस्याग्रे गेयम् अपश्यत्
तद् एतद् यज्ञस्याग्रे गेयं यद् धिंकारस्
तं देवाश् च ऋषयश् चाब्रुवन् वसिष्ठो ऽयम् अस्तु यो नो यज्ञस्याग्रे गेयम् अद्राग् इति
तद् एतद् यज्ञस्याग्रे गेयं यद् धिंकारस्
ततो वै स देवानां श्रेष्ठो ऽभवत्
येन वै श्रेष्ठस् तेन वसिष्ठस्
तस्माद् यस्मिन् वासिष्ठो ब्राह्मणः स्यात् तं दक्षिणाया नान्तरीयात् [एद्. स्यांत्]
तथा हास्य प्रीतो हिंकारो भवति
अथ देवाश् च ह वा ऋषयश् च यद् ऋक्सामे अपश्यंस् ते ह स्मैते अपश्यन्
ते यत्रैते अपश्यंस् तत एवैनं सर्वं दोहम् अदुहन्
ते वा एते दुग्धे यातयामे ये ऋक्सामे
ते हिंकारेणैवाप्यायेते
हिंकारेण वा ऋक्सामे आपीने यजमानाय दोहं दुहाते
तस्माद् उ हिंकृत्याध्वर्यवः सोमम् अभिषुण्वन्ति
हिंकृत्योद्गातारः साम्ना स्तुवन्ति
हिंकृत्योक्थश ऋचार्त्विज्यं कुर्वन्ति
हिंकृत्याथर्वाणो ब्रह्मत्वं कुर्वन्ति
तस्माद् उ हिंक्रियते
प्रजापतिर् हि तम् अभिजिघ्रति
अथो खल्व् आहुर् एको वै प्रजापतेर् व्रतं बिभर्ति गौर् एव
तद् उभये पशव उपजीवन्ति ये च ग्राम्या ये चारण्या इति ॥ ९ ॥
2.3.10
देवविशः कल्पयितव्या इत्य् आहुः
छन्दश् छन्दसि प्रतिष्ठाप्यम् इति
शंसावोम् इत्य् आह्वयते प्रातःसवने त्र्यक्षरेण
शंसावो दैवेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरेण
तद् अष्टाक्षरं संपद्यते
अष्टाक्षरा वै गायत्री
गायत्रीम् एवैतत् पुरस्तात् प्रातःसवने ऽचीकॢपताम्
उक्थं वाचीत्य् आह शस्त्वा चतुरक्षरम्
ओमुक्थशा इत्य् अध्वर्युः प्रतिगृणाति चतुरक्षरम्
तद् अष्टाक्षरं संपद्यते
अष्टाक्षरा वै गायत्री
गायत्रीम् एवैतद् उभयतः प्रातःसवने ऽचीकॢपताम्
अध्वर्यो शंसावोम् इत्य् आह्वयते माध्यंदिने षडक्षरेण
शंसावो दैवेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरेण
तद् एकादशाक्षरं संपद्यते
एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुभम् एवैतत् पुरस्तान् माध्यंदिने ऽचीकॢपताम्
उक्थं वाचीन्द्रायेत्य् आह शस्त्वा षडक्षरम्
ओमुक्थशा यजेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरम्
तद् एकादशाक्षरं संपद्यते
एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुभम् एवैतद् उभयतो माध्यंदिने ऽचीकॢपताम्
अध्वर्यो शंशंसावोम् इत्य् आह्वयते तृतीयसवने सप्ताक्षरेण
शंसवो दैवेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरम्
तद् द्वादशाक्षरं संपद्यते
द्वादशाक्षरा वै जगती
जगतीम् एवैतत् पुरस्तात् तृतीयसवने ऽचीकॢपताम्
उक्थं वाचीन्द्राय देवेभ्य इत्य् आह शस्त्वा नवाक्षरम्
ओमुक्थशा इत्य् अध्वर्युः प्रतिगृणाति त्र्यक्षरम्
तद् द्वादशाक्षरं संपद्यते
द्वादशाक्षरा वै जगती
जगतीम् एवैतद् उभयतस् तृतीयसवने ऽचीकॢपताम् इति
एतद् वै तच् छन्दश् छन्दसि प्रतिष्ठापयति
कल्पयत्य् एव देवविशो य एवं वेद
तद् अप्य् एषाभ्यनूक्ता यद् गायत्रे अधि गायत्रम् आहितम् इति ॥ १० ॥
2.3.11
अथैतन् नाना छन्दांस्य् अन्तरेण गर्ता इव
अथैते स्थविष्ठे बलिष्ठे नान्तरे देवते
ताभ्यां प्रतिपद्यते
तद् गर्तस्कन्दं रोहस्य रूपं स्वर्ग्यम्
तद् अनवानं संक्रामेत्
अमृतं वै प्रणवः
अमृतेनैव तन् मृत्युं तरति
तद् यथा मत्येन वा वंशेन वा गर्तं संक्रामेद् एवं तत् प्रणवेनोपसंतनोति
ब्रह्म ह वै प्रणवः
ब्रह्मणैवास्मै तद् ब्रह्मोपसंतनोति
शुद्धः प्रणवः स्यात् प्रजाकामानाम्
मकारान्तः प्रतिष्ठाकामानाम्
मकारान्तः प्रणवः स्याद् इति हैक आहुः
शुद्ध इति त्व् एव स्थितः
मीमांसितः प्रणवः
अथात इह शुद्ध इह पूर्ण इति
शुद्धः प्रणवः स्यात्
शस्त्रानुवचनयोर् मध्य इति ह स्माह कौषीतकिस्
तथा संहितं भवति
मकारान्तो ऽवसानार्थे
प्रतिष्ठा वा अवसानम्
प्रतिष्ठित्या एव
अथोभयोः कामयोर् आप्त्यै
एतौ वै छन्दःप्रवाहाव् अवरं छन्दः परं छन्दो ऽतिप्रवहतस्
तस्यायुर् न हिनस्ति
छन्दसां छन्दो ऽतिप्रोढं स्यात् तत्रैव यं द्विष्यात् तं मनसा प्रैव विध्येत्
छन्दसां कृन्तत्रे द्रवति वा सं वा शीर्यत इति
ब्त्रिः प्रथमां त्रिर् उत्तमाम् अन्वाह यज्ञस्यैव तद् बर्हिसो नह्यति
च्स्थेम्ने बलायाविस्रंसाय
द्यद्य् अपि छन्दः प्रातःसवने युज्येतार्धर्चश एव तस्य शंस्यं गायत्र्या रूपेण
अथो प्रातःसवनरूपेणेति
न त्रिष्टुब्जगत्याव् एतस्मिन् स्थाने ऽर्धर्चशस्ये यत् किं चिच् छन्दः प्रातःसवने युज्येतां पच्छ एवैनयोः शस्यम् इति सा स्थितिः ॥ ११ ॥
2.3.12
अथात एकाहस्य प्रातःसवनम्
प्रजापतिं ह वै यज्ञं तन्वानं बहिष्पवमान एव मृत्युर् मृत्युपाशेन प्रत्युपाक्रामत
स आग्नेय्या गायत्र्याज्यं प्रत्यपद्यत
मृत्युर् वाव तं पश्यन् प्रजापतिं पर्यक्रामत्
तं सामाज्येष्ठसीदत्
स वायव्या प्र"उगं प्रत्यपद्यत
मृत्युर् वाव तं पश्यन् प्रजापतिं पर्यक्रामत्
तं माध्यंदिने पवमाने ऽसीदत्
स ऐन्द्र्या त्रिष्टुभा मरुत्वतीयं प्रत्यपद्यत
मृत्युर् वाव तं पश्यन् प्रजापतिं पर्यक्रामत्
स तेनैव द्रविणे पूर्वो निष्केवल्यस्य स्तोत्रियम् आसीदत्
तम् अस्तृणोत्
तस्माद् उ य एव पूर्वम् आसीदति स तत् स्तृणुते विद्वान्
मृत्युर् अनवकाशम् अपाद्रवद् अशंसद् इतरो निष्केवल्यम्
तस्माद् एकम् एवोक्थं होता मरुत्वतीयेन प्रतिपद्यते निष्केवल्यम् एव
अत्र हि प्रजापतिं मृत्युर् व्यजहात् ॥ १२ ॥
2.3.13
मित्रावरुणाव् अब्रवीद् युवं न इमं यज्ञस्याङ्गम् अनुसमाहरतं मैत्रावरुणीयाम्
तथेत्य् अब्रूताम्
तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्
तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरतां मैत्रावरुणीयाम्
तस्मान् मैत्रावरुणः प्रातःसवने मैत्रावरुणानि शंसति
तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम्
यद् व् एव मैत्रावरुणानि शंसति <प्रति वां सूर उदिते विधेम नमोभिर् मित्रावरुणोत हव्यैः [ऋ.वे. ७.६३.५]><उत वाम् उषसो बुधि साकं सूर्यस्य रश्मिभिः [ऋ.वे. १.१३७.२]>इत्य् ऋचाभ्यनूक्तम्
<आ नो मित्रावरुणा [ऋ.वे. ३.६२.१६]><आ नो गन्तं रिशादसा [ऋ.वे. ५.७१.१]>इति मैत्रावरुणस्य स्तोत्रियानुरूपौ
<प्र वो मित्राय गायत [ऋ.वे. ५.६८.१]>इत्य् उक्थमुखम्
<प्र मित्रयोर् वरुणयोः [ऋ.वे. ७.६६.१]>इति पर्यासः
<आ यातं मित्रावरुणा [ऋ.वे. ७.६६.१९]>इति यजति
एते एव तद् देवते यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
प्रत्य् एवाभिमृशन्ते
नाप्याययन्ति
न ह्य् अनाराशंसाः सीदन्ति ॥ १३ ॥
2.3.14
इन्द्रम् अब्रवीत् त्वं न इमं यज्ञस्याङ्गम् अनुसमाहर ब्राह्मणाच्छंसीयाम्
केन सहेति
सूर्येनेति
तथेत्य् अब्रूताम्
तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्
तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरतां ब्राह्मणाच्छंसीयाम्
तस्माद् ब्राह्मणाच्छंसी प्रातःसवन ऐन्द्राणि सूर्यन्यङ्गानि शंसति
तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम्
यद् व् एवैन्द्राणि सूर्यन्यङ्गानि शंसति<इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस् तव हि पूर्वपीतिः [ऋ.वे. १०.११२.१]>इत्य् ऋचाभ्यनूक्तम्
<आ याहि सुषुमा हि ते [ऋ.वे. ८.१७.१, Vऐत्ष् २१.१]><आ नो याहि सुतावतः [ऋ.वे. ८.१७.४, Vऐत्ष् २१.१]>इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ
<अयम् उ त्वा विचर्षणे [ऋ.वे. ८.१७.७, Vऐत्ष् २१.२]>इत्य् उक्थमुखम्
<उद् घेद् अभिश्रुतामघम् [ऋ.वे. ८.९३.१, Vऐत्ष् २१.२]> इति पर्यासः
<इन्द्र क्रतुविदम् [ऋ.वे. ३.४०.२]> इति यजति
एते एव तद् देवते यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
प्रत्य् एवाभिमृशन्ते
नाप्याययन्ति
न ह्य् अनाराशंसाः सीदन्ति ॥ १४ ॥
2.3.15
इन्द्राग्नी अब्रवीद् युवं न इमं यज्ञस्याङ्गम् अनुसमाहरतम् अच्छावाकीयाम्
तथेत्य् अब्रूताम्
तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्
तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम् अच्छावाकीयाम्
तस्माद् अच्छावाकः प्रातःसवन ऐन्द्राग्नानि शंसति
तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम्
यद् व् एवैन्द्राग्नानि शंसति <प्रातर्यावभिर् आ गतं देवेभिर् जेन्यावसू इन्द्राग्नी सोमपीतये [ऋ.वे. ८.३८.७]>इत्य् ऋचाभ्यनूक्तम्
<इन्द्राग्नी आ गतम् [ऋ.वे. ३.१२.१]><तोशा वृत्रहणा हुवे [ऋ.वे. ३.१२.४]>इत्य् अच्छावाकस्य स्तोत्रियानुरूपौ [एद्. तोषा, चोर्रेच्तेद् प्. ३०२]
<इन्द्राग्नी अपसस् परि [ऋ.वे. ३.१२.७]>इत्य् उक्थमुखम्
<इहेन्द्राग्नी उपह्वये [ऋ.वे. १.२१.१]>इति पर्यासः
<इन्द्राग्नी आ गतम्> इति यजति
एते एव तद् देवते यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
प्रत्य् एवाभिमृशन्ते
नाप्याययन्ति
न ह्य् अनाराशंसाः सीदन्ति ॥ १५ ॥
2.3.16
अथ शंसावोम् इति स्तोत्रियायानुरूपायोक्थमुखाय परिधानीयाया इति चतुश्चतुर् आह्वयन्ते
चतस्रो वै दिशः [एद्. चसस्रो]
दिक्षु तत् प्रतितिष्ठन्ति
अथो चतुष्पादः पशवः
पशूनाम् आप्त्यै
अथो चतुष्पर्वाणो हि प्रातःसवने होत्रकास्
तस्माच् चतुः सर्वे गायत्राणि शंसन्ति
गायत्रं हि प्रातःसवनम्
सर्वे समवतीभिः परिदधति
तद् यत् समवतीभिः परिदधति
अन्तो वै पर्यासः
अन्त उदर्कः
अन्तेनैवान्तं परिदधति
सर्वे मद्वतीभिर् यजन्ति
तद् यन् मद्वतीभिर् यजन्ति सर्वे सुतवतीभिः पीतवतीभिर् अभिरूपाभिर् यजन्ति
यद् यज्ञे ऽभिरूपं तत् समृद्धम्
सर्वे ऽनुवषट्कुर्वन्ति
स्विष्टकृत्वानुवषट्कारः
नेत् स्विष्टकृतम् अन्तरयामेति
अयं वै लोकः प्रातःसवनम्
तस्य पञ्च दिशः पञ्चोक्थानि प्रातःसवनस्य
स एतैः पञ्चभिर् उक्थैर् एताः पञ्च दिश आप्नोत्य् एताः पञ्च दिश आप्नोति ॥ १६ ॥
2.3.17
घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति
यज्ञं वा एतद् धन्ति यद् दक्षिणा नीयन्ते
यज्ञं वा एतद् दक्षयन्ति
तद् दक्षिणानां दक्षिणात्वम्
स्वर्गो वै लोको माध्यंदिनं सवनम्
यन् माध्यंदिने सवने दक्षिणा नीयन्ते स्वर्गस्य लोकस्य समष्ट्यै
बहु देयम्
सेतुं वा एतद् यजमानः संस्कुरुते
स्वर्गस्य लोकस्याक्रान्त्यै प्रजाक्रान्त्यै
द्वाभ्यां गार्हपत्ये जुहोति
अध्वर्युर् अस्याक्रान्तेनाक्रामयति
आग्नेय्याग्नीध्रीये
अन्तरिक्षं तेन
यन् माध्यंदिने सवने दक्षिणा नीयन्ते स्वर्ग एतेन लोके
हिरण्यं हस्ते भवति
अथ नयति
सत्यं वै हिरण्यम्
सत्येनैवैनं तन् नयति
अग्रेण गार्हपत्यं जघनेन सदो ऽन्तराग्नीध्रीयं च सदश् च
ता उदीचीर् अन्तराग्नीध्रीयं च सदश् च चात्वालं चोत्सृजन्ति
एतेन ह स्म वा अङ्गिरसः स्वर्गं लोकम् आयन्
ता वा एताः पन्थानम् अभिवहन्ति ॥ १७ ॥
2.3.18
अग्नीधे ऽग्रे ददाति
यज्ञमुखं वा अग्नीत्
यज्ञमुखेनैव तद् यज्ञमुखं समर्धयति
ब्रह्मणे ददाति
प्राजापत्यो वै ब्रह्मा
प्रजापतिम् एव तया प्रीणाति
ऋत्विग्भ्यो ददाति
होत्रा एव तया प्रीणाति
सदस्येभ्यो ददाति
सोमपीथं तया निष्क्रीणीते
न हि तस्मा अर्हति सोमपीथं तया निष्क्रीणीयात्
यां श्रुश्रुवुष आर्षेयाय ददाति देवलोके तयार्ध्नोति
याम् अश्रुश्रुवुषे ऽनार्षेयाय ददाति मनुष्यलोके तयार्ध्नोति
याम् अप्रसृप्ताय ददाति वनस्पतस् तया प्रथन्ते
यां याचमानाय ददाति भ्रातृव्यं तया जिन्वीते
यां भीषा क्षत्रं तया ब्रह्मातीयात्
यां प्रतिनुदन्ते सा व्याघ्री दक्षिणा
यस् तां पुनः प्रतिगृह्णीयाद् व्याघ्र्य् एनं भूत्वा प्रव्लीनीयात्
अन्यया सह प्रतिगृह्णीयात्
अथ हैनं न प्रव्लीनाति ॥ १८ ॥
2.3.19
यद् गां ददाति वैश्वदेवी वै गौः
विश्वेषाम् एव तद् देवानां तेन प्रियं धामोपैति
यद् अजं ददात्य् आग्नेयो वा अजः
अग्नेर् एव तेन प्रियं धामोपैति
यद् अविं ददात्य् आव्यं तेनावजयति
यत् कृतान्नं ददाति मांसं तेन निष्क्रीणीते
यद् अनो वा रथो वा ददाति शरीरं तेन
यद् वासो ददाति ब्रृहस्पतिं तेन
यद् धिरण्यं ददात्य् आयुस् तेन वर्षीयः कुरुते
यद् अश्वं ददाति सौर्यो वा अश्वः
सूर्यस्यैव तेन प्रियं धामोपैति
अन्ततः प्रतिहर्त्रे देयम्
रौद्रौ वै प्रतिहर्ता
रुद्रम् एव तन् निरवजयति
यन् मध्यतः प्रतिहर्त्रे दद्यान् मध्यतो रुद्रम् अन्ववयजेत्
स्वर्भानुर् वा आसुरः सूर्यं तमसाविध्यत्
तद् अत्रिर् अपनुनोद
तद् अत्रिर् अन्वपश्यत्
यद् आत्रेयाय हिरण्यं ददाति तम एव तेनापहते
अथो ज्योतिर् उपरिष्टाद् धारयति
स्वर्गस्य लोकस्य समष्ट्यै ॥ १९ ॥
2.3.20
अथात एकाहस्यैव माध्यंदिनम्
ऋक् च वा इदम् अग्ने साम चास्तां
सैव नामर्ग् आसीत्
अमो नाम साम
सा वा ऋक्सामोपावदन् मिथुनं संभवाव प्रजात्या इति
नेत्य् अब्रवीत् साम
ज्यायान् वा अतो मम महिमेति
ते द्वे भूत्वोपावदताम्
ते न प्रति चन समवदत
तास् तिस्रो भूत्वोपावदन्
यत् तिस्रो भूत्वोपावदंस् तत् तिसृभिः समभवत्
यत् तिसृभिः समभवत् तस्मात् तिसृभिः स्तुवन्ति
तिसृभिर् उद्गायन्ति
तिसृभिर् हि साम संमितं भवति
तस्माद् एकस्य बह्व्यो जाया भवन्ति
न हैकस्या बहवः सह पतयः
यद् वै तत् सा चामश् च समवदतां तत् सामाभवत्
तत् साम्नः सामत्वम्
सामन् भवति
श्रेष्ठतां गच्छति
यो वै भवति स सामन् भवति
असामन्य इति ह निन्दन्ते
ते वै पञ्चान्यद् भूत्वा पञ्चान्यद् भूत्वाकल्पेताम् आहावश् च हिंकारश् च प्रस्तावश् च प्रथमा चर्ग् उद्गीथश् च मध्यमा च प्रतीहारश् चोत्तमा च निधनं च वषट्कारश् च ते यत् पञ्चान्यद् भूत्वा पञ्चान्यद् भूत्वाकल्पेतां तस्माद् आहुः पाङ्क्तो यज्ञः
पाङ्क्ताः पशव इति
यद् उ विराजं दशिनीम् अभिसंपद्येतां तस्माद् आहुर् विराजि यज्ञो दशिन्यां प्रतिष्ठित इति
यद् उ बृहत्या प्रतिपद्यते बार्हतो वा एष य एष तपति
तद् एनं स्वेन रूपेण समर्धयति [एद्. रुपेण]
द्वे तिस्रः करोति पुनरादायम्
प्रजात्यै रूपम्
द्वाव् इवाग्रे भवतस्
तत उपप्रजायेते ॥ २० ॥
2.3.21
आत्मा वै स्तोत्रियः
प्रजा अनुरूपः
पत्नी धाय्या
पशवः प्रगाथः
गृहाः सूक्तम्
यद् अन्तरात्मंस् तन् निवित्
प्रतिष्ठा परिधानीयान्नं याज्या
सो ऽस्मिंश् च लोके भवत्य् अमुष्मिंश् च प्रजया च पशुभिश् च गृहेषु भवति य एवं वेद ॥ २१ ॥
2.3.22
स्तोत्रियं शंसति
आत्मा वै स्तोत्रियः
स मध्यमया वाचा शंस्तव्यः
आत्मानम् एवास्य तत् कल्पयत्य् अनुरूपं शंसति
प्रजा वा अनुरूपः
तस्मात् प्रतिरूपम् अनुरूपं कुर्वन्ति
प्रतिरूपो हैवास्य प्रजायाम् आजायते नाप्रतिरूपः
तस्मात् प्रतिरूपम् अनुरूपं कुर्वन्ति
स उच्चैस्तराम् इव शंस्तव्यः
प्रजाम् एवास्य तच् छ्रेयसीं करोति
धाय्यां शंसति
पत्नी वै धाय्या
सा नीचैस्तराम् इव शंस्तव्या
अप्रतिवादिनी हैवास्य गृहेषु पत्नी भवति यत्रैवंविद्वान् नीचैस्तरां धाय्यां शंसति
प्रगाथं शंसति
पशवो वै प्रगाथः
सः स्वरवत्या वाचा शंस्तव्यः
पशवो वै प्रगाथः
पशवः स्वरः
पशूनाम् आप्त्यै
सूक्तं शंसति
गृहा वै सूक्तम्
प्रतिवीतम्
तत् प्रतिवीततमया वाचा शंस्तव्यम्
स यद्य् अपि ह दूरात् पशूंल् लभते गृहान् एवैनान् आजिगमिषति
गृहा हि पशूनां प्रतिष्ठा
निविदं शंसति
यद् अन्तरात्मंस् तन् निवित्
तद् एवास्य तत् कल्पयति
परिधानीयां शंसति
प्रतिष्ठा वै परिधानीया
प्रतिष्ठायाम् एवैनं ततः प्रतिष्ठापयति
याज्यया यजति
अन्नं वै याज्या
अन्नाद्यम् एवास्य तत् कल्पयति
ज्मूलं वा एतद् यज्ञस्य यद् धाय्याश् च याज्याश् च
क्तद् यद् अन्या अन्या धाय्याश् च याज्याश् च कुर्युर् उन्मूलम् एव तद् यज्ञं कुर्युस् तस्मात् ताः समान्य एव स्युः ॥ २२ ॥
2.3.23
तद् आहुः किंदेवत्यो यज्ञ इति
ऐन्द्र इति ब्रूयात्
ऐन्द्रे वाव यज्ञे सति यथाभागम् अन्या देवता अन्वायंस् ताः प्रातःसवने मरुत्वतीये तृतीयसवने च
अथ हैतत् केवलम् एवेन्द्रस्य यद् ऊर्ध्वं मरुत्वतीयात्
तस्मात् सर्वे निष्केवल्यानि शंसन्ति
यद् एव निष्केवल्यानि तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एव निष्केवल्यान्य् एकं ह वा अग्रे सवनम् आसीत् प्रातःसवनम् एव
अथ हैतं प्रजापतिर् इन्द्राय ज्येष्ठाय पुत्रायैतत् सवनं निरमिमीत यन् माध्यंदिनं सवनम्
तस्मान् माध्यंदिने सवने सर्वे निष्केवल्यानि शंसन्ति
यद् एव निष्केवल्यानि तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एव निष्केवल्यानि या ह वै देवताः प्रातःसवने होता शंसति ताः शस्त्वा होत्राशंसिनो ऽनुशंसन्ति मैत्रावरुणं तृचं प्रउगे होता शंसति
तद् उभयं मैत्रावरुणं मैत्रावरुणो ऽनुशंसति
ऐन्द्रं तृचं प्रउगे होता शंसति
तद् उभयम् ऐन्द्रम्
ऐन्द्रं ब्राह्मणाच्छंस्य् अनुशंसति
ऐन्द्राग्नं तृचं प्रउगे होता शंसति
तद् उभयम् ऐन्द्राग्नाग्नम् अच्छावाको ऽनुशंसति
अथ हैतत् केवलम् एवेन्द्रस्य यद् ऊर्ध्वं मरुत्वतीयात्
तस्मात् सर्वे निष्केवल्यानि शंसन्ति
यद् एव निष्केवल्यानि तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एव निष्केवल्यानि <यदेद् अदेवीर् असहिष्ट माया अथाभवत् केवलः सोमो अस्य [ऋ.वे. ७.९८.५, अ.वे.(शौ.) २०.८७.५]>इत्य् ऋचाभ्यनूक्तम्
देवान् ह यज्ञं तन्वानान् असुररक्षांस्य् अजिघांसन्
ते ऽब्रुवन् वामदेवं त्वं न इमं यज्ञं दक्षिणतो गोपायेति
मध्यतो वसिष्ठम्
उत्तरतो भरद्वाजम्
सर्वान् अनु विश्वामित्रम्
तस्मान् मैत्रावरुणो वामदेवान् न प्रच्यवते वसिष्ठाद् ब्राह्मणाच्छंसी भरद्वाजाअ अच्छावाकः सर्वे विश्वामित्रात्
एत एवास्मै तदृषयो ऽहरहर् नमगा अप्रमत्ता यज्ञं रक्षन्ति य एवं वेद य एवं वेद ॥ २३ ॥

इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे तृतीयः प्रपाठकः ॥
2.4.1
ओं <कया नश् चित्र आ भुवत् [ऋ.वे. ४.३१.१, अ.वे.(शौ.) २०.१२४.१]> <कया त्वं न ऊत्या [ऋ.वे. ८.९३.१९]>इति मैत्रावरुणस्य स्तोत्रियानुरूपौ
<कस् तम् इन्द्र त्वावसुम् [ऋ.वे. ७.३२.१४]> इति बार्हतः प्रगाथस्
तस्योपरिष्टाद् ब्राह्मणम्
<सद्यो ह जातो वृषभः कनीनः [ऋ.वे. ३.४८.१]>इत्य् उक्थमुखम्
<एवा त्वाम् इन्द्र वज्रिन्न् अत्र [ऋ.वे. ४.१९.१]>इति पर्यासः
<उशन्नु षु णः सुमना उपाके [ऋ.वे. ४.२०.४]>इति यजति
एताम् एव तद् देवतां यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
प्रत्य् एवाभिमृशन्ते [एद्. सेएम्स् तो गिवे एवाभिमृशन्त]
नाप्याययन्ति
न ह्य् अनाराशंसाः सीदन्ति ॥ १ ॥
2.4.2
<तं वो दस्मम् ऋतीषहं [ऋ.वे. ८.८८.१, अ.वे.(शौ.) २०.९.१]> <तत् त्वा यामि सुवीर्यम् [ऋ.वे. ८.३.९, अ.वे.(शौ.) २०.९.४]> इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ
<उद् उ त्ये मधुमत्तमा गिरः [ऋ.वे. ८.३.१५, अ.वे.(शौ.) २०.५९.१]>इति बार्हतः प्रगाथः
पशवो वै प्रगाथः
पशवः स्वरः
पशूनाम् आप्त्यै
अतो मध्यं वै सर्वेषां छन्दसां बृहती
मध्यं माध्यंदिनं सवनानाम्
तन् मध्येनैव मध्यं समर्धयति
<इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैः [ऋ.वे. ३.३४.१, अ.वे.(शौ.) २०.११.१]>इत्य् उक्थमुखम्
<उद् उ ब्रह्माण्य् ऐरत श्रवस्या [ऋ.वे. ७.२३.१, अ.वे.(शौ.) २०.१२.१]>इति पर्यासः
<एवेद् इन्द्रं वृषणं वज्रबाहुम् [ऋ.वे. ७.२३.६अ, अ.वे.(शौ.) २०.१२.६अ]> इति परिदधाति
<वसिष्ठासो अभ्य् अर्चन्त्य् अर्कैः [ऋ.वे. ७.२६.६ब्, अ.वे.(शौ.) २०.१२.६ब्]>इति
अन्नं वा अर्कः
अन्नाद्यम् एवास्मै तत् परिदधाति
<स न स्तुतो वीरवद् धातु गोमत् [ऋ.वे. ७.२६.६च्, अ.वे.(शौ.) २०.१२.६च्]>इति
अन्नं वा अर्कःइति
प्रजां चैवास्मै तत् पशूंश् चाशास्ते
<यूयं पात स्वस्तिभिः सदा नः [ऋ.वे. ७.२६.६द्, अ.वे.(शौ.) २०.१२.६द्]>इति स्वस्तिमती रूपसमृद्धा
एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्धं यत् कर्म क्रियमाणम् ऋग्यजुर्वाभिवदति
स्वस्ति तस्य यज्ञस्य पारम् अश्नुते य एवं वेद यश् चैवंविद्वान् ब्राह्मणाच्छंस्य् एतया परिदधाति
<ऋजीषी वज्री वृषभस् तुराषाट् [ऋ.वे. ५.४०.४, अ.वे.(शौ.) २०.१२.७]>इति यजति [एद्. ऋजिषी, चोर्रेच्तेद् प्. ३०२]
एताम् एव तद् देवतां यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
प्रत्य् एवाभिमृशन्ते
नाप्याययन्ति
न ह्य् अनाराशंसाः सीदन्ति ॥ २ ॥
2.4.3
<तरोभिर् वो विदद्वसुम् [ऋ.वे. ८.६६.१]><तरणिर् इत् सिषासति [ऋ.वे. ७.३२.२०]>इत्य् अच्छावाकस्य स्तोत्रियानुरूपौ
<उद् इन् न्व् अस्य रिच्यते [ऋ.वे. ७.३२.१२, अ.वे.(शौ.) २०.५९.३]>इति बार्हतः प्रगाथस्
तस्योक्तं ब्राह्मणम्
<भूय इद् वावृधे वीर्याय [ऋ.वे. ६.३०.१]>इत्य् उक्थमुखम्
<इमाम् ऊ षु प्रभृतिं सातये धाः [ऋ.वे. ३.३६.१]>इति पर्यासस्
तस्य दशमीम् उद्धरति
घोरस्य वा आङ्गिरसस्यैतद् आर्षं नेद् यज्ञं निर्दहेच् छस्यमानम्
<पिबा वर्धस्व तव घा सुतासः [ऋ.वे. ३.३६.३]>इति यजति
एताम् एव तद् देवतां यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
प्रत्य् एवाभिमृशन्ते
नाप्याययन्ति
न ह्य् अनाराशंसाः सीदन्ति ॥ ३ ॥
2.4.4
अथाध्वर्यो शंसावोम् इति स्तोत्रियायानुरूपाय प्रगाथायोक्थमुखाय परिधानीयाया इति पञ्च कृत्व आह्वयन्ते
पञ्चपदा पङ्क्तिः
पाङ्क्तो यज्ञः
सर्व ऐन्द्राणि त्रैष्टुभानि शंसन्ति
ऐन्द्रं हि त्रैष्टुभं माध्यंदिनं सवनम्
सर्वे समवतीभिः परिदधति
तद् यत् समवतीभिः परिदधत्य् अन्तो वै पर्यासो ऽन्त उदर्कः
अन्तेनैवान्तं परिदधति
सर्वे मद्वतीभिर् यजन्ति
तद् यन् मद्वतीभिर् यजन्ति सर्वे सुतवतीभिः पीतवतीभिर् अभिरूपाभिर् यजन्ति
यद् यज्ञे ऽभिरूपं तत् समृद्धम्
सर्वे ऽनुवषट्कुर्वन्ति
स्विष्टकृत्वानुवषट्कारः
नेत् स्विकृत अन्तरयामेति
अन्तरिक्षलोको माध्यंदिनं सवनम्
तस्य पञ्च दिशः
पञ्चोक्थानि माध्यंदिनस्य सवनस्य
स एतैः पञ्चभिर् उक्थैर् एताः पञ्च दिश आप्नोत्य् एताः पञ्च दिश आप्नोति ॥ ४ ॥
2.4.5
अथ यदौपासनं तृतीयसवन उपास्यन्ते पितॄन् एव तेन प्रीणाति
उपांशु पात्नीवतस्याग्नीध्रो यजति
रेतो वै पात्नीवतः
उपांश्व् इव वै रेतः सिच्यते
तन् नानुवषट्करोति नेद् रेतः सिक्तं संस्थापयानीति
असंस्थितम् इव वै रेतः सिक्तं समृद्धम्
संस्था वा एषा यद् अनुवषट्कारस्
तस्मान् नानुवषट्करोति
नेष्टुर् उपस्थे धिष्ण्यान्ते वासीनो भक्षयति
पत्नीभाजनं वै नेष्टा
अग्नीत् पत्नीषु रेतो धत्ते
रेतसः सिक्ताः प्रजाः प्रजायन्ते
प्रजानां प्रजननाय
प्रजावान् प्रजनयिष्णुर् भवति
प्रजात्यै
प्रजायते प्रजया पशुभिर् य एवं वेद ॥ ५ ॥
2.4.6
अथ शाकलाञ् जुह्वति
तद् यथाहिर् जीर्णायास् त्वचो निर्मुच्येतेषीका वा मुञ्जाद् एवं हैवैते सर्वस्मात् पाप्मनः संप्रमुच्यन्ते ये शाकलाञ् जुह्वति
द्रोणकलशे धाना भवन्ति
तासां हस्तैर् आदधति
पशवो वै धानास्
ता आहवनीयस्य भस्मान्ते निवपन्ति
योनिर् वै पशूनाम् आहपनीयः
स्व एवैनांस् तद् गोष्ठे निरपक्रमे निदधति
अथ सव्यावृतो ऽप्सु सोमान् आप्याययन्ति
तान् हान्तर्वेद्यां सादयन्ति
तद् धि सोमस्यायतनम्
चात्वालाद् अपरेणाध्वर्युश् चमसान् अद्भिः पूरयित्वोदीचः प्राणिधाय हरितानि तृणानि व्यवदधाति
यदा वा आपश् चौषधयश् च संगच्छन्ते ऽथ कृत्स्नः सोमः संपद्यते
ता वैष्णव्य् अर्चा निनयन्ति
यज्ञो वै विष्णुः
यज्ञ एवैनम् अन्ततः प्रतिष्ठापयति
अथ यद्भक्षः प्रतिनिधिं कुर्वन्ति मानुषेनैवैनं तद् भक्षेण दैवं भक्षम् अन्तर्दधति ॥ ६ ॥
2.4.7
पूतिर् वा एषो ऽमुष्मिंल् लोके ऽध्वर्युं च यजमानं चाभिवहति
तद् यद् एनं दध्नानभिहुत्यावभृथम् उपहरेयुर् यथा कुणपं वात्य् एवम् एवैनं तत् करोति
अथ यद् एनं दध्नाभिहुत्यावभृथम् उपहरन्ति सर्वम् एवैनं सयोनिं संतनुते
समृद्धिं संभरन्ति
<अभूद् देवः सविता वन्द्यो नु नः [ऋ.वे. ४.५४.१]>इति जुहोति
सर्वम् एवैनं सपर्वाणं संभरति [एद्. अवैनं]
तिसृभिस्
त्रिवृद् धि यज्ञः
द्रप्सवतीभिर् अभिजुहोति
सर्वम् एवैनं सर्वाङ्गं संभरति
सौमीभिर् अभिजुहोति
सर्वम् एवैनं सात्मानं संभरति
पञ्चभिर् अभिजुहोति
पाङ्क्तो यज्ञः
यज्ञम् एवावरुन्द्धे
पाङ्क्तः पुरुषः
पुरुषम् एवाप्नोति
पाङ्क्ताः पशवः
पशुष्व् एव प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद ॥ ७ ॥
2.4.8
अग्निर् वाव यम इयं यमी
कुसीदं वा एतद् यमस्य यजमान आदत्ते यद् ओषधीभिर् वेदिं स्तृणाति
तां यद् अनुपोष्य प्रयायाद् यातयेरन्न् एनम् अमुष्मिंल् लोके
यमे यत् कुसीदम् <अपमित्यम् अप्रतीत्तम् [ড়्ष् १६.४९.१०, अ.वे.(शौ.) ६.११७.१, Vऐत्ष् २४.१५]> इति वेदिम् उपोषति
इहैव सन्यमं कुसीदं निरवदायानृणो भूत्वा स्वर्गं लोकम् एति
<विश्वलोप विश्वदावस्य त्वासञ् जुहोमि [तै.सं. ३.३.८.२, Vऐत्ष् २४.१६]>इत्य् आह होताद्वा
यजमानस्यापराभावाय
यद् उ मिश्रम् इव चरन्त्य् अञ्जलिना सक्तून् प्रदाव्ये जुहुयात्
एष ह वा अग्निर् वैश्वानरो यत् प्रदाव्यः
स्वस्याम् एवैनं तद् योन्यां सादयति ॥ ८ ॥
2.4.9
अह्नां विधान्याम् एकाष्टकायाम् अपूपं चतुःशरावं पक्त्वा प्रातरेतेन कक्षम् उपोषेत्
यदि दहति पुण्यसमं भवति
यति न दहति पापसमं भवति
एतेन ह स्म वा अङ्गिरसः पुरा विज्ञानेन दीर्घसत्त्त्रम् उपयन्ति
यो ह वा उपद्रष्टारम् उपश्रोतारम् अनुख्यातारम् एव विद्वान् यजते सम् अमुष्मिंल् लोक इष्टापूर्तेन गच्छते
अग्निर् वा उपद्रष्टा
वायुर् वा उपश्रोता
आदित्यो वा अनुख्याता
तान् य एवंविद्वान् यजते सम् अमुष्मिंल् लोक इष्टापूर्तेन गच्छते
<अयं नो नभसस् पतिः [ড়्ष् १९.१६.१७, अ.वे.(शौ.) ६.७९.१, च्f. तै.सं. ३.३.८.५]>इत्य् आह
अग्निर् वै नभसस् पतिः
अग्निम् एव तद् आहैतं नो गोपायेति
<स त्वं नो नभसस् पतिः [च्f. तै.सं. ३.३.८.६]>इत्य् आह
वायुर् वै नभसस् पतिः
वायुम् एव तद् आहैतं नो गोपायेति
<देव संस्फान [तै.सं. ३.३.८.६]>इत्य् आह
आदित्यो वै देवः संस्फानः
आदित्यम् एव तद् आहैतं नो गोपायेति
<अयं ते योनिः [ড়्ष् ३.३४.१, अ.वे.(शौ.) ३.२०.१]>इत्य् अरण्योर् अग्निं समारोपयेत्
तद् आहुर् यद् अरण्योः समारूढो नश्येद् उद् अस्याग्निः सीदेत्
पुनराधेयः स्याद् इति
या ते अग्ने यज्ञिया तनूस् तया मे ह्य् आरोह तया मे ह्य् आविश
अयं ते योनिर् इत्य् आत्मन्न् अग्नीन् समारोपयेत्
एष ह वा अग्नेर् योनिः
स्वस्याम् एवैनं तद् योन्यां सादयति ॥ ९ ॥
2.4.10
यो ह वा अग्निष्टोमं साह्नं वेदाग्निष्टोमस्य साह्नस्य सायुज्यं सलोकताम् अश्नुते य एवं वेद
यो ह वा एष तपत्य् एषो ऽग्निष्टोम एष साह्नस्
तं सहैवाह्ना संस्थापयेयुः
साह्नो वै नामैषः
तेनासंत्वरमाणाश् चरेयुः
यद् ध वा इदं पूर्वयोः सवनयोर् असंत्वरमाणाश् चरन्ति तस्माद् धेदं प्राच्यो ग्रामता बहुलाविष्टाः
अथ यद् धेदं तृतीयसवने संत्वरमाणाश् चरन्ति तस्माद् धेदं प्रत्यञ्चि दीर्घारण्यानि भवन्ति
यथैव प्रातःसवन एवं माध्यंदिने सवन एवं तृतीयसवने
एवम् उ ह यजमानो ऽप्रमायुको भवति
तेनासंत्वरमाणाश् चरेयुः
यदा वा एष प्रातर् उदेत्य् अथ मन्द्रतमं तपति
तस्मान् मन्द्रतमया वाचा प्रातःसवने शंसेत्
अथ यदाभ्येत्य् अथ बलीयस् तपति
तस्माद् बलीयस्या वाचा माध्यंदिने सवने शंसेत्
अथो यदाभितराम् एत्य् अथो बलिष्ठतमं तपति
तस्माद् बलिष्ठतमया वाचा तृतीयसवने शंसेत्
एवं शंसेद् यदि वाच ईशीत
वाग् घि शस्त्रम्
यया तु वचोत्तरिण्योत्तरिण्योत्सहेत समापनाय तया प्रतिपद्येत
एतत् सुशस्ततरम् इव भवति
स वा एष न कदा चनास्तम् अयति नोदयति
तद् यद् एनं पश्चाद् अस्तम् अयतीति मन्यन्ते ऽह्न एव तद् अन्तं गत्वाथात्मानं विपर्यस्यते
अहर् एवाधस्तात् कृणुते रात्रीं परस्तात्
स वा एष न कदा चनास्तम् अयति नोदयति
तद् यद् एनं पुरस्ताद् उदयतीति मन्यते रात्रेर् एव तद् अन्तं गत्वाथात्मानं विपर्यस्यते
रात्रिम् एवाधस्तात् कृणुते ऽहः परस्तात्
स वा एष न कदा चनास्तम् अयति नोदयति
न ह वै कदा चन निम्रुचति
एतस्य ह सायुज्यं सलोकताम् अश्नुते य एवं वेद ॥ १० ॥
2.4.11
अथात एकाहस्यैव तृतीयसवनम्
देवासुरा वा एषु लोकेषु समयतन्त
ते देवा असुरान् अभ्यजयम्
ते जिता अहोरात्रयोः संधिं समभ्यवागुः
स हेन्द्र उवाचेमे वा असुरा अहोरात्रयोः संधिं समभ्यवागुः
कश् चाहं चेमान् असुरान् अभ्युत्थास्यामहा इति
अहं चेत्य् अग्निर् अब्रवीत्
अहं चेति वरुणः
अहं चेति बृहस्पतिः
अहं चेति विष्णुस्
तान् अभ्युत्थायाहोरात्रयोः संधेर् निर्जघ्नुः
यद् अभ्युत्थायाहोरात्रयोः संधेर् निर्जघ्नुस् तस्माद् उत्था
अभ्युत्थाय ह वै द्विषन्तं भ्रातृव्यं निर्हन्ति य एवं वेद
सो ऽग्निर् अश्वो भूत्वा प्रथमः प्रजिगाय
यद् अग्निर् अश्वो भूत्वा प्रथमः प्रजिगाअय तस्माद् आग्नेयीभिर् उक्थानि प्रणयन्ति
यद् अग्निर् अश्वो भूत्वा प्रथमः प्रजिगाय तस्मात् साकम् अश्वम्
यत् पञ्च देवता अभ्युत्तस्थुस् तस्मात् पञ्च देवता उक्थे शस्यन्ते
या वाक् सो ऽग्निः
यः प्राणः स वरुणः
यन् मनः स इन्द्रः
यच् चक्षुः स बृहस्पतिः
यच् छ्रोत्रं स विष्णुः
एते ह वा एतान् पञ्चभिः प्राणैः समीर्योदस्थापयन् [एद्. समीर्युदस्थापयन्, चोर्र्. ড়त्यल्]
तस्माद् उ एवैताः पञ्च देवता उक्थे शस्यन्ते ॥ ११ ॥
2.4.12
प्रजापतिर् ह्य् एतेभ्यः पञ्चभ्यः प्राणेभ्यो ऽन्यान् देवान् ससृजे
यद् उ चेदं किं च पाङ्क्तम्
तत् सृष्ट्वा व्याज्वलयत्
ते होचुर् देवा म्लानो ऽयं पिता मयोभूः [एद्. पितामयो ऽभूः, चोर्र्. ড়त्यल्]
पुनर् इमं समीर्योत्थापयामेति
स ह सत्त्वम् आख्यायाभ्युपतिष्ठते
यदि ह वा अपि निर्णिक्तस्यैव कुलस्य संध्युक्षेण यजते सत्त्वं हैवाख्यायाभ्युपतिष्टते
यो वै प्रजापतिः स यज्ञः
स एतैर् एव पञ्चभिः प्राणैः समीर्योत्थापितः
ये ह वा एनं पञ्चभिः प्राणैः समीर्योत्थापयन्
ता उ एवैताः पञ्च देवता उक्थे शस्यन्ते ॥ १२ ॥
2.4.13
तद् आहुर् यद् द्वयोर् देवतयो स्तुवत इन्द्राग्न्योर् इत्य् अथ कस्माद् भूयिष्ठा देवता उक्थे शस्यन्त इति [एद्. भूयिष्ठो, चोर्र्. ড়त्यल्]
अन्तो वा आग्निमारुतम् अन्तर् उक्थान्य् अन्त आश्विनम्
कनीयसीषु देवतासु स्तुवते तिष्ठेति
अथ कस्माद् भूयिष्ठो देवता उक्थे शस्यन्त इति
द्वे द्वे उक्थमुखे भवतस् तद् यद् द्वे द्वे ॥ १३ ॥
2.4.14
अथ यद् ऐन्द्रावारुणं मैत्रावरुस्योक्थं भवत्य् ऐन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवत्य् ऐन्द्रावैष्णावम् अच्छावाकस्योक्थं भवति द्वे संशस्यंस्त ऐन्द्रं च वारुणं चैकम् ऐन्द्रावारुणं भवति
द्वे संशस्यंस्त ऐन्द्रं च बार्हस्पत्यं चैकम् ऐन्द्राबार्हस्पत्यं भवति
द्वे संशस्यंस्त ऐन्द्रं च वैष्णवं चैकम् ऐन्द्रावैष्णवं भवति
द्वे द्वे उक्थमुखे भवतस्
तद् यद् द्वे द्वे ॥ १४ ॥
2.4.15
अथ यद् ऐन्द्रावरुणं मैत्रावरुणस्योक्थं भवति<इन्द्रावरुणा सुतपाव् इमं सुतं सोमं पिबतं मद्यं धृतव्रतौ [अ.वे.(शौ.) ७.५८.१, ऋ.वे. ६.६८.१०]>इत्य् ऋचाभ्यनूक्तम्
मद्वद् धि तृतीयसवनम्
<एह्य् ऊ षु ब्रवाणि ते [ऋ.वे. ६.१६.१६]><आग्निर् अगामि भारतः [ऋ.वे. ६.१६.१९]>इति मैत्रावरुणस्य स्तोत्रियानुरूपौ
<चर्षणीधृतं मघवानम् उक्थ्यम् [ऋ.वे. ३.५१.१]> इत्य् उक्थमुखम्
तस्योपरिष्टाद् ब्राह्मणम्
<अस्तभ्नाद् द्याम् असुरो विश्ववेदाः [ऋ.वे. ८.४२.१]>इति वारुणं सांशंसिकम् [एद्. अस्तभ्नाद्याम्, चोर्रेच्तेद् प्. ३०२]
अहं चेति वरुणो ऽब्रवीत्
देवतयोः संशंसायान् अतिशंसाय
<इन्द्रावरुणा युवम् अध्वराय नः [ऋ.वे. ७.८२.१]>इति पर्यास ऐन्द्रावरुणे
ऐन्द्रावरुणम् अस्यैतन् नित्यम् उक्थम्
तद् एतत् स्वस्मिन्न् आयतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति
द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त
विजित्या एव
अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै
सैकपादिनी भवति
एकपादिन्या होता परिदधाति
यत्र होतुर् होत्रकाणां युञ्जन्ति तत् समृद्धम्
तद् वै खल्व् <आ वां राजानाव् अध्वरे ववृत्याम् [ऋ.वे. ७.८४.१]> इति [एद्. आवां, चोर्रेच्तेद् प्. ३०३]
एवम् एव केवलपर्यासं कुर्यात् केवलसूक्तम्
केवलसूक्तम् एवोत्तरयोर् भवति
<इन्द्रावरुणा मधुमत्तमस्य [ড়्ष् २०.७.६, अ.वे.(शौ.) ७.५८.२, ऋ.वे. ६.६८.११]>इति यजति
एते एव तद् देवते यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
प्रत्य् एवाभिमृशन्ते
नाप्याययन्ति न ह्य् अनाराशंसाः सीदन्ति ॥ १५ ॥
2.4.16
अथ यद् ऐन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवति<इन्द्रश् च सोमं पिबतं बृहस्पते ऽस्मिन् यज्ञे मन्दसाना वृषण्वसू [ऋ.वे. ४.५०.१०]> इत्य् ऋचाभ्यनूक्तम्
मद्वद् धि तृतीयसवनम्
<वयम् उ त्वाम् अपूर्व्य [ऋ.वे. ८.२१.१, अ.वे.(शौ.) २०.१४.१/२०.६२.१]> <यो न इदमिदं पुरा [ऋ.वे. ८.२१.९, अ.वे.(शौ.) २०.१४.३/२०.६२.३, Vऐत्ष् २५.३]>इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ
<प्र मंहिष्ठाय बृहते बृहद्रये [ऋ.वे. १.५७.१, अ.वे.(शौ.) २०.१५.१]>इत्य् उक्थमुखम्
ऐन्द्राजागतम्
जागताः पशवः
पशूनाम् आप्त्यै
जागतम् उ वै तृतीयसवनम्
तृतीयसवनस्य रूपम्
<उदप्रुतो न वयो रक्षमाणाः [ऋ.वे. १०.६८.१, अ.वे.(शौ.) २०.१६.१]>इति बार्हस्पत्यं सांशंसिकम्
अहं चेति बृहस्पतिर् अब्रवीत्
देवतयोः संशंसायनतिशंसाय
<अच्छा म इन्द्रं मतयः स्वर्विदः [ऋ.वे. १०.४३.१, अ.वे.(शौ.) २०.१७.१]>इति पर्यास ऐन्द्राबार्हस्पत्यः
ऐन्द्राबार्हस्पत्यम् अस्यैतन् नित्यम् उक्थम्
तद् एतत् स्वस्मिन्न् आयतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति
द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त
विजित्या एव
अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै
<बृहस्पतिर् नः परि पातु पश्चात् [ऋ.वे. १०.४२/४३/४४.११अ, ড়्ष् १५.११.१/१६.८.११अ, अ.वे.(शौ.) ७.५१.१/२०.१७.११/२०.८९.११/२०.९४.११अ]>इत्य् ऐन्द्राबार्हस्पत्या परिदधाति
इन्द्राबृहस्पत्योर् एव यज्ञं प्रतिष्ठापयति
<उतोत्तरस्माद् अधराद् अघायोर् इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु [ऋ.वे. १०.४२/४३/४४.११ब्च्द्, ড়्ष् १५.११.१/१६.८.११ब्च्द्, अ.वे.(शौ.) ७.५१.१/२०.१७.११/२०.८९.११/२०.९४.११ब्च्द्]>इति
सर्वाभ्य एव दिग्भ्य आशिषम् आशास्ते नार्त्वी
यं कामं कामयते सो ऽस्मै कामः समृध्यते य एवं वेद यश् चैवंविद्वान् ब्राह्मणाच्छंस्य् एतया परिदधाति [एद्. एतस्या, चोर्र्. ড়त्यल्॑ एद्. ब्राह्मणाच्छंय्]
<बृहस्पते युवम् इन्द्रश् च वस्वः [ऋ.वे. ७.९७.१०]>इति यजति
एते एव तद् देवते यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
प्रत्य् एवाभिमृशन्ते
नाप्याययन्ति
न ह्य् अनाराशंसाः सीदन्ति ॥ १६ ॥
2.4.17
अथ यद् ऐन्द्रावैष्णवम् अच्छावाकस्योक्थं भवति<इन्द्राविष्णू मदपती मदानाम् आ सोमं यातं द्रविणो दधाना [ऋ.वे. ६.६९.३]>इत्य् ऋचाभ्यनूक्तम् [एद्. अच्छावाकस्योक्तं]
मद्वद् धि तृतीयसवनम्
<अधा हीन्द्र गिर्वणः [ऋ.वे. ८.९८.७]><इयं त इन्द्र गिर्वणः [ऋ.वे. ८.१३.४]>इत्य् अच्छावाकस्य स्तोत्रियानुरूपौ
<ऋतुर् जनित्री तस्या अपस् परि [ऋ.वे. २.१३.१]>इत्य् उक्थमुखम्
तस्योक्तं ब्राह्मणम्
<नू मर्तो दयते सनिष्यन् [ऋ.वे. ७.१००.१]>इति वैष्णवं सांशंसिकम् [एद्. सांशंसिकंम्]
अहं चेति विष्णुर् अब्रवीत्
देवतयोः संशंसायानतिशंसाय
<सं वां कर्मणा सम् इषा हिनोमि [ऋ.वे. ६.६९.१]>इति पर्यास ऐन्द्रावैष्णवः
ऐन्द्रावैष्णवम् अस्यैतन् नित्यम् उक्थम् [एद्. उखं]
तद् एतत् स्वस्मिन्न् आयतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति
द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त
विजित्या एव
अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै
<उभा जिग्यथुर् न परा जयेथे [ऋ.वे. ६.६९.८, ড়्ष् २०.१६.३, अ.वे.(शौ.) ७.४४.१]> इत्य् ऐन्द्रावैष्णव्यर्चा परिदधाति
इन्द्राविष्णोर् एव यज्ञं प्रतिष्ठापयति
<इन्द्राविष्णू पिबतं मध्वो अस्य [ऋ.वे. ६.६९.७]>इति यजति
एते एव तद् देवते यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
प्रत्य् एवाभिमृशन्ते
नाप्याययन्ति
न ह्य् अनाराशंसाः सीदन्ति ॥ १७ ॥
2.4.18
अथाध्वर्यो शंशंसावोम् इति स्तोत्रियायानुरूपायोक्थमुखाय परिधानीयाया इति चतुश्चतुराह्वयन्ते
चतस्रो वै दिशः
दिक्षु तत् प्रतितिष्ठन्ते
अथो चतुष्पादः पशवः
पशूनाम् आप्त्यै
अथो चतुष्पर्वाणो हि तृतीयसवने होत्रकास्
तस्माच् चतुः
सर्वे त्रैष्टुभं जागतानि शंसन्ति
जागतं हि तृतीयसवनम्
अथ हैतत् त्रैष्टुभानि
अप्रतिभूतम् इव हि प्रातःसवने मरुत्वतीये तृतीयसवने च होत्रकाणां शस्त्रम्
धीतरसं वा एतत् सवनं यत् तृतीयसवनम्
अथ हैतद् अधीतरसं शुक्रियं छन्दो यत् त्रिष्टुब् अयातयाम
सवनस्यैव तत् सरसतायै
सर्वे समवतीभिः परिदधति
तद् यत् समवतीभिः परिदधत्य् अन्तो वै पर्यासो ऽन्त उदर्को ऽन्तः सजाया उ ह वा अवैनाय
अन्तेनैवान्तं परिदधति
सर्वे मद्वतीभिर् यजन्ति
तद् यन् मद्वतीभिर्यजन्ति सर्वे सुतवतीभिः पीतवतीभिर् अभिरूपाभिर् यजन्ति
यद् यज्ञे ऽभिरूपं तत् समृद्धम्
सर्वे ऽनुवषट्कुर्वन्ति
स्विष्टकृत्वानुवषट्कारः
नेत् स्विष्टकृत अन्तरयामेति
असौ वै लोकस् तृतीयसवनम्
तस्य पञ्च दिशः
पञ्चोक्थानि तृतीयसवनस्य
स एतैः पञ्चभिर् उक्थैर् एताः पञ्च दिश आप्नोति
ब्तद् यद् एषां लोकानां रूपं या मात्रा तेन रूपेण तया मात्रयेमांल् लोकान् ऋध्नोतीमांल् लोकान् ऋध्नोतीति ॥ १८ ॥
2.4.19
तद् आहुः किं षोडशिनः षोडशित्वम्
षोडश स्तोत्राणि षोडश शस्त्राणि षोडशभिर् अक्षरैर् आदत्ते
द्वे वा अक्षरे अतिरिच्येते षोडशिनो ऽनुष्टुभम् अभिसंपन्नस्य
वाचो वा एतौ स्तनौ
सत्यानृते वाव ते
अवत्य् एनं सत्यं नैनम् अनृतं हिनस्ति य एवं वेद य एवं वेद ॥ १९ ॥ [एद्. वेद य एवं वेइ]

ल्इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे चतुर्थः प्रपाठकः ॥

2.5.1
ओम् अहर् वै देवा आश्रयन्त रात्रीम् असुरास्
ते समावद्वीर्या एवासन्
नो व्यावर्तन्त
सो ऽब्रवीद् इन्द्रः कश् चाहं चेमान् असुरान् रात्रीम् अन्वैष्यावहा इति [एद्. अन्वैष्यामह, चोर्र्. ড়त्यल्]
स देवेषु न प्रत्यविन्दत्
अबिभयू रात्रेस्तमसो मृत्योस्
तम इव हि रात्रिः
मृत्युर् वै तमस्
तस्माद् धाप्य् एतर्हि भूयान् इव नक्तं स यावन् मात्रम् इवापक्रम्य बिभेति
तं वै छन्दांस्य् एवान्ववायन्
तद् यच् छन्दांस्य् एवान्ववायंस् तस्माद् इन्द्रश् च छन्दांसि च रात्रिं वहन्ति
न निविच् छस्यते न पुरोरुङ् न धाय्या नान्या देवता
इन्द्रश् च ह्य् एव छन्दांसि च रात्रिं वहन्ति
तान् वै पर्यायैः पर्यायम् अनुदन्त
यत् पर्यायैः पर्यायम् अनुदन्त तस्मात् पर्यायास्
तत् पर्यायाणां पर्यायत्वम्
तान् वै प्रथमैर् एव पर्यायैः पूर्वरात्राद् अनुदन्त मध्यमैर् मध्यरात्राद् उत्तमैर् अपररात्रात्
अपिशर्वर्या अपिस्मसीत्य् अब्रुवन्
तद् यद् अपिशर्वर्या अपिस्मसीत्य् अब्रुवंस् तद् अपिशर्वराणाम् अपिशर्वरत्वम्
शर्वराणि खलु ह वा अस्यैतानि छन्दांसीति ह स्माह
एतानि ह वा इन्द्रं रात्र्यास् तमसो मृत्योर् अभिपत्यावारयन्
तद् अपिशर्वराणाम् अपिशर्वरत्वम् ॥ १ ॥
2.5.2
प्रथमेषु पर्यायेषु स्तुवते प्रथमान्य् एव पदानि पुनर् आददते
यद् एवैषां मनोरथा आसंस् तद् एवैषां तेनाददते
मध्यमेषु पर्यायेषु स्तुवते मध्यमान्य् एव पदानि पुनर् आददते
यद् एवैषाम् अश्वा गाव आसंस् तद् एवैषां तेनाददते
उत्तमेषु पर्यायेषु स्तुवत उत्तमान्य् एव पदानि पुनर् आददते
यद् एवैषां वासो हिरण्यं मणिर् अध्यात्मम् आसीत् तद् एवैषां तेनाददते
आ द्विषतो वसु दत्ते निर् एवैनम् एभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद ॥ २ ॥
2.5.3
पवमानवद् अहर् इत्य् आहुर् न रात्रिः पवमानवती
कथम् उभे पवमानवती भवतः
केन ते समावद्भाजौ भवत इति
यद् एवेन्द्राय मद्वने सुतम् इदं वसो सुतम् अन्ध इदं ह्य् अन्वोजसा सुतम् इति स्तुवन्ति च शंसन्ति च तेन रात्रिः पवमानवती
तेनोभे पवमानवती भवतस्
तेन ते समावद्भाजौ भवतः
पञ्चदशस्तोत्रम् अहर् इत्य् आहुर् न रात्रिः पञ्चदशस्तोत्रा
कथम् उभे पञ्चदशस्तोत्रे भवतः
केन ते समावद्भाजौ भवत इति
द्वादश स्तोत्राण्य् अपिशर्वराणि
तिसृभिर् देवताभिः संधिना राथंतरेणाश्विनाय स्तुवते
तेन रात्रिः पञ्चदशस्तोत्रा
तेनोभे पञ्चदशस्तोत्रे भवतस्
तेन ते समावद्भाजौ भवतः
परिमितं स्तुवन्त्य् अपरिमितमनुशंसन्ति
परिमितं भूतम् अपरिमितं भव्यम्
अपरिमितान्य् एवावरुन्ध्याद् इत्य् अतिशंसति स्तोमम्
अति वै प्रजास्यात्मानम् अति पशवस्
तद् यद् एवास्यात्यात्मानं तद् एवास्यैतेनाप्याययन्ति
अथो द्वयं वा इदं सर्वं स्नेहश् चैव तेजश् च
अथ तद् अहोरात्राभ्याम् आप्तम्
स्नेहतेजसोर् आप्त्यै
गायत्रान् स्तोत्रियानुरूपाञ् छंसन्ति
तेजो वै गायत्री
तमः पाप्मा रात्रिस्
तेन तेजसा तमः पाप्मानं तरन्ति
पुनरादायं शंसन्ति
एवं हि सामगा स्तुवते
यथा स्तुतम् अनुशस्तं भवति
न हि तत् स्तुतं यन् नानुशस्तम्
तद् आहुर् अथ कस्माद् उत्तमात् प्रतीहाराद् आहूय साम्ना शस्त्रम् उपसंतन्वन्तीति ॥ ३ ॥
2.5.4
पुरुषो वै यज्ञस्
तस्य शिर एव हविर्धानम्
मुखम् आहवनीयः
उदरं सदः
अन्नम् उक्थानि
बाहू मार्जालीयश् चाग्नीध्रीयश् च
या इमा देवतास् ते ऽन्तःसदसं धिष्ण्याः
प्रतिष्ठे गार्हपत्यव्रतश्रपणाव् इत्य् अथापरम्
तस्य मन एव ब्रह्मा
प्राण उद्गाता
अपानः प्रस्तोता
व्यानः प्रतिहर्ता
वाग् घोता
चक्षुर् अध्वर्युः
प्रजाति सदस्यः
अङ्गानि होत्राशंसिनः
आत्मा यजमानस्
तद् यद् अध्वर्युः स्तोत्रम् उपाकरोति सोमः पवत इति चक्षुर् एव तत् प्राणैः संदधाति
अथ यत् प्रस्तोता ब्रह्माणम् आमन्त्रयते ब्रह्मन्त् स्तोष्यामः प्रशास्तर् इति मनो ऽग्रणीर् भवति
एतेषां प्राणानां मनसा हि प्रसूता स्तोमेन स्तुयामेति
प्राणान् एव तन् मनसा संदधाति
अथ यद् ब्रह्मा स्तुतेत्य् उच्चैर् अनुजानाति मनो वै ब्रह्मा
मन एव तत् प्राणैः संदधाति
अथ यत् प्रस्तोता प्रस्तौत्य् अपानम् एव तत् प्राणैः संदधाति
अथ यत् प्रतिहर्ता प्रतिहरति व्यानम् एव तद् अपानैः संदधाति
अथ यद् उद्गातोद्गायति समानम् एव तत् प्राणैः संदधाति
अथ यद् धोता साम्ना शस्त्रम् उपसंतनोति वाग् वै होता वाचम् एव तत् प्राणैः संदधाति
अथ यत् सदस्यो ब्रह्माणम् उपासीदति प्रजातिर् वै सदस्यः प्रजातिम् एवाप्नोति
अथ यद् धोत्राशंसिनः सामसंततिं कुर्वन्त्य् अङ्गानि वै होत्राशंसिनो ऽङ्गान्य् एवास्य तत् प्राणैः संदधाति
अथ यद् यजमानः स्तोत्रम् उपासीदत्य् आत्मा वै यजमान आत्मानम् एवास्य तत् कल्पयति
तस्मान् नैनं बहिर्वेद्यभ्याश्रावयेत्
नाभ्युदियात्
नाभ्यस्तमियात्
नाधिष्ण्ये प्रतपेत्
नेत् प्राणेभ्य आत्मानम् अन्तरगाद् इति ॥ ४ ॥
2.5.5
प्रथमेषु पर्यायेषु स्तुवते प्रथमेषु पदेषु निनर्दयन्ति प्रथमरात्राद् एव तद् असुरान् निर्घ्नन्ति
मध्यमेषु पर्यायेषु स्तुवते मध्यमेषु पदेषु निनर्दयन्ति
मध्यमरात्राद् एव तद् असुरान् निर्घ्नन्ति
उत्तमेषु पर्यायेषु स्तुवत उत्तमेषु पदेषु निनर्दयन्ति
उत्तमरात्राद् एव तद् असुरान् निर्घ्नन्ति
तद् यथाभ्यागारं पुनःपुनः पाप्मानं निर्हरन्त्य् एवम् एवैतत् स्तोत्रियानुरूपाभ्याम् अहोरात्राभ्याम् एव तद् असुरान् निर्घ्नन्ति
गायत्रीं शंसन्ति तेजो वै ब्रह्मवर्चसं गायत्री
तेज एवास्मै तद् ब्रह्मवर्चसं यजमाने दधति
गायत्रीः शस्त्वा जगतीः शंसन्ति
ब्रह्म ह वै जगती
ब्रह्मणैवास्मै तद् ब्रह्मवर्चसं यजमाने दधति
व्याह्वयन्ते गायत्रीश् च जगतीश् चान्तरेण
छन्दांस्य् एव तन् नानावीर्याणि कुर्वन्ति
जगतीः शस्त्वा त्रिष्टुभः शंसन्ति
पशवो वै जगती
पशून् एव तत् त्रिष्टुब्भिः परिदधति
बलं वै वीर्यं त्रिष्टुप्
बलम् एव तद् वीर्ये ऽन्ततः प्रतिष्ठापयति
अन्धस्वत्यो मद्वत्यः सुतवत्यः पीतवत्यस् त्रिष्टुभो याज्याः समृद्धाः सुलक्षणाः
एतद् वै रात्रीरूपम्
जागृयाद् रात्रिम्
यावद् उ ह वै न वा स्तुवते न वा शस्यते तावद् ईश्वरा असुरा रक्षांसि च यज्ञम् अन्ववनयन्ति
तस्माद् आहवनीयं समिद्धम् आग्नीध्रीयं गार्हपत्यं धिष्ण्यान् समुज्ज्वलयतेति भाषेरन्
ज्वलयेरन्
प्रकाशम् इवैव तत् स्यात्
आरेभन्तः शयीरन्
तान् ह तः श्रेष्ठो वा इति पाप्मा नाभिवृक्णोति
ते तमः पाप्मानम् अपाघ्नते ते तमः पाप्मानमपाघ्नते ॥ ५ ॥
2.5.6
विश्वरूपं वै त्वाष्ट्रम् इन्द्रो ऽहन्
स त्वष्टा हतपुत्रो ऽभिचरणीयम् अपेन्द्रं सोमम् आहरत्
तस्येन्द्रो यज्ञवेशसं कृत्वा प्रासहा सोमम् अपिबत्
स विष्वङ् व्यार्छत्
तस्मात् सोमो नानुपहूतेन [न] पातव्यः
सोमपीथो ऽस्य व्यर्धुको भवति
तस्य मुखात् प्राणेभ्यः श्रीर् यशांस्य् ऊर्ध्वान्य् उदक्रामन् [एद्. प्रणेभ्यः, चोर्र्. ড়त्यल्]
तानि पशून् प्राविशन्
तस्मात् पशवो यशः
यशो ह भवति य एवं वेद
ततो ऽस्मा एतद् अश्विनौ च सरस्वती च यज्ञं समभरन्त् सौत्रामणिं भैषज्याय
तयेन्द्रम् अभ्यषिञ्चन्
ततो वै स देवानां श्रेष्ठो ऽभवत्
श्रेष्ठः स्वानां चान्येषां च भवति य एवं वेद यश् चैवंविद्वान्त् सौत्रामण्याभिषिच्यते ॥ ६ ॥
2.5.7
अथ साम गायति ब्रह्मा
क्षत्रं वै साम
क्षत्रेणैवैनं तद् अभिषिञ्चति
अथो साम्राज्यं वै साम
साम्राज्येनैवैनं तत् साम्राज्यं गमयति
अथो सर्वेषां वा एष वेदानां रसो यत् साम
सर्वेषाम् एव तद् वेदानां रसेनाभिषिञ्चति
बृहत्यां गायति
बृहत्यां वा असाव् आदित्यः श्रियां प्रतिष्ठायां प्रतिष्ठितस् तपति
ऐन्द्र्यां बृहत्यां गायति
ऐन्द्रो वा एष यज्ञक्रतुर् यत् सौत्रामणिः
इन्द्रायतन एष एतर्हि यो यजते
स्व एवैनं तद् आयतने प्रीणाति
अथ कस्मात् संशानानि नाम
एतैर् वै सामभिर् देवा इन्द्रम् इन्द्रियेण वीर्येण समश्यन्
तथैवैतद् यजमाना एतैर् एव सामभिर्
इन्द्रियेणैव वीर्येण संश्यन्ति [एद्. वीर्येन]
संश्रवसे विश्रवसे सत्यश्रवसे श्रवस इति सामानि भवन्ति
एष्व् एवैनं लोकेषु प्रतिष्ठापयति चतुर्निधनं भवति
चतस्रो वै दिशः
दिक्षु तत् प्रतितिष्ठन्ते
अथो चतुष्पादः पशवः
पशूनाम् आप्त्यै
तद् आहुर् यद् एतत् साम गीयते ऽथ क्वैतस्य साम्न उक्थं का प्रतिष्ठा
त्रया देवा एकादशेत्य् आहुः
एतद् वा एतस्य साम्न उक्थम् एषा प्रतिष्ठा
त्रयस्त्रिंशं ग्रहं गृह्णाति
साम्नः प्रतिष्ठायै प्रतिष्ठायै ॥ ७ ॥
2.5.8
प्रजापतिर् अकामयत वाजम् आप्नुयां स्वर्गं लोकम् इति
स एतं वाजपेयम् अपश्यत्
वाजपेयो वा एष य एष तपति
वाजम् एतेन यजमानः स्वर्गं लोकम् आप्नोति
शुक्रवत्यो ज्योतिष्मत्यः प्रातःसवने भवन्ति
तेजो ब्रह्मवर्चसं ताभिर् आप्नोति
वाजवत्यो माध्यंदिने सवने
स्वर्गस्य लोकस्य समष्ट्यै
अन्नवत्यो गणवत्यः पशुमत्यस् तृतीयसवने भवन्ति
भूमानं ताभिर् आप्नोति
सर्वः सप्तदशो भवति
प्रजापतिर् वै सप्तदशः
प्रजापतिम् एवाप्नोति
हिरण्यस्रज ऋत्विजो भवन्ति
महस एव तद् रूपं क्रियते
एष मे ऽमुष्मिंल् लोके प्रकाशो ऽसद् इति
ज्योतिर् वै हिरण्यम्
ज्योतिषैवैनम् अन्तर्दधति
आजिं धावन्ति
यजमानम् उज्जापयन्ति
नाकं रोहति समहसे रोहति विश्वमहसे रोहति सर्वमहसे रोहति
मनुष्यलोकाद् एवैनम् अन्तर्दधति
देवस्य सवितुः सवे स्वर्गं लोकं वर्षिष्ठं नाकं रोहेयम् इति ब्रह्मा रथचक्रं सर्पति
सवितृप्रसूत एवैनं तत् सर्पति
अथो प्रजापतिर् वै ब्रह्मा
प्रजापतिम् एवैनं वज्राद् अधिप्रसुवति
नाकस्योज्जित्यै
वाजिनां संतत्यै
वाजिसामाभिगायति
वाजिमान् भवति
वाजो वै स्वर्गं लोकः
स्वर्गम् एव तल् लोकं रोहति
विष्णोः शिपिविष्टवतीषु बृहद् उत्तमं भवति
स्वर्गम् एव तल् लोकं रूढ्वा ब्रध्नस्य विष्टपम् अतिक्रामत्य् अतिक्रामति ॥ ८ ॥
2.5.9
अथातो ऽप्तोर्यामा
प्रजापतिर् वै यत् प्रजा असृजत ता वै तान्ता असृजत
ताः सृष्टाः पराच्य एवासन्
नोपावर्तन्त
ता एकेन स्तोमेनोपागृह्णात्
ता अत्यरिच्यन्त
ता द्वाभ्याम्
ताः सर्वैस्
तस्मात् सर्वस्तोमस्
ता एकेन पृष्ठेनोपागृह्णात्
ता अत्यरिच्यनत
ता द्वाभ्याम्
ताः सर्वैस्
तस्मात् सर्वपृष्ठस्
ता अतिरिक्तोक्थे वारवन्तीयेनावारयन्
तस्माद् एषो ऽतिरिक्तोक्थवान् भवति
तस्माद् वारवन्तीयम्
ता यद् आप्त्वायच्छद् अतो वा अप्तोर्यामा
अथो प्रजा वा अप्तुर् इत्य् आहुः
प्रजानां यमन इति हैवैतद् उक्तं ता बर्हिः प्रजा अश्नायेरन् [एद्. प्रजाश्नायेरंस्, चोर्र्. ড়त्यल्]
तर्हि हैतैन यजते
स एषो ऽष्टापृष्ठो भवति
तद् यथान्यस्मिन् यज्ञे विश्वजितः पृष्ठम् अनु संचरं भवति कथम् एतद् एवम् अत्रेति
पितैष यज्ञानाम्
तद् यथा श्रेष्ठिनि संवश्रेयुर् अपि विद्विषाणा एवम् एवैतच् छ्रेष्ठिनो वशेयान्नम् अन्नस्यानुचर्याय क्षमन्ते ॥ ९ ॥
2.5.10
तद्यथैवादो ऽह्न उक्थानाम् आग्नेयं प्रथमं भवत्य् एवम् एवैतद् अत्राप्य् आग्नेयं प्रथमं भवति
ऐन्द्रे वाव तत्रोत्तरे [एद्. ऐद्रे]
ऐन्द्रे वा एते
ऐन्द्रावैष्णवम् अच्छावाकस्योक्थं भवति
चतुराहावान्य् अतिरिक्तोक्थानि भवन्ति
पशवो वा उक्थानि
चतुष्टया वै पशवः
अथो चतुष्पादः पशवः
पशूनाम् आप्त्यै
त एते स्तोत्रियानुरूपास् तृचा अर्धर्चशस्याः
प्रतिष्ठा वा अर्धर्चः
प्रतिष्ठित्या एव
अथैतेषाम् एवाश्विनानां सूक्तानां द्वे द्वे समाहावम् एकैकम् अहरहः शंसति
अश्विनौ वै देवानां भिषजौ
तस्माद् आश्विनानि सूक्तानि शंसति
तद् अश्विभ्यां प्रददुर् इदं भिषज्यतम् इति
क्षैत्रपत्याः परिधानीया भवन्ति
यत्र हतस् तत् प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता आसंस् ता दीना एताभिर् यथाक्षेत्रं पाययां चकार तर्पयां चकार [एद्. ह तस्तत्, चोर्र्. ড়त्यल्]
अथो इयं वै क्षेत्रं पृथिवी
अस्याम् अदीनायाम् अन्ततः प्रतिष्ठास्यामह इति
त्रिष्टुभो याज्या भवन्ति
यत्र हतस् तत् प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता बभूवुस् ता हैवैना एताभिर् यथौकसं व्यवसाययां चकार
तस्माद् एता याज्या भवन्ति तस्माद् एता याज्या भवन्ति ॥ १० ॥
2.5.11
अथातो ऽनैकाहिकम् [एद्. अथतो]
श्वस्तोत्रियम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने
अहीनम् एव तत् संतन्वन्ति
अहीनस्य संतत्यै
तद् यथा ह वा एकाहः सुत एवम् अहीनः सुतस्
तद् यथैकाहस्य सुतस्य सवनानि संतिष्ठमानानि यन्त्य् एवम् अहीनस्य सुतस्याहानि संतिष्ठमानानि यन्ति
तद् यच् छ्वस्तोत्रियम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने
अहर् एवं तद् अह्नो ऽनुरूपं कुर्वन्ति
अपरेणैव तद् अह्नापरम् अहर् अभ्यारभन्ते तत्
तथा न माध्यंदिने सवने
श्रीर् वै पृष्ठानि
तानि तस्मिन्न् एवावस्थितानि भवन्ति
एतेनैव विधिना तृतीयसवने
न श्वस्तोत्रियम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति ॥ ११ ॥
2.5.12
अथात आरम्भणीया एव
<ऋजुनीती नो वरुण> इति मैत्रावरुणस्य <मित्रो नयतु विद्वान् [ऋ.वे. १.९०.१]> इति
प्रणेता वा एष होत्रकाणां यन् मैत्रावरुणस्
तस्माद् एषा प्रणेतृमती भवति [एद्. प्रणेत्रिमती, चोर्र्. ড়त्यल्]
<इन्द्रं वो विश्वतस् परि [ऋ.वे. १.७.१०अ, अ.वे.(शौ.) २०.३९.१/२०.७०.१६अ]> इति ब्राह्मणाच्छंसिनः
<हवामहे जनेभ्यः [ऋ.वे. १.७.१०ब्, अ.वे.(शौ.) २०.३९.१/२०.७०.१६ब्]>इतीन्द्रम् एवैतयाहरहर् निर्ह्वयन्ते
न हैवैषां विहवे ऽन्य इन्द्रं वृङ्क्ते यत्रैवंविद्वान् ब्राह्मणाच्छंस्य् एताम् अहरहः शंसति
<यत् सोम आ सुते नरः [ऋ.वे. ७.९४.१०अ]>इत्य् अच्छावाकस्य
<इन्द्राग्नी अजोहवुः [ऋ.वे. ७.९४.१०ब्]>इतीन्द्राग्नी एवैतयाहरहर् निर्ह्वयन्ते
न हैवैषां विहवे ऽन्य इन्द्राग्नी वृङ्क्ते यत्रैवंविद्वान् अच्छावाक एताम् अहरहः शंसति
ता वा एताः स्वर्गस्य लोकस्य नावः संतारण्यः
स्वर्गम् एवैताभिर् लोकम् अनुसंतरन्ति ॥ १२ ॥
2.5.13
अथातः परिधानीया एव
<ते स्याम देव वरुण [ऋ.वे. ७.६६.९अ]>इति मैत्रावरुणस्य
<इषं स्वश् च धीमहि [ऋ.वे. ७.६६.९ब्]>इत्य् अयं वै लोक इषम् इत्य् असौ लोकः स्वर् इति
उभाव् एवैनौ तौ लोकाव् आरभते
<व्य् अन्तरिक्षम् अतिरत् [ऋ.वे. ८.१४.७अ, अ.वे.(शौ.) २०.२८.१अ, २०.३९.२अ]>इति ब्राह्मणाच्छंसिनः
विवत् तृचम्
स्वर्गम् एवैताभिर् लोकं विवृणोति
<मदे सोमस्य रोचनेन्द्रो यद् अभिनद् वलम् [ऋ.वे. ८.१४.७ब्च्, अ.वे.(शौ.) २०.२८.१ब्च्, २०.३९.२ब्च्]> इति
सिषासवो ह वा एते यद् दीक्षितास्
तस्माद् एषा वलवती भवति
<उद् गा आजद् अङ्गिरोभ्य आविष् कृण्वन् गुहा सतीः । अर्वाञ्चं नुनुदे वलम् [ऋ.वे. ८.१४.८, अ.वे.(शौ.) २०.२८.२, २०.३९.३]> इति [एद्. कृवन्, चोर्र्. ড়त्यल्]
सनिम् एतेभ्य एतयावरुन्द्धे
<इन्द्रेण रोचना दिवो दृढानि दृंहितानि च । स्थिराणि न पराणुदे [ऋ.वे. ८.१४.९, अ.वे.(शौ.) २०.२८.३, २०.३९.४]>इति
स्वर्गम् एवैतयाहरहर् लोकम् अवरुन्द्धे
<आहं सरस्वतीवतोः [ऋ.वे. ८.३८.१०अ]>इत्य् अच्छावाकस्य [एद्. स्वरस्वतीवतोर्, चोर्रेच्तेद् प्. ३०३]
<इन्द्राग्न्योर् अवो वृणे [ऋ.वे. ८.३८.१०ब्]>इति
एतद् ध वा इन्द्राग्न्योः प्रियं धामो यद् वाग् इति प्रियेणैवैनौ तद् धाम्ना समर्धयति
प्रियेणैव धाम्ना समृध्यते य एवं वेद ॥ १३ ॥
2.5.14
उभय्यो होत्रकाणां परिधानीया भवन्त्य् अहीनपरिधानयाश् चैकाहिनस्य
तत ऐकाहिकीभिर् एव मैत्रावरुणः परिदधाति
तेनास्माल् लोकान् न प्रच्यवते
आहिनीकीभिर् अच्छावाकः
स्वर्गस्य लोकस्याप्त्यै
उभयीभिर् ब्राह्मणाच्छंसी
एवम् असाव् उभौ व्यन्वारभमाण एतीमं च लोकम् अमुं च
अथो ऽहीनं चैकाहं चाथो संवत्सरं चाग्निष्टोमं चाथो मैत्रावरुणं चाच्छावाकं च
एवम् असाव् उभौ व्यन्वारभमाण एति
अथ तत ऐकाहिकीभिर् एव तृतीयसवने होत्रकाः परिदधति
तेनास्माल् लोकान् न प्रच्यवते
आहिनीकीभिर् अच्छावाकः
स्वर्गस्य लोकस्य समष्ट्यै
कामं तद् धोता शंसेद् यद् धोत्रकाः पूर्वेद्युः शंसेयुः
यद् वै होता तद् धोत्रकाः
प्राणो वै होताङ्गानि होत्रकाः
समानो वा अयं प्राणो ऽङ्गान्य् अनुसंचरति
तस्मात् तत् कामं होता शंसेद् यद् धोत्रकाः पूर्वेद्युः शंसेयुः
यद् वै होता तद् धोत्रकाः
आत्मा वै होताङ्गानि होत्रकाः
समाना वा इमे ऽङ्गानाम् अन्तास्
तस्मात् तत् कामं होता शंसेद् यद् धोत्रकाः पूर्वेद्युः शंसेयुः [एद्. पुर्वेद्युः]
यद् वै होता तद् धोत्रकाः
सूक्तान्तैर् होता परिदधाति
अथ समान्य एव होत्रकाणां परिधानीया भवन्ति ॥ १४ ॥
2.5.15
यः श्वस्तोत्रियस् तम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने
अहीनम् एव तत् संतन्वन्ति
अहीनस्य संतत्यै
त एते होत्रकाः प्रातःसवने षडहस्तोत्रियं शस्त्वा माध्यंदिने ऽहीनसूक्तानि शंसन्ति
<आ सत्यो यातु मघवां ऋजीषी [ऋ.वे. ४.१६.१, अ.वे.(शौ.) २०.७७.१]>इति सत्यवान् मैत्रावरुणः [एद्. सत्यवन्, चोर्र्. ড়त्यल्]
<अस्मा इद् उ प्र तवसे तुराय [ऋ.वे. १.१६.१, अ.वे.(शौ.) २०.३५.१]>इति ब्राह्मणाच्छंसी
<शासद् वह्निर् दुहितुर् नप्त्यं गात् [ऋ.वे. ३.३१.१]>इत्य् अच्छावाकस्
तद् आहुः कस्माद् अच्छावाको वह्निवद् एतत् सूक्तम् उभयत्र शंसति स पराक्षु चैवाहःस्वर्वाक्षु चेति
वीर्यवान् वा एष बह्वृचो यद् अच्छावाकः
वहति ह वै वह्निर् धुरो यासु युज्यते
तस्माद् अच्छावाको वह्निवद् एतत् सूक्तम् उभयत्र शंसति स पराक्षु चैवाहःस्वर्वाक्षु चेति
तानि पञ्चस्व् अहःसु शस्यन्ते चतुर्विंशे ऽभिजिति विषुवति विश्वजिति महाव्रते
तान्य् एतान्य् अहीनसूक्तानीत्य् आचक्षते
न ह्य् एषु किं चन हीयते
पराञ्चि ह वा एतान्य् अहान्य् अनभ्यावर्तीनि भवन्ति
तस्माद् एतान्य् एतेष्व् अहःसु शस्यन्ते
यद् एतानि शंसन्ति तत् स्वर्गस्य लोकस्य रूपम्
यद् वेवैतानि शंसन्तीन्द्रम् एवैतैर् निर्ह्वयन्ते यथर्षभं वाशितायै
ते वै देवाश् चर्षयश् चाब्रुवन्त् समानेन यज्ञं संतन्वामहा इति [एद्. चाब्रुवंत्]
तद् एतद् यज्ञस्य समानम् अपश्यन्
समानान् प्रगाथान्त् समानीः प्रतिपदः समानानि सूक्तानि [एद्. प्रगाथांत्]
ओकःसारी वा इन्द्रः
यत्र वा इन्द्रः पूर्वं गच्छति गच्छत्य् एव तत्रापरम्
यज्ञस्यैव सेन्द्रतायै ॥ १५ ॥

इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे पञ्चमः प्रपाठकः ॥

2.6.1
ओं तान् वा एतान् संपातान् विश्वामित्रः प्रथमम् अपश्यत्
<एवा त्वाम् इन्द्र वज्रिन्न् अत्र [ऋ.वे. ४.१९.१]> <यन् न इन्द्रो जुजुषे यच् च वष्टि [ऋ.वे. ४.२२.१]> <कथा महाम् अवृधत् कस्य होतुः [ऋ.वे. ४.२३.१]>इति
तान् विश्वामित्रेण दृष्टान् वामदेवो ऽसृजत
स हेक्षां चक्रे विश्वामित्रो यान् वा अहं संपातान् अदर्शं तान् वामदेवो ऽसृजत
कानि न्व् अहं हि सूक्तानि संपातांस् तत् प्रतिमान्त् सृजेयम् इति
स एतानि सूक्तानि संपातांस् तत् प्रतिमान् असृजत
<सद्यो ह जातो वृषभः कनीनः [ऋ.वे. ३.४८.१]><उद् उ ब्रह्माण्य् ऐरत श्रवस्या [ऋ.वे. ७.२३.१, अ.वे.(शौ.) २०.१२.१]><अभि तष्टेव दीधया मनीषाम् [ऋ.वे. ३.३८.१]> इति विश्वमित्रः
<इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैः [ऋ.वे. ३.३४.१, अ.वे.(शौ.) २०.११.१]><य एक इद् धव्यश् चर्षणीनाम् [ऋ.वे. ६.२२.१, अ.वे.(शौ.) २०.३६.१]><यस् तिग्मशृङ्गो वृषभो न भीमः [ऋ.वे. ७.१९.१, अ.वे.(शौ.) २०.३७.१]>इति वसिष्ठः
<इमाम् ऊ षु प्रभृतिं सातये धाः [ऋ.वे. ३.३६.१]><इच्छन्ति त्वा सोम्यासः सखायः [ऋ.वे. ३.३०.१]> <शासद् वह्निर् दुहितुर् नप्त्यं गात् [ऋ.वे. ३.३१.१]>इति भरद्वाजः
एतैर् वै संपातैर् एत ऋषय इमांल् लोकान्त् समपतन्
तद् यत् समपतंस् तस्मात् संपातास्
तत् संपातानां संपातत्वम्
ततो वा एतांस् त्रीन् संपातान् मैत्रावरुणो विपर्यासम् एकैकम् अहरहः शंसत्य् <एवा त्वाम् इन्द्र वज्रिन्न् अत्र [ऋ.वे. ४.१९.१]>इति प्रथमे ऽहनि
<यन् न इन्द्रो जुजुषे यच् च वष्टि [ऋ.वे. ४.२२.१]>इति द्वितीये
<कथा महाम् अवृधत् कस्य होतुः [ऋ.वे. ४.२३.१]>इति तृतीये
त्रीन् एव संपातान् ब्राह्मणाच्छंसी विपर्यासम् एकैकम् अहरहः शंसति<इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैः [ऋ.वे. ३.३४.१, अ.वे.(शौ.) २०.११.१]>इति प्रथमे ऽहनि
<य एक इद् धव्यश् चर्षणीनाम् [ऋ.वे. ६.२२.१, अ.वे.(शौ.) २०.३६.१]> इति द्वितीये
<यस् तिग्मशृङ्गो वृषभो न भीमः [ऋ.वे. ७.१९.१, अ.वे.(शौ.) २०.३७.१]>इति तृतीये
त्रीन् एव संपातान् अच्छावाको विपर्यासम् एकैकम् अहरहः शंसति<इमाम् ऊ षु प्रभृतिं सातये धाः [ऋ.वे. ३.३६.१]>इति प्रथमे ऽहनि
<इच्छन्ति त्वा सोम्यासः सखायः [ऋ.वे. ३.३०.१]>इति द्वितीये
<शासद् वह्निर् दुहितुर् नप्त्यं गात् [ऋ.वे. ३.३१.१]>इति तृतीये
तानि वा एतानि नव त्रीणि चाहरहःशंस्यानि
तानि द्वादश भवन्ति
द्वादश ह वै मासाः संवत्सरः
संवत्सरः प्रजापतिः
प्रजापतिर् यज्ञस्
तत् संवत्सरं प्रजापतिं यज्ञम् आप्नोति
तस्मिन्त् संवत्सरे प्रजापतौ यज्ञे ऽहरहः प्रतितिष्ठन्तो यन्ति
प्रतितिष्ठन्ते [एद्. प्रतितिष्ठत, चोर्र्. ড়त्यल्]
इदं सर्वम् अनु प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
तान्य् अन्तरेणावापम् आवपेरन्
अन्यूङ्खा विराजश् चतुर्थे ऽहनि वैमदीश् च पङ्क्तीः पञ्चमे पारुच्छेपीः षष्ठे
अथ यान्य् अन्यानि महास्तोत्राण्य् अष्टर्चान्य् आवपेरन् ॥ १ ॥
2.6.2
<को अद्य नर्यो देवकामः [ऋ.वे. ४.२५.१]>इति मैत्रावरुणः
<वने न वा यो न्य् अधायि चाकन् [ऋ.वे. १०.२९.१, अ.वे.(शौ.) २०.७६.१]>इति ब्राह्मणाच्छंसी
<आ याह्य् अर्वाङ् उप वन्धुरेष्ठाः [ऋ.वे. ३.४३.१]>इत्य् अच्छावाकः
एतानि वा आवपनानि
एतैर् एवावपनैर् देवाश् चर्षयश् च स्वर्गं लोकं आयन्
तथैवैतद् यजमाना एतैर् एवावपनैः स्वर्गं लोकं यन्ति
<सद्यो ह जातो वृषभः कनीनः [ऋ.वे. ३.४८.१]>इति मैत्रावरुणः पुरस्तात् संपातानाम् अहरहः शंसति
तद् एतत् सूक्तं स्वर्ग्यम्
एतेन सूक्तेन देवाश् चर्षयश् च स्वर्गं लोकम् आयन्
तथैवैतद् यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति
तद् ऋषभवत् पशुमद् भवति
पशूनाम् आप्त्यै
तत् पञ्चर्चं भवति
अन्नं वै पङ्क्तिः
अन्नाद्यस्यावरुद्ध्यै
<अरिष्टैर् नः पथिभिः पारयन्ता [ऋ.वे. ६.६९.१द्]>इति स्वर्गताया एवैतद् अहरहः शंसति
<उद् उ ब्रह्माण्य् ऐरत श्रवस्या [ऋ.वे. ७.२३.१, अ.वे.(शौ.) २०.१२.१]>इति ब्राह्मणाच्छंसी
ब्रह्मण्वद् एतत् सूक्तं समृद्धम्
एतेन सूक्तेन देवाश् चर्षयश् च स्वर्गं लोकम् आयन्
तथैवैतद् यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति
तद् उ वै षडृचम्
षड् वा ऋतवः
ऋतूनाम् आप्त्यै
तद् उपरिष्टात् संपातानाम् अहरहः शंसति
<अभि तष्टेव दीधया मनीषाम् [ऋ.वे. ३.३८.१अ]> इत्य् अच्छावाकः [एद्. अच्छावको]
अहरहः शंसत्य् अभिवदति तत्यै रूपम्
<अभि प्रियाणि मर्मृशत् पराणि [ऋ.वे. ३.३८.१च्]>इति
यान्य् एव पराण्य् अहानि तानि प्रियाणि
तान्य् एव तद् अभिमर्मृशन्तो यन्त्य् अभ्यारभमाणाः
परो वा अस्माल् लोकात् स्वर्गो लोकः
स्वर्गम् एव तल् लोकम् अभिमृशन्ति
<कवींर् इच्छामि संदृशे सुमेधाः [ऋ.वे. ३.३८.१द्]>इति
ये ह वा अनेन पूर्वे प्रेतास् ते वै कवयस् तान् एव तद् अभ्यतिवदति
यद् उ वै दशर्चं दश वै प्राणाः
प्राणेन तद् आप्नोति
प्राणानां संतत्यै
यद् उ वै दशर्चम्
दश वै पुरुषे प्राणाः
दश स्वर्गा लोकाः
प्राणांश् चैव तत् स्वर्गांश् च लोकान् आप्नोति
प्राणेषु चैवैतत् स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति
यद् उ वै दशर्चम्
दशाक्षरा विराट्
इयं वै स्वर्गस्य लोकस्य प्रतिष्ठा
तद् एतद् अस्यां प्रतिष्ठायां प्रतिष्ठापयति
सकृद् इन्द्रं निराह
तेनैन्द्राद् रूपान् न प्रच्यवते
तद् उपरिष्टात् संपातानाम् अहरहः शंसति ॥ २ ॥
2.6.3
<कस् तम् इन्द्र त्वावसुम् [ऋ.वे. ७.३२.१४]><कन् नव्यो अतसीनाम् [ऋ.वे. ८.३.१३]><कद् ऊ न्व् अस्याकृतम् [ऋ.वे. ८.६६.९]> इति कद्वन्तः प्रगाथा अहरहः शस्यन्ते
को वै प्रजापतिः
प्रजापतेर् आप्त्यै
यद् एव कद्वन्तस् तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एव कद्वन्तः
अथो अन्नं वै कम्
अथो अन्नस्यावरुद्ध्यै
यद् व् एव कद्वन्तः
अथो सुखं वै कम्
अथो अन्नस्यावरुद्ध्यै
यद् व् एव कद्वन्तः
अथो ऽहरहर् वा एते शान्तान्य् अहीनसूक्तान्य् उपयुञ्जाना यन्ति
तानि कद्वद्भिः प्रगाथैः शमयन्ति
तान्य् एभ्यः शान्तानि कं भवन्ति
तान्य् एताञ् छान्तानि स्वर्गं लोकम् अभिवहन्ति
त्रिष्टुभः सूक्तप्रतिपदः शंसेयुस्
ता हैके पुरस्तात् प्रगाथानां शंसन्ति धाय्या इति वदन्तस्
तद् उ तथा न कुर्यात्
क्षत्रं वै होता विशो होत्राशंसिनः
क्षत्रायैव तद् विशं प्रत्युद्यामिनीं कुर्युः
पापवस्यसम्
त्रिष्टुभो वा इमाः सूक्तप्रतिपद इत्य् एवं विद्यात्
यथा वै समुद्रं प्रतरेयुर् एवं हैवैते प्रप्लवन्ते ये संवत्सरं द्वादशाहं वोपासते
तद् यथा सैरावतीं नावं पारकामाः समारोहेयुर् एवं हैवैतास् त्रिष्टुभः स्वर्गकामाः समारोहन्ति
न ह वा एतच् छन्दो गमयित्वा स्वर्गं लोकम् उपावर्तते
वीर्यवत्तमं हि
ताभ्यो न व्याह्वयीत
समानं हि छन्दः
अथो नेद् धाय्याः करवाणीति
यद् एनाः शंसन्ति तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एवैनाः शंसन्तीन्द्रमेवैताभिर् निर्ह्वयन्ते यथर्षभं वाशितायै ॥ ३ ॥
2.6.4
<अपेन्द्र प्राचो मघवन्न् अमित्रान् [ড়्ष् १९.१६.८अ, अ.वे.(शौ.) २०.१२५.१अ]> इति मैत्रावरुणः पुरस्तात् संपातानाम् अहरहः शंसति [एद्. अपेन्द]
<अपापाचो अभिभूते नुदस्वापोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम [ড়्ष् १९.१६.८ब्च्द्, अ.वे.(शौ.) २०.१२५.१ब्च्द्]>इति
अभयस्य रूपम्
अभयम् इव ह्य् अन्विच्छति
<ब्रह्मणा ते ब्रह्मयुजा युनज्मि [ऋ.वे. ३.३५.५, अ.वे.(शौ.) २०.८६.१]>इति ब्राह्मणाच्छंसी
एताम् अहरहः शंसति युक्तवतीम्
युक्त इव ह्य् अहीनः
अहीनस्य रूपम्
<उरुं नो लोकम् अनु नेषि [ऋ.वे. ६.४७.८, ড়्ष् ३.३५.४, अ.वे.(शौ.) १९.१५.४]>इत्य् अच्छावाको ऽहरहः शंसति
अनुनेषीत्य् एत इव ह्य् अहीनः
अहीनस्य रूपम्
नेषीति सत्त्रायणरूपम् ओकःसारी हैवैषाम् इन्द्रो भवति
यथा गौः प्रज्ञातं गोष्ठं यथर्षभो वाशिताया एवं हैवैषाम् इन्द्रो यज्ञम् आगच्छति
न शुनंहूययाहीनस्य परिदध्यात्
क्षत्रियो ह राष्ट्राच् च्यवते
यो हैव परो भवति तम् अभिह्वयति ॥ ४ ॥
2.6.5
अथातो ऽहीनस्य युक्तिश् च विमुक्तिश् च
<व्य् अन्तरिक्षम् अतिरत् [ऋ.वे. ८.१४.७अ, अ.वे.(शौ.) २०.२८.१अ, २०.३९.२अ]>इत्य् अहीनं युङ्क्ते
<एवेद् इन्द्रम् [ऋ.वे. ७.२३.६अ, अ.वे.(शौ.) २०.१२.६अ, लोन्गेर् पर्तीक अत् २.४.२]> इति विमुञ्चति
<नूनं सा ते [ऋ.वे. २.११.२१, १५.१०, १६.९, १७.९, १८.९, १९.९, २०.९]>इत्य् अहीनं युङ्क्ते
<नू ष्टुतः [ऋ.वे. ४.१६.२१, १७.२१, १९.११, २०.११, २१.११, २२.११, २३.११, २४.११]>इति विमुञ्चति
एषा ह वा अहीनं तन्तुम् अर्हति य एनं योक्तं च विमोक्तं च वेद
तस्य हैषैव युक्तिर् एषा विमुक्तिस्
तद् यत् प्रथमे ऽहनि चतुर्विंशे एकाहिकीभिः परिदध्युः प्रथम एवाहनि यज्ञं संस्थापयेयुर् नाहीनकर्म कुर्युः
अथ यद् अहीनपरिधानीयाभिः परिदध्युस् तद् यथा युक्तो ऽविमुच्यमान उत्कृत्येतैवं यजमाना उत्कृत्येरन्
नाहीनकर्म कुर्युः
अथ यद् उभयीभिः परिदध्युस् तद् यथा दीर्घाध्व उपविमोकं यायात् तादृक् तत्
समानीभिः परिदध्युस्
तद् आहुर् एकया द्वाभ्यां वा स्तोमम् अतिशंसेत्
दीर्घारण्यानि भवन्ति
यत्र बह्वीभि स्तोमो ऽतिशस्यते ऽथो क्षिप्रं देवेभ्यो ऽन्नाद्यं संप्रयच्छामीति
अपरिमिताभिर् उत्तरयोः सवनयोर् अपरिमितो वै स्वर्गो लोकः
स्वर्गस्य लोकस्य समष्ट्यै
तद् यथाभिहेषते पिपासते क्षिप्रं प्रयच्छेत् तादृक् तत्
समानीभिः परिदध्युः
संततो हैवैषाम् आरब्धो ऽविस्रस्तो यज्ञो भवति
संततम् ऋचा वषट्कृत्यम्
संतत्यै संधीयते प्रजया पशुभिर् य एवं वेद ॥ ५ ॥
2.6.6
तद् आहुः कथं द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसूक्ता इति
असौ वै होता यो ऽसौ तपति
स वा एक एव
तस्माद् एकसूक्तः
स यद् विध्यातो द्वाव् इवाभवति
तेज एव मण्डलं भा अपरं शुक्लम् अपरं कृष्णम्
तस्माद् अ द्व्युक्थः
रश्मयो वाव होत्रास्
ते वा एकैकम्
तस्माद् एकोक्थास्
तद् यद् एकैकस्य रश्मेर् द्वौद्वौ वर्णौ भवतस् तस्माद् द्विसूक्ताः
संवत्सरो वाव होता
स वा एक एव
तस्माद् एकसूक्तस्
तस्य यद् द्वयान्य् अहानि भवन्ति शीतान्य् अन्यान्य् उष्णान्य् अन्यानि तस्माद् द्व्युक्थः
ऋतवो वाव होत्रास्
ते वा एकैकम्
तस्माद् एकोक्थास्
तद् यद् एकैकस्यर्तौ द्वौद्वौ मासौ भवतस् तस्माद् द्विसूक्ताः
पुरुषो वाव होता
स वा एक एव
तस्माद् एकसूक्तः
स यत् पुरुषो भवत्य् अन्यथैव प्रत्यङ् भवत्य् अन्यथा प्राङ् तस्माद् द्व्युक्थः
अङ्गानि वाव होत्रास्
तानि वा एकैकम्
तस्माद् एकोक्थास्
तद् यद् एकैकम् अङ्गं द्युतिर् भवति तस्माद् द्विसूक्तास्
तद् आहुर् यद् द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसुक्ताः कथं तत् समं भवति
यद् एव द्विदेवत्याभिर् यजन्त्य् अथो यद् द्विसूक्ता होत्रा इति ब्रूयात्
तद् आहुर् यद् अग्निष्टोम एव सति यज्ञे द्वे होतुर् उक्थे अतिरिच्येते कथं ततो होत्रा न व्यवच्छिद्यन्त इति
यद् एव द्विदेवत्याभिर् यजन्त्य् अथो यद् द्विसूक्ता होत्रा इति ब्रूयात्
तद् आहुर् यद् अग्निष्टोम एव सति यज्ञे सर्वा देवताः सर्वाणि छन्दांस्य् आप्याययन्ति
अथ कतमेन छन्दसायातयामान्य् उक्थानि प्रणयन्ति कया देवतयेति
गायत्रेण छन्दसाग्निना देवतयेति ब्रूयात्
देवान् ह यज्ञं तन्वानान् असुररक्षांस्य् अभिचेरिरे यज्ञपर्वणि यज्ञम् एषां हनिष्यामस् तृतीयसवनं प्रति
तृतीयसवने ह यज्ञस् त्वरिष्टो बलिष्ठः
प्रतनुमेषां यज्ञं हनिष्याम इति
ते वरुणं दक्षिणतो ऽयोजयन्
मध्यतो बृहस्पतिम्
उत्तरतो विष्णुम्
ते ऽब्रुवन्न् एकैकाः स्मः
नेदम् उत्सहामह इति
स्तुतो द्वितीयो येनेदं सह व्यश्नवामहा इति
तान् इन्द्रो ऽब्रवीत् सर्वे मद्द्वितीया स्थेति
ते सर्व इन्द्रद्वितीयास्
तस्माद् ऐन्द्रावारुणम् ऐन्द्राबार्हस्पत्यम् ऐन्द्रावैष्णवम् अनुशस्यते
द्वितीयवन्तो ह वा एतेन स्वा भवन्ति
द्वितीयवन्तो मन्यन्ते य एवं वेद ॥ ६ ॥
2.6.7
आग्नेयीषु मैत्रावरुणस्योक्थं प्रणयन्ति
वीर्यं वा अग्निः
वीर्येणैवास्मै तत् प्रणयन्ति
ऐन्द्रावारुणम् अनुशस्यते
वीर्यं वा इन्द्रः
क्षत्रं वरुणः
पशव उक्थानि
वीर्येणैव तत् क्षत्रेण चोभयतः पशून् परिगृह्णाति
स्थित्यै
अनपक्रान्त्यै
ऐन्द्रीषु ब्राह्मणाच्छंसिन उक्थं प्रणयन्ति
वीर्यं वा इन्द्रः
वीर्येणैवास्मै तत् प्रणयन्ति
ऐन्द्राबार्हस्पत्यम् अनुशस्यते
वीर्यं वा इन्द्रः
ब्रह्म बृहस्पतिः
पशव उक्थानि
वीर्येणैव तद् ब्रह्मणा चोभयतः पशून् परिगृह्णाति
स्थित्यै
अनपक्रान्त्यै
ऐन्द्रीष्व् अच्छावाकस्योक्थं प्रणयन्ति
वीर्यं वा इन्द्रः
वीर्येणैवास्मै तत् प्रणयन्ति
ऐन्द्रावैष्णवम् अनुशस्यते
वीर्यं वा इन्द्रः
यज्ञो विष्णुः
पशव उक्थानि
वीर्येणैव तद् यज्ञेन चोभयतः पशून् परिगृह्य क्षत्रे ऽन्ततः प्रतिष्ठापयति
तस्माद् उ क्षत्रियो भूयिष्ठं हि पशूनाम् ईशते [एद्. भुयिष्ठं, चोर्र्. ড়त्यल्]
याधिष्ठाता प्रदाता यस्मै प्रत्ता वेदा अवरुद्धास्
तान्य् एतान्य् ऐन्द्राणि जागतानि शंसन्ति
अथो एतैर् एव सेन्द्रं तृतीयसवनम् एतैर् जागतं सवनम्
धराणि ह वा अस्यैतान्य् उक्थानि भवन्ति यन् नाभानेदिष्ठो वालखिल्यो वृषाकपिर् एवयामरुत्
तस्मात् तानि सार्धम् एवोपेयुः
सार्धम् इदं रेतः सिक्तं समृद्धम् एकधा प्रजनयामेति
ये ह वा एतानि नानूपेयुर् यथा रेतः सिक्तं विलुम्पेत् कुमारं वा जातम् अङ्गशो विभजेत् तादृक् तत्
तस्मात् तानि सार्धम् एवोपेयुः
सार्धम् इदं रेतः सिक्तं समृद्धम् एकधा प्रजनयामेति
शिल्पानि शंसति देवशिल्पानि
एतेषां वै शिल्पानाम् अनुकृतीह शिल्पम् अधिगम्यते
हस्ती कंसो वासो हिरण्यम् अश्वतरीरथः शिल्पम्
शिल्पं हास्य समधिगम्यते य एवं वेद
यद् एव शिल्पानि शंसति तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एव शिल्पान्य् आत्मसंस्कृतिर् वै शिल्पानि
आत्मानम् एवास्य तत् संस्कुर्वन्ति ॥ ७ ॥
2.6.8
नाभानेदिष्ठं शंसति
रेतो वै नाभानेदिष्ठः
रेत एवास्य तत् कल्पयति
तद् रेतोमिश्रं भवति
<क्ष्मया रेतः संजग्मानो नि षिञ्चत् [ऋ.वे. १०.६१.७ब्]>इति
रेतसः समृद्ध्या एव
तं सनारशंसं शंसति
प्रजा वै नरः
वाक् शंसः
प्रजासु तद् वाचं दधाति
तस्माद् इमाः प्रजा वदन्त्यो जायन्ते
तं हैके पुरस्तात् प्रगाथानां शंसन्ति पुरुस्तादायतना वाग् इति वदन्तः
उपरिष्टाद् एक उपरिष्टादायतना वाग् इति वदन्तः
मध्य एव शंसेत्
मध्यायतना वा इयं वाक्
उपरिष्टान् नेदीयसीव
तं होता रेतोभूतं शस्त्वा मैत्रावरुणाय संप्रयच्छति
एतस्य त्वं प्राणान् कल्पयेति
वालखिल्याः शंसति
प्राणा वै वालखिल्याः
प्राणान् एवास्य तत् कल्पयति
ता विहृताः शंसति
विहृता वै प्राणाः
प्राणेनापानः
अपानेन व्यानः
स पच्छः प्रथमे सूक्ते विहरति
अर्धर्चशो द्वितीये [एद्. द्वितिये, चोर्र्. ড়त्यल्]
ऋक्शः तृतीये
स यत् प्रथमे सूक्ते विहरति वाचं चैव तन् मनश् च विहरति
यद् द्वितीये चक्षुश् चैव तच् छ्रोत्रं च विहरति
यत् तृतीये प्राणां चैव तद् आत्मानं च विहरति
तद् उपाप्तो विहरेत् कामः
नेतुर् वै प्रगाथाः कल्पन्ते
अतिमर्शम् एव विहरेत्
तथा वै प्रगाथाः कल्पन्ते
यद् एवातिमर्शं तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एवातिमर्शम् आत्मा वै बृहती
प्राणाः सतोबृहती
स बृहतीम् अशंसीत्
स आत्मा
अथ सतोबृहतीम्
ते प्राणाः
अथ बृहतीम्
अथ सतोबृहतीम्
तद् आत्मानं प्राणैः परिवृहन्न् एति
यद् व् एवातिमर्शम् आत्मा वै बृहती
प्रजाः सतोबृहती
स बृहतीम् अशंसीत्
स आत्मा
अथ सतोबृहतीम्
ते प्रजाः
अथ बृहतीम्
अथ सतोबृहतीम्
तद् आत्मानं प्रजया परिवृहन्न् एति
यद् व् एवातिमर्शम् आत्मा वै बृहती
पशवः सतोबृहती
स बृहतीम् अशंसीत्
स आत्मा
अथ सतोबृहतीम्
ते पशवः
अथ बृहतीम्
अथ सतोबृहतीम्
तद् आत्मानं पशुभिः परिवृहन्न् एति
तस्य मैत्रावरुणः प्राणान् कल्पयित्वा ब्राह्मणाच्छंसिने संप्रयच्छति
एतस्य त्वं प्रजनयेति
सुकीर्तिं शंसति
देवयोनिर् वै सुकीर्तिस्
तद् यज्ञियायां देवयोन्यां यजमानं प्रजनयति
वृषाकपिं शंसति
आत्मा वै वृषाकपिः
आत्मानम् एवास्य तत् कल्पयति
तं न्यूङ्खयति
अन्नं वै न्यूङ्खः
अन्नाद्यम् एवास्मै तत् संप्रयच्छति यथा कुमाराय जाताय स्तनम्
स पाङ्क्तो भवति
पाङ्क्तो ह्य् अयं पुरुषः पञ्चधा विहितः
लोमानि त्वग् अस्थि मज्जा मस्तिष्कम्
स यावान् एव पुरुषस् तावन्तं यजमानं संस्कृत्याच्छावाकाय संप्रयच्छति
एतस्य त्वं प्रतिष्ठा कल्पयेति
एवयामरुतं शंसति
प्रतिष्ठा वा एवयामरुत्
प्रतिष्ठायाम् एवैनम् अन्ततः प्रतिष्ठापयति
याज्यया यजति
अन्नं वै याज्या
अन्नाद्यम् एवास्मै तत् संप्रयच्छति ॥ ८ ॥
2.6.9
तानि वा एतानि सहचराणीत्य् आचक्षते यन् नाभानेदिष्ठो वालखिल्यो वृषाकपिर् एवयामरुत्
तानि सह वा शंसेत् सह वा न शंसेत्
यद् एषाम् अन्तरीयात् तद् यजमानस्यान्तरीयात्
यदि नाभानेदिष्ठं रेतो ऽस्यान्तरीयात्
यदि वालखिल्याः प्राणान् अस्यान्तरीयात्
यदि वृषाकपिम् आत्मानम् अस्यान्तरीयात्
यद्य् एवायामरुतं प्रतिष्ठा वा एवयामरुत् प्रतिष्ठाया एवैनं तं श्रावयेद् दैव्याश् च मानुष्याश् च
तानि सह वा शंसेत् सह वा न शंसेत्
स ह बुडिल आश्वितरास्युर् विश्वजितो होता सन्न् ईक्षां चक्र एतेषां वा एषां शिल्पानां विश्वजिति सांवत्सरिके द्वे होतुर् उक्थे माध्यंदिनम् अभिप्रच्यवेते
हन्ताहम् इत्थम् एवायामरुतं शंसयानीति
तद् ध तथा शंसयां चक्रे
तद् ध तथा शस्यमाने गोश्ल आजगम
स होवाच होतः कथा ते शस्त्रं विचक्रं प्लवत इति
किं ह्य् अभूद् इति
एवयामरुद् अयम् उत्तरतः शस्यत इति
स होवाचैन्द्रो वै माध्यंदिनः
कथेन्द्रं माध्यंदिनान् निनीषसीति
नेन्द्रं माध्यंदिनान् निनीषामीति स होवाच
छन्दस् त्व् इदम् अमाध्यंदिनंसाचि
जागतं वातिजागतं वा
स उ मारुतः
मैवं संमृष्टेति
स होवाचारमाच्छावाकेति
अथास्मिन्न् अनुशासनम् ईषे
स होवाचैन्द्रम् एष विष्णुन्यङ्गानि शंसति
अथ त्वं होतुर् उपरिष्टाद् रौद्रिया धाय्यायाः पुरस्तान् मारुतस्य सूक्तस्याप्यस्यथा इति
तथेति
तद् अप्य् एतर्हि तथैव शस्यते
यथा षष्ठे पृष्ठ्याहनि कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः कथम् अत्राशस्त एव नाभानेदिष्ठो भवत्य् अथ वालखिल्याः शंसति
रेतो वा अग्रे ऽथ प्राणाः
एवं ब्राह्मणाच्छंसी
अशस्त एव नाभानेदिष्ठो भवत्य् अथ वृषाकपिं शंसति
रेतो वा अग्रे ऽथात्मा कथम् अत्र यजमानस्य प्रजातिः कथं प्राणा अवरुद्धा भवन्तीति
यजमानं वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति
स यथा गर्भो योन्याम् अन्तर् एव प्राणान् अस्यान्तरियात्
यदि वृषाकपिम् आत्मानम् अस्यान्तरियाद् यद्य् एव या संभवञ् छेते
न ह वै सकृद् एवाग्रे सर्वं संभवति
एकैकं वा अङ्गं संभवतः संभवति
सर्वाणि चेत् समाने ऽहनि क्रियेरन् कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः
अथ हैवैवयामरुतं होता शंसेत्
तद् यास्य प्रतिष्ठा [एद्. तस्यास्य, चोर्र्. ড়त्यल्]
तस्याम् एवैनम् अन्ततः प्रतिष्ठापयति प्रतिष्ठापयति ॥ ९ ॥ [एद्. प्रतिस्थापयति २x, चोर्र्. ড়त्यल्]
2.6.10
देवक्षेत्रं वै षष्ठम् अहः
देवक्षेत्रं वा एत आगच्छन्ति ये षष्ठम् अहर् आगच्छन्ति
न वै देवा अन्योऽन्यस्य गृहे वसन्ति नर्तुर् ऋतोर् गृहे वसतीत्य् आहुस्
तद् यथायथम् ऋत्विज ऋतुयाजान् यजन्त्य् असंप्रदायम्
तद् यद् ऋतून् कल्पयन्ति यथायथं जनिता
तद् आहुर् नर्तुप्रैषैः प्रेष्येयुर् नर्तुप्रैषैर् वषट्कुर्युः
वाग् वा ऋतुप्रैषाः
आप्यते वै वाक् षष्ठे ऽहनीति
यद् ऋतुप्रैषैः प्रेष्येयुर् यद् ऋतुप्रैषैर् वषट्कुर्युर् वाचम् एव तदाप्तां शान्ताम् ऋक्णवतीं वहरावणीम् ऋच्छेयुः [एद्. ऋक्तवतीं, चोर्र्. ড়त्यल्]
अच्युताद् यज्ञस्य च्यवेरन्
यज्ञात् प्राणात् प्रजायाः पशुभ्यो जिह्मा ईयुस् [एद्. प्राणान्, चोर्र्. ড়त्यल्]
तस्माद् ऋग्मेभ्य एव प्रेषितव्यम्
ऋग्मेभ्यो ऽधि वषट्कृत्यम्
तन् न वाचम् आप्तां शान्ताम् ऋक्तवतीं वहरावणीम् ऋच्छन्ति
नाच्युताद् यज्ञस्य च्यवेरन्
न यज्ञात् प्राणान् प्रजायाः पशुभ्यो जिह्मा यन्ति
पारुच्छेपीर् उपदधति द्वयोः सवनयोः पुरस्तात् प्रस्थितयाज्यानाम्
रोहितं वै नामैतच् छन्दो यत् पारुच्छेपम्
एतेन ह वा इन्द्रः सप्त स्वर्गांल् लोकान् आरोहत्
आरोहति सप्त स्वर्गांल् लोकान् य एवं वेद
तद् आहुर् यत् पञ्चपदा एव पञ्चमस्याह्नो रूपं षट्पदाः षष्ठस्याथ कस्मात् सप्तपदाः षष्ठे ऽहनि शस्यन्त इति
षड्भिर् एव पदैः षष्ठम् अहर् अवाप्नुवन्त्य् अवछिद्येवैतद् अहर् यत् सप्तमम्
तद् एव सप्तमेन पदेनाभ्यारुह्या वसन्ति
संततैस् त्र्यहैर् अव्यवछिन्नैर् यन्ति य एवंविद्वांस उपयन्ति ॥ १० ॥
2.6.11
देवासुरा वा एषु लोकेषु समयतन्त
ते वै देवाः षष्ठेनाह्नैभ्यो लोकेभ्यो ऽसुरान् पराणुदन्त
तेषां यान्य् अन्तर्हस्तानि वसून्य् आसंस् तान्य् आदाय समुद्रं प्रारूप्यन्त
तेषां वै देवा अनुहायैतेनैव छन्दसान्तर्हस्तानि वसून्य् आददत
तद् एवैतत् पदं पुनःपदम्
स एवाङ्कुश आकुञ्चनाय
आ द्विषतो वसु दत्ते निर् एवैनम् एभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद
द्यौर् वै देवता षष्ठम् अहर् वहति
त्रयस्त्रिंश स्तोमः
रैवतं साम
अतिच्छन्दश् छन्दः
यथादेवतम् एनेन यथास्तोमं यथासाम यथाछन्दसम् ऋध्नोति य एवं वेद
यद् वै समानोदर्कं तत् षष्ठस्याह्नो रूपम्
यद्य् एव प्रथमम् अहस् तद् उत्तमम् अहस्
तद् एवैतत् पदं पुनर् यत् षष्ठं यद् अश्ववद् यद् रथवद् यत् पुनरावृत्तं यत् पुनर् निवृत्तं यद् अन्तरूपं यद् असौ लोको ऽभ्युदितो यन् नाभानेदिष्ठं यत् पारुच्छेपं यन् नाराशंसं यद् द्वैपदा यत् सप्तपदा यत् कृतं यद् रैवतं तत् तृतीयस्याह्नो रूपम्
एतानि वै षष्ठस्याह्नो रूपाणि
छन्दसाम् उ ह षष्ठेनाह्नाक्तानां रसो ऽत्यनेदत्
तं प्रजापतिर् उदानान् नाराशंस्या गायत्र्या रैभ्या त्रिष्टुभा परिक्षित्या जगत्या गाथयानुष्टुभा [एद्. गयत्र्या]
एतानि वै छन्दांसि षष्ठे ऽहनि शस्तानि भवन्त्य् अयातयामानि
छनदसाम् एव तत् सरसताया अयातयामतायै
सरसानि हास्य छन्दांसि षष्ठे ऽहनि शस्तानि भवन्ति
सरसैश् छन्दोभिर् इष्टं भवति सरसैश् छन्दोभिर् यज्ञं तनुते य एवं वेद ॥ ११ ॥
अथ यद् द्वैपदौ स्तोत्रियानुरूपौ भवत <इमा नु कं भुवना सीषधाम [ऋ.वे. १०.१५७.१, अ.वे.(शौ.) २०.६३.१, २०.१२४.४]>इति
द्विपाद् वै पुरुषः
द्विप्रतिष्ठः पुरुषः
पुरुषो वै यज्ञस्
तस्माद् द्वैपदौ स्तोत्रियानुरूपौ भवतः
अथ सुकीर्तिं शंसत्य् <अपेन्द्र प्राचो मघवन्न् अमित्रान् [ড়्ष् १९.१६.८अ, अ.वे.(शौ.) २०.१२५.१अ, सकलपाठ अत् २.६.४]> इति
देवयोनिर् वै सुकीर्तिः
स य एवम् एतां देवयोन्यां सुकीर्तिं वेद कीर्तिं प्रतिष्ठापयति भूतानां कीर्तिमान् स्वर्गे लोके प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
अथ वृषाकपिं शंसति <वि हि सोतोर् असृक्षत [ऋ.वे. १०.८६.१, अ.वे.(शौ.) १०.१२६.१]>इति
आदित्यो वै वृषाकपिस्
तद् यत् कम्पयमानो रेतो वर्षति तस्माद् वृषाकपिस्
तद् वृषाकपेर् वृषाकपित्वम्
वृषाकपिर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद
तस्य तृतीयेषु पादेष्व् आद्यन्तयोर् न्यूङ्खनिनर्दान् करोति
अन्नं वै न्यूङ्खः [एद्. न्युङ्खो, चोर्र्. ড়त्यल्]
बलं निनर्दः
अन्नाद्यम् एवास्मै तद् बले निदधाति
अथ कुन्तापं शंसति
कुयं ह वै नाम कुत्सितं भवति
तद् यत् तपति तस्मात् कुन्तापास्
तत् कुन्तापानां कुन्तापत्वम्
तप्यन्ते ऽस्मै कुयानिति तप्तकुयः स्वर्गे लोके प्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
तस्य चतुर्दश प्रथमा भवन्तीदं जना उप श्रुतेति
ताः प्रग्राहं शंसति यथा वृषाकपिम्
वार्षरूपं हि
वृषाकपेस् तन् न्यायम् एत्य् एव
अथ रैभीः शंसति
<वच्यस्व रेभ वच्यस्व [ऋ.वे.Kह् ५.९.१, अ.वे.(शौ.) २०.१२७.४]>इति
रेभन्तो वै देवाश् चर्षयश् च स्वर्गं लोकम् आयन्
तथैवैतद् यजमाना रेभन्त एव स्वर्गं लोकं यन्ति
ताः प्रग्राहम् एत्य् एव
अथ पारिक्षिताः शंसति राज्ञो विश्वजनीनस्येति
संवत्सरो वै परिक्षित्
संवत्सरो हीदं सर्वं परिक्षियतीति
अथो खल्व् आहुर् अग्निर् वै परिक्षित्
अग्निर् हीदं सर्वं परिक्षियतीति
अथो खल्व् आहुर् गाथा एवैताः कारव्या राज्ञः परिक्षित इति स नस् तद् यथा कुर्यात्
गाथा एवैताः शस्ता भवन्ति
यद्य् उ वै गाथा अग्नेर् एव गाथाः संवत्सरस्य वेति ब्रूयात्
यद्य् उ वै मन्त्रो ऽग्निर् एव मन्त्रः संवत्सरस्य वेति ब्रूयात्
ताः प्रग्राहम् एत्य् एव
अथ कारव्याः शंसति<इन्द्रः कारुम् अबूबुधत् [ऋ.वे.Kह् ५.११.१, अ.वे.(शौ.) २०.१२७.११]>इति
यद् एव देवाः कल्याणं कर्माकुर्वंस् तत् कारव्याभिर् अवाप्नुवन्
तथैवैतद् यजमाना यद् एव देवाः कल्याणं कर्म कुर्वन्ति तत् कारव्याभिर् अवाप्नुवन्ति
ताः प्रग्राहम् इत्य् एव
अथ दिशां कॢप्तीः पूर्वं शस्त्वा <यः सभेयो विदथ्यः [ऋ.वे.Kह् ५.१२.१, अ.वे.(शौ.) २०.१२८.१]>इति जनकल्पा उत्तराः शंसति <यो ऽनाक्ताक्षो अनभ्यक्तः [ऋ.वे.Kह् ५.१३.१, अ.वे.(शौ.) २०.१२८.६]>इति
ऋतवो वै दिशः प्रजननस्
तद् यद् दिशां कॢप्तीः पूर्वं शस्त्वा <यः सभेयो विदथ्यः [ऋ.वे.Kह् ५.१२.१, अ.वे.(शौ.) २०.१२८.१]>इति जनकल्पा उत्तराः शंसत्य् ऋतून् एव तत् कल्पयति
ऋतुषु प्रतिष्ठापयति
प्रतिष्ठन्तीर् इदं सर्वम् अनुप्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
ता अर्धर्चशः शंसति
प्रतिष्ठित्या एव
अथेन्द्रगाथाः शंसति <यद् इन्द्रादो दाशराज्ञे [ऋ.वे.Kह् ५.१४.१, अ.वे.(शौ.) २०.१२८.१२]>इति
इन्द्रगाथाभिर् ह वै देवा असुरान् आगायाथैनान् अत्यायन्
तथैवैतद् यजमाना इन्द्रगाथाभिर् एवाप्रियं भ्रातृव्यम् आगायाथैनम् अतियन्ति
ता अर्धर्चशः शंसति
प्रतिष्ठित्या एव ॥ १२ ॥
2.6.13
अथैतशप्रलापं शंसत्य् <एता अश्वा आ प्लवन्ते [ऋ.वे.Kह् ५.१५.१, अ.वे.(शौ.) २०.१२९.१]>इति
ऐतशो ह मुनिर् यज्ञस्यायुर् ददर्श
स ह पुत्रान् उवाच पुत्रका यज्ञस्यायुर् अभिददर्शम्
तद् अभिलपिष्यामि मा मा दृप्तं मन्यध्वम् इति
तथेति
तद् अभिललाप
तस्य हाभ्यग्निर् ऐतशायनो ज्येष्ठः पुत्रो ऽभिद्रुत्य मुखम् अपिजग्राह ब्रुवन् दृप्तो नः पितेति
स होवाच धिक् त्वा जाल्मापरस्य पापिष्ठां ते प्रजां करिष्यामीति यो मे मुखं प्राग्रहीर् यदि जाल्म मुखं न प्राग्रहीष्यः शतायुषं गाम् अकरिष्यं सहस्रायुषं पुरुषम् इति
तस्माद् अभ्यग्नय ऐतशायना आजानेयाः सन्तः पापिष्ठा अन्येषां बलिहृतः पितायच्छन्ताः स्वेन प्रजापतिना स्वया देवतया
यद् ऐतशप्रलापस् तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एवैतशप्रलापो ऽयातयामा वा अक्षितिर् ऐतशप्रलापः [एद्. ऐतशैतशप्रलापो]
अयातयामा मे यज्ञो ऽसद् अक्षितिर् मे यज्ञो ऽसद् इति
तं वा एतम् ऐतशप्रलापं शंसति पदावग्राहम् [एद्. वा ऐतशैतशप्रलापं]
तासाम् उत्तमेन पदेन प्रणौति यथा निविदः [एद्. प्राणौति, चोर्र्. ড়त्यल्]
अथ प्रवल्हिकाः पूर्वं शस्त्वा <विततौ किरणौ द्वौ [ऋ.वे.Kह् ५.१६.१, अ.वे.(शौ.) २०.१३३.१]>इति प्रतिराधान् उत्तरान् शंसति <भुग् इत्य् अभिगतः [ऋ.वे.Kह् ५.१८.१, अ.वे.(शौ.) २०.१३५.१]>इति [एद्. प्रतिराधानुत्तरान्ः]
प्रवल्हिकाभिर् ह वै देवा असुराणां रसान् प्रववृहुस्
तद् यथाभिर् ह वै देवा असुराणां रसान् प्रववृहुस् तस्मात् प्रवल्हिकास्
तत् प्रवल्हिकानां प्रवल्हिकात्वम्
ता वै प्रतिराधैः प्रत्यराध्नुवन्
तद् यत् प्रतिराधैः प्रत्यराध्नुवंस् तस्मात् प्रतिराधास्
तत् प्रतिराधानां प्रतिराधत्वम्
प्रवल्हिकाभिर् एव द्विषतां भ्रातृव्याणां रसान् प्रवल्हिकास्
ता वै प्रतिराधैः प्रतिराध्नुवन्ति
ताः प्रग्राहम् इत्य् एव
अथाजिज्ञासेन्याः शंसति<इहेत्थ प्राग् अपाग् उदग् अधराक् [ऋ.वे.Kह् ५.१७.१, अ.वे.(शौ.) २०.१३४.१]>इति [एद्. उदाग्, चोर्रेच्तेद् प्. ३०३]
आजिज्ञासेन्याभिर् ह वै देवा असुरान् आज्ञायाथैनान् अत्यायन्
तथैवैतद् यजमाना आजिज्ञासेन्याभिर् एवाप्रियं भ्रातृव्यम् आज्ञायाथैनम् अतियन्ति
ता अर्धर्चशः शंसति
प्रतिष्ठित्या एव
अथातिवादं शंसति <वीमे देवा अक्रंसत [ऋ.वे.Kह् ५.१९.१, अ.वे.(शौ.) २०.१३५.४]>इति
श्रीर् वा अतिवादस्
तम् एकर्चं शंसति
एकस् ता वै श्रीस्
तां वै विरेभं शंसति
विरेभैः श्रियं पुरुषो वहतीति
ताम् अर्धर्चशः शंसति
प्रतिष्ठित्या एव ॥ १३ ॥
2.6.14
अथादित्याश् चाङ्गिरसीश् च शंसत्य् <आदित्या ह जरितर् अङ्गिरोभ्यो अदक्षिणाम् अनयन् [ऋ.वे.Kह् ५.२०.१, अ.वे.(शौ.) २०.१३५.६]>इति
तद् देवनीथम् इत्य् आचक्षते
आदित्याश् च ह वा अङ्गिरसश् च स्वर्गे लोके ऽस्पर्धन्त वयं पूर्वे स्वर् एष्यामो वयं पूर्व इति
ते हाङ्गिरसः श्वःसुत्यां ददृशुस्
ते हाग्निम् ऊचुः परेह्य् आदित्येभ्यः श्वःसुत्यां प्रब्रूहीति
अथादित्या अद्यसुत्यां ददृशुस्
ते हाग्निम् ऊचुर् अद्यसुत्यास्माकम्
तेषां नस् त्वं होतासीत्य् उपेमस् त्वाम् इति
स एत्याग्निर् उवाचाथादित्या अद्यसुत्याम् ईक्षन्ते कं वो होतारम् अवोचन् वाह्वयन्ते युष्माकं वयम् इति
ते हाङ्गिरसश् चुक्रुधुर् मा त्वं गमो नु वयम् इति
नेति हाग्निर् उवाचानिन्द्या वै माह्वयन्ते
किल्बिषं हि तद् यो ऽनिन्द्यस्य हवं नैति
तस्माद् अतिद्रूरम् अत्यल्पम् इति यजमानस्य हवम् इयाद् एव
किल्बिषं हि तद् यो ऽनिन्द्यस्य हवं नैति
तान् हादित्यान् अङ्गिरसो याजयां चक्रुस्
तेभ्यो हीमां पृथिवीं दक्षिणां निन्युस्
तां ह न प्रतिजगृहुः
सा हीयं निवृत्तोभयतःशीर्ष्णी दक्षिणाः शुचा विद्धाः शोचमाना व्यचरत् कुपिता मां न प्रत्यग्रहीषुर् इति
तस्या एते निरदीर्यन्त य एते प्रदरा अधिगम्यन्ते
तस्मान् निवृत्तदक्षिणां नोपाकुर्यान् नैनां प्रमृजेत्
नेद् दक्षिणां प्रमृणजानीति
तस्माद् य एवास्य समानजन्मा भ्रातृव्यः स्याद् वृणहूयुस् तस्मा एनां दद्यात्
तन् न पराची दक्षिणा विवृणक्ति
द्विषति भ्रातृव्ये ऽन्ततः शुचं प्रतिष्ठापयति यो ऽयौ तपति
स वै शंसत्य् <आदित्या ह जरितर् अङ्गिरोभ्यो दक्षिणाम् अनयंस् तां ह जरितः प्रत्यायन् [ऋ.वे.Kह् ५.२०.१अब्च्, अ.वे.(शौ.) २०.१३५.६अब्च्]>इति
न हीमां पृथिवीं प्रत्यायन्
<ताम् उ ह जरितः प्रत्यायन् [ऋ.वे.Kह् ५.२०.१द्, अ.वे.(शौ.) २०.१३५.६द्]>इति प्रति हि ते ऽमुम् आयन्
<तां ह जरितर् नः प्रत्य् अगृभ्णन् [ऋ.वे.Kह् ५.२०.२अ, अ.वे.(शौ.) २०.१३५.७अ]>इति
न हीमां पृथिवीं प्रत्यगृभ्णन्
<ताम् उ ह जरितर् नः प्रत्यगृभ्ण [ऋ.वे.Kह् ५.२०.२ब्, अ.वे.(शौ.) २०.१३५.७ब्]>इति प्रगृह्यादित्यम् अगृभ्णन्
<अहानेतरसं न विचेतनानि [ऋ.वे.Kह् ५.२०.२च्, अ.वे.(शौ.) २०.१३५.७च्]>इत्य् एष ह वा अह्नां विचेता यो ऽसौ तपति
स वै शंसति <यज्ञानेतरसं न पुरोगवासः [ऋ.वे.Kह् ५.२०.२द्, अ.वे.(शौ.) २०.१३५.७द्]>इति
एषा ह वै यज्ञस्य पुरोगवी यद् दक्षिणा
यथार्हामः स्रस्तम् अतिरेतदन्त्येतेष एवेश्वर उन्नेता
<उत श्वेत आशुपत्वा उत पद्याभिर् यविष्ठ उतेम् आशु मानं पिपर्ति [ऋ.वे.Kह् ५.२०.३, अ.वे.(शौ.) २०.१३५.८]>इति
एष एव श्वेत एष शिशुपत्यैष उत पद्याभिर् यविष्ठः
<उतेम् आशु मानं पिपर्ति [ऋ.वे.Kह् ५.२०.३च्, अ.वे.(शौ.) २०.१३५.८च्]>इति
<आदित्या रुद्रा वसवस् तेनुत इदं राधः प्रतिगृभ्णीह्य् अङ्गिरः । इदं राधो विभु प्रभु इदं राधो बृहत् पृथु देवा ददत्वासुरं तद् वो अस्तु सुचेतनं । युष्मां अस्तु दिवे दिवे प्रत्य् एव गृभायत [ऋ.वे.Kह् ५.२०.४-५, अ.वे.(शौ.) २०.१३५.९-१०]>इति तद् यद् आदित्याश् चाङ्गिरसीश् च शंसति स्वर्गताया एवैतत् [एद्. यस्ंां, चोर्र्. ড়त्यल्]
अहरहः शंसति यथा निविदः
अथ भूतेछदः शंसति <त्वम् इन्द्र शर्म रिणा [ऋ.वे.Kह् ५.२१.१, अ.वे.(शौ.) २०.१३५.११]>इति
इमे वै लोका भूतेछदः
असुरान् ह वै देवा अन्नं सेचिरे भूतेन जिघांसन्तस् तितीर्षमाणास्
तान् इमे देवाः सर्वेभ्यो भूतेभ्यो ऽछादयन्
तद् यद् एतान् इमे देवाः सर्वेभ्यो ऽछादयंस् तस्माद् भूतेछदस्
तद् भूतेछदां भूतेछदत्वम्
छादयन्ति ह वापरम् इमे लोकाः
सर्वेभ्यो भूतेभ्यो निरघ्नन्
सर्वेभ्यो भूतेभ्यो छन्दते य एवं वेद ॥ १४ ॥
2.6.15
अथाहनस्याः शंसति <यद् अस्या अंहुभेद्याः [ऋ.वे.Kह् ५.२२.१, अ.वे.(शौ.) २०.१३६.१]>इति
आहनस्याद् वा इदं सर्वं प्रजातम्
आहनस्याद् वा एतद् अधिप्रजायते
अस्यैव सर्वस्याप्त्यै प्रजात्यै
ता वै षट् शंसेत्
षड् वा ऋतवः
ऋतवः पितरः
पितरः प्रजापतिः
प्रजापतिर् आहनस्यास्
ता दश शंसेद् इति शाम्भव्यस्य वचः
दशाक्षरा विराट्
वैराजो यज्ञस्
तं गर्भा उपजीवन्ति
श्रीर् वै विराट्
यशो ऽन्नाद्यम्
श्रियम् एव तद् विराजं यशस्य् अन्नाद्ये प्रतिष्ठापयति
प्रतितिष्ठन्तीर् इदं सर्वम् अनुप्रतितिष्ठति
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद
तिस्रः शंसेद् इति वात्स्यस्
त्रिवृद् वै रेतः सिक्तं संभवत्य् आण्डम् उल्वं जरायु
त्रिवृत्प्रत्ययं माता पिता यज् जायते तत् तृतीयम्
अभूतोद्यम् एवैतद् यच् चतुर्थीं शंसेत्
सर्वा एव षोडश शंसेद् इति हैके
कामार्तो वै रेतः सिञ्चति [एद्. कामार्तौ, चोर्र्. ড়त्यल्]
रेतसः सिक्तात् प्रजाः प्रजायन्ते प्रजानां प्रजननाय
प्रजावान् प्रजनयिष्णुर् भवति प्रजात्यै प्रजायते प्रजया पशुभिर् य एवं वेद ॥ १५ ॥
2.6.16
अथ दाधिक्रीं शंसति <दधिक्राव्णो अकारिषम् [ऋ.वे. ४.३९.६, ऋ.वे.Kह् ५.२२.१३, अ.वे.(शौ.) २०.१३७.३]> इति
तत उत्तराः पावमानीः शंसति <सुतासो मधुमत्तमाः [ऋ.वे. ९.१०१.४, अ.वे.(शौ.) २०.१३७.४]>इत्य् अन्नं वै दधिक्री [एद्. उत्ताराः, चोर्र्. ড়त्यल्]
पवित्रं पावमान्यस्
तद् उ हैके पावमानीभिर् एव पूर्वं शस्त्वा तत उत्तरा दाधिक्रीं शंसन्तीयं वाग् अन्नाद्या यः पवत इति वदन्तस्
तद् उ तथा न कूर्याद् उपनश्यति ह वाग् अशनायती
स दाधिक्रीम् एव पूर्वं शस्त्वा तत उत्तराः पावमानीः शंसति
तद् यद् दाधिक्रीं शंसतीयं वाग् आहनस्यां वाचम् अवादीत्
तद् देवपवित्रेणैव वाचं पुनीते [एद्. देव पवित्रेण, चोर्र्. ড়त्यल्]
सा वा अनुष्टुब् भवति
वाग् वा अनुष्टुप्
तत् स्वेनैव छन्दसा वाचं पुनीते
ताम् अर्धर्चशः शंसति
प्रतिष्ठित्या एव
अथ पावमानीः शंसति
पवित्रं वै पावमान्यः
इयं वाग् आहनस्यां वाचम् अवादीत्
तत् पावमानीभिर् एव वाचं पुनीते
ताः सर्वा अनुष्टुभो भवन्ति
वाग् वा अनुष्टुप्
तत् स्वेनैव छन्दसा वाचं पुनीते
ता अर्धर्चशः शंसति
प्रतिष्ठित्या एव
<अव द्रप्सो अंशुमतीम् अतिष्ठत् [ऋ.वे. ८.९६.१३, अ.वे.(शौ.) २०.१३७.७]>इत्य् एतं तृचम् ऐन्द्राबार्हस्पत्यं सूक्तं शंसति
अथ हैतद् उत्सृष्टम्
तद् यद् एतं तृचम् ऐन्द्राबार्हस्पत्यम् अन्त्यं तृचम् ऐन्द्राजागतं शंसति सवनधारणम् इदं गुल्मह इति वदन्तस्
तद् उ तथा न कुर्यात्
त्रिष्टुबायतना वा इयं वाग् एषां होत्रकाणां यद् ऐन्द्राबार्हस्पत्या तृतीयसवने
तद् यद् एतं तृचम् ऐन्द्राबार्हस्पत्यम् अन्त्यं तृचम् ऐन्द्राजागतं शंसति स्व एवैनं तद् आयतने प्रीणाति स्वयोर् देवतयोः
कामं नित्यम् एव परिदध्यात्
कामं तृचस्योत्तमया
तद् आहुः संशंसेत् षष्ठे ऽहनि न संशंसेत्
कथम् अन्येष्व् अहःसु संशंसति
कथम् अत्र न संशंसतीति
अथो खल्व् आहुर् नैव संशंसेत्
स्वर्गौ वै लोकः षष्ठम् अहः
असमायी वै स्वर्गो लोकः
कश् चिद् वै स्वर्गे लोके शमयतीति
तस्मान् न संशंसति
यद् एव न संशंसति तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एवैनाः संशंसति यन् नाभानेदिष्ठो वालखिल्यो वृषाकपिर् एवयामरुद् एतानि वा अत्रोक्थानि भवन्ति तस्मान् न संशंसति
ऐन्द्रो वृषाकपिः
सर्वाणि छन्दांस्य् ऐतशप्रलापः
उपाप्तो यद् ऐन्द्राबार्हस्पत्या तृतीयसवने तद् यद् एतं तृचम् ऐन्द्राबार्हस्पत्यं सूक्तं शंसत्य् ऐन्द्राबार्हस्पत्या परिधानीया विशो अदेवीर् अभ्याचरन्तीर् इति
अपरजना ह वै विशो देवीर् न ह्य् अस्यापरजनं भयं भवति
शान्ताः प्रजाः कॢप्ताः सहन्ते यत्रैवंविदं शंसति यत्रैवंविदं शंसतीति ब्राह्मणम् ॥ १६ ॥

इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे षष्ठः प्रपाठकः ॥

इत्य् अथर्ववेदब्राह्मणपूर्वोत्तरं समाप्तम् ॥