गोपथब्राह्मणम्

विकिस्रोतः तः
Jump to navigation Jump to search
गोपथब्राह्मणम्
[[लेखकः :|]]



(०.०.०अ) ओं नमोऽथर्ववेदाय नमः । ।

(१,१.१अ) ओं ब्रह्म ह वा इदं अग्र आसीत्स्वयंभ्वेकं एव
(१,१.१ब्) तदैक्षत
(१,१.१ब्) महद्वै यक्षं यदेकं एवास्मि
(१,१.१द्) हन्ताहं मदेव मन्मात्रं द्वितीयं देवं निर्मिमा इति
(१,१.१फ़्) तदभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.१ग्) तस्य श्रान्तस्य तप्तस्य संतप्तस्य ललाटे स्नेहो यदार्द्रं आजायत
(१,१.१ह्) तेनानन्दत्
(१,१.१इ) तदब्रवीत्_
(१,१.१ज्) महद्वै यक्षं सुवेदं अविदं अहं इति
(१,१.१क्) तद्यदब्रवीत्_
(१,१.१ल्) महद्वै यक्षं सुवेदं अविदं अहं इति
(१,१.१म्) तस्मात्सुवेदोऽभवत्
(१,१.१न्) तं वा एतं सुवेदं सन्तं स्वेद इत्याचक्षते परोक्षेण
(१,१.१ओ) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः । । १ । ।

(१,१.२अ) स भूयोऽश्राम्यद्भूयोऽतप्यद्भूय आत्मानं समतपत्
(१,१.२ब्) तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो रोमगर्तेभ्यः पृथक्स्वेदधाराः प्रास्यन्दन्त
(१,१.२ब्) ताभिरनन्दत्
(१,१.२द्) तदब्रवीत्_
(१,१.२फ़्) आभिर्वा अहं इदं सर्वं धारयिष्यामि यदिदं किं च_
(१,१.२ग्) आभिर्वा अहं इदं सर्वं जनयिष्यामि यदिदं किं च_
(१,१.२ह्) आभिर्वा अहं इदं सर्वं आप्स्यामि यदिदं किं चेति
(१,१.२इ) तद्यदब्रवीत्_
(१,१.२ज्) आभिर्वा अहं इदं सर्वं धारयिष्यामि यदिदं किं चेति
(१,१.२क्) तस्माद्धारा अभवन्_
(१,१.२ल्) तद्धाराणां धारात्वं यच्चासु ध्रियते
(१,१.२म्) तद्यदब्रवीत्_
(१,१.२न्) आभिर्वा अहं इदं सर्वं जनयिष्यामि यदिदं किं चेति
(१,१.२ओ) तस्माज्जाया अभवन्_
(१,१.२प्) तज्जायानां जायात्वं यच्चासु पुरुषो जायते यच्च पुत्रः [एद्.ः याच्]
(१,१.२क़्) पुन्नाम नरकं अनेकशततारम्_
(१,१.२र्) तस्मात्त्रातीति पुत्रस्
(१,१.२स्) तत्पुत्रस्य पुत्रत्वम्_
(१,१.२त्) तद्यदब्रवीत्_
(१,१.२उ) आभिर्वा अहं इदं सर्वं आप्स्यामि यदिदं किं चेति
(१,१.२व्) तस्मादापोऽभवन्_
(१,१.२w) तदपां अप्त्वम्
(१,१.२x) आप्नोति वै स सर्वान्कामान्यान्कामयते । । २ । ।

(१,१.३अ) ता अपः सृष्ट्वान्वैक्षत
(१,१.३ब्) तासु स्वां छायां अपश्यत्
(१,१.३ब्) तां अस्येक्षमाणस्य स्वयं रेतोऽस्कन्दत्
(१,१.३द्) तदप्सु प्रत्यतिष्ठत्
(१,१.३फ़्) तास्तत्रैवाभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.३ग्) ताः श्रान्तास्तप्ताः संतप्ताः सार्धं एव रेतसा द्वैधं अभवन्_
(१,१.३ह्) तासां अन्यतरा अतिलवणा अपेया अस्वाद्व्यस्
(१,१.३इ) ता अशान्ता रेतः समुद्रं वृत्वातिष्ठन्_
(१,१.३ज्) अथेतराः पेयाः स्वाद्व्यः शान्तास्
(१,१.३क्) तास्तत्रैवाभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.३ल्) ताभ्यः श्रान्ताभ्यस्तप्ताभ्यः संतप्ताभ्यो यद्रेत आसीत्तदभृज्ज्यत [एद्.ः असीत्]
(१,१.३म्) तस्माद्भृगुः समभवत्
(१,१.३न्) तद्भृगोर्भृगुत्वम्_
(१,१.३ओ) भृगुरिव वै स सर्वेषु लोकेषु भाति य एवं वेद । । ३ । ।

(१,१.४अ) स भृगुं सृष्ट्वान्तरधीयत
(१,१.४ब्) स भृगुः सृष्टः प्राङैजत
(१,१.४ब्) तं वागन्ववदत्_
(१,१.४द्) वायो वाय इति
(१,१.४फ़्) स न्यवर्तत स दक्षिणां दिशं ऐजत
(१,१.४ग्) तं वागन्ववदत्_
(१,१.४ह्) मातरिश्वन्मातरिश्वन्निति
(१,१.४इ) स न्यवर्तत स प्रतीचीं दिशं ऐजत
(१,१.४ज्) तं वागन्ववदत्_
(१,१.४क्) पवमान पवमानेति
(१,१.४ल्) स न्यवर्तत स उदीचीं दिशं ऐजत
(१,१.४म्) तं वागन्ववदत्_
(१,१.४न्) वात वातेति
(१,१.४ओ) तं अब्रवीत्_
(१,१.४प्) न न्वविदं अहं इति
(१,१.४क़्) न हीति_
(१,१.४र्) अथार्वाङेनं एतास्वेवाप्स्वन्विच्छेति
(१,१.४स्) तद्यदब्रवीदथार्वाङेनं एतास्वेवाप्स्वन्विच्छेति तदथर्वाभवत्
(१,१.४त्) तदथर्वणोऽथर्वत्वम्_
(१,१.४उ) तस्य ह वा एतस्य भगवतोऽथर्वण ऋषेर्यथैव ब्रह्मणो लोमानि यथाङ्गानि यथा प्राण एवं एवास्य सर्व आत्मा समभवत्
(१,१.४व्) तं अथर्वाणं ब्रह्माब्रवीत्प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति
(१,१.४w) तद्यदब्रवीत्प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति तस्मात्प्रजापतिरभवत्
(१,१.४x) तत्प्रजापतेः प्रजापतित्वम्
(१,१.४य्) अथर्वा वै प्रजापतिः
(१,१.४ज़्) प्रजापतिरिव वै स सर्वेषु लोकेषु भाति य एवं वेद । । ४ । ।

(१,१.५अ) तं अथर्वाणं ऋषिं अभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.५ब्) तस्माच्छ्रान्तात्तप्तात्संतप्ताद्दशतयानथर्वण ऋषीन्निरमिमतैकर्चान्द्व्यृचांस्तृचांस्चतुरृचान्पञ्चर्चान्त्षडर्चान्त्सप्तर्चानष्टर्चान्नवर्चान्दशर्चानिति [एद्.ः षडर्चांत्]
(१,१.५ब्) तानथर्वण ऋषीनभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.५द्) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यो दशतयानाथर्वणानार्षेयान्निरमिमतैकादशान्द्वादशांस्त्रयोदशांश्चतुर्दशान्पञ्चदशान्षोडशान्त्सप्तदशानष्टादशान्नवदशान्विंशानिति [एद्.ः षोडशांत्, नोते अल्सो पञ्चर्चान्तबोवे]
(१,१.५फ़्) तानथर्वण ऋषीनाथर्वणांश्चार्षेयानभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.५ग्) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यो यान्मन्त्रानपश्यत्स आथर्वणो वेदोऽभवत्
(१,१.५ह्) तं आथर्वणं वेदं अभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.५इ) तस्माच्छ्रान्तात्तप्तात्संतप्तादों इति मन एवोर्ध्वं अक्षरं उदक्रामत्
(१,१.५ज्) स य इच्छेत्सर्वैरेतैरथर्वभिश्चाथर्वणैश्च कुर्वीयेत्येतयैव तन्महाव्याहृत्या कुर्वीत
(१,१.५क्) सर्वैर्ह वा अस्यैतैरथर्वभिश्चाथर्वणैश्च कृतं भवति य एवं वेद यश्चैवंविद्वानेवं एतया महाव्याहृत्या कुरुते । । ५ । ।

(१,१.६अ) स भूयोऽश्राम्यद्भूयोऽतप्यद्भूय आत्मानं समतपत्
(१,१.६ब्) स आतमत एव त्रींल्लोकान्निरमिमीत पृथिवीं अन्तरिक्षं दिवं इति
(१,१.६ब्) स खलु पादाभ्यां एव पृथिवीं निर्ममिमीत_
(१,१.६द्) उदरादन्तरिक्षं मूर्ध्नो दिवम्_
(१,१.६फ़्) स तांस्त्रींल्लोकानभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.६ग्) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यस्त्रीन्देवान्निरमिमीत_
(१,१.६ह्) अग्निं वायुं आदित्यं इति
(१,१.६इ) स खलु पृथिव्या एवाग्निं निरमिमीतान्तरिक्षाद्वायुं दिव आदित्यम्_
(१,१.६ज्) स तांस्त्रीन्देवानभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.६क्) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यस्त्रीन्वेदान्निरमिमीत ऋग्वेदं यजुर्वेदं सामवेदं इति_
(१,१.६ल्) अग्नेरृग्वेदं वायोर्यजुर्वेदं आदित्यात्सामवेदम्
(१,१.६म्) स तांस्त्रीन्वेदानभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.६न्) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यस्तिस्रो महाव्याहृतीर्निरमिमीत भूर्भुवः स्वरिति
(१,१.६ओ) भूरित्यृग्वेदाद्भुव इति यजुर्वेदात्स्वरिति सामवेदात्
(१,१.६प्) स य इच्छेत्सर्वैरेतैस्त्रिभिर्वेदैः कुर्वीयेत्येताभिरेव तन्महाव्याहृतिभिः कुर्वीत
(१,१.६क़्) सर्वैर्ह वा अस्यैतैस्त्रिभिर्वेदैः कृतं भवति य एवं वेद यश्चैवंविद्वानेवं एताभिर्महाव्याहृतिभिः कुरुते । । ६ । ।

(१,१.७अ) ता या अमू रेतः समुद्रं वृत्वातिष्ठंस्ताः प्राच्यो दक्षिणाच्यः प्रतीच्य उदीच्यः समवद्रवन्त
(१,१.७ब्) तद्यत्समवद्रवन्त तस्मात्समुद्र उच्यते
(१,१.७ब्) ता भीता अब्रुवन्
(१,१.७द्) भगवन्तं एव वयं राजानं वृणीमह इति
(१,१.७फ़्) यच्च वृत्वातिष्ठंस्तद्वरणोऽभवत्
(१,१.७ग्) तं वा एतं वरणं सन्तं वरुण इत्याचक्षते परोक्षेण
(१,१.७ह्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
(१,१.७इ) स समुद्रादमुच्यत
(१,१.७ज्) स मुच्युरभवत्
(१,१.७क्) तं वा एतं मुच्युं सन्तं मृत्युरित्याचक्षते परोक्षेण
(१,१.७ल्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषस्
(१,१.७म्) तं वरुणं मृत्युं अभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.७न्) तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्योऽङ्गेभ्यो रसोऽक्षरत्
(१,१.७ओ) सोऽङ्गरसोऽभवत्
(१,१.७प्) तं वा एतं अङ्गरसं सन्तं अङ्गिरा इत्याचक्षते परोक्षेण
(१,१.७क़्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः । । ७ । ।

(१,१.८अ) तं अङ्गिरसं ऋषिं अभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.८ब्) तस्माच्छ्रान्तात्तप्तात्संतप्ताद्विंशिनोऽङ्गिरस ऋषीन्निरमिमीत
(१,१.८ब्) तान्विंशिनोऽङ्गिरस ऋषीनभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.८द्) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यो दशतयानाङ्गिरसानार्षेयान्निरमिमीत षोडशिनोऽष्टादशिनो द्वादशिन एकर्चान्द्व्यृचांस्तृचांश्चतुरृचान्पञ्चर्चान्षडर्चान्सप्तर्चानिति
(१,१.८फ़्) तानङ्गिरस ऋषीनाङ्गिरसांश्चार्षेयानभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.८ग्) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यो यान्मन्त्रानपश्यत्स आङ्गिरसो वेदोऽभवत्
(१,१.८ह्) तां आङ्गिरसं वेदं अभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.८इ) तस्माच्छ्रान्तात्तप्तात्संतप्ताज्जनदिति द्वैतं अक्षरं व्यभवत्
(१,१.८ज्) स य इच्छेत्सर्वैरेतैरङ्गिरोभिश्चाङ्गिरसैश्च कुर्वीयेत्येतयैव तन्महाव्याहृत्या कुर्वीत
(१,१.८क्) सर्वैर्ह वा अस्यैतैरङ्गिरोभिश्चाङ्गिरसैश्च कृतं भवति य एवं वेद यश्चैवंविद्वानेवं एतया महाव्याहृत्या कुरुते । । ८ । ।

(१,१.९अ) स ऊर्ध्वोऽतिष्ठत्
(१,१.९ब्) स इमांल्लोकान्व्यष्टभ्नात्
(१,१.९ब्) तस्मादङ्गिरसोऽधीयान ऊर्ध्वस्तिष्ठति
(१,१.९द्) तद्व्रतं स मनसा ध्यायेद्यद्वा अहं किं च मनसा ध्यास्यामि तथैव तद्भविष्यति [एद्.ः येद्]
(१,१.९फ़्) तद्ध स्म तथैव भवति
(१,१.९ग्) तदप्येतदृचोक्तम्_
(१,१.९ह्) श्रेष्ठो ह वेदस्तपसोऽधि जातो ब्रह्मज्यानां क्षितये संबभूव ।
(१,१.९इ) ऋज्यद्भूतं यदसृज्यतेदं निवेशनं अनृणं दूरं अस्येति [एद्.ः ऋच्यृग्भूतं - सी नोते Pअत्यल्]
(१,१.९ज्) ता वा एता अङ्गिरसां जामयो यन्मेनयः
(१,१.९क्) करोति मेनिभिर्वीर्यं य एवं वेद । । ९ । ।

(१,१.१०अ) स दिशोऽन्वैक्षत प्राचीं दक्षिणां प्रतीचीं उदीचीं ध्रुवां ऊर्ध्वां इति
(१,१.१०ब्) तास्तत्रैवाभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.१०ब्) ताभ्यः श्रान्ताभ्यस्तप्ताभ्यः संतप्ताभ्यः पञ्च वेदान्निरमिमीत
(१,१.१०द्) सर्पवेदं पिशाचवेदं असुरवेदं इतिहासवेदं पुराणवेदं इति
(१,१.१०फ़्) स खलु प्राच्या एव दिशः सर्पवेदं निरमिमीत
(१,१.१०ग्) दक्षिणस्याः पिशाचवेदम्_
(१,१.१०ह्) प्रतीच्या असुरवेदम्
(१,१.१०इ) उदीच्या इतिहासवेदम्_
(१,१.१०ज्) ध्रुवायाश्चोर्ध्वायाश्च पुराणवेदम्
(१,१.१०क्) स तान्पञ्च वेदानभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.१०ल्) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यः पञ्च महाव्याहृतीर्निरमिमीत
(१,१.१०म्) वृधत्करद्रुहन्महत्तदिति
(१,१.१०न्) वृधदिति सर्पवेदात्
(१,१.१०ओ) करदिति पिशाचवेदात्_
(१,१.१०प्) रुहदित्यसुरवेदात्_
(१,१.१०क़्) महदितीतिहासवेदात्
(१,१.१०र्) तदिति पुराणवेदात्
(१,१.१०स्) स य इच्छेत्सर्वैरेतैः पञ्चभिर्वेदैः कुर्वीयेत्येताभिरेव तन्महाव्याहृतिभिः कुर्वीत
(१,१.१०त्) सर्वैर्ह वा अस्यैतैः पञ्चभिर्वेदैः कृतं भवति य एवं वेद यश्चैवंविद्वानेवं एताभिर्महाव्याहृतिभिः कुरुते । । १० । ।

(१,१.११अ) स आवतश्च परावतश्चान्वैक्षत
(१,१.११ब्) तास्तत्रैवाभ्यश्राम्यदभ्यतपत्समतपत्
(१,१.११ब्) ताभ्यः श्रान्ताभ्यस्तप्ताभ्यः संतप्ताभ्यः शं इत्यूर्ध्वं अक्षरं उदक्रामत्
(१,१.११द्) स य इच्छेत्सर्वाभिरेताभिरावद्भिश्च परावद्भिश्च कुर्वीयेत्येतयैवा तन्महाव्याहृत्या कुर्वीत
(१,१.११फ़्) सर्वाभिर्ह वा अस्यैताभिरावद्भिश्च परावद्भिश्च कृतं भवति य एवं वेद यश्चैवंविद्वानेवं एतया महाव्याहृत्या कुरुते । । ११ । ।

(१,१.१२अ) स भूयोऽश्राम्यद्भूयोऽतप्यद्भूय आत्मानं समतपत्
(१,१.१२ब्) स मनस एव चन्द्रमसं निरमिमीत
(१,१.१२ब्) नखेभ्यो नक्षत्राणि
(१,१.१२द्) लोमभ्य ओषधिवनस्पतीन्_
(१,१.१२फ़्) क्षुद्रेभ्यः प्राणेभ्योऽन्यान्बहून्देवान्_
(१,१.१२ग्) स भूयोऽश्राम्यद्भूयोऽतप्यद्भूय आत्मानं समतपत्
(१,१.१२ह्) स एतं त्रिवृतं सप्ततन्तुं एकविंशतिसंस्थं यज्ञं अपश्यत्[एद्. एकविशतिसंस्थं]
(१,१.१२इ) तदप्येतदृचोक्तम्
(१,१.१२ज्) <अग्निर्यज्ञं त्रिवृतं सप्ततन्तुं [PS५.२८.१च्]> इति_
(१,१.१२क्) अथाप्येष प्राक्रीडितः श्लोकः प्रत्यभिवदति
(१,१.१२ल्) सप्त सुत्याः सप्त च पाकयज्ञा इति । । १२ । ।

(१,१.१३अ) तं आहरत्
(१,१.१३ब्) तेनायजत
(१,१.१३ब्) तस्याग्निर्होतासीत्_
(१,१.१३द्) वायुरध्वर्युः
(१,१.१३फ़्) सूर्य उद्गाता
(१,१.१३ग्) चन्द्रमा ब्रह्मा
(१,१.१३ह्) पर्जन्यः सदस्यः_
(१,१.१३इ) ओषधिवनस्पतयश्चमसाध्वर्यवः_
(१,१.१३ज्) विश्वे देवा होत्रकाः_
(१,१.१३क्) अथर्वाङ्गिरसो गोप्तारस्
(१,१.१३ल्) तं ह स्मैतं एवंविद्वांसः पूर्वे श्रोत्रिया यज्ञं ततं सावसाय ह स्माहेत्यभिव्रजन्ति
(१,१.१३म्) मा नोऽयं घर्म उद्यतः प्रमत्तानां अमृताः प्रजाः प्रधाक्षीदिति
(१,१.१३न्) तान्वा एतान्परिरक्षकान्त्सदःप्रसर्पकानित्याचक्षते दक्षिणासमृद्धान्_
(१,१.१३ओ) तदु ह स्माह प्रजापतिः_
(१,१.१३प्) यद्वै यज्ञेऽकुशला ऋत्विजो भवन्त्यचरितिनो ब्रह्मचर्यं अपराग्या वा
(१,१.१३क़्) तद्वै यज्ञस्य विरिष्टं इत्याचक्षते
(१,१.१३र्) यज्ञस्य विरिष्टं अनु यजमानो विरिष्यते
(१,१.१३स्) यजमानस्य विरिष्टं अन्वृत्विजो विरिष्यन्ते_
(१,१.१३त्) ऋत्विजां विरिष्टं अनु दक्षिणा विरिष्यन्ते
(१,१.१३उ) दक्षिणानां विरिष्टं अनु यजमानः पुत्रपशुभिर्विरिष्यते
(१,१.१३व्) पुत्रपशूनां विरिष्टं अनु यजमानः स्वर्गेण लोकेन विरिष्यते
(१,१.१३w) स्वर्गस्य लोकस्य विरिष्टं अनु तस्यार्धस्य योगक्षेमो विरिस्.यते यस्मिन्नर्धे यजन्त इति ब्राह्मणं । । १३ । ।

(१,१.१४अ) तं ह स्मैतं एवंविद्वांसं ब्रह्माणं यज्ञविरिष्टी वा यज्ञविरिष्टिनो वेत्युपाधावेरन्
(१,१.१४ब्) नमस्ते अस्तु भगवन्
(१,१.१४च्) यज्ञस्य नो विरिष्टं सन्धेहीति
(१,१.१४द्) तद्यत्रैव विरिष्टं स्यात्तत्राग्नीनुपसमाधाय शान्त्युदकं कृत्वा पृथिव्यै श्रोत्रायेति त्रिरेवाग्नीन्त्सम्प्रोक्षति त्रिः पर्युक्षति
(१,१.१४ए) त्रिः कारयमानं आचामयति च संप्रोक्षति च
(१,१.१४फ़्) यज्ञवास्तु व सम्प्रोक्षति_
(१,१.१४ग्) अथापि वेदानां रसेन यज्ञस्य विरिष्टं सन्धीयते
(१,१.१४ह्) तद्यथा लवणेन सुवर्णं संदध्यात्सुवर्णेन रजतं रजतेन लोहं लोहेन सीसं सीसेन त्रप्वेवं एवास्य यज्ञस्य विरिष्टं संधीयते
(१,१.१४इ) यज्ञस्य संधितिं अनु यजमानः संधीयते [एद्. संघीयते]
(१,१.१४ज्) यजमानस्य संधितिं अन्वृत्विजः संधीयन्ते_
(१,१.१४क्) ऋत्विजां संधितिं अनु दक्षिणाः संधीयन्ते
(१,१.१४ल्) दक्षिणानां संधितिं अनु यजमानः पुत्रपशुभिः संधीयते
(१,१.१४म्) पुत्रपशूनां संधितिं अनु यजमानः स्वर्गेण लोकेन संधीयते
(१,१.१४न्) स्वर्गस्य लोकस्य संधितिं अनु तस्यार्धस्य योगक्षेमः संधीयते यस्मिन्नर्धे यजन्त इति ब्राह्मणं । । १४ । ।

(१,१.१५अ) तदु ह स्माहाथर्वा देवो विजानन्यज्ञविरिष्टानन्दानीत्युपशमयेरन्यज्ञे प्रायश्चित्तिः क्रियतेऽपि च यदु बह्विव यज्ञे विलोमं क्रियते न चैवास्य का चनार्तिर्भवति न च यज्ञविष्कन्धं उपयात्यपहन्ति पुनर्मृत्युं अपात्येति पुनाराजातिं कामचारोऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश्चैवंविद्वान्ब्रह्मा भवति यस्य चैवंविद्वान्ब्रह्मा दक्षिणतः सदोऽध्यास्ते यस्य चैवंविद्वान्ब्रह्मा दक्षिणत उदङ्मुख आसीनो यज्ञ आज्याहुतीर्जुहोतीति ब्राह्मणं । । १५ । ।

(१,१.१६अ) ब्रह्म ह वै ब्रह्माणं पुष्करे ससृजे
(१,१.१६ब्) स खलु ब्रह्मा सृष्टश्चिन्तां आपेदे
(१,१.१६च्) केनाहं एकेनाक्षरेण सर्वांश्च कामान्त्सर्वांश्च लोकान्त्सर्वांश्च देवान्त्सर्वांश्च वेदान्त्सर्वांश्च यज्ञान्त्सर्वांश्च शब्दान्त्सर्वाश्च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्यनुभवेयं इति
(१,१.१६द्) स ब्रह्मचर्यं अचरत्
(१,१.१६फ़्) स ओं इत्येतदक्षरं अपश्यद्द्विवर्णं चतुर्मात्रं सर्वव्यापि सर्वविभ्वयातयामब्रह्म ब्राह्मीं व्याहृतिं ब्रह्मदैवताम्_
(१,१.१६ग्) तया सर्वांश्च कामान्त्सर्वांश्च लोकान्त्सर्वांश्च देवान्त्सर्वांश्च वेदान्त्सर्वांश्च यज्ञान्त्सर्वांश्च शब्दान्त्सर्वाश्च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्यन्वभवत्
(१,१.१६ह्) तस्य प्रथमेन वर्णेनापः स्नेहं चान्वभवत्
(१,१.१६इ) तस्य द्वितीयेन वर्णेन तेजो ज्योतींष्यन्वभवत् । । १६ । ।

(१,१.१७अ) तस्य प्रथमया स्वरमात्रया पृथिवीं अग्निं ओषधिवनस्पतीनृग्वेदं भूरिति व्याहृतिं गायत्रं छन्दस्त्रिवृतं स्तोमं प्राचीं दिशं वसन्तं ऋतुं वाचं अध्यात्मं जिह्वां रसं इतीन्द्रियाण्यन्वभवत् । । १७ । ।

(१,१.१८अ) तस्य द्वितीयया स्वरमात्रयान्तरिक्षं वायुं यजुर्वेदं भुव इति व्याहृतिं त्रैष्टुभं छन्दः पञ्चदशं स्तोमं प्रतीचीं दिशं ग्रीष्मं ऋतुं प्राणं अध्यात्मं नासिके गन्धघ्राणं इतीन्द्रियाण्यन्वभवत् । । १८ । ।

(१,१.१९अ) तस्य तृतीयया स्वरमात्रया दिवं आदित्यं सामवेदं स्वरिति व्याहृतिं जागतं छन्दः सप्तदशं स्तोमं उदीचीं दिशं वर्षा ऋतुं ज्योतिरध्यात्मं चक्षुषी दर्शनं इतीन्द्रियान्यन्वभवत् । । १९ । ।

(१,१.२०अ) तस्य वकारमात्रयापश्चन्द्रमसं अथर्ववेदं नक्षत्राण्यों इति स्वं आत्मानं जनदित्यङ्गिरसां आनुष्टुभं छन्द एकविंशं स्तोमं दक्षिणां दिशं शरदं ऋतुं मनोऽध्यात्मं ज्ञानं ज्ञेयं इतीन्द्रियाण्यन्वभवत् । । २० । ।

(१,१.२१ब्) तस्य मकारश्रुत्येतिहासपुराणं वाकोवाक्यं गाथा नाराशंसीरुपनिषदोऽनुशासनानीति वृधत्करद्रुहन्महत्तच्छं ओं इति व्याहृतीः स्वरशम्यनानातन्त्रीः स्वरनृत्यगीतवादित्राण्यन्वभवच्चैत्ररथं दैवतं वैद्युतं ज्योतिर्बार्हतं छन्दस्त्रिणवत्रयस्त्रिंशौ स्तोमौ ध्रुवां ऊर्ध्वां दिशं हेमन्तशिशिरावृतू श्रोत्रं अध्यात्मं शब्दश्रवणं इतीन्द्रियाण्यन्वभवत् । । २१ । ।

(१,१.२२अ) सैषैकाक्षरर्ग्ब्रह्मणस्तपसोऽग्रे प्रादुर्बभूव ब्रह्मवेदस्याथर्वणं शुक्रम्
(१,१.२२ब्) अत एव मन्त्राः प्रादुर्बभूवुः
(१,१.२२च्) स तु खलु मन्त्राणां अतपसासुश्रूषानध्यायाध्ययनेन यदूनं च विरिष्टं च यातयामं च करोति तदथर्वणां तेजसा प्रत्याप्याययेत्_
(१,१.२२द्) मन्त्राश्च मां अभिमुखीभवेयुर्गर्भा इव मातरं अभिजिघांसुः
(१,१.२२ए) पुरस्तादोंकारं प्रयुङ्क्ते_
(१,१.२२फ़्) एतयैव तदृचा प्रत्याप्यायेत्_
(१,१.२२ग्) एषैव यज्ञस्य पुरस्ताद्युज्यते_
(१,१.२२ह्) एषा पश्चात्
(१,१.२२इ) सर्वत एतया यज्ञस्तायते
(१,१.२२ज्) तदप्येतदृचोक्तम्_
(१,१.२२क्) या पुरस्ताद्युज्यत ऋचो अक्षरे परमे व्योमन्निति
(१,१.२२ल्) तदेतदक्षरं ब्राह्मणो यं कामं इच्छेत्त्रिरात्रोपोषितः प्राङ्मुखो वाग्यतो बर्हिष्युपविश्य सहस्रकृत्व आवर्तयेत्
(१,१.२२म्) सिध्यन्त्यस्यार्थाः सर्वकर्माणि चेति ब्राह्मणं । । २२ । ।

(१,१.२३अ) वसोर्धाराणां ऐन्द्रं नगरम्_
(१,१.२३ब्) तदसुराः पर्यवारयन्त
(१,१.२३च्) ते देवा भीता आसन्
(१,१.२३द्) क इमानसुरानपहनिष्यतीति [एद्. ईमान्]
(१,१.२३ए) त ओंकारं ब्रह्मणः पुत्रं ज्येष्ठं ददृश्रुस्
(१,१.२३फ़्) ते तं अब्रुवन्
(१,१.२३ग्) भवता मुखेनेमानसुराञ्जयेमेति
(१,१.२३ह्) स होवाच
(१,१.२३इ) किं मे प्रतीवाहो भविष्यतीति
(१,१.२३ज्) वरं वृणीष्वेति
(१,१.२३क्) वृणा इति
(१,१.२३ल्) स वरं अवृणीत
(१,१.२३म्) न मां अनीरयित्वा ब्राह्मणा ब्रह्म वदेयुः_
(१,१.२३न्) यदि वदेयुरब्रह्म तत्स्यादिति
(१,१.२३ओ) तथेति
(१,१.२३प्) ते देवा देवयजनस्योत्तरार्धेऽसुरैः संयत्ता आसन्_
(१,१.२३क़्) तानोंकारेणाग्नीध्रीयाद्देवा असुरान्पराभावयन्त
(१,१.२३र्) तद्यत्पराभावयन्त तस्मादोंकारः पूर्वं उच्यते
(१,१.२३स्) यो ह वा एतं ओंकारं न वेदावशी स्यादित्यथ य एवं वेद ब्रह्मवशी स्यादिति
(१,१.२३त्) तस्मादोंकार ऋच्यृग्भवति
(१,१.२३उ) यजुषि यजुः
(१,१.२३व्) साम्नि साम
(१,१.२३w) सूत्रे सूत्रम्_
(१,१.२३x) ब्राह्मणे ब्राह्मणम्_
(१,१.२३य्) श्लोके श्लोकः
(१,१.२३ज़्) प्रणवे प्रणव इति ब्राह्मणं । । २३ । ।
     
(१,१.२४अ) ओंकारं पृच्छामः
(१,१.२४ब्) को धातुः
(१,१.२४च्) किं प्रातिपदिकम्_
(१,१.२४द्) किं नामाख्यातम्_
(१,१.२४ए) किं लिङ्गम्_
(१,१.२४फ़्) किं वचनम्_
(१,१.२४ग्) का विभक्तिः
(१,१.२४ह्) कः प्रत्ययः
(१,१.२४इ) कः स्वर उपसर्गो निपातः
(१,१.२४ज्) किं वै व्याकरणम्_
(१,१.२४क्) को विकारः
(१,१.२४ल्) को विकारी
(१,१.२४म्) कतिमात्रः
(१,१.२४न्) कतिवर्णः
(१,१.२४ओ) कत्यक्षरः
(१,१.२४प्) कतिपदः
(१,१.२४क़्) कः संयोगः
(१,१.२४र्) किं स्थानानुप्रदानकरणं शिक्षुकाः किं उच्चारयन्ति
(१,१.२४स्) किं छन्दः
(१,१.२४त्) को वर्ण इति पूर्वे प्रश्राः_
(१,१.२४उ) अथोत्तरे
(१,१.२४व्) मन्त्रः कल्पो ब्राह्मणं ऋग्यजुः साम
(१,१.२४w) कस्माद्ब्रह्मवादिन ओंकारं आदितः कुर्वन्ति
(१,१.२४x) किं दैवतम्_
(१,१.२४य्) किं ज्योतिषम्_
(१,१.२४ज़्) किं निरुक्तम्_
(१,१.२४आ) किं स्थानम्_
(१,१.२४ब्ब्) का प्रकृतिः
(१,१.२४च्च्) किमध्यात्मं इति
(१,१.२४द्द्) षट्त्रिंशत्प्रश्र्नाः
(१,१.२४ई) पूर्वोत्तराणां त्रयो वर्गा द्वादशकाः_
(१,१.२४फ़्फ़्) एतैरोंकारं व्याख्यास्यामः । । २४ । ।

(१,१.२५अ) इन्द्रः प्रजापतिं अपृच्छत्_
(१,१.२५ब्) भगवन्नभिष्टूय पृच्छामीति
(१,१.२५च्) पृच्छ वत्सेत्यब्रवीत्
(१,१.२५द्) किं अयं ओंकारः
(१,१.२५ए) कस्यः पुत्रः
(१,१.२५फ़्) किं चैतच्छन्दः
(१,१.२५ग्) किं चैतद्वर्णः
(१,१.२५ह्) किं चैतद्ब्रह्मा ब्रह्म सम्पद्यते
(१,१.२५इ) तस्माद्वै तद्भद्रं ओंकारं पूर्वं आलेभे
(१,१.२५ज्) स्वरितोदात्त एकाक्षर ओंकार ऋग्वेदे
(१,१.२५क्) त्रैस्वर्योदात एकाक्षर ओंकारो यजुर्वेदे
(१,१.२५ल्) दीर्घप्लुतोदात्त एकाक्षर ओंकारः सामवेदे
(१,१.२५म्) ह्रस्वोदात्त एकाक्षर ओंकारोऽथर्ववेदे_
(१,१.२५न्) उदात्तोदात द्विपद अ उ इत्यर्धचतस्रो मात्रा मकारे व्यञ्जनं इत्याहुः_
(१,१.२५ओ) या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन
(१,१.२५प्) यस्तां ध्यायते नित्यं स गच्छेद्ब्राह्मं पदम्_
(१,१.२५क़्) या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन
(१,१.२५र्) यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम्_
(१,१.२५स्) या सा तृतीया मात्रैशानदेवत्या कपिला वर्णेन
(१,१.२५त्) यस्तां ध्यायते नित्यं स गच्छेदैशानं पदम्_
(१,१.२५उ) या सार्धचतुर्थी मात्रा सर्वदेवत्या व्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा वर्णेन
(१,१.२५व्) यस्तां ध्यायते नित्यं स गच्छेत्पदं अनामकम्
(१,१.२५w) ओंकारस्य चोत्पत्तिः_
(१,१.२५x) विप्रो यो न जानाति तत्पुनरुपनयनम्_
(१,१.२५य्) तस्माद्ब्राह्माणवचनं आदर्तव्यं यथा लातव्यो गोत्रो ब्रह्मणः पुत्रः_
(१,१.२५ज़्) गायत्रं च्छन्दः
(१,१.२५आ) शुक्लो वर्णः
(१,१.२५ब्ब्) पुंसो वत्सः
(१,१.२५च्च्) रुद्रो देवता
(१,१.२५द्द्) ओंकारो वेदानां । । २५ । ।
     
(१,१.२६अ) को धातुरिति_
(१,१.२६ब्) आपृधातुः_
(१,१.२६च्) अवतिं अप्येके
(१,१.२६द्) रूपसामान्यादर्थसामान्यं नेदीयस्
(१,१.२६ए) तस्मादापेरोंकारः सर्वं आप्नोतीत्यर्थः कृदन्तं अर्थवत्
(१,१.२६फ़्) प्रातिपदिकं अदर्शनम्_
(१,१.२६ग्) प्रत्ययस्य नाम संपद्यते निपातेषु चैनं वैयाकरणा उदात्तं समामनन्ति तदव्ययीभूतम्
(१,१.२६ह्) अन्वर्थवाची शब्दो न व्येति कदा चनेति
(१,१.२६इ) सदृशं त्रिषु लिङ्गेषु सर्वासु व विभक्तिषु वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्_
(१,१.२६ज्) को विकारी च्यवते
(१,१.२६क्) प्रसारणम्
(१,१.२६ल्) आप्नोतेराकरपकारौ विकार्यौ_
(१,१.२६म्) आदित ओंकारो विक्रियते
(१,१.२६न्) द्वितीयो मकारः_
(१,१.२६ओ) एव द्विवर्ण एकाक्षर ओं इत्योंकारो निर्वृत्तः । । २६ । ।

(१,१.२७अ) कतिमात्र इति_
(१,१.२७ब्) आदेस्तिस्रो मात्राः_
(१,१.२७च्) अभ्यादाने हि प्लवते
(१,१.२७द्) मकारश्चतुर्थीम्_
(१,१.२७ए) किं स्थानं इति_
(१,१.२७फ़्) उभावोष्ठौ स्थानम्_
(१,१.२७ग्) नादानुप्रदानकरणौ च द्विस्थानम्_ [एद्. नादान-, च्फ़्. Pअत्यल्प्. २८]
(१,१.२७ह्) संध्यक्षरं अवर्णलेशः कण्ठ्यो यथोक्तशेषः
(१,१.२७इ) पूर्वो विवृतकरणस्थितश्च
(१,१.२७ज्) द्वितीयस्पृष्टकरणस्थितश्च
(१,१.२७क्) न संयोगो विद्यते_
(१,१.२७ल्) आख्यातोपसर्गानुदात्तस्वरितलिङ्गविभक्तिवचनानि च संस्थानाध्यायिन आचार्याः पूर्वे बभूवुः
(१,१.२७म्) श्रवणादेव प्रतिपद्यन्ते न कारणं पृच्छन्ति_
(१,१.२७न्) अथापरपक्षीयाणां कविः पञ्चालचण्डः परिपृच्छको बभूवांबु पृथगुद्गीथदोषान्भवन्तो ब्रुवन्त्विति
(१,१.२७ओ) तद्वाच्युपलक्षयेद्वर्णाक्षरपदाङ्कशः_
(१,१.२७प्) विभक्त्यां ऋषिनिषेवितां इति वाचं स्तुवन्ति
(१,१.२७क़्) तस्मात्कारणं ब्रूमः_
(१,१.२७र्) वर्णानां अयं इदं भविष्यतीति
(१,१.२७स्) षडङ्गविदस्तत्तथाधीमहे
(१,१.२७त्) किं छन्द इति
(१,१.२७उ) गायत्रं हि छन्दः_
(१,१.२७व्) गायत्री वै देवानां एकाक्षरा श्वेतवर्णा च व्याख्याता
(१,१.२७w) द्वौ द्वादशकौ वर्गौ_
(१,१.२७x) एतद्वै व्याकरणं धात्वर्थवचनं शैक्ष्यं छन्दोवचनं च_
(१,१.२७य्) अथोत्तरौ द्वौ द्वादशकौ वर्गौ वेदरहसिकी व्याख्याता
(१,१.२७ज़्) मन्त्रः कल्पो ब्राहमणं ऋग्यजुः सामाथर्वाणि_
(१,१.२७आ) एषा व्याहृतिश्चतुर्णां वेदानां आनुपूर्वेणों भूर्भुवः स्वरिति व्याहृतयः । । २७ । ।
     
(१,१.२८अ) असमीक्ष्यप्रवल्हितानि श्रूयन्ते
(१,१.२८ब्) द्वापरादावृषीणां एकदेशो दोषपतिरिह चिन्तां आपेदे त्रिभिः सोमः पातव्यः समाप्तं इव भवति
(१,१.२८च्) तस्मादृग्यजुःसामान्यपक्रान्ततेजांस्यासन्_
(१,१.२८द्) तन्त्र महर्षयः परिदेवयां चक्रिरे
(१,१.२८ए) महच्छोकभयं प्राप्ताः स्मः_
(१,१.२८फ़्) न चैतत्सर्वैः समभिहितम्_
(१,१.२८ग्) ते वयं भगवन्तं एवोपधावाम
(१,१.२८ह्) सर्वेषां एव शर्म भवानीति
(१,१.२८इ) ते तथेत्युक्त्वा तूष्णीं अतिष्ठन्
(१,१.२८ज्) नानुपसन्नेभ्य इति_
(१,१.२८क्) उपोपसीदामीति नीचैर्बभूवुः
(१,१.२८ल्) स एभ्य उपनीय प्रोवाच
(१,१.२८म्) मामिकां एव व्याहृतिं आदित आदितः कृणुध्वं इति_
(१,१.२८न्) एवं मामका आधीयन्ते नर्ते भृग्वङ्गिरोविद्भ्यः सोमः पातव्यः_
(१,१.२८ओ) ऋत्विजः पराभवन्ति
(१,१.२८प्) यजमानो रजसापध्वस्यति
(१,१.२८क़्) श्रुतिश्चापध्वस्ता तिष्ठतीति_
(१,१.२८र्) एवं एवोत्तरोत्तराद्योगात्तोकं तोकं प्रशाध्वं इति_
(१,१.२८स्) एवं प्रतापो न पराभविष्यतीति
(१,१.२८त्) तथा ह तथा ह भगवन्निति प्रतिपेदिर आप्याययन्_
(१,१.२८उ) ते तथा वीतशोकभया बभूवुस्
(१,१.२८व्) तस्माद्ब्रह्मवादिन ओंकारं आदितः कुर्वन्ति । । २८ । ।

(१,१.२९अ) किं देवतं इति_
(१,१.२९ब्) ऋचां अग्निर्देवतम्_
(१,१.२९च्) तदेव ज्योतिः_
(१,१.२९द्) गायत्रं छन्दः
(१,१.२९ए) पृथिवी स्थानम्
(१,१.२९फ़्) <अग्निं ईळे पुरोहितं यज्ञस्य देवं ऋत्विजं होतारं रत्नधातमं [èV१.१.१]> इत्येवं आदिं कृत्वा ऋग्वेदं अधीयते
(१,१.२९ग्) यजुषां वायुर्देवतम्_
(१,१.२९ह्) तदेव ज्योतिस्
(१,१.२९इ) त्रैष्टुभं छन्दः_
(१,१.२९ज्) अन्तरिक्षं स्थानम्
(१,१.२९क्) <इषे त्वोर्जे त्वा वायव स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे [VS१.१]>_इत्येवं आदिं कृत्वा यजुर्वेदं अधीयते
(१,१.२९ल्) साम्नां आदित्यो देवतम्_
(१,१.२९म्) तदेव ज्योतिः_
(१,१.२९न्) जागतं छन्दः_
(१,१.२९ओ) द्यौः स्थानम्
(१,१.२९प्) <अग्न आ याहि वीतये गृणानो हव्यदातये नि होता सत्सि बर्हिषि [SV१.१]>_इत्येवं आदिं कृत्वा समावेदं अधीयते_
(१,१.२९क़्) अथर्वणां चन्द्रमा देवतम्_
(१,१.२९र्) तदेव ज्योतिः
(१,१.२९स्) सर्वाणि छन्दांसि_
(१,१.२९त्) आपः स्थानम्_
(१,१.२९उ) <शं नो देवीरभिष्टय [PS१.१.१]> इत्येवं आदिं कृत्वाथर्ववेदं अधीयते_
(१,१.२९व्) अद्भ्यः स्थावरजङ्गमो भूतग्रामः संभवति
(१,१.२९w) तस्मात्सर्वं आपोमयं भूतं सर्वं भृग्वङ्गिरोमयम्
(१,१.२९x) अन्तरैते त्रयो वेदा भृगूनङ्गिरसः श्रिता इत्यबिति प्रकृतिरपां ओंकारेण च_
(१,१.२९य्) एतस्माद्व्यासः पुरोवाच
(१,१.२९ज़्) भृग्वङ्गिरोविदा संस्कृतोऽन्यान्वेदानधीयीत
(१,१.२९आ) नान्यत्र संस्कृतो भृग़्गिरसोऽधीयीत
(१,१.२९ब्ब्) सामवेदेऽथ खिलश्रुतिर्ब्रह्मचर्येण चैतस्मादथर्वाङ्गिरसो ह यो वेद स वेद सर्वं इति ब्राह्मणं । । २९ । ।
     
(१,१.३०अ) अध्यात्मं आत्मभैषज्यं आत्मकैवल्यं ओंकारः_
(१,१.३०ब्) आत्मानं निरुध्य सङ्गममात्रीं भूतार्थचिन्तां चिन्तयेत्_
(१,१.३०च्) अतिक्रम्य वेदेभ्यः सर्वपरं अध्यात्मफलं प्राप्नोतीत्यर्थः
(१,१.३०द्) सवितर्कं ज्ञानमयं इत्येतैः प्रश्नैः प्रतिवचनैश्च यथार्थं पदं अनुविचिन्त्य प्रकरणज्ञो हि प्रबलो विषयी स्यात्सर्वस्मिन्वाकोवाक्य इति ब्राह्मणं । । ३० । ।

(१,१.३१अ) एतद्ध स्मैतद्विद्वांसं एकादशाक्षं मौद्गल्यं ग्लावो मैत्रेयोऽभ्याजगाम
(१,१.३१ब्) स तस्मिन्ब्रह्मचर्यं वसतो विज्ञायोवाच किं स्विन्मर्या अयं तन्मौद्गल्योऽध्येति यदस्मिन्ब्रह्मचर्यं वसतीति
(१,१.३१च्) तद्धि मौद्गल्यस्यान्तेवासी शुश्राव
(१,१.३१द्) स आचार्यायाव्रज्याचचष्टे
(१,१.३१ए) दुरधीयानं वा अयं भवन्तं अवोचद्योऽयं अद्यातिथिर्भवति
(१,१.३१फ़्) किं स्ॐय विद्वानिति
(१,१.३१ग्) त्रीन्वेदान्ब्रूते भो इति
(१,१.३१ह्) तस्य स्ॐय विपष्टो विजिगीषोऽन्तेवासी तं मे ह्वयेति
(१,१.३१इ) तं आजुहाव
(१,१.३१ज्) तं अभ्युवाचासाविति
(१,१.३१क्) भो इति
(१,१.३१ल्) किं स्ॐय त आचार्योऽध्येतीति
(१,१.३१म्) त्रीन्वेदान्ब्रूते
(१,१.३१न्) भो इति
(१,१.३१ओ) यन्नु खलु स्ॐयास्माभिः सर्वे वेदा मुखतो गृहीताः कथं त एवं आचार्यो भाषते
(१,१.३१प्) कथं नु शिष्टाः शिष्टेभ्य एवं भाषेरन्
(१,१.३१क़्) यं ह्येनं अहं प्रश्नं पृच्छामि न तं विवक्ष्यति
(१,१.३१र्) न ह्येनं अध्येतीति
(१,१.३१स्) स ह मौद्गल्यः स्वं अन्तेवासिनं उवाच परेहि स्ॐय ग्लावं मैत्रेयं उपसीद_
(१,१.३१त्) अधीहि भोः सावित्रीं गायत्रीं चतुर्विंशतियोनिं द्वादशमिथुनाम्_
(१,१.३१उ) यस्या भृग्वङ्गिरसश्चक्षुः_
(१,१.३१व्) यस्यां सर्वं इदं श्रितं तां भवान्प्रब्रवीत्विति
(१,१.३१w) स चेत्स्ॐय दुरधीयानो भविष्यत्याचार्योवाच ब्रह्मचारी ब्रह्माचारिणो सावित्रीं प्राहेति वक्ष्यति तत्त्वं ब्रूयाद्दुरधीयानं तं वै भवान्मौद्गल्यं अवोचत्
(१,१.३१x) स त्वा यं प्रश्नं अप्राक्षीन्न तं व्यवोचः
(१,१.३१य्) पुरा संवत्सरादार्तिं आरिष्यसीति । । ३१ । ।

(१,१.३२अ) स तत्राजगाम यत्रेतरो बभूव
(१,१.३२ब्) तं ह पप्रच्छ
(१,१.३२च्) स ह न प्रतिपेदे
(१,१.३२द्) तं होवाच दुरधीयानं तं वै भवान्मौद्गल्यं अवोचत्
(१,१.३२ए) स त्वा यं प्रश्नं अप्राक्षीन्न तं व्यवोचः
(१,१.३२फ़्) पुरा संवत्सरादार्तिं आरिष्यसीति
(१,१.३२ग्) स ह मैत्रेयः स्वानन्तेवासित उवाच यथार्थं भवन्तो यथागृहं यथामनो विप्रसृज्यन्ताम्_
(१,१.३२ह्) दुरधीयानं वा अहं मौद्गल्यं अवोचम्_
(१,१.३२इ) स मा यं प्रश्नं अप्राक्षीन्न तं व्यवोचम्_
(१,१.३२ज्) तं उपैष्यामि
(१,१.३२क्) शान्तिं करिष्यामीति
(१,१.३२ल्) स ह मैत्रेयः प्रातः समित्पाणिर्मौद्गल्यं उपससादासौ वा अहं भो मैत्रेयः
(१,१.३२म्) किमर्थं इति
(१,१.३२न्) दुरधीयानं वा अहं भवन्तं अवोचम्_
(१,१.३२ओ) त्वं मा यं प्रश्नं अप्राक्षीर्न तं व्यवोचम्_
(१,१.३२प्) त्वां उपैष्यामि
(१,१.३२क़्) शान्तिं करिष्यामीति
(१,१.३२र्) स होवाचात्र वा उपेतं च सर्वं च कृतं पापकेन त्वा यानेन चरन्तं आहुः_
(१,१.३२स्) अथोऽयं मम कल्याणस्[Pअत्यल्ऽस्त्रन्स्ल्. इम्प्लिएस्थे एमेन्दतिओनाहू रथो]
(१,१.३२त्) तं ते ददामि
(१,१.३२उ) तेन याहीति
(१,१.३२व्) स होवाचैतदेवात्रात्विषं चानृशंस्यं च यथा भवानाह_
(१,१.३२w) उपायामि त्वेव भवन्तं इति
(१,१.३२x) तं होपेयाय
(१,१.३२य्) तं होपेत्य पप्रच्छ किं स्विदाहुर्भोः सवितुर्वरेण्यं भर्गो देवस्य कवयः किं आहुर्धियो विचक्ष्व यदि ताः प्रवेत्थ
(१,१.३२ज़्) प्रचोदयात्सविता याभिरेतीति [एद्. प्रचोदयान्त्, चोर्र्. Pअत्यल्]
(१,१.३२आ) तस्मा एतत्प्रोवाच वेदांश्छन्दांसि सवितुर्वरेण्यम्
(१,१.३२ब्ब्) भर्गो देवस्य कवयोऽन्नं आहुः कर्माणि धियस्
(१,१.३२च्च्) तदु ते प्रब्रवीमि प्रचोदयात्सविता याभिरेतीति [एद्. प्रचोदयान्त्]
(१,१.३२द्द्) तं उपसंगृह्य पप्रच्छाधीहि भोः कः सविता का सावित्री । । ३२ । ।
(१,१.३३अ) मन एव सविता वाक्सावित्री
(१,१.३३ब्) यत्र ह्येव मनस्तद्वाग्यत्र वै वाक्तन्मन इति_
(१,१.३३च्) एते द्वे योनी एकं मिथुनम्
(१,१.३३द्) अग्निरेव सविता पृथिवी सावित्री
(१,१.३३ए) यत्र ह्येवाग्निस्तत्पृथिवी यत्र वै पृथिवी तदग्निरिति_
(१,१.३३फ़्) एते द्वे योनी एकं मिथुनम्_
(१,१.३३ग्) वायुरेव सवितान्तरिक्षं सावित्री
(१,१.३३ह्) यत्र ह्येव वायुस्तदन्तरिक्षं यत्र वा अन्तरिक्षं तद्वायुरिति_
(१,१.३३इ) एते द्वे योनी एकं मिथुनम्
(१,१.३३ज्) आदित्य एव सविता द्यौः सावित्री
(१,१.३३क्) यत्र ह्येवादित्यस्तद्द्यौर्यत्र वै द्यौस्तदादित्य इति_
(१,१.३३ल्) एते द्वे योनी एकं मिथुनम्_
(१,१.३३म्) चन्द्रमा एव सविता नक्षत्राणि सावित्री
(१,१.३३न्) यत्र ह्येव चन्द्रमास्तन्नक्षत्राणि यत्र वै नक्षत्राणि तच्चन्द्रमा इति_
(१,१.३३ओ) एते द्वे योनी एकं मिथुनम्
(१,१.३३प्) अहरेव सविता रात्रिः सावित्री
(१,१.३३क़्) यत्र ह्येवाहस्तद्रात्रिर्यत्र वै रात्रिस्तदहरिति_
(१,१.३३र्) एते द्वे योनी एक मिथुनम्
(१,१.३३स्) उष्णं एव सविता शीतं सावित्री
(१,१.३३त्) यत्र ह्येवोष्णं तच्छीतं यत्र वै शीतं तदुष्णं इति_
(१,१.३३उ) एते द्वे योनी एकं मिथुनम्
(१,१.३३व्) अभ्रं एव सविता वर्षं सावित्री
(१,१.३३w) यत्र ह्येवाभ्रं तद्वर्षं यत्र वै वर्षं तदभ्रं इति_
(१,१.३३x) एते द्वे योनी एकं मिथुनम्_
(१,१.३३य्) विद्युदेव सविता स्तनयित्नुः सावित्री
(१,१.३३ज़्) यत्र ह्येव विद्युत्तत्स्तनयित्नुर्यत्र वै स्तनयित्नुस्तद्विद्युदिति_
(१,१.३३आ) एते द्वे योनी एकं मिथुनम्_
(१,१.३३ब्ब्) प्राण एव सवितान्नं सावित्री
(१,१.३३च्च्) यत्र ह्येव प्राणस्तदन्नं यत्र वा अन्नं तत्प्राण इति_
(१,१.३३द्द्) एते द्वे योनी एकं मिथुनम्_
(१,१.३३ई) वेदा एव सविता छन्दांसि सावित्री_ [एद्. ओमित्स्सेन्तेन्चे एन्द्मर्केर्]
(१,१.३३फ़्फ़्) यत्र ह्येव वेदास्तच्छन्दांसि यत्र वै छन्दांसि तद्वेदा इति_
(१,१.३३ग्ग्) एते द्वे योनी एकं मिथुनम्_
(१,१.३३ह्ह्) यज्ञ एक सविता दक्षिणाः सावित्री
(१,१.३३इइ) यत्र ह्येव यज्ञस्तद्दक्षिणा यत्र वै दक्षिणास्तद्यज्ञ इति_
(१,१.३३ज्ज्) एते द्वे योनी एकं मिथुनम्
(१,१.३३क्क्) एतद्ध स्मैतद्विद्वांसं ओपाकारिं आसस्तुर्ब्रह्मचारी ते संस्थित इत्यथैत आसस्तुराचित इव चितो बभूव_
(१,१.३३ल्ल्) अथोत्थाय प्राव्राजीदित्येतद्वा अहं वेद नैतासु योनिष्वित एतेभ्यो वा मिथुनेभ्यः संभूतो ब्रह्मचारी मम पुरायुषः प्रेयादिति । । ३३ । ।

(१,१.३४अ) ब्रह्म हेदं श्रियं प्रतिष्ठां आयतनं ऐक्षत
(१,१.३४ब्) तत्तपस्व
(१,१.३४च्) यदि तद्व्रते ध्रियेत तत्सत्ये प्रत्यतिष्ठत्
(१,१.३४द्) स सविता सावित्र्या ब्राह्मणं सृष्ट्वा तत्सवित्रीं पर्यदधात्
(१,१.३४ए) तत्सवितुर्वरेण्यं इति सावित्र्याः प्रथमः पादः [एद्. सवित्र्याः]
(१,१.३४फ़्) पृथिव्यर्चं समदधात्_
(१,१.३४ग्) ऋचाग्निम्
(१,१.३४ह्) अग्निना श्रियम्_
(१,१.३४इ) श्रिया स्त्रियम्_
(१,१.३४ज्) स्त्रिया मिथुनम्_
(१,१.३४क्) मिथुनेन प्रजाम्_
(१,१.३४ल्) प्रजया कर्म
(१,१.३४म्) कर्मणा तपस्[एद्. कमणा]
(१,१.३४न्) तपसा सत्यम्_
(१,१.३४ओ) सत्येन ब्रह्म
(१,१.३४प्) ब्रह्मणा ब्राह्मणम्_
(१,१.३४क़्) ब्राह्मणेन व्रतम्_
(१,१.३४र्) व्रतेन वै ब्राह्मणः संशितो भवति_
(१,१.३४स्) अशून्यो भवत्यविछिन्नो भवत्यविछिन्नोऽस्य तन्तुरविछिन्नं जीवनं भवति य एवं वेद यश्चैवंविद्वानेवं एतं सावित्र्याः प्रथमं पादं व्याचष्टे । । ३४ । ।

(१,१.३५अ) भर्गो देवस्य धीमहीति सावित्र्या द्वितीयः पादः_
(१,१.३५ब्) अन्तरिक्षेण यजुः समदधात्_
(१,१.३५च्) यजुषा वायुम्_
(१,१.३५द्) वायुनाभ्रम्
(१,१.३५ए) अभ्रेण वर्षम्_
(१,१.३५फ़्) वर्षेणौषधिवनस्पतीन्
(१,१.३५ग्) ओषधिवनस्पतिभिः पशून्
(१,१.३५ह्) पशुभिः कर्म
(१,१.३५इ) कर्मणा तपस्
(१,१.३५ज्) तपसा सत्यम्_
(१,१.३५क्) सत्येन ब्रह्म
(१,१.३५ल्) ब्रह्मणा ब्राह्मणम्_
(१,१.३५म्) ब्राह्मणेन व्रतम्_
(१,१.३५न्) व्रतेन वै ब्राह्मणः संशितो भवति_
(१,१.३५ओ) अशून्यो भवत्यविछिन्नो भवत्यविछिन्नोऽस्य तन्तुरविछिन्नं जीवनं भवति य एवं वेद यश्चैवंविद्वानेवं एतं सावित्र्या द्वितीयं पादं व्याचष्टे । । ३५ । ।

(१,१.३६अ) धियो यो नः प्रचोदयादिति सावित्र्यास्तृतीयः पादः_
(१,१.३६ब्) दिवा साम समदधात्
(१,१.३६च्) साम्नादित्यम्
(१,१.३६द्) आदित्येन रश्मीन्[एद्. रश्मि+ईन्]
(१,१.३६ए) रश्मिभिर्वर्षम्_
(१,१.३६फ़्) वर्षेणौषधिवनस्पतीन्
(१,१.३६ग्) ओषधिवनस्पतिभिः पशून्
(१,१.३६ह्) पशुभिः कर्म
(१,१.३६इ) कर्मणा तपस्
(१,१.३६ज्) तपसा सत्यम्_
(१,१.३६क्) सत्येन ब्रह्म
(१,१.३६ल्) ब्रह्मणा ब्राह्मणम्_
(१,१.३६म्) ब्राह्मणेन व्रतम्_
(१,१.३६न्) व्रतेन वै ब्राह्मणः संशितो भवति_
(१,१.३६ओ) अशून्यो भवत्यविछिन्नो भवत्यविछिन्नोऽस्य तन्तुरविछिन्नं जीवनं भवति य एवं वेद यश्चैवंविद्वानेवं एतं सावित्र्यास्तृतीयं पादं व्याचष्टे । । ३६ । ।

(१,१.३७अ) तेन ह वा एवंविदुषा ब्राह्मणेन ब्रह्माभिपन्नं ग्रसितं परामृष्टम्_
(१,१.३७ब्) ब्रह्मणाकाशं अभिपन्नं ग्रसितं परामृष्टम्
(१,१.३७च्) आकाशेन वायुरभिपन्नो ग्रसितः परामृष्टः_
(१,१.३७द्) वायुना ज्योतिरभिपन्नं ग्रसितं परामृष्टम्_
(१,१.३७ए) ज्योतिषापोऽभिपन्ना ग्रसिताः परामृष्टाः_
(१,१.३७फ़्) अद्भिर्भूमिरभिपन्ना ग्रसिता परामृष्टा
(१,१.३७ग्) भूम्यान्नं अभिपन्नं ग्रसितं परामृष्टम्
(१,१.३७ह्) अन्नेन प्राणोऽभिपन्नो ग्रसितः परामृष्टः
(१,१.३७इ) प्राणेन मनोऽभिपन्नं ग्रसितं परामृष्टम्_
(१,१.३७ज्) मनसा वागभिपन्ना ग्रसिता परामृष्टा
(१,१.३७क्) वाचा वेदा अभिपन्ना ग्रसिताः परामृष्टाः_
(१,१.३७ल्) वेदैर्यज्ञोऽभिपन्नो ग्रसितः परामृष्टस्[एद्. परिमृष्टस्]
(१,१.३७म्) तानि ह वा एतानि द्वादशमहाभूतान्येवंविदि प्रतिष्ठितानि
(१,१.३७न्) तेषां यज्ञ एव परार्ध्यः । । ३७ । ।

(१,१.३८अ) तं ह स्मैतं एवांविद्वांसो मन्यन्ते विद्मैनं इति याथातथ्यं अविद्वांसः_
(१,१.३८ब्) अयं यज्ञो वेदेषु प्रतिष्ठितः_
(१,१.३८च्) वेदा वाचि प्रतिष्ठिताः_
(१,१.३८द्) वाङ्मनसि प्रतिष्ठिता
(१,१.३८ए) मनः प्राणे प्रतिष्ठितम्_
(१,१.३८फ़्) प्राणोऽन्ने प्रतिष्ठितः_
(१,१.३८ग्) अन्नं भूमौ प्रतिष्ठितम्_
(१,१.३८ह्) भूमिरप्सु प्रतिष्ठिता_
(१,१.३८इ) आपो ज्योतिषि प्रतिष्ठिताः_
(१,१.३८ज्) ज्योतिर्वायौ प्रतिष्ठितम्_
(१,१.३८क्) वायुराकाशे प्रतिष्ठितः_
(१,१.३८ल्) आकाशं ब्रह्मणि प्रतिष्ठितम्_
(१,१.३८म्) ब्रह्म ब्राह्मणे ब्रह्मविदि प्रतिष्ठितम्_
(१,१.३८न्) यो ह वा एवंवित्स ब्रह्मवित्
(१,१.३८ओ) पुण्यां च कीर्तिं लभते सुरभींश्च गन्धान्_
(१,१.३८प्) सोऽपहतपाप्मा_
(१,१.३८क़्) अनन्तां श्रियं अश्नुते य एवं वेद यश्चैवंविद्वानेवं एतां वेदानां मातरं सावित्रीं संपदं उपनिषदं उपास्त इति ब्राह्मणं । । ३८ । ।

(१,१.३९अ) <आपो गर्भं जनयन्तीर्[PS४.१.८]> इति_
(१,१.३९ब्) अपां गर्भः पुरुषः
(१,१.३९च्) स यज्ञः_
(१,१.३९द्) अद्भिर्यज्ञः प्रणीयमानः प्राङ्तायते
(१,१.३९ए) तस्मादाचमनीयं पूर्वं आहारयति
(१,१.३९फ़्) स यदाचामति त्रिराचामति
(१,१.३९ग्) द्विः परिशुम्भति_
(१,१.३९ह्) आयुरवरुह्य पाप्मानं निर्णुदति_
(१,१.३९इ) उपसाद्य यजुषोद्धृत्य मन्त्रान्प्रयुज्यावसाय प्राचीः शाखाः संधाय निरङ्गुष्ठे पाणावमृतं अस्यमृतोपस्तरणं अस्यमृताय त्वोपस्तृणामीति पाणावुदकं आनीय <जीवा स्थ [PS१९.५५.१२-१५, ऋS१९.६९.१-४]>_इति सूक्तेन त्रिराचामति
(१,१.३९ज्) स यत्पूर्वं आचामति सप्त प्राणांस्तानेतेनास्मिन्नाप्याययति
(१,१.३९क्) या ह्येमा बाह्याः शरीरान्मात्रास्तद्यथैतदग्निं वायुं आदित्यं चन्द्रमसं अपः पशूनन्यांश्च प्रजास्तानेतेनास्मिन्नाप्याययति_
(१,१.३९ल्) आपोऽमृतम्_
(१,१.३९म्) स यद्द्वितीयं आचामति सप्तापानांस्तानेतेनास्मिन्नाप्याययति
(१,१.३९न्) या ह्येमा बाह्याः शरीरान्मात्रास्तद्यथैतत्पौर्णमासीं अष्टकां अमावास्यां श्रद्धां दीक्षां यज्ञं दक्षिणास्तानेतेनास्मिन्नाप्याययति_
(१,१.३९ओ) आपोऽमृतम्_
(१,१.३९प्) स यत्तृतीयं आचामति सप्त व्यानांस्तानेतेनास्मिन्नाप्याययति
(१,१.३९क़्) या ह्येमा बाह्याः शरीरान्मात्रास्तद्यथैतत्पृथिवीं अन्तरिक्षं दिवम्_
(१,१.३९र्) नक्षत्राण्यृतूनार्तवान्संवत्सरांस्तानेतेनास्मिन्नाप्याययति_
(१,१.३९स्) आपोऽमृतम्_
(१,१.३९त्) पुरुषो ब्रह्म_
(१,१.३९उ) अथाप्रियनिगमो भवति तस्माद्वै विद्वान्पुरुषं इदं पुण्डरीकं इति [एद्. अथाप्रींग्निगमो, बुत्सी Pअत्यल्प्. ४४]
(१,१.३९व्) प्राण एष स पुरि शेते संपुरि शेत इति
(१,१.३९w) पुरिशयं सन्तं प्राणं पुरुष इत्याचक्षते परोक्षेण
(१,१.३९x) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
(१,१.३९य्) स यत्पूर्वं आचामति पुरस्ताद्धोमांस्तेनास्मिन्नवरुन्द्धे
(१,१.३९ज़्) स यद्द्वितीयं आचामत्याज्यभागौ तेनास्मिन्नवरुन्द्धे
(१,१.३९आ) स यत्तृतीयं आचामति संस्थितहोमांस्तेनास्मिन्नवरुन्द्धे
(१,१.३९ब्ब्) स यद्द्विः परिशुम्भति तत्समित्संबर्हिः [एद्. संमित्, च्फ़्. Pअत्यल्प्. ४५]
(१,१.३९च्च्) स यत्सर्वाणि खानि सर्वं देहं आप्याययति यच्चान्यदातारं मन्त्रकार्यं यज्ञे स्कन्दति सर्वं तेनास्मिन्नवरुन्द्धे
(१,१.३९द्द्) स यदोंपूर्वान्मन्त्रान्प्रयुङ्क्त आ सर्वमेधादेते क्रतव एत एवास्य सर्वेषु लोकेषु सर्वेषु देवेषु सर्वेषु वेदेषु सर्वेषु भूतेषु सर्वेषु सत्त्वेषु कामचारः कामविमोचनं भवत्यर्धे च न प्रमीयते य एवं वेद
(१,१.३९ई) तदप्येतदृचोक्तं आपो भृग्वङ्गिरो रूपं आपो भृग्वङ्गिरोमयं सर्वं आपोमयं भूतं सर्वं भृग्वङ्गिरोमयं अन्तरैते त्रयो वेदा भृगूनङ्गिरसोऽनुगाः । ।
(१,१.३९फ़्फ़्) अपां पुष्पं मूर्तिराकाशं पवित्रं उत्तमं इति_
(१,१.३९ग्ग्) आचम्याभ्युक्ष्यात्मानं अनुमन्त्रयत <इन्द्र जीव [PS२०.४३.१, ऋS१९.७०.१]>_इति ब्राह्मणं । । ३९ । ।

(१,१.३९चोल्) इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे प्रथमः प्रपाठकः । ।

(१,२.१अ) ओं <ब्रह्मचारीष्णंश्चरति रोदसी उभे [ऋS११.३.१अ, PS१६.१५३.१अ]> इत्याचार्यं आह
(१,२.१ब्) <तस्मिन्देवाः संमनसो भवन्ति [ऋS११.३.१, PS१६.१५३.१ब्(?)]>_इति वायुं आह
(१,२.१च्) <स सद्य एति पूर्वस्मादुत्तरं समुद्रं [ऋS११.३.६, PS१६.१५३.६]> इत्यादित्यं आह
(१,२.१द्) दीक्षितो दीर्घश्मश्रुः_
(१,२.१ए) एष दीक्षित एष दीर्घश्मश्रुरेष एवाचार्यस्थाने तिष्ठन्नाचार्य इति स्तूयते
(१,२.१फ़्) वैद्युतस्थाने तिष्ठन्वायुरिति स्तूयते द्यौस्थाने तिष्ठन्नादित्य इति स्तूयते
(१,२.१ग्) तदप्येतदृचोक्तं <ब्रह्मचारीष्णन्[ऋS११.३.१, PS१६.१५३.१]>_इति ब्राह्मणं । । १ । ।

(१,२.२अ) जायमानो ह वै ब्राह्मणः सप्तेन्द्रियाण्यभिजायते ब्रह्मवर्चसं च यशश्च स्वप्नं च क्रोधं च श्लाघां च रूपं च पुण्यं एव गन्धं सप्तमम्_
(१,२.२ब्) तानि ह वा अस्यैतानि ब्रह्मचर्यं उपेत्योपक्रामन्ति
(१,२.२च्) मृगानस्य ब्रह्मवर्चसं गच्छति_
(१,२.२द्) आचार्यं यशः_
(१,२.२ए) अजगरं स्वप्नः_
(१,२.२फ़्) वराहं क्रोधः_
(१,२.२ग्) अपः श्लाघा
(१,२.२ह्) कुमारीं रूपम्
(१,२.२इ) ओषधिवनस्पतीन्पुण्यो गन्धः
(१,२.२ज्) स यन्मृगाजिनानि वस्ते तेन तद्ब्रह्मवर्चसं अवरुन्द्धे यदस्य मृगेषु भवति
(१,२.२क्) स ह स्नातो ब्रह्मवर्चसी भवति
(१,२.२ल्) स यदहरहराचार्याय कर्म करोति तेन तद्यशोऽवरुन्द्धे यदस्याचार्ये भवति
(१,२.२म्) स ह स्नातो यशस्वी भवति
(१,२.२न्) स यत्सुषुप्सुर्निद्रां निनयति तेन तं स्वप्नं अवरुन्द्धे योऽस्याजगरे भवति
(१,२.२ओ) तं ह स्नातं स्वपन्तं आहुः स्वपितु मैनं बोबुधथेति
(१,२.२प्) स यत्क्रुद्धो वाचा न कं चन हिनस्ति पुरुषात्पुरुषात्पापीयानिव मन्यमानस्तेन तं क्रोधं अवरुन्द्धे योऽस्य वराहे भवति
(१,२.२क़्) तस्य ह स्नातस्य क्रोधाः श्लाघीयसं विशन्ते_
(१,२.२र्) अथाद्भिः श्लाघमानो न स्नायात्
(१,२.२स्) तेन तां श्लाघां अवरुन्द्धे यास्याप्सु भवति
(१,२.२त्) स ह स्नातः श्लाघीयोऽन्येभ्यः श्लाघ्यते_
(१,२.२उ) अथैतद्ब्रह्मचारिणो रूपं यत्कुमार्यास्
(१,२.२व्) तां नग्नां नोदीक्षेत_
(१,२.२w) इति वेति वा मुखं विपरिधापयेत्
(१,२.२x) तेन तद्रूपं अवरुन्द्धे यदस्य कुमार्यां भवति
(१,२.२य्) तं ह स्नातं कुमारीं इव निरीक्षन्ते_
(१,२.२ज़्) अथैतद्ब्रह्मचारिणः पुण्यो गन्धो य ओषधिवनस्पतीनां तासां पुण्यं गन्धं प्रच्छिद्य नोपजिघ्रेत्
(१,२.२आ) तेन तं पुण्यं गन्धं अवरुन्द्धे योऽस्यौषधिवनस्वपतिषु भवति
(१,२.२ब्ब्) स ह स्नातः पुण्यगन्धिर्भवति । । २ । ।

(१,२.३अ) स वा एष उपयंश्चतुर्धोपैत्यग्निं पादेनाचार्यं पादेन ग्रामं पादेन मृत्युं पादेन
(१,२.३ब्) स यदहरहः समिध आहृत्य सायंप्रातरग्निं परिचरेत्तेन तं पादं अवरुन्द्धे योऽस्याग्नौ भवति
(१,२.३च्) स यदहरहराचार्याय कर्म करोति तेन तं पादं अवरुन्द्धे योऽस्याचार्ये भवति
(१,२.३द्) स यदहरहर्ग्रामं प्रविश्य भिक्षां एव परीप्सति न मैथुनं तेन तं पादं अवरुन्द्धे योऽस्य ग्रामे भवति
(१,२.३ए) स यत्क्रुद्धो वाचा न कं चन हिनस्ति पुरुषात्पुरुषात्पापीयानिव मन्यमानस्तेन तं पादं अवरुन्द्धे योऽस्य मृत्यौ भवति । । ३ । ।

(१,२.४अ) पञ्च ह वा एते ब्रह्मचारिण्यग्नयो धीयन्ते
(१,२.४ब्) द्वौ पृथग्घस्तयोर्मुखे हृदय उपस्थ एव पञ्चमः
(१,२.४च्) स यद्दक्षिणेन पाणिना स्त्रियं न स्पृशति तेनाहरहर्याजिनां लोकं अवरुन्द्धे
(१,२.४द्) यत्सव्येन तेन प्रव्राजिनाम्_
(१,२.४ए) यन्मुखेन तेनाग्निप्रस्कन्दिनाम्_
(१,२.४फ़्) यद्धृदयेन तेन शूराणाम्_
(१,२.४ग्) यदुपस्थेन तेन गृहमेधिनाम्_
(१,२.४ह्) तैश्चेत्स्त्रियं पराहरत्यनग्निरिव शिष्यते
(१,२.४इ) स यदहरहराचार्याय कुलेऽनुतिष्ठते सोऽनुष्ठाय ब्रूयाद्धर्म गुप्तो मा गोपायेति
(१,२.४ज्) धर्मो हैनं गुप्तो गोपायति
(१,२.४क्) तस्य ह प्रजा श्वः श्वः श्रेयसी श्रेयसीह भवति
(१,२.४ल्) धाय्यैव प्रतिधीयते
(१,२.४म्) स्वर्गे लोके पितॄन्निदधाति
(१,२.४न्) तान्तवं न वसीत
(१,२.४ओ) यस्तान्तवं वस्ते क्षत्रं वर्धते न ब्रह्म
(१,२.४प्) तस्मात्तान्तवं न वसीत ब्रह्म वर्धतां मा क्षत्रं इति
(१,२.४क़्) नोपर्यासीत
(१,२.४र्) यदुपर्यास्ते प्राणं एव तदात्मनोऽधरं कुरुते यद्वातो वहति_
(१,२.४स्) अध एवासीताधः शयीताधस्तिष्ठेदधो व्रजेत्_
(१,२.४त्) एवं ह स्म वै तत्पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति
(१,२.४उ) तं ह स्म तत्पुत्रं भ्रातरं वोपतापिनं आहुरुपनयेतैनं इति_
(१,२.४व्) आ समिद्धारात्स्वरेष्यन्तोऽन्नं अद्यात्_
(१,२.४w) अथाह जघनं आहुः स्नापयेतैनं इतिया समिद्धारात्_
(१,२.४x) न ह्येतानि व्रतानि भवन्ति
(१,२.४य्) तं चेच्छयानं आचार्योऽभिवदेत्स प्रतिसंहाय प्रतिशृणुयात्
(१,२.४ज़्) तं चेच्छयानं उत्थाय तं चेदुत्थितं अभिप्रक्रम्य तं चेदभिप्रक्रान्तं अभिपलायमानम्
(१,२.४आ) एवं ह स्म वै तत्पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति
(१,२.४ब्ब्) तेषां ह स्म वैषा पुण्या कीर्तिर्गच्छत्या ह वा अयं सोऽद्य गमिष्यतीति । । ४ । ।

(१,२.५अ) जनमेजयो ह वै पारीक्षितो मृगयां चरिष्यन्हंसाभ्यां असिष्यन्नुपावतस्थ इति
(१,२.५ब्) तावूचतुर्जनमेजयं पारीक्षितं अभ्याजगाम
(१,२.५च्) स होवाच
(१,२.५द्) नमो वां भगवन्तौ कौ नु भगवन्ताविति
(१,२.५ए) तावूचतुर्दक्षिणाग्निश्चाहवनीयश्चेति
(१,२.५फ़्) स होवाच नमो वां भगवन्तौ तदाकीयतां इति_
(१,२.५ग्) इहोपारामं इति_
(१,२.५ह्) अपि किल देवा न रमन्ते न हि देवा न रमन्तए_
(१,२.५इ) अपि चैकोपारामाद्देवा आरामं उपसंक्रामन्तीति
(१,२.५ज्) स होवाच नमो वां भगवन्तौ किं पुण्यं इति
(१,२.५क्) ब्रह्मचर्यं इति
(१,२.५ल्) किं लौक्यं इति
(१,२.५म्) ब्रह्मचर्यं एवेति
(१,२.५न्) तत्को वेद इति
(१,२.५ओ) दन्तावलो ध्ॐरः_
(१,२.५प्) अथ खलु दन्तावलो ध्ॐरो यावति तावति काले पारीक्षितं जनमेजयं अभ्याजगाम
(१,२.५क़्) तस्मा उत्थाय स्वयं एव विष्टरं निदधौ
(१,२.५र्) तं उपसंगृह्य पप्रच्छाधीहि भो किं पुण्यं इति
(१,२.५स्) ब्रह्मचर्यं इति
(१,२.५त्) किं लौक्यं इति
(१,२.५उ) ब्रह्मचर्यं एवेति
(१,२.५व्) तस्मा एतत्प्रोवाचाष्टाचत्वारिंशद्वर्षं सर्ववेदब्रह्मचर्यम्_
(१,२.५w) तच्चतुर्धा वेदेषु व्युह्य द्वादशवर्षं ब्रह्मचर्यं द्वादशवर्षाण्यवरार्धम्
(१,२.५x) अपि स्नायंश्चरेद्यथाशक्त्यपरम्_
(१,२.५य्) तस्मा उहस्यृषभौ सहस्रं ददौ_
(१,२.५ज़्) अप्यपकीर्तितं आचार्यो ब्रह्मचारीत्येक आहुराकाशं अधिदैवतम्
(१,२.५आ) अथाध्यात्मं ब्राह्मणो व्रतवांश्चरणवान्ब्रह्मचारी । । ५ । ।

(१,२.६अ) ब्रह्म ह वै प्रजा मृत्यवे संप्रायच्छत्_
(१,२.६ब्) ब्रह्मचारिणं एव न संप्रददौ
(१,२.६च्) स होवाचाश्यां अस्मिन्निति
(१,२.६द्) किं इति
(१,२.६ए) यां रात्रीं समिधं अनाहृत्य वसेत्तां आयुषोऽवरुन्धीयेति
(१,२.६फ़्) तस्माद्ब्रह्मचार्यहरहः समिध आहृत्य सायंप्रातरग्निं परिचरेत्_
(१,२.६ग्) नोपर्युपसादयेदथ प्रतिष्ठापयेत्_
(१,२.६ह्) यदुपर्युपसादयेज्जीमूतवर्षी तदहः पर्जन्यो भवति
(१,२.६इ) ते देवा अब्रुवन्ब्राह्मणो वा अयं ब्रह्मचर्यं चरिष्यति
(१,२.६ज्) ब्रूतास्मै भिक्षा इति गृहपतिर्ब्रूत बहुचारी गृहपत्न्या इति
(१,२.६क्) किं अस्या वृञ्जीताददत्या इति_
(१,२.६ल्) इष्टापूर्तसुकृतद्रविणं अवरुन्ध्यादिति
(१,२.६म्) तस्माद्ब्रह्मचारिणेऽहरहर्भिक्षां दद्याद्गृहिणी मा मायं इष्टापूर्तसुकृतद्रविणं अवरुन्ध्यादिति
(१,२.६न्) सप्तमीं नातिनयेत्सप्तमीं अतिनयन्न ब्रह्मचारी भवति
(१,२.६ओ) समिद्भैक्षे सप्तरात्रं अचरितवान्ब्रह्मचारी पुनरुपनेयो भवति । । ६ । ।

(१,२.७अ) नोपरिशायी स्यान्न गायनो न नर्तनो न सरणो न निष्ठीवेत्_
(१,२.७ब्) यदुपरिशायी भवत्यभीक्ष्णं निवासा जायन्ते
(१,२.७च्) यद्गायनो भवत्यभीक्ष्णश आक्रन्दान्धावन्ते
(१,२.७द्) यन्नर्तनो भवत्यभीक्ष्णशः प्रेतान्निर्हरन्ते
(१,२.७ए) यत्सरणो भवत्यभीक्ष्णशः प्रजाः संविशन्ते
(१,२.७फ़्) यन्निष्ठीवति मध्य एव तदात्मनो निष्ठीवति
(१,२.७ग्) स चेन्निष्ठीवेद्<दिवो नु मां [ऋS६.१२४.१, PS१९.४०.४, Vऐत्S१२.७]> <यदत्रापि मधोरहं [PS२०.३८.६, Vऐत्S१२.८]> <यदत्रापि रसस्य मे [PS२०.२७.८, Vऐत्S१२.९]>_इत्यात्मानं अनुमन्त्रयते
(१,२.७ह्) <यदत्रापि मधोरहं निरष्ठविषं अस्मृतं अग्निश्च तत्सविता च पुनर्मे जठरे धत्तां [PS२०.३८.६, Vऐत्S१२.८]> । । <यदत्रापि रसस्य मे परापपातास्मृतं तदिहोपह्वयामहे तन्म आप्यायतां पुनः [PS२०.२७.८]>_इति
(१,२.७इ) न श्मशानं आतिष्ठेत्
(१,२.७ज्) स चेदभितिष्ठेदुदकं हस्ते कृत्वा <यदीदमृतुकाम्येत्य्[PS२०.५४.९]> अभिमन्त्र्य जपन्त्सम्प्रोक्ष्य परिक्रामेत्
(१,२.७क्) समयायोपरिव्रजेद्
(१,२.७ल्) <यदीदमृतुकाम्याघं रिप्रं उपेयिम । अन्धः श्लोण इव हीयतां मा नोऽन्वागादघं यतः [PS२०.५४.९]>_इति_
(१,२.७म्) अथ हैतद्देवानां परिषूतं यद्ब्रह्मचारी
(१,२.७न्) तदप्येतदृचोक्तं देवानां एतत्परिषूतं अनभ्यारूढं चरति रोचमानं तस्मिन्सर्वे पशवस्तत्र यज्ञास्तस्मिन्नन्नं सह देवताभिरिति ब्राह्मणं । । ७ । ।

(१,२.८अ) प्राणापानौ जनयन्निति शङ्खस्य मुखे महर्षेर्वसिष्ठस्य पुत्र एतां वाचं ससृजे शीतोष्णाविहोत्सौ प्रादुर्भवेयातां इति
(१,२.८ब्) तथा तच्छश्वदनुवर्तते_
(१,२.८च्) अथ खलु विपाण्मध्ये वसिष्ठशिला नाम प्रथम आश्रमः_
(१,२.८द्) द्वितीयः कृष्णशिलास्
(१,२.८ए) तस्मिन्वसिष्ठः समतपत्_
(१,२.८फ़्) विश्वामित्रजमदग्नी जामदग्ने तपतः_
(१,२.८ग्) गौतमभरद्वाजौ सिंहौ प्रभवे तपतः_
(१,२.८ह्) गुंगुर्गुंगुवासे तपति_
(१,२.८इ) ऋषिरृषिद्रोणेऽभ्यतपत्_
(१,२.८ज्) अगस्त्योऽगस्त्यतीर्थे तपति
(१,२.८क्) दिव्यत्रिर्ह तपति
(१,२.८ल्) स्वयम्भूः कश्यपः कश्यपतुङ्गेऽभ्यतपत्_
(१,२.८म्) उलवृकर्क्षुतरक्षुः
(१,२.८न्) श्वा वराहचिल्वटिबब्रुकाः सर्पदंष्ट्रनः संहनुकृण्वानाः कश्यपतुङ्गदर्शनात्सरणवाटात्सिद्धिर्भवति
(१,२.८ओ) ब्राह्म्यं वर्षसहस्रं ऋषिवने ब्रह्मचार्येकपादेनातिष्ठति
(१,२.८प्) द्वितीयं वर्षसहस्रं मूर्धन्येवामृतस्य धारां आधारयत्_
(१,२.८क़्) ब्राह्माण्यष्टाचत्वारिंशद्वर्षसहस्राणि सलिलस्य पृष्ठे शिवोऽभ्यतपत्
(१,२.८र्) तस्मात्तप्तात्तपसो भूय एवाभ्यतपत्
(१,२.८स्) तदप्येता ऋचोऽभिवदन्ति प्राणापानौ जनयन्निति ब्राह्मणं । । ८ । ।

(१,२.९अ) एकपाद्द्विपद इति
(१,२.९ब्) वायुरेकपात्
(१,२.९च्) तस्याकाशं पादः_
(१,२.९द्) चन्द्रमा द्विपात्
(१,२.९ए) तस्य पूर्वपक्षापरपक्षौ पादौ_
(१,२.९फ़्) आदित्यस्त्रिपात्
(१,२.९ग्) तस्येमे लोकाः पादाः_
(१,२.९ह्) अग्निः षट्पादस्
(१,२.९इ) तस्य पृथिव्यन्तरिक्षं द्यौराप ओषधिवनस्पतय इमानि भूतानि पादास्
(१,२.९ज्) तेषां सर्वेषां वेदा गतिरात्मा प्रतिष्ठिताश्चतस्रो ब्रह्मणः शाखाः_
(१,२.९क्) अथो आहुः षडिति मूर्तिराकाशश्चेति_ [एद्. अहुः]
(१,२.९क्) ऋचा मूर्तिः_
(१,२.९म्) याजुषी गतिः
(१,२.९न्) साममयं तेजः_
(१,२.९ओ) भृग्वङ्गिरसा माया_
(१,२.९प्) एतद्ब्रह्मैव यज्ञश्चतुष्पाद्द्विः संस्थित इति
(१,२.९क़्) तस्य भृग्वङ्गिरसः संस्थे
(१,२.९र्) अथो आहुरेकसंस्थित इति
(१,२.९स्) यद्धोतर्चां मण्डलैः करोति पृथिवीं तेनाप्याययति_
(१,२.९त्) एतस्यां ह्यग्निश्चरति
(१,२.९उ) तदप्येतदृचोक्तं <अग्निवासाः पृथिव्यसितज्ञूः [ऋS१२.१.२१, PS१७.३.२]>_इति
(१,२.९व्) यदध्वर्युर्यजुषा करोत्यन्तरिक्षं तेनाप्याययति
(१,२.९w) तस्मिन्वायुर्न निविशते कतमच्च नाहरिति
(१,२.९x) तदप्येतदृचोक्तं <अन्तरिक्षे पथिभिर्ह्रीयमाणो न नि विशते कतमच्च नाहः । अपां योनिः प्रथमजा ऋतस्य क्व स्विज्जातः कुत आ बभूव [PS१.१०७.४]>_इति
(१,२.९य्) यदुद्गाता साम्ना करोति दिवं तेनाप्याययति
(१,२.९ज़्) तत्र ह्यादित्यः शुक्रश्चरति
(१,२.९आ) तदप्येतदृचोक्तं <उच्चा पतन्तं अरुणं सुपर्णं [ऋS१३.२.३६, PS१८.२४.३]> इति
(१,२.९ब्ब्) यद्ब्रह्मर्चां काण्डैः करोत्यपस्तेनाप्याययति
(१,२.९च्च्) चन्द्रमा ह्यप्सु चरति
(१,२.९द्द्) तदप्येतदृचोक्तं चन्द्रमा अप्स्वन्तरिति तासां ओषधिवनस्पतयः काण्डानि
(१,२.९ई) ततो मूलकाण्डपर्णपुष्पफलप्ररोहरसगन्धैर्यज्ञो वर्तते_
(१,२.९फ़्फ़्) अद्भिः कर्णाणि प्रवर्तन्ते_
(१,२.९ग्ग्) अद्भिः सोमोऽभिषूयते
(१,२.९ह्ह्) तद्यद्ब्रह्माणां कर्णाणि कर्मण्यामन्त्रयत्यपस्तेनानुजानाति_
(१,२.९इइ) एषो ह्यस्य भागस्
(१,२.९ज्ज्) तद्यथा भोक्ष्यमाणः_
(१,२.९क्क्) अप एव प्रथमं आचामयेदप उपरिष्टादेवं यज्ञोऽद्भिरेव प्रवर्तते_
(१,२.९ल्ल्) अप्सु संस्थाप्यते तस्माद्ब्रह्मा पुरस्ताद्धोमसंस्थितहोमैर्यज्ञो वर्तते_
(१,२.९म्म्) अन्तरा हि पुरस्ताद्धोमसंस्थितहोमैर्यज्ञं परिगृह्णाति_
(१,२.९न्न्) अन्तरा हि भृग्वङ्गिरसो वेदानादुह्य भृग्वङ्गिरसः सोमपानं मन्यन्ते
(१,२.९ऊ) सोमात्मको ह्ययं वेद
(१,२.९प्प्) तदप्येतदृचोक्तं सोमं मन्यते पपिवानिति
(१,२.९क़्क़्) तद्यथेमां पृथिवीं उदीर्णां ज्योतिषा धूमायमानां वर्षं शमयति_
(१,२.९र्र्) एवं ब्रह्मा भृग्वङ्गिरोभिर्व्याहृतिभिर्यज्ञस्य विरिष्टं शमयति_
(१,२.९स्स्) अग्निरादित्याय शमयति_
(१,२.९त्त्) एतेऽङ्गिरसः_
(१,२.९उउ) एत इदं सर्वं समाप्नुवन्ति
(१,२.९व्व्) वायुरापश्चन्द्रमा इत्येते भृगवः_
(१,२.९ww) एत इदं सर्वं समाप्याययन्ति_
(१,२.९xx) एकं एव संस्थं भवतीति ब्राह्मणं । । ९ । ।

(१,२.१०अ) विचारी ह वै काबन्धिः कबन्धस्याथर्वणस्य पुत्रो मेधावी मीमांसकोऽनूचान आस
(१,२.१०ब्) स ह स्वेनातिमानेन मानुषं वित्तं नेयाय
(१,२.१०च्) तं मातोवाच
(१,२.१०द्) त एवैतदन्नं अवोचंस्त इम एषु कुरुपञ्चालेष्वङ्गमगधेषु काशिकौशलेषु शाल्वमत्स्येषु सवशोशीनरेषूदीच्येष्वन्नं अदन्तीति_
(१,२.१०ए) अथ वयं तवैवातिमानेनानाद्याः स्मः_
(१,२.१०फ़्) वत्स वाहनं अन्विच्छेति
(१,२.१०ग्) स मान्धातुर्यौवनाश्वस्य सार्वभ्ॐअस्य राज्ञः सोमं प्रसूतं आजगाम
(१,२.१०ह्) स सदोऽनुप्रविश्यर्त्विजश्च यजमानं चामन्त्रयां आस
(१,२.१०इ) तद्याः प्राच्यो नद्यो वहन्ति याश्च दक्षिणाच्यो याश्च प्रतीच्यो याश्चोदीच्यस्ताः सर्वाः पृथङ्नामधेया इत्याचक्षते
(१,२.१०ज्) तासां समुद्रं अभिपद्यमानानां छिद्यते नामधेयं समुद्र इत्याचक्षते
(१,२.१०क्) एवं इमे सर्वे वेदा निर्मिताः सकल्पाः सरहस्याः सब्राह्मणाः सोपनिषत्काः सेतिहासाः सान्वाख्यानाः सपुराणाः सस्वराः ससंस्काराः सनिरुक्ताः सानुशासनाः सानुमार्जनाः सवाकोवाक्यास्
(१,२.१०ल्) तेषां यज्ञं अभिपद्यमानानां छिद्यते नामधेयं यज्ञ इत्येवाचक्षते । । १० । ।

(१,२.११अ) भूमेर्ह वा एतद्विच्छिन्नं देवयजनं यदप्राक्प्रवणं यदनुदक्प्रवणं यत्कृत्रिमं यत्समविषमम्
(१,२.११ब्) इदं ह त्वेव देवयजनं यत्समं समूलं अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणं समं समास्तीर्णं इव भवति यत्र ब्राह्मणस्य ब्राह्मणतां विद्याद्ब्रह्मा ब्रह्मत्वं करोतीति
(१,२.११च्) वोचे छन्दस्तन्न विन्दामो येनोत्तरं एमहीति
(१,२.११द्) तान्ह पप्रच्छ किं विद्वान्होता हौत्रं करोति किं विद्वानध्वर्युराध्वर्यवं करोति किं विद्वानुद्गातौद्गात्रं करोति किं विद्वान्ब्रह्मा ब्रह्मत्वं करोतीति
(१,२.११ए) वोचे छन्दस्तन्न विन्दामो येनोत्तरं एमहीति
(१,२.११फ़्) ते ब्रूमो वागेव होता हौत्रं करोति
(१,२.११ग्) वाचो हि स्तोमाश्च वषट्काराश्चाभिसम्पद्यन्ते
(१,२.११ह्) ते ब्रूमो वागेव होता वाग्ब्रह्म वाग्देव इति
(१,२.११इ) प्राणापानाभ्यां एवाध्वर्युराध्वर्यवं करोति
(१,२.११ज्) प्राणप्रणीतानि ह भूतानि प्राणप्रणीताः प्रणीतास्
(१,२.११क्) ते ब्रूमः प्राणापानावेवाध्वर्युः प्राणापानौ ब्रह्म प्राणापानौ देव इति
(१,२.११ल्) चक्षुषैवोद्गातौद्गात्रं करोति
(१,२.११म्) चक्षुषा हीमानि भूतानि पश्यन्ति_
(१,२.११न्) अथो चक्षुरेवोद्गाता चक्षुर्ब्रह्म चक्षुर्देव इति
(१,२.११ओ) मनसैव ब्रह्मा ब्रह्मत्वं करोति
(१,२.११प्) मनसा हि तिर्यक्च दिश ऊर्ध्वं यच्च किं च मनसैव करोति तद्ब्रह्म
(१,२.११क़्) ते ब्रूमो मन एव ब्रह्मा मनो ब्रह्म मनो देव इति । । ११ । ।

(१,२.१२अ) तद्यथा ह वा इदं यजमानश्च याजयितारश्च दिवं ब्रूयुः पृथिवीति पृथिवीं वा द्यौरिति ब्रूयुस्तदन्यो नानुजानात्येतां एवं नानुजानाति यदेतद्ब्रूयात्_
(१,२.१२ब्) अथ नु कथं इति
(१,२.१२च्) होतेत्येव होतारं ब्रूयाद्वागिति वाचं ब्रह्मेति ब्रह्म देव इति देवं अध्वर्युरित्येवाध्वर्युं ब्रूयात्प्राणापानाविति प्राणापानौ ब्रह्मेति ब्रह्म देव इति देवं उद्गातेत्येवोद्गातारं ब्रूयाच्चक्षुरिति चक्षुर्ब्रह्मेति ब्रह्म देव इति देवं ब्रह्मेत्येव ब्रह्माणं ब्रूयान्मन इति मनो ब्रह्मेति ब्रह्म देव इति देवं । । १२ । ।

(१,२.१३अ) नानाप्रवचनानि ह वा एतानि भूतानि भवन्ति
(१,२.१३अ) ये चैवासोमपं याजयन्ति ये च सुरापं ये च ब्राह्मणं विच्छिन्नं सोमयाजिनं तं प्रातः समित्पाणय उपोदेयुरुपायामो भवन्तं इति
(१,२.१३अ) किमर्थं इति
(१,२.१३अ) यानेव नो भवांस्तान्ह्यः प्रश्नानपृच्छत्तानेव नो भवान्व्याचक्षीतेति
(१,२.१३अ) तथेति
(१,२.१३अ) तेभ्य एतान्प्रश्नान्व्याचचष्टे
(१,२.१३अ) तद्येन ह वा इदं विद्यमानं चाविद्यमानं चाभिनिदधाति तद्ब्रह्म
(१,२.१३अ) तद्यो वेद स ब्राह्मणोऽधीयानोऽधीत्याचक्षत इति ब्राह्मणं । । १३ । ।

(१,२.१४अ) अथातो देवयजनानि_
(१,२.१४ब्) आत्मा देवयजनम्_
(१,२.१४च्) श्रद्धा देवयजनम्
(१,२.१४द्) ऋत्विजो देवयजनम्_
(१,२.१४ए) भ्ॐअं देवयजनम्_
(१,२.१४फ़्) तद्वा एतदात्मा देवयजनं यदुपव्यायच्छमानो वानुपव्यायच्छमानो वा शरीरं अधिवसति_
(१,२.१४ग्) एष यज्ञः_
(१,२.१४ह्) एष यजतः_
(१,२.१४इ) एतं यजन्तः_
(१,२.१४ज्) एतद्देवयजनम्
(१,२.१४क्) अथैतच्छ्रद्धा देवयजनम्_
(१,२.१४ल्) यदैव कदा चिदादध्यात्_
(१,२.१४म्) श्रद्धा त्वेवैनं नातीयात्
(१,२.१४न्) तद्देवयजनम्
(१,२.१४ओ) अथैतदृत्विजो देवयजनम्_
(१,२.१४प्) यत्र क्व चिद्ब्राह्मणो विद्यावान्मन्त्रेण करोति तद्देवयजनम्
(१,२.१४क़्) अथेतद्भ्ॐअं देवयजनम्_
(१,२.१४र्) यत्रापस्तिष्ठन्ति यत्र स्यन्दन्ति प्र तद्वहन्त्युद्वहन्ति तद्देवयजनम्_
(१,२.१४स्) यत्समं समूलं अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणं समं समास्तीर्णं इव भवति यस्य श्वभ्र ऊर्मो वृक्षः पर्वतो नदी पन्था वा पुरस्तात्स्यात्_
(१,२.१४त्) न देवयजनमात्रं पुरस्तात्पर्यवशिष्येत्_
(१,२.१४उ) नोत्तरतोऽग्नेः पर्युपसीदेरन्निति ब्राह्मणं । । १४ । ।

(१,२.१५अ) अदितिर्वै प्रजाकामौदनं अपचत्
(१,२.१५ब्) तत उच्छिष्टं आश्नात्
(१,२.१५च्) सा गर्भं अधत्त
(१,२.१५द्) तत आदित्या अजायन्त
(१,२.१५ए) य एष ओदनः पच्यत आरम्भणं एवैतत्क्रियत आक्रमणं एव
(१,२.१५फ़्) प्रादेशमात्रीः समिधो भवन्ति_
(१,२.१५ग्) एतावान्ह्यात्मा प्रजापतिना संमितः_
(१,२.१५ह्) अग्नेर्वै या यज्ञिया तनूरश्वत्थे तया समगच्छत_
(१,२.१५इ) एषास्य घृत्या तनूर्यद्घृतम्_
(१,२.१५ज्) यद्घृतेन समिधोऽनक्ति ताभ्यां एवैनं तत्तनूभ्यां समर्धयति
(१,२.१५क्) यन्निर्मार्गस्यादधात्यवगूर्त्या वै वीर्यं क्रियते
(१,२.१५ल्) यन्निर्मार्गस्यादधात्यवगूर्त्या एव
(१,२.१५म्) संवत्सरो वै प्रजननम्
(१,२.१५न्) अग्निः प्रजननम्
(१,२.१५ओ) एतत्प्रजननम्_
(१,२.१५प्) यत्संवत्सर ऋचाग्नौ समिधं आदधाति प्रजननादेवैनं तत्प्रजनयिता प्रजनयति_
(१,२.१५क़्) अभक्तर्तुर्वै पुरुषः_
(१,२.१५र्) न हि तद्वेद यं ऋतुं अभिजायते
(१,२.१५स्) यन्नक्षत्रं तदाप्नोति
(१,२.१५त्) य एष ओदनः पच्यते योनिरेवैषा क्रियते
(१,२.१५उ) यत्समिध आधीयन्ते रेतस्तद्धीयते
(१,२.१५व्) संवत्सरे वै रेतो हितं प्रजायते
(१,२.१५w) यः संवत्सरे पर्येतेऽग्निं आधत्ते प्रजातं एवैनं आधत्ते
(१,२.१५x) द्वादशसु रात्रीषु पुरा संवत्सरस्याधेयास्
(१,२.१५य्) ता हि संवत्सरस्य प्रतिमा_
(१,२.१५ज़्) अथो तिसृष्वथो द्वयोरथो पूर्वेद्युराधेयास्त एवाग्निं आदधानेन_
(१,२.१५आ) आदित्या वा इत उत्तमा अमुं लोकं आयन्_
(१,२.१५ब्ब्) ते पथिरक्षयस्त इयक्षमाणं प्रतिनुदन्तः_
(१,२.१५च्च्) उच्छेषणभाजा वा आदित्याः_
(१,२.१५द्द्) [यदुच्छिष्टम्]_
(१,२.१५ई) यदुच्छिष्टेन समिधोऽनक्ति तेभ्य एव प्रावोचत्तेभ्य एव प्रोच्य स्वर्गं लोकं याति । । १५ । ।

(१,२.१६अ) प्रजापतिरथर्वा देवः स तपस्तप्त्वैतं चातुःप्राश्यं ब्रह्मौदनं निरमिमीत चतुर्लोकं चतुर्देवं चतुर्वेदं चतुर्हौत्रं इति
(१,२.१६ब्) चत्वारो वा इमे लोकाः पृथिव्यन्तरिक्षं द्यौराप इति
(१,२.१६च्) चत्वारो वा इमे देवा अग्निर्वायुरादित्यश्चन्द्रमाः_
(१,२.१६द्) चत्वारो वा इमे वेदा ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेद इति
(१,२.१६ए) चतस्रो वा इमा होत्रा हौत्रं आध्वर्यवं औद्गात्रं ब्रह्मत्वं इति
(१,२.१६फ़्) तदप्येतदृचोक्तं <चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आविवेश [PS८.१३.३]>_इति
(१,२.१६ग्) चत्वारि शृङ्गेति वेदा वा एत उक्तास्
(१,२.१६ह्) त्रयो अस्य पादा इति सवनान्येव
(१,२.१६इ) द्वे शीर्षे इति ब्रह्मौदनप्रवर्ग्यावेव
(१,२.१६ज्) सप्त हस्तासो अस्येति छन्दांस्येव
(१,२.१६क्) त्रिधा बद्ध इति मन्त्रः कल्पो ब्राह्मणम्_
(१,२.१६ल्) वृषभो रोरवीत्येष ह वै वृषभ एष तद्रोरवीति यद्यज्ञेषु शस्त्राणि शंसत्यृग्भिर्यजुर्भिः सामभिर्ब्रह्मभिरिति
(१,२.१६म्) महो देवो मर्त्यां आविवेशेत्येष ह वै महान्देवो यद्यज्ञः_
(१,२.१६न्) एष मर्त्यां आविवेश
(१,२.१६ओ) यो विद्यात्सप्त प्रवत इति प्राणानाह
(१,२.१६प्) सप्त विद्यात्परावत इत्यपानानाह
(१,२.१६क़्) शिरो यज्ञस्य यो विद्यादित्येतद्वै यज्ञस्य शिरो यन्मन्त्रवान्ब्रह्मौदनः_
(१,२.१६र्) यो ह वा एतं अमन्त्रवन्तं ब्रह्मौदनं उपेयादपशिरसा ह वा अस्य यज्ञं उपेतो भवति
(१,२.१६स्) तस्मान्मन्त्रवन्तं एव ब्रह्मौदनं उपेयान्नामन्त्रवन्तं इति ब्राह्मणं । । १६ । । [एद्. ब्राह्मनम्]

(१,२.१७अ) किं उपज्ञ आत्रेयो भवतीति_
(१,२.१७ब्) आदित्यं हि तमो जग्राह
(१,२.१७च्) तदत्रिरपनुनोद
(१,२.१७द्) तदत्रिरन्वपश्यत्
(१,२.१७ए) तदप्येतदृचोक्तं <स्रुताद्यं अत्रिर्दिवं उन्निनाय [ऋS१३.२.४च्, PS१८.२०.८च्]>
(१,२.१७फ़्) <दिवि त्वात्रिरधारयत्सूर्या मासाय कर्तवे [ऋS१३.२.१२अब्, PS१८.२१.६अब्]>_इति
(१,२.१७ग्) तं होवाच वरं वृणीष्वेति
(१,२.१७ह्) स होवाच दक्षिणीया मे प्रजा स्यादिति
(१,२.१७इ) तस्मादात्रेयाय प्रथमं दक्षिणा यज्ञे दीयन्त इति ब्राह्मणं । । १७ । ।

(१,२.१८अ) प्रजापतिर्वेदानुवाचाग्नीनादधीयेति
(१,२.१८ब्) तान्वागभ्युवाचाश्वो वै सम्भाराणां इति
(१,२.१८च्) तं घोरात्क्रूरात्सलिलात्सरस उदानिन्युस्
(१,२.१८द्) तान्वागभ्युवाचाश्वः शम्येतेति
(१,२.१८ए) तथेति
(१,२.१८फ़्) तं ऋग्वेद एत्योवाचाहं अश्वं शमेयं इति
(१,२.१८ग्) तस्मा अभिसृप्ताय महद्भयं ससृजे
(१,२.१८ह्) स एतां प्राचीं दिशं भेजे
(१,२.१८इ) स होवाचाशान्तो न्वयं अश्व इति
(१,२.१८ज्) तं यजुर्वेद एत्योवाचाहं अश्वं शमेयं इति
(१,२.१८क्) तस्मा अभिसृप्ताय महद्भयं ससृजे
(१,२.१८ल्) स एतां प्रतीचीं दिशं भेजे
(१,२.१८म्) स होवाचाशान्तो न्वयं अश्व इति
(१,२.१८न्) तं सामवेद एत्योवाचाहं अश्वं शमेयं इति
(१,२.१८ओ) केन नु त्वं शमयिष्यसीति
(१,२.१८प्) रथन्तरं नाम मे सामाघोरं चाक्रूरं च
(१,२.१८क़्) तेनाश्व अभिष्टूयेतेति
(१,२.१८र्) तस्मा अप्यभिसृप्ताय तदेव महद्भयं ससृजे
(१,२.१८स्) स एतां उदीचीं दिशं भेजे
(१,२.१८त्) स होवाचाशान्तो न्वयं अश्व इति
(१,२.१८उ) तान्वागभ्युवाच शंयुमाथर्वणं गच्छतेति
(१,२.१८व्) ते शंयुमाथर्वणं आसीनं प्राप्योचुर्नमस्ते अस्तु भगवन्नश्वः शम्येतेति
(१,२.१८w) तथेति
(१,२.१८x) स खलु कबन्धस्याथर्वणस्य पुत्रं आमन्त्रयां आस विचारिन्निति
(१,२.१८य्) भगो इति हास्मै प्रतिश्रुतं प्रतिश्रुश्राव_
(१,२.१८ज़्) अश्व शम्येतेति
(१,२.१८आ) तथेति
(१,२.१८ब्ब्) स खलु शान्त्युदकं चकाराथर्वणीभिश्चाङ्गिरसीभिश्च चातनैर्मातृनामभिर्वास्तोष्पत्यैरिति शमयति
(१,२.१८च्च्) तस्य ह स्नातस्याश्वस्याभ्युक्षितस्य सर्वेभ्यो रोमसमरेभ्योऽङ्गारा आशीर्यन्त
(१,२.१८द्द्) सोऽश्वस्तुष्टो नमस्कारं चकार
(१,२.१८ई) नमः शंयुमाथर्वणाय यो मा यज्ञियं अचीक्ळ्पदिति
(१,२.१८फ़्फ़्) भविष्यन्ति ह वा अतोऽन्ये ब्राह्मणा लघुसम्भारतमास्
(१,२.१८ग्ग्) त आदित्यस्य पद आधास्यन्त्यनडुहो वत्सस्याजस्य श्रवणस्य ब्रह्मचारिणो वा_
(१,२.१८ह्ह्) एतद्वा आदित्यस्य पदं यद्भूमिस्
(१,२.१८इइ) तस्यैव पद आहितं भविष्यतीति
(१,२.१८ज्ज्) सोऽग्नौ प्रणीयमाणेऽश्वेऽन्वारब्धं ब्रह्मा यजमानं वाचयति <यदक्रन्दः प्रथमं जायमानः [èV१.१६३.१]>_इति पञ्च
(१,२.१८क्क्) तं ब्राह्मणा उपवहन्ति तं ब्रह्मोपाकुरुत
(१,२.१८ल्ल्) एष ह वै विद्वान्त्सर्वविद्ब्रह्मा यद्भृङ्गिरोविदिति ब्राह्मणं । । १८ । ।

(१,२.१९अ) देवाश्च ह वा असुराश्चास्पर्धन्त
(१,२.१९ब्) ते देवा इन्द्रं अब्रुवन्निमं नस्तावद्यज्ञं गोपाय यावदसुरैः संयतामहा इति
(१,२.१९च्) स वै नस्तेन रूपेण गोपाय येन नो रूपेण भूयिष्ठं छादयसि येन शक्ष्यसि गोप्तुं इति
(१,२.१९द्) स ऋग्वेदो भूत्वा पुरस्तात्परीत्योपातिष्ठत्
(१,२.१९ए) तं देवा अब्रुवन्नन्यत्तद्रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुं इति
(१,२.१९फ़्) स यजुर्वेदो भूत्वा पश्चात्परीत्योपातिष्ठत्
(१,२.१९ग्) तं देवा अब्रुवन्नन्यत्तद्रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुं इति
(१,२.१९ह्) स समावेदो भूत्वोत्तरतः परीत्योपातिष्ठत्
(१,२.१९इ) तं देवा अब्रुवन्नन्यदेव तद्रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुं इति
(१,२.१९ज्) स इन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत्
(१,२.१९क्) तं देवा अब्रुवन्नेतत्तद्रूपं कुरुष्वैतेन नो रूपेण भूयिष्ठं छादयस्येतेन शक्ष्यसि गोप्तुं इति
(१,२.१९ल्) तद्यदिन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत्तद्ब्रह्माभवत्
(१,२.१९म्) तद्ब्रह्मणो ब्रह्मत्वम्_
(१,२.१९न्) तद्वा एतदथर्वणो रूपं यदुष्णीषी ब्रह्मा
(१,२.१९ओ) तं दक्षिणतो विश्वे देवा उपासीदन्_
(१,२.१९प्) तं यद्दक्षिणतो विश्वे देवा उपासीदंस्तत्सदस्योऽभवत्
(१,२.१९क़्) तत्सदस्यस्य सदस्यत्वम्_
(१,२.१९र्) बलेर्ह वा एतद्बलं उपजायते यत्सदस्ये_
(१,२.१९स्) आमयतो वै व्रजस्य बहुलतरं व्रजं विदन्ति
(१,२.१९त्) घोरा वा एषा दिग्दक्षिणा शान्ता इतरास्
(१,२.१९उ) तद्यानि स्तुतानि ब्रह्मानुमन्त्रयते मनसैव तानि सदस्यो जनदित्येतां व्याहृतिं जपति_
(१,२.१९व्) आत्मानं जनयति नजित्यात्मानं अपित्वे दधाति
(१,२.१९w) तं देवा अब्रुवन्वरं वृणीष्वेति
(१,२.१९x) वृणा इति
(१,२.१९य्) स वरं अवृणीत_
(१,२.१९ज़्) अस्यां एव मां होत्रायां इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तस्तिष्ठेयुरिति [एद्. तिस्थेयुर्, चोर्र्. Pअत्यल्]
(१,२.१९आ) तं तस्यां एव होत्रायां इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठन्_
(१,२.१९ब्ब्) तं यत्तस्यां एव होत्रायां इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठंस्तद्ब्राह्मणाच्छंस्यभवत्
(१,२.१९च्च्) तद्ब्राह्मणाच्छंसिनो ब्राह्मणाच्छंसित्वम्_
(१,२.१९द्द्) सैषैन्द्री होत्रा यद्ब्राह्मणाच्छंसीया
(१,२.१९ई) द्वितीयं वरं वृणीष्वेति
(१,२.१९फ़्फ़्) वृणा इति
(१,२.१९ग्ग्) स वरं अवृणीत_
(१,२.१९ह्ह्) अस्यां एव मां होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तस्तिस्थेयुरिति [एद्. तिस्थेयुर्]
(१,२.१९इइ) तं तस्यां एव होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठन्_
(१,२.१९ज्ज्) तं यत्तस्यां एव होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठंस्तत्पोताभवत्
(१,२.१९क्क्) तत्पोतुः पोतृत्वम्_
(१,२.१९ल्ल्) सैषा वायव्या होत्रा यत्पोत्रीया
(१,२.१९म्म्) तृतीयं वरं वृणीष्वेति
(१,२.१९न्न्) वृणा इति
(१,२.१९ऊ) स वरं अवृणीत_
(१,२.१९प्प्) अस्यां एव मां होत्रायां अग्निभूतं इन्धानाः पुनन्त स्तुवन्त शंसन्तस्तिष्ठेयुरिति [एद्. तिस्थेयुर्]
(१,२.१९क़्क़्) तं तस्यां एव होत्रायां अग्निभूतं इन्धानाः पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठन्_ [एद्.ऽतिस्थंस्, चोर्र्. Pअत्यल्]
(१,२.१९र्र्) तं यत्तस्यां एव होत्रायां अग्निभूतं इन्धानाः पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठंस्तदाग्नीध्रोऽभवत्[एद्.ऽतिस्थंस्]
(१,२.१९स्स्) तदाग्नीध्रस्याग्नीध्रत्वम्_
(१,२.१९त्त्) सैषाग्नेयी होत्रा यदाग्नीध्रीयेति ब्राह्मणं । । १९ । ।

(१,२.२०अ) ब्राह्मणो ह वा इमं अग्निं वैश्वानरं बभार
(१,२.२०ब्) सोऽयं अग्निर्वैश्वानरो ब्राह्मणेन भ्रियमाण इमांल्लोकाञ्जनयते_
(१,२.२०च्) अथायं ईक्षतेऽग्निर्जातवेदा ब्राह्मणद्वितीयो ह वा अयं इदं अग्निर्वैश्वानरो ज्वलति
(१,२.२०द्) हन्ताहं यन्मयि तेज इद्रियं वीर्यं तद्दर्शयाम्युत वै मा बिभृयादिति
(१,२.२०ए) स आत्मानं आप्याय्यैतं पयोऽधोक्
(१,२.२०फ़्) तं इमं ब्राह्मणं दर्शयित्वात्मन्यजुहोत्
(१,२.२०ग्) स द्वितीयं आत्मानं आप्याय्यैतं घृतं अधोक्
(१,२.२०ह्) तं इमं ब्राह्मणं दर्शयित्वात्मन्यजुहोत्
(१,२.२०इ) स तृतीयं आत्मानं आप्याय्यैतदिदं विश्वं विकृतं अन्नाद्यं अधोक्
(१,२.२०ज्) तं इमं ब्राह्मणं दर्शयित्वात्मन्यजुहोत्
(१,२.२०क्) स चतुर्थं आत्मानं आप्याय्यैतेन ब्राह्मणस्य जायां विराजं अपश्यत्
(१,२.२०ल्) तां अस्मै प्रायच्छत्
(१,२.२०म्) सात्मा अपित्वं अभवत्
(१,२.२०न्) तत इमं अग्निं वैश्वानरं परास्युर्ब्राह्मणोऽग्निं जातवेदसं अधत्त
(१,२.२०ओ) सोऽयं अब्रवीदग्ने जातवेदोऽभिनिधेहि मेहीति
(१,२.२०प्) तस्य द्वैतं नामाधत्ताघोरं चाक्रूरं च
(१,२.२०क़्) सोऽश्वो भवत्
(१,२.२०र्) तस्मादश्वो वहेन रथं न भवति पृस्थेन सादिनम्_
(१,२.२०स्) स देवानागच्छत्
(१,२.२०त्) स देवेभ्योऽन्वातिष्ठत्
(१,२.२०उ) तस्माद्देवा अबिभयुस्
(१,२.२०व्) तं ब्रह्मणे प्रायच्छत्
(१,२.२०w) तं एतयर्चाशमयत् । । २० । ।

(१,२.२१अ) <अग्निं त्वाहुर्वैश्वानरं सदनान्प्रदहन्वगाः । स नो देवत्राधि ब्रूहि मा रिषामा वयं तव [PS१.९५.३, सकल अल्सो अत्Vऐत्S६.७]>_इति
(१,२.२१ब्) तं एताभिः पञ्चभिरृग्भिरुपाकुरुते <यदक्रन्दः प्रथमं जायमानः [èV१.१६३.१]>_इति [एद्. प्रतमं, चोर्रेच्तेद्प्. ३०२]
(१,२.२१च्) सोऽशाम्यत्
(१,२.२१द्) तस्मादश्वः पशूनां जिघत्सुतमो भवति
(१,२.२१ए) वैश्वानरो ह्येष
(१,२.२१फ़्) तस्मादग्निपदं अश्वं ब्रह्मणे ददाति
(१,२.२१ग्) ब्रह्मणे हि प्रत्तम्_
(१,२.२१ह्) तस्य रसं अपीडयत्
(१,२.२१इ) स रसोऽभवत्_
(१,२.२१ज्) रसो ह वा एष
(१,२.२१क्) तं वा एतं रसं सन्तं रथ इत्याचक्षते परोक्षेण
(१,२.२१ल्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
(१,२.२१म्) स देवानागच्छत्
(१,२.२१न्) स देवेभ्योऽन्वातिष्ठत्
(१,२.२१ओ) तस्माद्देवा अबिभयुस्
(१,२.२१प्) तं ब्रह्मणे प्रायच्छत्
(१,२.२१क़्) तं एतयर्चाज्याहुत्याभ्यजुहोत्_
(१,२.२१र्) <इन्द्रस्यौजो मरुतां अनीकं [ऋS६.१२५.३, च्फ़्. PS१५.११.७]> इति रथं अभिहुत्य तं एतयर्चातिष्ठद्<वनस्पते वीड्वङ्गो हि भूयाः [ऋS६.१२५.१, PS१५.११.८]> इति
(१,२.२१स्) तस्मादाग्न्याधेयिकं रथं ब्रह्मणे ददाति
(१,२.२१त्) ब्रह्मणे हि प्रत्तम्_
(१,२.२१उ) तस्य तक्षाणस्तनूं ज्येष्ठां दक्षिणां निरमिमत
(१,२.२१व्) तां पञ्चस्वपश्यदृचि यजुषि साम्नि शान्तेऽथ घोरे
(१,२.२१w) तासां द्वे ब्रह्मणे प्रायच्छद्वाचं च ज्योतिश्च
(१,२.२१x) वाग्वै धेनुर्ज्योतिर्हिरण्यम्_
(१,२.२१य्) तस्मादाग्न्याधेयिकां चातुःप्राश्यां धेनुं ब्रह्मणे ददाति
(१,२.२१ज़्) ब्रह्मणे हि प्रत्ता
(१,२.२१आ) पशुषु शाम्यमानेषु चक्षुर्हापयन्ति
(१,२.२१ब्ब्) चक्षुरेव तदात्मनि धत्ते
(१,२.२१च्च्) यद्वै चक्षुस्तद्धिरण्यम्_
(१,२.२१द्द्) तस्मादाग्न्याधेयिकं हिरण्यं ब्रह्मणे ददाति
(१,२.२१ई) ब्रह्मणे हि प्रत्तं
(१,२.२१फ़्फ़्) तस्यात्मन्नधत्त
(१,२.२१ग्ग्) तेन प्राज्वलयत्_
(१,२.२१ह्ह्) यन्नाधत्त तदाग्लाभवत्
(१,२.२१इइ) तदाग्ला भूत्वा सा समुद्रं प्राविशत्[च्फ़्. PS१७.२८.१ फ़ोर्थिसन्द्थे फ़ोल्लोwइन्ग्सेन्तेन्चेस्]
(१,२.२१ज्ज्) सा समुद्रं अदहत्
(१,२.२१क्क्) तस्मात्समुद्रो दुर्गिरवपि
(१,२.२१ल्ल्) वैश्वानरेण हि दग्धः
(१,२.२१म्म्) सा पृथिवीं उदैत्
(१,२.२१न्न्) सा पृथिवीं व्यदहत्
(१,२.२१ऊ) सा देवानागच्छत्
(१,२.२१प्प्) सा देवानहेडत्
(१,२.२१क़्क़्) ते देवा ब्रह्माणं उपाधावन्_
(१,२.२१र्र्) स नैवागायन्नानृत्यत्
(१,२.२१स्स्) सैषाग्ला_
(१,२.२१त्त्) एषा कारुविदा नम
(१,२.२१उउ) तं वा एतं आग्लाहतं सन्तं आग्लागृध इत्याचक्षते परोक्षेण
(१,२.२१व्व्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषाः_ [एद्. -द्विषो]
(१,२.२१ww) य एष ब्राह्मणो गायनो नर्तनो वा भवति तं आग्लागृध इत्याचक्षते
(१,२.२१xx) तस्माद्ब्राह्मणो नैव गायेन्न नृत्येन्माग्लागृधः स्यात्
(१,२.२१य्य्) तस्माद्ब्राह्म्यं पूर्वं हविरपरं प्राजापत्यं
(१,२.२१ज़्ज़्) प्राजापत्याद्ब्राह्म्यं एवोत्तरं इति ब्राह्मणं । । २१ । ।

(१,२.२२अ) अथर्वाणश्च ह वा अङ्गिरसश्च भृगुचक्षुषी तद्ब्रह्माभिव्यपश्यन्_
(१,२.२२ब्) तदजानन्वयं वा इदं सर्वं यद्भृग्वङ्गिरस इति
(१,२.२२च्) ते देवा ब्राह्म्यं हविर्यत्सांतपनेऽग्नावजुहवुः_
(१,२.२२द्) एतद्वै ब्राह्म्यं हविर्यत्सांतपनेऽग्नौ हूयत
(१,२.२२ए) एष ह वै सांतपनोऽग्निर्यद्ब्राह्मणस्
(१,२.२२फ़्) तस्योर्जयोर्जां देवा अभजन्त सुमनस एव स्वधां पितरः श्रद्धया स्वर्गं लोकं ब्राह्मणास्
(१,२.२२ग्) तेन सुन्वन्त्यृषयोऽन्तत स्त्रियः केवल आत्मन्यवारुन्धत बाह्या उभयेन सुन्वन्ति
(१,२.२२ह्) यद्वै यज्ञे ब्राह्म्यं हविर्न निरुप्येतानृजवः प्राजापत्यहविषो मनुष्या जायेरन्_
(१,२.२२इ) असौ यांल्लोकाञ्छृण्विति पिता ह्येष आहवनीयस्य गार्हपत्यस्य दक्षिणाग्नेर्योऽग्निहोत्रं जुहोतीति [एद्. याल्लोकाञ्, आहवणीयस्य]
(१,२.२२ज्) देवाः प्रिये धामनि मदन्ति
(१,२.२२क्) तेषां एषोऽग्निः सांतपनः श्रेष्ठो भवति_
(१,२.२२ल्) एतस्य वाचि तृप्तायां अग्निस्तृप्यति
(१,२.२२म्) प्राणे तृप्ते वायुस्तृप्यति
(१,२.२२न्) चक्षुषि तृप्त आदित्यस्तृप्यति
(१,२.२२ओ) मनसि तृप्ते चन्द्रमास्तृप्यति
(१,२.२२प्) श्रोत्रे तृप्ते दिशश्चान्तर्देशाश्च तृप्यन्ति
(१,२.२२क़्) स्नेहेषु तृप्तेष्वापस्तृप्यन्ति
(१,२.२२र्) लोमेषु तृप्तेष्वोषधिवनस्पतयस्तृप्यन्ति
(१,२.२२स्) शरीरे तृप्ते पृथिवी तृप्तति_
(१,२.२२त्) एवं एषोऽग्निः सांतपनः श्रेष्ठस्तृप्तः सर्वांस्तृप्तांस्तर्पयतीति ब्राह्मणं । । २२ । ।

(१,२.२३अ) सांतपना इदं हविरिति_
(१,२.२३ब्) एष ह वै सांतपनोऽग्निर्यद्ब्राह्मणो यस्य गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणनिष्क्रमणान्नप्राशनगोदानचूडाकरणोपनयनाप्लवनाग्निहोत्रव्रतचर्यादीनि कृतानि भवन्ति स सांतपनः_
(१,२.२३च्) अथ योऽयमनग्निकः स कुम्भे लोष्टस्
(१,२.२३द्) तद्यथा कुम्भे लोष्टः प्रक्षिप्तो नैव शौचार्थाय कल्पते नैव शस्यं निर्वर्तयत्येवं एवायं ब्राह्मणोऽनग्निकस्तस्य ब्राह्मणस्यानग्निकस्य नैव दैवं दद्यान्न पित्र्यं न चास्य स्वाध्यायाशिषो न यज्ञाशिषः स्वर्गंगमा भवन्ति
(१,२.२३ए) तदप्येतदृचोक्तं <अग्निं दूतं वृणीमहे होतारं विश्ववेदसं । अस्य यज्ञस्य सुक्रतुं [ऋS२०.१०१.१, èV१.१२.१]> इति ब्राह्मणं । । २३ । ।

(१,२.२४अ) अथ ह प्रजापतिः सोमेन यक्ष्यमाणो वेदानुवाच कं वो होतारं वृणीय कं अध्वर्युं कं उद्गातारं कं ब्राह्मणं इति
(१,२.२४ब्) त ऊचुरृग्विदं एव होतारं वृणीष्.व यजुर्विदं अध्वर्युं सामविदं उद्गातारं अथर्वाङ्गिरोविदं ब्राह्मणम्_
(१,२.२४च्) तथा हास्य यज्ञश्चतुर्षु लोकेषु चतुर्षु देवेषु चतुर्षु वेदेषु चतसृषु होत्रासु चतुष्पाद्यज्ञः प्रतितिष्ठति
(१,२.२४द्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद
(१,२.२४ए) तस्मादृग्विदं एव होतारं वृणीष्व स हि हौत्रं वेद_
(१,२.२४फ़्) अग्निर्वै होता
(१,२.२४ग्) पृथिवी वा ऋचां आयतनम्
(१,२.२४ह्) अग्निर्देवता गायत्रं छन्दो भूरिति शुक्रम्_
(१,२.२४इ) तस्मात्तं एव होतारं वृणीष्वेत्येतस्य लोकस्य जितये_
(१,२.२४ज्) एतस्य लोकस्य विजितये_
(१,२.२४क्) एतस्य लोकस्य संजितये_
(१,२.२४ल्) एतस्य लोकस्यावरुद्धये_
(१,२.२४म्) एतस्य लोकस्य विवृद्धये_
(१,२.२४न्) एतस्य लोकस्य समृद्धये_
(१,२.२४ओ) एतस्य लोकस्योदात्तये_
(१,२.२४प्) एतस्य लोकस्य व्याप्तये_
(१,२.२४क़्) एतस्य लोकस्य पर्याप्तये_
(१,२.२४र्) एतस्य लोकस्य समाप्तये_
(१,२.२४स्) अथ चेन्नैवंविदं होतारं वृणुते पुरस्तादेवैषां यज्ञो रिच्यते
(१,२.२४त्) यजुर्विदं एवाध्वर्युं वृणीष्व स ह्याध्वर्यवं वेद
(१,२.२४उ) वायुर्वा अध्वर्युः_
(१,२.२४व्) अन्तरिक्षं वै यजुषां आयतनम्_
(१,२.२४w) वायुर्देवता त्रैष्टुभं छन्दो भुव इति शुक्रम्_
(१,२.२४x) तस्मात्तं एवाध्वर्युं वृणीष्वेत्येतस्य लोकस्येत्येव_
(१,२.२४य्) अथ चेन्नैवंविदं अध्वर्युं वृणुते पश्चादेवैषां यज्ञो रिच्यते
(१,२.२४ज़्) सामविदं एवोद्गातारं वृणीष्व
(१,२.२४आ) स ह्यौद्गात्रं वेद_
(१,२.२४ब्ब्) आदित्यो वा उद्गाता
(१,२.२४च्च्) द्यौर्वै साम्नां आयतनम्
(१,२.२४द्द्) आदित्यो देवता जागतं छन्दः स्वरिति शुक्रम्_
(१,२.२४ई) तस्मात्तं एवोद्गातारं वृणीष्वेत्येतस्य लोकस्येत्येव_
(१,२.२४फ़्फ़्) अथ चेन्नैवंविदं उद्गातारं वृणुत उत्तरत एवैषां यज्ञो रिच्यते_
(१,२.२४ग्ग्) अथर्वाङ्गिरोविदं एव ब्रह्माणं वृणीष्व
(१,२.२४ह्ह्) स हि ब्रह्मत्वं वेद
(१,२.२४इइ) चन्द्रमा वै ब्रह्मा_ [एद्. ब्रहापो]
(१,२.२४ज्ज्) आपो वै भृगवङ्गिरसां आयतनम्_
(१,२.२४क्क्) चन्द्रमा देवता वैद्युतश्चोष्णिक्काकुभे छन्दसी ओं इत्यथर्वणां शुक्रं जनदित्यङ्गिरसाम्_
(१,२.२४ल्ल्) तस्मात्तं एव ब्रह्माणं वृणीष्वेत्येतस्य लोकस्य जितये_
(१,२.२४म्म्) एतस्य लोकस्य विजितये_
(१,२.२४न्न्) एतस्य लोकस्य संजितये_
(१,२.२४ऊ) एतस्य लोकस्यावरुद्धये_
(१,२.२४प्प्) एतस्य लोकस्य विवृद्धये_
(१,२.२४क़्क़्) एतस्य लोकस्य समृद्धये_
(१,२.२४र्र्) एतस्य लोकस्योदात्तये_
(१,२.२४स्स्) एतस्य लोकस्य व्याप्तये_
(१,२.२४त्त्) एतस्य लोकस्य पर्याप्तये_
(१,२.२४उउ) एतस्य लोकस्य समाप्तये_
(१,२.२४व्व्) अथ चेन्नैवंविदं ब्रह्माणं वृणुते दक्षिणत एवैषां यज्ञो रिच्यते दक्षिणत एवैषां यज्ञो रिच्यते । । २४ । ।

(१,२.२४चोल्) इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे द्वितीयः प्रपाठकः । ।

(१,३.१अ) ओं दक्षिणाप्रवणा भूमिर्दक्षिणत आपो वहन्ति
(१,३.१ब्) तस्माद्यज्ञास्तद्भूमेरुन्नततरं इव भवति यत्र भृग्वङ्गिरसो विष्ठास्
(१,३.१च्) तद्यथाप इमांल्लोकानभिवहन्त्येवं एव भृग्वङ्गिरसः सर्वान्देवानभिवहन्ति_
(१,३.१द्) एवं एवैषा व्याहृतिः सर्वान्वेदानभिवहत्यों इति हर्चां ओं इति यजुषां ओं इति साम्नां ओं इति सर्वस्याहाभिवादस्
(१,३.१ए) तं ह स्मैतदुत्तरं यज्ञे विद्वांसः कुर्वन्ति
(१,३.१फ़्) देवा ब्रह्माण आगच्छतागच्छतेति_
(१,३.१ग्) एते वै देवा ब्रह्माणो यद्भृग्वङ्गिरसस्
(१,३.१ह्) तानेवैतद्गृणानास्तान्वृणाना ह्वयन्तो मन्यन्ते
(१,३.१इ) नान्योऽभृग्वङ्गिरोविदो वृतो यज्ञं आगच्छेन्
(१,३.१ज्) यज्ञस्य तेजसा तेज आप्नोत्यूर्जयोर्जां यशसा यशः_
(१,३.१क्) नान्योऽभृग्वङ्गिरोविदो वृतो यज्ञं आगच्छेन्नेद्यज्ञं परिमुष्णीयादिति
(१,३.१ल्) तद्यथा पूर्वं वत्सोऽधीत्य गां धयेदेवं ब्रह्मा भृग्वङ्गिरोविद्वृतो यज्ञं आगच्छेन्नेद्यज्ञं परिमुष्णीयादिति
(१,३.१म्) तद्यथा गौर्वाश्वो वाश्वतरो वैकपाद्द्विपात्त्रिपादिति स्यात्किं अभिवहेत्किं अभ्यश्नुयादिति
(१,३.१न्) तस्मादृग्विदं एव होतारं वृणीष्व यजुर्विदं अध्वर्युं सामविदं उद्गातारं अथर्वाङ्गिरोविदं ब्रह्माणम्_
(१,३.१ओ) तथा हास्य यज्ञश्चतुर्षु लोकेषु चतुर्षु देवेषु वेदेषु चतसृषु होत्रासु चतुष्पाद्यज्ञः प्रतितिष्ठति
(१,३.१प्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद यश्चैवं ऋत्विजां आर्त्विज्यं वेद यश्च यज्ञे यजनीयं वेदेति ब्राह्मणं । । १ । ।

(१,३.२अ) प्रजापतिर्यज्ञं अतनुत
(१,३.२ब्) स ऋचैव हौत्रं अकरोद्यजुषाध्वर्यवं साम्नौद्गात्रं अथर्वाङ्गिरोभिर्ब्रह्मत्वम्_
(१,३.२च्) तं वा एतं महावाद्यं कुरुते यदृचैव हौत्रं अकरोद्यजुषाध्वर्यवं साम्नौद्गात्रं अथर्वाङ्गिरोभिर्ब्रह्मत्वम्_
(१,३.२द्) स वा एष त्रिभिर्वेदैर्यज्ञस्यान्यतरः पक्षः संस्क्रियते
(१,३.२ए) मनसैव ब्रह्मा यज्ञस्यान्यत्रं पक्षं संस्करोति_
(१,३.२फ़्) अयं उ वै यः पवते स यज्ञस्
(१,३.२ग्) तस्य मनश्च वाक्च वर्तनी
(१,३.२ह्) मनसा चैव हि वाचा च यज्ञो वर्तते_
(१,३.२इ) अद एव मन इयं एव वाक्
(१,३.२ज्) स यद्वदन्नास्ति विद्यादर्धं मेऽस्य यज्ञस्यान्तरगादिति
(१,३.२क्) तद्यथैकपात्पुरुषो यन्नेकचक्रो वा रथो वर्तमानो भ्रेषं न्येत्येवं एवास्य यज्ञो भ्रेषं न्येति
(१,३.२ल्) यज्ञस्य भ्रेषं अनु यजमानो भ्रेषं न्येति
(१,३.२म्) यजमानस्य भ्रेषं अन्वृत्विजो भ्रेषं नियन्ति_
(१,३.२न्) ऋत्विजां भ्रेषं अनु दक्षिणा भ्रेषं नियन्ति
(१,३.२ओ) दक्षिणानां भ्रेषं अनु यजमानः पुत्रपशुभिर्भ्रेषं न्येति
(१,३.२प्) पुत्रपशूनां भ्रेषं अनु यजमानः स्वर्गेण लोकेन भ्रेषं न्येति
(१,३.२क़्) स्वर्गस्य लोकस्य भ्रेषं अनु तस्यार्धस्य योगक्षेमो भ्रेषं न्येति यस्मिन्नर्धे यजन्त इति ब्राह्मणं । । २ । ।

(१,३.३अ) तदु ह स्माह श्वेतकेतुरारुणेयो ब्रह्माणं दृष्ट्वा भाषमाणं अर्धं मेऽस्य यज्ञस्यान्तरगादिति
(१,३.३ब्) तस्माद्ब्रह्मा स्तुते बहिःपवमाने वाचोयम्यं उपांश्वन्तर्यामाभ्याम्
(१,३.३च्) अथ ये पवमाना ओदृचस्तेषु_
(१,३.३द्) अथ यानि स्तोत्राणि सशस्त्राण्या वषट्कारात्तेषु
(१,३.३ए) स यदृक्तो भ्रेषं न्यृच्छेदों भूर्जनदिति गार्हपत्ये जुहुयात्_
(१,३.३फ़्) यदि यजुष्ट ओं भुवो जनदिति दक्षिणाग्नौ जुदुयात्_
(१,३.३ग्) यदि सामत ओं स्वर्जनदित्याहवनीये जुहुयात्_
(१,३.३ह्) यद्यनाज्ञाताद्ब्रह्मतो वों भूर्भुवः स्वर्जनदों इत्याहवनीय एव जुहुयात्
(१,३.३इ) तद्वाकोवाक्यस्यर्चां यजुषां साम्नां अथर्वाङ्गिरसाम्
(१,३.३ज्) अथापि वेदानां रसन यज्ञस्य विरिष्टं संधीयते
(१,३.३क्) तद्यथा लवणेनेत्युक्तम्_
(१,३.३ल्) तद्यथोभयपात्पुरुषो यन्नुभयचक्रो वा रथो वर्तमानोऽभ्रेषं न्येति एवं एवास्य यज्ञोऽभ्रेषं न्येति
(१,३.३म्) यज्ञस्याभ्रेषं अनु यजमानोऽभ्रेषं न्येति
(१,३.३न्) यजमानस्याभ्रेषं अन्वृत्विजोऽभ्रेषं नियन्ति_
(१,३.३ओ) ऋत्विजां अभ्रेषं अनु दक्षिणा अभ्रेषं नियन्ति
(१,३.३प्) दक्षिणानां अभ्रेषं अनु यजमानः पुत्रपशुभिरभ्रेषं न्येति
(१,३.३क़्) पुत्रपशूनां अभ्रेषं अनु यजमानः स्वर्गेण लोकेनाभ्रेषं न्येति
(१,३.३र्) स्वर्गस्य लोकस्याभ्रेषं अनु तस्यार्धस्य योगक्षेमोऽभ्रेषं न्येति यस्मिन्नर्धे यजन्त इति ब्राह्मणं । । ३ । ।

(१,३.४अ) तद्यदौदुम्बर्यां म आसिष्ट हिङ्ङकार्षीन्मे प्रास्तावीन्म उदगासीन्मे सुब्रह्मण्यां आह्वासीदित्युद्गात्रे दक्षिणा नीयन्ते
(१,३.४ब्) ग्रहान्मेऽग्रहीत्प्राचारीन्मेऽशुश्रुवन्मे समनसस्कार्षीदयाक्षीन्मेऽवषट्कार्षीन्म इत्यध्वर्यवे
(१,३.४च्) होतृषदन आसिष्टायाक्षीन्मेऽशांसीन्मेऽवषट्कार्षीन्म इति होत्रे
(१,३.४द्) देवयजनं मे चीक्ळ्पद्ब्रह्मासादं मेऽसीसृपद्ब्रह्मजपान्मेऽजपीत्पुरस्ताद्धोमसंस्थितहोमान्मेऽहौषीदयाक्षीन्मेऽशांसीन्मेऽवषट्कार्षीन्म इति ब्रह्मणे
(१,३.४ए) भूयिष्ठेन मा ब्रह्मणाकार्षीदिति_
(१,३.४फ़्) एतद्वै भूयिष्ठं ब्रह्म यद्भृग्वङ्गिरसः_
(१,३.४ग्) येऽङ्गिरसः स रसो येऽथर्वाणो येऽथर्वाणस्तद्भेषजम्_
(१,३.४ह्) यद्भेषजं तदमृतं यदमृतं तद्ब्रह्म
(१,३.४इ) स वा एष पूर्वेषां ऋत्विजां अर्धभागस्यार्धं इतरेषां अर्धं ब्रह्मण इति ब्राह्मणं । । ४ । ।

(१,३.५अ) देवाश्च ह वा असुराश्च संग्रामं समयतन्त
(१,३.५ब्) तत्रैतास्तिस्रो होत्रा जिह्मं प्रतिपेदिरे
(१,३.५च्) तासां इन्द्र उक्थानि सामानि लुलोप
(१,३.५द्) तानि होत्रे प्रायच्छत्_
(१,३.५ए) आज्यं ह वै होतुर्बभूव
(१,३.५फ़्) प्रऽउगं पोतुर्वैश्वदेवं ह वै होतुर्बभूव
(१,३.५ग्) निष्केवल्यं नेष्टुः_
(१,३.५ह्) मरुत्वतीयं ह वै होतुर्बभूव_
(१,३.५इ) अग्निमारुतं आग्नीध्रस्य
(१,३.५ज्) तस्मादेतदभ्यस्ततरं इव शस्यते यदाग्निमारुतम्_
(१,३.५क्) तस्मादेते संशंसुका इव भवन्ति यद्धोता पोता नेष्टा_
(१,३.५ल्) आग्नीध्रो मुमुहे वसीत
(१,३.५म्) तद्ब्रह्मेयसामिवास
(१,३.५न्) तासां अर्धं प्रतिलुलोप प्रथमार्हणं च प्रथमपदं चैतद्दक्षिणां चैतत्परिशिषेदेदिति ब्राह्मणं । । ५ । ।

(१,३.६अ) उद्दालको ह वा आरुणिरुदीच्यान्वृतो धावयां चकार
(१,३.६ब्) तस्य ह निष्क उपाहितो बभूवोपवादाद्बिभ्यतो यो मा ब्राह्मणोऽनूचान उपवदिष्यति तस्मा एतं प्रदास्यमीति
(१,३.६च्) तद्धोदीच्यान्ब्राह्मणान्भयं विवेदोद्दालको ह वा अयं आयाति कौरुपञ्चोलो ब्रह्मा ब्रह्मपुत्रः
(१,३.६द्) स ऊर्ध्वं वृतो न पर्यादधीत
(१,३.६ए) केनेमं वीरेण प्रतिसंयतामहा इति
(१,३.६फ़्) तं यत एव प्रपन्नं दध्रे तत एवं अनुप्रतिपेदिरे ते ह स्वैदायनं शौनकं ऊचुः स्वैदायन त्वं वै नो ब्रह्मिष्ठोऽसीति
(१,३.६ग्) त्वयेमं वीरेण प्रतिसंयतामहा इति
(१,३.६ह्) तं यत एव प्रपन्नं दध्रे तत एवं अनुप्रतिपेदिरे
(१,३.६इ) तं ह स्वैदायना इत्यामन्त्रयां आस
(१,३.६ज्) स भो गौतमस्य पुत्रेति हास्मा असूया प्रतिश्रुतं प्रतिशुश्राव
(१,३.६क्) स वै गौतमस्य पुत्र ऊर्ध्वं वृतो धावेत् । । ६ । ।

(१,३.७अ) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमाः प्रजाः शिरस्तः प्रथमं लोमशा जायन्ते कस्मादासां अपरं इव श्मश्रूण्युपकक्षाण्यन्यानि लोमानि जायन्ते
(१,३.७ब्) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमाः प्राजाः शिरस्तः प्रथमं पलिता भवन्ति कस्मादन्ततः सर्वा एव पलिता भवन्ति
(१,३.७च्) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमाः प्रजा अदन्तिका जायन्ते कस्मादासां अपरं इव जायन्ते
(१,३.७द्) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादासां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते कस्मादासां पुनरेव जायन्ते कस्मादन्ततः सर्व एव प्रभिद्यन्ते
(१,३.७ए) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादधरे दन्ताः पूर्वे जायन्ते पर उत्तरे
(१,३.७फ़्) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादधरे दन्ताः अणीयांसो ह्रसीयांसः प्रथीयांसो वर्षीयांस उत्तरे
(१,३.७ग्) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमौ दंष्ट्रौ दीर्घतरौ कस्मात्समे इव जंभे
(१,३.७ह्) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमे श्रोत्रे अन्तरतः समे इव दीर्णे
(१,३.७इ) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मात्पुमांसः श्मश्रुवन्तोऽश्मश्रुवः स्त्रियः_
(१,३.७ज्) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादासां संततं इव शरीरं भवति कस्मादासां अस्थीनि दृढतराणीव भवन्ति
(१,३.७क्) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादासां प्रथमे वयसि रेतः सिक्तं न संभवति कस्मादासां मध्यमे वयसि रेतः सिक्तं संभवति कस्मादासां उत्तमे वयसि रेतः सिक्तं न संभवति
(१,३.७ल्) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिदं शिश्नं उच्चश एति नीची पद्यते [एद्. इं]
(१,३.७म्) कस्मात्सकृदपानं । । ७ । ।

(१,३.८अ) अथ यः पुरस्तादष्टावाज्यभागान्विद्यान्मध्यतः पञ्च हविर्भागाः षट्प्राजापत्या उपरिष्टादष्टावाज्यभागान्विद्यात्_
(१,३.८ब्) अथ यो गायत्रीं हरिणीं ज्योतिष्पक्षां सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकं अभिवहन्तीं विद्यात्_
(१,३.८च्) अथ यः अपङ्क्तिं पञ्चपदां सप्तदशाक्षरां सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकं अभिवहन्तीं विद्यात्
(१,३.८द्) तस्मै ह निष्कं प्रयच्छन्नुवाचानूचानो ह वै स्वैदायनासि सुवर्णं वै सुवर्णविदे ददामीति
(१,३.८ए) तदुपयम्य निश्चक्राम
(१,३.८फ़्) तत्रापवव्राज यत्रेतरो बभूव
(१,३.८ग्) तं ह पप्रच्छ किं एष गौतमस्य पुत्र इति_
(१,३.८ह्) एष ब्रह्मा ब्रह्मापुत्र इति होवाच यदेनं कश्चिदुपवदेतोत मीमांसेत ह वा मूर्धा वा अस्य विपतेत्प्राणा वैनं जह्युरिति
(१,३.८इ) ते मिथ एव चिक्रन्देयुर्विप्रापवव्रज यत्रेतरो बभूव
(१,३.८ज्) ते प्रातः समित्पाणय उपोदेयुरुपायामो भवन्तं इति
(१,३.८क्) किं अर्थं इति
(१,३.८ल्) यानेव नो भवांस्तान्ह्यः प्रश्नानपृच्छत्तानेव नो भवान्व्याचक्षीतेति
(१,३.८म्) तथेति
(१,३.८न्) तेभ्य एतान्प्रश्नान्व्याचचष्टे । । ८ । ।

(१,३.९अ) यत्पुरस्ताद्वेदेः प्रथमं बर्हि स्तृणाति तस्मादिमाः प्रजाः शिरस्तः प्रथमं लोमशा जायन्ते
(१,३.९ब्) यदपरं इव प्रस्तरं अनुप्रस्तृणाति तस्मादासां अपरं इव श्मश्रूण्युपकक्षाण्यन्यानि लोमानि जायन्ते
(१,३.९च्) यत्प्राग्बर्हिषः प्रस्तरं अनुप्रहरति तस्मादिमाः प्रजाः शिरस्तः प्रथमं पलिता भवन्ति
(१,३.९द्) यदन्ततः सर्वं एवानुप्रहरति तस्मादन्ततः सर्व एव पलिता भवन्ति
(१,३.९ए) यत्प्रयाजा अपुरोऽनुवाक्यावन्तो भवन्ति तस्मादिमाः प्रजा अदन्तिका जायन्ते
(१,३.९फ़्) यद्धवींषि पुरोऽनुवाक्यावन्ति भवन्ति तस्मादासां अपरं इव जायन्ते
(१,३.९ग्) यदनुयाजा अपुरोऽनुवाक्यावन्तो भवन्ति तस्मादासां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते
(१,३.९ह्) यत्पत्नीसंयाजाः पुरोऽनुवाक्यावन्तो भवन्ति तस्मादासां पुनरेव जायन्ते
(१,३.९इ) यत्समिष्टयजुरपुरोऽनुवाक्यावद्भवति तस्मादन्ततः सर्व एव प्रभिद्यन्ते
(१,३.९ज्) यद्गायत्र्यानूच्य त्रिष्टुभा यजति तस्मादधरे दन्ताः पूर्वे जायन्ते पर उत्तरे
(१,३.९क्) यदृचानूच्य यजुषा यजति तस्मादधरे दन्ता अणीयांसो ह्रसीयांसः प्रथीयांसो वर्षीयांस उत्तरे [एद्. वर्सीयांस]
(१,३.९ल्) यदाघारौ दीर्घतरौ प्राञ्चावाघारयति तस्मादिमौ दंष्ट्रौ दीर्घतरौ
(१,३.९म्) यत्संयाज्ये सच्छन्दसी तस्मात्समे इव जम्भे
(१,३.९न्) यच्चतुर्थे प्रयाजे समानयति तस्मादिमे श्रोत्रे अन्तरतः समे इव दीर्णे
(१,३.९ओ) यज्जपं जपित्वाभिहिंकृणोति तस्मात्पुमांसः श्मश्रुवन्तोऽश्मश्रुव स्त्रियः_
(१,३.९प्) यत्सामिधेनीः संतन्वन्नन्वाह तस्मादासां संततं इव शरीरं भवति
(१,३.९क़्) यत्सामिधेन्यः काष्ठहविषो भवन्ति तस्मादासां अस्थीनि दृढतराणीव भवन्ति
(१,३.९र्) यत्प्रयाजा आज्यहविषो भवन्ति तस्मादासां प्रथमे वयसि रेतः सिक्तं न संभवति
(१,३.९स्) यन्मध्ये हविषां दध्ना च पुरोडाशेन च प्रचरन्ति तस्मादासां मध्यमे वयसि रेतः सिक्तं संभवति
(१,३.९त्) यदनुयाजा आज्यहविषो भवन्ति तस्मादासां उत्तमे वयसि रेतः सिक्तं न संभवति
(१,३.९उ) यदुत्तमेऽनुयाजे सकृदपानिति तस्मादिदं शिश्नं उच्चश एति नीची पद्यते
(१,३.९व्) यन्नापानेत्सकृच्छूनं स्यात्_
(१,३.९w) यन्मुहुरपानेत्सकृत्पन्नं स्यात्
(१,३.९x) तस्मात्सकृदपानिति नेत्सकृच्छूनं स्यात्सकृत्पन्नं वेति । । ९ । ।

(१,३.१०अ) अथ ये पुरस्तादष्टावाज्यभागाः पञ्च प्रयाजा द्वावाघारौ द्वावाज्यभागावाग्नेय आज्यभागानां प्रथमः स्ॐयो द्वितीयो हविर्भागानाम्_
(१,३.१०ब्) हविर्ह्येव स्ॐयम्
(१,३.१०च्) आग्नेयः पुरोडाशः_
(१,३.१०द्) अग्नीषोमीयः पुरोडाशोऽग्निः स्विष्टकृदित्येते मध्यतः पञ्च हविर्भागाः_
(१,३.१०ए) अथ ये षट्प्राजापत्या इडा च प्राशित्रं च यच्चाग्नीध्रायावद्यति ब्रह्मभागो यजमानभागोऽन्वाहार्य एव षष्ठः_
(१,३.१०फ़्) अथ य उपरिष्टादष्टावाज्यभागास्त्रयोऽनुयाजाश्चत्वारः पत्नीसंयाजाः समिष्टयजुरष्टमम्
(१,३.१०ग्) अथ या गायत्री हरिणी ज्योतिष्पक्षा सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकं अभिवहति वेदिरेव सा
(१,३.१०ह्) तस्य ये पुरस्तादष्टावाज्याभागाः स दक्षिणः पक्षः_
(१,३.१०इ) अथ य उपरिष्टादष्टावाज्यभागाः स उत्तरः पक्षः_ [एद्. इपरिष्टाद्]
(१,३.१०ज्) हवींष्यात्मा [एद्. हविंष्य्]
(१,३.१०क्) गार्हपत्यो जघनम्
(१,३.१०ल्) आहवनीयः शिरः
(१,३.१०म्) सौवर्णराजतौ पक्षौ
(१,३.१०न्) तद्यदादित्यं पुरस्तात्पर्यन्तं न पश्यन्ति तस्मादज्योतिष्क उत्करो भवति_
(१,३.१०ओ) अथ या पङ्क्तिः पञ्चपदा सप्तदशाक्षरा सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकं अभिवहति याज्यैव सा
(१,३.१०प्) तस्या ओं श्रावयेति चतुरक्षरम्
(१,३.१०क़्) अस्तु श्रौषदिति चतुरक्षरम्_
(१,३.१०र्) यजेति द्व्यक्षरम्_
(१,३.१०स्) ये यजामह इति पञ्चाक्षरम्_
(१,३.१०त्) द्व्यक्षरो वै वषट्कारः सैषा पङ्क्तिः
(१,३.१०उ) पञ्चपदा सप्तदशाक्षरा सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकं अभिवहति
(१,३.१०व्) तद्यत्रास्यैश्वर्यं स्याद्यत्र वैनं अभिवहेयुरेवंविदं एव तत्र ब्रह्माणं वृणीयान्नानेवंविदं इति ब्राह्मणं । । १० । ।

(१,३.११अ) अथ ह प्राचीनयोग्य आजगामाग्निहोत्रं भवन्तं पृच्छामि गौतमेति
(१,३.११ब्) पृच्छ प्राचीनयोग्येति
(१,३.११च्) किंदेवत्यं ते गवीडायाम्_
(१,३.११द्) किंदेवत्यं उपहूतायाम्_
(१,३.११ए) किंदेवत्यं उपसृष्टायाम्_
(१,३.११फ़्) किंदेवत्यं वत्सं उन्नीयमानम्_
(१,३.११ग्) किंदेवत्यं वत्सं उन्नीतम्_
(१,३.११ह्) किंदेवत्यं दुह्यमानम्_
(१,३.११इ) किंदेवत्यं दुग्धम्_
(१,३.११ज्) किंदेवत्यं प्रक्रम्यमाणम्_
(१,३.११क्) किंदेवत्यं ह्रियमाणम्_
(१,३.११ल्) किंदेवत्यं अधिश्रीयमाणम्_
(१,३.११म्) किंदेवत्यं अधिश्रितम्_
(१,३.११न्) किंदेवत्यं अभ्यवज्वाल्यमानम्_
(१,३.११ओ) किंदेवत्यं अभ्यवज्वालितम्_
(१,३.११प्) किंदेवत्यं समुद्वान्तम्_
(१,३.११क़्) किंदेवत्यं विष्यण्णम्_
(१,३.११र्) किंदेवत्यं अद्भिः प्रत्यानीतम्_
(१,३.११स्) किंदेवत्यं उद्वास्यमानम्_
(१,३.११त्) किंदेवत्यं उद्वासितम्_
(१,३.११उ) किंदेवत्यं उन्नीयमानम्_
(१,३.११व्) किंदेवत्यं उन्नीतम्_
(१,३.११w) किंदेवत्यं प्रक्रम्यमाणम्_
(१,३.११x) किंदेवत्यं ह्रियमाणम्_
(१,३.११य्) किंदेवत्यं उपसाद्यमानम्_
(१,३.११ज़्) किंदेवत्यं उपसादितम्_
(१,३.११आ) किंदेवत्या समित्
(१,३.११ब्ब्) किंदेवत्यां प्रथमां आहुतिं अहौषीः
(१,३.११च्च्) किंदेवत्यं गार्हपत्यं अवेक्षिष्ठाः
(१,३.११द्द्) किंदेवत्योत्तराहुतिः
(१,३.११ई) किंदेवत्यं हुत्वा स्रुचं त्रिरुदञ्चं उदनैषीः
(१,३.११फ़्फ़्) किंदेवत्यं बर्हिषि स्रुचं निधायोन्मृज्योत्तरतः पाणी निरमार्क्षीः
(१,३.११ग्ग्) किंदेवत्यं द्वितीयं उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधां अकार्षीः
(१,३.११ह्ह्) किंदेवत्यं प्रथमं प्राशीः
(१,३.११इइ) किंदेवत्यं द्वितीयम्_
(१,३.११ज्ज्) किंदेवत्यं अन्ततः सर्वं एव प्राशीः
(१,३.११क्क्) किंदेवत्यं अप्रक्षालितयोदकं स्रुचा न्यनैषीः
(१,३.११ल्ल्) किंदेवत्यं प्रक्षालितया
(१,३.११म्म्) किंदेवत्यं अपरेणाहवनीयं उदकं स्रुचा न्यनैषीः [एद्. उदक]
(१,३.११न्न्) किंदेवत्यं स्रुवं स्रुचं च प्रत्यताप्सीः
(१,३.११ऊ) किंदेवत्यं रात्रौ स्रुग्दण्डं अवामार्क्षीः
(१,३.११प्प्) किंदेवत्यं प्रातरुदमार्क्षीरिति_
(१,३.११क़्क़्) एतच्चेद्वेत्थ गौतम हुतं ते यद्यु न वेत्थाहुतं त इति ब्राह्मणं । । ११ । ।

(१,३.१२अ) स होवाच रौद्रं मे गवीडयाम्_
(१,३.१२ब्) मानव्यं उपहूतायाम्_
(१,३.१२च्) वायव्यं उपसृष्टायाम्_
(१,३.१२द्) वैराजं वत्सं उन्नीयमानम्_
(१,३.१२ए) जागतं उन्नीतम्
(१,३.१२फ़्) आश्विनं दुह्यमानम्_
(१,३.१२ग्) स्ॐयं दुग्धम्_
(१,३.१२ह्) बार्हस्पत्यं प्रक्रम्यमाणम्_
(१,३.१२इ) द्यावापृथिव्यं ह्रियमाणं [एद्. ह्रियमानम्, चोर्र्. Pअत्यल्]
(१,३.१२ज्) आग्नेयं अधिश्रीयमाणम्_
(१,३.१२क्) वैश्वानरीयं अधिश्रितम्_
(१,३.१२ल्) वैष्णवं अभ्यवज्वाल्यमानम्_
(१,३.१२म्) मारुतं अभ्यवज्वालितम्_
(१,३.१२न्) पौष्णं समुद्वान्तम्_
(१,३.१२ओ) वारुणं विष्यन्नम्_
(१,३.१२प्) सारस्वतं अद्भिः प्रत्यानीतम्_
(१,३.१२क़्) त्वाष्ट्रं उद्वास्यमानम्_
(१,३.१२र्) धात्रं उद्वासितम्_
(१,३.१२स्) वैश्वदेवं उन्नीयमानम्_
(१,३.१२त्) सावित्रं उन्नीतम्_
(१,३.१२उ) बार्हस्पत्यं प्रक्रम्यमाणम्_
(१,३.१२व्) द्यावापृथिव्यं ह्रियमाणम्
(१,३.१२w) ऐन्द्रं उपसाद्यमानम्_
(१,३.१२x) बलायोपसन्नम्
(१,३.१२य्) आग्नेयी समित्_
(१,३.१२ज़्) यां प्रथमां आहुतिं अहौषं मां एव तत्स्वर्गे लोकेऽधाम्_
(१,३.१२आ) यद्गार्हपत्यं अवेक्षिषं अस्य लोकस्य संतत्यै
(१,३.१२ब्ब्) प्राजापत्योत्तराहुतिस्
(१,३.१२च्च्) तस्मात्पूर्णतरा मनसैव सा
(१,३.१२द्द्) यद्धुत्वा स्रुचं त्रिरुदञ्चं उदनैषं रुद्रांस्तेनाप्रैषम्_
(१,३.१२ई) यद्बर्हिषि स्रुचं निधायोन्मृज्योत्तरतः पाणी निरमार्क्षं ओषधिवनस्पतींस्तेनाप्रैषम्_
(१,३.१२फ़्फ़्) यद्द्वितीयं उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधां अकार्षं पितॄंस्तेनाप्रैषम्_
(१,३.१२ग्ग्) यत्प्रथमं प्राशिषं प्राणांस्तेनाप्रैषम्_
(१,३.१२ह्ह्) यद्द्वितीयं गर्भांस्तेन
(१,३.१२इइ) तस्मादनश्नन्तो गर्भा जीवन्ति
(१,३.१२ज्ज्) यदन्ततः सर्वं एव प्राशिषं विश्वान्देवांस्तेनाप्रैषम्_
(१,३.१२क्क्) यदप्रक्षालितयोदकं स्रुचा न्यनैषं सर्पेतरजनांस्तेनाप्रैषम्_
(१,३.१२ल्ल्) यत्प्रक्षालितया सर्पपुण्यजनांस्तेन
(१,३.१२म्म्) यदपरेणाहवनीयं उदकं स्रुचा न्यनैषं गन्धर्वाप्सरसस्तेनाप्रैषम्_
(१,३.१२न्न्) यत्स्रुवं स्रुचं च प्रत्यताप्सं सप्तर्षींस्तेनाप्रैषम्_
(१,३.१२ऊ) यद्रात्रौ स्रुग्दण्डं अवामार्क्षं ये रात्रौ संविशन्ति दक्षिणांस्तानुदनैषम्_
(१,३.१२प्प्) यत्प्रातरुदमार्क्षं ये प्रातः प्रव्रजन्ति दक्षिणांस्तानुदनैषं इति ब्राह्मणं । । १२ । ।

(१,३.१३अ) एवं एवैतद्भो यथा भवानाह
(१,३.१३ब्) पृच्छामि त्वेव भवन्तं इति
(१,३.१३च्) पृच्छ प्राचीनयोग्येति
(१,३.१३द्) यस्य सायं अग्नय उपसमाहिताः स्युः सर्वे ज्वलयेयुः प्रक्षालितानि यज्ञपात्राण्युपसन्नानि स्युरथ चेद्दक्षिणागिरुद्वायात्किं वा ततो भयं आगच्छेदिति
(१,३.१३ए) क्षिप्रं अस्य पत्नी प्रैति योऽविद्वाञ्जुहोति
(१,३.१३फ़्) विद्यया त्वेवाहं अभिजुहोमीति
(१,३.१३ग्) का ते विद्या का प्रायश्चित्तिरिति
(१,३.१३ह्) गार्हपत्यादधि दक्ष्.इणाग्निं प्रणीय प्राचोऽङ्गारानुद्धृत्य प्राणापानाभ्यं स्वाहेति जुहुयात्_
(१,३.१३इ) अथ प्रातर्यथास्थानं अग्नीनुपसामधाय यथापुरं जुहुयात्
(१,३.१३ज्) सा मे विद्या सा प्रायश्चित्तिरिति_
(१,३.१३क्) अथ चेदाहवनीय उद्वायात्किं वा ततो भयं आगच्छेदिति
(१,३.१३ल्) क्षिप्रं अस्य पुत्रः प्रैति योऽविद्वाञ्जुहोति
(१,३.१३म्) विद्यया त्वेवाहं अभिजुहोमीति
(१,३.१३न्) का ते विद्या का प्रायश्चित्तिरिति
(१,३.१३ओ) गार्हपत्यादध्याहवनीयं प्रणीय प्रतीचोऽङ्गारानुद्धृत्य समानव्यानाभ्यां स्वाहेति जुहुयात्_
(१,३.१३प्) अथ प्रातर्यथास्थानं अग्नीनुपसमाधाय यथापुरं जुहुयात्
(१,३.१३क़्) सा मे विद्या सा प्रायश्चित्तिरिति_
(१,३.१३र्) अथ चेद्गार्हपत्य उद्वायात्किं वा ततो भयं आगच्छेदिति
(१,३.१३स्) क्षिप्रं गृहपतिः प्रैति योऽविद्वाञ्जुहोति
(१,३.१३त्) विद्यया त्वेवाहं अभिजुहोमीति
(१,३.१३उ) का ते विद्या का प्रायश्चित्तिरिति
(१,३.१३व्) सभस्मकं आहवनीयं दक्षिणेन दक्षिणाग्निं परिहृत्य गार्हपत्यस्यायतने प्रतिष्ठाप्य तत आहवनीयं प्रणीय उदीचोऽङ्गारानुद्धृत्योदानरूपाभ्यां स्वाहेति जुहुयात्_
(१,३.१३w) अथ प्रातर्यथास्थानं अग्नीनुपसमाधाय यथापुरं जुहुयात्
(१,३.१३x) सा मे विद्या सा प्रायश्चित्तिरिति_
(१,३.१३य्) अथ चेत्सर्वेऽग्नय उद्वायेयुः किं वा ततो भयं आगच्छेदिति
(१,३.१३ज़्) क्षिप्रं गृहपतिः सर्वज्यानिं जीयते योऽविद्वाञ्जुहोति
(१,३.१३आ) विद्यया त्वेवाहं अभिजुहोमीति
(१,३.१३ब्ब्) का ते विद्या का प्रायश्चित्तिरिति_
(१,३.१३च्च्) आनडुहेन शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य होम्यं उपसाद्याग्निं निर्मथ्य प्राणापानाभ्यां स्वाहा समानव्यानाभ्यां स्वाहोदानरूपाभ्यां स्वाहेति जुहुयात्_
(१,३.१३द्द्) अथ प्रातर्यथास्थानं अग्नीनुपसमाधाय यथापुरं जुहुयात्
(१,३.१३ई) सा मे विद्या सा प्रायश्चित्तिरिति_
(१,३.१३फ़्फ़्) अथ चेन्नाग्निं जनयितुं शक्नुयुर्न कुतश्चन वातो वायात्किं वा ततो भयं आगच्छेदिति
(१,३.१३ग्ग्) मोघं अस्वेष्टं च हुतं च भवति योऽविद्वाञ्जुहोति
(१,३.१३ह्ह्) विद्यया त्वेवाहं अभिजुहोमीति
(१,३.१३इइ) का ते विद्या का प्रायश्चित्तिरिति_
(१,३.१३ज्ज्) आनडुहेनैव शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य होम्यं उपसाद्य <वात आ वातु भेषजं [PS१९.४६.७-९]> इति सूक्तेनात्मन्येव जुहुयात्_
(१,३.१३क्क्) अथ प्रातरग्निं निर्मथ्य यथास्थानं अग्नीनुपसमाधाय यथापुरं जुहुयात्
(१,३.१३ल्ल्) सा मे विद्या सा प्रायश्चित्तिरिति ब्राह्मणं । । १३ । ।

(१,३.१४अ) एवं एवैतद्भो भगवन्यथा भवानाह_
(१,३.१४ब्) उपयामि त्वेव भवन्तं इति_
(१,३.१४च्) एवं चेन्नावक्ष्यो मूर्धा ते व्यपतिष्यदिति
(१,३.१४द्) हन्त तु ते तद्वक्ष्यामि यथा ते न विपतिष्यतीति
(१,३.१४ए) यो ह वा एवंविद्वानश्नाति च पिबति च वाक्तेन तृप्यति
(१,३.१४फ़्) वाचि तृप्तायां अग्निस्तृप्यति_
(१,३.१४ग्) अग्नौ तृप्ते पृथिवी तृप्यति
(१,३.१४ह्) पृथिव्यां तृप्तायां यानि पृथिव्यां भूतान्यन्वायत्तानि तानि तृप्यन्ति
(१,३.१४इ) यो ह वा एवंविद्वानश्नाति च पिबति च प्राणस्तेन तृप्यति
(१,३.१४ज्) प्राणे तृप्ते वायुस्तृप्यति [एद्. प्रणे]
(१,३.१४क्) वायौ तृप्तेऽन्तरिक्षं तृप्यति_
(१,३.१४ल्) अन्तरिक्षे तृप्ते यान्यन्तरिक्षे भूतान्यन्वायत्तानि तानि तृप्यन्ति
(१,३.१४म्) यो ह वा एवंविद्वानश्नाति च पिबति च चक्षुस्तेन तृप्यति
(१,३.१४न्) चक्षुषि तृप्त आदित्यस्तृप्यति_
(१,३.१४ओ) आदित्ये तृप्ते द्यौस्तृप्यति
(१,३.१४प्) दिवि तृप्तायां यानि दिवि भूतान्यन्वायत्तानि तानि तृप्यन्ति
(१,३.१४क़्) यो ह वा एवंविद्वानश्नाति च पिबति च मनस्तेन तृप्यति
(१,३.१४र्) मनसि तृप्ते चन्द्रमास्तृप्यति
(१,३.१४स्) चन्द्रमसि तृप्त आपस्तृप्यन्ति_
(१,३.१४त्) अप्सु तृप्तासु यान्यप्सु भूतान्यन्वायत्तानि तानि तृप्यन्ति
(१,३.१४उ) यो ह वा एवंविद्वानश्नाति च पिबति च श्रोत्रं तेन तृप्यति
(१,३.१४व्) श्रोत्रे तृप्ते दिशश्चान्तर्देशाश्च तृप्यन्ति
(१,३.१४w) दिक्षु चान्तर्देशेषु च तृप्तेषु यानि दिक्षु चान्तर्देशेषु च भूतान्यन्वायत्तानि तानि तृप्यन्ति
(१,३.१४x) यो ह वा एवंविद्वानश्नाति च पिबति च तस्यायं एव दक्षिणः पाणिर्जुहूः
(१,३.१४य्) सव्य उपभृत्
(१,३.१४ज़्) कण्ठो ध्रुवा_
(१,३.१४आ) अन्नं हविः
(१,३.१४ब्ब्) प्राणा ज्योतींषि
(१,३.१४च्च्) सदेष्टं सदा हुतं सदाशितं पायितं अग्निहोत्रं भवति य एवं वेद यश्चैवंविद्वानग्निहोत्रं जुहोतीति ब्राह्मणं । । १४ । ।

(१,३.१५अ) प्रियमेधा ह वै भरद्वाजा यज्ञविदो मन्यमानास्
(१,३.१५ब्) ते ह स्म न कञ्चन वेदविदं उपयन्ति
(१,३.१५च्) ते सर्वं अविदुस्
(१,३.१५द्) ते सहैवाविदुस्
(१,३.१५ए) तेऽग्निहोत्र एव न समवदन्त
(१,३.१५फ़्) तेषां एकः सकृदग्निहोत्रं अजुहोद्द्विरेकस्त्रिरेकस्
(१,३.१५ग्) तेषां यः सकृदग्निहोत्रं अजुहोत्तं इतरावपृच्छतां कस्मै त्वं जुहोषीति_
(१,३.१५ह्) एकधा वा इदं सर्वं प्रजापतिः
(१,३.१५इ) प्रजापतय एवाहं सायं जुहोमीति प्रजापतये प्रातरिति
(१,३.१५ज्) तेषां यो द्विरजुहोत्तं इतरावपृच्छतां काभ्यां त्वं जुहोषीति_
(१,३.१५क्) अग्नये प्रजापतय इति सायं सूर्याय प्रजापतय इति प्रातस्
(१,३.१५ल्) तेषां यस्त्रिरजुहोत्तं इतरावपृच्छतां केभ्यस्त्वं जुहोषीत्यग्नये प्रजापतयेऽनुमतय इति सायं सूर्याय प्रजापतयेऽग्नये स्विष्टकृत इति प्रातस्
(१,३.१५म्) तेषां यो द्विरजुहोत्स आर्ध्नोत्
(१,३.१५न्) स भूयिष्ठोऽभवत्
(१,३.१५ओ) प्रजया चेतरौ श्रिया चेतरावत्याक्रामत्
(१,३.१५प्) तस्य ह प्रजां इतरयोः प्रजे सजातत्वं उपैताम्_
(१,३.१५क़्) तस्माद्द्विर्होतव्यं यजुषा चैव मनसा च
(१,३.१५र्) यां एव स ऋद्धिं आर्ध्नोत्तां ऋध्नोति य एवं वेद यश्चैवंविद्वानग्निहोत्रं जुहोतीति ब्राह्मणं । । १५ । ।

(१,३.१६अ) स्वाहा वै कुतः संभूता
(१,३.१६ब्) केन प्रकृता
(१,३.१६च्) किं वास्या गोत्रम्_
(१,३.१६द्) कत्यक्षरा
(१,३.१६ए) कति पदा
(१,३.१६फ़्) कति वर्णा
(१,३.१६ग्) किं पूर्वावसाना
(१,३.१६ह्) क्व चित्स्थिता
(१,३.१६इ) किं अधिष्ठाना
(१,३.१६ज्) ब्रूहि स्वाहाया यद्दैवतं रूपं च
(१,३.१६क्) स्वाहा वै सत्यसंभूता
(१,३.१६ल्) ब्रह्मणा प्रकृता
(१,३.१६म्) लामगायनसगोत्रा
(१,३.१६न्) द्वे अक्षरे
(१,३.१६ओ) एकं पदम्_
(१,३.१६प्) त्रयश्च वर्णाः शुक्लः पद्मः सुवर्ण इति
(१,३.१६क़्) सर्वच्छन्दसां वेदेषु समासभूतैकोच्छ्वासा वर्णान्ते चत्वारो वेदाः शरीरे [एद्. समासभुत्-, चोर्र्. Pअत्यल्]
(१,३.१६र्) षडङ्गान्योषधिवनस्पतयो लोमानि
(१,३.१६स्) चक्षुषी सूर्याचन्द्रमसौ
(१,३.१६त्) सा स्वाहा सा स्वधा यज्ञेषु वषट्कारभूता प्रयुज्यते
(१,३.१६उ) तस्या अग्निर्दैवतम्_
(१,३.१६व्) ब्राह्मणो रूपं इति ब्राह्मणं । । १६ । ।

(१,३.१७अ) अथापि कारवो ह नाम ऋषयोऽल्पस्वा आसन्_
(१,३.१७ब्) त इमं एकगुं अग्निष्टोमं ददृशुस्
(१,३.१७च्) तं आहरन्_
(१,३.१७द्) तेनायजन्त
(१,३.१७ए) ते स्वर्ययुः
(१,३.१७फ़्) स य इच्छेत्स्वरियां इति स एतेनैकगुनाग्निष्टोमेन यजेतेति ब्राह्मणं । । १७ । ।

(१,३.१८अ) अथातः सवनीयस्य पशोर्विभागं व्याख्यास्यामः_
(१,३.१८ब्) उद्धृत्यावदानानि हनू सजिह्वे प्रस्तोतुः
(१,३.१८च्) कण्ठः सकाकुद्रः प्रतिहर्तुः
(१,३.१८द्) श्येनं वक्ष उद्गातुः_
(१,३.१८ए) दक्षिणं पार्श्वं सांसं अध्वर्योः
(१,३.१८फ़्) सव्यं उपगातॄणाम्_
(१,३.१८ग्) सव्योऽंसः प्रतिप्रस्थातुः_
(१,३.१८ह्) दक्षिणा श्रोणिरथ्यास्त्री ब्रह्मणः_
(१,३.१८इ) अवरसक्थं ब्राह्मणाच्छंसिनः_
(१,३.१८ज्) ऊरुः पोतुः
(१,३.१८क्) सव्या श्रोणिर्होतुः_
(१,३.१८ल्) अवरसक्थं मैत्रावरुणस्य_
(१,३.१८म्) अरुरच्छावाकस्य
(१,३.१८न्) दक्षिणा दोर्नेष्टुः
(१,३.१८ओ) सव्या सदस्यस्य
(१,३.१८प्) सदं चानूकं च गृहपतेः_
(१,३.१८क़्) जाघनी पत्न्यास्
(१,३.१८र्) तां सा ब्राह्मणेन प्रतिग्राहयति
(१,३.१८स्) वनिष्ठुर्हृदयं वृक्कौ चाङ्गुल्यानि दक्षिणो बाहुराग्नीध्रस्य
(१,३.१८त्) सव्य आत्रेयस्य
(१,३.१८उ) दक्षिणौ पादौ गृहपतेर्व्रतप्रदस्य
(१,३.१८व्) सव्यौ पादौ गृहपत्न्याः व्रतप्रदायाः
(१,३.१८w) सहैवैनयोरोष्ठस्
(१,३.१८x) तं गृहपतिरेवानुशिनष्टि
(१,३.१८य्) मणिकाश्च स्कन्ध्यास्तिस्रश्च कीकसा ग्रावस्तुतस्
(१,३.१८ज़्) तिस्रश्चैव कीकसा अर्धं चापानस्योन्नेतुः_
(१,३.१८आ) अत ऊर्ध्वं चमसाध्वर्यूणां क्लोमा शमयितुः
(१,३.१८ब्ब्) शिरः सुब्रह्मण्यस्य
(१,३.१८च्च्) यः श्वःसुत्यां आह्वयते तस्य चर्म
(१,३.१८द्द्) तथा खलु षट्त्रिंशत्सम्पद्यन्ते
(१,३.१८ई) षट्त्रिंशदवदाना गौः
(१,३.१८फ़्फ़्) षट्त्रिंशदक्षरा बृहती
(१,३.१८ग्ग्) बार्हतो वै स्वर्गो लोकः_
(१,३.१८ह्ह्) बृहत्या वै देवाः स्वर्गे लोके यजन्ते
(१,३.१८इइ) बृहत्या स्वर्गे लोके प्रतितिष्ठन्ति
(१,३.१८ज्ज्) प्रतितिष्ठन्ति प्रजया पशुभिर्य एवं विभजन्ते
(१,३.१८क्क्) अथ यदतोऽन्यथाशीलिको वा पापकृतो वा हुतादो वान्यजना वा विमथ्नीरन्नेवं एवैषां पशुर्विमथतो भवत्यस्वर्ग्यः_
(१,३.१८ल्ल्) देवभाजो ह वा इमं श्रुतऋषिः पशोर्विभागं विदां चकार
(१,३.१८म्म्) तं उ गिरिजाय बाभ्रव्यायान्यो मनुष्येभ्यः प्रोवाच
(१,३.१८न्न्) ततोऽयं अर्वाङ्मनुष्येष्वासीदिति ब्राह्मणं । । १८ । । [एद्. मनुष्येस्व्]

(१,३.१९अ) अथातो दीक्षा
(१,३.१९ब्) कस्य स्विद्धेतोर्दीक्षित इत्याचक्षते
(१,३.१९च्) श्रेष्ठां धियं क्षियतीति
(१,३.१९द्) तं वा एतं धीक्षितं सन्तं दीक्षित इत्याचक्षते परोक्षेण
(१,३.१९ए) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः
(१,३.१९फ़्) कस्य स्विद्धेतोर्दीक्षितोऽप्रत्युत्थायिको भवत्यनभिवादुकः प्रत्युत्थेयोऽभिवाद्यः_
(१,३.१९ग्) ये प्रत्युत्थेया अभिवाद्यास्त एनं आविष्टा भवन्त्यथर्वाङ्गिरसस्
(१,३.१९ह्) तस्य किं आथर्वणं इति
(१,३.१९इ) यदात्मन्येव जुह्वति न परस्मिन्_
(१,३.१९ज्) एवं हाथर्वणानां ओदनसवानां आत्मन्येव जुह्वति न परस्मिन्_ [एद्. अदनसवानाम्, चोर्र्. Pअत्यल्]
(१,३.१९क्) अथास्य किं आङ्गिरसं इति
(१,३.१९ल्) यदात्मनश्च परेषां च नामानि न गृह्णात्येवं ह तस्मिन्नासादात्मनश्चैव परेषां च नामानि न गृह्यन्ते
(१,३.१९म्) विचक्षणवतीं वाचं भाषन्ते चनसितवतीम्_
(१,३.१९न्) विचक्षयन्ति ब्राह्मणं चनसयन्ति प्राजापत्यम्_
(१,३.१९ओ) सैषा व्रतधुगथर्वाङ्गिरसस्
(१,३.१९प्) तां ह्यन्वायत्ताः
(१,३.१९क़्) कस्य स्विद्धेतोर्दीक्षितोऽनाश्यन्नो भवति नास्य नाम गृह्णन्ति_
(१,३.१९र्) अन्नस्थो नामस्थो भवतीत्याहुस्तस्य येऽन्नं अदन्ति तेऽस्य पाप्मानं अदन्ति_
(१,३.१९स्) अथास्य ये नाम गृह्णन्ति तेऽस्य नाम्नः पाप्मानं अपाघ्नते_
(१,३.१९त्) अथापि वेदानां गर्भभूतो भवतीत्याहुस्
(१,३.१९उ) तस्याजातस्याविज्ञातस्याक्रीतसोमस्याभोजनीयं भवतीत्याहुः
(१,३.१९व्) स दीक्षाणां प्रातर्जायते सोमं क्रीणन्ति तस्य जातस्य विज्ञातस्य क्रीतसोमस्य भोजनीयं भवतीत्याहुः
(१,३.१९w) कस्य स्विद्धेतोः संसवा परिजिहीर्षिता भवन्ति
(१,३.१९x) यतरो वीर्यवत्तरो भवति स परस्य यज्ञं परिमुष्णाति
(१,३.१९य्) कस्य स्विद्धेतोर्दैवे न ध्यायेत्संस्थिते नाधीयीतेति
(१,३.१९ज़्) संसवस्यैव हेतोरिति
(१,३.१९आ) विद्योतमाने स्तनयत्यथो वर्षति वायव्यं अभिषुण्वन्ति वै देवाः सोमं च भक्षयन्ति
(१,३.१९ब्ब्) तदभिषुण्वन्ति ब्राह्मणाः शुश्रुवांसोऽनूचानास्
(१,३.१९च्च्) तेषां सर्वरसभक्षाः पितृपितामहा भवन्ति
(१,३.१९द्द्) स दैवे न ध्यायेत्संस्थिते नाधीयीतेति ब्राह्मणं । । १९ । ।

(१,३.२०अ) समावृत्ता आचार्या निषेदुस्
(१,३.२०ब्) तान्ह यज्ञो दीक्षिष्यमाणान्ब्राह्मणरूपं कृत्वोपोदेयाय_
(१,३.२०च्) इत्थं चेद्वोऽपसमवत्सुर्हन्त वोऽहं मध्ये दीक्षा इति [एद्.ऽपसमवत्सुर्, Pअत्यल्प्रोपोसेसपसमवतस्थुर्, एद्. दिक्षा]
(१,३.२०द्) त ऊचुर्नैव त्वा विद्म न जानीमः
(१,३.२०ए) को हीदविज्ञायमानेन सह दीक्षिष्यतीति
(१,३.२०फ़्) यन्न्विदं दीक्षिष्यध्वे भूयो न दीक्षिष्यध्वे_
(१,३.२०ग्) अथ वा उ एवं दीक्षयिष्यथ सं वै तर्हि मोहिष्यथ
(१,३.२०ह्) मोहिष्यति वो यज्ञः सर्वे ते दीक्षयिष्यथेति_
(१,३.२०इ) अथ वा उ एकं दीक्षयिष्यथ ते वा अहीनर्त्विजो गृहपतयो भविष्यथ
(१,३.२०ज्) ते तूष्णीं ध्यायन्त आसां चक्रिरे
(१,३.२०क्) स होवाच किं नु तूष्णीं आध्वे
(१,३.२०ल्) भूयो वः पृच्छामः
(१,३.२०म्) पृच्छतेति यन्न्विदं दीक्षिष्यध्व उपमे एतस्मिन्संवत्सरे मिथुनं चरिष्यथ नोपैष्यथेति [Pअत्यल्फ़िन्द्सुपमयेतस्मिनिन्त्wओ B्Oऱी म्स्स्. अन्द्प्रोपोसेस्तो अच्चेप्त्थिसे रेअदिन्ग्]
(१,३.२०न्) धिगिति होचुः
(१,३.२०ओ) कथं न दीक्षिता उपैष्यामो नोपैष्यामहा इति
(१,३.२०प्) ते वै ब्राह्मणानां अभिमन्तारो भविष्यथ
(१,३.२०क़्) रेतो ह वो य एतस्मिन्संवत्सरे ब्राह्मणास्तदभविष्यंस्ते बोधिमता भविष्यथेति_
(१,३.२०र्) अथ वा उपेष्यामो नोपेष्यामहा इति
(१,३.२०स्) ते वै दीक्षिता अवकीर्णिनो भविष्यथ
(१,३.२०त्) न ह वै देवयानः पन्था प्रादुर्भविष्यतीति
(१,३.२०उ) तिरो वै देवयानः पन्था भविष्यतीति
(१,३.२०व्) ते वयं भगवन्तं एवोपधावाम यथा स्वस्ति संवत्सरस्योदृचं समश्नवामहा इति ब्राह्मणं । । २० । ।

(१,३.२१अ) स होवाच द्वादश ह वै वसूनि दीक्षितादुत्क्रामन्ति
(१,३.२१ब्) न ह वै दीक्षितोऽग्निहोत्रं जुहुयात्_
(१,३.२१च्) न पौर्णमासेन यज्ञेन यजेत
(१,३.२१द्) नामावास्येन_
(१,३.२१ए) अस्मिन्वसीत
(१,३.२१फ़्) न पितृयज्ञेन यजेत
(१,३.२१ग्) न तत्र गच्छेद्यत्र मनसा जिगमिषेत्_
(१,३.२१ह्) नेष्ट्या यजेत
(१,३.२१इ) न वाचा यथाकथा चिदभिभाषेत
(१,३.२१ज्) न मिथुनं चरेत्_
(१,३.२१क्) नान्नास्य यथाकामं उपयुञ्जीत
(१,३.२१ल्) न पशुबन्धेन यज्ञेन यजेत
(१,३.२१म्) न तत्र गच्छेद्यत्र चक्षुषा परापश्येत्
(१,३.२१न्) कृष्णाजिनं वसीत
(१,३.२१ओ) कुरीरं धारयेत्_
(१,३.२१प्) मुष्टी कुर्यात्_
(१,३.२१क़्) अङ्गुष्ठप्रभृतयस्तिस्र उच्छ्रयेत्_
(१,३.२१र्) मृगशृङ्गं गृह्णीयात्
(१,३.२१स्) तेन कषेत_
(१,३.२१त्) अथ यस्य दीक्षितस्य वाग्वायता स्यान्मुष्टी वा विसृष्टौ स एतानि जपेत् । । २१ । ।

(१,३.२२अ) अग्निहोत्रं च मा पौर्णमासश्च यज्ञः पुरस्तात्प्रत्यञ्चं उभौ कामप्रौ भूत्वा क्षित्या सहाविशताम्_
(१,३.२२ब्) वसतिश्च मामावास्यश्च यज्ञः पश्चात्प्राञ्चं उभाविति समानम्_
(१,३.२२च्) मनश्च मा पितृयज्ञश्च यज्ञो दक्षिणत उदञ्चं उभाविति समानम्_
(१,३.२२द्) वाक्च मेष्टिश्चोत्तरतो दक्षिणाञ्चं उभाविति समानम्_
(१,३.२२ए) रेतश्च मान्नं चेत ऊर्ध्वं उभाविति समानम्_
(१,३.२२फ़्) चक्षुश्च मा पशुबन्धश्च यज्ञोऽमुतोऽर्वाञ्चं उभौ कामप्रौ भूत्वाक्षित्या सहाविशतां इति खलु ह वै दीक्षितो य आत्मनि वसूनि धत्ते न चैवास्य का चनार्तिर्भवति न च यज्ञविष्कन्धं उपयात्यपहन्ति पुनर्मृत्युम्
(१,३.२२ग्) अपात्येति पुनराजातिम्_
(१,३.२२ह्) कामचारोऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश्चैवंविद्वान्दीक्षां उपैतीति ब्राह्मणं । । २२ । ।

(१,३.२३अ) अथ यस्य दीक्षितस्यर्तुमती जाया स्यात्प्रतिस्नावा प्रतिस्नावा सरूपवत्साया गोः पयसि स्थालीपाकं श्रपयित्वाभिघार्योद्वास्योद्धृत्याभिहिंकृत्य गर्भवेदनपुंसवनैः संपातवन्तं कृत्वा तं परैव प्राश्नीयात्_
(१,३.२३ब्) रेतो वा अन्नम्_
(१,३.२३च्) वृषा हिंकारः_
(१,३.२३द्) एवं हीश्वरा या दीक्षिताय दीक्षिता जाया पुत्रं लभेतेति_
(१,३.२३ए) एतेनैव प्रक्रमेण यजेतेति ब्राह्मणं । । २३ । ।

(१,३.२३चोल्) इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे तृतीयः प्रपाठकः । ।


(१,४.१अ) ओं अयं वै यज्ञो योऽयं पवते
(१,४.१ब्) तं एत ईप्सन्ति ये संवत्सराय दीक्षन्ते
(१,४.१च्) तेषां गृहपतिः प्रथमो दीक्षते_
(१,४.१द्) अयं वै लोको गृहपतिः_
(१,४.१ए) अस्मिन्वा इदं सर्वं लोके प्रतिष्ठितम्_
(१,४.१फ़्) गृहपता उ एव सर्वे सत्त्रिणः प्रतिष्ठिताः
(१,४.१ग्) प्रतिष्ठाया एवैनं तत्प्रतिष्ठित्यै दीक्षन्ते । । १ । ।

(१,४.२अ) अथ ब्रह्माणं दीक्षयति चन्द्रमा वै ब्रह्माधिदैवं मनोऽध्यात्मम्_
(१,४.२ब्) मनसैव तदोषधीः संदधाति
(१,४.२च्) तद्या ओषधीर्वेद स एव ब्रह्मौषधीस्
(१,४.२द्) तदनेन लोकेन संदधाति
(१,४.२ए) तस्मादेतावन्तरेणान्यो न दीक्षेत
(१,४.२फ़्) स यदेतावन्तरेणान्यो दीक्षेतेमं तं लोकं ओषधिभिर्व्यापादयेत्_
(१,४.२ग्) उच्छोषुका ह स्युस्
(१,४.२ह्) तस्मादेतावन्तरेणान्यो न दीक्षेत । । २ । ।

(१,४.३अ) अथोद्गातारं दीक्षयति_
(१,४.३ब्) आदित्यो वा उद्गाताधिदैवं चक्षुरध्यात्मम्_
(१,४.३च्) पर्जन्य आदित्यः
(१,४.३द्) पर्जन्यादधि वृष्टिर्जायते
(१,४.३ए) वृष्टिरेव तदोषधीः संदधाति
(१,४.३फ़्) तस्मादेतावन्तरेणान्यो न दीक्षेत
(१,४.३ग्) स यदेतावन्तरेणान्यो दीक्षेतेमं तं लोकं वर्षेण व्यापादयेत्_
(१,४.३ह्) अवर्षुका ह स्युस्
(१,४.३इ) तस्मादेतावन्तरेणान्यो न दीक्षेत । । ३ । ।

(१,४.४अ) अथ होतारं दीक्षयति_
(१,४.४ब्) अग्निर्वै होताधिदैवं वागध्यात्मम्
(१,४.४च्) अन्नं वृष्टिः_
(१,४.४द्) वाचं चैव तदग्निं चान्नेन संदाधाति
(१,४.४ए) तस्मादेतावन्तरेणान्यो न दीक्षेत
(१,४.४फ़्) स यदेतावन्तरेणान्यो दीक्षेतेमं तं लोकं अन्नेन व्यापादयेत्_
(१,४.४ग्) अशनायुका ह स्युस्
(१,४.४ह्) तस्मादेतावन्तरेणान्यो न दीक्षेत । । ४ । ।

(१,४.५अ) अथाध्वर्युं प्रतिप्रस्थाता दीक्षयति
(१,४.५ब्) वायुर्वा अध्वर्युरधिदैवं प्राणोऽध्यात्मम्
(१,४.५च्) अन्नं वृष्टिः_
(१,४.५द्) वायुं चैव तत्प्राणं चान्नेन संदधाति
(१,४.५ए) तस्मादेतावन्तरेणान्यो न दीक्षेत [एद्. एतव्]
(१,४.५फ़्) स यदेतावन्तरेणान्यो दीक्षेतेमं तं लोकं प्राणेन व्यापादयेत्
(१,४.५ग्) प्रमायुका ह स्युस्
(१,४.५ह्) तस्मादेतावन्तरेणान्यो न दीक्षेत । । ५ । ।

(१,४.६अ) अथ ब्रह्मणे ब्राह्मणाच्छंसिनं दीक्षयति_
(१,४.६ब्) अथोद्गात्रे प्रस्तोतारं दीक्षयति_
(१,४.६च्) अथ होत्रे मैत्रावरुणं दीक्षयति_
(१,४.६द्) अथाध्वर्यवे प्रतिप्रस्थातारं नेष्टा दीक्षयति
(१,४.६ए) स हैनं अनु_
(१,४.६फ़्) एतेषां वै नवानां क्ळ्प्तिं अन्वितरे कल्पन्ते
(१,४.६ग्) नव वै प्राणाः
(१,४.६ह्) प्राणैर्यज्ञस्तायते_
(१,४.६इ) अथ ब्रह्मणे पोतारं दीक्षयति_
(१,४.६ज्) अथोद्गात्रे प्रतिहर्तारं दीक्षयति_
(१,४.६क्) अथ होत्रेऽच्छावाकं दीक्षयति_
(१,४.६ल्) अथाध्वर्यवे नेष्टारं उन्नेता दीक्षयति
(१,४.६म्) स हैनं अनु_
(१,४.६न्) अथ ब्रह्मण आग्नीध्रं दीक्ष्यति_
(१,४.६ओ) अथोद्गात्रे सुब्रह्मण्यं दीक्षयति_
(१,४.६प्) अथ होत्रे ग्रावस्तुतं दीक्षयति_
(१,४.६क़्) अथ तमन्यः स्नातको वा ब्रह्मचारी वा दीक्षयति
(१,४.६र्) न पूतः पावयेदित्याहुः
(१,४.६स्) सैषानुपूर्वं दीक्षा
(१,४.६त्) तद्य एवं दीक्षन्ते दीक्षिष्यमाणा एव ते सत्त्रिणां प्रायश्चित्तं न विन्दन्ते
(१,४.६उ) सत्त्रिणां प्रायश्चित्तं अनु तस्यार्धस्य योगक्षेमः कल्पते यस्मिन्नर्धे दीक्षन्त इति ब्राह्मणं । । ६ । ।

(१,४.७अ) श्रद्धया वै देवा दीक्षणीयां निरमिमतादितेः प्रायणीयाम्_
(१,४.७ब्) सोमात्क्रयम्_
(१,४.७च्) विष्णोरातिथ्यम्
(१,४.७द्) आदित्यात्प्रवर्ग्यम्_
(१,४.७ए) स्वधाया उपसदः_
(१,४.७फ़्) अग्नीषोमाभ्यां औपवसथ्यं अहः
(१,४.७ग्) प्रातर्यावद्भ्यो देवेभ्यः प्रातरनुवाकम्_
(१,४.७ह्) वसुभ्यः प्रातःसवनम्_
(१,४.७इ) रुद्रेभ्यो माध्यंदिनं सवनम्
(१,४.७ज्) आदित्येभ्यस्तृतीयसवनम्_
(१,४.७क्) वरुणादवभृथम्
(१,४.७ल्) अदितेरुदयनीयाम्_
(१,४.७म्) मित्रावरुणाभ्यां अनूबन्ध्याम्_
(१,४.७न्) त्वष्टुस्त्वाष्ट्रम्_
(१,४.७ओ) देवीभ्यो देविकाभ्यो देवताहवींषि
(१,४.७प्) कामाद्दशातिरात्रम्_
(१,४.७क़्) स्वर्गाल्लोकादुदवसानीयाम्_
(१,४.७र्) तद्वा एतदग्निष्टोमस्य जन्म
(१,४.७स्) स य एवं एतदग्निष्टोमस्य जन्म वेदाग्निष्टोमेन सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणं । । ७ । ।

(१,४.८अ) अथ यद्दीक्षणीयया यजन्ते श्रद्धां एव तद्देवीं देवतां यजन्ते
(१,४.८ब्) श्रद्धा देवी देवता भवन्ति
(१,४.८च्) श्रद्धाया देव्याः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८द्) अथ यत्प्रायणीयया यजन्तेऽदितिं एव तद्देवीं देवतां यजन्ते
(१,४.८ए) अदितिर्देवी देवता भवन्ति_
(१,४.८फ़्) अदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८ग्) अथ यत्क्रयं उपयन्ति सोमं एव तद्देवं देवतां यजन्ते
(१,४.८ह्) सोमो देवो देवता भवन्ति [एद्. दवता]
(१,४.८इ) सोमस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८ज्) अथ यदातिथ्यया यजन्ते विष्णुं एव तद्देवं देवतां यजन्ते
(१,४.८क्) विष्णुर्देवो देवता भवन्ति
(१,४.८ल्) विष्णोर्देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८म्) अथ यत्प्रवर्ग्यं उपयन्त्यादित्यं एव तद्देवं देवतां यजन्ते_ [एद्. दवतां]
(१,४.८न्) आदित्यो देवो देवता भवन्ति_
(१,४.८ओ) आदित्यस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८प्) अथ यदुपसदं उपयन्ति स्वधां एव तद्देवीं देवतां यजन्ते
(१,४.८क़्) स्वधा देवी देवता भवन्ति
(१,४.८र्) स्वधाया देव्याः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८स्) अथ यदौपवसथ्यं अहरुपयन्त्यग्नीषोमावेव तद्देवौ देवते यजन्ते_
(१,४.८त्) अग्नीषोमौ देवौ देवते भवन्ति
(१,४.८उ) अग्नीषोमयोर्देवतयोः सायुज्यं सलोकतां यन्ति ये एतदुपयन्ति_ [एद्.ऽग्नीषोमयोर्]
(१,४.८व्) अथ यत्प्रातरनुवाकं उपयन्ति प्रातर्याव्ण एव तद्देवान्देवता यजन्ते
(१,४.८w) प्रातर्यावाणो देवा देवता भवन्ति
(१,४.८x) प्रातर्याव्णां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८य्) अथ यत्प्रातःसवनमुपयन्ति वसूनेव तद्देवान्देवता यजन्ते
(१,४.८ज़्) वसवो देवा देवता भवन्ति
(१,४.८आ) वसूनां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८ब्ब्) अथ यन्माध्यंदिनं सवनं उपयन्ति रुद्रानेव तद्देवान्देवता यजन्ते
(१,४.८च्च्) रुद्रा देवा देवता भवन्ति
(१,४.८द्द्) रुद्राणां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८ई) अथ यत्तृतीयसवनं उपयन्त्यादित्यानेव तद्देवान्देवता यजन्ते_
(१,४.८फ़्फ़्) आदित्या देवा देवता भवन्ति_
(१,४.८ग्ग्) आदित्यानां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८ह्ह्) अथ यदवभृथं उपयन्ति वरुणं एव तद्देवं देवतां यजन्ते
(१,४.८इइ) वरुणो देवो देवता भवन्ति
(१,४.८ज्ज्) वरुणस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८क्क्) अथ यदुदयनीयया यजन्तेऽदितिं एव तद्देवीं देवतां यजन्ते_
(१,४.८ल्ल्) अदितिर्देवी देवता भवन्ति_
(१,४.८म्म्) अदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_ [एद्. आदित्या]
(१,४.८न्न्) अथ यदनूबन्ध्यया यजन्ते मित्रावरुणावेव तद्देवौ देवते यजन्ते
(१,४.८ऊ) मित्रावरुणौ देवौ देवते भवन्ति
(१,४.८प्प्) मित्रावरुणयोर्देवयोः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८क़्क़्) अथ यत्त्वाष्ट्रेण पशुना यजन्ते त्वष्टारं एव तद्देवं देवतां यजन्ते
(१,४.८र्र्) त्वष्टा देवो देवता भवन्ति
(१,४.८स्स्) त्वष्टुर्देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८त्त्) अथ यद्देविकाहविर्भिश्चरन्ति या एता उपसत्सु भवन्त्यग्निः सोमो विष्णुरिति देव्यो देविका देवता भवन्ति
(१,४.८उउ) देवीनां देविकानां देवतानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८व्व्) अथ यद्दशातिरात्रं उपयन्ति कामं एव तद्देवं देवतां यजन्ते
(१,४.८ww) कामो देवो देवता भवन्ति
(१,४.८xx) कामस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.८य्य्) अथ यदुदवसानीयया यजन्ते स्वर्गं एव तल्लोकं देवं देवतां यजन्ते
(१,४.८ज़्ज़्) स्वर्गो लोको देवो देवता भवन्ति
(१,४.८आअ) स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति
(१,४.८ब्ब्ब्) तद्वा एतदग्निष्टोमस्य जन्म
(१,४.८च्च्च्) स य एवं एतदग्निष्टोमस्य जन्म वेदाप्त्वैव तदग्निष्टोमं स्वर्गे लोके प्रतितिष्ठति
(१,४.८द्द्द्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद_
(१,४.८ईए) अग्निष्टोमेन सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणं । । ८ । ।

(१,४.९अ) अहोरात्राभ्यां वै देवाः प्रायणीयं अतिरात्रं निरमिमत_
(१,४.९ब्) अर्धमासेभ्यश्चतुर्विंशं अहः_
(१,४.९च्) ब्रह्मणोऽभिप्लवम्_
(१,४.९द्) क्षत्रात्पृष्ठ्यम्
(१,४.९ए) अग्नेरभिजितम्
(१,४.९फ़्) अद्भ्यः स्वरसाम्नः
(१,४.९ग्) सूर्याद्विषुवन्तम्
(१,४.९ह्) उक्ता आवृत्ताः स्वरसामानः_
(१,४.९इ) इन्द्राद्विश्वजितम्
(१,४.९ज्) उक्तौ पृष्ठ्यभिप्लवौ
(१,४.९क्) मित्रावरुणाभ्यां गवायुषी
(१,४.९ल्) विश्वेभ्यो देवेभ्यो दशरात्रम्_
(१,४.९म्) दिग्भ्यो दाशरात्रिकं पृष्ठ्यं षडहम्
(१,४.९न्) एभ्यो लोकेभ्यश्छन्दोमं त्र्यहम्_
(१,४.९ओ) संवत्सराद्दशमं अहः
(१,४.९प्) प्रजापतेर्महाव्रतम्_
(१,४.९क़्) स्वर्गाल्लोकादुदयनीयं अतिरात्रम्_
(१,४.९र्) तद्वा एतत्संवत्सरस्य जन्म
(१,४.९स्) स य एवं एतत्संवत्सरस्य जन्म वेद संवत्सरेण सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणं । । ९ । ।

(१,४.१०अ) अथ यत्प्रायणीयं अतिरात्रं उपयन्त्यहोरात्रावेव तद्देवौ देवते यजन्ते_
(१,४.१०ब्) अहोरात्रौ देवौ देवते भवन्ति_
(१,४.१०च्) अहोरात्रयोर्देवयोः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_ [एद्.ऽहोरात्रयोर्]
(१,४.१०द्) अथ यच्चतुर्विंशं अहरुपयन्त्यर्धमासानेव तद्देवान्देवता यजन्ते_
(१,४.१०ए) अर्धमासा देवा देवता भवन्ति_
(१,४.१०फ़्) अर्धमासानां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०ग्) अथ यदभिप्लवं उपयन्ति ब्रह्माणं एव तद्देवं देवतां यजन्ते
(१,४.१०ह्) ब्रह्मा देवो देवता भवन्ति
(१,४.१०इ) ब्रह्मणो देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०ज्) अथ यत्पृष्ठ्यं उपयन्ति क्षत्रं एव तद्देवं देवतां यजन्ते
(१,४.१०क्) क्षत्रं देवो देवता भवन्ति
(१,४.१०ल्) क्षत्रस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०म्) अथ यदभिजितं उपयन्त्यग्निं एव तद्देवं देवतां यजन्ते_
(१,४.१०न्) अग्निर्देवो देवता भवन्ति_
(१,४.१०ओ) अग्नेर्देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०प्) अथ यत्स्वरसाम्न उपयन्त्येव तद्देवीर्देवता यजन्त आपो देव्यो देवता भवन्ति_
(१,४.१०क़्) अपां देवीनां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०र्) अथ यद्विषुवन्तं उपयन्ति सूर्यं एव तद्देवं देवतां यजन्ते
(१,४.१०स्) सूर्यो देवो देवता भवन्ति
(१,४.१०त्) सूर्यस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०उ) उक्ता आवृत्ताः स्वरसामानः_
(१,४.१०व्) अथ यद्विश्वजित मुपयन्तीन्द्रं एव तद्देवं देवतां यजन्ते_
(१,४.१०w) इन्द्रो देवो देवता भवन्ति_
(१,४.१०x) इन्द्रस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०य्) उक्तौ पृष्ठ्याभिप्लवौ_
(१,४.१०ज़्) अथ यद्गवायुषी उपयन्ति मित्रावरुणावेव तद्देवौ देवते यजन्ते
(१,४.१०आ) मित्रावरुणौ देवौ देवते भवन्ति
(१,४.१०ब्ब्) मित्रावरुणयोर्देवयोः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०च्च्) अथ यद्दशरात्रं उपयन्ति विश्वानेव तद्देवान्देवता यजन्ते
(१,४.१०द्द्) विश्वे देवा देवता भवन्ति
(१,४.१०ई) विश्वेषां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०फ़्फ़्) अथ यद्दाशरात्रिकं पृष्ठ्यं षडहं उपयन्ति दिश एव तद्देवीर्देवता यजन्ते
(१,४.१०ग्ग्) दिशो देव्यो देवता भवन्ति
(१,४.१०ह्ह्) दिशां देवीनां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०इइ) अथ यच्छन्दोमं त्र्यहं उपयन्तीमानेव तल्लोकान्देवान्देवता यजन्ते_
(१,४.१०ज्ज्) इमे लोका देवा देवता भवन्ति_
(१,४.१०क्क्) एषां लोकानां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०ल्ल्) अथ यद्दशमं अहरुपयन्ति संवत्सरं एव तद्देवं देवतां यजन्ते
(१,४.१०म्म्) संवत्सरो देवो देवता भवन्ति [एद्. दवता]
(१,४.१०न्न्) संवत्सरस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०ऊ) अथ यन्महाव्रतं उपयन्ति प्रजापतिं एव तद्देवं देवतां यजन्ते
(१,४.१०प्प्) प्रजापतिर्देवो देवता भवन्ति [एद्. दवता]
(१,४.१०क़्क़्) प्रजापतेर्देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति_
(१,४.१०र्र्) अथ यदुदयनीयं अतिरात्रं उपयन्ति स्वर्गं एव तल्लोकं देवं देवतां यजन्ते
(१,४.१०स्स्) स्वर्गो लोको देवो देवता भवन्ति
(१,४.१०त्त्) स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति
(१,४.१०उउ) तद्वा एतत्संवत्सरस्य जन्म
(१,४.१०व्व्) स य एवं एतत्संवत्सरस्य जन्म वेदाप्त्वैव तत्संवत्सरं स्वर्गे लोके प्रतितिष्ठति
(१,४.१०ww) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद
(१,४.१०xx) संवत्सरेण सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणं । । १० । ।

(१,४.११अ) स वा एष संवस्तरोऽधिदैवं चाध्यात्मं च प्रतिष्ठितः
(१,४.११ब्) स य एवं एतत्संवत्सरं अधिदैवं चाध्यात्मं च प्रतिष्ठितं वेद प्रतितिष्ठति
(१,४.११च्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद । । ११ । ।

(१,४.१२अ) स वा एष संवत्सरो बृहतीं अभिसंपन्नः_
(१,४.१२ब्) द्वावक्षरावह्नां षडहौ द्वौ पृष्ठ्याभिप्लवौ
(१,४.१२च्) गवायुषी दशरात्रस्
(१,४.१२द्) तथा खलु षट्त्रिंशद्संपद्यन्ते
(१,४.१२ए) षट्त्रिंशदवदाना गौः
(१,४.१२फ़्) षट्त्रिंशदक्षरा बृहती
(१,४.१२ग्) बार्हतो वै स्वर्गो लोकः_
(१,४.१२ह्) बृहत्या वै देवाः स्वर्गे लोके यजन्ते
(१,४.१२इ) बृहत्या स्वर्गे लोके प्रतितिष्ठति
(१,४.१२ज्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद । । १२ । ।

(१,४.१३अ) स वा एष संवत्सरस्त्रिमहाव्रतः_
(१,४.१३ब्) चतुर्विंशे महाव्रतं विषुवति महाव्रतं महाव्रत एव महाव्रतम्_
(१,४.१३च्) तं ह स्मैतं एवंविद्वांसः पूर्वे त्रिमहाव्रतं उपयन्ति
(१,४.१३द्) ते तेजस्विन आसंत्सत्यवादिनः संशितव्रताः_
(१,४.१३ए) य एनं अद्य तथोपेयुर्यथामपात्रं उदक आसिक्ते निर्मृत्येदेवं यजमाना निर्मृत्येरन्नुपर्युपयन्ति
(१,४.१३फ़्) तथा हास्य सत्येन तपसा व्रतेन चाभिजितं अवरुद्धं भवति य एवं वेद । । १३ । ।

(१,४.१४अ) अथ यच्चतुर्विंशं अहरुपेत्यानुपेत्य विषुवन्तं महाव्रतं उपेयात्कथं अनागूर्त्यै भवतीति
(१,४.१४ब्) यं एवामुं पुरस्ताद्विषुवतोऽतिरात्रं उपयन्ति तेनेति ब्रूयात्_
(१,४.१४च्) अभिप्लवात्पृष्ठ्यो निर्मितः
(१,४.१४द्) पृष्ठ्यादभिजित्_
(१,४.१४ए) अभिजितः स्वरसामानः
(१,४.१४फ़्) स्वरसामभ्यो विषुवान्
(१,४.१४ग्) विषुवतः स्वरसामानः
(१,४.१४ह्) स्वरसामभ्यो विश्वजित्_
(१,४.१४इ) विश्वजितः पृष्ठ्याभिप्लवौ
(१,४.१४ज्) पृष्ठ्याभिप्लवाभ्यां गवायुषी
(१,४.१४क्) गवायुर्भ्यां दशरात्रः
(१,४.१४ल्) दशरात्रान्महाव्रतम्_
(१,४.१४म्) महाव्रतादुदयनीयोऽतिरात्रः_
(१,४.१४न्) उदयनीयोऽतिरात्रः स्वर्गाय लोकायान्नाद्याय प्रतिष्ठित्यै । । १४ । ।

(१,४.१५अ) अथ यच्चतुर्विंशं अहरुपेत्यानुपेत्य विषुवन्तं महाव्रतं उपेयात्कथं अनागूर्त्यै भवतीति
(१,४.१५ब्) यं एवामुं पुरस्ताद्विषुवतोऽतिरात्रं उपयन्ति तेनेति ब्रूयात्_
(१,४.१५च्) अभिप्लवात्पृष्ठ्यो निर्मितः
(१,४.१५द्) पृष्ठ्यादभिजित्_
(१,४.१५ए) अभिजितः स्वरसामानः
(१,४.१५फ़्) स्वरसामभ्यो विषुवान्[एद्. विषवान्]
(१,४.१५ग्) विषुवतः स्वरसमानः
(१,४.१५ह्) स्वरसामभ्यो विश्वजित्_
(१,४.१५इ) विश्वजितः पृष्ठ्याभिप्लवौ
(१,४.१५ज्) पृष्ठ्याभिप्लवाभ्यां गवायुषी
(१,४.१५क्) गवायुर्भ्यां दशरात्रः_
(१,४.१५ल्) अथ ह देवेभ्यो महाव्रतं न तस्थे कथं ऊर्ध्वै स्तोमैर्विषुवन्तं उपागातावृत्तैर्मां इति
(१,४.१५म्) ते देवा इहसामिवासुर्
(१,४.१५न्) उप तं यज्ञक्रतुं जानीमो च ऊर्ध्वस्तोमो येनैतदहरवाप्नुयामेति
(१,४.१५ओ) तत एतं द्वादशरात्रं ऊर्ध्वस्तोमं ददृशुस्
(१,४.१५प्) तं आहरन्_
(१,४.१५क़्) तेनायजन्त
(१,४.१५र्) तत एभ्योऽतिष्ठन्_
(१,४.१५स्) तिष्ठति हास्मै महाव्रतम्_
(१,४.१५त्) प्रतितिष्ठति
(१,४.१५उ) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद । । १५ । ।

(१,४.१६अ) अथ यच्चतुर्विंशं अहरुपेत्यानुपेत्य विषुवन्तं महाव्रतं उपेयात्कथं अनागूर्त्यै भवतीति
(१,४.१६ब्) यं एवामुं पुरस्ताद्विषुवतोऽतिरात्रं उपयन्ति तेनेति ब्रूयात्
(१,४.१६च्) तदाहुः कति संवत्सरस्य पराञ्च्यहानि भवन्ति कत्यर्वाञ्चि
(१,४.१६द्) तद्यानि सकृत्सकृदुपयन्ति तानि पराञ्चि
(१,४.१६ए) अथ यानि पुनःपुनरुपयन्ति तान्यर्वाञ्चीत्येवैनान्युपासीरन्
(१,४.१६फ़्) षडहयोर्ह्यावृत्तिं अन्वावर्तन्ते । । १६ । ।

(१,४.१७अ) अथ यच्चतुर्विंशं अहरुपेत्यानुपेत्य विषुवन्तं महाव्रतं उपेयात्कथं अनागूर्त्यै भवतीति
(१,४.१७ब्) यं एवामुं पुरस्ताद्विषुवतोऽतिरात्रं उपयन्ति तेनेति ब्रूयात्_ [एद्.ऽतिरत्रम्]
(१,४.१७च्) अभिप्लवं पुरस्ताद्विषुवतः पूर्वं उपयन्ति
(१,४.१७द्) पृष्ट्यं उपरिष्टात्
(१,४.१७ए) पिता वा अभिप्लवः पुत्रः पृष्ठ्यस्
(१,४.१७फ़्) तस्मात्पूर्वे वयसि पुत्राः पितरं उपजीवन्ति
(१,४.१७ग्) पृष्ठ्यं पश्चाद्विषुवतः पूर्वं उपयन्त्यभिप्लवं उपरिष्टात्
(१,४.१७ह्) पिता वा अभिप्लवः पुत्रः पृष्ठ्यस्
(१,४.१७इ) तस्मादुत्तमे वयसि पुत्रान्पितोपजीवति य एवं वेद
(१,४.१७ज्) तदप्येतदृचोक्तं <शतं इन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनां । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः [èV१.८९.९]>_इति_
(१,४.१७क्) उप ह वा एनं पूर्वे वयसि पुत्राः पितरं उपजीवन्त्युपोत्तमे वयसि पुत्रान्पितोपजीवति य एवं वेद । । १७ । ।

(१,४.१८अ) अथ हैष महासुपर्णस्
(१,४.१८ब्) तस्य यान्पुरस्ताद्विषुवतः षण्मासानुपयन्ति स दक्षिणः पक्षः_
(१,४.१८च्) अथ यानावृत्तानुपरिष्टात्षडुपयन्ति स उत्तरः पक्षः_
(१,४.१८द्) आत्मा वै संवत्सरस्य विषुवानङ्गानि पक्षौ
(१,४.१८ए) यत्र वा आत्मा तत्पक्षौ
(१,४.१८फ़्) यत्र वै पक्षौ तदात्मा
(१,४.१८ग्) न वा आत्मा पक्षावतिरिच्यते
(१,४.१८ह्) नो पक्षावात्मानं अतिरिच्येते इति_
(१,४.१८इ) एवं उ हैव तदपरेषां स्विदितमह्नां परेषां इत्यपरेषां चैव परेषां चेति ब्रूयात् । । १८ । । [एद्. बूयात्]

(१,४.१९अ) तदाहुर्यद्द्वादश मासाः संवत्सरोऽथ हैतदहरवाप्नुयामेति
(१,४.१९ब्) यद्वैषुवतं अपरेषां स्विदितमहां परेषां इति_
(१,४.१९च्) अपरेषां चैव परेषां चेति ब्रूयात्_
(१,४.१९द्) आत्मा वै संवत्सरस्य विषुवानङ्गानि मासाः_
(१,४.१९ए) यत्र वा आत्मा तदङ्गानि
(१,४.१९फ़्) यत्राङ्गानि तदात्मा
(१,४.१९ग्) न वा आत्माङ्गान्यतिरिच्यते नोऽङ्गान्यात्मानं अतिरिच्यन्त इति_
(१,४.१९ह्) एवं उ हैव तदपरेषां स्विदितमह्नां परेषां इत्यपरेषां चैव परेषां चेति ब्रूयात्
(१,४.१९इ) स वा एष संवत्सरः । । १९ । ।

(१,४.२०अ) तदाहुः कथं उभयतोज्योतिषोऽभिप्लवा अन्यतरतोज्योतिः पृष्ठ्य इति_
(१,४.२०ब्) उभयतोज्योतिषो वा इमे लोका अग्निनेत आदित्येनामुत इति_
(१,४.२०च्) एष ह वा एतेषां ज्योतिर्य एनं प्रमृदीव तपति
(१,४.२०द्) देवचक्रे ह वा एते पृष्ठ्यप्रतिष्ठिते पाप्मानं तृंहती परिप्लवेते
(१,४.२०ए) तद्य एवंविदुषां दीक्षितानां पापकं कीर्तयदेते एवास्य तद्देवचक्रे शिरश्छिन्दतः_
(१,४.२०फ़्) दशरात्रं उद्धिः
(१,४.२०ग्) पृष्ठ्याभिप्लवौ चक्रे
(१,४.२०ह्) दशरात्रं उद्धिं पृष्ठ्याभिप्लवौ चक्रे तन्त्रं कुर्वीतेति ह स्माह वास्युस्
(१,४.२०इ) तयो स्तोत्राणि च शस्त्राणि च संचारेयत्_
(१,४.२०ज्) यः संचारयेत्तस्मादिमे पुरुषे प्राणा नाना सन्त एकोदयाच्छरीरं अधिवसति यन्न संचारयेत्प्रमायुको ह यजमानः स्यात्_
(१,४.२०क्) एष ह वै प्रमायुको योऽन्धो वा बधिरो वा
(१,४.२०ल्) नवाग्निष्टोमा मासि संपद्यन्ते
(१,४.२०म्) नव वै प्राणाः
(१,४.२०न्) प्राणैर्यज्ञस्तायते_
(१,४.२०ओ) एकविंशतिरुक्थ्याः_
(१,४.२०प्) एक उक्थ्यः षोडशी_
(१,४.२०क़्) अन्नं वा उक्थ्यः_
(१,४.२०र्) वीर्यं षोडश्येव
(१,४.२०स्) तथा रूढ्वा स्वर्गं लोकं अध्यारोहन्ति । । २० । ।

(१,४.२१अ) अथातोऽह्नां अध्यारोहः
(१,४.२१ब्) प्रायणीयेनातिरात्रेणोदयनीयं अतिरात्रं अध्यारोहन्ति चतुर्विंशेन महाव्रतम्
(१,४.२१च्) अभिप्लवेन परं अभिप्लवम्_
(१,४.२१द्) पृष्ठ्येन परं पृष्ठ्यम्
(१,४.२१ए) अभिजिताभिजितं स्वरसामभिः परान्त्स्वरसामानः_
(१,४.२१फ़्) अथैतदहरवाप्नुयामेति यद्वैषुवतं अपरेषां स्विदितमह्नां परेषां इत्यपरेषां चैव परेषां चेति ब्रूयात्
(१,४.२१ग्) स वा एष संवत्सरः । । २१ । ।

(१,४.२२अ) अथातोऽह्नां निवाहः
(१,४.२२ब्) प्रायणीयोऽतिरात्रश्चतुर्विंशायाह्ने निवहति
(१,४.२२च्) चतुर्विंशं अहरभिप्लवाय_
(१,४.२२द्) अभिप्लवः पृष्ठ्याय
(१,४.२२ए) पृष्ठ्योऽभिजिते_
(१,४.२२फ़्) अभिजित्स्वरसामभ्यः
(१,४.२२ग्) स्वरसामानो विषुवते
(१,४.२२ह्) विषुवान्त्स्वरसामभ्यः
(१,४.२२इ) स्वरसामनो विश्वजिते
(१,४.२२ज्) विश्वजित्पृष्ठ्याभिप्लवाभ्याम्_
(१,४.२२क्) पृष्ठ्याभिप्लवौ गवायुर्भ्याम्_
(१,४.२२ल्) गवायुषी दशरात्राय
(१,४.२२म्) दशरात्रो महाव्रताय
(१,४.२२न्) महाव्रतं उदनीयायातिरात्राय_
(१,४.२२ओ) उदयनीयोऽतिरात्रः स्वर्गाय लोकायान्नाद्याय प्रतिष्ठित्यै । । २२ । । [एद्.ऽतिरत्रः]

(१,४.२३अ) आदित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त वयं पूर्वे स्वरेष्यामो वयं पूर्व इति
(१,४.२३ब्) त आदित्या लघुभिः सामभिश्चतुर्भि स्तोमैर्द्वाभ्यां पृष्ठ्याभ्यां स्वर्गं लोकं अभ्यप्लवन्त
(१,४.२३च्) यदभ्यप्लवन्त तस्मादभिप्लवः_
(१,४.२३द्) अन्वञ्च एवाङ्गिरसो गुरुभिः सामभिः सर्वै स्तोमैः सर्वैः पृष्ठ्यैः स्वर्गं लोकं अभ्यस्पृशन्त
(१,४.२३ए) यदभ्यस्पृशन्त तस्मात्स्पृश्यस्
(१,४.२३फ़्) तं वा एतं स्पृश्यं सन्तं पृष्ठ्य इत्याचक्षते परोक्षेण
(१,४.२३ग्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः_
(१,४.२३ह्) अभिप्लवात्पृष्ठ्यो निर्मितः
(१,४.२३इ) पृष्ठ्यादभिजित्_
(१,४.२३ज्) अभिजितः स्वरसामानः
(१,४.२३क्) स्वरसामभ्यो विषुवान्
(१,४.२३ल्) विषुवतः स्वरसामानः
(१,४.२३म्) स्वरसामभ्यो विश्वजित्_
(१,४.२३न्) विश्वजितः पृष्ठ्याभिप्लवौ
(१,४.२३ओ) पृष्ठ्याभिप्लवाभ्यां गवायुषी
(१,४.२३प्) गवायुर्भ्यां दशरात्रस्[एद्. दशरत्रस्]
(१,४.२३क़्) तानि ह वा एतानि यज्ञारण्यानि यज्ञकृन्तत्राणि
(१,४.२३र्) तेषां शतंशतं रथानान्यन्तरं तद्यथारण्यान्यारूढा अशनापिपासे ते पाप्मानं तृंहती परिप्लवेते
(१,४.२३स्) एवं हैवैते प्रप्लवन्ते येऽविद्वांस उपयन्त्यि_
(१,४.२३त्) अथ ये विद्वांस उपयन्ति तद्यथा प्रवाहात्प्रवाहं स्थलात्स्थलं समात्समं सुखात्सुखं अभयादभयं उपसंक्रामन्तीत्येवं हैवैते संवत्सरस्योदृचं समश्नवामहा इति ब्राह्मणं । । २३ । ।

(१,४.२४अ) प्रेदिर्ह वै कौशाम्बेयः कौसुरुबिन्दुरुद्दालक आरुणौ ब्रह्मचर्यं उवास
(१,४.२४ब्) तं आचार्यः पप्रच्छ कुमार कति ते पिता संवत्सरस्याहान्यमन्यतेति
(१,४.२४च्) कति त्वेवेति
(१,४.२४द्) दशेति होवाच
(१,४.२४ए) दश वा इति होवाच
(१,४.२४फ़्) दशाक्षरा विराड्विराजो यज्ञः
(१,४.२४ग्) कति त्वेवेति
(१,४.२४ह्) नवेति होवाच
(१,४.२४इ) नव वा इति होवाच
(१,४.२४ज्) नव वै प्राणाः
(१,४.२४क्) प्राणैर्यज्ञस्तायते
(१,४.२४ल्) कति त्वेवेति_
(१,४.२४म्) अष्टेति होवाच_
(१,४.२४न्) अष्टौ वा इति होवाच_
(१,४.२४ओ) अष्टाक्षरा गायत्री
(१,४.२४प्) गायत्री यज्ञः
(१,४.२४क़्) कति त्वेवेति
(१,४.२४र्) सप्तेति होवाच
(१,४.२४स्) सप्त वा इति होवाच
(१,४.२४त्) सप्त छन्दांसि_
(१,४.२४उ) छन्दोभिर्यज्ञस्तायते
(१,४.२४व्) कति त्वेवेति
(१,४.२४w) षडिति होवाच
(१,४.२४x) षड्वा इति होवाच
(१,४.२४य्) षड्वा ऋतवः_
(१,४.२४ज़्) ऋतूनां आप्त्यै
(१,४.२४आ) कति त्वेवेति
(१,४.२४ब्ब्) पञ्चेति होवाच
(१,४.२४च्च्) पञ्च वा इति होवाच
(१,४.२४द्द्) पञ्चपदा पङ्क्तिः
(१,४.२४ई) पाङ्क्तो यज्ञः
(१,४.२४फ़्फ़्) कति त्वेवेति
(१,४.२४ग्ग्) चत्वारीति होवाच
(१,४.२४ह्ह्) चत्वारि वा इति होवाच
(१,४.२४इइ) चत्वारो वै वेदाः_
(१,४.२४ज्ज्) वेदैर्यज्ञस्तायते
(१,४.२४क्क्) कति त्वेवेति
(१,४.२४ल्ल्) त्रीणीति होवाच
(१,४.२४म्म्) त्रीणि वा इति होवाच
(१,४.२४न्न्) त्रिषवणो वै यज्ञः
(१,४.२४ऊ) सवनैर्यज्ञस्तायते
(१,४.२४प्प्) कति त्वेवेति
(१,४.२४क़्क़्) द्वे इति होवाच
(१,४.२४र्र्) द्वे वा इति होवाच
(१,४.२४स्स्) द्विपाद्वै पुरुषः_
(१,४.२४त्त्) द्विप्रतिष्ठः पुरुषः
(१,४.२४उउ) पुरुषो वै यज्ञः
(१,४.२४व्व्) कति त्वेवेति_
(१,४.२४ww) एकं इति होवाच_
(१,४.२४xx) एकं वा इति होवाच_
(१,४.२४य्य्) अहरहरित्येव सर्वं संवत्सरं । । २४ । ।

(१,४.२४चोल्) इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे चतुर्थः प्रपाठकः । ।


(१,५.१अ) ओं अभिप्लवः षडहः
(१,५.१ब्) षड्ढ्यहानि भवन्ति ज्योतिर्गौरायुर्गौरायुर्ज्योतिः_
(१,५.१च्) अभिप्लवः पञ्चाहः
(१,५.१द्) पञ्च ह्येवाहानि भवन्ति
(१,५.१ए) यद्ध्येव प्रथमं अहस्तदुत्तमं अहः_
(१,५.१फ़्) अभिप्लवश्चतुरहः_
(१,५.१ग्) चत्वारो हि स्तोमा भवन्ति त्रिवृत्पञ्चदशः सप्तदश एकविंश एव_
(१,५.१ह्) अभिप्लवस्त्र्यहस्
(१,५.१इ) त्र्यावृत्तिर्ज्योतिर्गौरायुः_
(१,५.१ज्) अभिप्लवो द्व्यहः_
(१,५.१क्) द्वे ह्येव सामनी भवतो बृहद्रथन्तरे एव_
(१,५.१ल्) अभिप्लव एकाह
(१,५.१म्) एकाहस्य हि स्तोमैस्तायते
(१,५.१न्) चतुर्णां उक्थ्यानां द्वादश स्तोत्राण्यतिरिच्यन्ते
(१,५.१ओ) स सप्तमोऽग्निष्टोमस्
(१,५.१प्) तथा खलु सप्ताग्निष्टोमा मासि संपद्यन्त इति ब्राह्मणं । । १ । ।


(१,५.२अ) अथातो गाधप्रतिष्ठा
(१,५.२ब्) समुद्रं वा एते प्रतरन्ति ये संवत्सराय दीक्षन्ते
(१,५.२च्) तेषां तीर्थं एव प्रायणीयोऽतिरात्रस्
(१,५.२द्) तीर्थेन हि प्रतरन्ति
(१,५.२ए) तद्यथा समुद्रं तीर्थेन प्रतरेयुस्तादृक्तत्_
(१,५.२फ़्) गाधं प्रतिष्ठा चतुर्विंशं अहर्यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत्
(१,५.२ग्) प्रस्नयोऽभिप्लवः
(१,५.२ह्) प्रस्नेयः पृष्ठ्यः_
(१,५.२इ) गाधं प्रतिष्ठाभिजिद्यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत्_
(१,५.२ज्) नीविदग्ध एव प्रथमः स्वरसामा
(१,५.२क्) जानुदग्धो द्वितीयः
(१,५.२ल्) कुल्फदग्धस्तृतीयः_
(१,५.२म्) द्वीपः प्रतिष्ठा विषुवान्यथोपकक्षदग्धं वा कण्ठदन्घं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत्
(१,५.२न्) कुल्फदग्ध एव प्रथमोऽर्वाक्स्वरसामा
(१,५.२ओ) जानुदग्धो द्वितीयः_
(१,५.२प्) नीविदग्धस्तृतीयः_
(१,५.२क़्) गाधं प्रतिष्ठा विश्वजिद्यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत्
(१,५.२र्) प्रस्नेयः पृष्ठ्यः प्रस्नेयोऽभिप्लवः प्रस्नेये गवायुषी प्रस्नेयो दशरात्रः_
(१,५.२स्) गाधं प्रतिष्ठा महाव्रतं यथोपकक्षदग्धं वा क्ण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत्
(१,५.२त्) तेषां तीर्थं एवोदयनीयोऽतिरात्रस्
(१,५.२उ) तीर्थेन ह्युद्यन्ति
(१,५.२व्) तद्यथा समुद्रं तीर्थेनोदेयुस्तादृक्तत्_
(१,५.२w) अथ ह स्माह श्वेतकेतुरारुणेयः संवत्सराय न्वहं दीक्षा इति [एद्. दिक्षा]
(१,५.२x) तस्य ह पिता मुखं उदीक्ष्योवाच वेत्थ नु त्वं आयुष्मन्त्संवत्सरस्य गाधप्रतिष्ठे इति [एद्. वत्थ, चोर्र्. Pअत्यल्]
(१,५.२य्) वेदेति_
(१,५.२ज़्) एतद्ध स्मैतद्विद्वानाहेति ब्राह्मणं । । २ । ।


(१,५.३अ) पुरुषो वाव संवत्सरस्
(१,५.३ब्) तस्य पादावेव प्रायणीयोऽतिरात्रः
(१,५.३च्) पादाभ्यां हि प्रयन्ति तयोर्यच्छुक्लं तदह्नो रूपम्_
(१,५.३द्) यत्कृष्णं तद्रात्रेः_
(१,५.३ए) नखानि नक्षत्राणां रूपम्_
(१,५.३फ़्) लोमान्योषधिवनस्पतीनाम्
(१,५.३ग्) ऊरू चतुर्विंशं अहः_
(१,५.३ह्) उरोऽभिप्लवः
(१,५.३इ) पृष्ठं पृष्ठ्यः
(१,५.३ज्) शिर एव त्रिवृत्त्रिवृतं ह्येव शिरो भवति त्वगस्थि मज्जा मस्तिष्कम्_
(१,५.३क्) ग्रीवाः पञ्चदशश्चतुर्दश ह्येवैतस्यां करूकराणि भवन्ति
(१,५.३ल्) वीर्यं पञ्चदशम्_
(१,५.३म्) तस्मादाभिरण्वीभिः सतीभिर्गुरुं भारं हरति
(१,५.३न्) तस्माद्ग्रीवाः पञ्चदशः_
(१,५.३ओ) उरः सप्तदश._
(१,५.३प्) अष्टावन्ये जत्रवोऽष्टावन्य उरः सप्तदशम्_
(१,५.३क़्) तस्मादुरः सप्तदशः_
(१,५.३र्) उदरं एकविंशः_
(१,५.३स्) विंशतिर्ह्येवैतस्यान्तर उदरे कुन्तापानि भवन्त्युदरं एकविंशम्_
(१,५.३त्) तस्मादुदरं एकविंशः_
(१,५.३उ) पार्श्वे त्रिणवस्
(१,५.३व्) त्रयोदशान्याः पर्शवस्त्रयोदशान्याः पार्श्वे त्रिणवे
(१,५.३w) तस्मात्पार्श्वे त्रिणवः_
(१,५.३x) अनूकं त्रयस्त्रिंशः_
(१,५.३य्) द्वात्रिंशतिर्ह्येवैतस्य पृष्टीकुण्डीलानि भवन्ति_
(१,५.३ज़्) अनूकं त्रयस्त्रिशम्_
(१,५.३आ) तस्मादनूकं त्रयस्त्रिंशस्
(१,५.३ब्ब्) तस्यायं एव दक्षिणो बाहुरभिजित्
(१,५.३च्च्) तस्येमे दक्षिणे त्रयः प्राणाः स्वरसामानः_
(१,५.३द्द्) आत्मा विषुवान्_
(१,५.३ई) तस्येमे सव्ये त्रयः प्राणा अर्वाक्स्वरसामानस्
(१,५.३फ़्फ़्) तस्यायं सव्यो बाहुर्विश्वजित्_
(१,५.३ग्ग्) उक्तौ पृष्ठ्याभिप्लवौ
(१,५.३ह्ह्) याववाञ्चौ प्राणौ ते गवायुषी
(१,५.३इइ) अङ्गानि दशरात्रः_
(१,५.३ज्ज्) मुखं महाव्रतम्_
(१,५.३क्क्) तस्य हस्तावेवोदयनीयोऽतिरात्रः_
(१,५.३ल्ल्) हस्ताभ्यां ह्युद्यन्ति । । ३ । ।


(१,५.४अ) पुरुषो वाव संवत्सरस्
(१,५.४ब्) तस्य प्राण एव प्रायणीयोऽतिरात्रः
(१,५.४च्) प्राणेन हि प्रयन्ति
(१,५.४द्) वागारम्भणीयं अहः_
(१,५.४ए) यद्यदारभते वागारभते
(१,५.४फ़्) वाचैव तदारभते
(१,५.४ग्) तस्यायं एव दक्षिणः पाणिरभिप्लवस्
(१,५.४ह्) तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम्_
(१,५.४इ) गायत्र्या आयतने
(१,५.४ज्) तस्मादियं अस्यै ह्रसिष्ठा
(१,५.४क्) तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम्_
(१,५.४ल्) त्रिष्टुभ आयतने
(१,५.४म्) तस्मादियं अस्यै वरिष्ठा
(१,५.४न्) तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम्_
(१,५.४ओ) जगत्या आयतने
(१,५.४प्) तस्मादियं अनयोर्वरिष्ठा
(१,५.४क़्) तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम्_
(१,५.४र्) पङ्क्त्या आयतने
(१,५.४स्) पृथुरिव वै पङ्क्तिस्
(१,५.४त्) तस्मादियं आसां प्रथिष्ठा
(१,५.४उ) तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम्_
(१,५.४व्) विराज आयतने_
(१,५.४w) अन्नं वै श्रीः_
(१,५.४x) विराडन्नाद्यम्
(१,५.४य्) अन्न्नाद्यस्य श्रियोऽवरुद्ध्यै
(१,५.४ज़्) तस्मादियं आसां वरिष्ठा
(१,५.४आ) तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम्_
(१,५.४ब्ब्) अतिछन्दस आयतने_
(१,५.४च्च्) अतिछन्दो वै छन्दसां आयतनम्_
(१,५.४द्द्) तस्मादिदं प्रथिष्ठं फलकम्_
(१,५.४ई) तस्येदं प्रातःसवनं इदं माध्यन्दिनं सवनं इदं तृतीयसवनम्_
(१,५.४फ़्फ़्) स इतः स इतोऽभिप्लवः स इत आत्मा पृष्ठ्यः
(१,५.४ग्ग्) प्लवतीवाभिप्लवस्
(१,५.४ह्ह्) तिष्ठतीव पृष्ठ्यः
(१,५.४इइ) प्लवत इव ह्येवं अङ्गैस्
(१,५.४ज्ज्) तिष्ठतीवात्मना
(१,५.४क्क्) तस्यायं एव दक्षिणः कर्णोऽभिजित्
(१,५.४ल्ल्) तस्य यद्दक्षिणं अक्ष्णः शुक्लं स प्रथमः स्वरसामा
(१,५.४म्म्) यत्कृष्णं स द्वितीयः_
(१,५.४न्न्) यन्मण्डलं स तृतीयः_
(१,५.४ऊ) नासिके विषुवान्मण्डलं एव प्रथमोऽर्वाक्स्वरसामा
(१,५.४प्प्) यत्कृष्णं स द्वितीयः_
(१,५.४क़्क़्) यच्छुक्लं स तृतीयस्
(१,५.४र्र्) तस्यायं सव्यः कर्णो विश्वजित्_
(१,५.४स्स्) उक्तौ पृष्ठ्याभिप्लवौ
(१,५.४त्त्) याववाञ्चौ प्राणौ ते गवायुषी
(१,५.४उउ) अङ्गानि दशरात्रः_
(१,५.४व्व्) मुखं महाव्रतम्_
(१,५.४ww) तस्योदान एवोदयनीयोऽतिरात्रः_
(१,५.४xx) उदानेन ह्युद्यन्ति । । ४ । ।

(१,५.५अ) पुरुषो वाव संवत्सरः
(१,५.५ब्) पुरुष इत्येकम्_
(१,५.५च्) संवत्सर इत्येकम्
(१,५.५द्) अत्र तत्समम्_
(१,५.५ए) द्वे अहोरात्रे संवत्सरस्य
(१,५.५फ़्) द्वाविमौ पुरुषे प्राणाविति_
(१,५.५ग्) अत्र तत्समम्_
(१,५.५ह्) त्रयो वा ऋतवः संवत्सरस्य
(१,५.५इ) त्रय इमे पुरुषे प्राणा इति_
(१,५.५ज्) अत्र तत्समम्_
(१,५.५क्) षड्वा ऋतवः संवत्सरस्य
(१,५.५ल्) षडिमे पुरुषे प्राणा इति_
(१,५.५म्) अत्र तत्समम्_
(१,५.५न्) सप्त वा ऋतवः संवत्सरस्य
(१,५.५ओ) सप्तेमे पुरुषे प्राणा इति_
(१,५.५प्) अत्र तत्समम्_
(१,५.५क़्) द्वादश मासाः संवत्सरस्य
(१,५.५र्) द्वादशेमे पुरुषे प्राणा इति_
(१,५.५स्) अत्र तत्समम्_
(१,५.५त्) त्रयोदश मासाः संवत्सरस्य
(१,५.५उ) त्रयोदशेमे पुरुषे प्राणा इति_
(१,५.५व्) अत्र तत्समम्_
(१,५.५w) चतुर्विंशतिरर्धमासाः संवत्सरस्य
(१,५.५x) चतुर्विंशोऽयं पुरुषः_
(१,५.५य्) विंशत्यङ्गुलिश्चतुरङ्ग इति_
(१,५.५ज़्) अत्र तत्समम्_
(१,५.५आ) षड्विंशतिरर्धमासाः संवत्सरस्य
(१,५.५ब्ब्) षड्विंशोऽयं पुरुषः
(१,५.५च्च्) प्रतिष्ठे षड्विंशे इति_
(१,५.५द्द्) अत्र तत्समम्_
(१,५.५ई) त्रीणि च ह वै शतानि षष्टिश्च संवत्सरस्याहोरात्राणीति_
(१,५.५फ़्फ़्) एतावन्त एव पुरुषस्य प्राणा इति_
(१,५.५ग्ग्) अत्र तत्समम्_
(१,५.५ह्ह्) सप्त च ह वै शतानि विंशतिश्च संवत्सरस्याहानि च रात्रयश्चेति_
(१,५.५इइ) एतावन्त एव पुरुषस्यास्थीनि च मज्जानश्चेति_
(१,५.५ज्ज्) अत्र तत्समम्_
(१,५.५क्क्) चतुर्दश च ह वै शतानि चत्वारिंशच्च संवत्सरस्यार्धाहाश्चार्धरात्रयश्चेति_
(१,५.५ल्ल्) एतावन्त एव पुरुषस्य स्थूरा मांसानीति_
(१,५.५म्म्) अत्र तत्समम्
(१,५.५न्न्) अष्टाविंशतिश्च ह वै शतान्यशीतिश्च संवत्सरस्य पादाहाश्च पादरात्रयश्चेति_
(१,५.५ऊ) एतावन्त एव पुरुषस्य स्नावा बन्ध्या इति_
(१,५.५प्प्) अत्र तत्समम्_
(१,५.५क़्क़्) दश च ह वै सहस्राण्यष्टौ च शतानि संवत्सरस्य मुहूर्ता इति_
(१,५.५र्र्) एतावन्त एव पुरुषस्य पेशशमरा इति_
(१,५.५स्स्) अत्र तत्समम्_
(१,५.५त्त्) यावन्तो मुहूर्ताः पञ्चदश कृत्वस्तावन्तः प्राणाः_
(१,५.५उउ) यावन्तः प्राणाः पञ्चदश कृत्वस्तावन्तोऽपानाः_
(१,५.५व्व्) यावन्तोऽपानाः पञ्चदश कृत्वस्तावन्तो व्यानाः_
(१,५.५ww) यावन्तो व्यानाः पञ्चदश कृत्वस्तावन्तः समानाः_
(१,५.५xx) यावन्तः समानाः पञ्चदश कृत्वस्तावन्त उदानाः_
(१,५.५य्य्) यावन्त उदानाः पञ्चदश कृत्वस्तावन्त्येतादीनि
(१,५.५ज़्ज़्) यावन्त्येतादीनि तावन्त्येतर्हीणि
(१,५.५आअ) यावन्त्येतर्हीणि तावन्ति स्वेदायनानि
(१,५.५ब्ब्ब्) यावन्ति स्वेदायनानि तावन्ति क्षिप्रायणानि
(१,५.५च्च्च्) यावन्ति क्षिप्रायणानि तावन्तो रोमकूपाः_
(१,५.५द्द्द्) यावन्तो रोमकूपाः पञ्चदश कृत्वस्तावन्तो वर्षतो धारास्
(१,५.५ईए) तदेतत्क्रोशशतिकं परिमाणम्_
(१,५.५फ़्फ़्फ़्) तदप्येतदृचोक्तं <श्रमादन्यत्र परिवर्तमानश्चरन्वासीनो यदि वा स्वपन्नपि । अहोरात्राभ्यां पुरुषः क्षणेन कति कृत्वः प्राणिति चापानीति च शतं शतानि परिवत्सराणां अष्टौ च शतानि संवत्सरस्य मुहूर्तान्यान्वदन्त्यहोरात्राभ्यां पुरुषः समेन कति कृत्वः प्राणिति चापानीति च [ऋBं १२.३.२.७-८]>_इति ब्राह्मणं । । ५ । ।

(१,५.६अ) संवत्सरस्य समता वेदितव्येति ह स्माह वास्युः_
(१,५.६ब्) एकं एव पुरस्ताद्विषुवतोऽतिरात्रं उपयन्त्येकं उपरिष्टात्
(१,५.६च्) त्रिपञ्चाशतं एव पुरस्ताद्विषुवतोऽग्निष्टोमानुपयन्ति त्रिपञ्चाशतं उपरिष्टात्_
(१,५.६द्) विंशतिशतं एव पुरस्ताद्विषुवत उक्थ्यानुपयन्ति विंशतिशतं उपरिष्टात्
(१,५.६ए) षडेव पुरस्ताद्विषुवतः षोडशिन उपयन्ति षडुपरिष्टात्
(१,५.६फ़्) त्रिंशदेव पुरस्ताद्विषुवतः षडहानुपयन्ति त्रिंशदुपरिष्टात्
(१,५.६ग्) सैषा संवत्सरस्य समता
(१,५.६ह्) स य एवं एतां संवत्सरस्य समतां वेद संवत्सरेण सात्मा सलोको भूत्वा देवानप्येतीति ब्रह्मणं । । ६ । ।

(१,५.७अ) अथातो यज्ञक्रमाः_
(१,५.७ब्) अग्न्याधेयम्
(१,५.७च्) अग्न्याधेयात्पूर्णाहुतिः
(१,५.७द्) पूर्णहुतेरग्निहोत्रम्
(१,५.७ए) अग्निहोत्राद्दर्शपूर्णमासौ
(१,५.७फ़्) दर्शपूर्णमासाभ्यां आग्रयणम्
(१,५.७ग्) आग्रयणाच्चातुर्मास्यानि
(१,५.७ह्) चातुर्मास्येभ्यः पशुबन्धः
(१,५.७इ) पशुबन्धादग्निष्टोमः_
(१,५.७ज्) अग्निष्टोमाद्राजसूयः_
(१,५.७क्) राजसूयाद्वाजपेयः_
(१,५.७ल्) वाजपेयादश्वमेधः_
(१,५.७म्) अश्वमेधात्पुरुषमेधः
(१,५.७न्) पुरुषमेधात्सर्वमेधः
(१,५.७ओ) सर्वमेधाद्दक्षिणावन्तः_
(१,५.७प्) दक्षिणावद्भ्योऽदक्षिणाः_
(१,५.७क़्) अदक्षिणाः सहस्रदक्षिणे प्रत्यतिष्ठन्_
(१,५.७र्) ते वा एते यज्ञक्रमाः
(१,५.७स्) स य एवं एतान्यज्ञक्रमान्वेद यज्ञेन सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणं । । ७ । ।

(१,५.८अ) प्रजापतिरकामयतानन्त्यं अश्नुवीयेति
(१,५.८ब्) सोऽग्नीनाधाय पूर्णाहुत्यायजत
(१,५.८च्) सोऽन्तं एवापश्यत्
(१,५.८द्) सोऽग्निहोत्रेणेष्ट्वान्तं एवापश्यत्
(१,५.८ए) स दर्शपूर्णमासाभ्यां इष्ट्वान्तं एवापश्यत्
(१,५.८फ़्) स आग्रयणेनेष्ट्वान्तं एवापश्यत्
(१,५.८ग्) स चातुर्मास्यैरिष्ट्वान्तं एवापश्यत्
(१,५.८ह्) स पशुबन्धेनेष्ट्वान्तं एवापश्यत्
(१,५.८इ) सोऽग्निष्टोमेनेष्ट्वान्तं एवापश्यत्
(१,५.८ज्) स राजसूयेनेष्ट्वा राजेति नामाधत्त
(१,५.८क्) सोऽन्तं एवापश्यत्
(१,५.८ल्) स वाजपेयेनेष्ट्वा सम्राडिति नामाधत्त
(१,५.८म्) सोऽन्तं एवापश्यत्
(१,५.८न्) सोऽश्वमेधेनेष्ट्वा स्वराडिति नामाधत्त
(१,५.८ओ) सोऽन्तं एवापश्यत्
(१,५.८प्) स पुरुषमेधेनेष्ट्वा विराडिति नामाधत्त
(१,५.८क़्) सोऽन्तं एवापश्यत्
(१,५.८र्) स सर्वमेधेनेष्ट्वा सर्वराडिति नामाधत्त
(१,५.८स्) सोऽन्तं एवापश्यत्
(१,५.८त्) सोऽहीनैर्दक्षिणावद्भिरिष्ट्वान्तं एवापश्यत्
(१,५.८उ) सोऽहीनैरदक्षिणावद्भिरिष्ट्वान्तं एवापश्यत्
(१,५.८व्) स सत्त्रेणोभयतोऽतिरात्रेणान्ततोऽयजत
(१,५.८w) वाचं ह वै होत्रे प्रायच्छत्
(१,५.८x) प्राणं अध्वर्यवे चक्षुरुद्गात्रे मनो ब्रह्मणेऽङ्गानि होत्रकेभ्य आत्मानं सदस्येभ्यः_
(१,५.८य्) एवं आनन्त्यं आत्मानं दत्त्वानन्त्यं आश्नुत
(१,५.८ज़्) तद्या दक्षिणा आनयत्ताभिरात्मानं निष्क्रीणीय
(१,५.८आ) तस्मादेतेन ज्योतिष्टोमेनाग्निष्टोमेनात्मनिष्क्रयणेन सहस्रदक्षिणेन पृष्ठशमनीयेन त्वरेत
(१,५.८ब्ब्) यो ह्यनिष्ट्वा पृष्ठशमनीयेन प्रैत्यात्मानं सोऽनिष्क्रीय प्रैतीति ब्राह्मणं । । ८ । ।

(१,५.९अ) यद्वै संवत्सराय संवत्सरसदो दीक्षन्ते कथं एषां अग्निहोत्रं अनन्तरितं भवति
(१,५.९ब्) व्रतेतेति ब्रूयात्
(१,५.९च्) कथं एषां दर्शोऽनन्तरितो भवति
(१,५.९द्) दध्ना च पुरोडाशेन चेति ब्रूयात्
(१,५.९ए) कथं एषां पौर्णमासं अनन्तरितं भवति_
(१,५.९फ़्) आज्येन च पुरोडाशेन चेति ब्रूयात्
(१,५.९ग्) कथं एषां आग्रयणं अनन्तरितं भवति
(१,५.९ह्) स्ॐयेन चरुणेति ब्रूयात्
(१,५.९इ) कथं एषां चातुर्मास्यान्यनन्तरितानि भवन्ति
(१,५.९ज्) पयस्ययेति ब्रूयात्
(१,५.९क्) कथं एषां पशुबन्धोऽनन्तरितो भवति
(१,५.९ल्) पशुना च पुरोडाशेन चेति ब्रूयात्
(१,५.९म्) कथं एषां स्ॐयोऽध्वरोऽनन्तरितो भवति
(१,५.९न्) ग्रहैरिति ब्रूयात्
(१,५.९ओ) कथं एषां गृहमेधोऽनन्तरितो भवति
(१,५.९प्) धानाकरम्भैरिति ब्रूयात्
(१,५.९क़्) कथं एषां पितृयज्ञोऽनन्तरितो भवति_
(१,५.९र्) औपासनैरिति ब्रूयात्
(१,५.९स्) कथं एषां मिथुनं अनन्तरितं भवति
(१,५.९त्) हिंकारेनेति ब्रूयात्
(१,५.९उ) सैषा संवत्सरे यज्ञक्रतूनां अपीतिः
(१,५.९व्) स य एवं एतां संवत्सरे यज्ञक्रतूनां अपीतिं वेद यज्ञेन सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणं । । ९ । ।

(१,५.१०अ) देवा ह वै सहस्रसंवत्सराय दिदीक्षिरे
(१,५.१०ब्) तेषां पञ्च शतानि संवत्सराणां पर्युपेतान्यासन्नथेदं सर्व शश्राम ये स्तोमा यानि पृष्ठानि यानि शस्त्राणि
(१,५.१०च्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
(१,५.१०द्) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(१,५.१०ए) तदयातयाम मध्ये यज्ञस्यापश्यन्_
(१,५.१०फ़्) तेनायातयाम्ना या वेदे व्यष्टिरासीत्तां पञ्चस्वपश्यन्नृचि यजुषि साम्नि शान्तेऽथ घोरे
(१,५.१०ग्) ता वा एताः पञ्च व्याहृतयो भवन्त्यो श्रावयास्तु श्रौषड्यज ये यजामहे वौषडिति
(१,५.१०ह्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. दवा]
(१,५.१०इ) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(१,५.१०ज्) तत एतं तापश्चितं सहस्रसंवत्सरस्याञ्जस्यं अपश्यन्_
(१,५.१०क्) ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
(१,५.१०ल्) स खलु द्वादश मासान्दीक्षाभिरेति द्वादशमासानुपसद्भिर्द्वाशमासांत्सुत्याभिः_
(१,५.१०म्) अथ यद्द्वादश मासान्दीक्षाभिरेति द्वादशमासानुपसद्भिस्तेनैतावग्न्यर्कावाप्नोति_
(१,५.१०न्) अथ यद्द्वादश मासांत्सुत्याभिस्तेनेदं महदुक्थं अवाप्नोति
(१,५.१०ओ) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
(१,५.१०प्) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(१,५.१०क़्) तत एतं संवत्सरंं तापश्चितस्याञ्जस्यं अपश्यन्_
(१,५.१०र्) ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
(१,५.१०स्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
(१,५.१०त्) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(१,५.१०उ) तत एतं द्वादशाहं संवत्सरस्याञ्जस्यं अपश्यन्_
(१,५.१०व्) ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
(१,५.१०w) स खलु द्वादशाहं दीक्षाभिरेति द्वादशाहं उपसद्भिर्द्वादशाहं सुत्याभिः_
(१,५.१०x) अथ यद्द्वादशाहं दीक्षाभिरेति द्वादशाहं उपसद्भिस्तेनैतावग्न्यर्कावाप्नोति_
(१,५.१०य्) अथ यद्द्वादशाहं सुत्याभिस्तेनेदं महदुक्थं अवाप्नोति
(१,५.१०ज़्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. इहसमिवासुरुप]
(१,५.१०आ) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(१,५.१०ब्ब्) तत एतं पृष्ठ्यं षडहं द्वादशाहस्याञ्जस्यं अपश्यन्_
(१,५.१०च्च्) ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
(१,५.१०द्द्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
(१,५.१०ई) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(१,५.१०फ़्फ़्) तत एतं विश्वजितं पृष्ठ्यषडहस्याञ्जस्यं अपश्यन्_
(१,५.१०ग्ग्) ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि
(१,५.१०ह्ह्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा
(१,५.१०इइ) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति
(१,५.१०ज्ज्) स वा एष विश्वजिद्यः सहस्रसंवत्सरस्य प्रतिमा_
(१,५.१०क्क्) एष ह प्रजानां प्रजापतिर्यद्विश्वजिदिति ब्राह्मणं । । १० । ।

(१,५.११अ) पुरुषं ह वै नारायणं प्रजापतिरुवाच यजस्य यजस्वेति
(१,५.११ब्) स होवाच यजस्व यजस्वेत्येवं हात्थ मा
(१,५.११च्) त्रिरपि क्षत मे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास्तृतीयसवनेन
(१,५.११द्) यज्ञवास्तुन्येव पर्यशिषो यज्ञवास्तुं इत्येवं आशिषोऽहं वा एतद्वेद यज्ञे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास्तृतीयसवनेन यज्ञवास्तुन्येव पर्यशिषो यज्ञवास्तुं इत्येवं आशिषो विद्वांसो नूनं त्वा याजयेयुः_
(१,५.११ए) एते ह वा अविद्वांसो यत्रानृग्विद्धोता भवत्ययजुर्विदध्वर्युरसामविदुद्गाताभृग्वङ्गिरोविद्ब्रह्मा
(१,५.११फ़्) यजस्वैव हन्त तु ते तद्वक्ष्यामि
(१,५.११ग्) यथा सूत्रे मणिरिव सूत्रं एतान्युक्थाहानि भवन्ति सूत्रं इव वा मणाविति
(१,५.११ह्) तस्माद्य एव सर्ववित्स्यात्तं ब्रह्माणं कुर्वीत_
(१,५.११इ) एष ह वै विद्वांत्सर्वविद्ब्रह्मा यद्भृग्वङ्गिरोवित्_
(१,५.११ज्) एते ह वा अस्य सर्वस्य शमयितारः पालयितारस्
(१,५.११क्) तमाद्ब्रह्मा स्तुते बहिःपवमाने वाचयति । । ११ । ।

(१,५.१२अ) श्येनोऽसि गायत्रछन्दा
(१,५.१२ब्) अनु त्वारभे
(१,५.१२च्) स्वस्ति मा संपारयेति
(१,५.१२द्) स यदाह श्येनोऽसीति सोमं वा एतदाह_
(१,५.१२ए) एष ह वा अग्निर्भूत्वास्मिंल्लोके संशाययति
(१,५.१२फ़्) तद्यत्संशाययति तस्माच्छेयनस्
(१,५.१२ग्) तच्छेयनस्य श्येनत्वम्_
(१,५.१२ह्) स यदाह गायत्रछन्दा अनुत्वारभ इति गायत्रेण छन्दसा वसुर्भिर्देवैः प्रातःसवनेऽस्मिंल्लोकेऽग्निं सन्तं अन्वारभते
(१,५.१२इ) स यदाह स्वस्ति मा संपारयेति गायत्रेणैव छन्दसा वसुभिर्देवैः प्रातःसवनेऽस्मिंल्लोकेऽग्निना देवेन स्वस्ति मा संपारयेति गायत्रेणैवैनं तच्छन्दसा वसुभिर्देवैः प्रातःसवनेऽस्मिंल्लोकेऽग्निना देवेन स्वस्ति संपद्यते य एवं वेद

(१,५.१३अ) अथ माध्यंदिने पवमाने वाचयति सम्राडसि त्रिष्टुप्छन्दा
(१,५.१३ब्) अनु त्वारभे
(१,५.१३च्) स्वस्ति मा संपारयेति
(१,५.१३द्) स यदाह सम्राडसीति सोमं वा एतदाह_
(१,५.१३ए) एष ह वै वायुर्भूत्वान्तरिक्षलोके सम्राजति
(१,५.१३फ़्) तद्यत्सम्राजति तस्मात्सम्राट्
(१,५.१३ग्) तत्सम्राजस्य सम्राट्त्वम्_
(१,५.१३ह्) स यदाह त्रिष्टुप्छन्दा अनु त्वारभ इति त्रैष्टुभेन छन्दसा रुद्रैर्देवैर्माध्यंदिने सवनेऽन्तरिक्षलोके वायुं सन्तं अन्वारभते
(१,५.१३इ) स यदाह स्वस्ति मा संपारयेति त्रैष्टुभेनैव छन्दसा रुद्रैर्देवैर्माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति मा संपारयेति
(१,५.१३ज्) त्रैष्टुभेनैवैनं तच्छन्दसा रुद्रैर्देवैर्माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति संपद्यते य एवं वेद । । १३ । ।

(१,५.१४अ) अथार्भवे पवमाने वाचयति स्वरोऽसि गयोऽसि जगच्छन्दा
(१,५.१४ब्) अनु त्वारभे
(१,५.१४च्) स्वस्ति मा संपारयेति
(१,५.१४द्) स यदाह स्वरोऽसीति सोमं वा एतदाह_
(१,५.१४ए) एष ह वै सूर्यो भूत्वामुष्मिंल्लोके स्वरति
(१,५.१४फ़्) तद्यत्स्वरति तस्मात्स्वरस्
(१,५.१४ग्) तत्स्वरस्य स्वरत्वम्_
(१,५.१४ह्) स यदाह गयोऽसीति सोमं वा एतदाह_
(१,५.१४इ) एष ह वै चन्द्रमा भूत्वा सर्वांल्लोकान्गच्छति
(१,५.१४ज्) तद्यद्गच्छति तस्माद्गयस्
(१,५.१४क्) तद्गयस्य गयत्वम्_
(१,५.१४ल्) स यदाह जगच्छन्दा अनु त्वारभ इति जागतेन छन्दसादित्यैर्देवैस्तृतीयसवनेऽमुष्मिंल्लोके सूर्यं सन्तं अन्वारभते
(१,५.१४म्) स यदाह स्वस्ति मा संपारयेति जागतेनैव छन्दसादित्यैर्देवैस्तृतीयसवनेऽमुष्मिंल्लोके सूर्येण देवेन स्वस्ति मा संपारयेति जागतेनैवैनं तच्छन्दसादित्यैर्देवैस्तृतीयसवनेऽमुष्मिंल्लोके सूर्येण देवेन स्वस्ति संपद्यते य एवं वेद । । १४ । ।

(१,५.१५अ) अथ संस्थिते संस्थिते सवने वाचयति मयि भर्गो मयि महो मयि यशो मयि सर्वं इति
(१,५.१५ब्) पृथिव्येव भर्गोऽन्तरिक्ष एव महो द्यौरेव यशोऽप एव सर्वम्
(१,५.१५च्) अग्निरेव भर्गो वायुरेव मह आदित्य एव यशश्चन्द्रमा एव सर्वम्_ [एद्. आदित्या]
(१,५.१५द्) वसव एव भर्गो रुद्रा एव मह आदित्या एव यशो विश्वेदेवा एव सर्वम्_
(१,५.१५ए) गायत्र्येव भर्गस्त्रिष्टुबेव महो जगत्येव यशोऽनुष्टुबेव सर्वम्_
(१,५.१५फ़्) प्राच्येव भर्गः प्रतीच्येव मह उदीच्येव यशो दक्षिणैव सर्वम्_
(१,५.१५ग्) वसन्त एव भर्गो ग्रीष्म एव महो वर्षा एव यशः शरदेव सर्वम्_
(१,५.१५ह्) त्रिवृदेव भर्गः पञ्चदश एव महः सप्तदश एव यश एकविंश एव सर्वम्
(१,५.१५इ) ऋग्वेद एव भर्गो यजुर्वेद एव महः सामवेद एव यशो ब्रह्मवेद एव सर्वम्_
(१,५.१५ज्) होतैव भर्गोऽध्वर्युरेव मह उद्गातैव यशो ब्रह्मैव सर्वम्_
(१,५.१५क्) वागेव भर्गः प्राण एव महश्चक्षुरेव यशो मन एव सर्वं । । १५ । ।

(१,५.१६अ) स यदाह मयि भर्ग इति पृथिवीं एवैतल्लोकानां अहाग्निं देवानां वसून्देवान्देवगणानां गायत्रं छन्दसां प्राचीं दिशां वसन्तं ऋतूनां त्रिवृतं स्तोमानां ऋग्वेदं वेदानां हौत्रं होत्रकाणां वाचं इन्द्रियाणां । । १६ । ।

(१,५.१७अ) स यदाह मयि मह इत्यन्तरिक्षं एवैतल्लोकानां आह वायुं देवानां रुद्रान्देवान्देवगणानां त्रैष्टुभं छन्दसां प्रतीचीं दिशां ग्रीष्मं ऋतूनां पञ्चदशं स्तोमानां यजुर्वेदं वेदानां आध्वर्यवं होत्रकाणां प्राणं इन्द्रियाणां । । १७ । ।

(१,५.१८अ) स यदाह मयि यश इति दिवं एवैतल्लोकानां आहादित्यं देवानां आदित्यान्देवगणानां जागतं छन्दसां उदीचीं दिशां वर्षा ऋतूनां सप्तदशं स्तोमानां सामवेदं वेदानां औद्गात्रं होत्रकाणां चक्षुरिन्द्रियाणां । । १७ । ।

(१,५.१९अ) स यदाह मयि सर्वं इत्यप एवैतल्लोकानां आह चन्द्रमसं देवानां विश्वान्देवान्देवगणानां आनुष्टुभं छन्दसां दक्षिणां दिशां शरदं ऋतूनां एकविंशं स्तोमानां ब्रह्मवेदं वेदानां ब्रह्मत्वं होत्रकाणां मन इन्द्रियाणां । । १८ । ।

(१,५.२०अ) स वा एष दशधा चतुः संपद्यते
(१,५.२०ब्) दश च ह वै चतुर्विराजोऽक्षराणि
(१,५.२०च्) तं गर्भा उपजीवन्ति
(१,५.२०द्) श्रीर्वै विराड्
(१,५.२०ए) यशोऽन्नाद्यम्_
(१,५.२०फ़्) श्रियं एव तद्विराजं यशस्यन्नाद्यो प्रतिष्ठापयति
(१,५.२०ग्) प्रतिष्ठन्तीरिदं सर्वं अनुप्रतिष्ठति
(१,५.२०ह्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद । । २० । ।

(१,५.२१अ) अनर्वाणं ह वै देवं दध्यङ्ङाङ्गिरस उपसीदं ह यज्ञस्य श्नुष्टिं समश्नवामह इति
(१,५.२१ब्) स दध्यङ्ङाङ्गिरसोऽब्रवीद्यो वै सप्तदशं प्रजापतिं यज्ञेऽन्वितं वेद नास्य यज्ञो रिष्यते
(१,५.२१च्) न यज्ञपतिं रिष्यन्त इति
(१,५.२१द्) ता वा एताः पञ्च व्याहृतयो भवन्त्यो श्रावयास्तु श्रौषड्यज ये यजामहे वौषडिति
(१,५.२१ए) स दध्यङ्ङाङ्गिरसोऽब्रवीन्न वयं विद्मो यदि ब्राह्मणाः स्मो यद्यब्राह्मणाः स्मो यदि तस्यर्षेः स्मो वान्यस्येति_
(१,५.२१फ़्) अनर्वाणश्च ह वा ऋतावन्तश्च पितरः स्वधायां आवृषायन्त वयं वदामहै वयं वदामहा इति
(१,५.२१ग्) सोऽयात्स्वायंभुवो वा ऋतावन्तो मदयातां न वयं वदामहा इति
(१,५.२१ह्) तस्मात्प्रवरे प्रव्रियमाणे वाचयेद्देवाः पितर इति तिस्रः_
(१,५.२१इ) य एति संयजति स भवति यश्च न ब्रूते यश्च न ब्रूत इति ब्राह्मणं । । २१ । ।

(१,५.२२अ) सावित्रं ह स्मैतं पूर्वे पुरस्तात्पशुं आलभन्त इत्येतर्हि प्राजापत्यम्_
(१,५.२२ब्) यो ह्येव सविता स प्रजापतिरिति वदन्तस्
(१,५.२२च्) तस्मादु समुप्याग्नींस्तेन यजेरन्_
(१,५.२२द्) ते समानधिष्ण्या एव स्युरोखासंभरणीयायाः_
(१,५.२२ए) उखासंभरणीयायां विन्युपयाग्नींस्तया यजेरन्_
(१,५.२२फ़्) ते नानाधिष्ण्या एव स्युरा दीक्षणीयायाः_
(१,५.२२ग्) दीक्षणीयायां संन्युप्याग्नींस्तया यजेरन्_
(१,५.२२ह्) ते समानधिष्ण्या एव स्युरोदवसानीयायाः_
(१,५.२२इ) उदवसानीयायां विन्युप्याग्नींस्तया यजेरन्_
(१,५.२२ज्) ते नानाधिष्ण्या एव स्युः_
(१,५.२२क्) अथ यदि यजमानस्योपतपेत्पार्श्वतोऽग्नीनाधाय तावदासीत यावदगदः स्यात्_
(१,५.२२ल्) यदि प्रेयात्स्वैरेव तं अग्निभिर्दहेत्_
(१,५.२२म्) अशवाग्निभिरितरे यजमाना आसत इति वदन्तस्
(१,५.२२न्) तस्य तदेव ब्राह्मणं यददः पुरःसवने
(१,५.२२ओ) पितृमेध आशिषो व्याख्याताः । । २२ । ।

(१,५.२३अ) सायंप्रातर्होमौ स्थालीपाको नवश्च यः । बलिश्च पितृयज्ञश्चाष्टका सप्तमः पशुः । । इत्येते पाकयज्ञाः
(१,५.२३ब्) अग्न्याधेयं अग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश्चातुर्मास्यानि पशुबन्धोऽत्र सप्तमः । । इत्येते हविर्यज्ञाः
(१,५.२३च्) अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशिमांस्ततः । वाजपेयोऽतिरात्रश्चाप्तोर्यामात्र सप्तमः । । इत्येते सुत्याः
(१,५.२३द्) के स्विद्देवा प्रवोवाजाः के स्विद्देवा अभिद्यवः । के स्विद्देवा हविष्मन्तः किं स्विज्जिगाति सुम्नयुः । ।
(१,५.२३ए) ऋतव एव प्रवोवाजा मासा देवा अभिद्यवः । अर्धमासा हविष्मन्तस्तज्जिगाति सुन्मयुः । ।
(१,५.२३फ़्) कति स्विद्रात्रयः कत्यहानि कति स्तोत्राणि कति शस्त्राण्यस्य । कति स्वित्सवनाः संवत्सरस्य स्तोत्रियाः पदाक्षराणि कत्यस्य । ।
(१,५.२३ग्) <द्वावतिरात्रौ षट्शतं अग्निष्टोमा द्वे विंशतिशते उक्थ्यानां । द्वादश षोडशिनः षष्टिः षडहा वैषुवतं च [Vऐत्S३१.१५]> । ।
(१,५.२३ह्) अहान्यस्य विंशतिशतानि त्रीण्यहश्चैकं तावदस्य । संवत्सरस्य सवनाः सहस्रं असीति त्रीणि च संस्तुतस्य । ।
(१,५.२३इ) षट्षष्टिश्च द्वे च शते भवत स्तुतशस्त्राणां अयुतं चैकं अस्य । स्तोत्रियाश्च नवतिसहस्रा द्वे नियुते नवतिश्चाति षट्च । ।
(१,५.२३ज्) अष्टौ शतान्ययुतानि त्रिंशच्चतुर्नवतिश्च पदान्यस्य । संवत्सरस्य कविभिर्मितस्यैतावती मध्यमा देवमात्रा । ।
(१,५.२३क्) अयुतं एकं प्रयुतानि त्रिंशद्द्वे नियुते तथा ह्यनुसृष्टाः । अष्टौ शतानि नव चाक्षराण्येतावानात्मा परमः प्रजापतेः । ।
(१,५.२३ल्) आद्यं वषट्कारः प्रदानान्तं एतं अग्निष्टोमे पर्वशः साधु क्ळ्प्तं । सौभेषजं छन्द ईप्सन्यदग्नौ चतुःशतं बहुधा हूयते यत् । ।
(१,५.२३म्) प्रातःसवन स्तुत एकविंशो गायत्रस्तोममित एक एव । माध्यंदिनः सप्तदशेन क्ळ्प्तस्त्रयस्त्रिंशेन सवनं तृतीयं । । २३ । ।

(१,५.२४अ) श्रद्धायां रेतस्तपसा तपस्वी वैश्वानरः सिषिचेऽपत्यं ईप्सन् । ततो जज्ञे लोकजित्सोमजम्भा ऋषेरृषिरङ्गिराः संनभूव । ।
(१,५.२४ब्) ऋषेर्यज्ञस्य चतुर्विधस्य श्रद्धां यः श्रेयसीं लोकं अमुं जिगाय । यस्मै वेदाः प्रसृताः सोमबिन्दु युक्ता वहन्ति सुकृतां उ लोकं । ।
(१,५.२४च्) ऋचोऽस्य भागांश्चतुरो वहन्त्युक्थशस्त्रैः प्रमुदो मोदमानाः । ग्रहैर्हविर्भिश्च कृताकृतश्च यजूंषि भागांश्चतुरो वहन्ति । ।
(१,५.२४द्) औदुम्बर्यां सामघोषेण तावत्सविष्टुतिभिश्च स्तोमैः छन्दसा । सामानि भागांश्चतुरो वहन्ति गीत्या स्तोमेन सह प्रस्तावेन च । ।
(१,५.२४ए) प्रायश्चित्तैर्भेषजैः संस्तुवन्तोऽथर्वाणोऽङ्गिरसश्च शान्ताः । ब्रह्मा ब्रह्मत्वेन प्रमुदो मोदमाना असंसृष्टान्भागांश्चतुरो वहन्ति । ।
(१,५.२४फ़्) यो ब्रह्मवित्सोऽभिकरोऽस्तु वः शिवो धिया धीरो रक्षतु धर्मं एतं । मा वः प्रमत्तां अमृताच्च यज्ञात्कर्माच्च येनानङ्गिरसोऽपियासीत् । ।
(१,५.२४ग्) मायुं दशं मारुशस्ताः प्रमेष्टा मा मे भूर्युक्ता विदहाथ लोकान् । दिव्यं भयं रक्षत धर्मं उद्यतं यज्ञं कालाश स्तुतिगोपनायनं । ।
(१,५.२४ह्) होता च मैत्रावरुणश्च पादं अच्छावाकः सह ग्रावस्तुतैकं । ऋग्भि स्तुवन्तोऽहरहः पृथिव्या अग्निं पादं ब्रह्मणा धारयन्ति । ।
(१,५.२४इ) अध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता निहितं पादं एकं । सं अन्तरिक्षं यजुषा स्तुवन्तो वायुं पादं ब्रह्मणा धारयन्ति । ।
(१,५.२४ज्) साम्नोद्गाता छादयन्नप्रमत्त औदुम्बर्यां स्तोभदेयः सगद्गदः । विद्वान्प्रस्तोता विदहाथ सुष्टुतिं सुब्रह्मण्यः प्रतिहर्ताथ यज्ञे । ।
(१,५.२४क्) साम्ना दिव्येकं निहितं स्तुवन्तः सूर्यं पादं ब्रह्मणा धारयन्ति । ब्रह्मा हैकं ब्राह्मणाच्छंसिनः सह पोताग्नीध्रो निहितं पादं एकं । ।
(१,५.२४ल्) अथर्वभिरङ्गिरोभिश्च गुप्तोऽप्सु चन्द्रं पादं ब्रह्मणा धारयन्ति । षोडशिकं होत्रका अभिष्टुवन्ति वेदेषु युक्ताः प्रपृथक्चतुर्धा । ।
(१,५.२४म्) मनीषिणो दीक्षिताः श्रद्दधाना होतारो गुप्ता अभिवहन्ति यज्ञं । दक्षिणतो ब्रह्मणस्यों जनदित्येतां व्याहृतिं जपन् । ।
(१,५.२४न्) सप्तदशं सदस्यं तं कीर्तयन्ति पुरा विदुः । अष्टादशी दीक्षिता दीक्षितानां यज्ञे पत्नी श्रद्दधानेह युक्ता । ।
(१,५.२४ओ) एकोनविंशः शमिता बभूव विंशो यज्ञे गृहपतिरेव सुन्वन् । एकविंशतिरेवैषां संस्थायां अङ्गिरो वह । ।
(१,५.२४प्) वेदैरभिष्टुतो लोको नानावेशापराजितः । । । २४ । ।

(१,५.२५अ) सप्त सुत्याः सप्त च पाकयज्ञाः हविर्यज्ञाः सप्त तथैकविंशतिः । सर्वे ते यज्ञा अङ्गिरसोऽपियन्ति नूतना यानृषयो सृजन्ति ये च सृष्टाः पुराणैः । ।
(१,५.२५ब्) एतेषु वेदेष्वपि चैकं एवापव्रजं ऋत्विजां संभरन्ति । कृट्स्तृपात्सचते तां अशस्तिं विष्कन्धं एनं विसृतं प्रजासु । ।
(१,५.२५च्) निवर्तन्ते दक्षिणा नीयमानाः सुते सोमे वितते यज्ञतन्त्रे । मोघाशिषो यन्त्यनिवर्तमाना अनिष्टयज्ञा न तरन्ति लोकान् । ।
(१,५.२५द्) द्वादशवर्षं ब्रह्मचर्यं पृथग्वेदेषु तत्स्मृतं । एवं व्यवस्थिता वेदाः सर्व एव स्वकर्मसु । ।
(१,५.२५ए) सन्ति चैषां समानाः मन्त्राः कल्पाश्च ब्राह्मणानि च । व्यवस्थानं तु तत्सर्वं पृथग्वेदेषु तत्स्मृतं । ।
(१,५.२५फ़्) ऋग्वेदस्य पृथिवी स्थानं अन्तरिक्षस्थानोऽध्वरः । द्यौ स्थानं सामवेदस्यापो भृग्वङ्गिरसां स्मृतं । ।
(१,५.२५ग्) अग्निर्देवत ऋग्वेदस्य यजुर्वेदो वायुदेवतः । आदित्यः सामवेदस्य चन्द्रमा वैद्युतश्च भृग्वङ्गिरसां । ।
(१,५.२५ह्) त्रिवृत्स्तोम ऋग्वेदस्य यजूंषि पञ्चदशेन सह जज्ञिरे । सप्तदशेन सामवेद एकविंशो ब्रह्मसंमितः । ।
(१,५.२५इ) वागध्यात्मं ऋग्वेदस्य यजुषां प्राण उच्यते । चक्षुषी सामवेदस्य मनो भृग्वङ्गिरसां स्मृतं । ।
(१,५.२५ज्) ऋग्भिः सह गायत्रं जागतं आहुर्यजूंषि त्रैष्टुभेन सह जज्ञिरे । उष्णिक्ककुभ्यां भृग्वङ्गिरसो जगत्या सामानि कवयो वदन्ति । ।
(१,५.२५क्) ऋग्भिः पृथिवीं यजुषान्तरिक्षं साम्ना दिवं लोकजित्सोमजम्भाः । अथर्वभिरङ्गिरोभिश्च गुप्तो यज्ञश्चतुष्पाद्दिवं उद्वहेत । ।
(१,५.२५ल्) ऋग्भिः सुशस्तो यजुषा परिष्कृतः सविष्टुतः सामजित्सोमजम्भाः । अथर्वभिरङ्गिरोभिश्च गुप्तो यज्ञश्चतुष्पाद्दिवं आरुरोह । ।
(१,५.२५म्) ऋचो विद्वान्पृथिवीं वेद संप्रति यजूंषि विद्वान्बृहदन्तरिक्षं । दिवं वेद सामगो यो विपश्चित्सर्वान्लोकान्यद्भृग्वङ्गिरोवित् । ।
(१,५.२५न्) यांश्च ग्रामे यांश्चारण्ये जपन्ति मन्त्रान्नार्थान्बहुधा जनासः । सर्वे ते यज्ञा अङ्गिरसोऽपियन्ति नूतना सा हि गतिर्ब्रह्मणो यावरार्ध्या । ।
(१,५.२५ओ) त्रिविष्टपं त्रिदिवं नाकं उत्तमं तं एतया त्रय्या विद्ययैति । अत उत्तरे ब्रह्मलोका महान्तोऽथर्वणां अङ्गिरसां च सा गतिः । । अथर्वणां अङ्गिरसां च सा गतिरिति ब्राह्मणं । । २५ । ।

(१,५.२५चोल्) इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे पञ्चमः प्रपाठकः । ।

(१चोल्) इति पूर्वब्राह्मणं समाप्तम्

(२,१.१अ) अथ यद्ब्रह्मसदनात्तृणं निरस्यति शोधयत्येवैनं तत्_
(२,१.१ब्) अथोपविशतीदं अहं अर्वाग्वसोः सदने सीदामीति_
(२,१.१च्) अर्वाग्वसुर्ह वै देवानां ब्रह्मा पराग्वसुरसुराणाम्_
(२,१.१द्) तमेवैतत्पूर्वं सादयति_
(२,१.१ए) अरिष्टं यज्ञं तनुतादिति_
(२,१.१फ़्) अथोपविश्व जपति बृहस्पतिर्ब्रह्मेति
(२,१.१ग्) बृहस्पतिर्वा आङ्गिरसो देवानां ब्रह्मा
(२,१.१ह्) तस्मिन्नेवैतदनुज्ञां इच्छति प्रणीतासु प्रणीयमानासु वाचं यच्छत्या हविष्कृत उद्वादनात्_
(२,१.१इ) एतद्वै यज्ञस्य द्वारम्_
(२,१.१ज्) तदेतदशून्यं करोति_
(२,१.१क्) इष्टे च स्विष्टकृत्यानुयाजानां प्रसवादिति_
(२,१.१ल्) एतद्वै यज्ञस्य द्वितीयं द्वारम्_
(२,१.१म्) तदेवैतदशून्यं करोति
(२,१.१न्) यत्परिधयः परिधीयन्ते यज्ञस्य गोपीथाय
(२,१.१ओ) परिधीन्परिधत्ते यज्ञस्य सात्मत्वाय
(२,१.१प्) परिधीन्त्संमार्ष्टि
(२,१.१क़्) पुनात्येवैनान्_
(२,१.१र्) त्रिर्मध्यमम्_
(२,१.१स्) त्रय इमे प्राणाः
(२,१.१त्) प्राणानेवाभिजयति
(२,१.१उ) त्रिर्दक्षिणार्ध्यम्_
(२,१.१व्) त्रयो वै लोकाः_
(२,१.१w) लोकानेवाभिजयति
(२,१.१x) त्रिरुत्तरार्ध्यं
(२,१.१य्) त्रयो वै देवलोकाः_
(२,१.१ज़्) देवलोकानेवाभिजयति
(२,१.१आ) त्रिरुपवाजयति त्रयो वै देवयानाः पन्थानस्
(२,१.१ब्ब्) तानेवाभिजयति
(२,१.१च्च्) ते वै द्वादश भवन्ति
(२,१.१द्द्) द्वादश ह वै मासाः संवत्सरः
(२,१.१ई) संवत्सरं एव तेन प्रीणाति_
(२,१.१फ़्फ़्) अथो संवत्सरं एवास्मा उपदधाति स्वर्गस्य लोकस्य समष्ट्यै । । १ । ।

(२,१.२अ) प्रजापतिर्वै रुद्रं यज्ञान्निरभजत्
(२,१.२ब्) सोऽकामयत
(२,१.२च्) मेयं अस्मा आकूतिः समर्धि यो मा यज्ञान्निरभाक्षीदिति
(२,१.२द्) स यज्ञं अभ्यायम्याविध्यत्
(२,१.२ए) तदाविद्धं निरकृन्तत्
(२,१.२फ़्) तत्प्राशित्रं अभवत्
(२,१.२ग्) तदुदयच्छत्
(२,१.२ह्) तद्भगाय पर्यहरन्_
(२,१.२इ) तत्प्रत्यैक्षत
(२,१.२ज्) तस्य चक्षुः परापतत्
(२,१.२क्) तस्मादाहुरन्धो वै भग इति_
(२,१.२ल्) अपि ह तं नेच्छेद्यं इच्छति
(२,१.२म्) तत्सवित्रे पर्यहरन्_
(२,१.२न्) तत्प्रत्यगृहात्तस्य पाणी प्रचिच्छेद
(२,१.२ओ) तस्मै हिरण्मयौ प्रत्यदधुस्
(२,१.२प्) तस्माद्धिरण्यपाणिरिति स्तुतस्
(२,१.२क़्) तत्पूष्णे पर्यहरन्_
(२,१.२र्) तत्प्राश्नात्
(२,१.२स्) तस्य दन्ताः परोप्यन्त
(२,१.२त्) तस्मादाहुरदन्तकः पूषा पिष्टभाजन इति
(२,१.२उ) तदिध्मायाङ्गिरसाय पर्यहरन्_
(२,१.२व्) तत्प्राश्नात्
(२,१.२w) तस्य शिरो व्यपतत्
(२,१.२x) तं यज्ञ एवाकल्पयत्
(२,१.२य्) स एष इध्मः
(२,१.२ज़्) समिधो ह पुरातनस्
(२,१.२आ) तद्बर्हय आङ्गिरसाय पर्यहरन्_
(२,१.२ब्ब्) तत्प्राश्नात्
(२,१.२च्च्) तस्याङ्गा पर्वाणि व्यस्रंसन्त
(२,१.२द्द्) तं यज्ञ एवाकल्पयत्
(२,१.२ई) तदेतद्बर्हिः
(२,१.२फ़्फ़्) प्रस्तरो ह पुरातनस्
(२,१.२ग्ग्) तद्बृहस्पतय आङ्गिरसाय पर्यहरन्_
(२,१.२ह्ह्) सोऽबिभेद्बृहस्पतिरित्थं वाव स्य आर्तिं आरिष्यतीति
(२,१.२इइ) स एतं मन्त्रं अपश्यत्
(२,१.२ज्ज्) <सूर्यस्य त्वा चक्षुषा प्रतीक्षे [PS२०.५७.११, Kऔश्S९१.२, Vऐत्S३.८]> इत्यब्रवीत्_
(२,१.२क्क्) न हि सूर्यस्य चक्षुः किं चन हिनस्ति
(२,१.२ल्ल्) सोऽबिभेत्प्रतिगृह्णन्तं मा हिंसिष्यतीति
(२,१.२म्म्) देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृहामीत्यब्रवीत्
(२,१.२न्न्) सवितृप्रसूत एवैनं तद्देवताभिः प्रत्यगृह्णात्
(२,१.२ऊ) तद्व्यूह्य तृणानि प्राग्दण्डं स्थण्डिले निदधाति पृथिव्यास्त्वा नाभौ सादयामीति
(२,१.२प्प्) पृथिवी वा अन्नानां शमयित्री तयैवैनच्छमयां चकार
(२,१.२क़्क़्) सोऽबिभेत्प्राश्नन्तं मा हिंसिष्यतीति_
(२,१.२र्र्) अग्नेष्ट्वास्येन प्राश्नामीत्यब्रवीत्_
(२,१.२स्स्) न ह्यग्नेरास्यं किं चन हिनस्ति
(२,१.२त्त्) सोऽबिभेत्प्राशितं मा हिंसिष्यतीति_
(२,१.२उउ) इन्द्रस्य त्वा जठरे सादयामीत्यब्रवीत्_
(२,१.२व्व्) न हीन्द्रस्य जठरं किं चन हिनस्ति
(२,१.२ww) वरुणस्योदर इति न हि वरुणस्योदरं किं चन हिनस्तीति । । २ । ।

(२,१.३अ) अथो आहुर्ब्राह्मणस्योदर इति_
(२,१.३ब्) आत्मास्यात्मन्नात्मानं मे मा हिंसीः स्वाहेति_
(२,१.३च्) अन्नं वै सर्वेषां भूतानां आत्मा तेनैवैनच्छमयां चकार
(२,१.३द्) प्राशितं अनुमन्त्रयते <योऽग्निर्नृमणा नाम ब्राह्मणेषु प्रविष्टः । तस्मिन्म एतत्सुहुतं अस्तु प्राशित्रं तन्मा मा हिंसीत्परमे व्योमन्[PS२०.५७.१५]>_ इति
(२,१.३ए) तत्सर्वेण ब्रह्मणा प्राश्नात्
(२,१.३फ़्) तत एनं नाहिनत्
(२,१.३ग्) तस्माद्यो ब्रह्मिष्ठः स्यात्तं ब्रह्माणं कुर्वीत
(२,१.३ह्) बृहस्पतिर्वै सर्वं ब्रह्म
(२,१.३इ) सर्वेण ह वा एतद्ब्रह्मणा यज्ञं दक्षिणत उद्यच्छते
(२,१.३ज्) अप वा एतस्मात्प्राणाः क्रामन्ति य आविद्धं प्राश्नाति_
(२,१.३क्) अद्भिर्मार्जयित्वा प्राणान्त्संस्पृशते वाङ्म आस्यन्निति_
(२,१.३ल्) अमृतं वै प्राणाः_
(२,१.३म्) अमृतं आपः
(२,१.३न्) प्राणानेव यथास्थानं उपाह्वयते
(२,१.३ओ) तदु हैक आहुरिन्द्राय पर्यहरन्निति
(२,१.३प्) ते देवा अब्रुवन्निन्द्रो वै देवानां ओजिष्ठो बलिष्ठस्
(२,१.३क़्) तस्मा एनत्परिहरतेति
(२,१.३र्) तत्तस्मै पर्यहरन्_
(२,१.३स्) तत्स ब्रह्मणा शयमां चकार
(२,१.३त्) तस्मादाहुरिन्द्रो ब्रह्मेति
(२,१.३उ) यवमात्रं भवति
(२,१.३व्) यवमात्रं वै विषस्य न हिनस्ति
(२,१.३w) यदधस्तादभिधारयति तस्मादधस्तात्प्रक्षरणं प्रजा अरुर्न हिनस्ति
(२,१.३x) यदुपरिष्टादभिधारयति तस्मादुपरिष्टात्प्रक्षरणं प्रजा अरुर्न हिनस्ति
(२,१.३य्) यदुभयतोऽभिघारयत्युभयतोऽभिघारि प्रजा अरुर्घातुकं स्यात्_
(२,१.३ज़्) यत्समयाभिहरेदनभिविद्धं यज्ञस्याभिविध्येत् । । ३ । ।

(२,१.४अ) अग्रेण परिहरति
(२,१.४ब्) तीर्थेनैव परिहरति
(२,१.४च्) वि वा एतद्यज्ञश्छिद्यते यत्प्राशित्रं परिहरति
(२,१.४द्) यदाह ब्रह्मन्प्रस्थास्यामीति बृहस्पतिर्वै सर्वं ब्रह्म
(२,१.४ए) सर्वेण ह वा एतद्ब्रह्मणा यज्ञं दक्षिणतः संदधाति_
(२,१.४फ़्) अथो अत्र वा एतर्हि यज्ञः श्रितो यत्र ब्रह्मा तत्रैव यज्ञः श्रितस्
(२,१.४ग्) तत एवैनं आलभते
(२,१.४ह्) यद्धस्तेन प्रमीवेद्वेपनः स्यात्_
(२,१.४इ) यच्छीर्ष्णा शीर्षक्तिमान्त्स्यात्_
(२,१.४ज्) यत्तूष्णीं आसीतासंप्रत्तो यज्ञः स्यात्
(२,१.४क्) प्रतिष्ठेत्येव ब्रूयात्_
(२,१.४ल्) वाचि वै यज्ञः श्रितः_
(२,१.४म्) यत्र ब्रह्मा यत्रैव यज्ञः श्रितस्तत एवैनं संप्रयच्छति_
(२,१.४न्) अग्नीध आदधाति_
(२,१.४ओ) अग्निमुखानेवर्तून्प्रीणाति_
(२,१.४प्) अथोत्तरासां आहुतीनां प्रतिष्ठित्या
(२,१.४क़्) अथो समिद्वत्यव जुहोति
(२,१.४र्) परिधीन्त्संमार्ष्टि
(२,१.४स्) पुनात्येवैनान्_
(२,१.४त्) सकृत्सकृत्संमार्ष्टि
(२,१.४उ) पराङेव ह्येतर्हि यज्ञः_
(२,१.४व्) चतुः संपद्यते_
(२,१.४w) अथो चतुष्पादः पशवः
(२,१.४x) पशूनां आप्त्यै
(२,१.४य्) देव सवितरेतत्ते प्राहेत्याह प्रसूत्यै
(२,१.४ज़्) बृहस्पतिर्ब्रह्मेत्याह
(२,१.४आ) स हि ब्रह्मिष्ठः
(२,१.४ब्ब्) स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाहि स मां कर्मण्यं पाहीत्याह
(२,१.४च्च्) यज्ञाय च यजमानाय च पशूनां आप्त्यै । । ४ । ।

(२,१.५अ) न वै पौर्णमास्यां नामावास्यायां दक्षिणा दीयन्ते
(२,१.५ब्) य एष ओदनः पच्यते दक्षिणैषा दीयते यज्ञस्यर्द्ध्यै_
(२,१.५च्) इष्टी वा एतेन यद्यजतेऽथो वा एतेन पूर्ती य एष ओदनः पच्यते_
(२,१.५द्) एष ह वा इष्टापूर्ती य एनं पचति । । ५ । ।

(२,१.६अ) द्वया वै देवा यजमानस्य गृहं आगच्छन्ति सोमपा अन्येऽसोमपा अन्ये
(२,१.६ब्) हुतादोऽन्येऽहुतादोऽन्ये_
(२,१.६च्) एते वै देवा अहुतादो यद्ब्राह्मणाः_
(२,१.६द्) एतद्देवत्य एष यः पुरानीजानः_
(२,१.६ए) एते ह वा एतस्य प्रजायाः पशूनां ईशते
(२,१.६फ़्) तेऽस्याप्रीता इषं ऊर्जं आदायापक्रामन्ति
(२,१.६ग्) यदन्वाहार्यं अन्वाहरति तानेव तेन प्रीणाति
(२,१.६ह्) दक्षिणतःसद्भ्यः परिहर्तवा आह
(२,१.६इ) दक्षिणावतैव यज्ञेन यजते_
(२,१.६ज्) आहुतिभिरेव देवान्हुतादः प्रीणाति दक्षिणाभिर्मनुष्यदेवान्_
(२,१.६क्) तेऽस्मै प्रीता इषं ऊर्जं नियच्छन्ति । । ६ । ।

(२,१.७अ) देवाश्च ह वा असुराश्चास्पर्धन्त
(२,१.७ब्) ते देवाः प्रजापतिं एवाभ्ययजन्त_
(२,१.७च्) अन्योऽन्यस्यासन्नसुरा अजुहवुस्
(२,१.७द्) ते देवा एतं ओदनं अपश्यन्_
(२,१.७ए) तं प्रजापतये भागं अनुनिरवपन्_
(२,१.७फ़्) तं भागं पश्यन्प्रजापतिर्देवानुपावर्तत
(२,१.७ग्) ततो देवा अभवन्परासुराः
(२,१.७ह्) स य एवंविद्वानेतं ओदनं पचति भवत्यात्मना परास्याप्रियो भ्रातृव्यो भवति
(२,१.७इ) प्रजापतिर्वै देवेभ्यो भागधेयानि व्यकल्पयत्
(२,१.७ज्) सोऽमन्यतात्मानं अन्तरगां इति
(२,१.७क्) स एतं ओदनं अभक्तं अपश्यत्
(२,१.७ल्) तं आत्मने भागं निरवपत्
(२,१.७म्) प्रजापतेर्वा एष भागः_
(२,१.७न्) अपरिमितः स्यात्_
(२,१.७ओ) अपरिमितो हि प्रजापतिः
(२,१.७प्) प्रजापतेर्भागोऽस्यूर्जस्वान्पयस्वान्
(२,१.७क़्) अक्षितोऽसि_
(२,१.७र्) अक्षित्यै त्वा
(२,१.७स्) मा मे क्षेष्ठा अमुत्रामुष्मिंल्लोक इह च
(२,१.७त्) प्राणापनौ मे पाहि
(२,१.७उ) समानव्यानौ मे पाहि_
(२,१.७व्) उदानरूपे मे पाहि_
(२,१.७w) ऊर्गसि_
(२,१.७x) ऊर्जं मे धेहि
(२,१.७य्) कुर्वतो मे मा क्षेष्ठाः_
(२,१.७ज़्) ददतो मे मोपदसः
(२,१.७आ) प्रजापतिं अहं त्वया समक्षं ऋध्यासं इति
(२,१.७ब्ब्) प्रजापतिं एव समक्षं ऋध्नोति य एवं वेद य एवं वेद । । ७ । ।

(२,१.८अ) ये वा इह यज्ञैरार्ध्नुवंस्तेषां एतानि ज्योतींषि यान्यमूनि नक्षत्राणि
(२,१.८ब्) तन्नक्षत्राणां नक्षत्रत्वं यन्न क्षीयन्ति
(२,१.८च्) दर्शपूर्णमासौ वै यज्ञस्यावसानदर्शौ
(२,१.८द्) ये वा अनिष्ट्वा दर्शपूर्णमासाभ्यां सोमेन यजन्ते तेषां एतानि ज्योतींषि यान्यमूनि नक्षत्राणि पतन्तीव
(२,१.८ए) तद्यथा ह वा इदं अस्पष्टावसाने नेहावसास्यसि नेहावसास्यसीति नोनुद्यन्त एवं हैवैतेऽमुष्मांल्लोकान्नोनुद्यन्ते
(२,१.८फ़्) त एते प्रच्यवन्ते । । ८ । ।

(२,१.९अ) यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदियात्तांस्त्रेधा ताण्डुलान्विभजेत्_
(२,१.९ब्) ये मध्यमास्तानग्नये दात्रेऽष्टाकपालं निर्वपेत्_
(२,१.९च्) ये स्थविष्ठास्तानिन्द्राय प्रादात्रे दधनि चरुम्_
(२,१.९द्) ये क्षोदिष्ठास्तान्विष्णवे शिपिविष्टाय शृते चरुम्_ [एद्. क्षोदिस्थास्, चोर्र्. Pअत्यल्]
(२,१.९ए) पशवो वा एतेऽतिरिच्यन्ते
(२,१.९फ़्) तानेवाप्नोति
(२,१.९ग्) तानवरुन्द्धे_
(२,१.९ह्) अग्निर्वै मध्यमस्य दातेन्द्रो वै ज्येष्ठस्य प्रदाता
(२,१.९इ) यदेवेदं क्षुद्रं पशूनां तद्विष्णोः शिपिविष्टम्_
(२,१.९ज्) तदेवाप्नोति
(२,१.९क्) पशूनेवावरुन्द्धे । । ९ । ।

(२,१.१०अ) या पूर्वा पौर्णमासी सानुमतिः_
(२,१.१०ब्) योत्तरा राका
(२,१.१०च्) या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूः_
(२,१.१०द्) चन्द्रमा एव धाता च विधाता च
(२,१.१०ए) यत्पूर्णोऽन्यां वसत्यपूर्णोऽन्यां तन्मिथुनम्_
(२,१.१०फ़्) यत्पश्यत्यन्यां नान्यां तन्मिथुनम्_
(२,१.१०ग्) यदमावास्यायाश्चन्द्रमा अधि प्रजायते तन्मिथुनम्_
(२,१.१०ह्) तस्मादेवास्मै मिथुनात्पशून्प्रजनयति । । १० । ।

(२,१.११अ) न द्वे यजेत
(२,१.११ब्) यत्पूर्वया संप्रति यतेतोत्तरया छम्बट्कुर्यात्_
(२,१.११च्) यदुत्तरया संप्रति यजेत पूर्वया छम्बट्कुर्यात्_
(२,१.११द्) नेष्टिर्भवति न यज्ञस्
(२,१.११ए) तदनु ह्रीतमुख्यपगल्भो जायते_
(२,१.११फ़्) एकां एव यजेत
(२,१.११ग्) प्रगल्भो हैव जायते_
(२,१.११ह्) अनादृत्य तद्द्वे यजेत
(२,१.११इ) यज्ञमुखं एव पूर्वयालभते यजत उत्तरया
(२,१.११ज्) देवता एवं पूर्वयाप्नोतीन्द्रियं उत्तर्या
(२,१.११क्) देवलोकं एव पूर्वयावरुन्द्धे मनुष्यलोकं उत्तरया भूयसो यज्ञक्रतूनुपैत्य_
(२,१.११ल्) एषा ह वै सुमना नामेष्टिः_
(२,१.११म्) यं अद्येजानं पश्चाच्चन्द्रमा अभ्युदियादस्मा अस्मिंल्लोक आर्धुकं भवति । । ११ । ।

(२,१.१२अ) अग्नावैष्णवं एकादशकपालं निर्वपेद्दर्शपूर्णमासावारिप्समाणः_
(२,१.१२ब्) अग्निर्वै सर्वा देवता विष्णुर्यज्ञः_
(२,१.१२च्) देवताश्चैव यज्ञं चारभत ऋद्ध्यै_
(२,१.१२द्) ऋध्नोत्येव_
(२,१.१२ए) उभौ सहारम्भावित्याहुः_
(२,१.१२फ़्) उदिन्नु शृङ्गे सितो मुच्यत इति
(२,१.१२ग्) दर्शो वा एतयोः पूर्वः पौर्णमास उत्तरः_
(२,१.१२ह्) अथ यत्परस्तात्पौर्णमास आरभ्यते तद्यथा पूर्वं क्रियते
(२,१.१२इ) तद्यत्पौर्णमासं आरभमाणः सरस्वत्यै चरुं निर्वपेत्सरस्वते द्वादशकपालं अमावास्या वै सरस्वती पौर्णमासः सरस्वानिति_
(२,१.१२ज्) उभावेवैनौ सहारभत ऋद्ध्यै_
(२,१.१२क्) ऋध्नोत्येव । । १२ । ।

(२,१.१३अ) अग्नये पथिकृतेऽष्टाकपालं निर्वपेद्यस्य प्रज्ञातेष्टिरतिपद्यते
(२,१.१३ब्) बहिष्पथं वा एष एति यस्य प्रज्ञातेष्टिरतिपद्यते_
(२,१.१३च्) अग्निर्वै देवानां पथिकृत्
(२,१.१३द्) तं एव भागधेयेनोपासरत्
(२,१.१३ए) स एनं पन्थानं अपिनयति_
(२,१.१३फ़्) अनड्वान्दक्षिणा
(२,१.१३ग्) स हि पन्थानं अभिवहति । । १३ । ।

(२,१.१४अ) अग्नये व्रतपतयेऽष्टाकपालं निर्वपेद्य आहिताग्निः सन्प्रवसेत्_
(२,१.१४ब्) बहु वा एष व्रतं अतिपातयति य आहिताग्निः सन्प्रवसति व्रत्येऽहनि स्त्रियं वोपैति मांसं वाश्नाति_
(२,१.१४च्) अग्निर्वै देवानां व्रतपतिः_
(२,१.१४द्) अग्निं एतस्य व्रतं अगात्
(२,१.१४ए) तस्मादेतस्य व्रतं आलम्भयते । । १४ । ।

(२,१.१५अ) अग्नये व्रतभृतेऽष्टाकपालं निर्वपेद्य आहिताग्निरार्तिजं अश्रु कुर्यात्_
(२,१.१५ब्) आनीतो वा एष देवानां य आहिताग्निस्
(२,१.१५च्) तस्मादेतेनाश्रु न कर्तव्यम्_
(२,१.१५द्) न हि देवा अश्रु कुर्वन्ति_
(२,१.१५ए) अग्निर्वै देवानां व्रतभृत्_
(२,१.१५फ़्) अग्निं एतस्य व्रतं अगात्
(२,१.१५ग्) तस्मादेतस्य व्रतं आलम्भयते । । १५ । ।

(२,१.१६अ) ऐन्द्राग्नं उस्रं अनुसृष्टं आलभेत यस्य पिता पितामहः सोमं न पिबेत्_
(२,१.१६ब्) इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य पिता पितामहः सोमं न पिबति
(२,१.१६च्) यदैन्द्र इन्द्रियेणैवैनं तद्वीर्येण समर्धयति
(२,१.१६द्) देवताभिर्वा एष वीर्येण व्यृध्यते यस्य पिता पिताम्हः सोमं न पिबति
(२,१.१६ए) यदाग्नेयोऽग्निर्वै सर्वा देवताः
(२,१.१६फ़्) सर्वाभिरेवैनं तद्देवताभिः समर्धयति_
(२,१.१६ग्) अनुसृष्टो भवति_
(२,१.१६ह्) अनुसृष्ट इव ह्येतस्य सोमपीथो यस्य पिता पितामहः सोमं न पिबति
(२,१.१६इ) तस्मादेष एव तस्या देवतायाः पशूनां समृद्धः । । १६ । ।

(२,१.१७अ) देवा वा ओषधीषु पक्वास्वाजिं अयुः
(२,१.१७ब्) स इन्द्रोऽवेदग्निर्वावेमाः प्रथम उज्जेष्यतीति
(२,१.१७च्) सोऽब्रवीद्यतरो नौ पूर्व उज्जयात्तन्नौ सहेति
(२,१.१७द्) ता अग्निरुदजयत्
(२,१.१७ए) तदिन्द्रोऽनूदजयत्
(२,१.१७फ़्) स एष ऐन्द्राग्नः सन्नाग्नेन्द्रः_
(२,१.१७ग्) एका वै तर्हि यवस्य श्नुष्टिरासीदेका व्रीहेरेका माषस्यैका तिलस्य
(२,१.१७ह्) तद्विश्वे देवा अब्रुवन्वयं वा एतत्प्रथयिष्यामो भागो नोऽस्त्विति
(२,१.१७इ) तद्भूम एव वैश्वदेवः_
(२,१.१७ज्) अथो प्रथयत्येतेनैव
(२,१.१७क्) पयसि स्याद्वैश्वदेवत्वाय
(२,१.१७ल्) वैश्वदेवं हि पयः_
(२,१.१७म्) अथेमावब्रूतां न वा ऋत आवाभ्यां एवैतद्यूयं प्रथयत मयि प्रतिष्ठितं असौ वृष्ट्या पचति नैतदितोऽभ्युज्जेष्यतीति
(२,१.१७न्) भागो नावस्त्विति
(२,१.१७ओ) ताभ्यां वा एष भागः क्रियत उज्जित्या एव_
(२,१.१७प्) अथो प्रतिष्ठित्या एव यो द्यावापृथिवीयः
(२,१.१७क़्) स्ॐईर्वा ओषधीः
(२,१.१७र्) सोम ओषधीनां अधिराजः_
(२,१.१७स्) याश्च ग्राम्या याश्चारण्यास्तासां एष उद्धारो यच्छ्यामाकः_
(२,१.१७त्) यच्छ्यामाकः स्ॐयस्तं एव भागिनं कृणुते
(२,१.१७उ) यदकृत्वाग्रयणं नवस्याश्नीयाद्देवानां भागं प्रतिक्ळ्प्तं अद्यात्
(२,१.१७व्) संवत्सराद्वा एतदधिप्रजायते यदाग्रयणम्_
(२,१.१७w) संवत्सरं वै ब्रह्मा
(२,१.१७x) तस्माद्ब्रह्मा पुरस्ताद्धोमसंस्थितहोमेष्वावपेत_
(२,१.१७य्) एकहायनी दक्षिणा
(२,१.१७ज़्) स हि संवत्सरस्य प्रतिमा
(२,१.१७आ) रेत एव ह्येषोऽप्रजातः
(२,१.१७ब्ब्) प्रजात्यै । । १७ । ।

(२,१.१८अ) अथ हैतदप्रतिरथं <इन्द्रस्य बाहू स्थविरौ वृषाणौ>_ इति_
(२,१.१८ब्) एतेन ह वा इन्द्रोऽसुरान्प्रत्यजयत्_ [एद्.ऽसुरान]
(२,१.१८च्) अप्रति ह भवत्येतेन यजमानो भ्रातृव्यं जयति
(२,१.१८द्) संग्रामे जुहुयादप्रति ह भवति_
(२,१.१८ए) एतेन ह वै भरद्वाजः प्रतर्दनं समनह्यत्
(२,१.१८फ़्) स राष्ट्र्यभवत्_
(२,१.१८ग्) यं कामयेत राष्ट्री स्यादिति तं एतेन संनह्येत्_
(२,१.१८ह्) राष्ट्री ह भवति_
(२,१.१८इ) एतेन ह वा इन्द्रो विराजं अभ्यजयत्_
(२,१.१८ज्) दशैवान्वाह
(२,१.१८क्) दशाक्षरा विराड्वैराजं वा एतेन यजमानो भ्रातृव्यं वृङ्क्ते
(२,१.१८ल्) तदु हैक एकादशान्वाहुः_
(२,१.१८म्) एकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभो वज्रः_
(२,१.१८न्) वज्रेणैवैतद्रक्षांस्यपसेधति
(२,१.१८ओ) दक्षिणतो वै देवानां यज्ञं रक्षांस्यजिघांसन्_
(२,१.१८प्) तान्यप्रतिरथेनापाघ्नत
(२,१.१८क़्) तस्माद्ब्रह्माप्रतिरथं जपन्नेति
(२,१.१८र्) यद्ब्रह्माप्रतिरथं जपन्नेति यज्ञस्याभिजित्यै रक्षसां अपहत्यै रक्षसां अपहत्यै । । १८ । ।

(२,१.१९अ) अथातश्चातुर्मास्यानां प्रयोगः
(२,१.१९ब्) फाल्गुन्यां पौर्णमास्यां चातुर्मास्यानि प्रयुञ्जीत
(२,१.१९च्) मुखं वा एतत्संवत्सरस्य यत्फाल्गुनी पौर्णमासी मुखं उत्तरे फाल्गुन्यौ पुच्छं पूर्वे [एद्. पूर्व]
(२,१.१९द्) तद्यथा प्रवृत्तस्यान्तौ समेतौ स्यातां एवं एवैतत्संवत्सरस्यान्तौ समेतौ भवतस्
(२,१.१९ए) तद्यत्फाल्गुन्यां पौर्णमास्यां चातुर्मास्यैर्यजते मुखत एवैतत्संवत्सरं प्रयुङ्क्ते_
(२,१.१९फ़्) अथो भैषज्ययज्ञा वा एते यच्चातुर्मास्यानि
(२,१.१९ग्) तस्मादृतुसंधिषु प्रयुज्यन्ते_
(२,१.१९ह्) ऋतुसंधिषु वै व्याधिर्जायते
(२,१.१९इ) तान्येतान्यष्टौ हवींस्षि भवन्ति
(२,१.१९ज्) अष्टौ वै चतसृणां पौर्णमासीनां हवींषि भवन्ति
(२,१.१९क्) चतसृणां वै पौर्णमासीनां वैश्वदेवं समासः_
(२,१.१९ल्) अथ यदग्निं मन्थन्ति प्रजापतिर्वै वैश्वदेवम्_
(२,१.१९म्) प्रजात्या एव_
(२,१.१९न्) अथैतं दैवं गर्भं प्रजनयति_
(२,१.१९ओ) अथ यत्सप्तदश सामिधेन्यः सप्तदशो वै प्रजापतिः
(२,१.१९प्) प्रजापतेराप्त्यै
(२,१.१९क़्) अथ यत्सद्वन्तावाज्यभागावसिसंतीति वै सद्वन्तौ भवतः_
(२,१.१९र्) अथ यद्विराजौ संयाज्ये अन्नं वै श्रीर्विराडन्नाद्यस्य श्रियोऽवरुद्ध्यै_ [एद्.ऽवरुद्ध्याऽथ]
(२,१.१९स्) अथ यन्नव प्रयाजा नवानुयाजा अष्टौ हवींषि वाजिनं नवमं तन्नक्षत्रीयां विराजं आप्नोति_
(२,१.१९त्) अथो आहुर्दशनीं विराजं इति प्रयाजानुयाजा हवींष्याघारावाज्यभागाविति । । १९ । ।

(२,१.२०अ) अथ यदग्नीषोमौ प्रथमं देवतानां यजत्यग्नीषोमौ वै देवानां मुखम्_
(२,१.२०ब्) मुखत एव तद्देवान्प्रीणाति_
(२,१.२०च्) अथ यत्सवितारं यजत्यसौ वै सविता योऽसौ तपति_
(२,१.२०द्) एतं एव तेन प्रीणाति_
(२,१.२०ए) अथ यत्सरस्वतीं यजति वाग्वै सरस्वती
(२,१.२०फ़्) वाचं एतेन प्रीणाति_
(२,१.२०ग्) अथ यन्पूषणं यजत्यसौ वै पूषा योऽसौ तपति_
(२,१.२०ह्) एतं एव तेन प्रीणाति_
(२,१.२०इ) अथ यन्मरुतः स्वतवसो यजति घोरा वै मरुतः स्वतवसस्
(२,१.२०ज्) तानेव तेन प्रीणाति_
(२,१.२०क्) अथ यद्विश्वान्देवान्यजत्येते वै विश्वे देवा यत्सर्वे देवास्
(२,१.२०ल्) तानेव तेन प्रीणाति_
(२,१.२०म्) अथ यद्द्यावापृथिव्यौ यजति प्रतिष्ठे वै द्यावापृथिव्यौ
(२,१.२०न्) प्रतिष्ठित्या एव_
(२,१.२०ओ) अथ यद्वाजिनो यजति पशवो वै वाजिनः
(२,१.२०प्) पशूनेव तेन प्रीणाति_
(२,१.२०क़्) अथो ऋतवो वै वाजिनः_
(२,१.२०र्) ऋतूनेव तेन प्रीणाति_
(२,१.२०स्) अथो छन्दांसि वै वाजिनः_
(२,१.२०त्) छन्दांस्येव तेन प्रीणाति_
(२,१.२०उ) अथो देवाश्वा वै वाजिनः_
(२,१.२०व्) अत्र देवाः साश्वा अभीष्टाः प्रीता भवन्ति_
(२,१.२०w) अथ यत्परस्तात्पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वैश्वदेवेनेष्टं भवति । । २० । ।

(२,१.२१अ) वैश्वदेवेन वै प्रजापतिः प्रजा असृजत
(२,१.२१ब्) ताः सृष्टा अप्रसूता वरुणस्य यवाञ्जक्षुस्
(२,१.२१च्) ता वरुणो वरुणपाशैः प्रत्यबन्धात्
(२,१.२१द्) ताः प्रजाः प्रजापतिं पितरं एत्योपावदन्नुप तं यज्ञक्रतुं जानीहि येनेष्ट्वा वरुणं अप्रीणात्
(२,१.२१ए) स प्रीतो वरुणः_
(२,१.२१फ़्) वरुणपाशेभ्यः सर्वस्माच्च पाप्मनः संप्रमुच्यन्त इति
(२,१.२१ग्) तत एतं प्रजापतिर्यज्ञक्रतुं अपश्यद्वरुणप्रघासान्_
(२,१.२१ह्) तं आहरत्
(२,१.२१इ) तेनायजत
(२,१.२१ज्) तेनेष्ट्वा वरुणं अप्रीणात्
(२,१.२१क्) स प्रीतो वरुणो वरुणपाशेभ्यः सर्वस्माच्च पाप्मनः प्रजाः प्रामुञ्चत्
(२,१.२१ल्) प्र ह वा एतस्य प्रजा वरुणपाशेभ्यः सर्वस्माच्च पाप्मनो मुच्यन्ते
(२,१.२१म्) य एवं वेद_
(२,१.२१न्) अथ यदग्निं प्रणयन्ति यं एवामुं वैश्वदेवे मन्थन्ति तं एव तत्प्रणयन्ति
(२,१.२१ओ) यन्मथ्यते तस्योक्तं ब्राह्मणम्
(२,१.२१प्) अथ यत्सप्तदश सामिधेन्यः सद्वन्तावाज्यभागौ विराजौ संयाज्ये तेषां उक्तं ब्राह्मणम्
(२,१.२१क़्) अथ यन्नव प्रयाजा नवानुयाजा नवैतानि हवींषि
(२,१.२१र्) समानानि त्वेव पञ्च संचराणि हवींषि भवन्ति पौष्णान्तानि
(२,१.२१स्) तेषां उक्तं ब्राह्मणं । । २१ । ।

(२,१.२२अ) अथ यदैन्द्राग्नो द्वादशकपालो भवति बलं वै तेज इन्द्राग्नी
(२,१.२२ब्) बलं एव तत्तेजसि प्रतिष्ठापयति_
(२,१.२२च्) अथ यद्वारुण्यामिक्षेन्द्रो वै वरुणः [एद्. आमीक्षेन्द्रो, चोर्र्. Pअत्यल्]
(२,१.२२द्) स उ वै पयोभाजनस्
(२,१.२२ए) तस्माद्वारुण्यामिक्षा_ [एद्. अमिक्षा]
(२,१.२२फ़्) अथ यन्मारुती पयस्याप्सु वै मरुतः श्रिताः_ [एद्. श्रितः. चोर्र्. Pअत्यल्]
(२,१.२२ग्) आपो हि पयः_
(२,१.२२ह्) अथेन्द्रस्य वै मरुतः श्रित ऐन्द्रं पयस्
(२,१.२२इ) तस्मान्मारुती पयस्या_
(२,१.२२ज्) अथ यत्काय एककपालः प्रजापतिर्वै कः
(२,१.२२क्) प्रजापतेराप्त्या
(२,१.२२ल्) अथो सुखस्य वा एतन्नामधेयं कं इति [एद्. नामघेयम्]
(२,१.२२म्) सुखं एव तदध्यात्मन्धत्ते_
(२,१.२२न्) अथ यन्मिथुनौ गावौ ददाति तत्प्रजात्यै रूपम्
(२,१.२२ओ) उक्थ्या वाजिनः_
(२,१.२२प्) अथ यदप्सु वरुणं यजति स्व एवैनं तदायतने प्रीणाति_
(२,१.२२क़्) अथ यत्परस्तात्पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वरुणप्रघासैरिष्टं भवति । । २२ । ।

(२,१.२३अ) ऐन्द्रो वा एष यज्ञक्रतुर्यत्साकमेधास्
(२,१.२३ब्) तद्यथा महाराजः पुरस्तात्सेनानीकानि व्युह्याभयं पन्थानं अन्वियादेवं एवैतत्पुरस्ताद्देवता यजति [एद्. सैनानीकानि, चोर्र्. Pअत्यल्]
(२,१.२३च्) तद्यथैवादः सोमस्य महाव्रतं एवं एवैतदिष्टिमहाव्रतम्
(२,१.२३द्) अथ यदग्निं अनीकवन्तं प्रथमं देवतानां यजत्यग्निर्वै देवानां मुखम्_
(२,१.२३ए) मुखत एव तद्देवान्प्रीणाति_
(२,१.२३फ़्) अथ यन्मध्यंदिने मरुतः सांतपनान्यजतीन्द्रो वै मरुतः संतपनाः_
(२,१.२३ग्) ऐन्द्रं माध्यंदिनम्_
(२,१.२३ह्) तस्मादेतानिन्द्रेणोपसंहितान्यजति_
(२,१.२३इ) अथ यत्सायं गृहमेधीयेन चरन्ति पुष्टिकर्म वै गृहमेधीयः
(२,१.२३ज्) सायं पोषः पशूनाम्_
(२,१.२३क्) तस्मात्सायं गृहमेधीयेन चरन्ति_
(२,१.२३ल्) अतह्यच्छ्वो भूते गृहमेधीयस्य निष्काशमिश्रेण पूर्णदर्वेण चरन्ति पूर्वेद्युः कर्मणैवैतत्प्रातः कर्मोपसंतन्वन्ति_
(२,१.२३म्) अथ यत्प्रातर्मरुतः क्रीडिनो यजतीन्द्रो वै मरुतः क्रीडिनस्
(२,१.२३न्) तस्मादेनानिन्द्रेणोपसंहितान्यजति_
(२,१.२३ओ) अथ यदग्निं प्रणयन्ति यं एवामुं वैश्वदेवे मन्थन्ति तं एव तत्प्रणयन्ति
(२,१.२३प्) यन्मथ्यते तस्योक्तं ब्राह्मणम्
(२,१.२३क़्) अथ यत्सप्तदश सामिधेन्यः सद्वन्तावाज्यभागौ विराजौ संयाज्ये तेषां उक्तं ब्राह्मणम्
(२,१.२३र्) अथ यन्नव प्रयाजा नवानुयाजा अष्टौ हवींषि समानानि त्वेव षट्संचराणि हवींषि भवन्त्यैन्द्राग्नान्तानि
(२,१.२३स्) तेषां उक्तं ब्राह्मणम्
(२,१.२३त्) अथ यन्महेन्द्रं अन्ततो यजत्यन्तं वै श्रेष्ठी भजते
(२,१.२३उ) तस्मादेनं अन्ततो यजति_
(२,१.२३व्) अथ यद्वैश्वकर्मण एककपालोऽसौ वै विश्वकर्मा योऽसौ तपति_
(२,१.२३w) एतं एव तेन प्रीणाति_
(२,१.२३x) अथ यदृषभं ददात्यैन्द्रो ह यज्ञक्रतुः । । २३ । ।

(२,१.२४अ) अथ यदपराह्णे पितृयज्ञेन चरन्त्यपराह्णभाजो वै पितरस्
(२,१.२४ब्) तस्मादपराह्णे पितृयज्ञेन चरन्ति
(२,१.२४च्) तदाहुर्यदपरपक्षभाजो वै पितरः कस्मादेनान्पूर्वपक्षे यजन्तीति
(२,१.२४द्) देवा वा एते पितरस्
(२,१.२४ए) तस्मादेनान्पूर्वपक्षे यजन्तीति_
(२,१.२४फ़्) अथ यदेकां सामिधेनीं त्रिरन्वाह सकृद्ह वै पितरस्
(२,१.२४ग्) तस्मादेकां सामिधेनीं त्रिरन्वाह_
(२,१.२४ह्) अथ यद्यजमानस्यार्षेयं नाह नेद्यजमानं प्रवृणजानीति_
(२,१.२४इ) अथ यत्सोमं पितृमन्तं पितॄन्वा सोमवतः पितॄन्बर्हिषदः पितॄनग्निष्वात्तानित्यावाहयति
(२,१.२४ज्) न हैके स्वं महिमानं आवाहयन्ति यजमानस्यैष महिमेति वदन्त आवाहयेदिति त्वेव स्थितम्
(२,१.२४क्) अग्नेर्ह्येष महिमा भवति_
(२,१.२४ल्) ओं स्वधेत्याश्रावयति_
(२,१.२४म्) अस्तु स्वधेति प्रत्याश्रावयति
(२,१.२४न्) स्वधाकारो हि पितॄणाम्
(२,१.२४ओ) अथ यत्प्रयाजानुयाजेभ्यो बर्हिष्मन्तावुद्धरति प्रजा वै बर्हिर्नेत्प्रजां पितृषु दधानीति
(२,१.२४प्) ते वै षट्संपद्यन्ते
(२,१.२४क़्) षड्वा ऋतवः_
(२,१.२४र्) ऋतवः पितरः
(२,१.२४स्) पितॄणां आप्त्यै । । २४ । ।

(२,१.२५अ) अथ यज्जीवनवन्तावाज्यभागौ भवतो यजमानं एव तज्जीवयति_
(२,१.२५ब्) अथ यदेकैकस्य हविषस्तिस्रस्तिस्रो याज्या भवन्ति ह्वयत्येवैनान्प्रथमया
(२,१.२५च्) द्वितीयया गमयति
(२,१.२५द्) प्रैव तृतीयया यच्छति_
(२,१.२५ए) अथो देवयज्ञं एवैतत्पितृयज्ञेन व्यावर्तयति_
(२,१.२५फ़्) अथो दक्षिणासंस्थो वै पितृयज्ञस्
(२,१.२५ग्) तं एवैतदुदक्संस्थं कुर्वन्ति_
(२,१.२५ह्) अथ यदग्निं कव्यवाहनं अन्ततो यजत्येतत्स्विष्टकृतो पितरस्
(२,१.२५इ) तस्मादग्निं कव्यवाहनं अन्ततो यजति_
(२,१.२५ज्) अथ यदिडां उपहूयावघ्राय न प्राश्नन्ति पशवो वा इडा
(२,१.२५क्) नेत्पशून्प्रवृणजानीति_
(२,१.२५ल्) अथ यत्सूक्तवाके यजमानस्याशिषोऽन्वाह नेद्यजमानं प्रवृणजानीति_
(२,१.२५म्) अथ यत्पत्नीं न संयाजयन्ति नेत्पत्नीं प्रवृणजानीति_
(२,१.२५न्) अथ यत्पवित्रवति मार्जयन्ते शान्तिर्वै भेषजं आपः
(२,१.२५ओ) शान्तिरेवैषा भेषजं अन्ततो यज्ञे क्रियते_
(२,१.२५प्) अथ यदध्वर्युः पितृभ्यो निपृणाति जीवानेव तत्पितॄननु मनुष्याः पितरोऽनुप्रवहन्ति_
(२,१.२५क़्) अथो देवयज्ञं एवैनं पितृयज्ञेन व्यावर्तयन्ति_
(२,१.२५र्) अथो दक्षिणासंस्थो वै पितृयज्ञस्
(२,१.२५स्) तं एवैतदुदक्संस्थं कुर्वन्ति_
(२,१.२५त्) अथ यत्प्राञ्चोऽभ्युत्क्रम्यादित्यं उपतिष्ठन्ते देवलोको वा आदित्यः
(२,१.२५उ) पितृलोकः पितरः_
(२,१.२५व्) देवलोकं एवैतत्पितृलोकादुपसंक्रामन्तीति_
(२,१.२५w) अथ यद्दक्षिणाञ्चोऽभ्युत्क्रम्याग्नीनुपतिष्ठन्ते प्रीत्यैव तद्देवेष्वन्ततोऽर्धं चरन्ति_
(२,१.२५x) अथ यदुदञ्चोऽभ्युत्क्रम्य त्रैयंबकैर्यजन्ते रुद्रं एव तत्स्वस्यां दिशि प्रीणन्ति_ [एद्. स्वायां बुत्सी चोर्रिगेन्द प्. ३०२]
(२,१.२५य्) अथो देवयज्ञं एवैतत्पितृयज्ञेन व्यावर्तयन्ति_
(२,१.२५ज़्) अथो दक्षिणासंस्थो वै पितृयज्ञस्
(२,१.२५आ) तं एवैतदुदक्संस्थं कुर्वन्ति_
(२,१.२५ब्ब्) अथ यदन्तत आदित्येष्ट्या यजतीयं वा अदितिः_
(२,१.२५च्च्) अस्यां एवैनं अन्ततः प्रतिष्ठापयति_
(२,१.२५द्द्) अथ यत्परस्तात्पौर्णमासेन यजते तथा हास्य पूर्वपक्षे साकमेधैरिष्टं भवति । । २५ । ।

(२,१.२६अ) त्रयोदशं वा एतं मासं आप्नोति यच्छुनासीर्येण यजते_
(२,१.२६ब्) एतावान्वै संवत्सरो यावानेष त्रयोदशो मासः_
(२,१.२६च्) अथ यदग्निं प्रणयन्ति यं एवामुं वैश्वदेवे मन्थन्ति तं एव तत्प्रणयन्ति
(२,१.२६द्) यन्मथ्यते तस्योक्तं ब्राह्मणम्_
(२,१.२६ए) यद्यु न मथ्यते पौर्णमासं एव तन्त्रं भवति
(२,१.२६फ़्) प्रतिष्ठा वै पौर्णमासम्_
(२,१.२६ग्) प्रतिष्ठित्या एवाथ यद्वायुं यजति प्राणो वै वायुः
(२,१.२६ह्) प्राणं एव तेन प्रीणाति_
(२,१.२६इ) अथ यच्छुनासीरं यजति संवत्सरो वै शुनासीरः
(२,१.२६ज्) संवत्सरं एव तेन प्रीणाति_
(२,१.२६क्) अथ यत्सूर्यं यजत्यसौ वै सूर्यो योऽसौ तपति_
(२,१.२६ल्) एतं एव तेन प्रीणाति_
(२,१.२६म्) अथ यच्छ्वेतां दक्षिणां ददात्येतस्यैव तद्रूपं क्रियते_
(२,१.२६न्) अथ यत्प्रायश्चित्तप्रतिनिधिं कुर्वन्ति स्वस्त्ययनं एव तत्कुर्वन्ति
(२,१.२६ओ) यज्ञस्यैव शान्तिर्यजमानस्य भैषज्याय
(२,१.२६प्) तैर्वा एतैश्चातुर्मास्यैर्देवाः सर्वान्कामानाप्नुवंत्सर्वा इष्टीः सर्वं अमृतत्वम्_
(२,१.२६क़्) स वा एष प्रजापतिः संवत्सरश्चतुर्विंशो यच्चातुर्मास्यानि
(२,१.२६र्) तस्य मुखं एव वैश्वदेवम्_
(२,१.२६स्) बाहू वरुणप्रघासाः
(२,१.२६त्) प्राणोऽपानो व्यान इत्येतास्तिस्र इष्टयः_ [एद्. प्रणो]
(२,१.२६उ) आत्मा महाहविः
(२,१.२६व्) प्रतिष्ठा शुनासीरम्_
(२,१.२६w) स वा एष प्रजापतिरेव संवत्सरो यच्चातुर्मास्यानि
(२,१.२६x) सर्वं वै प्रजापतिः
(२,१.२६य्) सर्वं चातुर्मास्यानि
(२,१.२६ज़्) तत्सर्वेणैव सर्वं आप्नोति य एवं वेद यश्चैवं विद्वांश्चातुर्मास्यैर्यजते चातुर्मास्यैर्यजते चातुर्मास्यैर्यजते

(२,१.२६चोल्) इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे प्रथमः प्रपाठकः । ।

(२,२.१अ) ओं मांसीयन्ति वा आहिताग्नेरग्नयस्
(२,२.१ब्) त एनं एवाग्रेऽभिध्यायन्ति यजमानम्_
(२,२.१च्) य एतं ऐन्द्राग्नं पशुं षष्ठे षष्ठे मास आलभते तेनैवेन्द्राग्निभ्यां ग्रसितं आत्मानं निरवदयते_
(२,२.१द्) आयुष्काम आलभेत
(२,२.१ए) प्राणापानौ वा इन्द्राग्नी
(२,२.१फ़्) प्राणापानावेवात्मनि धत्ते_
(२,२.१ग्) आयुष्मान्भवति
(२,२.१ह्) प्रजाकाम आलभेत
(२,२.१इ) प्राणापानौ वा इन्द्राग्नी
(२,२.१ज्) प्राणापानौ प्रजा अनुप्रजायन्ते
(२,२.१क्) प्रजावान्भवति
(२,२.१ल्) पशुकाम आलभेत
(२,२.१म्) प्राणापानौ वा इन्द्राग्नी
(२,२.१न्) प्राणापानौ पशवोऽनुप्रजायन्ते
(२,२.१ओ) पशुमान्भवति
(२,२.१प्) यामं शुकं हारितं आलभेत शुण्ठं वा यः कामयेतानामयः पितृलोके स्यां इति_ [एद्. शुकहरितं, चोर्र्. Pअत्यल्]
(२,२.१क़्) एतेन ह वै यमोऽमुष्मिंल्लोक आर्ध्नोत्
(२,२.१र्) पितृलोक एवार्ध्नोति
(२,२.१स्) त्वाष्ट्रं वडवं आलभेत प्रजाकामः
(२,२.१त्) प्रजापतिर्वै प्रजाः सिसृक्षमाणः स द्वितीयं मिथुनं नाविन्दत्[एद्. सिसृक्समाणः, चोर्रेच्तेद्प्. ३०२; Pअत्यलः रेअद्नाविन्दत?]
(२,२.१उ) स त्वाष्ट्रं वडवं अपश्यत्
(२,२.१व्) त्वष्टा हि रूपाणां प्रजनयिता
(२,२.१w) तेन प्रजा असृजत
(२,२.१x) तेन मिथुनं अविन्दत्
(२,२.१य्) प्रजावान्मिथुनवान्भवति य एवं वेद यश्चैवंविद्वानेतं आलभते
(२,२.१ज़्) योनीन्वा एष काम्यान्पशूनालभते योऽनिष्ट्वैन्द्राग्नेन काम्यं पशुं आलभत इष्ट्वालम्भः समृद्ध्यै । । १ । ।

(२,२.२अ) पञ्चधा वै देवा व्युदक्रामन्नग्निर्वसुभिः सोमो रुद्रैरिन्द्रो मरुद्भिर्वरुण आदित्यैर्बृहस्पतिर्विश्वैर्देवैस्
(२,२.२ब्) ते देवा अब्रुवन्नसुरेभ्यो वा इदं भ्रातृव्येभ्यो रध्यामो यन्मिथो विप्रियाः स्मः_
(२,२.२च्) या न इमाः प्रियास्तन्वस्ताः समवद्यामहा इति
(२,२.२द्) ताः समवाद्यन्त
(२,२.२ए) ताभ्यः स निरृच्छाद्यो नः प्रथमोऽन्योऽन्यस्मै द्रुह्यादिति
(२,२.२फ़्) यत्तन्वः समवाद्यन्त तत्तानूनप्त्रस्य तानूनप्त्रत्वम्_
(२,२.२ग्) ततो देवा अभवन्परासुरास्
(२,२.२ह्) तस्माद्यः सतानूनप्त्रिणां प्रथमो द्रुह्यति स आर्तिं आर्छति
(२,२.२इ) यत्तानूनप्त्रं समवद्यति भ्रातृव्याभिभूत्यै
(२,२.२ज्) भवत्यात्मना परास्याप्रियो भ्रातृव्यो भवति । । २ । ।

(२,२.३अ) पञ्च कृत्वोऽवद्यति
(२,२.३ब्) पाङ्क्तो यज्ञः
(२,२.३च्) पञ्चधा हि ते ताः समवाद्यन्त_
(२,२.३द्) आपतये त्वा गृह्णामीत्याह
(२,२.३ए) प्राणो वा आपतिः
(२,२.३फ़्) प्राणं एव तेन प्रीणाति
(२,२.३ग्) परिपतये त्वेत्याह
(२,२.३ह्) मनो वै परिपतिः_
(२,२.३इ) मन एव तेन प्रीणाति
(२,२.३ज्) तनूनप्त्र इत्याह
(२,२.३क्) तन्वो हि ते ताः समवाद्यन्त
(२,२.३ल्) शाक्वरायेत्याह
(२,२.३म्) शक्त्यै हि ते ताः समवाद्यन्त
(२,२.३न्) शक्मन ओजिष्ठायेत्याह_
(२,२.३ओ) ओजिष्ठं हि ते तदात्मनः समवाद्यन्त_
(२,२.३प्) अनाधृष्टं इत्याह_
(२,२.३क़्) अनाधृष्टं ह्येतत्_
(२,२.३र्) अनाधृष्यं इत्याह_
(२,२.३स्) अनाधृष्यं ह्येतत्_
(२,२.३त्) देवानां ओज इत्याह
(२,२.३उ) देवानां ह्येतदोजः_
(२,२.३व्) अभिशस्तिपा इत्याह_
(२,२.३w) अभिशस्तिपा ह्येतत्_
(२,२.३x) अनभिशस्तेन्यं इत्याह_
(२,२.३य्) अनभिशस्तेन्यं ह्येतत्_ [एद्. अनभिशस्तेनं, चोर्र्. Pअत्यल्]
(२,२.३ज़्) अनु मे दीक्षां दीक्षापतिर्मन्यतां अनु तपस्तपस्पतिरञ्जसा सत्यं उप गेषं स्विते मा धा इत्याह यथायजुरेवैतत् । । ३ । ।

(२,२.४अ) घृतं वै देवा वज्रं कृत्वा सोमं अघ्नन्_
(२,२.४ब्) स्रुचौ बाहू
(२,२.४च्) तस्मात्स्रुचौ स्ॐईं आहुतिं नाशाते
(२,२.४द्) अवधीयेत सोमस्
(२,२.४ए) तस्मात्स्रुचौ चाज्यं चान्तिकं आहार्षीत्_
(२,२.४फ़्) अन्तिकं इव खलु वा अस्यैतत्प्रचरन्ति यत्तानूनप्त्रेण प्रचरन्ति_
(२,२.४ग्) अंशुरंशुष्टे देव सोमाप्यायतां इन्द्रायैकधनविद इत्याह
(२,२.४ह्) यदेवास्यापवायते यन्मीयते तदेवास्यैतेनाप्याययन्ति_
(२,२.४इ) आ तुभ्यं इन्द्रः प्यायतां आ त्वं इन्द्राय प्यायस्वेत्याह_
(२,२.४ज्) उभावेवेन्द्रं च सोमं चाप्याययन्ति_
(२,२.४क्) आप्याययास्मान्त्सखीन्त्सन्या मेधया प्रजया धनेनेत्याह_
(२,२.४ल्) ऋत्विजो वा एतस्य सखायस्
(२,२.४म्) तानेवास्यैतेनाप्याययन्ति
(२,२.४न्) स्वस्ति ते देव सोम सुत्यां उदृचं अशीयेत्याह_
(२,२.४ओ) आशिषं एवैतां आशास्ते
(२,२.४प्) प्र वा एतस्माल्लोकाच्च्यवन्ते ये सोमं आप्याययन्ति_
(२,२.४क़्) अन्तरिक्षदेवत्यो हि सोम आप्यायितः_
(२,२.४र्) एष्टा राय एष्टा वामानि प्रेषे भगाय
(२,२.४स्) ऋतं ऋतवादिभ्यो नमो दिवे नमः पृथिव्या इति
(२,२.४त्) द्यावापृथिवीभ्यां एव नमस्कृत्यास्मिंल्लोके प्रतितिष्ठति प्रतितिष्ठति । । ४ । ।

(२,२.५अ) मख इत्येतद्यज्ञनामधेयं छिद्रप्रतिषेधसामर्थ्यात्_
(२,२.५ब्) छिद्रं खं इत्युक्तम्_
(२,२.५च्) तस्य मेति प्रतिषेधः_
(२,२.५द्) मा छिद्रं करिष्यतीति
(२,२.५ए) छिद्रो हि यज्ञो भिन्न इवोदधिर्विस्रवति
(२,२.५फ़्) तद्वै खलु छिद्रं भवत्यृत्विग्यजमानविमानाद्वा_
(२,२.५ग्) अपि वैषां व्यपेक्षया मन्त्रकल्पब्राह्मणानां अप्रयोगाद्यथोक्तानां वा दक्षिणानां अप्रदानाद्धीनाद्वातिरिक्ताद्वोत्पाताद्भुतेषु प्रायश्चित्तव्यतिक्रमादिति_
(२,२.५ह्) एतद्वै सर्वं ब्रह्मण्यर्पितम्_
(२,२.५इ) ब्रह्मैव विद्वान्यद्भृग्वङ्गिरोवित्सम्यगधीयानश्चरितब्रह्मचर्योऽन्यूनानतिरिक्ताङ्गोऽप्रमत्तो यज्ञं रक्षति
(२,२.५ज्) तस्य प्रमादाद्यदि वाप्यसांनिध्याद्यथा भिन्ना नौरगाधे महत्युदके संप्लवेन्मत्स्यकच्छपशिंशुमारनक्रमकरपुरीकयजषरजसपिशाचानां भागधेयं भवत्येवमादीनां चान्येषां विनष्टोपजीविनां
(२,२.५क्) एवं खल्वपि यज्ञश्छिन्नभिन्नोऽपध्वस्त उत्पाताद्भुतो बहुलोऽथर्वभिरसंस्कृतोऽसुरगन्धर्वयक्षरक्षसपिशाचानां भागधेयं भवत्येवमादीनां चान्येषां विनष्टोपजीविनां
(२,२.५ल्) तदपि श्लोकाः
(२,२.५म्) छिन्नभिन्नोऽपध्वस्तो विश्रुतो बहुधा मखः । इष्टापूर्तद्रविणंगृह्य यजमानस्यावापतत् । ।
(२,२.५न्) ऋत्विजां च विनाशाय राज्ञो जनपदस्य च । संवत्सरविरिष्टं तद्यत्र यज्ञो विरिष्यते । । [एद्. विरष्यते, चोर्रेच्तेद्प्. ३०२]
(२,२.५ओ) दक्षिणाप्रवणीभूतो यज्ञो दक्षिणतः स्मृतः । हीनाङ्गो रक्षसां भागो ब्रह्मवेदादसंस्कृतः । ।
(२,२.५प्) चतुष्पात्सकलो यज्ञश्चातुर्हौत्रविनिर्मितः । चतुर्विधै स्थितो मन्त्रैरृत्विग्भिर्वेदपारगैः । ।
(२,२.५क़्) प्रायश्चित्तैरनुध्यानैरनुज्ञानानुमन्त्रणैः । होमैश्च यज्ञविभ्रंशं सर्वं ब्रह्मा प्रपूरयेद् । । इति
(२,२.५र्) तस्माद्यजमानो भृग्वङ्गिरोविदं एव तत्र ब्रह्माणं वृणीयात्
(२,२.५स्) स हि यज्ञं तारयतीति ब्राह्मणं । । ५ । ।

(२,२.६अ) यज्ञो वै देवेभ्य उदक्रामन्न वोऽहं अन्नं भविष्यामीति [एद्. उदक्रमन्, चोर्र्. Pअत्यल्]
(२,२.६ब्) नेति देवा अब्रुवन्नन्नं एव नो भविष्यसीति
(२,२.६च्) तं देवा विमेथिरे
(२,२.६द्) स एभ्यो विहृतो न प्रबभूव
(२,२.६ए) ते होचुर्देवाः_
(२,२.६फ़्) न वै न इत्थं विहृतोऽलं भविष्यति
(२,२.६ग्) हन्तेमं संभरां एति
(२,२.६ह्) तं संजभ्रुस्
(२,२.६इ) तं संभृत्योचुरश्विनाविमं भिषज्यतं इति_ [एद्. अश्विणाव्, चोर्र्. Pअत्यल्]
(२,२.६ज्) अश्विनौ वै देवानां भिषजौ_
(२,२.६क्) अश्विनावध्वर्यू
(२,२.६ल्) तस्मादध्वर्यू घर्मं संभरतस्
(२,२.६म्) तं संभृत्योचतुर्ब्रह्मन्घर्मेण प्रचरिष्यामो होतर्घर्मं अभिष्टुह्युद्गातः सामानि गायेति
(२,२.६न्) प्रचरत घर्मं इत्यनुजानाति
(२,२.६ओ) ब्रह्मप्रसूता हि प्रचरन्ति
(२,२.६प्) ब्रह्म हेदं प्रसवानां ईशे
(२,२.६क़्) सवितृप्रसूततायै
(२,२.६र्) <घर्मं तपामि [PS५.१६.२, सकल अत्Vऐत्S१४.१]> <ब्रह्म जज्ञानं [PS५.२.२, ऋS४.१.१, Vऐत्S१४.१]> <इयं पित्र्या राष्ट्र्येत्वग्रे [PS५.२.१, ऋS४.१.२, Vऐत्S१४.१]>_इति घर्मं ताप्यमानं उपासीत शस्त्रवदर्धर्चश आहावप्रतिगरवर्जं रूपसमृद्धाभिः_
(२,२.६स्) एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धम्_
(२,२.६त्) यत्कर्म क्रियमाणं ऋग्यजुर्वाभिवदति स्वस्ति तस्य यज्ञस्य पारं अश्नुते य एवं वेद
(२,२.६उ) देवमिथुनं वा एतद्यद्घर्मस्
(२,२.६व्) तस्मादन्तर्धाय प्रचरन्ति_
(२,२.६w) अन्तर्हिता वै मिथुनं चरन्तीति
(२,२.६x) तदेतद्देवमिथुनं इत्याचक्षते
(२,२.६य्) तस्य यो घर्मस्तच्छिश्नम्_
(२,२.६ज़्) यौ शफौ तावाण्ड्यौ
(२,२.६आ) योपयमनी ते श्रोणिकपाले
(२,२.६ब्ब्) यत्पयस्तद्रेतस्
(२,२.६च्च्) तदग्नौ देवयोन्यां रेतो ब्रह्ममयं धत्ते प्रजननाय
(२,२.६द्द्) सोऽग्निर्देवयोनिरृङ्मयो यजुर्मयः साममयो ब्रह्ममयोऽमृतमय आहुतिमयः सर्वेन्द्रियसंपन्नो यजमान ऊर्ध्वः स्वर्गं लोकं एति
(२,२.६ई) तदाहुर्न प्रथमयज्ञे प्रवर्ग्यं कुर्वीतानुपनामुका ह वा एनं उत्तरे यज्ञक्रतवो भवन्तीति
(२,२.६फ़्फ़्) कामं तु योऽनूचानः श्रोत्रियः स्यात्तस्य प्रवृञ्ज्यात्_
(२,२.६ग्ग्) आत्मा वै स यज्ञस्येति विज्ञायते_
(२,२.६ह्ह्) अपशिरसा ह वा एष यज्ञेन यजते योऽप्रवर्ग्येण यजते
(२,२.६इइ) शिरो ह वा एतद्यज्ञस्य यत्प्रवर्ग्यस्
(२,२.६ज्ज्) तस्मात्प्रवर्ग्यवतैव याजयेन्नाप्रवग्येण
(२,२.६क्क्) तदप्येषाभ्यनूक्ता <चत्वारि शृङ्गा [PS८.१३.३, सकल अत्ङ्B्र्१,२.१६फ़्]>_इति । । ६ । ।

(२,२.७अ) देवाश्च ह वा ऋषयश्चासुरैः संयत्ता आसन्_ [एद्. चिआसुरैः]
(२,२.७ब्) तेषां असुराणां इमाः पुरः प्रत्यभिजिता आसन्नयस्मयी पृथिवी रजतान्तरिक्षं हरिणी द्यौस्
(२,२.७च्) ते देवाः संघातंसंघातं पराजयन्त
(२,२.७द्) तेऽविदुरनायतना हि वै स्मस्
(२,२.७ए) तस्मात्पराजयामहा इति [एद्. पराजयामह, चोर्र्. Pअत्यल्]
(२,२.७फ़्) त एताः पुरः प्रत्यकुर्वत हविर्धानं दिव आग्नीध्रं अन्तरिक्षात्सदः पृथिव्यास्
(२,२.७ग्) ते देवा अब्रुवन्नुपसदं उपायाम_
(२,२.७ह्) उपसदा वै महापुरं जयन्तीति
(२,२.७इ) त एभ्यो लोकेभ्यो निरघ्नन्_
(२,२.७ज्) एकयामुष्माल्लोकादेकयान्तरिक्षादेकया पृथिव्यास्
(२,२.७क्) तस्मादाहुरुपसदा वै महापुरं जयन्तीति
(२,२.७ल्) त एभ्यो लोकेभ्यो निर्हता ऋतून्प्राविशन्_
(२,२.७म्) ते षडुपायन्_
(२,२.७न्) तानुपसद्भिरेवर्तुभ्यो निरघ्नन्
(२,२.७ओ) द्वाभ्यां अमुष्माल्लोकाद्द्वाभ्यां अन्तरिक्षाद्द्वाभ्यां पृथिव्यास्
(२,२.७प्) त ऋतुभ्यो निर्हताः संवत्सरं प्राविशन्_
(२,२.७क़्) ते द्वादशोपायन्_
(२,२.७र्) तानुपसद्भिरेव संवत्सरान्निरघ्नन्_
(२,२.७स्) चतसृभिरमुष्माल्लोकाच्चतसृभिरन्तरिक्षाच्चतसृभिः पृथिव्यास्
(२,२.७त्) ते संवत्सरान्निर्हता अहोरात्रे प्राविशन्_
(२,२.७उ) ते यत्सायं उपायंस्तेनैनान्रात्र्या अनुदन्त यत्प्रातस्तेनाह्नस्
(२,२.७व्) तस्माद्गौः सायं प्रातस्तनं आप्यायते प्रातः सायन्तनम्_
(२,२.७w) तानुपसद्भिरेवैभ्यो लोकेभ्यो नुदमाना आयन्_
(२,२.७x) ततो देवा अभवन्परासुराः
(२,२.७य्) सर्वेभ्य एवैभ्यो लोकेभ्यो भ्रातृव्यं नुदमान एति य एवंविद्वानुपसदं उपैति । । ७ । ।

(२,२.८अ) न द्वादशाग्निष्टोमस्योपसदः स्युः_
(२,२.८ब्) अशान्ता निर्मृज्युर्न तिस्रोऽहीनस्य_
(२,२.८च्) उपरिष्टाद्यज्ञक्रतुर्गरीयानभिषीदेद्यथा गुरुर्भारो ग्रीवा निःशृणीयादार्तिं आर्छेत्_
(२,२.८द्) द्वादशाहीनस्य कुर्यात्
(२,२.८ए) प्रत्युत्तब्ध्यै सयत्वाय
(२,२.८फ़्) तिस्रोऽग्निष्टोमस्योपसदः स्युः शान्त्या अनिर्मार्गाय
(२,२.८ग्) ते देवा असुर्यानिमांल्लोकान्नान्ववैतुं अधृष्णुवन्_
(२,२.८ह्) तानग्निना मुखेनान्ववायन्
(२,२.८इ) यदग्निं अन्त्युपसदां प्रतीकानि भवन्ति यथा क्षेत्रपतिः क्षेत्रेऽन्ववनयत्येवं एवैतदग्निना मुखेनेमांल्लोकानभिनयन्तो यन्ति [एद्.ऽन्ववनयन्त्य्, चोर्र्. Pअत्यल्]
(२,२.८ज्) यो ह वै देवान्साध्यान्वेद सिध्यत्यस्मै_
(२,२.८क्) इमे वाव लोका यत्साध्या देवाः
(२,२.८ल्) स य एवं एतान्त्साध्यान्वेद सिध्यत्यस्मै
(२,२.८म्) सिध्यत्यमुष्मै सिध्यत्यस्मै लोकाय य एवंविद्वानुपसदं उपैति । । ८ । ।

(२,२.९अ) अथ यत्राहाध्वर्युरग्नीद्देवपत्नीर्व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्यां आह्वयेति तदपरेण गार्हपत्यं प्राङ्मुखस्तिष्ठन्ननवानन्नाग्नीध्रो देवपत्नीर्व्याचष्टे
(२,२.९ब्) पृथिव्यग्नेः पत्नी
(२,२.९च्) वाग्वातस्य पत्नी
(२,२.९द्) सेनेन्द्रस्य पत्नी
(२,२.९ए) धेना बृहस्पतेः पत्नी
(२,२.९फ़्) पथ्या पूष्णः पत्नी
(२,२.९ग्) गायत्री पसूनां पत्नी
(२,२.९ह्) त्रिष्टुब्रुद्राणां पत्नी
(२,२.९इ) जगत्यादित्यानां पत्नी_
(२,२.९ज्) अनुष्टुं मित्रस्य पत्नी
(२,२.९क्) विराड्वरुणस्य पत्नी
(२,२.९ल्) पङ्क्तिर्विष्णोः पत्नी
(२,२.९म्) दीक्षा सोमस्य राज्ञः पत्नीति_
(२,२.९न्) अति भ्रातृव्यानारोहति नैनं भ्रातृव्या आरोहन्त्युपरि भ्रातृव्यानारोहति य एवंविद्वानाग्नीध्रो देवपत्नीर्व्याचष्टे । । ९ । । [एद्. आरुओहन्त्य्, आरुओहति]

(२,२.१०अ) यथा वै रथ एकैकं अरं अभिप्रतितिष्ठन्वर्तत एवं यज्ञ एकैकां तन्वं अभिप्रतितिष्ठन्नेति
(२,२.१०ब्) पुरा प्रचरितोराग्नीध्रीये होतव्याः_
(२,२.१०च्) एतद्ध वा उवाच वासिष्ठः सात्यहव्योऽस्कन्सोम इत्युक्ते मा सूर्क्षत प्रचरत प्रातर्वावाद्याहं सोमं समस्थापयं इति
(२,२.१०द्) नास्य सोम स्कन्दति य एवंविद्वान्त्सोमं पिबति
(२,२.१०ए) स ह स्म वै स आसन्द्यां आसीनः सक्तुभिरुपमथ्य सोमं पिबति_
(२,२.१०फ़्) अहं वाव सर्वतो यज्ञं वेद य एतान्वेद
(२,२.१०ग्) न मां एष हिंसिष्यतीति
(२,२.१०ह्) नैनं सोमपीथो न पेयो हिनस्ति य एवंविद्वान्त्सोमं पिबति
(२,२.१०इ) तं ह स्म यदाहुः कस्मात्त्वं इदं आसन्द्यां आसीनः सक्तुभिरुपमथ्य सोमं पिबसीति
(२,२.१०ज्) देवतास्वेव यज्ञं प्रतिष्ठापयामीत्यब्रवीद्ब्राह्मणो यस्यैवंविदुषो यस्यैवंविद्वान्यज्ञार्त्या यज्ञे प्रायश्चित्तं जुहोति [एद्ब्रह्मणो, चोर्र्. Pअत्यल्]
(२,२.१०क्) देवतास्वेव यज्ञं प्रतिष्ठापयति
(२,२.१०ल्) यज्ञार्तिं प्रतिजुहुयात्
(२,२.१०म्) सयोनित्वाय
(२,२.१०न्) त्रयस्त्रिंशद्वै यज्ञस्य तन्व इति_
(२,२.१०ओ) एकान्नत्रिंशत्स्तोमभागास्
(२,२.१०प्) त्रीणि सवनानि
(२,२.१०क़्) यज्ञश्चतुर्थः_
(२,२.१०र्) स्तोमभागैरेवैतत्स्तोमभागान्प्रतिप्रयुङ्क्ते सवनैः सवनानि यज्ञेन यज्ञम्_
(२,२.१०स्) सर्वा ह वा अस्य यज्ञस्य तन्वः प्रयुक्ता भवन्ति सर्वा आप्ताः सर्वा अवरुद्धाः_
(२,२.१०त्) देवस्य सवितुः प्रसवे बृहस्पतये स्तुतेति
(२,२.१०उ) यद्यद्वै सविता देवेभ्यः प्रासुवत्तेनार्ध्नुवन्_
(२,२.१०व्) सवितृप्रसूता एव स्तुवन्ति_
(२,२.१०w) ऋध्नुवन्ति_
(२,२.१०x) ऋध्यन्ते ह वा अस्य स्तोमा यज्ञे_
(२,२.१०य्) ऋध्यते यजमान ऋध्यते प्रजायाः_ [एद्. ऋध्यते ऋध्यते, चोर्रेच्तेद्प्. ३०२]
(२,२.१०ज़्) ऋध्यते पशुभ्यः_
(२,२.१०आ) ऋध्यते ब्रह्मणे यस्यैवंविद्वान्ब्रह्मा भवति । । १० । ।

(२,२.११अ) देवाश्च ह वा असुराश्चास्पर्धन्त
(२,२.११ब्) ते देवाः समावदेव यज्ञे कुर्वाणा आसन्
(२,२.११च्) यदेव दवा अकुर्वत तदसुरा अकुर्वत
(२,२.११द्) ते न व्यावृतं अगच्छन्_
(२,२.११ए) ते देवा अब्रुवन्नयतेमं यज्ञं तिर उपर्यसुरेभ्यस्तंस्यामह इति
(२,२.११फ़्) तं एताभिराच्छाद्योदक्रामन्यजूंषि यज्ञे समिधः स्वाहेति
(२,२.११ग्) तं तिर उपर्यसुरेभ्यो यज्ञं अतन्वत
(२,२.११ह्) तं एषां यज्ञं असुरा नान्ववायन्_
(२,२.११इ) ततो देवा अभवन्परासुराः
(२,२.११ज्) स य एवंविद्वांस्तिर उपर्यसुरेभ्यो यज्ञं तनुते भवत्यात्मना परास्याप्रियो भ्रातृव्यो भवति_
(२,२.११क्) एतैरेव जुहुयात्समृतयज्ञे चतुर्भिश्चतुर्भिरन्वाख्यायम्_
(२,२.११ल्) पुरस्तात्प्रातरनुवाकस्य जुहुयात्_
(२,२.११म्) एतावान्वै यज्ञो यावानेष यज्ञस्तं वृङ्क्ते
(२,२.११न्) सयज्ञो भवति
(२,२.११ओ) अयज्ञ इतरः_
(२,२.११प्) एतैरेव जुहुयात्पुरस्ताद्द्वादशाहस्य_
(२,२.११क़्) एष ह वै प्रत्यक्षं द्वादशाहस्
(२,२.११र्) तं एवालभ्यैतैरेव जुहुयात्
(२,२.११स्) पुरस्ताद्दीक्षायाः_
(२,२.११त्) एषा ह वै प्रत्यक्षं दीक्षा
(२,२.११उ) तां एवालभ्यैतैरेवातिथ्यं अभिमृशेद्<यज्ञेन यज्ञं अयजन्त देवाः [ऋS७.५.१, PS२०.२.२, Vऐत्S१६.१५]>_ इति । । ११ । ।

(२,२.१२अ) यत्र विजानाति ब्रह्मन्त्सोमोऽस्कन्निति तं एतयालभ्याभिमन्त्रयते_<अभूद्देवः सविता वन्द्यो नु न इदानीं अह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत्[èV४.५४.१]>_इति
(२,२.१२ब्) <ये अग्नयो अप्स्वन्तर्[ऋS३.२१.१, Vऐत्S१६.१६, च्फ़्. PS१०.९.१?]> इति सप्तभिरभिजुहोति
(२,२.१२च्) यदेवास्यावस्कन्नं भवति तदेवास्यैतदग्नौ स्वगाकरोति_
(२,२.१२द्) अग्निर्हि सुकृतीनां हविषां प्रतिष्ठा_
(२,२.१२ए) अथ विसृप्य वैप्रुषान्होमाञ्जुहोति <द्रप्सश्चस्कन्द [èV१०.१७.११, PS२०.१३.७, ऋS१८.४.२८, Vऐत्S१६.१७]>_इति [एद्. जुह्वति, चोर्र्. Pअत्यल्]
(२,२.१२फ़्) या एवास्याभिषूयमाणस्य विप्रुष स्कन्दन्त्यंशुर्वा ता एवास्यैतदाहवनीये स्वगाकरोति_ [एद्. आहवणीये]
(२,२.१२ग्) आहवनीयो ह्याहुतीनां प्रतिष्ठा
(२,२.१२ह्) <यस्ते द्रप्स स्कन्दति [èV१०.१७.१२अ, PS२०.१३.८अ, Vऐत्S१६.१७]>_इति
(२,२.१२इ) स्तोको वै द्रप्सः_
(२,२.१२ज्) <यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात्[èV१०.१७.१२ब्, PS२०.१३.८ब्, Vऐत्S१६.१७]>_इति बाहुभिरभिच्युतोऽंशुरधिषवणाभ्यां अधिस्कन्दति_
(२,२.१२क्) <अध्वर्योर्वा परि यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतं [PS२०.१३.८च्द्, èV१०.१७.१२च्द्, Vऐत्S१६.१७]> इति
(२,२.१२ल्) तद्यथा वषट्कृतं स्वाहाकृतं हुतं एवं भवति । । १२ । ।

(२,२.१३अ) ऋषयो वा इन्द्रं प्रत्यक्षं नापश्यन्_
(२,२.१३ब्) तं वसिष्ठ एव प्रत्यक्षं अपश्यत्
(२,२.१३च्) सोऽबिभेदितरेभ्य ऋषिभ्यो मा प्रवोचदिति
(२,२.१३द्) सोऽब्रवीद्ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्ते_
(२,२.१३ए) अथेतरेभ्य ऋषिभ्यो मा प्रवोच इति
(२,२.१३फ़्) तस्मा एतान्स्तोमभागानुवाच
(२,२.१३ग्) ततो वसिष्ठपुरोहिताः प्रजाः प्राजायन्त
(२,२.१३ह्) स्तोमो वा एते एतेषां भागस्
(२,२.१३इ) तत्स्तोमभागानां स्तोमभागत्वम्_
(२,२.१३ज्) रश्मिरसि क्षयाय त्वेति
(२,२.१३क्) क्षयो वै देवाः_
(२,२.१३ल्) देवेभ्य एव यज्ञं प्राह
(२,२.१३म्) प्रेतिरसि धर्मणे त्वेति
(२,२.१३न्) धर्मो मनुष्याः_
(२,२.१३ओ) मनुष्येभ्य एव यज्ञं प्राह_
(२,२.१३प्) अन्वितिरसि संधिरसि प्रतिधिरसीति [एद्. अनितिर्, चोर्र्. Pअत्यल्]
(२,२.१३क़्) त्रयो वै लोकाः_
(२,२.१३र्) लोकेष्वेव यज्ञं प्रतिष्ठापयति
(२,२.१३स्) विष्टम्भोऽसीति
(२,२.१३त्) वृष्टिं एवावरुन्द्धे
(२,२.१३उ) प्रावोऽस्यह्नांसीति मिथुनं एव करोति_
(२,२.१३व्) उशिगसि प्रकेतोऽसि सुदितिरसीति_
(२,२.१३w) अष्टौ वसव एकादश रुद्रा द्वादशादित्या वाग्द्वात्रिंशी स्वरस्त्रयस्त्रिंशस्त्रयस्त्रिंशद्देवाः_
(२,२.१३x) देवेभ्य एव यज्ञं प्राह_
(२,२.१३य्) ओजोऽसि पितृभ्यस्त्वेति
(२,२.१३ज़्) बलं एव तत्पितॄननुसंतनोति
(२,२.१३आ) तन्तुरसि प्रजाभ्यस्त्वेति
(२,२.१३ब्ब्) प्रजा एव पशूननुसंतनोति
(२,२.१३च्च्) रेवदस्योषधीभ्यस्त्वेति_
(२,२.१३द्द्) ओषधीष्वेव यज्ञं प्रतिष्ठापयति
(२,२.१३ई) पृतनाषाडसि पशुभ्यस्त्वेति
(२,२.१३फ़्फ़्) प्रजा एव पशूननुसंतनोति_
(२,२.१३ग्ग्) अभिजिदसीति
(२,२.१३ह्ह्) वज्रो वै षोडशी
(२,२.१३इइ) व्यावृत्तोऽसौ वज्रस्
(२,२.१३ज्ज्) तस्मादेषोऽन्यैर्व्यावृत्तः_
(२,२.१३क्क्) नाभुरसीति
(२,२.१३ल्ल्) प्रजापतिर्वै सप्तदशः
(२,२.१३म्म्) प्रजापतिं एवावरुन्द्धे । । १३ । ।

(२,२.१४अ) अधिपतिरसि धरुणोऽसि संसर्पोऽसि वयोधा असीति
(२,२.१४ब्) प्राणोऽपानश्चक्षुः श्रोत्रं इत्येतानि वै पुरुषं अकरन्प्रणानुपैति
(२,२.१४च्) प्रजात्या एव
(२,२.१४द्) त्रिवृदसि प्रवृदसि स्ववृदस्यनुवृदसीति
(२,२.१४ए) मिथुनं एव करोति_
(२,२.१४फ़्) आरोहोऽसि प्ररोहोऽसि संरोहोऽस्यनुरोहोऽसीति [एद्. आरुओहो]
(२,२.१४ग्) प्रजापतिरेव
(२,२.१४ह्) वसुकोऽसि वस्यष्टिरसि वेषश्रीरसीति
(२,२.१४इ) प्रतिष्ठितिरेव_
(२,२.१४ज्) आक्रमोऽसि संक्रमोऽस्युत्क्रमोऽस्युत्क्रान्तिरसीति_
(२,२.१४क्) ऋद्धिरेव
(२,२.१४ल्) यद्यद्वै सविता देवेभ्यः प्रासुवत्तेनार्ध्नुवन्_
(२,२.१४म्) सवितृप्रसूता एव स्तुवन्ति_
(२,२.१४न्) ऋध्नुवन्ति
(२,२.१४ओ) बृहस्पतये स्तुतेति
(२,२.१४प्) बृहस्पतिर्वा आङ्गिरसो देवानां ब्रह्मा
(२,२.१४क़्) तदनुमत्यैवों भूर्जनदिति प्रातःसवने_
(२,२.१४र्) ऋग्भिरेवोभयतोऽथर्वाङ्गिरोभिर्गुप्ताभिर्गुप्तै स्तुतेति_
(२,२.१४स्) एवों भुवो जनदिति माध्यंदिने सवने
(२,२.१४त्) यजुर्भिरेवोभयतोऽथर्वाङ्गिरोभिर्गुप्ताभिर्गुप्तैः_
(२,२.१४उ) स्तुतेत्येवों स्वर्जनदिति तृतीयसवने
(२,२.१४व्) सामभिरेवोभयतोऽथर्वाङ्गिरोभिर्गुप्ताभिर्गुप्तै स्तुतेत्येव_
(२,२.१४w) अथ यद्यहीन उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्यामा वा स्यात्सर्वाभिः सर्वाभिरत ऊर्ध्वं व्याहृतिभिरनुजानाति_
(२,२.१४x) ओं भूर्भुवः स्वर्जनद्वृधत्करद्रुहन्महत्तच्छं ओं इन्द्रवन्त स्तुतेति सेन्द्रान्मापगायत सेन्द्रान्स्तुतेत्येव_
(२,२.१४य्) इन्द्रियवानृद्धिमान्वशीयान्भवति य एवं वेद यश्चैवंविद्वान्त्स्तोमभागैर्यजते । । १४ । ।

(२,२.१५अ) यो ह वा आयतांश्च प्रतियतांश्च स्तोमभागान्विद्यात्स विष्पर्धमानयोः समृतसोमयोर्ब्रह्मा स्यात्
(२,२.१५ब्) <स्तुतेषे स्तुतोर्जे स्तुत देवस्य सवितुः सवे बृहस्पतिं वः प्रजापतिं वो वसून्वो देवान्रुद्रान्वो देवानादित्यान्वो देवान्साध्यान्वो देवानाप्त्यान्वो देवान्विश्वान्वो देवान्सर्वान्वो देवान्विश्वतस्परि हवामहे [Vऐत्S१७.७]>
(२,२.१५च्) <जनेभ्योऽस्माकं अस्तु केवलः [Vऐत्S१७.७ (च्फ़्. PS५.४.९च्)]>_
(२,२.१५द्) <इतः कृणोतु वीर्यं [Vऐत्S१७.७ (PS५.४.९द्)]> इति_
(२,२.१५ए) एते ह वा आयताश्च प्रतियताश्च स्तोमभागास्
(२,२.१५फ़्) ताञ्जपन्नुपर्युपरि परेषां ब्रह्माणं अवेक्षेत
(२,२.१५ग्) तत एषां अधःशिरा ब्रह्मा पतति
(२,२.१५ह्) ततो यज्ञस्
(२,२.१५इ) ततो यजमानः_
(२,२.१५ज्) यजमानेऽधःशिरसि पतिते स देशोऽधःशिराः पतति यस्मिन्नर्धे यजन्ते
(२,२.१५क्) देवाश्च ह वा असुराश्च समृतसोमौ यज्ञावतनुताम्
(२,२.१५ल्) अथ बृहस्पतिराङ्गिरसो देवानां ब्रह्मा
(२,२.१५म्) स आयतांश्च प्रतियतांश्च स्तोमभागाञ्जपन्नुपर्युपर्यसुराणां ब्रह्माणं अवैक्षत
(२,२.१५न्) तत एषां अधःशिरा ब्रह्मापतत्
(२,२.१५ओ) ततो यज्ञस्
(२,२.१५प्) ततोऽसुरा इति । । १५ । ।

(२,२.१६अ) देवा यज्ञं पराजयन्त
(२,२.१६ब्) तं आग्नीध्रात्पुनरुपाजयन्त
(२,२.१६च्) तदेतद्यज्ञस्यापराजितं यदाग्नीध्रम्_
(२,२.१६द्) यदाग्नीध्राद्धिष्ण्यान्विहरति तत एवैनं पुनस्तनुते
(२,२.१६ए) पराजित्यै_
(२,२.१६फ़्) अप खलु वा एते गच्छन्ति ये बहिष्पवमानं सर्पन्ति
(२,२.१६ग्) बहिष्पवमाने स्तुत आह_
(२,२.१६ह्) अग्नीदग्नीन्विहर बर्हि स्तृणीहि पुरोडाशानलंकुर्विति
(२,२.१६इ) यज्ञं एवापराजित्य पुनस्तन्वाना आयन्ति_
(२,२.१६ज्) अङ्गारैर्द्वे सवने विहरति शलाकाभिस्तृतीयसवनं सश्रुक्रत्वाय_
(२,२.१६क्) अथो संभवत्येवं एवैतत्_
(२,२.१६ल्) दक्षिणतो वै देवानां यज्ञं रक्षांस्यजिघांसन्_ [एद्. अजिधांसन्]
(२,२.१६म्) तान्याग्नीध्रेणापाघ्नत
(२,२.१६न्) तस्माद्दक्षिणामुखस्तिष्ठन्नग्नीत्प्रत्याश्रावयति
(२,२.१६ओ) यज्ञस्याभिजित्यै रक्षसां अपहत्यै रक्षसां अपहत्यै । । १६ । ।

(२,२.१७अ) तदाहुरथ कस्मात्स्ॐय एवाध्वरे प्रवृताहुतीर्जुह्वति न हविर्यज्ञ इति_
(२,२.१७ब्) अकृत्स्ना वा एषा देवयज्या यद्धविर्यज्ञः_
(२,२.१७च्) अथ हैषैव कृत्स्ना देवयज्या यत्स्ॐयोऽध्वरस्
(२,२.१७द्) तस्मात्स्ॐय एवाध्वरे प्रवृताहुतीर्जुह्वति
(२,२.१७ए) जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाग्यद्वाचो मधुमत्तमं तस्मिन्मा धाः स्वाहा वाचे स्वाहा वाचपतये स्वाहा सरस्वत्यै स्वाहा सरस्वत्या इति पुरस्तात्स्वाहाकारेण जुहोति [एद्. -स्वाहाकरेण]
(२,२.१७फ़्) तस्माद्वागत ऊर्ध्वं उत्सृष्टा यज्ञं वहति मनसोत्तराम्_
(२,२.१७ग्) मनसा हि मनः प्रीतम्_
(२,२.१७ह्) तदु हैके सप्ताहुतीर्जुह्वति सप्त छन्दांसि प्रवृत्तानि प्रतिमन्त्रं इति वदन्तः_
(२,२.१७इ) यथा मेखला पर्यस्यते मेध्यस्य चामेध्यस्य च विहृत्या एवं हैवैते न्युप्यन्ते मेधस्य चामेध्यस्य च विहृत्यै यज्ञस्य विहृत्यै
(२,२.१७ज्) प्राचीनं हि धिष्ण्येभ्यो देवानां लोकाः प्रतीचीनं मनुष्याणाम्_
(२,२.१७क्) तस्मात्सोमं पिबता प्राञ्चो धिष्ण्या नोपसर्प्याः_
(२,२.१७ल्) जनं ह्येतत्_
(२,२.१७म्) देवलोकं ह्यध्यारोहन्ति
(२,२.१७न्) तेषां एतदायतनं चोदयनं च यदाग्नीध्रं च सदश्च
(२,२.१७ओ) तद्योऽविद्वान्त्संचरत्यार्तिं आर्छत्यि_
(२,२.१७प्) अथ यो विद्वान्त्संचरति न स धिष्णीयां आर्तिं आर्छति । । १७ । । [एद्. विद्वन्त्]

(२,२.१८अ) प्रजापतिर्वै यज्ञस्
(२,२.१८ब्) तस्मिन्त्सर्वे कामाः सर्वा इष्टीः सर्वं अमृतत्वम्_
(२,२.१८च्) तस्य हैते गोप्तारो यद्धिष्ण्यास्
(२,२.१८द्) तान्त्सदः प्रस्रप्स्यन्नमस्करोति
(२,२.१८ए) नमो नम इति
(२,२.१८फ़्) न हि नमस्कारं अति देवास्
(२,२.१८ग्) ते ह नमसिताः कर्तारं अतिसृजन्तीति
(२,२.१८ह्) तत एतं प्रजापतिं यज्ञं प्रपद्यते नमो नम इति
(२,२.१८इ) न हि नमस्कारं अति देवाः
(२,२.१८ज्) स तत्रैव यजमानः सर्वान्कामानाप्नोति सर्वान्कामानाप्नोति । । १८ । ।

(२,२.१९अ) यो वै सदस्यान्गन्धर्वान्वेद न सदस्यां आर्तिं आर्छति
(२,२.१९ब्) सदः प्रस्रप्स्यन्ब्रूयादुपद्रष्ट्रे नम इति_
(२,२.१९च्) अग्निर्वै द्रष्टा तस्मा उ एवात्मानं परिददाति
(२,२.१९द्) सर्वं आयुरेति न पुरा जरसः प्रमीयते य एवं वेद
(२,२.१९ए) सदः प्रसृप्य ब्रूयादुपश्रोत्रे नम इति
(२,२.१९फ़्) वायुर्वा उपश्रोता
(२,२.१९ग्) तस्मा उ एवात्मानं परिददाति
(२,२.१९ह्) सर्वं आयुरेति न पुरा जरसः प्रमीयते य एवं वेद
(२,२.१९इ) सदः प्रसर्पन्ब्रूयादनुख्यात्रे नम इति_
(२,२.१९ज्) आदित्यो वा अनुख्याता
(२,२.१९क्) तस्मा उ एवात्मानं परिददाति
(२,२.१९ल्) सर्वं आयुरेति न पुरा जरसः प्रमीयते य एवं वेद
(२,२.१९म्) सदः प्रसृप्तो ब्रूयादुपद्रष्ट्रे नम इति
(२,२.१९न्) ब्राह्मणो वा उपद्रष्टा
(२,२.१९ओ) तस्मा उ एवात्मानं परिददाति
(२,२.१९प्) सर्वं आयुरेति न पुरा जरसः प्रमीयते य एवं वेद
(२,२.१९क़्) ते वै सदस्या गन्धर्वाः
(२,२.१९र्) स य एवं एतान्त्सदस्यान्गन्धर्वानविद्वान्त्सदः प्रसर्पति स सदस्यां आर्तिं आर्छति_
(२,२.१९स्) अथ यो विद्वान्त्संचरति न सदस्यां आर्तिं आर्छति_
(२,२.१९त्) एतेन ह स्म वा अङ्गिरसः सर्वं सदः पर्याहुस्
(२,२.१९उ) ते न सदस्यां आर्तिं आर्छन्ति_
(२,२.१९व्) अथ यान्कामयेत न सदस्यां आर्तिं आर्छेयुरिति तेभ्य एतेन सर्वं सदः परिब्रूयात्
(२,२.१९w) ते न सदस्यां आर्तिं आर्छन्ति_
(२,२.१९x) अथ यं कामयेत प्रमीयतेति तं एतेभ्य आवृश्चेत्
(२,२.१९य्) प्रमीयते । । १९ । ।

(२,२.२०अ) तदाहुर्यदैन्द्रो यज्ञोऽथ कस्माद्द्वावेव प्रातःसवने प्रस्थितानां प्रत्यक्षादैन्द्रीभ्यां यजतो होता चैव ब्राह्मणाच्छंसी च_ [एद्. ऐद्रीभ्यां]
(२,२.२०ब्) <इदं ते सोम्यं मधु [èV८.६५.८]>_इति होता यजति_
(२,२.२०च्) <इन्द्र त्वा वृषभं वयं [èV३.४०.१, Vऐत्S१९.६]> इति ब्राह्मणाच्छंसी
(२,२.२०द्) नानादेवत्याभिरितरे
(२,२.२०ए) कथं तेषां ऐन्द्र्यो भवन्ति
(२,२.२०फ़्) <मित्रं वयं हवामहे [èV१.२३.४अ]>_इति मैत्रावरुणो यजति
(२,२.२०ग्) <वरुणं सोमपीतये [èV१.२३.४ब्]>_इति
(२,२.२०ह्) यद्वै किं च पीतवत्तदैन्द्रं रूपम्_
(२,२.२०इ) तेनेन्द्रं प्रीणाति
(२,२.२०ज्) <मरुतो यस्य हि क्षये [èV१.८६.१अ, ऋS२०.१.२अ]>_इति पोता यजति
(२,२.२०क्) <स सुगोपातमो जनः [èV१.८६.१च्, ऋS२०.१.२च्]>_इति_ [एद्. सुगोपतमो, चोर्रेच्तेद्प्. ३०२]
(२,२.२०ल्) इन्द्रो वै गोपास्
(२,२.२०म्) तदैन्द्रं रूपम्_
(२,२.२०न्) तेनेन्द्रं प्रीणाति_
(२,२.२०ओ) <अग्ने पत्नीरिहा वह [èV१.२२.९अ]>_इति नेष्टा यजति
(२,२.२०प्) <त्वष्टारं सोमपीतये [èV१.२२.९च्]>_इति
(२,२.२०क़्) यद्वै किं च पीतवत्तदैन्द्रं रूपम्_
(२,२.२०र्) तेनेन्द्रं प्रीणाति_
(२,२.२०स्) <उक्षान्नाय वशान्नाय [èV८.४३.११अ, PS३.१२.६अ, ऋS३.२१.६अ ।२०.१.३अ]>_इत्याग्नीध्रो यजति
(२,२.२०त्) <सोमपृष्ठाय वेधसे [èV८.४३.११ब्, PS३.१२.६ब्, ऋS३.२१.६ब् ।२०.१.३ब्]>_इति_
(२,२.२०उ) इन्द्रो वै वेधास्
(२,२.२०व्) तदैन्द्रं रूपम्_
(२,२.२०w) तेनेन्द्रं प्रीणाति
(२,२.२०x) <प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू इन्द्राग्नी सोमपीतये [èV८.३८.७]>_इति
(२,२.२०य्) स्वयंसमृद्धा अच्छावाकस्य_
(२,२.२०ज़्) एवं उ हैता ऐन्द्र्यो भवन्ति
(२,२.२०आ) यन्नानादेवत्यास्तेनान्या देवताः प्रीणाति
(२,२.२०ब्ब्) यद्गायत्र्यस्तेनाग्नेय्यस्
(२,२.२०च्च्) तस्मादेताभिस्त्रयं अवाप्तं भवति । । २० । ।

(२,२.२१अ) ते वै खलु सर्व एव माध्यंदिने प्रस्थितानां प्रत्यक्षादैन्द्रीभिर्यजन्ति_
(२,२.२१ब्) अभितृणवतीभिरेके
(२,२.२१च्) <पिबा सोमं अभि यं उग्र तर्दः [èV६.१७.१]>_इति होता यजति
(२,२.२१द्) <स ईं पाहि य ऋजीषी तरुत्रः [èV६.१७.२]>_इति मैत्रावरुणः_
(२,२.२१ए) <एवा पाहि प्रत्नथा मन्दतु त्वा [èV६.१७.३]>_इति ब्राह्मणाच्छंसी_
(२,२.२१फ़्) <अर्वाङेहि सोमकामं त्वाहुः [èV१.१०४.९]>_इति पोता
(२,२.२१ग्) <तवायं सोमस्त्वं एह्यर्वाङ्[èV३.३५.६]> इति नेष्टा_
(२,२.२१ह्) <इन्द्राय सोमाः प्रदिवो विदानाः [èV३.३६.२]>_इत्यच्छावाकः_
(२,२.२१इ) <आपूर्णो अस्य कलशः स्वाहा [èV३.३२.१५]>_इत्याग्नीध्रः_ [एद्. स्वहोत्य्]
(२,२.२१ज्) एवं उ हैता अभितृणवत्यो भवन्ति_
(२,२.२१क्) इन्द्रो वै प्रातःसवनं नाभ्यजयत्
(२,२.२१ल्) स एताभिर्माध्यंदिनं सवनं अभ्यतृणत्
(२,२.२१म्) तद्यदेताभिर्माध्यंदिनं सवनं अभ्यतृणत्तस्मादेता अभितृणवत्यो भवन्ति । । २१ । ।

(२,२.२२अ) तदाहुर्यदैन्द्रार्भवं तृतीयसवनं अथ कस्मादेक एव तृतीयसवने प्रस्थितानां प्रत्यक्षादैन्द्रार्भव्या यजति_
(२,२.२२ब्) <इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं [èV३.६०.५]> इति होतैव
(२,२.२२च्) नानादेवत्याभिरितरे
(२,२.२२द्) कथं तेषां ऐन्द्रार्भव्यो भवन्ति_
(२,२.२२ए) <इन्द्रावरुणा सुतपाविमं सुतं [èV६.६८.१०, PS२०.७.५अ, ऋS७.५८.१अ]>_ इति मैत्रावरुणो यजति [एद्. सतम्, चोर्रेच्तेद्प्. ३०२]
(२,२.२२फ़्) <युवो रथो अध्वरो देववीतये [PS२०.७.५च्, ऋS७.५८.१च्, èV६.६८.१०च्]>_इति बहूनि वाह
(२,२.२२ग्) तदृभूणां रूपम्
(२,२.२२ह्) <इन्द्रश्च सोमं पिबतं बृहस्पतये [èV४.५०.१०अ, Vऐत्S२२.११]>_इति ब्राह्मणाच्छंसी यजति_
(२,२.२२इ) <आ वां विशन्त्विन्दवः स्वाभुवः [èV४.५०.१०च्]>_इति बहूनि वाह
(२,२.२२ज्) तदृभूणां रूपम्
(२,२.२२क्) <आ वो वहन्तु सप्तयो रघुष्यदः [èV१.८५.६अ]>_इति पोता यजति
(२,२.२२ल्) <रघुपत्वानः प्र जिगात बाहुभिः [èV१.८५.६ब्]>_इति बहूनि वाह
(२,२.२२म्) तदृभूणां रूपम्
(२,२.२२न्) <अमेव नः सुहवा आ हि गन्तन [èV२.३६.३]>_इति नेष्टा यजति
(२,२.२२ओ) गन्तनेति बहूनि वाह
(२,२.२२प्) तदृभूणां रूपम्
(२,२.२२क़्) <इन्द्राविष्णू पिबतं मध्वो अस्य [èV६.६९.७अ]>_इत्यच्छावाको यजति_
(२,२.२२र्) <आ वां अन्धांसि मदिराण्यग्मन्[èV६.६९.७च्]>_इति बहूनि वाह
(२,२.२२स्) तदृभूणां रूपम्
(२,२.२२त्) <इमं स्तोमं अर्हते जातवेदसे [èV१.९४.१अ]>_इत्याग्नीध्रो यजति
(२,२.२२उ) <रथं इव सं महेमा मनीषया [èV१.९४.१ब्]>_इति बहूनि वाह
(२,२.२२व्) तदृभूणां रूपम्
(२,२.२२w) एवं उ हैता ऐन्द्रार्भव्यो भवन्ति
(२,२.२२x) यन्नानादेवत्यास्तेनान्या देवताः प्रीणाति
(२,२.२२य्) यदु जगत्प्रासाहा जागतं उ वै तृतीयसवनम्_
(२,२.२२ज़्) तृतीयसवनस्य समष्ट्यै । । २२ । ।

(२,२.२३अ) विचक्षणवतीं वाचं भाषन्ते चनसितवतीम्_
(२,२.२३ब्) विचक्षयन्ति ब्राह्मणम्_
(२,२.२३च्) चनसयन्ति प्राजापत्यम्_
(२,२.२३द्) सत्यं वदन्ति_
(२,२.२३ए) एतद्वै मनुष्येषु सत्यं यच्चक्षुस्
(२,२.२३फ़्) तस्मादाहुराचक्षाणं अद्रागिति
(२,२.२३ग्) स यदाहाद्राक्षं इति तथाहास्य श्रद्दधति
(२,२.२३ह्) यद्यु वै स्वयं वै दृष्टं भवति न बहूनां जनानां एष श्रद्दधाति
(२,२.२३इ) तस्माद्विचक्षणवतीं वाचं भाषन्ते चनसितवतीम्_
(२,२.२३ज्) सत्योत्तरा हैवैषां वागुदिता भवति । । २३ । ।

(२,२.२४अ) समृतयज्ञो वा एष यद्दर्शपूर्णमासौ
(२,२.२४ब्) कस्य वाव देवा यज्ञं आगच्छन्ति कस्य वा न
(२,२.२४च्) बहूनां वा एतद्यजमानानां सामान्यं अहस्
(२,२.२४द्) तस्मात्पूर्वेद्युर्देवताः परिगृह्णीयात्_
(२,२.२४ए) यो ह वै पूर्वेद्युर्देवताः परिगृह्णाति तस्य श्वो भूते यज्ञं आगच्छन्ति
(२,२.२४फ़्) तस्माद्विहव्यस्य चतस्र ऋचो जपेत्_
(२,२.२४ग्) यज्ञविदो हि मन्यन्ते एव सोम एव समृत इति यज्ञो यज्ञेन समृतः । । २४ । ।

(२,२.२४चोल्) इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे द्वितीयः प्रपाठकः । ।

(२,३.१अ) ओं देवपात्रं वै वषट्कारः_
(२,३.१ब्) यद्वषट्करोति देवपात्रेणैव तद्देवतास्तर्पयति_
(२,३.१च्) अथो यदाभितृष्यन्तीरभिसंस्थं तर्पयत्येवं एव तद्देवतास्तर्पयति यदनुवषट्करोति
(२,३.१द्) तद्यथैवादोऽश्वान्वा गा वा पुनरभ्याकारं तर्पयत्येवं एव तद्देवतास्तर्पयति यदनुवषट्करोति_
(२,३.१ए) इमानेवाग्नीनुपासत इत्याहुर्धिष्ण्यान्
(२,३.१फ़्) अथ कस्मात्पूर्वस्मिन्नेवाग्नौ जुह्वति पूर्वस्मिन्वषट्करोति
(२,३.१ग्) यदेव सोमस्याग्ने वीहीत्यनुवषट्करोति तेनैव वषट्करोति धिष्ण्यान्प्रीणाति_
(२,३.१ह्) अथ संस्थितान्सोमान्भक्षयन्तीत्याहुर्येषां नानुवषट्करोति
(२,३.१इ) तदाहुः को नु सोमस्य स्विष्टकृद्भाग इति
(२,३.१ज्) यदेव सोमस्याग्ने वीहीत्यनुवषट्करोति तेनैव संस्थितान्सोमान्भक्षयन्तीत्याहुः
(२,३.१क्) स उ एष सोमस्य स्विष्टकृद्भागो यदनुवषट्करोति । । १ । ।

(२,३.२अ) वज्रो वै वषट्कारः
(२,३.२ब्) स यं द्विष्यात्तं मनसा ध्यायन्वषट्कुर्यात्
(२,३.२च्) तस्मिंस्तद्वज्रं आस्थापयति
(२,३.२द्) षडिति वषट्करोति
(२,३.२ए) षड्वा ऋतवः_
(२,३.२फ़्) ऋतूनां आप्त्यै
(२,३.२ग्) वौषडिति वषट्करोति_
(२,३.२ह्) असौ वाव वावृतवः षट्_
(२,३.२इ) एतं एव तदृतुष्वादधाति_
(२,३.२ज्) ऋतुषु प्रतिष्ठापयति
(२,३.२क्) तदु ह स्माह वैद एतानि वा एतेन षट्प्रतिष्ठापयति
(२,३.२ल्) द्यौरन्तरिक्षे प्रतिष्ठिता_
(२,३.२म्) अन्तरिक्षं पृथिव्याम्_
(२,३.२न्) पृथिव्यप्सु_
(२,३.२ओ) आपः सत्ये
(२,३.२प्) सत्यं ब्रह्मणि
(२,३.२क़्) ब्रह्म तपसीति_
(२,३.२र्) एता एव तद्देवताः प्रतिष्ठान्याः प्रतितिष्ठन्तीरिदं सर्वं अनु प्रतितिष्ठति [एद्. प्रतिस्थान्याः, चोर्र्. Pअत्यल्]
(२,३.२स्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद । । २ । ।

(२,३.३अ) त्रयो वै वषट्काराः_
(२,३.३ब्) वज्रो धामच्छद्रिक्तः
(२,३.३च्) स यदेवोच्चैर्बलं वषट्करोति स वज्रस्
(२,३.३द्) तं तं प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तरीतवे
(२,३.३ए) तस्मात्स भ्रातृव्यवता वषट्कृत्यः_
(२,३.३फ़्) अथ यः समः संततो निर्हाणच्छत्स्व धामच्छत्
(२,३.३ग्) तं तं प्रजाश्च पशवश्चानूपतिष्ठन्ते
(२,३.३ह्) तस्मात्स प्रजाकामेन पशुकामेन वषट्कृत्यः_
(२,३.३इ) अथ येनैव षडपराध्नोति स रिक्तः_
(२,३.३ज्) रिणक्त्यात्मानं रिणक्ति यजमानम्_
(२,३.३क्) पापीयान्वषट्कर्ता भवति पापीयान्यस्मै वषट्करोति
(२,३.३ल्) तस्मात्तस्याशां नेयात्
(२,३.३म्) किं स्वित्स यजमानस्य पापभद्रं आद्रियेतेति ह स्माह योऽस्य वषट्कर्ता भवति_
(२,३.३न्) अत्रैवैनं यथा कामयेत तथा कुर्यात्_
(२,३.३ओ) यं कामयेत यथैवानीजानोऽभूत्तथैवेजानः स्यादिति यथैवास्यर्चं ब्रूयात्तथैवास्य वषट्कुर्यात्
(२,३.३प्) समानं एवैनं तत्करोति
(२,३.३क़्) यं कामयेत पापीयान्स्यादित्युच्चैस्तरां अस्यर्चं ब्रूयान्नीचैस्तरां वषट्कुर्यात्
(२,३.३र्) पापीयांसं एवैनं तत्करोति
(२,३.३स्) यं कामयेत श्रेयान्स्यादिति नीचैस्तरां अस्यर्चं ब्रूयादुच्चैस्तरां वषट्कुर्यात्_
(२,३.३त्) श्रेयांसं एवैनं तत्करोति
(२,३.३उ) श्रिय एवैनं तच्छ्रियं आदधाति । । ३ । ।

(२,३.४अ) यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायन्वषट्कुर्यात्[एद्. दवतायै]
(२,३.४ब्) साक्षादेव तद्देवतां प्रीणाति
(२,३.४च्) प्रत्यक्षाद्देवतां परिगृह्णाति
(२,३.४द्) संततं ऋचा वषट्कृत्यम्_
(२,३.४ए) संतत्यै
(२,३.४फ़्) संधीयते प्रजया पशुभिर्य एवं वेद । । ४ । ।

(२,३.५अ) वज्रो वै वषट्कारः
(२,३.५ब्) स उ एष प्रहृतोऽशान्तो दीदाय तस्य ह न सर्व एव शान्तिं वेद नो प्रतिष्ठाम्_
(२,३.५च्) तस्माद्धाप्येतर्हि भूयानिव मृत्युस्
(२,३.५द्) तस्य हैषैव शान्तिरेषा प्रतिष्ठा यद्वागिति
(२,३.५ए) वषट्कृत्य वागित्यनुमन्त्रयते
(२,३.५फ़्) वषट्कार मा मां प्रमृक्षो माहं त्वां प्रमृक्षं बृहता मन उपह्वये व्यानेन शरीरं प्रतिष्ठासि प्रतिष्ठां गच्छ प्रतिष्ठां मा गमयेदिति [एद्. प्रतिष्ठीसि, चोर्रेच्तेद्प्. ३०२]
(२,३.५ग्) तदु स्माह दीर्घं एवैतैत्सदप्रभ्वोजः सह ओज इत्यनुमन्त्रयेत_
(२,३.५ह्) ओजश्च ह वै सहश्च वषट्कारस्य प्रियतमे तन्वौ
(२,३.५इ) प्रियाभ्यां एव तत्तनूभ्यां समर्धयति
(२,३.५ज्) प्रियया तन्वा समृध्यते य एवं वेद । । ५ । ।

(२,३.६अ) वाक्च वै प्राणापानौ च वषट्कारस्
(२,३.६ब्) ते वषट्कृते वषट्कृते व्युत्क्रामन्ति
(२,३.६च्) ताननुमन्त्रयते वागोजः सह ओजो मयि प्राणापानाविति
(२,३.६द्) वाचं चैव तत्प्राणापानौ च होतात्मनि प्रतिष्ठापयति
(२,३.६ए) सर्वं आयुरेति
(२,३.६फ़्) न पुरा जरसः प्रमीयते य एवं वेद
(२,३.६ग्) <शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः । सखेव सख्य उरुशंस धीरः प्र ण आयुर्जीवसे सोम तारीः [èV८.४८.४, Vऐत्S१९.१८]>_इत्यात्मानं प्रत्यभिमृशति_
(२,३.६ह्) ईश्वरो वा एषोऽप्रत्यभिमृष्टो यजमानस्यायुः प्रत्यवहर्तुं अनर्हन्मा भक्षयेदिति
(२,३.६इ) तद्यदेतेन प्रत्यभिमृशत्यायुरेवास्मै तत्प्रतिरते_
(२,३.६ज्) आप्यायस्व सं ते पयांसीति द्वाभ्यां चमसानाप्याययन्त्यभिरूपाभ्याम्_
(२,३.६क्) यद्यज्ञेऽभिरूपं तत्समृद्धं । । ६ । ।

(२,३.७अ) प्राणा वा ऋतुयाजास्
(२,३.७ब्) तद्यदृतुयाजैश्चरन्ति प्राणानेव तद्यजमाने दधति
(२,३.७च्) षडृतुनेति यजन्ति
(२,३.७द्) प्राणं एव तद्यजमाने दधति
(२,३.७ए) चत्वार ऋतुभिरिति यजन्ति_
(२,३.७फ़्) अपानं एव तद्यजमाने दधति
(२,३.७ग्) द्विरृतुनेत्युपरिष्टात्_
(२,३.७ह्) व्यानं एव तद्यजमाने दधति
(२,३.७इ) स चासु संभृतस्त्रेधा विहृतः प्राणोऽपानो व्यान इति [एद्.ऽपाणो]
(२,३.७ज्) ततोऽन्यत्र गुणितस्
(२,३.७क्) तथा ह यजमानः सर्वं आयुरेत्यस्मिंल्लोक आर्ध्नोति_
(२,३.७ल्) आप्नोत्यमृतत्वं अक्षितं स्वर्गे लोके
(२,३.७म्) ते वा एते प्राणा एव यदृतुयाजास्
(२,३.७न्) तस्मादनवानं ततो यजन्ति [एद्. अनवानन्तो, चोर्र्. Pअत्यल्]
(२,३.७ओ) प्राणानां सन्तत्यै
(२,३.७प्) सन्तन्ता इव हीमे प्राणाः_
(२,३.७क़्) अथो ऋतवो वा ऋतुयाजाः
(२,३.७र्) संस्थानुवषट्कारः_ [एद्. अनुवषट्कुआरो]
(२,३.७स्) योऽत्रानुवषट्कुर्यादसंस्थितानृतून्संस्थापयेत्_
(२,३.७त्) यस्तं तत्र ब्रूयादसंस्थितानृतून्समतिष्ठिपद्दुःषमं भविष्यतीति शश्वत्तथा स्यात् । । ७ । ।

(२,३.८अ) तदाहुर्यद्धोता यक्षद्धोता यक्षदिति मैत्रावरुणो होत्रे प्रेष्यत्यथ कस्मादहोतृभ्यः सद्भ्यो होत्राशंसिभ्यो होता यक्षद्धोता यक्षदिति प्रेष्यतीति
(२,३.८ब्) वाग्वै होता वाक्सर्व ऋत्विजः_
(२,३.८च्) वाग्यक्षद्वाग्यक्षदिति_
(२,३.८द्) अथो सर्वे वा एते सप्त होतारोऽपि वा ऋचाभ्युदितं सप्त होतार ऋतुथा यजन्तीति_
(२,३.८ए) अथ य उपरिष्टाद्द्वादशर्चजामितायै
(२,३.८फ़्) ते वै द्वादश भवन्ति
(२,३.८ग्) द्वादश वै मासाः संवत्सरः [एद्. द्वदश, चोर्र्. Pअत्यल्]
(२,३.८ह्) संवत्सरः प्रजापतिः
(२,३.८इ) प्रजापतिर्यज्ञः
(२,३.८ज्) स योऽत्र भक्षयेद्यस्तं तत्र ब्रूयादशान्तो भक्षोऽननुवषट्कृत आत्मानं अन्तरगान्न जीविष्यतीति तथा ह स्यात्_ [एद्.ऽनानुवषट्कृत, चोर्र्. Pअत्यल्]
(२,३.८क्) यो वै भक्षयेत्प्राणो भक्षः प्राण आत्मानं अन्तरगादिति तथैव भवति
(२,३.८ल्) लिम्पेदिवैवावजिघ्रेदत्र च द्विदेवत्येषु चेति
(२,३.८म्) तदु तत्र शासनं वेदयन्ते_
(२,३.८न्) अथ यदभू व्यभिचरतो नान्योन्यं अनुप्रपद्येते अध्वर्यू तस्मादृतुरृतुं नानुप्रपद्यते । । ८ । ।

(२,३.९अ) प्रजापतिर्वै यत्प्रजा असृजत ता वै तान्ता असृजत
(२,३.९ब्) ता हिंकारेणैवाभ्यजिघ्रत्[एद्. हिंकारेन, चोर्र्. Pअत्यल्]
(२,३.९च्) ताः प्रजा अश्वं आरंस्तद्बध्यते वा एतद्यज्ञो यद्धवींषि पच्यन्ते यत्सोमः सूयते यत्पशुरालभ्यते
(२,३.९द्) हिंकारेण वा एतत्प्रजापतिर्हतं अभिजिघ्रति यज्ञस्याहततायै यज्ञस्याप्त्यै यज्ञस्य वीर्यवत्ताया इति
(२,३.९ए) तस्मादु हिंक्रियते
(२,३.९फ़्) तस्मादु य एव पिता पुत्राणां सूर्क्षति स श्रेष्ठो भवति
(२,३.९ग्) प्रजापतिर्हि तं अभिजिघ्रति
(२,३.९ह्) यच्छकुनिराण्डं अध्यास्ते यन्न सूयते तद्धि सापि हिंकृणोति_
(२,३.९इ) अथो खल्वाहुर्महर्षिर्वा एतद्यज्ञस्याग्रे गेयं अपश्यत्
(२,३.९ज्) तदेतद्यज्ञस्याग्रे गेयं यद्धिंकारस्
(२,३.९क्) तं देवाश्च ऋषयश्चाब्रुवन्वसिष्ठोऽयं अस्तु यो नो यज्ञस्याग्रे गेयं अद्रागिति
(२,३.९ल्) तदेतद्यज्ञस्याग्रे गेयं यद्धिंकारस्
(२,३.९म्) ततो वै स देवानां श्रेष्ठोऽभवत्_
(२,३.९न्) येन वै श्रेष्ठस्तेन वसिष्ठस्
(२,३.९ओ) तस्माद्यस्मिन्वासिष्ठो ब्राह्मणः स्यात्तं दक्षिणाया नान्तरीयात्[एद्. स्यांत्]
(२,३.९प्) तथा हास्य प्रीतो हिंकारो भवति_
(२,३.९क़्) अथ देवाश्च ह वा ऋषयश्च यदृक्सामे अपश्यंस्ते ह स्मैते अपश्यन्_
(२,३.९र्) ते यत्रैते अपश्यंस्तत एवैनं सर्वं दोहं अदुहन्_
(२,३.९स्) ते वा एते दुग्धे यातयामे ये ऋक्सामे
(२,३.९त्) ते हिंकारेणैवाप्यायेते
(२,३.९उ) हिंकारेण वा ऋक्सामे आपीने यजमानाय दोहं दुहाते
(२,३.९व्) तस्मादु हिंकृत्याध्वर्यवः सोमं अभिषुण्वन्ति
(२,३.९w) हिंकृत्योद्गातारः साम्ना स्तुवन्ति
(२,३.९x) हिंकृत्योक्थश ऋचार्त्विज्यं कुर्वन्ति
(२,३.९य्) हिंकृत्याथर्वाणो ब्रह्मत्वं कुर्वन्ति
(२,३.९ज़्) तस्मादु हिंक्रियते
(२,३.९आ) प्रजापतिर्हि तं अभिजिघ्रति_
(२,३.९ब्ब्) अथो खल्वाहुरेको वै प्रजापतेर्व्रतं बिभर्ति गौरेव
(२,३.९च्च्) तदुभये पशव उपजीवन्ति ये च ग्राम्या ये चारण्या इति । । ९ । ।

(२,३.१०अ) देवविशः कल्पयितव्या इत्याहुः_
(२,३.१०ब्) छन्दश्छन्दसि प्रतिष्ठाप्यं इति
(२,३.१०च्) शंसावों इत्याह्वयते प्रातःसवने त्र्यक्षरेण
(२,३.१०द्) शंसावो दैवेत्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण
(२,३.१०ए) तदष्टाक्षरं संपद्यते_
(२,३.१०फ़्) अष्टाक्षरा वै गायत्री
(२,३.१०ग्) गायत्रीं एवैतत्पुरस्तात्प्रातःसवनेऽचीक्ळ्पताम्
(२,३.१०ह्) उक्थं वाचीत्याह शस्त्वा चतुरक्षरम्
(२,३.१०इ) ओमुक्थशा इत्यध्वर्युः प्रतिगृणाति चतुरक्षरम्_
(२,३.१०ज्) तदष्टाक्षरं संपद्यते_
(२,३.१०क्) अष्टाक्षरा वै गायत्री
(२,३.१०ल्) गायत्रीं एवैतदुभयतः प्रातःसवनेऽचीक्ळ्पताम्
(२,३.१०म्) अध्वर्यो शंसावों इत्याह्वयते माध्यंदिने षडक्षरेण
(२,३.१०न्) शंसावो दैवेत्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण
(२,३.१०ओ) तदेकादशाक्षरं संपद्यते_
(२,३.१०प्) एकादशाक्षरा वै त्रिष्टुप्त्रिष्टुभं एवैतत्पुरस्तान्माध्यंदिनेऽचीक्ळ्पताम्
(२,३.१०क़्) उक्थं वाचीन्द्रायेत्याह शस्त्वा षडक्षरम्
(२,३.१०र्) ओमुक्थशा यजेत्यध्वर्युः प्रतिगृणाति पञ्चाक्षरम्_
(२,३.१०स्) तदेकादशाक्षरं संपद्यते_
(२,३.१०त्) एकादशाक्षरा वै त्रिष्टुप्त्रिष्टुभं एवैतदुभयतो माध्यंदिनेऽचीक्ळ्पताम्
(२,३.१०उ) अध्वर्यो शंशंसावों इत्याह्वयते तृतीयसवने सप्ताक्षरेण
(२,३.१०व्) शंसवो दैवेत्यध्वर्युः प्रतिगृणाति पञ्चाक्षरम्_
(२,३.१०w) तद्द्वादशाक्षरं संपद्यते
(२,३.१०x) द्वादशाक्षरा वै जगती
(२,३.१०य्) जगतीं एवैतत्पुरस्तात्तृतीयसवनेऽचीक्ळ्पताम्
(२,३.१०ज़्) उक्थं वाचीन्द्राय देवेभ्य इत्याह शस्त्वा नवाक्षरम्
(२,३.१०आ) ओमुक्थशा इत्यध्वर्युः प्रतिगृणाति त्र्यक्षरम्_
(२,३.१०ब्ब्) तद्द्वादशाक्षरं संपद्यते
(२,३.१०च्च्) द्वादशाक्षरा वै जगती
(२,३.१०द्द्) जगतीं एवैतदुभयतस्तृतीयसवनेऽचीक्ळ्पतां इति_
(२,३.१०ई) एतद्वै तच्छन्दश्छन्दसि प्रतिष्ठापयति
(२,३.१०फ़्फ़्) कल्पयत्येव देवविशो य एवं वेद
(२,३.१०ग्ग्) तदप्येषाभ्यनूक्ता यद्गायत्रे अधि गायत्रं आहितं इति । । १० । ।

(२,३.११अ) अथैतन्नाना छन्दांस्यन्तरेण गर्ता इव_
(२,३.११ब्) अथैते स्थविष्ठे बलिष्ठे नान्तरे देवते
(२,३.११च्) ताभ्यां प्रतिपद्यते
(२,३.११द्) तद्गर्तस्कन्दं रोहस्य रूपं स्वर्ग्यम्_
(२,३.११ए) तदनवानं संक्रामेत्_
(२,३.११फ़्) अमृतं वै प्रणवः_
(२,३.११ग्) अमृतेनैव तन्मृत्युं तरति
(२,३.११ह्) तद्यथा मत्येन वा वंशेन वा गर्तं संक्रामेदेवं तत्प्रणवेनोपसंतनोति
(२,३.११इ) ब्रह्म ह वै प्रणवः_
(२,३.११ज्) ब्रह्मणैवास्मै तद्ब्रह्मोपसंतनोति
(२,३.११क्) शुद्धः प्रणवः स्यात्प्रजाकामानाम्_
(२,३.११ल्) मकारान्तः प्रतिष्ठाकामानाम्_
(२,३.११म्) मकारान्तः प्रणवः स्यादिति हैक आहुः
(२,३.११न्) शुद्ध इति त्वेव स्थितः_
(२,३.११ओ) मीमांसितः प्रणवः_
(२,३.११प्) अथात इह शुद्ध इह पूर्ण इति
(२,३.११क़्) शुद्धः प्रणवः स्यात्_
(२,३.११र्) शस्त्रानुवचनयोर्मध्य इति ह स्माह कौषीतकिस्
(२,३.११स्) तथा संहितं भवति
(२,३.११त्) मकारान्तोऽवसानार्थे
(२,३.११उ) प्रतिष्ठा वा अवसानम्_
(२,३.११व्) प्रतिष्ठित्या एव_
(२,३.११w) अथोभयोः कामयोराप्त्यै_
(२,३.११x) एतौ वै छन्दःप्रवाहाववरं छन्दः परं छन्दोऽतिप्रवहतस्
(२,३.११य्) तस्यायुर्न हिनस्ति
(२,३.११ज़्) छन्दसां छन्दोऽतिप्रोढं स्यात्तत्रैव यं द्विष्यात्तं मनसा प्रैव विध्येत्_
(२,३.११आ) छन्दसां कृन्तत्रे द्रवति वा सं वा शीर्यत इति
(२,३.११ब्ब्) त्रिः प्रथमां त्रिरुत्तमां अन्वाह यज्ञस्यैव तद्बर्हिसो नह्यति
(२,३.११च्च्) स्थेम्ने बलायाविस्रंसाय
(२,३.११द्द्) यद्यपि छन्दः प्रातःसवने युज्येतार्धर्चश एव तस्य शंस्यं गायत्र्या रूपेण_
(२,३.११ई) अथो प्रातःसवनरूपेणेति
(२,३.११फ़्फ़्) न त्रिष्टुब्जगत्यावेतस्मिन्स्थानेऽर्धर्चशस्ये यत्किं चिच्छन्दः प्रातःसवने युज्येतां पच्छ एवैनयोः शस्यं इति सा स्थितिः । । ११ । ।

(२,३.१२अ) अथात एकाहस्य प्रातःसवनम्_
(२,३.१२ब्) प्रजापतिं ह वै यज्ञं तन्वानं बहिष्पवमान एव मृत्युर्मृत्युपाशेन प्रत्युपाक्रामत
(२,३.१२च्) स आग्नेय्या गायत्र्याज्यं प्रत्यपद्यत
(२,३.१२द्) मृत्युर्वाव तं पश्यन्प्रजापतिं पर्यक्रामत्
(२,३.१२ए) तं सामाज्येष्ठसीदत्
(२,३.१२फ़्) स वायव्या प्र"उगं प्रत्यपद्यत
(२,३.१२ग्) मृत्युर्वाव तं पश्यन्प्रजापतिं पर्यक्रामत्
(२,३.१२ह्) तं माध्यंदिने पवमानेऽसीदत्
(२,३.१२इ) स ऐन्द्र्या त्रिष्टुभा मरुत्वतीयं प्रत्यपद्यत
(२,३.१२ज्) मृत्युर्वाव तं पश्यन्प्रजापतिं पर्यक्रामत्
(२,३.१२क्) स तेनैव द्रविणे पूर्वो निष्केवल्यस्य स्तोत्रियं आसीदत्
(२,३.१२ल्) तं अस्तृणोत्
(२,३.१२म्) तस्मादु य एव पूर्वं आसीदति स तत्स्तृणुते विद्वान्
(२,३.१२न्) मृत्युरनवकाशं अपाद्रवदशंसदितरो निष्केवल्यम्_
(२,३.१२ओ) तस्मादेकं एवोक्थं होता मरुत्वतीयेन प्रतिपद्यते निष्केवल्यं एव_
(२,३.१२प्) अत्र हि प्रजापतिं मृत्युर्व्यजहात् । । १२ । ।

(२,३.१३अ) मित्रावरुणावब्रवीद्युवं न इमं यज्ञस्याङ्गं अनुसमाहरतं मैत्रावरुणीयाम्_
(२,३.१३ब्) तथेत्यब्रूताम्_
(२,३.१३च्) तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्_
(२,३.१३द्) तौ ह्यस्यैतद्यज्ञस्याङ्गं अनुसमाहरतां मैत्रावरुणीयाम्_
(२,३.१३ए) तस्मान्मैत्रावरुणः प्रातःसवने मैत्रावरुणानि शंसति
(२,३.१३फ़्) तौ ह्यस्यैतद्यज्ञस्याङ्गं अनुसमाहरताम्_
(२,३.१३ग्) यद्वेव मैत्रावरुणानि शंसति <प्रति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः [èV७.६३.५]>_<उत वां उषसो बुधि साकं सूर्यस्य रश्मिभिः [èV१.१३७.२]>_इत्यृचाभ्यनूक्तम्
(२,३.१३ह्) <आ नो मित्रावरुणा [èV३.६२.१६]>_<आ नो गन्तं रिशादसा [èV५.७१.१]>_इति मैत्रावरुणस्य स्तोत्रियानुरूपौ
(२,३.१३इ) <प्र वो मित्राय गायत [èV५.६८.१]>_इत्युक्थमुखम्_
(२,३.१३ज्) <प्र मित्रयोर्वरुणयोः [èV७.६६.१]>_इति पर्यासः_
(२,३.१३क्) <आ यातं मित्रावरुणा [èV७.६६.१९]>_इति यजति_
(२,३.१३ल्) एते एव तद्देवते यथाभागं प्रीणाति
(२,३.१३म्) वषट्कृत्यानुवषट्करोति
(२,३.१३न्) प्रत्येवाभिमृशन्ते
(२,३.१३ओ) नाप्याययन्ति
(२,३.१३प्) न ह्यनाराशंसाः सीदन्ति । । १३ । ।

(२,३.१४अ) इन्द्रं अब्रवीत्त्वं न इमं यज्ञस्याङ्गं अनुसमाहर ब्राह्मणाच्छंसीयाम्_
(२,३.१४ब्) केन सहेति
(२,३.१४च्) सूर्येनेति
(२,३.१४द्) तथेत्यब्रूताम्_
(२,३.१४ए) तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्_
(२,३.१४फ़्) तौ ह्यस्यैतद्यज्ञस्याङ्गं अनुसमाहरतां ब्राह्मणाच्छंसीयाम्_
(२,३.१४ग्) तस्माद्ब्राह्मणाच्छंसी प्रातःसवन ऐन्द्राणि सूर्यन्यङ्गानि शंसति
(२,३.१४ह्) तौ ह्यस्यैतद्यज्ञस्याङ्गं अनुसमाहरताम्_
(२,३.१४इ) यद्वेवैन्द्राणि सूर्यन्यङ्गानि शंसति_<इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस्तव हि पूर्वपीतिः [èV१०.११२.१]>_इत्यृचाभ्यनूक्तम्
(२,३.१४ज्) <आ याहि सुषुमा हि ते [èV८.१७.१, Vऐत्S२१.१]>_<आ नो याहि सुतावतः [èV८.१७.४, Vऐत्S२१.१]>_इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ_
(२,३.१४क्) <अयं उ त्वा विचर्षणे [èV८.१७.७, Vऐत्S२१.२]>_इत्युक्थमुखम्
(२,३.१४ल्) <उद्घेदभिश्रुतामघं [èV८.९३.१, Vऐत्S२१.२]> इति पर्यासः_
(२,३.१४म्) <इन्द्र क्रतुविदं [èV३.४०.२]> इति यजति_
(२,३.१४न्) एते एव तद्देवते यथाभागं प्रीणाति
(२,३.१४ओ) वषट्कृत्यानुवषट्करोति
(२,३.१४प्) प्रत्येवाभिमृशन्ते
(२,३.१४क़्) नाप्याययन्ति
(२,३.१४र्) न ह्यनाराशंसाः सीदन्ति । । १४ । ।

(२,३.१५अ) इन्द्राग्नी अब्रवीद्युवं न इमं यज्ञस्याङ्गं अनुसमाहरतं अच्छावाकीयाम्_
(२,३.१५ब्) तथेत्यब्रूताम्_
(२,३.१५च्) तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्_
(२,३.१५द्) तौ ह्यस्यैतद्यज्ञस्याङ्गं अनुसमाहरतां अच्छावाकीयाम्_
(२,३.१५ए) तस्मादच्छावाकः प्रातःसवन ऐन्द्राग्नानि शंसति
(२,३.१५फ़्) तौ ह्यस्यैतद्यज्ञस्याङ्गं अनुसमाहरताम्_
(२,३.१५ग्) यद्वेवैन्द्राग्नानि शंसति <प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू इन्द्राग्नी सोमपीतये [èV८.३८.७]>_इत्यृचाभ्यनूक्तम्
(२,३.१५ह्) <इन्द्राग्नी आ गतं [èV३.१२.१]>_<तोशा वृत्रहणा हुवे [èV३.१२.४]>_इत्यच्छावाकस्य स्तोत्रियानुरूपौ_ [एद्. तोषा, चोर्रेच्तेद्प्. ३०२]
(२,३.१५इ) <इन्द्राग्नी अपसस्परि [èV३.१२.७]>_इत्युक्थमुखम्
(२,३.१५ज्) <इहेन्द्राग्नी उपह्वये [èV१.२१.१]>_इति पर्यासः_
(२,३.१५क्) <इन्द्राग्नी आ गतम्> इति यजति_
(२,३.१५ल्) एते एव तद्देवते यथाभागं प्रीणाति
(२,३.१५म्) वषट्कृत्यानुवषट्करोति
(२,३.१५न्) प्रत्येवाभिमृशन्ते
(२,३.१५ओ) नाप्याययन्ति
(२,३.१५प्) न ह्यनाराशंसाः सीदन्ति । । १५ । ।

(२,३.१६अ) अथ शंसावों इति स्तोत्रियायानुरूपायोक्थमुखाय परिधानीयाया इति चतुश्चतुराह्वयन्ते
(२,३.१६ब्) चतस्रो वै दिशः_ [एद्. चसस्रो]
(२,३.१६च्) दिक्षु तत्प्रतितिष्ठन्ति_
(२,३.१६द्) अथो चतुष्पादः पशवः
(२,३.१६ए) पशूनां आप्त्यै_
(२,३.१६फ़्) अथो चतुष्पर्वाणो हि प्रातःसवने होत्रकास्
(२,३.१६ग्) तस्माच्चतुः सर्वे गायत्राणि शंसन्ति
(२,३.१६ह्) गायत्रं हि प्रातःसवनम्_
(२,३.१६इ) सर्वे समवतीभिः परिदधति
(२,३.१६ज्) तद्यत्समवतीभिः परिदधति
(२,३.१६क्) अन्तो वै पर्यासः_
(२,३.१६ल्) अन्त उदर्कः_
(२,३.१६म्) अन्तेनैवान्तं परिदधति
(२,३.१६न्) सर्वे मद्वतीभिर्यजन्ति
(२,३.१६ओ) तद्यन्मद्वतीभिर्यजन्ति सर्वे सुतवतीभिः पीतवतीभिरभिरूपाभिर्यजन्ति
(२,३.१६प्) यद्यज्ञेऽभिरूपं तत्समृद्धम्_
(२,३.१६क़्) सर्वेऽनुवषट्कुर्वन्ति
(२,३.१६र्) स्विष्टकृत्वानुवषट्कारः_
(२,३.१६स्) नेत्स्विष्टकृतं अन्तरयामेति_
(२,३.१६त्) अयं वै लोकः प्रातःसवनम्_
(२,३.१६उ) तस्य पञ्च दिशः पञ्चोक्थानि प्रातःसवनस्य
(२,३.१६व्) स एतैः पञ्चभिरुक्थैरेताः पञ्च दिश आप्नोत्येताः पञ्च दिश आप्नोति । । १६ । ।

(२,३.१७अ) घ्नन्ति वा एतत्सोमं यदभिषुण्वन्ति
(२,३.१७ब्) यज्ञं वा एतद्धन्ति यद्दक्षिणा नीयन्ते
(२,३.१७च्) यज्ञं वा एतद्दक्षयन्ति
(२,३.१७द्) तद्दक्षिणानां दक्षिणात्वम्_
(२,३.१७ए) स्वर्गो वै लोको माध्यंदिनं सवनम्_
(२,३.१७फ़्) यन्माध्यंदिने सवने दक्षिणा नीयन्ते स्वर्गस्य लोकस्य समष्ट्यै
(२,३.१७ग्) बहु देयम्_
(२,३.१७ह्) सेतुं वा एतद्यजमानः संस्कुरुते
(२,३.१७इ) स्वर्गस्य लोकस्याक्रान्त्यै प्रजाक्रान्त्यै
(२,३.१७ज्) द्वाभ्यां गार्हपत्ये जुहोति_
(२,३.१७क्) अध्वर्युरस्याक्रान्तेनाक्रामयति_
(२,३.१७ल्) आग्नेय्याग्नीध्रीये_
(२,३.१७म्) अन्तरिक्षं तेन
(२,३.१७न्) यन्माध्यंदिने सवने दक्षिणा नीयन्ते स्वर्ग एतेन लोके
(२,३.१७ओ) हिरण्यं हस्ते भवति_
(२,३.१७प्) अथ नयति
(२,३.१७क़्) सत्यं वै हिरण्यम्_
(२,३.१७र्) सत्येनैवैनं तन्नयति_
(२,३.१७स्) अग्रेण गार्हपत्यं जघनेन सदोऽन्तराग्नीध्रीयं च सदश्च
(२,३.१७त्) ता उदीचीरन्तराग्नीध्रीयं च सदश्च चात्वालं चोत्सृजन्ति_
(२,३.१७उ) एतेन ह स्म वा अङ्गिरसः स्वर्गं लोकं आयन्_
(२,३.१७व्) ता वा एताः पन्थानं अभिवहन्ति । । १७ । ।

(२,३.१८अ) अग्नीधेऽग्रे ददाति
(२,३.१८ब्) यज्ञमुखं वा अग्नीत्_
(२,३.१८च्) यज्ञमुखेनैव तद्यज्ञमुखं समर्धयति
(२,३.१८द्) ब्रह्मणे ददाति
(२,३.१८ए) प्राजापत्यो वै ब्रह्मा
(२,३.१८फ़्) प्रजापतिं एव तया प्रीणाति_
(२,३.१८ग्) ऋत्विग्भ्यो ददाति
(२,३.१८ह्) होत्रा एव तया प्रीणाति
(२,३.१८इ) सदस्येभ्यो ददाति
(२,३.१८ज्) सोमपीथं तया निष्क्रीणीते
(२,३.१८क्) न हि तस्मा अर्हति सोमपीथं तया निष्क्रीणीयात्_
(२,३.१८ल्) यां श्रुश्रुवुष आर्षेयाय ददाति देवलोके तयार्ध्नोति
(२,३.१८म्) यां अश्रुश्रुवुषेऽनार्षेयाय ददाति मनुष्यलोके तयार्ध्नोति
(२,३.१८न्) यां अप्रसृप्ताय ददाति वनस्पतस्तया प्रथन्ते
(२,३.१८ओ) यां याचमानाय ददाति भ्रातृव्यं तया जिन्वीते
(२,३.१८प्) यां भीषा क्षत्रं तया ब्रह्मातीयात्_
(२,३.१८क़्) यां प्रतिनुदन्ते सा व्याघ्री दक्षिणा
(२,३.१८र्) यस्तां पुनः प्रतिगृह्णीयाद्व्याघ्र्येनं भूत्वा प्रव्लीनीयात्_
(२,३.१८स्) अन्यया सह प्रतिगृह्णीयात्_
(२,३.१८त्) अथ हैनं न प्रव्लीनाति । । १८ । ।

(२,३.१९अ) यद्गां ददाति वैश्वदेवी वै गौः_
(२,३.१९ब्) विश्वेषां एव तद्देवानां तेन प्रियं धामोपैति
(२,३.१९च्) यदजं ददात्याग्नेयो वा अजः_
(२,३.१९द्) अग्नेरेव तेन प्रियं धामोपैति
(२,३.१९ए) यदविं ददात्याव्यं तेनावजयति
(२,३.१९फ़्) यत्कृतान्नं ददाति मांसं तेन निष्क्रीणीते
(२,३.१९ग्) यदनो वा रथो वा ददाति शरीरं तेन
(२,३.१९ह्) यद्वासो ददाति ब्रृहस्पतिं तेन
(२,३.१९इ) यद्धिरण्यं ददात्यायुस्तेन वर्षीयः कुरुते
(२,३.१९ज्) यदश्वं ददाति सौर्यो वा अश्वः
(२,३.१९क्) सूर्यस्यैव तेन प्रियं धामोपैति_
(२,३.१९ल्) अन्ततः प्रतिहर्त्रे देयम्_
(२,३.१९म्) रौद्रौ वै प्रतिहर्ता
(२,३.१९न्) रुद्रं एव तन्निरवजयति
(२,३.१९ओ) यन्मध्यतः प्रतिहर्त्रे दद्यान्मध्यतो रुद्रं अन्ववयजेत्
(२,३.१९प्) स्वर्भानुर्वा आसुरः सूर्यं तमसाविध्यत्
(२,३.१९क़्) तदत्रिरपनुनोद
(२,३.१९र्) तदत्रिरन्वपश्यत्_
(२,३.१९स्) यदात्रेयाय हिरण्यं ददाति तम एव तेनापहते_
(२,३.१९त्) अथो ज्योतिरुपरिष्टाद्धारयति
(२,३.१९उ) स्वर्गस्य लोकस्य समष्ट्यै । । १९ । ।

(२,३.२०अ) अथात एकाहस्यैव माध्यंदिनम्
(२,३.२०ब्) ऋक्च वा इदं अग्ने साम चास्तां
(२,३.२०च्) सैव नामर्गासीत्_
(२,३.२०द्) अमो नाम साम
(२,३.२०ए) सा वा ऋक्सामोपावदन्मिथुनं संभवाव प्रजात्या इति
(२,३.२०फ़्) नेत्यब्रवीत्साम
(२,३.२०ग्) ज्यायान्वा अतो मम महिमेति
(२,३.२०ह्) ते द्वे भूत्वोपावदताम्_
(२,३.२०इ) ते न प्रति चन समवदत
(२,३.२०ज्) तास्तिस्रो भूत्वोपावदन्
(२,३.२०क्) यत्तिस्रो भूत्वोपावदंस्तत्तिसृभिः समभवत्_
(२,३.२०ल्) यत्तिसृभिः समभवत्तस्मात्तिसृभिः स्तुवन्ति
(२,३.२०म्) तिसृभिरुद्गायन्ति
(२,३.२०न्) तिसृभिर्हि साम संमितं भवति
(२,३.२०ओ) तस्मादेकस्य बह्व्यो जाया भवन्ति
(२,३.२०प्) न हैकस्या बहवः सह पतयः_
(२,३.२०क़्) यद्वै तत्सा चामश्च समवदतां तत्सामाभवत्
(२,३.२०र्) तत्साम्नः सामत्वम्_
(२,३.२०स्) सामन्भवति
(२,३.२०त्) श्रेष्ठतां गच्छति
(२,३.२०उ) यो वै भवति स सामन्भवति_
(२,३.२०व्) असामन्य इति ह निन्दन्ते
(२,३.२०w) ते वै पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वाकल्पेतां आहावश्च हिंकारश्च प्रस्तावश्च प्रथमा चर्गुद्गीथश्च मध्यमा च प्रतीहारश्चोत्तमा च निधनं च वषट्कारश्च ते यत्पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वाकल्पेतां तस्मादाहुः पाङ्क्तो यज्ञः
(२,३.२०x) पाङ्क्ताः पशव इति
(२,३.२०य्) यदु विराजं दशिनीं अभिसंपद्येतां तस्मादाहुर्विराजि यज्ञो दशिन्यां प्रतिष्ठित इति
(२,३.२०ज़्) यदु बृहत्या प्रतिपद्यते बार्हतो वा एष य एष तपति
(२,३.२०आ) तदेनं स्वेन रूपेण समर्धयति [एद्. रुपेण]
(२,३.२०ब्ब्) द्वे तिस्रः करोति पुनरादायम्_
(२,३.२०च्च्) प्रजात्यै रूपम्_
(२,३.२०द्द्) द्वाविवाग्रे भवतस्
(२,३.२०ई) तत उपप्रजायेते । । २० । ।

(२,३.२१अ) आत्मा वै स्तोत्रियः
(२,३.२१ब्) प्रजा अनुरूपः
(२,३.२१च्) पत्नी धाय्या
(२,३.२१द्) पशवः प्रगाथः_
(२,३.२१ए) गृहाः सूक्तम्_
(२,३.२१फ़्) यदन्तरात्मंस्तन्निवित्
(२,३.२१ग्) प्रतिष्ठा परिधानीयान्नं याज्या
(२,३.२१ह्) सोऽस्मिंश्च लोके भवत्यमुष्मिंश्च प्रजया च पशुभिश्च गृहेषु भवति य एवं वेद । । २१ । ।

(२,३.२२अ) स्तोत्रियं शंसति_
(२,३.२२ब्) आत्मा वै स्तोत्रियः
(२,३.२२च्) स मध्यमया वाचा शंस्तव्यः_
(२,३.२२द्) आत्मानं एवास्य तत्कल्पयत्यनुरूपं शंसति
(२,३.२२ए) प्रजा वा अनुरूपः_
(२,३.२२फ़्) तस्मात्प्रतिरूपं अनुरूपं कुर्वन्ति
(२,३.२२ग्) प्रतिरूपो हैवास्य प्रजायां आजायते नाप्रतिरूपः_
(२,३.२२ह्) तस्मात्प्रतिरूपं अनुरूपं कुर्वन्ति
(२,३.२२इ) स उच्चैस्तरां इव शंस्तव्यः
(२,३.२२ज्) प्रजां एवास्य तच्छ्रेयसीं करोति
(२,३.२२क्) धाय्यां शंसति
(२,३.२२ल्) पत्नी वै धाय्या
(२,३.२२म्) सा नीचैस्तरां इव शंस्तव्या_
(२,३.२२न्) अप्रतिवादिनी हैवास्य गृहेषु पत्नी भवति यत्रैवंविद्वान्नीचैस्तरां धाय्यां शंसति
(२,३.२२ओ) प्रगाथं शंसति
(२,३.२२प्) पशवो वै प्रगाथः
(२,३.२२क़्) सः स्वरवत्या वाचा शंस्तव्यः
(२,३.२२र्) पशवो वै प्रगाथः
(२,३.२२स्) पशवः स्वरः
(२,३.२२त्) पशूनां आप्त्यै
(२,३.२२उ) सूक्तं शंसति
(२,३.२२व्) गृहा वै सूक्तम्_
(२,३.२२w) प्रतिवीतम्_
(२,३.२२x) तत्प्रतिवीततमया वाचा शंस्तव्यम्_
(२,३.२२य्) स यद्यपि ह दूरात्पशूंल्लभते गृहानेवैनानाजिगमिषति
(२,३.२२ज़्) गृहा हि पशूनां प्रतिष्ठा
(२,३.२२आ) निविदं शंसति
(२,३.२२ब्ब्) यदन्तरात्मंस्तन्निवित्
(२,३.२२च्च्) तदेवास्य तत्कल्पयति
(२,३.२२द्द्) परिधानीयां शंसति
(२,३.२२ई) प्रतिष्ठा वै परिधानीया
(२,३.२२फ़्फ़्) प्रतिष्ठायां एवैनं ततः प्रतिष्ठापयति
(२,३.२२ग्ग्) याज्यया यजति_
(२,३.२२ह्ह्) अन्नं वै याज्या_
(२,३.२२इइ) अन्नाद्यं एवास्य तत्कल्पयति
(२,३.२२ज्ज्) मूलं वा एतद्यज्ञस्य यद्धाय्याश्च याज्याश्च
(२,३.२२क्क्) तद्यदन्या अन्या धाय्याश्च याज्याश्च कुर्युरुन्मूलं एव तद्यज्ञं कुर्युस्तस्मात्ताः समान्य एव स्युः । । २२ । ।

(२,३.२३अ) तदाहुः किंदेवत्यो यज्ञ इति_
(२,३.२३ब्) ऐन्द्र इति ब्रूयात्_
(२,३.२३च्) ऐन्द्रे वाव यज्ञे सति यथाभागं अन्या देवता अन्वायंस्ताः प्रातःसवने मरुत्वतीये तृतीयसवने च_
(२,३.२३द्) अथ हैतत्केवलं एवेन्द्रस्य यदूर्ध्वं मरुत्वतीयात्
(२,३.२३ए) तस्मात्सर्वे निष्केवल्यानि शंसन्ति
(२,३.२३फ़्) यदेव निष्केवल्यानि तत्स्वर्गस्य लोकस्य रूपम्_
(२,३.२३ग्) यद्वेव निष्केवल्यान्येकं ह वा अग्रे सवनं आसीत्प्रातःसवनं एव_
(२,३.२३ह्) अथ हैतं प्रजापतिरिन्द्राय ज्येष्ठाय पुत्रायैतत्सवनं निरमिमीत यन्माध्यंदिनं सवनम्_
(२,३.२३इ) तस्मान्माध्यंदिने सवने सर्वे निष्केवल्यानि शंसन्ति
(२,३.२३ज्) यदेव निष्केवल्यानि तत्स्वर्गस्य लोकस्य रूपम्_
(२,३.२३क्) यद्वेव निष्केवल्यानि या ह वै देवताः प्रातःसवने होता शंसति ताः शस्त्वा होत्राशंसिनोऽनुशंसन्ति मैत्रावरुणं तृचं प्रऽउगे होता शंसति
(२,३.२३ल्) तदुभयं मैत्रावरुणं मैत्रावरुणोऽनुशंसति_
(२,३.२३म्) ऐन्द्रं तृचं प्रऽउगे होता शंसति
(२,३.२३न्) तदुभयं ऐन्द्रम्
(२,३.२३ओ) ऐन्द्रं ब्राह्मणाच्छंस्यनुशंसति_
(२,३.२३प्) ऐन्द्राग्नं तृचं प्रऽउगे होता शंसति
(२,३.२३क़्) तदुभयं ऐन्द्राग्नाग्नं अच्छावाकोऽनुशंसति_
(२,३.२३र्) अथ हैतत्केवलं एवेन्द्रस्य यदूर्ध्वं मरुत्वतीयात्
(२,३.२३स्) तस्मात्सर्वे निष्केवल्यानि शंसन्ति
(२,३.२३त्) यदेव निष्केवल्यानि तत्स्वर्गस्य लोकस्य रूपम्_
(२,३.२३उ) यद्वेव निष्केवल्यानि <यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य [èV७.९८.५, ऋS२०.८७.५]>_इत्यृचाभ्यनूक्तम्_
(२,३.२३व्) देवान्ह यज्ञं तन्वानानसुररक्षांस्यजिघांसन्_
(२,३.२३w) तेऽब्रुवन्वामदेवं त्वं न इमं यज्ञं दक्षिणतो गोपायेति
(२,३.२३x) मध्यतो वसिष्ठम्
(२,३.२३य्) उत्तरतो भरद्वाजम्_
(२,३.२३ज़्) सर्वाननु विश्वामित्रम्_
(२,३.२३आ) तस्मान्मैत्रावरुणो वामदेवान्न प्रच्यवते वसिष्ठाद्ब्राह्मणाच्छंसी भरद्वाजाअ अच्छावाकः सर्वे विश्वामित्रात्_
(२,३.२३ब्ब्) एत एवास्मै तदृषयोऽहरहर्नमगा अप्रमत्ता यज्ञं रक्षन्ति य एवं वेद य एवं वेद । । २३ । ।

(२,३.२३चोल्) इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे तृतीयः प्रपाठकः । ।

(२,४.१अ) ओं <कया नश्चित्र आ भुवत्[èV४.३१.१, ऋS२०.१२४.१]> <कया त्वं न ऊत्या [èV८.९३.१९]>_इति मैत्रावरुणस्य स्तोत्रियानुरूपौ
(२,४.१ब्) <कस्तं इन्द्र त्वावसुं [èV७.३२.१४]> इति बार्हतः प्रगाथस्
(२,४.१च्) तस्योपरिष्टाद्ब्राह्मणम्_
(२,४.१द्) <सद्यो ह जातो वृषभः कनीनः [èV३.४८.१]>_इत्युक्थमुखम्
(२,४.१ए) <एवा त्वां इन्द्र वज्रिन्नत्र [èV४.१९.१]>_इति पर्यासः_
(२,४.१फ़्) <उशन्नु षु णः सुमना उपाके [èV४.२०.४]>_इति यजति_
(२,४.१ग्) एतां एव तद्देवतां यथाभागं प्रीणाति
(२,४.१ह्) वषट्कृत्यानुवषट्करोति
(२,४.१इ) प्रत्येवाभिमृशन्ते [एद्. सीम्स्तो गिवे एवाभिमृशन्त]
(२,४.१ज्) नाप्याययन्ति
(२,४.१क्) न ह्यनाराशंसाः सीदन्ति । । १ । ।

(२,४.२अ) <तं वो दस्मं ऋतीषहं [èV८.८८.१, ऋS२०.९.१]> <तत्त्वा यामि सुवीर्यं [èV८.३.९, ऋS२०.९.४]> इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ_
(२,४.२ब्) <उदु त्ये मधुमत्तमा गिरः [èV८.३.१५, ऋS२०.५९.१]>_इति बार्हतः प्रगाथः
(२,४.२च्) पशवो वै प्रगाथः
(२,४.२द्) पशवः स्वरः
(२,४.२ए) पशूनां आप्त्यै_
(२,४.२फ़्) अतो मध्यं वै सर्वेषां छन्दसां बृहती
(२,४.२ग्) मध्यं माध्यंदिनं सवनानाम्_
(२,४.२ह्) तन्मध्येनैव मध्यं समर्धयति_
(२,४.२इ) <इन्द्रः पूर्भिदातिरद्दासं अर्कैः [èV३.३४.१, ऋS२०.११.१]>_इत्युक्थमुखम्
(२,४.२ज्) <उदु ब्रह्माण्यैरत श्रवस्या [èV७.२३.१, ऋS२०.१२.१]>_इति पर्यासः_
(२,४.२क्) <एवेदिन्द्रं वृषणं वज्रबाहुं [èV७.२३.६अ, ऋS२०.१२.६अ]> इति परिदधाति
(२,४.२ल्) <वसिष्ठासो अभ्यर्चन्त्यर्कैः [èV७.२६.६ब्, ऋS२०.१२.६ब्]>_इति_
(२,४.२म्) अन्नं वा अर्कः_
(२,४.२न्) अन्नाद्यं एवास्मै तत्परिदधाति
(२,४.२ओ) <स न स्तुतो वीरवद्धातु गोमत्[èV७.२६.६च्, ऋS२०.१२.६च्]>_इति
(२,४.२प्) अन्नं वा अर्कः_इति
(२,४.२क़्) प्रजां चैवास्मै तत्पशूंश्चाशास्ते
(२,४.२र्) <यूयं पात स्वस्तिभिः सदा नः [èV७.२६.६द्, ऋS२०.१२.६द्]>_इति स्वस्तिमती रूपसमृद्धा
(२,४.२स्) एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणं ऋग्यजुर्वाभिवदति
(२,४.२त्) स्वस्ति तस्य यज्ञस्य पारं अश्नुते य एवं वेद यश्चैवंविद्वान्ब्राह्मणाच्छंस्येतया परिदधाति_
(२,४.२उ) <ऋजीषी वज्री वृषभस्तुराषाट्[èV५.४०.४, ऋS२०.१२.७]>_इति यजति_ [एद्. ऋजिषी, चोर्रेच्तेद्प्. ३०२]
(२,४.२व्) एतां एव तद्देवतां यथाभागं प्रीणाति
(२,४.२w) वषट्कृत्यानुवषट्करोति
(२,४.२x) प्रत्येवाभिमृशन्ते
(२,४.२य्) नाप्याययन्ति
(२,४.२ज़्) न ह्यनाराशंसाः सीदन्ति । । २ । ।

(२,४.३अ) <तरोभिर्वो विदद्वसुं [èV८.६६.१]>_<तरणिरित्सिषासति [èV७.३२.२०]>_इत्यच्छावाकस्य स्तोत्रियानुरूपौ_
(२,४.३ब्) <उदिन्न्वस्य रिच्यते [èV७.३२.१२, ऋS२०.५९.३]>_इति बार्हतः प्रगाथस्
(२,४.३च्) तस्योक्तं ब्राह्मणम्_
(२,४.३द्) <भूय इद्वावृधे वीर्याय [èV६.३०.१]>_इत्युक्थमुखम्
(२,४.३ए) <इमां ऊ षु प्रभृतिं सातये धाः [èV३.३६.१]>_इति पर्यासस्
(२,४.३फ़्) तस्य दशमीं उद्धरति
(२,४.३ग्) घोरस्य वा आङ्गिरसस्यैतदार्षं नेद्यज्ञं निर्दहेच्छस्यमानम्_
(२,४.३ह्) <पिबा वर्धस्व तव घा सुतासः [èV३.३६.३]>_इति यजति_
(२,४.३इ) एतां एव तद्देवतां यथाभागं प्रीणाति
(२,४.३ज्) वषट्कृत्यानुवषट्करोति
(२,४.३क्) प्रत्येवाभिमृशन्ते
(२,४.३ल्) नाप्याययन्ति
(२,४.३म्) न ह्यनाराशंसाः सीदन्ति । । ३ । ।

(२,४.४अ) अथाध्वर्यो शंसावों इति स्तोत्रियायानुरूपाय प्रगाथायोक्थमुखाय परिधानीयाया इति पञ्च कृत्व आह्वयन्ते
(२,४.४ब्) पञ्चपदा पङ्क्तिः
(२,४.४च्) पाङ्क्तो यज्ञः
(२,४.४द्) सर्व ऐन्द्राणि त्रैष्टुभानि शंसन्ति_
(२,४.४ए) ऐन्द्रं हि त्रैष्टुभं माध्यंदिनं सवनम्_
(२,४.४फ़्) सर्वे समवतीभिः परिदधति
(२,४.४ग्) तद्यत्समवतीभिः परिदधत्यन्तो वै पर्यासोऽन्त उदर्कः_
(२,४.४ह्) अन्तेनैवान्तं परिदधति
(२,४.४इ) सर्वे मद्वतीभिर्यजन्ति
(२,४.४ज्) तद्यन्मद्वतीभिर्यजन्ति सर्वे सुतवतीभिः पीतवतीभिरभिरूपाभिर्यजन्ति
(२,४.४क्) यद्यज्ञेऽभिरूपं तत्समृद्धम्_
(२,४.४ल्) सर्वेऽनुवषट्कुर्वन्ति
(२,४.४म्) स्विष्टकृत्वानुवषट्कारः_
(२,४.४न्) नेत्स्विकृत अन्तरयामेति_
(२,४.४ओ) अन्तरिक्षलोको माध्यंदिनं सवनम्_
(२,४.४प्) तस्य पञ्च दिशः
(२,४.४क़्) पञ्चोक्थानि माध्यंदिनस्य सवनस्य
(२,४.४र्) स एतैः पञ्चभिरुक्थैरेताः पञ्च दिश आप्नोत्येताः पञ्च दिश आप्नोति । । ४ । ।

(२,४.५अ) अथ यदौपासनं तृतीयसवन उपास्यन्ते पितॄनेव तेन प्रीणाति_
(२,४.५ब्) उपांशु पात्नीवतस्याग्नीध्रो यजति
(२,४.५च्) रेतो वै पात्नीवतः_
(२,४.५द्) उपांश्विव वै रेतः सिच्यते
(२,४.५ए) तन्नानुवषट्करोति नेद्रेतः सिक्तं संस्थापयानीति_
(२,४.५फ़्) असंस्थितं इव वै रेतः सिक्तं समृद्धम्_
(२,४.५ग्) संस्था वा एषा यदनुवषट्कारस्
(२,४.५ह्) तस्मान्नानुवषट्करोति
(२,४.५इ) नेष्टुरुपस्थे धिष्ण्यान्ते वासीनो भक्षयति
(२,४.५ज्) पत्नीभाजनं वै नेष्टा_
(२,४.५क्) अग्नीत्पत्नीषु रेतो धत्ते
(२,४.५ल्) रेतसः सिक्ताः प्रजाः प्रजायन्ते
(२,४.५म्) प्रजानां प्रजननाय
(२,४.५न्) प्रजावान्प्रजनयिष्णुर्भवति
(२,४.५ओ) प्रजात्यै
(२,४.५प्) प्रजायते प्रजया पशुभिर्य एवं वेद । । ५ । ।

(२,४.६अ) अथ शाकलाञ्जुह्वति
(२,४.६ब्) तद्यथाहिर्जीर्णायास्त्वचो निर्मुच्येतेषीका वा मुञ्जादेवं हैवैते सर्वस्मात्पाप्मनः संप्रमुच्यन्ते ये शाकलाञ्जुह्वति
(२,४.६च्) द्रोणकलशे धाना भवन्ति
(२,४.६द्) तासां हस्तैरादधति
(२,४.६ए) पशवो वै धानास्
(२,४.६फ़्) ता आहवनीयस्य भस्मान्ते निवपन्ति
(२,४.६ग्) योनिर्वै पशूनां आहपनीयः
(२,४.६ह्) स्व एवैनांस्तद्गोष्ठे निरपक्रमे निदधति_
(२,४.६इ) अथ सव्यावृतोऽप्सु सोमानाप्याययन्ति
(२,४.६ज्) तान्हान्तर्वेद्यां सादयन्ति
(२,४.६क्) तद्धि सोमस्यायतनम्_
(२,४.६ल्) चात्वालादपरेणाध्वर्युश्चमसानद्भिः पूरयित्वोदीचः प्राणिधाय हरितानि तृणानि व्यवदधाति
(२,४.६म्) यदा वा आपश्चौषधयश्च संगच्छन्तेऽथ कृत्स्नः सोमः संपद्यते
(२,४.६न्) ता वैष्णव्यर्चा निनयन्ति
(२,४.६ओ) यज्ञो वै विष्णुः_
(२,४.६प्) यज्ञ एवैनं अन्ततः प्रतिष्ठापयति_
(२,४.६क़्) अथ यद्भक्षः प्रतिनिधिं कुर्वन्ति मानुषेनैवैनं तद्भक्षेण दैवं भक्षं अन्तर्दधति । । ६ । ।

(२,४.७अ) पूतिर्वा एषोऽमुष्मिंल्लोकेऽध्वर्युं च यजमानं चाभिवहति
(२,४.७ब्) तद्यदेनं दध्नानभिहुत्यावभृथं उपहरेयुर्यथा कुणपं वात्येवं एवैनं तत्करोति_
(२,४.७च्) अथ यदेनं दध्नाभिहुत्यावभृथं उपहरन्ति सर्वं एवैनं सयोनिं संतनुते
(२,४.७द्) समृद्धिं संभरन्ति_
(२,४.७ए) <अभूद्देवः सविता वन्द्यो नु नः [èV४.५४.१]>_इति जुहोति
(२,४.७फ़्) सर्वं एवैनं सपर्वाणं संभरति [एद्. अवैनं]
(२,४.७ग्) तिसृभिस्
(२,४.७ह्) त्रिवृद्धि यज्ञः_
(२,४.७इ) द्रप्सवतीभिरभिजुहोति
(२,४.७ज्) सर्वं एवैनं सर्वाङ्गं संभरति
(२,४.७क्) स्ॐईभिरभिजुहोति
(२,४.७ल्) सर्वं एवैनं सात्मानं संभरति
(२,४.७म्) पञ्चभिरभिजुहोति
(२,४.७न्) पाङ्क्तो यज्ञः_
(२,४.७ओ) यज्ञं एवावरुन्द्धे
(२,४.७प्) पाङ्क्तः पुरुषः
(२,४.७क़्) पुरुषं एवाप्नोति
(२,४.७र्) पाङ्क्ताः पशवः
(२,४.७स्) पशुष्वेव प्रतितिष्ठति
(२,४.७त्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद । । ७ । ।

(२,४.८अ) अग्निर्वाव यम इयं यमी
(२,४.८ब्) कुसीदं वा एतद्यमस्य यजमान आदत्ते यदोषधीभिर्वेदिं स्तृणाति
(२,४.८च्) तां यदनुपोष्य प्रयायाद्यातयेरन्नेनं अमुष्मिंल्लोके
(२,४.८द्) यमे यत्कुसीदं <अपमित्यं अप्रतीत्तं [PS१६.४९.१०, ऋS६.११७.१, Vऐत्S२४.१५]> इति वेदिं उपोषति_
(२,४.८ए) इहैव सन्यमं कुसीदं निरवदायानृणो भूत्वा स्वर्गं लोकं एति
(२,४.८फ़्) <विश्वलोप विश्वदावस्य त्वासञ्जुहोमि [ठ्S३.३.८.२, Vऐत्S२४.१६]>_इत्याह होताद्वा
(२,४.८ग्) यजमानस्यापराभावाय
(२,४.८ह्) यदु मिश्रं इव चरन्त्यञ्जलिना सक्तून्प्रदाव्ये जुहुयात्_
(२,४.८इ) एष ह वा अग्निर्वैश्वानरो यत्प्रदाव्यः
(२,४.८ज्) स्वस्यां एवैनं तद्योन्यां सादयति । । ८ । ।

(२,४.९अ) अह्नां विधान्यां एकाष्टकायां अपूपं चतुःशरावं पक्त्वा प्रातरेतेन कक्षं उपोषेत्_
(२,४.९ब्) यदि दहति पुण्यसमं भवति
(२,४.९च्) यति न दहति पापसमं भवति_
(२,४.९द्) एतेन ह स्म वा अङ्गिरसः पुरा विज्ञानेन दीर्घसत्त्त्रं उपयन्ति
(२,४.९ए) यो ह वा उपद्रष्टारं उपश्रोतारं अनुख्यातारं एव विद्वान्यजते सं अमुष्मिंल्लोक इष्टापूर्तेन गच्छते_
(२,४.९फ़्) अग्निर्वा उपद्रष्टा
(२,४.९ग्) वायुर्वा उपश्रोता_
(२,४.९ह्) आदित्यो वा अनुख्याता
(२,४.९इ) तान्य एवंविद्वान्यजते सं अमुष्मिंल्लोक इष्टापूर्तेन गच्छते_
(२,४.९ज्) <अयं नो नभसस्पतिः [PS१९.१६.१७, ऋS६.७९.१, च्फ़्. ठ्S३.३.८.५]>_इत्याह_
(२,४.९क्) अग्निर्वै नभसस्पतिः_
(२,४.९ल्) अग्निं एव तदाहैतं नो गोपायेति
(२,४.९म्) <स त्वं नो नभसस्पतिः [च्फ़्. ठ्S३.३.८.६]>_इत्याह
(२,४.९न्) वायुर्वै नभसस्पतिः_
(२,४.९ओ) वायुं एव तदाहैतं नो गोपायेति
(२,४.९प्) <देव संस्फान [ठ्S३.३.८.६]>_इत्याह_
(२,४.९क़्) आदित्यो वै देवः संस्फानः_
(२,४.९र्) आदित्यं एव तदाहैतं नो गोपायेति_
(२,४.९स्) <अयं ते योनिः [PS३.३४.१, ऋS३.२०.१]>_इत्यरण्योरग्निं समारोपयेत्
(२,४.९त्) तदाहुर्यदरण्योः समारूढो नश्येदुदस्याग्निः सीदेत्
(२,४.९उ) पुनराधेयः स्यादिति
(२,४.९व्) या ते अग्ने यज्ञिया तनूस्तया मे ह्यारोह तया मे ह्याविश_
(२,४.९w) अयं ते योनिरित्यात्मन्नग्नीन्समारोपयेत्_
(२,४.९x) एष ह वा अग्नेर्योनिः
(२,४.९य्) स्वस्यां एवैनं तद्योन्यां सादयति । । ९ । ।

(२,४.१०अ) यो ह वा अग्निष्टोमं साह्नं वेदाग्निष्टोमस्य साह्नस्य सायुज्यं सलोकतां अश्नुते य एवं वेद
(२,४.१०ब्) यो ह वा एष तपत्येषोऽग्निष्टोम एष साह्नस्
(२,४.१०च्) तं सहैवाह्ना संस्थापयेयुः
(२,४.१०द्) साह्नो वै नामैषः_
(२,४.१०ए) तेनासंत्वरमाणाश्चरेयुः_
(२,४.१०फ़्) यद्ध वा इदं पूर्वयोः सवनयोरसंत्वरमाणाश्चरन्ति तस्माद्धेदं प्राच्यो ग्रामता बहुलाविष्टाः_
(२,४.१०ग्) अथ यद्धेदं तृतीयसवने संत्वरमाणाश्चरन्ति तस्माद्धेदं प्रत्यञ्चि दीर्घारण्यानि भवन्ति
(२,४.१०ह्) यथैव प्रातःसवन एवं माध्यंदिने सवन एवं तृतीयसवने_
(२,४.१०इ) एवं उ ह यजमानोऽप्रमायुको भवति
(२,४.१०ज्) तेनासंत्वरमाणाश्चरेयुः_
(२,४.१०क्) यदा वा एष प्रातरुदेत्यथ मन्द्रतमं तपति
(२,४.१०ल्) तस्मान्मन्द्रतमया वाचा प्रातःसवने शंसेत्_
(२,४.१०म्) अथ यदाभ्येत्यथ बलीयस्तपति
(२,४.१०न्) तस्माद्बलीयस्या वाचा माध्यंदिने सवने शंसेत्_
(२,४.१०ओ) अथो यदाभितरां एत्यथो बलिष्ठतमं तपति
(२,४.१०प्) तस्माद्बलिष्ठतमया वाचा तृतीयसवने शंसेत्_
(२,४.१०क़्) एवं शंसेद्यदि वाच ईशीत
(२,४.१०र्) वाग्घि शस्त्रम्_
(२,४.१०स्) यया तु वचोत्तरिण्योत्तरिण्योत्सहेत समापनाय तया प्रतिपद्येत_
(२,४.१०त्) एतत्सुशस्ततरं इव भवति
(२,४.१०उ) स वा एष न कदा चनास्तं अयति नोदयति
(२,४.१०व्) तद्यदेनं पश्चादस्तं अयतीति मन्यन्तेऽह्न एव तदन्तं गत्वाथात्मानं विपर्यस्यते_
(२,४.१०w) अहरेवाधस्तात्कृणुते रात्रीं परस्तात्
(२,४.१०x) स वा एष न कदा चनास्तं अयति नोदयति
(२,४.१०य्) तद्यदेनं पुरस्तादुदयतीति मन्यते रात्रेरेव तदन्तं गत्वाथात्मानं विपर्यस्यते
(२,४.१०ज़्) रात्रिं एवाधस्तात्कृणुतेऽहः परस्तात्
(२,४.१०आ) स वा एष न कदा चनास्तं अयति नोदयति
(२,४.१०ब्ब्) न ह वै कदा चन निम्रुचति_
(२,४.१०च्च्) एतस्य ह सायुज्यं सलोकतां अश्नुते य एवं वेद । । १० । ।

(२,४.११अ) अथात एकाहस्यैव तृतीयसवनम्_
(२,४.११ब्) देवासुरा वा एषु लोकेषु समयतन्त
(२,४.११च्) ते देवा असुरानभ्यजयम्_
(२,४.११द्) ते जिता अहोरात्रयोः संधिं समभ्यवागुः
(२,४.११ए) स हेन्द्र उवाचेमे वा असुरा अहोरात्रयोः संधिं समभ्यवागुः
(२,४.११फ़्) कश्चाहं चेमानसुरानभ्युत्थास्यामहा इति_
(२,४.११ग्) अहं चेत्यग्निरब्रवीत्_
(२,४.११ह्) अहं चेति वरुणः_
(२,४.११इ) अहं चेति बृहस्पतिः_
(२,४.११ज्) अहं चेति विष्णुस्
(२,४.११क्) तानभ्युत्थायाहोरात्रयोः संधेर्निर्जघ्नुः_
(२,४.११ल्) यदभ्युत्थायाहोरात्रयोः संधेर्निर्जघ्नुस्तस्मादुत्था
(२,४.११म्) अभ्युत्थाय ह वै द्विषन्तं भ्रातृव्यं निर्हन्ति य एवं वेद
(२,४.११न्) सोऽग्निरश्वो भूत्वा प्रथमः प्रजिगाय
(२,४.११ओ) यदग्निरश्वो भूत्वा प्रथमः प्रजिगाअय तस्मादाग्नेयीभिरुक्थानि प्रणयन्ति
(२,४.११प्) यदग्निरश्वो भूत्वा प्रथमः प्रजिगाय तस्मात्साकं अश्वम्_
(२,४.११क़्) यत्पञ्च देवता अभ्युत्तस्थुस्तस्मात्पञ्च देवता उक्थे शस्यन्ते
(२,४.११र्) या वाक्सोऽग्निः_
(२,४.११स्) यः प्राणः स वरुणः_
(२,४.११त्) यन्मनः स इन्द्रः_
(२,४.११उ) यच्चक्षुः स बृहस्पतिः_
(२,४.११व्) यच्छ्रोत्रं स विष्णुः_
(२,४.११w) एते ह वा एतान्पञ्चभिः प्राणैः समीर्योदस्थापयन्_ [एद्. समीर्युदस्थापयन्, चोर्र्. Pअत्यल्]
(२,४.११x) तस्मादु एवैताः पञ्च देवता उक्थे शस्यन्ते । । ११ । ।

(२,४.१२अ) प्रजापतिर्ह्येतेभ्यः पञ्चभ्यः प्राणेभ्योऽन्यान्देवान्ससृजे
(२,४.१२ब्) यदु चेदं किं च पाङ्क्तम्_
(२,४.१२च्) तत्सृष्ट्वा व्याज्वलयत्
(२,४.१२द्) ते होचुर्देवा म्लानोऽयं पिता मयोभूः [एद्. पितामयोऽभूः, चोर्र्. Pअत्यल्]
(२,४.१२ए) पुनरिमं समीर्योत्थापयामेति
(२,४.१२फ़्) स ह सत्त्वं आख्यायाभ्युपतिष्ठते
(२,४.१२ग्) यदि ह वा अपि निर्णिक्तस्यैव कुलस्य संध्युक्षेण यजते सत्त्वं हैवाख्यायाभ्युपतिष्टते
(२,४.१२ह्) यो वै प्रजापतिः स यज्ञः
(२,४.१२इ) स एतैरेव पञ्चभिः प्राणैः समीर्योत्थापितः_
(२,४.१२ज्) ये ह वा एनं पञ्चभिः प्राणैः समीर्योत्थापयन्_
(२,४.१२क्) ता उ एवैताः पञ्च देवता उक्थे शस्यन्ते । । १२ । ।

(२,४.१३अ) तदाहुर्यद्द्वयोर्देवतयो स्तुवत इन्द्राग्न्योरित्यथ कस्माद्भूयिष्ठा देवता उक्थे शस्यन्त इति_ [एद्. भूयिष्ठो, चोर्र्. Pअत्यल्]
(२,४.१३ब्) अन्तो वा आग्निमारुतं अन्तरुक्थान्यन्त आश्विनम्_
(२,४.१३च्) कनीयसीषु देवतासु स्तुवते तिष्ठेति_
(२,४.१३द्) अथ कस्माद्भूयिष्ठो देवता उक्थे शस्यन्त इति
(२,४.१३ए) द्वे द्वे उक्थमुखे भवतस्तद्यद्द्वे द्वे । । १३ । ।

(२,४.१४अ) अथ यदैन्द्रावारुणं मैत्रावरुस्योक्थं भवत्यैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवत्यैन्द्रावैष्णावं अच्छावाकस्योक्थं भवति द्वे संशस्यंस्त ऐन्द्रं च वारुणं चैकं ऐन्द्रावारुणं भवति
(२,४.१४ब्) द्वे संशस्यंस्त ऐन्द्रं च बार्हस्पत्यं चैकं ऐन्द्राबार्हस्पत्यं भवति
(२,४.१४च्) द्वे संशस्यंस्त ऐन्द्रं च वैष्णवं चैकं ऐन्द्रावैष्णवं भवति
(२,४.१४द्) द्वे द्वे उक्थमुखे भवतस्
(२,४.१४ए) तद्यद्द्वे द्वे । । १४ । ।

(२,४.१५अ) अथ यदैन्द्रावरुणं मैत्रावरुणस्योक्थं भवति_<इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रतौ [ऋS७.५८.१, èV६.६८.१०]>_इत्यृचाभ्यनूक्तम्_
(२,४.१५ब्) मद्वद्धि तृतीयसवनम्
(२,४.१५च्) <एह्यू षु ब्रवाणि ते [èV६.१६.१६]>_<आग्निरगामि भारतः [èV६.१६.१९]>_इति मैत्रावरुणस्य स्तोत्रियानुरूपौ
(२,४.१५द्) <चर्षणीधृतं मघवानं उक्थ्यं [èV३.५१.१]> इत्युक्थमुखम्_
(२,४.१५ए) तस्योपरिष्टाद्ब्राह्मणम्
(२,४.१५फ़्) <अस्तभ्नाद्द्यां असुरो विश्ववेदाः [èV८.४२.१]>_इति वारुणं सांशंसिकं [एद्. अस्तभ्नाद्याम्, चोर्रेच्तेद्प्. ३०२]
(२,४.१५ग्) अहं चेति वरुणोऽब्रवीत्_
(२,४.१५ह्) देवतयोः संशंसायानतिशंसाय_
(२,४.१५इ) <इन्द्रावरुणा युवं अध्वराय नः [èV७.८२.१]>_इति पर्यास ऐन्द्रावरुणे
(२,४.१५ज्) ऐन्द्रावरुणं अस्यैतन्नित्यं उक्थम्_
(२,४.१५क्) तदेतत्स्वस्मिन्नायतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति
(२,४.१५ल्) द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त
(२,४.१५म्) विजित्या एव_
(२,४.१५न्) अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै
(२,४.१५ओ) सैकपादिनी भवति_
(२,४.१५प्) एकपादिन्या होता परिदधाति
(२,४.१५क़्) यत्र होतुर्होत्रकाणां युञ्जन्ति तत्समृद्धम्_
(२,४.१५र्) तद्वै खल्व्<आ वां राजानावध्वरे ववृत्यां [èV७.८४.१]> इति_ [एद्. आवां, चोर्रेच्तेद्प्. ३०३]
(२,४.१५स्) एवं एव केवलपर्यासं कुर्यात्केवलसूक्तम्_
(२,४.१५त्) केवलसूक्तं एवोत्तरयोर्भवति_
(२,४.१५उ) <इन्द्रावरुणा मधुमत्तमस्य [PS२०.७.६, ऋS७.५८.२, èV६.६८.११]>_इति यजति_
(२,४.१५व्) एते एव तद्देवते यथाभागं प्रीणाति
(२,४.१५w) वषट्कृत्यानुवषट्करोति
(२,४.१५x) प्रत्येवाभिमृशन्ते
(२,४.१५य्) नाप्याययन्ति न ह्यनाराशंसाः सीदन्ति । । १५ । ।

(२,४.१६अ) अथ यदैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवति_<इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन्यज्ञे मन्दसाना वृषण्वसू [èV४.५०.१०]> इत्यृचाभ्यनूक्तम्_
(२,४.१६ब्) मद्वद्धि तृतीयसवनम्_
(२,४.१६च्) <वयं उ त्वां अपूर्व्य [èV८.२१.१, ऋS२०.१४.१ ।२०.६२.१]> <यो न इदमिदं पुरा [èV८.२१.९, ऋS२०.१४.३ ।२०.६२.३, Vऐत्S२५.३]>_इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ
(२,४.१६द्) <प्र मंहिष्ठाय बृहते बृहद्रये [èV१.५७.१, ऋS२०.१५.१]>_इत्युक्थमुखम्
(२,४.१६ए) ऐन्द्राजागतम्_
(२,४.१६फ़्) जागताः पशवः
(२,४.१६ग्) पशूनां आप्त्यै
(२,४.१६ह्) जागतं उ वै तृतीयसवनम्_
(२,४.१६इ) तृतीयसवनस्य रूपम्
(२,४.१६ज्) <उदप्रुतो न वयो रक्षमाणाः [èV१०.६८.१, ऋS२०.१६.१]>_इति बार्हस्पत्यं सांशंसिकम्
(२,४.१६क्) अहं चेति बृहस्पतिरब्रवीत्_
(२,४.१६ल्) देवतयोः संशंसायनतिशंसाय_
(२,४.१६म्) <अच्छा म इन्द्रं मतयः स्वर्विदः [èV१०.४३.१, ऋS२०.१७.१]>_इति पर्यास ऐन्द्राबार्हस्पत्यः_
(२,४.१६न्) ऐन्द्राबार्हस्पत्यं अस्यैतन्नित्यं उक्थम्_
(२,४.१६ओ) तदेतत्स्वस्मिन्नायतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति
(२,४.१६प्) द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त
(२,४.१६क़्) विजित्या एव_
(२,४.१६र्) अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै
(२,४.१६स्) <बृहस्पतिर्नः परि पातु पश्चात्[èV१०.४२ ।४३ ।४४.११अ, PS१५.११.१ ।१६.८.११अ, ऋS७.५१.१ ।२०.१७.११ ।२०.८९.११ ।२०.९४.११अ]>_इत्यैन्द्राबार्हस्पत्या परिदधाति_
(२,४.१६त्) इन्द्राबृहस्पत्योरेव यज्ञं प्रतिष्ठापयति_
(२,४.१६उ) <उतोत्तरस्मादधरादघायोरिन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु [èV१०.४२ ।४३ ।४४.११ब्च्द्, PS१५.११.१ ।१६.८.११ब्च्द्, ऋS७.५१.१ ।२०.१७.११ ।२०.८९.११ ।२०.९४.११ब्च्द्]>_इति
(२,४.१६व्) सर्वाभ्य एव दिग्भ्य आशिषं आशास्ते नार्त्वी
(२,४.१६w) यं कामं कामयते सोऽस्मै कामः समृध्यते य एवं वेद यश्चैवंविद्वान्ब्राह्मणाच्छंस्येतया परिदधाति [एद्. एतस्या, चोर्र्. Pअत्यल्; एद्. ब्राह्मणाच्छंय्]
(२,४.१६x) <बृहस्पते युवं इन्द्रश्च वस्वः [èV७.९७.१०]>_इति यजति_
(२,४.१६य्) एते एव तद्देवते यथाभागं प्रीणाति
(२,४.१६ज़्) वषट्कृत्यानुवषट्करोति
(२,४.१६आ) प्रत्येवाभिमृशन्ते
(२,४.१६ब्ब्) नाप्याययन्ति
(२,४.१६च्च्) न ह्यनाराशंसाः सीदन्ति । । १६ । ।

(२,४.१७अ) अथ यदैन्द्रावैष्णवं अच्छावाकस्योक्थं भवति_<इन्द्राविष्णू मदपती मदानां आ सोमं यातं द्रविणो दधाना [èV६.६९.३]>_इत्यृचाभ्यनूक्तम्_ [एद्. अच्छावाकस्योक्तं]
(२,४.१७ब्) मद्वद्धि तृतीयसवनम्
(२,४.१७च्) <अधा हीन्द्र गिर्वणः [èV८.९८.७]>_<इयं त इन्द्र गिर्वणः [èV८.१३.४]>_इत्यच्छावाकस्य स्तोत्रियानुरूपौ_
(२,४.१७द्) <ऋतुर्जनित्री तस्या अपस्परि [èV२.१३.१]>_इत्युक्थमुखम्_
(२,४.१७ए) तस्योक्तं ब्राह्मणम्_
(२,४.१७फ़्) <नू मर्तो दयते सनिष्यन्[èV७.१००.१]>_इति वैष्णवं सांशंसिकं [एद्. सांशंसिकंम्]
(२,४.१७ग्) अहं चेति विष्णुरब्रवीत्_
(२,४.१७ह्) देवतयोः संशंसायानतिशंसाय
(२,४.१७इ) <सं वां कर्मणा सं इषा हिनोमि [èV६.६९.१]>_इति पर्यास ऐन्द्रावैष्णवः_
(२,४.१७ज्) ऐन्द्रावैष्णवं अस्यैतन्नित्यं उक्थम्_ [एद्. उखं]
(२,४.१७क्) तदेतत्स्वस्मिन्नायतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति
(२,४.१७ल्) द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त
(२,४.१७म्) विजित्या एव_
(२,४.१७न्) अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै_
(२,४.१७ओ) <उभा जिग्यथुर्न परा जयेथे [èV६.६९.८, PS२०.१६.३, ऋS७.४४.१]> इत्यैन्द्रावैष्णव्यर्चा परिदधाति_
(२,४.१७प्) इन्द्राविष्णोरेव यज्ञं प्रतिष्ठापयति_
(२,४.१७क़्) <इन्द्राविष्णू पिबतं मध्वो अस्य [èV६.६९.७]>_इति यजति_
(२,४.१७र्) एते एव तद्देवते यथाभागं प्रीणाति
(२,४.१७स्) वषट्कृत्यानुवषट्करोति
(२,४.१७त्) प्रत्येवाभिमृशन्ते
(२,४.१७उ) नाप्याययन्ति
(२,४.१७व्) न ह्यनाराशंसाः सीदन्ति । । १७ । ।

(२,४.१८अ) अथाध्वर्यो शंशंसावों इति स्तोत्रियायानुरूपायोक्थमुखाय परिधानीयाया इति चतुश्चतुराह्वयन्ते
(२,४.१८ब्) चतस्रो वै दिशः_
(२,४.१८च्) दिक्षु तत्प्रतितिष्ठन्ते_
(२,४.१८द्) अथो चतुष्पादः पशवः
(२,४.१८ए) पशूनां आप्त्यै_
(२,४.१८फ़्) अथो चतुष्पर्वाणो हि तृतीयसवने होत्रकास्
(२,४.१८ग्) तस्माच्चतुः
(२,४.१८ह्) सर्वे त्रैष्टुभं जागतानि शंसन्ति
(२,४.१८इ) जागतं हि तृतीयसवनम्
(२,४.१८ज्) अथ हैतत्त्रैष्टुभानि_
(२,४.१८क्) अप्रतिभूतं इव हि प्रातःसवने मरुत्वतीये तृतीयसवने च होत्रकाणां शस्त्रम्_
(२,४.१८ल्) धीतरसं वा एतत्सवनं यत्तृतीयसवनम्
(२,४.१८म्) अथ हैतदधीतरसं शुक्रियं छन्दो यत्त्रिष्टुबयातयाम
(२,४.१८न्) सवनस्यैव तत्सरसतायै
(२,४.१८ओ) सर्वे समवतीभिः परिदधति
(२,४.१८प्) तद्यत्समवतीभिः परिदधत्यन्तो वै पर्यासोऽन्त उदर्कोऽन्तः सजाया उ ह वा अवैनाय_
(२,४.१८क़्) अन्तेनैवान्तं परिदधति
(२,४.१८र्) सर्वे मद्वतीभिर्यजन्ति
(२,४.१८स्) तद्यन्मद्वतीभिर्यजन्ति सर्वे सुतवतीभिः पीतवतीभिरभिरूपाभिर्यजन्ति
(२,४.१८त्) यद्यज्ञेऽभिरूपं तत्समृद्धम्_
(२,४.१८उ) सर्वेऽनुवषट्कुर्वन्ति
(२,४.१८व्) स्विष्टकृत्वानुवषट्कारः_
(२,४.१८w) नेत्स्विष्टकृत अन्तरयामेति_
(२,४.१८x) असौ वै लोकस्तृतीयसवनम्_
(२,४.१८य्) तस्य पञ्च दिशः
(२,४.१८ज़्) पञ्चोक्थानि तृतीयसवनस्य
(२,४.१८आ) स एतैः पञ्चभिरुक्थैरेताः पञ्च दिश आप्नोति
(२,४.१८ब्ब्) तद्यदेषां लोकानां रूपं या मात्रा तेन रूपेण तया मात्रयेमांल्लोकानृध्नोतीमांल्लोकानृध्नोतीति । । १८ । ।

(२,४.१९अ) तदाहुः किं षोडशिनः षोडशित्वम्_
(२,४.१९ब्) षोडश स्तोत्राणि षोडश शस्त्राणि षोडशभिरक्षरैरादत्ते
(२,४.१९च्) द्वे वा अक्षरे अतिरिच्येते षोडशिनोऽनुष्टुभं अभिसंपन्नस्य
(२,४.१९द्) वाचो वा एतौ स्तनौ
(२,४.१९ए) सत्यानृते वाव ते
(२,४.१९फ़्) अवत्येनं सत्यं नैनं अनृतं हिनस्ति य एवं वेद य एवं वेद । । १९ । । [एद्. वेद य एवं वेइ]

(२,४.१९चोल्) इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे चतुर्थः प्रपाठकः । ।


(२,५.१अ) ओं अहर्वै देवा आश्रयन्त रात्रीं असुरास्
(२,५.१ब्) ते समावद्वीर्या एवासन्
(२,५.१च्) नो व्यावर्तन्त
(२,५.१द्) सोऽब्रवीदिन्द्रः कश्चाहं चेमानसुरान्रात्रीं अन्वैष्यावहा इति [एद्. अन्वैष्यामह, चोर्र्. Pअत्यल्]
(२,५.१ए) स देवेषु न प्रत्यविन्दत्_
(२,५.१फ़्) अबिभयू रात्रेस्तमसो मृत्योस्
(२,५.१ग्) तम इव हि रात्रिः_
(२,५.१ह्) मृत्युर्वै तमस्
(२,५.१इ) तस्माद्धाप्येतर्हि भूयानिव नक्तं स यावन्मात्रं इवापक्रम्य बिभेति
(२,५.१ज्) तं वै छन्दांस्येवान्ववायन्_
(२,५.१क्) तद्यच्छन्दांस्येवान्ववायंस्तस्मादिन्द्रश्च छन्दांसि च रात्रिं वहन्ति
(२,५.१ल्) न निविच्छस्यते न पुरोरुङ्न धाय्या नान्या देवता
(२,५.१म्) इन्द्रश्च ह्येव छन्दांसि च रात्रिं वहन्ति
(२,५.१न्) तान्वै पर्यायैः पर्यायं अनुदन्त
(२,५.१ओ) यत्पर्यायैः पर्यायं अनुदन्त तस्मात्पर्यायास्
(२,५.१प्) तत्पर्यायाणां पर्यायत्वम्_
(२,५.१क़्) तान्वै प्रथमैरेव पर्यायैः पूर्वरात्रादनुदन्त मध्यमैर्मध्यरात्रादुत्तमैरपररात्रात्_
(२,५.१र्) अपिशर्वर्या अपिस्मसीत्यब्रुवन्_
(२,५.१स्) तद्यदपिशर्वर्या अपिस्मसीत्यब्रुवंस्तदपिशर्वराणां अपिशर्वरत्वम्_
(२,५.१त्) शर्वराणि खलु ह वा अस्यैतानि छन्दांसीति ह स्माह_
(२,५.१उ) एतानि ह वा इन्द्रं रात्र्यास्तमसो मृत्योरभिपत्यावारयन्_
(२,५.१व्) तदपिशर्वराणां अपिशर्वरत्वं । । १ । ।

(२,५.२अ) प्रथमेषु पर्यायेषु स्तुवते प्रथमान्येव पदानि पुनराददते
(२,५.२ब्) यदेवैषां मनोरथा आसंस्तदेवैषां तेनाददते
(२,५.२च्) मध्यमेषु पर्यायेषु स्तुवते मध्यमान्येव पदानि पुनराददते
(२,५.२द्) यदेवैषां अश्वा गाव आसंस्तदेवैषां तेनाददते_
(२,५.२ए) उत्तमेषु पर्यायेषु स्तुवत उत्तमान्येव पदानि पुनराददते
(२,५.२फ़्) यदेवैषां वासो हिरण्यं मणिरध्यात्मं आसीत्तदेवैषां तेनाददते_
(२,५.२ग्) आ द्विषतो वसु दत्ते निरेवैनं एभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद । । २ । ।

(२,५.३अ) पवमानवदहरित्याहुर्न रात्रिः पवमानवती
(२,५.३ब्) कथं उभे पवमानवती भवतः
(२,५.३च्) केन ते समावद्भाजौ भवत इति
(२,५.३द्) यदेवेन्द्राय मद्वने सुतं इदं वसो सुतं अन्ध इदं ह्यन्वोजसा सुतं इति स्तुवन्ति च शंसन्ति च तेन रात्रिः पवमानवती
(२,५.३ए) तेनोभे पवमानवती भवतस्
(२,५.३फ़्) तेन ते समावद्भाजौ भवतः
(२,५.३ग्) पञ्चदशस्तोत्रं अहरित्याहुर्न रात्रिः पञ्चदशस्तोत्रा
(२,५.३ह्) कथं उभे पञ्चदशस्तोत्रे भवतः
(२,५.३इ) केन ते समावद्भाजौ भवत इति
(२,५.३ज्) द्वादश स्तोत्राण्यपिशर्वराणि
(२,५.३क्) तिसृभिर्देवताभिः संधिना राथंतरेणाश्विनाय स्तुवते
(२,५.३ल्) तेन रात्रिः पञ्चदशस्तोत्रा
(२,५.३म्) तेनोभे पञ्चदशस्तोत्रे भवतस्
(२,५.३न्) तेन ते समावद्भाजौ भवतः
(२,५.३ओ) परिमितं स्तुवन्त्यपरिमितमनुशंसन्ति
(२,५.३प्) परिमितं भूतं अपरिमितं भव्यम्
(२,५.३क़्) अपरिमितान्येवावरुन्ध्यादित्यतिशंसति स्तोमम्
(२,५.३र्) अति वै प्रजास्यात्मानं अति पशवस्
(२,५.३स्) तद्यदेवास्यात्यात्मानं तदेवास्यैतेनाप्याययन्ति_
(२,५.३त्) अथो द्वयं वा इदं सर्वं स्नेहश्चैव तेजश्च_
(२,५.३उ) अथ तदहोरात्राभ्यां आप्तम्_
(२,५.३व्) स्नेहतेजसोराप्त्यै
(२,५.३w) गायत्रान्स्तोत्रियानुरूपाञ्छंसन्ति
(२,५.३x) तेजो वै गायत्री
(२,५.३य्) तमः पाप्मा रात्रिस्
(२,५.३ज़्) तेन तेजसा तमः पाप्मानं तरन्ति
(२,५.३आ) पुनरादायं शंसन्ति_
(२,५.३ब्ब्) एवं हि सामगा स्तुवते
(२,५.३च्च्) यथा स्तुतं अनुशस्तं भवति
(२,५.३द्द्) न हि तत्स्तुतं यन्नानुशस्तम्_
(२,५.३ई) तदाहुरथ कस्मादुत्तमात्प्रतीहारादाहूय साम्ना शस्त्रं उपसंतन्वन्तीति । । ३ । ।

(२,५.४अ) पुरुषो वै यज्ञस्
(२,५.४ब्) तस्य शिर एव हविर्धानम्_
(२,५.४च्) मुखं आहवनीयः_
(२,५.४द्) उदरं सदः_
(२,५.४ए) अन्नं उक्थानि
(२,५.४फ़्) बाहू मार्जालीयश्चाग्नीध्रीयश्च
(२,५.४ग्) या इमा देवतास्तेऽन्तःसदसं धिष्ण्याः
(२,५.४ह्) प्रतिष्ठे गार्हपत्यव्रतश्रपणावित्यथापरम्_
(२,५.४इ) तस्य मन एव ब्रह्मा
(२,५.४ज्) प्राण उद्गाता_
(२,५.४क्) अपानः प्रस्तोता
(२,५.४ल्) व्यानः प्रतिहर्ता
(२,५.४म्) वाग्घोता
(२,५.४न्) चक्षुरध्वर्युः
(२,५.४ओ) प्रजाति सदस्यः_
(२,५.४प्) अङ्गानि होत्राशंसिनः_
(२,५.४क़्) आत्मा यजमानस्
(२,५.४र्) तद्यदध्वर्युः स्तोत्रं उपाकरोति सोमः पवत इति चक्षुरेव तत्प्राणैः संदधाति_
(२,५.४स्) अथ यत्प्रस्तोता ब्रह्माणं आमन्त्रयते ब्रह्मन्त्स्तोष्यामः प्रशास्तरिति मनोऽग्रणीर्भवति_
(२,५.४त्) एतेषां प्राणानां मनसा हि प्रसूता स्तोमेन स्तुयामेति
(२,५.४उ) प्राणानेव तन्मनसा संदधाति_
(२,५.४व्) अथ यद्ब्रह्मा स्तुतेत्युच्चैरनुजानाति मनो वै ब्रह्मा
(२,५.४w) मन एव तत्प्राणैः संदधाति_
(२,५.४x) अथ यत्प्रस्तोता प्रस्तौत्यपानं एव तत्प्राणैः संदधाति_
(२,५.४य्) अथ यत्प्रतिहर्ता प्रतिहरति व्यानं एव तदपानैः संदधाति_
(२,५.४ज़्) अथ यदुद्गातोद्गायति समानं एव तत्प्राणैः संदधाति_
(२,५.४आ) अथ यद्धोता साम्ना शस्त्रं उपसंतनोति वाग्वै होता वाचं एव तत्प्राणैः संदधाति_
(२,५.४ब्ब्) अथ यत्सदस्यो ब्रह्माणं उपासीदति प्रजातिर्वै सदस्यः प्रजातिं एवाप्नोति_
(२,५.४च्च्) अथ यद्धोत्राशंसिनः सामसंततिं कुर्वन्त्यङ्गानि वै होत्राशंसिनोऽङ्गान्येवास्य तत्प्राणैः संदधाति_
(२,५.४द्द्) अथ यद्यजमानः स्तोत्रं उपासीदत्यात्मा वै यजमान आत्मानं एवास्य तत्कल्पयति
(२,५.४ई) तस्मान्नैनं बहिर्वेद्यभ्याश्रावयेत्_
(२,५.४फ़्फ़्) नाभ्युदियात्_
(२,५.४ग्ग्) नाभ्यस्तमियात्_
(२,५.४ह्ह्) नाधिष्ण्ये प्रतपेत्_
(२,५.४इइ) नेत्प्राणेभ्य आत्मानं अन्तरगादिति । । ४ । ।

(२,५.५अ) प्रथमेषु पर्यायेषु स्तुवते प्रथमेषु पदेषु निनर्दयन्ति प्रथमरात्रादेव तदसुरान्निर्घ्नन्ति
(२,५.५ब्) मध्यमेषु पर्यायेषु स्तुवते मध्यमेषु पदेषु निनर्दयन्ति
(२,५.५च्) मध्यमरात्रादेव तदसुरान्निर्घ्नन्ति_
(२,५.५द्) उत्तमेषु पर्यायेषु स्तुवत उत्तमेषु पदेषु निनर्दयन्ति_
(२,५.५ए) उत्तमरात्रादेव तदसुरान्निर्घ्नन्ति
(२,५.५फ़्) तद्यथाभ्यागारं पुनःपुनः पाप्मानं निर्हरन्त्येवं एवैतत्स्तोत्रियानुरूपाभ्यां अहोरात्राभ्यां एव तदसुरान्निर्घ्नन्ति
(२,५.५ग्) गायत्रीं शंसन्ति तेजो वै ब्रह्मवर्चसं गायत्री
(२,५.५ह्) तेज एवास्मै तद्ब्रह्मवर्चसं यजमाने दधति
(२,५.५इ) गायत्रीः शस्त्वा जगतीः शंसन्ति
(२,५.५ज्) ब्रह्म ह वै जगती
(२,५.५क्) ब्रह्मणैवास्मै तद्ब्रह्मवर्चसं यजमाने दधति
(२,५.५ल्) व्याह्वयन्ते गायत्रीश्च जगतीश्चान्तरेण
(२,५.५म्) छन्दांस्येव तन्नानावीर्याणि कुर्वन्ति
(२,५.५न्) जगतीः शस्त्वा त्रिष्टुभः शंसन्ति
(२,५.५ओ) पशवो वै जगती
(२,५.५प्) पशूनेव तत्त्रिष्टुब्भिः परिदधति
(२,५.५क़्) बलं वै वीर्यं त्रिष्टुप्_
(२,५.५र्) बलं एव तद्वीर्येऽन्ततः प्रतिष्ठापयति_
(२,५.५स्) अन्धस्वत्यो मद्वत्यः सुतवत्यः पीतवत्यस्त्रिष्टुभो याज्याः समृद्धाः सुलक्षणाः_
(२,५.५त्) एतद्वै रात्रीरूपम्_
(२,५.५उ) जागृयाद्रात्रिम्_
(२,५.५व्) यावदु ह वै न वा स्तुवते न वा शस्यते तावदीश्वरा असुरा रक्षांसि च यज्ञं अन्ववनयन्ति
(२,५.५w) तस्मादाहवनीयं समिद्धं आग्नीध्रीयं गार्हपत्यं धिष्ण्यान्समुज्ज्वलयतेति भाषेरन्
(२,५.५x) ज्वलयेरन्
(२,५.५य्) प्रकाशं इवैव तत्स्यात्_
(२,५.५ज़्) आरेभन्तः शयीरन्_
(२,५.५आ) तान्ह तः श्रेष्ठो वा इति पाप्मा नाभिवृक्णोति
(२,५.५ब्ब्) ते तमः पाप्मानं अपाघ्नते ते तमः पाप्मानमपाघ्नते । । ५ । ।

(२,५.६अ) विश्वरूपं वै त्वाष्ट्रं इन्द्रोऽहन्
(२,५.६ब्) स त्वष्टा हतपुत्रोऽभिचरणीयं अपेन्द्रं सोमं आहरत्
(२,५.६च्) तस्येन्द्रो यज्ञवेशसं कृत्वा प्रासहा सोमं अपिबत्
(२,५.६द्) स विष्वङ्व्यार्छत्
(२,५.६ए) तस्मात्सोमो नानुपहूतेन [न] पातव्यः
(२,५.६फ़्) सोमपीथोऽस्य व्यर्धुको भवति
(२,५.६ग्) तस्य मुखात्प्राणेभ्यः श्रीर्यशांस्यूर्ध्वान्युदक्रामन्_ [एद्. प्रणेभ्यः, चोर्र्. Pअत्यल्]
(२,५.६ह्) तानि पशून्प्राविशन्_
(२,५.६इ) तस्मात्पशवो यशः_
(२,५.६ज्) यशो ह भवति य एवं वेद
(२,५.६क्) ततोऽस्मा एतदश्विनौ च सरस्वती च यज्ञं समभरन्त्सौत्रामणिं भैषज्याय
(२,५.६ल्) तयेन्द्रं अभ्यषिञ्चन्_
(२,५.६म्) ततो वै स देवानां श्रेष्ठोऽभवत्_
(२,५.६न्) श्रेष्ठः स्वानां चान्येषां च भवति य एवं वेद यश्चैवंविद्वान्त्सौत्रामण्याभिषिच्यते । । ६ । ।

(२,५.७अ) अथ साम गायति ब्रह्मा
(२,५.७ब्) क्षत्रं वै साम
(२,५.७च्) क्षत्रेणैवैनं तदभिषिञ्चति_
(२,५.७द्) अथो साम्राज्यं वै साम
(२,५.७ए) साम्राज्येनैवैनं तत्साम्राज्यं गमयति_
(२,५.७फ़्) अथो सर्वेषां वा एष वेदानां रसो यत्साम
(२,५.७ग्) सर्वेषां एव तद्वेदानां रसेनाभिषिञ्चति
(२,५.७ह्) बृहत्यां गायति
(२,५.७इ) बृहत्यां वा असावादित्यः श्रियां प्रतिष्ठायां प्रतिष्ठितस्तपति_
(२,५.७ज्) ऐन्द्र्यां बृहत्यां गायति_
(२,५.७क्) ऐन्द्रो वा एष यज्ञक्रतुर्यत्सौत्रामणिः_
(२,५.७ल्) इन्द्रायतन एष एतर्हि यो यजते
(२,५.७म्) स्व एवैनं तदायतने प्रीणाति_
(२,५.७न्) अथ कस्मात्संशानानि नाम_
(२,५.७ओ) एतैर्वै सामभिर्देवा इन्द्रं इन्द्रियेण वीर्येण समश्यन्_
(२,५.७प्) तथैवैतद्यजमाना एतैरेव सामभिर्
(२,५.७क़्) इन्द्रियेणैव वीर्येण संश्यन्ति [एद्. वीर्येन]
(२,५.७र्) संश्रवसे विश्रवसे सत्यश्रवसे श्रवस इति सामानि भवन्ति_
(२,५.७स्) एष्वेवैनं लोकेषु प्रतिष्ठापयति चतुर्निधनं भवति
(२,५.७त्) चतस्रो वै दिशः_
(२,५.७उ) दिक्षु तत्प्रतितिष्ठन्ते_
(२,५.७व्) अथो चतुष्पादः पशवः
(२,५.७w) पशूनां आप्त्यै
(२,५.७x) तदाहुर्यदेतत्साम गीयतेऽथ क्वैतस्य साम्न उक्थं का प्रतिष्ठा
(२,५.७य्) त्रया देवा एकादशेत्याहुः_
(२,५.७ज़्) एतद्वा एतस्य साम्न उक्थं एषा प्रतिष्ठा
(२,५.७आ) त्रयस्त्रिंशं ग्रहं गृह्णाति
(२,५.७ब्ब्) साम्नः प्रतिष्ठायै प्रतिष्ठायै । । ७ । ।

(२,५.८अ) प्रजापतिरकामयत वाजं आप्नुयां स्वर्गं लोकं इति
(२,५.८ब्) स एतं वाजपेयं अपश्यत्_
(२,५.८च्) वाजपेयो वा एष य एष तपति
(२,५.८द्) वाजं एतेन यजमानः स्वर्गं लोकं आप्नोति
(२,५.८ए) शुक्रवत्यो ज्योतिष्मत्यः प्रातःसवने भवन्ति
(२,५.८फ़्) तेजो ब्रह्मवर्चसं ताभिराप्नोति
(२,५.८ग्) वाजवत्यो माध्यंदिने सवने
(२,५.८ह्) स्वर्गस्य लोकस्य समष्ट्यै_
(२,५.८इ) अन्नवत्यो गणवत्यः पशुमत्यस्तृतीयसवने भवन्ति
(२,५.८ज्) भूमानं ताभिराप्नोति
(२,५.८क्) सर्वः सप्तदशो भवति
(२,५.८ल्) प्रजापतिर्वै सप्तदशः
(२,५.८म्) प्रजापतिं एवाप्नोति
(२,५.८न्) हिरण्यस्रज ऋत्विजो भवन्ति
(२,५.८ओ) महस एव तद्रूपं क्रियते_
(२,५.८प्) एष मेऽमुष्मिंल्लोके प्रकाशोऽसदिति
(२,५.८क़्) ज्योतिर्वै हिरण्यम्_
(२,५.८र्) ज्योतिषैवैनं अन्तर्दधति_
(२,५.८स्) आजिं धावन्ति
(२,५.८त्) यजमानं उज्जापयन्ति
(२,५.८उ) नाकं रोहति समहसे रोहति विश्वमहसे रोहति सर्वमहसे रोहति
(२,५.८व्) मनुष्यलोकादेवैनं अन्तर्दधति
(२,५.८w) देवस्य सवितुः सवे स्वर्गं लोकं वर्षिष्ठं नाकं रोहेयं इति ब्रह्मा रथचक्रं सर्पति
(२,५.८x) सवितृप्रसूत एवैनं तत्सर्पति_
(२,५.८य्) अथो प्रजापतिर्वै ब्रह्मा
(२,५.८ज़्) प्रजापतिं एवैनं वज्रादधिप्रसुवति
(२,५.८आ) नाकस्योज्जित्यै
(२,५.८ब्ब्) वाजिनां संतत्यै
(२,५.८च्च्) वाजिसामाभिगायति
(२,५.८द्द्) वाजिमान्भवति
(२,५.८ई) वाजो वै स्वर्गं लोकः
(२,५.८फ़्फ़्) स्वर्गं एव तल्लोकं रोहति
(२,५.८ग्ग्) विष्णोः शिपिविष्टवतीषु बृहदुत्तमं भवति
(२,५.८ह्ह्) स्वर्गं एव तल्लोकं रूढ्वा ब्रध्नस्य विष्टपं अतिक्रामत्यतिक्रामति । । ८ । ।

(२,५.९अ) अथातोऽप्तोर्यामा
(२,५.९ब्) प्रजापतिर्वै यत्प्रजा असृजत ता वै तान्ता असृजत
(२,५.९च्) ताः सृष्टाः पराच्य एवासन्
(२,५.९द्) नोपावर्तन्त
(२,५.९ए) ता एकेन स्तोमेनोपागृह्णात्
(२,५.९फ़्) ता अत्यरिच्यन्त
(२,५.९ग्) ता द्वाभ्याम्_
(२,५.९ह्) ताः सर्वैस्
(२,५.९इ) तस्मात्सर्वस्तोमस्
(२,५.९ज्) ता एकेन पृष्ठेनोपागृह्णात्
(२,५.९क्) ता अत्यरिच्यनत
(२,५.९ल्) ता द्वाभ्याम्_
(२,५.९म्) ताः सर्वैस्
(२,५.९न्) तस्मात्सर्वपृष्ठस्
(२,५.९ओ) ता अतिरिक्तोक्थे वारवन्तीयेनावारयन्_
(२,५.९प्) तस्मादेषोऽतिरिक्तोक्थवान्भवति
(२,५.९क़्) तस्माद्वारवन्तीयम्_
(२,५.९र्) ता यदाप्त्वायच्छदतो वा अप्तोर्यामा_
(२,५.९स्) अथो प्रजा वा अप्तुरित्याहुः
(२,५.९त्) प्रजानां यमन इति हैवैतदुक्तं ता बर्हिः प्रजा अश्नायेरन्_ [एद्. प्रजाश्नायेरंस्, चोर्र्. Pअत्यल्]
(२,५.९उ) तर्हि हैतैन यजते
(२,५.९व्) स एषोऽष्टापृष्ठो भवति
(२,५.९w) तद्यथान्यस्मिन्यज्ञे विश्वजितः पृष्ठं अनु संचरं भवति कथं एतदेवं अत्रेति
(२,५.९x) पितैष यज्ञानाम्_
(२,५.९य्) तद्यथा श्रेष्ठिनि संवश्रेयुरपि विद्विषाणा एवं एवैतच्छ्रेष्ठिनो वशेयान्नं अन्नस्यानुचर्याय क्षमन्ते । । ९ । ।

(२,५.१०अ) तद्यथैवादोऽह्न उक्थानां आग्नेयं प्रथमं भवत्येवं एवैतदत्राप्याग्नेयं प्रथमं भवति_
(२,५.१०ब्) ऐन्द्रे वाव तत्रोत्तरे [एद्. ऐद्रे]
(२,५.१०च्) ऐन्द्रे वा एते
(२,५.१०द्) ऐन्द्रावैष्णवं अच्छावाकस्योक्थं भवति
(२,५.१०ए) चतुराहावान्यतिरिक्तोक्थानि भवन्ति
(२,५.१०फ़्) पशवो वा उक्थानि
(२,५.१०ग्) चतुष्टया वै पशवः_
(२,५.१०ह्) अथो चतुष्पादः पशवः
(२,५.१०इ) पशूनां आप्त्यै
(२,५.१०ज्) त एते स्तोत्रियानुरूपास्तृचा अर्धर्चशस्याः
(२,५.१०क्) प्रतिष्ठा वा अर्धर्चः
(२,५.१०ल्) प्रतिष्ठित्या एव_
(२,५.१०म्) अथैतेषां एवाश्विनानां सूक्तानां द्वे द्वे समाहावं एकैकं अहरहः शंसति_
(२,५.१०न्) अश्विनौ वै देवानां भिषजौ
(२,५.१०ओ) तस्मादाश्विनानि सूक्तानि शंसति
(२,५.१०प्) तदश्विभ्यां प्रददुरिदं भिषज्यतं इति
(२,५.१०क़्) क्षैत्रपत्याः परिधानीया भवन्ति
(२,५.१०र्) यत्र हतस्तत्प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता आसंस्ता दीना एताभिर्यथाक्षेत्रं पाययां चकार तर्पयां चकार_ [एद्. ह तस्तत्, चोर्र्. Pअत्यल्]
(२,५.१०स्) अथो इयं वै क्षेत्रं पृथिवी_
(२,५.१०त्) अस्यां अदीनायां अन्ततः प्रतिष्ठास्यामह इति
(२,५.१०उ) त्रिष्टुभो याज्या भवन्ति
(२,५.१०व्) यत्र हतस्तत्प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता बभूवुस्ता हैवैना एताभिर्यथौकसं व्यवसाययां चकार
(२,५.१०w) तस्मादेता याज्या भवन्ति तस्मादेता याज्या भवन्ति । । १० । ।

(२,५.११अ) अथातोऽनैकाहिकम्_ [एद्. अथतो]
(२,५.११ब्) श्वस्तोत्रियं अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने_
(२,५.११च्) अहीनं एव तत्संतन्वन्ति_
(२,५.११द्) अहीनस्य संतत्यै
(२,५.११ए) तद्यथा ह वा एकाहः सुत एवं अहीनः सुतस्
(२,५.११फ़्) तद्यथैकाहस्य सुतस्य सवनानि संतिष्ठमानानि यन्त्येवं अहीनस्य सुतस्याहानि संतिष्ठमानानि यन्ति
(२,५.११ग्) तद्यच्छ्वस्तोत्रियं अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने_
(२,५.११ह्) अहरेवं तदह्नोऽनुरूपं कुर्वन्ति_
(२,५.११इ) अपरेणैव तदह्नापरं अहरभ्यारभन्ते तत्
(२,५.११ज्) तथा न माध्यंदिने सवने
(२,५.११क्) श्रीर्वै पृष्ठानि
(२,५.११ल्) तानि तस्मिन्नेवावस्थितानि भवन्ति_
(२,५.११म्) एतेनैव विधिना तृतीयसवने
(२,५.११न्) न श्वस्तोत्रियं अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति । । ११ । ।

(२,५.१२अ) अथात आरम्भणीया एव
(२,५.१२ब्) <ऋजुनीती नो वरुण> इति मैत्रावरुणस्य <मित्रो नयतु विद्वान्[èV१.९०.१]> इति
(२,५.१२च्) प्रणेता वा एष होत्रकाणां यन्मैत्रावरुणस्
(२,५.१२द्) तस्मादेषा प्रणेतृमती भवति_ [एद्. प्रणेत्रिमती, चोर्र्. Pअत्यल्]
(२,५.१२ए) <इन्द्रं वो विश्वतस्परि [èV१.७.१०अ, ऋS२०.३९.१ ।२०.७०.१६अ]>_ इति ब्राह्मणाच्छंसिनः_
(२,५.१२फ़्) <हवामहे जनेभ्यः [èV१.७.१०ब्, ऋS२०.३९.१ ।२०.७०.१६ब्]>_इतीन्द्रं एवैतयाहरहर्निर्ह्वयन्ते
(२,५.१२ग्) न हैवैषां विहवेऽन्य इन्द्रं वृङ्क्ते यत्रैवंविद्वान्ब्राह्मणाच्छंस्येतां अहरहः शंसति
(२,५.१२ह्) <यत्सोम आ सुते नरः [èV७.९४.१०अ]>_इत्यच्छावाकस्य_
(२,५.१२इ) <इन्द्राग्नी अजोहवुः [èV७.९४.१०ब्]>_इतीन्द्राग्नी एवैतयाहरहर्निर्ह्वयन्ते
(२,५.१२ज्) न हैवैषां विहवेऽन्य इन्द्राग्नी वृङ्क्ते यत्रैवंविद्वानच्छावाक एतां अहरहः शंसति
(२,५.१२क्) ता वा एताः स्वर्गस्य लोकस्य नावः संतारण्यः
(२,५.१२ल्) स्वर्गं एवैताभिर्लोकं अनुसंतरन्ति । । १२ । ।

(२,५.१३अ) अथातः परिधानीया एव
(२,५.१३ब्) <ते स्याम देव वरुण [èV७.६६.९अ]>_इति मैत्रावरुणस्य_
(२,५.१३च्) <इषं स्वश्च धीमहि [èV७.६६.९ब्]>_इत्ययं वै लोक इषं इत्यसौ लोकः स्वरिति_
(२,५.१३द्) उभावेवैनौ तौ लोकावारभते
(२,५.१३ए) <व्यन्तरिक्षं अतिरत्[èV८.१४.७अ, ऋS२०.२८.१अ, २०.३९.२अ]>_इति ब्राह्मणाच्छंसिनः_
(२,५.१३फ़्) विवत्तृचम्_
(२,५.१३ग्) स्वर्गं एवैताभिर्लोकं विवृणोति
(२,५.१३ह्) <मदे सोमस्य रोचनेन्द्रो यदभिनद्वलं [èV८.१४.७ब्च्, ऋS२०.२८.१ब्च्, २०.३९.२ब्च्]> इति
(२,५.१३इ) सिषासवो ह वा एते यद्दीक्षितास्
(२,५.१३ज्) तस्मादेषा वलवती भवति_
(२,५.१३क्) <उद्गा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः । अर्वाञ्चं नुनुदे वलं [èV८.१४.८, ऋS२०.२८.२, २०.३९.३]> इति [एद्. कृवन्, चोर्र्. Pअत्यल्]
(२,५.१३ल्) सनिं एतेभ्य एतयावरुन्द्धे_
(२,५.१३म्) <इन्द्रेण रोचना दिवो दृढानि दृंहितानि च । स्थिराणि न पराणुदे [èV८.१४.९, ऋS२०.२८.३, २०.३९.४]>_इति
(२,५.१३न्) स्वर्गं एवैतयाहरहर्लोकं अवरुन्द्धे_
(२,५.१३ओ) <आहं सरस्वतीवतोः [èV८.३८.१०अ]>_इत्यच्छावाकस्य_ [एद्. स्वरस्वतीवतोर्, चोर्रेच्तेद्प्. ३०३]
(२,५.१३प्) <इन्द्राग्न्योरवो वृणे [èV८.३८.१०ब्]>_इति_
(२,५.१३क़्) एतद्ध वा इन्द्राग्न्योः प्रियं धामो यद्वागिति प्रियेणैवैनौ तद्धाम्ना समर्धयति
(२,५.१३र्) प्रियेणैव धाम्ना समृध्यते य एवं वेद । । १३ । ।

(२,५.१४अ) उभय्यो होत्रकाणां परिधानीया भवन्त्यहीनपरिधानयाश्चैकाहिनस्य
(२,५.१४ब्) तत ऐकाहिकीभिरेव मैत्रावरुणः परिदधाति
(२,५.१४च्) तेनास्माल्लोकान्न प्रच्यवते_
(२,५.१४द्) आहिनीकीभिरच्छावाकः
(२,५.१४ए) स्वर्गस्य लोकस्याप्त्यै_
(२,५.१४फ़्) उभयीभिर्ब्राह्मणाच्छंसी_
(२,५.१४ग्) एवं असावुभौ व्यन्वारभमाण एतीमं च लोकं अमुं च_
(२,५.१४ह्) अथोऽहीनं चैकाहं चाथो संवत्सरं चाग्निष्टोमं चाथो मैत्रावरुणं चाच्छावाकं च_
(२,५.१४इ) एवं असावुभौ व्यन्वारभमाण एति_
(२,५.१४ज्) अथ तत ऐकाहिकीभिरेव तृतीयसवने होत्रकाः परिदधति
(२,५.१४क्) तेनास्माल्लोकान्न प्रच्यवते_
(२,५.१४ल्) आहिनीकीभिरच्छावाकः
(२,५.१४म्) स्वर्गस्य लोकस्य समष्ट्यै
(२,५.१४न्) कामं तद्धोता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुः_
(२,५.१४ओ) यद्वै होता तद्धोत्रकाः
(२,५.१४प्) प्राणो वै होताङ्गानि होत्रकाः
(२,५.१४क़्) समानो वा अयं प्राणोऽङ्गान्यनुसंचरति
(२,५.१४र्) तस्मात्तत्कामं होता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुः_
(२,५.१४स्) यद्वै होता तद्धोत्रकाः_
(२,५.१४त्) आत्मा वै होताङ्गानि होत्रकाः
(२,५.१४उ) समाना वा इमेऽङ्गानां अन्तास्
(२,५.१४व्) तस्मात्तत्कामं होता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुः_ [एद्. पुर्वेद्युः]
(२,५.१४w) यद्वै होता तद्धोत्रकाः
(२,५.१४x) सूक्तान्तैर्होता परिदधाति_
(२,५.१४य्) अथ समान्य एव होत्रकाणां परिधानीया भवन्ति । । १४ । ।

(२,५.१५अ) यः श्वस्तोत्रियस्तं अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने_
(२,५.१५ब्) अहीनं एव तत्संतन्वन्ति_
(२,५.१५च्) अहीनस्य संतत्यै
(२,५.१५द्) त एते होत्रकाः प्रातःसवने षडहस्तोत्रियं शस्त्वा माध्यंदिनेऽहीनसूक्तानि शंसन्ति_
(२,५.१५ए) <आ सत्यो यातु मघवां ऋजीषी [èV४.१६.१, ऋS२०.७७.१]>_इति सत्यवान्मैत्रावरुणः_ [एद्. सत्यवन्, चोर्र्. Pअत्यल्]
(२,५.१५फ़्) <अस्मा इदु प्र तवसे तुराय [èV१.१६.१, ऋS२०.३५.१]>_इति ब्राह्मणाच्छंसी
(२,५.१५ग्) <शासद्वह्निर्दुहितुर्नप्त्यं गात्[èV३.३१.१]>_इत्यच्छावाकस्
(२,५.१५ह्) तदाहुः कस्मादच्छावाको वह्निवदेतत्सूक्तं उभयत्र शंसति स पराक्षु चैवाहःस्वर्वाक्षु चेति
(२,५.१५इ) वीर्यवान्वा एष बह्वृचो यदच्छावाकः_
(२,५.१५ज्) वहति ह वै वह्निर्धुरो यासु युज्यते
(२,५.१५क्) तस्मादच्छावाको वह्निवदेतत्सूक्तं उभयत्र शंसति स पराक्षु चैवाहःस्वर्वाक्षु चेति
(२,५.१५ल्) तानि पञ्चस्वहःसु शस्यन्ते चतुर्विंशेऽभिजिति विषुवति विश्वजिति महाव्रते
(२,५.१५म्) तान्येतान्यहीनसूक्तानीत्याचक्षते
(२,५.१५न्) न ह्येषु किं चन हीयते
(२,५.१५ओ) पराञ्चि ह वा एतान्यहान्यनभ्यावर्तीनि भवन्ति
(२,५.१५प्) तस्मादेतान्येतेष्वहःसु शस्यन्ते
(२,५.१५क़्) यदेतानि शंसन्ति तत्स्वर्गस्य लोकस्य रूपम्_
(२,५.१५र्) यद्वेवैतानि शंसन्तीन्द्रं एवैतैर्निर्ह्वयन्ते यथर्षभं वाशितायै
(२,५.१५स्) ते वै देवाश्चर्षयश्चाब्रुवन्त्समानेन यज्ञं संतन्वामहा इति [एद्. चाब्रुवंत्]
(२,५.१५त्) तदेतद्यज्ञस्य समानं अपश्यन्_
(२,५.१५उ) समानान्प्रगाथान्त्समानीः प्रतिपदः समानानि सूक्तानि_ [एद्. प्रगाथांत्]
(२,५.१५व्) ओकःसारी वा इन्द्रः_
(२,५.१५w) यत्र वा इन्द्रः पूर्वं गच्छति गच्छत्येव तत्रापरम्_
(२,५.१५x) यज्ञस्यैव सेन्द्रतायै । । १५ । ।

(२,५.१५चोल्) इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे पञ्चमः प्रपाठकः । ।


(२,६.१अ) ओं तान्वा एतान्संपातान्विश्वामित्रः प्रथमं अपश्यत्_
(२,६.१ब्) <एवा त्वां इन्द्र वज्रिन्नत्र [èV४.१९.१]> <यन्न इन्द्रो जुजुषे यच्च वष्टि [èV४.२२.१]> <कथा महां अवृधत्कस्य होतुः [èV४.२३.१]>_इति
(२,६.१च्) तान्विश्वामित्रेण दृष्टान्वामदेवोऽसृजत
(२,६.१द्) स हेक्षां चक्रे विश्वामित्रो यान्वा अहं संपातानदर्शं तान्वामदेवोऽसृजत
(२,६.१ए) कानि न्वहं हि सूक्तानि संपातांस्तत्प्रतिमान्त्सृजेयं इति
(२,६.१फ़्) स एतानि सूक्तानि संपातांस्तत्प्रतिमानसृजत
(२,६.१ग्) <सद्यो ह जातो वृषभः कनीनः [èV३.४८.१]>_<उदु ब्रह्माण्यैरत श्रवस्या [èV७.२३.१, ऋS२०.१२.१]>_<अभि तष्टेव दीधया मनीषां [èV३.३८.१]> इति विश्वमित्रः_
(२,६.१ह्) <इन्द्रः पूर्भिदातिरद्दासं अर्कैः [èV३.३४.१, ऋS२०.११.१]>_<य एक इद्धव्यश्चर्षणीनां [èV६.२२.१, ऋS२०.३६.१]>_<यस्तिग्मशृङ्गो वृषभो न भीमः [èV७.१९.१, ऋS२०.३७.१]>_इति वसिष्ठः_
(२,६.१इ) <इमां ऊ षु प्रभृतिं सातये धाः [èV३.३६.१]>_<इच्छन्ति त्वा सोम्यासः सखायः [èV३.३०.१]> <शासद्वह्निर्दुहितुर्नप्त्यं गात्[èV३.३१.१]>_इति भरद्वाजः_
(२,६.१ज्) एतैर्वै संपातैरेत ऋषय इमांल्लोकान्त्समपतन्_
(२,६.१क्) तद्यत्समपतंस्तस्मात्संपातास्
(२,६.१ल्) तत्संपातानां संपातत्वम्_
(२,६.१म्) ततो वा एतांस्त्रीन्संपातान्मैत्रावरुणो विपर्यासं एकैकं अहरहः शंसत्य्<एवा त्वां इन्द्र वज्रिन्नत्र [èV४.१९.१]>_इति प्रथमेऽहनि
(२,६.१न्) <यन्न इन्द्रो जुजुषे यच्च वष्टि [èV४.२२.१]>_इति द्वितीये
(२,६.१ओ) <कथा महां अवृधत्कस्य होतुः [èV४.२३.१]>_इति तृतीये
(२,६.१प्) त्रीनेव संपातान्ब्राह्मणाच्छंसी विपर्यासं एकैकं अहरहः शंसति_<इन्द्रः पूर्भिदातिरद्दासं अर्कैः [èV३.३४.१, ऋS२०.११.१]>_इति प्रथमेऽहनि
(२,६.१क़्) <य एक इद्धव्यश्चर्षणीनां [èV६.२२.१, ऋS२०.३६.१]> इति द्वितीये
(२,६.१र्) <यस्तिग्मशृङ्गो वृषभो न भीमः [èV७.१९.१, ऋS२०.३७.१]>_इति तृतीये
(२,६.१स्) त्रीनेव संपातानच्छावाको विपर्यासं एकैकं अहरहः शंसति_<इमां ऊ षु प्रभृतिं सातये धाः [èV३.३६.१]>_इति प्रथमेऽहनि_
(२,६.१त्) <इच्छन्ति त्वा सोम्यासः सखायः [èV३.३०.१]>_इति द्वितीये
(२,६.१उ) <शासद्वह्निर्दुहितुर्नप्त्यं गात्[èV३.३१.१]>_इति तृतीये
(२,६.१व्) तानि वा एतानि नव त्रीणि चाहरहःशंस्यानि
(२,६.१w) तानि द्वादश भवन्ति
(२,६.१x) द्वादश ह वै मासाः संवत्सरः
(२,६.१य्) संवत्सरः प्रजापतिः
(२,६.१ज़्) प्रजापतिर्यज्ञस्
(२,६.१आ) तत्संवत्सरं प्रजापतिं यज्ञं आप्नोति
(२,६.१ब्ब्) तस्मिन्त्संवत्सरे प्रजापतौ यज्ञेऽहरहः प्रतितिष्ठन्तो यन्ति
(२,६.१च्च्) प्रतितिष्ठन्ते_ [एद्. प्रतितिष्ठत, चोर्र्. Pअत्यल्]
(२,६.१द्द्) इदं सर्वं अनु प्रतितिष्ठति
(२,६.१ई) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद
(२,६.१फ़्फ़्) तान्यन्तरेणावापं आवपेरन्_
(२,६.१ग्ग्) अन्यूङ्खा विराजश्चतुर्थेऽहनि वैमदीश्च पङ्क्तीः पञ्चमे पारुच्छेपीः षष्ठे_
(२,६.१ह्ह्) अथ यान्यन्यानि महास्तोत्राण्यष्टर्चान्यावपेरन् । । १ । ।

(२,६.२अ) <को अद्य नर्यो देवकामः [èV४.२५.१]>_इति मैत्रावरुणः_
(२,६.२ब्) <वने न वा यो न्यधायि चाकन्[èV१०.२९.१, ऋS२०.७६.१]>_इति ब्राह्मणाच्छंसी_
(२,६.२च्) <आ याह्यर्वाङुप वन्धुरेष्ठाः [èV३.४३.१]>_इत्यच्छावाकः_
(२,६.२द्) एतानि वा आवपनानि_
(२,६.२ए) एतैरेवावपनैर्देवाश्चर्षयश्च स्वर्गं लोकं आयन्_
(२,६.२फ़्) तथैवैतद्यजमाना एतैरेवावपनैः स्वर्गं लोकं यन्ति
(२,६.२ग्) <सद्यो ह जातो वृषभः कनीनः [èV३.४८.१]>_इति मैत्रावरुणः पुरस्तात्संपातानां अहरहः शंसति
(२,६.२ह्) तदेतत्सूक्तं स्वर्ग्यम्
(२,६.२इ) एतेन सूक्तेन देवाश्चर्षयश्च स्वर्गं लोकं आयन्_
(२,६.२ज्) तथैवैतद्यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति
(२,६.२क्) तदृषभवत्पशुमद्भवति
(२,६.२ल्) पशूनां आप्त्यै
(२,६.२म्) तत्पञ्चर्चं भवति_
(२,६.२न्) अन्नं वै पङ्क्तिः_
(२,६.२ओ) अन्नाद्यस्यावरुद्ध्यै_
(२,६.२प्) <अरिष्टैर्नः पथिभिः पारयन्ता [èV६.६९.१द्]>_इति स्वर्गताया एवैतदहरहः शंसति_
(२,६.२क़्) <उदु ब्रह्माण्यैरत श्रवस्या [èV७.२३.१, ऋS२०.१२.१]>_इति ब्राह्मणाच्छंसी
(२,६.२र्) ब्रह्मण्वदेतत्सूक्तं समृद्धम्
(२,६.२स्) एतेन सूक्तेन देवाश्चर्षयश्च स्वर्गं लोकं आयन्_
(२,६.२त्) तथैवैतद्यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति
(२,६.२उ) तदु वै षडृचम्_
(२,६.२व्) षड्वा ऋतवः_
(२,६.२w) ऋतूनां आप्त्यै
(२,६.२x) तदुपरिष्टात्संपातानां अहरहः शंसति_
(२,६.२य्) <अभि तष्टेव दीधया मनीषां [èV३.३८.१अ]> इत्यच्छावाकः_ [एद्. अच्छावको]
(२,६.२ज़्) अहरहः शंसत्यभिवदति तत्यै रूपम्
(२,६.२आ) <अभि प्रियाणि मर्मृशत्पराणि [èV३.३८.१च्]>_इति
(२,६.२ब्ब्) यान्येव पराण्यहानि तानि प्रियाणि
(२,६.२च्च्) तान्येव तदभिमर्मृशन्तो यन्त्यभ्यारभमाणाः
(२,६.२द्द्) परो वा अस्माल्लोकात्स्वर्गो लोकः
(२,६.२ई) स्वर्गं एव तल्लोकं अभिमृशन्ति
(२,६.२फ़्फ़्) <कवींरिच्छामि संदृशे सुमेधाः [èV३.३८.१द्]>_इति
(२,६.२ग्ग्) ये ह वा अनेन पूर्वे प्रेतास्ते वै कवयस्तानेव तदभ्यतिवदति
(२,६.२ह्ह्) यदु वै दशर्चं दश वै प्राणाः
(२,६.२इइ) प्राणेन तदाप्नोति
(२,६.२ज्ज्) प्राणानां संतत्यै
(२,६.२क्क्) यदु वै दशर्चम्_
(२,६.२ल्ल्) दश वै पुरुषे प्राणाः_
(२,६.२म्म्) दश स्वर्गा लोकाः
(२,६.२न्न्) प्राणांश्चैव तत्स्वर्गांश्च लोकानाप्नोति
(२,६.२ऊ) प्राणेषु चैवैतत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति
(२,६.२प्प्) यदु वै दशर्चम्_
(२,६.२क़्क़्) दशाक्षरा विराट्_
(२,६.२र्र्) इयं वै स्वर्गस्य लोकस्य प्रतिष्ठा
(२,६.२स्स्) तदेतदस्यां प्रतिष्ठायां प्रतिष्ठापयति
(२,६.२त्त्) सकृदिन्द्रं निराह
(२,६.२उउ) तेनैन्द्राद्रूपान्न प्रच्यवते
(२,६.२व्व्) तदुपरिष्टात्संपातानां अहरहः शंसति । । २ । ।

(२,६.३अ) <कस्तं इन्द्र त्वावसुं [èV७.३२.१४]>_<कन्नव्यो अतसीनां [èV८.३.१३]>_<कदू न्वस्याकृतं [èV८.६६.९]> इति कद्वन्तः प्रगाथा अहरहः शस्यन्ते
(२,६.३ब्) को वै प्रजापतिः
(२,६.३च्) प्रजापतेराप्त्यै
(२,६.३द्) यदेव कद्वन्तस्तत्स्वर्गस्य लोकस्य रूपम्_
(२,६.३ए) यद्वेव कद्वन्तः_
(२,६.३फ़्) अथो अन्नं वै कम्
(२,६.३ग्) अथो अन्नस्यावरुद्ध्यै
(२,६.३ह्) यद्वेव कद्वन्तः_
(२,६.३इ) अथो सुखं वै कम्
(२,६.३ज्) अथो अन्नस्यावरुद्ध्यै
(२,६.३क्) यद्वेव कद्वन्तः_
(२,६.३ल्) अथोऽहरहर्वा एते शान्तान्यहीनसूक्तान्युपयुञ्जाना यन्ति
(२,६.३म्) तानि कद्वद्भिः प्रगाथैः शमयन्ति
(२,६.३न्) तान्येभ्यः शान्तानि कं भवन्ति
(२,६.३ओ) तान्येताञ्छान्तानि स्वर्गं लोकं अभिवहन्ति
(२,६.३प्) त्रिष्टुभः सूक्तप्रतिपदः शंसेयुस्
(२,६.३क़्) ता हैके पुरस्तात्प्रगाथानां शंसन्ति धाय्या इति वदन्तस्
(२,६.३र्) तदु तथा न कुर्यात्
(२,६.३स्) क्षत्रं वै होता विशो होत्राशंसिनः
(२,६.३त्) क्षत्रायैव तद्विशं प्रत्युद्यामिनीं कुर्युः
(२,६.३उ) पापवस्यसम्_
(२,६.३व्) त्रिष्टुभो वा इमाः सूक्तप्रतिपद इत्येवं विद्यात्_
(२,६.३w) यथा वै समुद्रं प्रतरेयुरेवं हैवैते प्रप्लवन्ते ये संवत्सरं द्वादशाहं वोपासते
(२,६.३x) तद्यथा सैरावतीं नावं पारकामाः समारोहेयुरेवं हैवैतास्त्रिष्टुभः स्वर्गकामाः समारोहन्ति
(२,६.३य्) न ह वा एतच्छन्दो गमयित्वा स्वर्गं लोकं उपावर्तते
(२,६.३ज़्) वीर्यवत्तमं हि
(२,६.३आ) ताभ्यो न व्याह्वयीत
(२,६.३ब्ब्) समानं हि छन्दः_
(२,६.३च्च्) अथो नेद्धाय्याः करवाणीति
(२,६.३द्द्) यदेनाः शंसन्ति तत्स्वर्गस्य लोकस्य रूपम्_
(२,६.३ई) यद्वेवैनाः शंसन्तीन्द्रमेवैताभिर्निर्ह्वयन्ते यथर्षभं वाशितायै । । ३ । ।

(२,६.४अ) <अपेन्द्र प्राचो मघवन्नमित्रान्[PS१९.१६.८अ, ऋS२०.१२५.१अ]> इति मैत्रावरुणः पुरस्तात्संपातानां अहरहः शंसति_ [एद्. अपेन्द]
(२,६.४ब्) <अपापाचो अभिभूते नुदस्वापोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम [PS१९.१६.८ब्च्द्, ऋS२०.१२५.१ब्च्द्]>_इति_
(२,६.४च्) अभयस्य रूपम्
(२,६.४द्) अभयं इव ह्यन्विच्छति
(२,६.४ए) <ब्रह्मणा ते ब्रह्मयुजा युनज्मि [èV३.३५.५, ऋS२०.८६.१]>_इति ब्राह्मणाच्छंसी_
(२,६.४फ़्) एतां अहरहः शंसति युक्तवतीम्_
(२,६.४ग्) युक्त इव ह्यहीनः_
(२,६.४ह्) अहीनस्य रूपम्
(२,६.४इ) <उरुं नो लोकं अनु नेषि [èV६.४७.८, PS३.३५.४, ऋS१९.१५.४]>_इत्यच्छावाकोऽहरहः शंसति_
(२,६.४ज्) अनुनेषीत्येत इव ह्यहीनः_
(२,६.४क्) अहीनस्य रूपम्_
(२,६.४ल्) नेषीति सत्त्रायणरूपं ओकःसारी हैवैषां इन्द्रो भवति
(२,६.४म्) यथा गौः प्रज्ञातं गोष्ठं यथर्षभो वाशिताया एवं हैवैषां इन्द्रो यज्ञं आगच्छति
(२,६.४न्) न शुनंहूययाहीनस्य परिदध्यात्
(२,६.४ओ) क्षत्रियो ह राष्ट्राच्च्यवते
(२,६.४प्) यो हैव परो भवति तं अभिह्वयति । । ४ । ।

(२,६.५अ) अथातोऽहीनस्य युक्तिश्च विमुक्तिश्च
(२,६.५ब्) <व्यन्तरिक्षं अतिरत्[èV८.१४.७अ, ऋS२०.२८.१अ, २०.३९.२अ]>_इत्यहीनं युङ्क्ते_
(२,६.५च्) <एवेदिन्द्रं [èV७.२३.६अ, ऋS२०.१२.६अ, लोन्गेर्पर्तीक अत्२.४.२]> इति विमुञ्चति
(२,६.५द्) <नूनं सा ते [èV२.११.२१, १५.१०, १६.९, १७.९, १८.९, १९.९, २०.९]>_इत्यहीनं युङ्क्ते
(२,६.५ए) <नू ष्टुतः [èV४.१६.२१, १७.२१, १९.११, २०.११, २१.११, २२.११, २३.११, २४.११]>_इति विमुञ्चति_
(२,६.५फ़्) एषा ह वा अहीनं तन्तुं अर्हति य एनं योक्तं च विमोक्तं च वेद
(२,६.५ग्) तस्य हैषैव युक्तिरेषा विमुक्तिस्
(२,६.५ह्) तद्यत्प्रथमेऽहनि चतुर्विंशे एकाहिकीभिः परिदध्युः प्रथम एवाहनि यज्ञं संस्थापयेयुर्नाहीनकर्म कुर्युः_
(२,६.५इ) अथ यदहीनपरिधानीयाभिः परिदध्युस्तद्यथा युक्तोऽविमुच्यमान उत्कृत्येतैवं यजमाना उत्कृत्येरन्
(२,६.५ज्) नाहीनकर्म कुर्युः_
(२,६.५क्) अथ यदुभयीभिः परिदध्युस्तद्यथा दीर्घाध्व उपविमोकं यायात्तादृक्तत्
(२,६.५ल्) समानीभिः परिदध्युस्
(२,६.५म्) तदाहुरेकया द्वाभ्यां वा स्तोमं अतिशंसेत्_
(२,६.५न्) दीर्घारण्यानि भवन्ति
(२,६.५ओ) यत्र बह्वीभि स्तोमोऽतिशस्यतेऽथो क्षिप्रं देवेभ्योऽन्नाद्यं संप्रयच्छामीति_
(२,६.५प्) अपरिमिताभिरुत्तरयोः सवनयोरपरिमितो वै स्वर्गो लोकः
(२,६.५क़्) स्वर्गस्य लोकस्य समष्ट्यै
(२,६.५र्) तद्यथाभिहेषते पिपासते क्षिप्रं प्रयच्छेत्तादृक्तत्
(२,६.५स्) समानीभिः परिदध्युः
(२,६.५त्) संततो हैवैषां आरब्धोऽविस्रस्तो यज्ञो भवति
(२,६.५उ) संततं ऋचा वषट्कृत्यम्_
(२,६.५व्) संतत्यै संधीयते प्रजया पशुभिर्य एवं वेद । । ५ । ।

(२,६.६अ) तदाहुः कथं द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसूक्ता इति_
(२,६.६ब्) असौ वै होता योऽसौ तपति
(२,६.६च्) स वा एक एव
(२,६.६द्) तस्मादेकसूक्तः
(२,६.६ए) स यद्विध्यातो द्वाविवाभवति
(२,६.६फ़्) तेज एव मण्डलं भा अपरं शुक्लं अपरं कृष्णम्_
(२,६.६ग्) तस्माद द्व्युक्थः_
(२,६.६ह्) रश्मयो वाव होत्रास्
(२,६.६इ) ते वा एकैकम्_
(२,६.६ज्) तस्मादेकोक्थास्
(२,६.६क्) तद्यदेकैकस्य रश्मेर्द्वौद्वौ वर्णौ भवतस्तस्माद्द्विसूक्ताः
(२,६.६ल्) संवत्सरो वाव होता
(२,६.६म्) स वा एक एव
(२,६.६न्) तस्मादेकसूक्तस्
(२,६.६ओ) तस्य यद्द्वयान्यहानि भवन्ति शीतान्यन्यान्युष्णान्यन्यानि तस्माद्द्व्युक्थः_
(२,६.६प्) ऋतवो वाव होत्रास्
(२,६.६क़्) ते वा एकैकम्_
(२,६.६र्) तस्मादेकोक्थास्
(२,६.६स्) तद्यदेकैकस्यर्तौ द्वौद्वौ मासौ भवतस्तस्माद्द्विसूक्ताः
(२,६.६त्) पुरुषो वाव होता
(२,६.६उ) स वा एक एव
(२,६.६व्) तस्मादेकसूक्तः
(२,६.६w) स यत्पुरुषो भवत्यन्यथैव प्रत्यङ्भवत्यन्यथा प्राङ्तस्माद्द्व्युक्थः_
(२,६.६x) अङ्गानि वाव होत्रास्
(२,६.६य्) तानि वा एकैकम्_
(२,६.६ज़्) तस्मादेकोक्थास्
(२,६.६आ) तद्यदेकैकं अङ्गं द्युतिर्भवति तस्माद्द्विसूक्तास्
(२,६.६ब्ब्) तदाहुर्यद्द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसुक्ताः कथं तत्समं भवति
(२,६.६च्च्) यदेव द्विदेवत्याभिर्यजन्त्यथो यद्द्विसूक्ता होत्रा इति ब्रूयात्
(२,६.६द्द्) तदाहुर्यदग्निष्टोम एव सति यज्ञे द्वे होतुरुक्थे अतिरिच्येते कथं ततो होत्रा न व्यवच्छिद्यन्त इति
(२,६.६ई) यदेव द्विदेवत्याभिर्यजन्त्यथो यद्द्विसूक्ता होत्रा इति ब्रूयात्
(२,६.६फ़्फ़्) तदाहुर्यदग्निष्टोम एव सति यज्ञे सर्वा देवताः सर्वाणि छन्दांस्याप्याययन्ति_
(२,६.६ग्ग्) अथ कतमेन छन्दसायातयामान्युक्थानि प्रणयन्ति कया देवतयेति
(२,६.६ह्ह्) गायत्रेण छन्दसाग्निना देवतयेति ब्रूयात्_
(२,६.६इइ) देवान्ह यज्ञं तन्वानानसुररक्षांस्यभिचेरिरे यज्ञपर्वणि यज्ञं एषां हनिष्यामस्तृतीयसवनं प्रति
(२,६.६ज्ज्) तृतीयसवने ह यज्ञस्त्वरिष्टो बलिष्ठः
(२,६.६क्क्) प्रतनुमेषां यज्ञं हनिष्याम इति
(२,६.६ल्ल्) ते वरुणं दक्षिणतोऽयोजयन्
(२,६.६म्म्) मध्यतो बृहस्पतिम्
(२,६.६न्न्) उत्तरतो विष्णुम्_
(२,६.६ऊ) तेऽब्रुवन्नेकैकाः स्मः_
(२,६.६प्प्) नेदं उत्सहामह इति
(२,६.६क़्क़्) स्तुतो द्वितीयो येनेदं सह व्यश्नवामहा इति
(२,६.६र्र्) तानिन्द्रोऽब्रवीत्सर्वे मद्द्वितीया स्थेति
(२,६.६स्स्) ते सर्व इन्द्रद्वितीयास्
(२,६.६त्त्) तस्मादैन्द्रावारुणं ऐन्द्राबार्हस्पत्यं ऐन्द्रावैष्णवं अनुशस्यते
(२,६.६उउ) द्वितीयवन्तो ह वा एतेन स्वा भवन्ति
(२,६.६व्व्) द्वितीयवन्तो मन्यन्ते य एवं वेद । । ६ । ।

(२,६.७अ) आग्नेयीषु मैत्रावरुणस्योक्थं प्रणयन्ति
(२,६.७ब्) वीर्यं वा अग्निः_
(२,६.७च्) वीर्येणैवास्मै तत्प्रणयन्ति_
(२,६.७द्) ऐन्द्रावारुणं अनुशस्यते
(२,६.७ए) वीर्यं वा इन्द्रः
(२,६.७फ़्) क्षत्रं वरुणः
(२,६.७ग्) पशव उक्थानि
(२,६.७ह्) वीर्येणैव तत्क्षत्रेण चोभयतः पशून्परिगृह्णाति
(२,६.७इ) स्थित्यै_
(२,६.७ज्) अनपक्रान्त्यै_
(२,६.७क्) ऐन्द्रीषु ब्राह्मणाच्छंसिन उक्थं प्रणयन्ति
(२,६.७ल्) वीर्यं वा इन्द्रः_
(२,६.७म्) वीर्येणैवास्मै तत्प्रणयन्ति_
(२,६.७न्) ऐन्द्राबार्हस्पत्यं अनुशस्यते
(२,६.७ओ) वीर्यं वा इन्द्रः_
(२,६.७प्) ब्रह्म बृहस्पतिः
(२,६.७क़्) पशव उक्थानि
(२,६.७र्) वीर्येणैव तद्ब्रह्मणा चोभयतः पशून्परिगृह्णाति
(२,६.७स्) स्थित्यै_
(२,६.७त्) अनपक्रान्त्यै_
(२,६.७उ) ऐन्द्रीष्वच्छावाकस्योक्थं प्रणयन्ति
(२,६.७व्) वीर्यं वा इन्द्रः_
(२,६.७w) वीर्येणैवास्मै तत्प्रणयन्ति_
(२,६.७x) ऐन्द्रावैष्णवं अनुशस्यते
(२,६.७य्) वीर्यं वा इन्द्रः_
(२,६.७ज़्) यज्ञो विष्णुः
(२,६.७आ) पशव उक्थानि
(२,६.७ब्ब्) वीर्येणैव तद्यज्ञेन चोभयतः पशून्परिगृह्य क्षत्रेऽन्ततः प्रतिष्ठापयति
(२,६.७च्च्) तस्मादु क्षत्रियो भूयिष्ठं हि पशूनां ईशते [एद्. भुयिष्ठं, चोर्र्. Pअत्यल्]
(२,६.७द्द्) याधिष्ठाता प्रदाता यस्मै प्रत्ता वेदा अवरुद्धास्
(२,६.७ई) तान्येतान्यैन्द्राणि जागतानि शंसन्ति_
(२,६.७फ़्फ़्) अथो एतैरेव सेन्द्रं तृतीयसवनं एतैर्जागतं सवनम्_
(२,६.७ग्ग्) धराणि ह वा अस्यैतान्युक्थानि भवन्ति यन्नाभानेदिष्ठो वालखिल्यो वृषाकपिरेवयामरुत्
(२,६.७ह्ह्) तस्मात्तानि सार्धं एवोपेयुः
(२,६.७इइ) सार्धं इदं रेतः सिक्तं समृद्धं एकधा प्रजनयामेति
(२,६.७ज्ज्) ये ह वा एतानि नानूपेयुर्यथा रेतः सिक्तं विलुम्पेत्कुमारं वा जातं अङ्गशो विभजेत्तादृक्तत्
(२,६.७क्क्) तस्मात्तानि सार्धं एवोपेयुः
(२,६.७ल्ल्) सार्धं इदं रेतः सिक्तं समृद्धं एकधा प्रजनयामेति
(२,६.७म्म्) शिल्पानि शंसति देवशिल्पानि_
(२,६.७न्न्) एतेषां वै शिल्पानां अनुकृतीह शिल्पं अधिगम्यते
(२,६.७ऊ) हस्ती कंसो वासो हिरण्यं अश्वतरीरथः शिल्पम्_
(२,६.७प्प्) शिल्पं हास्य समधिगम्यते य एवं वेद
(२,६.७क़्क़्) यदेव शिल्पानि शंसति तत्स्वर्गस्य लोकस्य रूपम्_
(२,६.७र्र्) यद्वेव शिल्पान्यात्मसंस्कृतिर्वै शिल्पानि_
(२,६.७स्स्) आत्मानं एवास्य तत्संस्कुर्वन्ति । । ७ । ।

(२,६.८अ) नाभानेदिष्ठं शंसति
(२,६.८ब्) रेतो वै नाभानेदिष्ठः_
(२,६.८च्) रेत एवास्य तत्कल्पयति
(२,६.८द्) तद्रेतोमिश्रं भवति
(२,६.८ए) <क्ष्मया रेतः संजग्मानो नि षिञ्चत्[èV१०.६१.७ब्]>_इति
(२,६.८फ़्) रेतसः समृद्ध्या एव
(२,६.८ग्) तं सनारशंसं शंसति
(२,६.८ह्) प्रजा वै नरः_
(२,६.८इ) वाक्शंसः
(२,६.८ज्) प्रजासु तद्वाचं दधाति
(२,६.८क्) तस्मादिमाः प्रजा वदन्त्यो जायन्ते
(२,६.८ल्) तं हैके पुरस्तात्प्रगाथानां शंसन्ति पुरुस्तादायतना वागिति वदन्तः_
(२,६.८म्) उपरिष्टादेक उपरिष्टादायतना वागिति वदन्तः_
(२,६.८न्) मध्य एव शंसेत्_
(२,६.८ओ) मध्यायतना वा इयं वाक्_
(२,६.८प्) उपरिष्टान्नेदीयसीव
(२,६.८क़्) तं होता रेतोभूतं शस्त्वा मैत्रावरुणाय संप्रयच्छति_
(२,६.८र्) एतस्य त्वं प्राणान्कल्पयेति
(२,६.८स्) वालखिल्याः शंसति
(२,६.८त्) प्राणा वै वालखिल्याः
(२,६.८उ) प्राणानेवास्य तत्कल्पयति
(२,६.८व्) ता विहृताः शंसति
(२,६.८w) विहृता वै प्राणाः
(२,६.८x) प्राणेनापानः_
(२,६.८य्) अपानेन व्यानः
(२,६.८ज़्) स पच्छः प्रथमे सूक्ते विहरति_
(२,६.८आ) अर्धर्चशो द्वितीये_ [एद्. द्वितिये, चोर्र्. Pअत्यल्]
(२,६.८ब्ब्) ऋक्शः तृतीये
(२,६.८च्च्) स यत्प्रथमे सूक्ते विहरति वाचं चैव तन्मनश्च विहरति
(२,६.८द्द्) यद्द्वितीये चक्षुश्चैव तच्छ्रोत्रं च विहरति
(२,६.८ई) यत्तृतीये प्राणां चैव तदात्मानं च विहरति
(२,६.८फ़्फ़्) तदुपाप्तो विहरेत्कामः_
(२,६.८ग्ग्) नेतुर्वै प्रगाथाः कल्पन्ते_
(२,६.८ह्ह्) अतिमर्शं एव विहरेत्
(२,६.८इइ) तथा वै प्रगाथाः कल्पन्ते
(२,६.८ज्ज्) यदेवातिमर्शं तत्स्वर्गस्य लोकस्य रूपम्_
(२,६.८क्क्) यद्वेवातिमर्शं आत्मा वै बृहती
(२,६.८ल्ल्) प्राणाः सतोबृहती
(२,६.८म्म्) स बृहतीं अशंसीत्
(२,६.८न्न्) स आत्मा_
(२,६.८ऊ) अथ सतोबृहतीम्_
(२,६.८प्प्) ते प्राणाः_
(२,६.८क़्क़्) अथ बृहतीम्
(२,६.८र्र्) अथ सतोबृहतीम्_
(२,६.८स्स्) तदात्मानं प्राणैः परिवृहन्नेति
(२,६.८त्त्) यद्वेवातिमर्शं आत्मा वै बृहती
(२,६.८उउ) प्रजाः सतोबृहती
(२,६.८व्व्) स बृहतीं अशंसीत्
(२,६.८ww) स आत्मा_
(२,६.८xx) अथ सतोबृहतीम्_
(२,६.८य्य्) ते प्रजाः_
(२,६.८ज़्ज़्) अथ बृहतीम्
(२,६.८आअ) अथ सतोबृहतीम्_
(२,६.८ब्ब्ब्) तदात्मानं प्रजया परिवृहन्नेति
(२,६.८च्च्च्) यद्वेवातिमर्शं आत्मा वै बृहती
(२,६.८द्द्द्) पशवः सतोबृहती
(२,६.८ईए) स बृहतीं अशंसीत्
(२,६.८फ़्फ़्फ़्) स आत्मा_
(२,६.८ग्ग्ग्) अथ सतोबृहतीम्_
(२,६.८ह्ह्ह्) ते पशवः_
(२,६.८इइइ) अथ बृहतीम्
(२,६.८ज्ज्ज्) अथ सतोबृहतीम्_
(२,६.८क्क्क्) तदात्मानं पशुभिः परिवृहन्नेति
(२,६.८ल्ल्ल्) तस्य मैत्रावरुणः प्राणान्कल्पयित्वा ब्राह्मणाच्छंसिने संप्रयच्छति_
(२,६.८म्म्म्) एतस्य त्वं प्रजनयेति
(२,६.८न्न्न्) सुकीर्तिं शंसति
(२,६.८ऊओ) देवयोनिर्वै सुकीर्तिस्
(२,६.८प्प्प्) तद्यज्ञियायां देवयोन्यां यजमानं प्रजनयति
(२,६.८क़्क़्क़्) वृषाकपिं शंसति_
(२,६.८र्र्र्) आत्मा वै वृषाकपिः_
(२,६.८स्स्स्) आत्मानं एवास्य तत्कल्पयति
(२,६.८त्त्त्) तं न्यूङ्खयति_
(२,६.८उउउ) अन्नं वै न्यूङ्खः_
(२,६.८व्व्व्) अन्नाद्यं एवास्मै तत्संप्रयच्छति यथा कुमाराय जाताय स्तनम्_
(२,६.८www) स पाङ्क्तो भवति
(२,६.८xxx) पाङ्क्तो ह्ययं पुरुषः पञ्चधा विहितः_
(२,६.८य्य्य्) लोमानि त्वगस्थि मज्जा मस्तिष्कम्_
(२,६.८ज़्ज़्ज़्) स यावानेव पुरुषस्तावन्तं यजमानं संस्कृत्याच्छावाकाय संप्रयच्छति_
(२,६.८आआ) एतस्य त्वं प्रतिष्ठा कल्पयेति_
(२,६.८ब्ब्ब्ब्) एवयामरुतं शंसति
(२,६.८च्च्च्च्) प्रतिष्ठा वा एवयामरुत्
(२,६.८द्द्द्द्) प्रतिष्ठायां एवैनं अन्ततः प्रतिष्ठापयति
(२,६.८ईई) याज्यया यजति_
(२,६.८फ़्फ़्फ़्फ़्) अन्नं वै याज्या_
(२,६.८ग्ग्ग्ग्) अन्नाद्यं एवास्मै तत्संप्रयच्छति । । ८ । ।

(२,६.९अ) तानि वा एतानि सहचराणीत्याचक्षते यन्नाभानेदिष्ठो वालखिल्यो वृषाकपिरेवयामरुत्
(२,६.९ब्) तानि सह वा शंसेत्सह वा न शंसेत्_
(२,६.९च्) यदेषां अन्तरीयात्तद्यजमानस्यान्तरीयात्_
(२,६.९द्) यदि नाभानेदिष्ठं रेतोऽस्यान्तरीयात्_
(२,६.९ए) यदि वालखिल्याः प्राणानस्यान्तरीयात्_
(२,६.९फ़्) यदि वृषाकपिं आत्मानं अस्यान्तरीयात्_
(२,६.९ग्) यद्येवायामरुतं प्रतिष्ठा वा एवयामरुत्प्रतिष्ठाया एवैनं तं श्रावयेद्दैव्याश्च मानुष्याश्च
(२,६.९ह्) तानि सह वा शंसेत्सह वा न शंसेत्
(२,६.९इ) स ह बुडिल आश्वितरास्युर्विश्वजितो होता सन्नीक्षां चक्र एतेषां वा एषां शिल्पानां विश्वजिति सांवत्सरिके द्वे होतुरुक्थे माध्यंदिनं अभिप्रच्यवेते
(२,६.९ज्) हन्ताहं इत्थं एवायापरुतं शंसयानीति
(२,६.९क्) तद्ध तथा शंसयां चक्रे
(२,६.९ल्) तद्ध तथा शस्यमाने गोश्ल आजगम
(२,६.९म्) स होवाच होतः कथा ते शस्त्रं विचक्रं प्लवत इति
(२,६.९न्) किं ह्यभूदिति_
(२,६.९ओ) एवयामरुदयं उत्तरतः शस्यत इति
(२,६.९प्) स होवाचैन्द्रो वै माध्यंदिनः
(२,६.९क़्) कथेन्द्रं माध्यंदिनान्निनीषसीति
(२,६.९र्) नेन्द्रं माध्यंदिनान्निनीषामीति स होवाच
(२,६.९स्) छन्दस्त्विदं अमाध्यंदिनंसाचि
(२,६.९त्) जागतं वातिजागतं वा
(२,६.९उ) स उ मारुतः_
(२,६.९व्) मैवं संमृष्टेति
(२,६.९w) स होवाचारमाच्छावाकेति_
(२,६.९x) अथास्मिन्ननुशासनं ईषे
(२,६.९य्) स होवाचैन्द्रं एष विष्णुन्यङ्गानि शंसति_
(२,६.९ज़्) अथ त्वं होतुरुपरिष्टाद्रौद्रिया धाय्यायाः पुरस्तान्मारुतस्य सूक्तस्याप्यस्यथा इति
(२,६.९आ) तथेति
(२,६.९ब्ब्) तदप्येतर्हि तथैव शस्यते
(२,६.९च्च्) यथा षष्ठे पृष्ठ्याहनि कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः कथं अत्राशस्त एव नाभानेदिष्ठो भवत्यथ वालखिल्याः शंसति
(२,६.९द्द्) रेतो वा अग्रेऽथ प्राणाः_
(२,६.९ई) एवं ब्राह्मणाच्छंसी_
(२,६.९फ़्फ़्) अशस्त एव नाभानेदिष्ठो भवत्यथ वृषाकपिं शंसति
(२,६.९ग्ग्) रेतो वा अग्रेऽथात्मा कथं अत्र यजमानस्य प्रजातिः कथं प्राणा अवरुद्धा भवन्तीति
(२,६.९ह्ह्) यजमानं वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति
(२,६.९इइ) स यथा गर्भो योन्यां अन्तरेव प्राणानस्यान्तरियात्_
(२,६.९ज्ज्) यदि वृषाकपिं आत्मानं अस्यान्तरियाद्यद्येव या संभवञ्छेते
(२,६.९क्क्) न ह वै सकृदेवाग्रे सर्वं संभवति_
(२,६.९ल्ल्) एकैकं वा अङ्गं संभवतः संभवति
(२,६.९म्म्) सर्वाणि चेत्समानेऽहनि क्रियेरन्कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः_
(२,६.९न्न्) अथ हैवैवयामरुतं होता शंसेत्
(२,६.९ऊ) तद्यास्य प्रतिष्ठा [एद्. तस्यास्य, चोर्र्. Pअत्यल्]
(२,६.९प्प्) तस्यां एवैनं अन्ततः प्रतिष्ठापयति प्रतिष्ठापयति । । ९ । । [एद्. प्रतिस्थापयति २x, चोर्र्. Pअत्यल्]

(२,६.१०अ) देवक्षेत्रं वै षष्ठं अहः_
(२,६.१०ब्) देवक्षेत्रं वा एत आगच्छन्ति ये षष्ठं अहरागच्छन्ति
(२,६.१०च्) न वै देवा अन्योऽन्यस्य गृहे वसन्ति नर्तुरृतोर्गृहे वसतीत्याहुस्
(२,६.१०द्) तद्यथायथं ऋत्विज ऋतुयाजान्यजन्त्यसंप्रदायम्_
(२,६.१०ए) तद्यदृतून्कल्पयन्ति यथायथं जनिता
(२,६.१०फ़्) तदाहुर्नर्तुप्रैषैः प्रेष्येयुर्नर्तुप्रैषैर्वषट्कुर्युः_
(२,६.१०ग्) वाग्वा ऋतुप्रैषाः_
(२,६.१०ह्) आप्यते वै वाक्षष्ठेऽहनीति
(२,६.१०इ) यदृतुप्रैषैः प्रेष्येयुर्यदृतुप्रैषैर्वषट्कुर्युर्वाचं एव तदाप्तां शान्तां ऋक्णवतीं वहरावणीं ऋच्छेयुः_ [एद्. ऋक्तवतीं, चोर्र्. Pअत्यल्]
(२,६.१०ज्) अच्युताद्यज्ञस्य च्यवेरन्
(२,६.१०क्) यज्ञात्प्राणात्प्रजायाः पशुभ्यो जिह्मा ईयुस्[एद्. प्राणान्, चोर्र्. Pअत्यल्]
(२,६.१०ल्) तस्मादृग्मेभ्य एव प्रेषितव्यं
(२,६.१०म्) ऋग्मेभ्योऽधि वषट्कृत्यम्_
(२,६.१०न्) तन्न वाचं आप्तां शान्तां ऋक्तवतीं वहरावणीं ऋच्छन्ति
(२,६.१०ओ) नाच्युताद्यज्ञस्य च्यवेरन्
(२,६.१०प्) न यज्ञात्प्राणान्प्रजायाः पशुभ्यो जिह्मा यन्ति
(२,६.१०क़्) पारुच्छेपीरुपदधति द्वयोः सवनयोः पुरस्तात्प्रस्थितयाज्यानाम्_
(२,६.१०र्) रोहितं वै नामैतच्छन्दो यत्पारुच्छेपम्
(२,६.१०स्) एतेन ह वा इन्द्रः सप्त स्वर्गांल्लोकानारोहत्_
(२,६.१०त्) आरोहति सप्त स्वर्गांल्लोकान्य एवं वेद
(२,६.१०उ) तदाहुर्यत्पञ्चपदा एव पञ्चमस्याह्नो रूपं षट्पदाः षष्ठस्याथ कस्मात्सप्तपदाः षष्ठेऽहनि शस्यन्त इति
(२,६.१०व्) षड्भिरेव पदैः षष्ठं अहरवाप्नुवन्त्यवछिद्येवैतदहर्यत्सप्तमम्_
(२,६.१०w) तदेव सप्तमेन पदेनाभ्यारुह्या वसन्ति
(२,६.१०x) संततैस्त्र्यहैरव्यवछिन्नैर्यन्ति य एवंविद्वांस उपयन्ति । । १० । ।

(२,६.११अ) देवासुरा वा एषु लोकेषु समयतन्त
(२,६.११ब्) ते वै देवाः षष्ठेनाह्नैभ्यो लोकेभ्योऽसुरान्पराणुदन्त
(२,६.११च्) तेषां यान्यन्तर्हस्तानि वसून्यासंस्तान्यादाय समुद्रं प्रारूप्यन्त
(२,६.११द्) तेषां वै देवा अनुहायैतेनैव छन्दसान्तर्हस्तानि वसून्याददत
(२,६.११ए) तदेवैतत्पदं पुनःपदम्
(२,६.११फ़्) स एवाङ्कुश आकुञ्चनाय_
(२,६.११ग्) आ द्विषतो वसु दत्ते निरेवैनं एभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद
(२,६.११ह्) द्यौर्वै देवता षष्ठं अहर्वहति
(२,६.११इ) त्रयस्त्रिंश स्तोमः_
(२,६.११ज्) रैवतं साम_
(२,६.११क्) अतिच्छन्दश्छन्दः_
(२,६.११ल्) यथादेवतं एनेन यथास्तोमं यथासाम यथाछन्दसं ऋध्नोति य एवं वेद
(२,६.११म्) यद्वै समानोदर्कं तत्षष्ठस्याह्नो रूपम्_
(२,६.११न्) यद्येव प्रथमं अहस्तदुत्तमं अहस्
(२,६.११ओ) तदेवैतत्पदं पुनर्यत्षष्ठं यदश्ववद्यद्रथवद्यत्पुनरावृत्तं यत्पुनर्निवृत्तं यदन्तरूपं यदसौ लोकोऽभ्युदितो यन्नाभानेदिष्ठं यत्पारुच्छेपं यन्नाराशंसं यद्द्वैपदा यत्सप्तपदा यत्कृतं यद्रैवतं तत्तृतीयस्याह्नो रूपं
(२,६.११प्) एतानि वै षष्ठस्याह्नो रूपाणि
(२,६.११क़्) छन्दसां उ ह षष्ठेनाह्नाक्तानां रसोऽत्यनेदत्
(२,६.११र्) तं प्रजापतिरुदानान्नाराशंस्या गायत्र्या रैभ्या त्रिष्टुभा परिक्षित्या जगत्या गाथयानुष्टुभा_ [एद्. गयत्र्या]
(२,६.११स्) एतानि वै छन्दांसि षष्ठेऽहनि शस्तानि भवन्त्ययातयामानि
(२,६.११त्) छनदसां एव तत्सरसताया अयातयामतायै
(२,६.११उ) सरसानि हास्य छन्दांसि षष्ठेऽहनि शस्तानि भवन्ति
(२,६.११व्) सरसैश्छन्दोभिरिष्टं भवति सरसैश्छन्दोभिर्यज्ञं तनुते य एवं वेद । । ११ । ।
(२,६.१२अ) अथ यद्द्वैपदौ स्तोत्रियानुरूपौ भवत <इमा नु कं भुवना सीषधाम [èV१०.१५७.१, ऋS२०.६३.१, २०.१२४.४]>_इति
(२,६.१२ब्) द्विपाद्वै पुरुषः_
(२,६.१२च्) द्विप्रतिष्ठः पुरुषः
(२,६.१२द्) पुरुषो वै यज्ञस्
(२,६.१२ए) तस्माद्द्वैपदौ स्तोत्रियानुरूपौ भवतः_
(२,६.१२फ़्) अथ सुकीर्तिं शंसत्य्<अपेन्द्र प्राचो मघवन्नमित्रान्[PS१९.१६.८अ, ऋS२०.१२५.१अ, सकलपाठ अत्२.६.४]> इति
(२,६.१२ग्) देवयोनिर्वै सुकीर्तिः
(२,६.१२ह्) स य एवं एतां देवयोन्यां सुकीर्तिं वेद कीर्तिं प्रतिष्ठापयति भूतानां कीर्तिमान्स्वर्गे लोके प्रतितिष्ठति
(२,६.१२इ) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद_
(२,६.१२ज्) अथ वृषाकपिं शंसति <वि हि सोतोरसृक्षत [èV१०.८६.१, ऋS१०.१२६.१]>_इति_
(२,६.१२क्) आदित्यो वै वृषाकपिस्
(२,६.१२ल्) तद्यत्कम्पयमानो रेतो वर्षति तस्माद्वृषाकपिस्
(२,६.१२म्) तद्वृषाकपेर्वृषाकपित्वम्_
(२,६.१२न्) वृषाकपिरिव वै स सर्वेषु लोकेषु भाति य एवं वेद
(२,६.१२ओ) तस्य तृतीयेषु पादेष्वाद्यन्तयोर्न्यूङ्खनिनर्दान्करोति_
(२,६.१२प्) अन्नं वै न्यूङ्खः_ [एद्. न्युङ्खो, चोर्र्. Pअत्यल्]
(२,६.१२क़्) बलं निनर्दः_
(२,६.१२र्) अन्नाद्यं एवास्मै तद्बले निदधाति_
(२,६.१२स्) अथ कुन्तापं शंसति
(२,६.१२त्) कुयं ह वै नाम कुत्सितं भवति
(२,६.१२उ) तद्यत्तपति तस्मात्कुन्तापास्
(२,६.१२व्) तत्कुन्तापानां कुन्तापत्वम्_
(२,६.१२w) तप्यन्तेऽस्मै कुयानिति तप्तकुयः स्वर्गे लोके प्रतितिष्ठति
(२,६.१२x) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद
(२,६.१२य्) तस्य चतुर्दश प्रथमा भवन्तीदं जना उप श्रुतेति
(२,६.१२ज़्) ताः प्रग्राहं शंसति यथा वृषाकपिम्_
(२,६.१२आ) वार्षरूपं हि
(२,६.१२ब्ब्) वृषाकपेस्तन्न्यायं एत्येव_
(२,६.१२च्च्) अथ रैभीः शंसति
(२,६.१२द्द्) <वच्यस्व रेभ वच्यस्व [èVKह्५.९.१, ऋS२०.१२७.४]>_इति
(२,६.१२ई) रेभन्तो वै देवाश्चर्षयश्च स्वर्गं लोकं आयन्_
(२,६.१२फ़्फ़्) तथैवैतद्यजमाना रेभन्त एव स्वर्गं लोकं यन्ति
(२,६.१२ग्ग्) ताः प्रग्राहं एत्येव_
(२,६.१२ह्ह्) अथ पारिक्षिताः शंसति राज्ञो विश्वजनीनस्येति
(२,६.१२इइ) संवत्सरो वै परिक्षित्
(२,६.१२ज्ज्) संवत्सरो हीदं सर्वं परिक्षियतीति_
(२,६.१२क्क्) अथो खल्वाहुरग्निर्वै परिक्षित्_
(२,६.१२ल्ल्) अग्निर्हीदं सर्वं परिक्षियतीति_
(२,६.१२म्म्) अथो खल्वाहुर्गाथा एवैताः कारव्या राज्ञः परिक्षित इति स नस्तद्यथा कुर्यात्_
(२,६.१२न्न्) गाथा एवैताः शस्ता भवन्ति
(२,६.१२ऊ) यद्यु वै गाथा अग्नेरेव गाथाः संवत्सरस्य वेति ब्रूयात्_
(२,६.१२प्प्) यद्यु वै मन्त्रोऽग्निरेव मन्त्रः संवत्सरस्य वेति ब्रूयात्
(२,६.१२क़्क़्) ताः प्रग्राहं एत्येव_
(२,६.१२र्र्) अथ कारव्याः शंसति_<इन्द्रः कारुं अबूबुधत्[èVKह्५.११.१, ऋS२०.१२७.११]>_इति
(२,६.१२स्स्) यदेव देवाः कल्याणं कर्माकुर्वंस्तत्कारव्याभिरवाप्नुवन्_
(२,६.१२त्त्) तथैवैतद्यजमाना यदेव देवाः कल्याणं कर्म कुर्वन्ति तत्कारव्याभिरवाप्नुवन्ति
(२,६.१२उउ) ताः प्रग्राहं इत्येव_
(२,६.१२व्व्) अथ दिशां क्ळ्प्तीः पूर्वं शस्त्वा <यः सभेयो विदथ्यः [èVKह्५.१२.१, ऋS२०.१२८.१]>_इति जनकल्पा उत्तराः शंसति <योऽनाक्ताक्षो अनभ्यक्तः [èVKह्५.१३.१, ऋS२०.१२८.६]>_इति_
(२,६.१२ww) ऋतवो वै दिशः प्रजननस्
(२,६.१२xx) तद्यद्दिशां क्ळ्प्तीः पूर्वं शस्त्वा <यः सभेयो विदथ्यः [èVKह्५.१२.१, ऋS२०.१२८.१]>_इति जनकल्पा उत्तराः शंसत्यृतूनेव तत्कल्पयति_
(२,६.१२य्य्) ऋतुषु प्रतिष्ठापयति
(२,६.१२ज़्ज़्) प्रतिष्ठन्तीरिदं सर्वं अनुप्रतितिष्ठति
(२,६.१२आअ) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद
(२,६.१२ब्ब्ब्) ता अर्धर्चशः शंसति
(२,६.१२च्च्च्) प्रतिष्ठित्या एव_
(२,६.१२द्द्द्) अथेन्द्रगाथाः शंसति <यदिन्द्रादो दाशराज्ञे [èVKह्५.१४.१, ऋS२०.१२८.१२]>_इति_
(२,६.१२ईए) इन्द्रगाथाभिर्ह वै देवा असुरानागायाथैनानत्यायन्_
(२,६.१२फ़्फ़्फ़्) तथैवैतद्यजमाना इन्द्रगाथाभिरेवाप्रियं भ्रातृव्यं आगायाथैनं अतियन्ति
(२,६.१२ग्ग्ग्) ता अर्धर्चशः शंसति
(२,६.१२ह्ह्ह्) प्रतिष्ठित्या एव । । १२ । ।

(२,६.१३अ) अथैतशप्रलापं शंसत्य्<एता अश्वा आ प्लवन्ते [èVKह्५.१५.१, ऋS२०.१२९.१]>_इति_
(२,६.१३ब्) ऐतशो ह मुनिर्यज्ञस्यायुर्ददर्श
(२,६.१३च्) स ह पुत्रानुवाच पुत्रका यज्ञस्यायुरभिददर्शम्_
(२,६.१३द्) तदभिलपिष्यामि मा मा दृप्तं मन्यध्वं इति
(२,६.१३ए) तथेति
(२,६.१३फ़्) तदभिललाप
(२,६.१३ग्) तस्य हाभ्यग्निरैतशायनो ज्येष्ठः पुत्रोऽभिद्रुत्य मुखं अपिजग्राह ब्रुवन्दृप्तो नः पितेति
(२,६.१३ह्) स होवाच धिक्त्वा जाल्मापरस्य पापिष्ठां ते प्रजां करिष्यामीति यो मे मुखं प्राग्रहीर्यदि जाल्म मुखं न प्राग्रहीष्यः शतायुषं गां अकरिष्यं सहस्रायुषं पुरुषं इति
(२,६.१३इ) तस्मादभ्यग्नय ऐतशायना आजानेयाः सन्तः पापिष्ठा अन्येषां बलिहृतः पितायच्छन्ताः स्वेन प्रजापतिना स्वया देवतया
(२,६.१३ज्) यदैतशप्रलापस्तत्स्वर्गस्य लोकस्य रूपम्_
(२,६.१३क्) यद्वेवैतशप्रलापोऽयातयामा वा अक्षितिरैतशप्रलापः_ [एद्. ऐतशैतशप्रलापो]
(२,६.१३ल्) अयातयामा मे यज्ञोऽसदक्षितिर्मे यज्ञोऽसदिति
(२,६.१३म्) तं वा एतं ऐतशप्रलापं शंसति पदावग्राहम्_ [एद्. वा ऐतशैतशप्रलापं]
(२,६.१३न्) तासां उत्तमेन पदेन प्रणौति यथा निविदः_ [एद्. प्राणौति, चोर्र्. Pअत्यल्]
(२,६.१३ओ) अथ प्रवल्हिकाः पूर्वं शस्त्वा <विततौ किरणौ द्वौ [èVKह्५.१६.१, ऋS२०.१३३.१]>_इति प्रतिराधानुत्तरान्शंसति <भुगित्यभिगतः [èVKह्५.१८.१, ऋS२०.१३५.१]>_इति [एद्. प्रतिराधानुत्तरानः]
(२,६.१३प्) प्रवल्हिकाभिर्ह वै देवा असुराणां रसान्प्रववृहुस्
(२,६.१३क़्) तद्यथाभिर्ह वै देवा असुराणां रसान्प्रववृहुस्तस्मात्प्रवल्हिकास्
(२,६.१३र्) तत्प्रवल्हिकानां प्रवल्हिकात्वम्_
(२,६.१३स्) ता वै प्रतिराधैः प्रत्यराध्नुवन्_
(२,६.१३त्) तद्यत्प्रतिराधैः प्रत्यराध्नुवंस्तस्मात्प्रतिराधास्
(२,६.१३उ) तत्प्रतिराधानां प्रतिराधत्वम्_
(२,६.१३व्) प्रवल्हिकाभिरेव द्विषतां भ्रातृव्याणां रसान्प्रवल्हिकास्
(२,६.१३w) ता वै प्रतिराधैः प्रतिराध्नुवन्ति
(२,६.१३x) ताः प्रग्राहं इत्येव_
(२,६.१३य्) अथाजिज्ञासेन्याः शंसति_<इहेत्थ प्रागपागुदगधराक्[èVKह्५.१७.१, ऋS२०.१३४.१]>_इति_ [एद्. उदाग्, चोर्रेच्तेद्प्. ३०३]
(२,६.१३ज़्) आजिज्ञासेन्याभिर्ह वै देवा असुरानाज्ञायाथैनानत्यायन्_
(२,६.१३आ) तथैवैतद्यजमाना आजिज्ञासेन्याभिरेवाप्रियं भ्रातृव्यं आज्ञायाथैनं अतियन्ति
(२,६.१३ब्ब्) ता अर्धर्चशः शंसति
(२,६.१३च्च्) प्रतिष्ठित्या एव_
(२,६.१३द्द्) अथातिवादं शंसति <वीमे देवा अक्रंसत [èVKह्५.१९.१, ऋS२०.१३५.४]>_इति
(२,६.१३ई) श्रीर्वा अतिवादस्
(२,६.१३फ़्फ़्) तं एकर्चं शंसति_
(२,६.१३ग्ग्) एकस्ता वै श्रीस्
(२,६.१३ह्ह्) तां वै विरेभं शंसति
(२,६.१३इइ) विरेभैः श्रियं पुरुषो वहतीति
(२,६.१३ज्ज्) तां अर्धर्चशः शंसति
(२,६.१३क्क्) प्रतिष्ठित्या एव । । १३ । ।

(२,६.१४अ) अथादित्याश्चाङ्गिरसीश्च शंसत्य्<आदित्या ह जरितरङ्गिरोभ्यो अदक्षिणां अनयन्[èVKह्५.२०.१, ऋS२०.१३५.६]>_इति
(२,६.१४ब्) तद्देवनीथं इत्याचक्षते_
(२,६.१४च्) आदित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त वयं पूर्वे स्वरेष्यामो वयं पूर्व इति
(२,६.१४द्) ते हाङ्गिरसः श्वःसुत्यां ददृशुस्
(२,६.१४ए) ते हाग्निं ऊचुः परेह्यादित्येभ्यः श्वःसुत्यां प्रब्रूहीति_
(२,६.१४फ़्) अथादित्या अद्यसुत्यां ददृशुस्
(२,६.१४ग्) ते हाग्निं ऊचुरद्यसुत्यास्माकम्_
(२,६.१४ह्) तेषां नस्त्वं होतासीत्युपेमस्त्वां इति
(२,६.१४इ) स एत्याग्निरुवाचाथादित्या अद्यसुत्यां ईक्षन्ते कं वो होतारं अवोचन्वाह्वयन्ते युष्माकं वयं इति
(२,६.१४ज्) ते हाङ्गिरसश्चुक्रुधुर्मा त्वं गमो नु वयं इति
(२,६.१४क्) नेति हाग्निरुवाचानिन्द्या वै माह्वयन्ते
(२,६.१४ल्) किल्बिषं हि तद्योऽनिन्द्यस्य हवं नैति
(२,६.१४म्) तस्मादतिद्रूरं अत्यल्पं इति यजमानस्य हवं इयादेव
(२,६.१४न्) किल्बिषं हि तद्योऽनिन्द्यस्य हवं नैति
(२,६.१४ओ) तान्हादित्यानङ्गिरसो याजयां चक्रुस्
(२,६.१४प्) तेभ्यो हीमां पृथिवीं दक्षिणां निन्युस्
(२,६.१४क़्) तां ह न प्रतिजगृहुः
(२,६.१४र्) सा हीयं निवृत्तोभयतःशीर्ष्णी दक्षिणाः शुचा विद्धाः शोचमाना व्यचरत्कुपिता मां न प्रत्यग्रहीषुरिति
(२,६.१४स्) तस्या एते निरदीर्यन्त य एते प्रदरा अधिगम्यन्ते
(२,६.१४त्) तस्मान्निवृत्तदक्षिणां नोपाकुर्यान्नैनां प्रमृजेत्_
(२,६.१४उ) नेद्दक्षिणां प्रमृणजानीति
(२,६.१४व्) तस्माद्य एवास्य समानजन्मा भ्रातृव्यः स्याद्वृणहूयुस्तस्मा एनां दद्यात्
(२,६.१४w) तन्न पराची दक्षिणा विवृणक्ति
(२,६.१४x) द्विषति भ्रातृव्येऽन्ततः शुचं प्रतिष्ठापयति योऽयौ तपति
(२,६.१४य्) स वै शंसत्य्<आदित्या ह जरितरङ्गिरोभ्यो दक्षिणां अनयंस्तां ह जरितः प्रत्यायन्[èVKह्५.२०.१अब्च्, ऋS२०.१३५.६अब्च्]>_इति
(२,६.१४ज़्) न हीमां पृथिवीं प्रत्यायन्_
(२,६.१४आ) <तां उ ह जरितः प्रत्यायन्[èVKह्५.२०.१द्, ऋS२०.१३५.६द्]>_इति प्रति हि तेऽमुं आयन्_
(२,६.१४ब्ब्) <तां ह जरितर्नः प्रत्यगृभ्णन्[èVKह्५.२०.२अ, ऋS२०.१३५.७अ]>_इति
(२,६.१४च्च्) न हीमां पृथिवीं प्रत्यगृभ्णन्_
(२,६.१४द्द्) <तां उ ह जरितर्नः प्रत्यगृभ्ण [èVKह्५.२०.२ब्, ऋS२०.१३५.७ब्]>_इति प्रगृह्यादित्यं अगृभ्णन्_
(२,६.१४ई) <अहानेतरसं न विचेतनानि [èVKह्५.२०.२च्, ऋS२०.१३५.७च्]>_इत्येष ह वा अह्नां विचेता योऽसौ तपति
(२,६.१४फ़्फ़्) स वै शंसति <यज्ञानेतरसं न पुरोगवासः [èVKह्५.२०.२द्, ऋS२०.१३५.७द्]>_इति_
(२,६.१४ग्ग्) एषा ह वै यज्ञस्य पुरोगवी यद्दक्षिणा
(२,६.१४ह्ह्) यथार्हामः स्रस्तं अतिरेतदन्त्येतेष एवेश्वर उन्नेता
(२,६.१४इइ) <उत श्वेत आशुपत्वा उत पद्याभिर्यविष्ठ उतें आशु मानं पिपर्ति [èVKह्५.२०.३, ऋS२०.१३५.८]>_इति_
(२,६.१४ज्ज्) एष एव श्वेत एष शिशुपत्यैष उत पद्याभिर्यविष्ठः_
(२,६.१४क्क्) <उतें आशु मानं पिपर्ति [èVKह्५.२०.३च्, ऋS२०.१३५.८च्]>_इति_
(२,६.१४ल्ल्) <आदित्या रुद्रा वसवस्तेनुत इदं राधः प्रतिगृभ्णीह्यङ्गिरः । इदं राधो विभु प्रभु इदं राधो बृहत्पृथु देवा ददत्वासुरं तद्वो अस्तु सुचेतनं । युष्मां अस्तु दिवे दिवे प्रत्येव गृभायत [èVKह्५.२०.४-५, ऋS२०.१३५.९-१०]>_इति तद्यदादित्याश्चाङ्गिरसीश्च शंसति स्वर्गताया एवैतत्_ [एद्. यसंआं, चोर्र्. Pअत्यल्]
(२,६.१४म्म्) अहरहः शंसति यथा निविदः_
(२,६.१४न्न्) अथ भूतेछदः शंसति <त्वं इन्द्र शर्म रिणा [èVKह्५.२१.१, ऋS२०.१३५.११]>_इति
(२,६.१४ऊ) इमे वै लोका भूतेछदः_
(२,६.१४प्प्) असुरान्ह वै देवा अन्नं सेचिरे भूतेन जिघांसन्तस्तितीर्षमाणास्
(२,६.१४क़्क़्) तानिमे देवाः सर्वेभ्यो भूतेभ्योऽछादयन्_
(२,६.१४र्र्) तद्यदेतानिमे देवाः सर्वेभ्योऽछादयंस्तस्माद्भूतेछदस्
(२,६.१४स्स्) तद्भूतेछदां भूतेछदत्वम्_
(२,६.१४त्त्) छादयन्ति ह वापरं इमे लोकाः
(२,६.१४उउ) सर्वेभ्यो भूतेभ्यो निरघ्नन्_
(२,६.१४व्व्) सर्वेभ्यो भूतेभ्यो छन्दते य एवं वेद । । १४ । ।

(२,६.१५अ) अथाहनस्याः शंसति <यदस्या अंहुभेद्याः [èVKह्५.२२.१, ऋS२०.१३६.१]>_इति_
(२,६.१५ब्) आहनस्याद्वा इदं सर्वं प्रजातम्
(२,६.१५च्) आहनस्याद्वा एतदधिप्रजायते_
(२,६.१५द्) अस्यैव सर्वस्याप्त्यै प्रजात्यै
(२,६.१५ए) ता वै षट्शंसेत्
(२,६.१५फ़्) षड्वा ऋतवः_
(२,६.१५ग्) ऋतवः पितरः
(२,६.१५ह्) पितरः प्रजापतिः
(२,६.१५इ) प्रजापतिराहनस्यास्
(२,६.१५ज्) ता दश शंसेदिति शाम्भव्यस्य वचः_
(२,६.१५क्) दशाक्षरा विराट्_
(२,६.१५ल्) वैराजो यज्ञस्
(२,६.१५म्) तं गर्भा उपजीवन्ति
(२,६.१५न्) श्रीर्वै विराट्_
(२,६.१५ओ) यशोऽन्नाद्यम्_
(२,६.१५प्) श्रियं एव तद्विराजं यशस्यन्नाद्ये प्रतिष्ठापयति
(२,६.१५क़्) प्रतितिष्ठन्तीरिदं सर्वं अनुप्रतितिष्ठति
(२,६.१५र्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद
(२,६.१५स्) तिस्रः शंसेदिति वात्स्यस्
(२,६.१५त्) त्रिवृद्वै रेतः सिक्तं संभवत्याण्डं उल्वं जरायु
(२,६.१५उ) त्रिवृत्प्रत्ययं माता पिता यज्जायते तत्तृतीयम्
(२,६.१५व्) अभूतोद्यं एवैतद्यच्चतुर्थीं शंसेत्
(२,६.१५w) सर्वा एव षोडश शंसेदिति हैके
(२,६.१५x) कामार्तो वै रेतः सिञ्चति [एद्. कामार्तौ, चोर्र्. Pअत्यल्]
(२,६.१५य्) रेतसः सिक्तात्प्रजाः प्रजायन्ते प्रजानां प्रजननाय
(२,६.१५ज़्) प्रजावान्प्रजनयिष्णुर्भवति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद । । १५ । ।

(२,६.१६अ) अथ दाधिक्रीं शंसति <दधिक्राव्णो अकारिषं [èV४.३९.६, èVKह्५.२२.१३, ऋS२०.१३७.३]> इति
(२,६.१६ब्) तत उत्तराः पावमानीः शंसति <सुतासो मधुमत्तमाः [èV९.१०१.४, ऋS२०.१३७.४]>_इत्यन्नं वै दधिक्री [एद्. उत्ताराः, चोर्र्. Pअत्यल्]
(२,६.१६च्) पवित्रं पावमान्यस्
(२,६.१६द्) तदु हैके पावमानीभिरेव पूर्वं शस्त्वा तत उत्तरा दाधिक्रीं शंसन्तीयं वागन्नाद्या यः पवत इति वदन्तस्
(२,६.१६ए) तदु तथा न कूर्यादुपनश्यति ह वागशनायती
(२,६.१६फ़्) स दाधिक्रीं एव पूर्वं शस्त्वा तत उत्तराः पावमानीः शंसति
(२,६.१६ग्) तद्यद्दाधिक्रीं शंसतीयं वागाहनस्यां वाचं अवादीत्
(२,६.१६ह्) तद्देवपवित्रेणैव वाचं पुनीते [एद्. देव पवित्रेण, चोर्र्. Pअत्यल्]
(२,६.१६इ) सा वा अनुष्टुब्भवति
(२,६.१६ज्) वाग्वा अनुष्टुप्
(२,६.१६क्) तत्स्वेनैव छन्दसा वाचं पुनीते
(२,६.१६ल्) तां अर्धर्चशः शंसति
(२,६.१६म्) प्रतिष्ठित्या एव_
(२,६.१६न्) अथ पावमानीः शंसति
(२,६.१६ओ) पवित्रं वै पावमान्यः_
(२,६.१६प्) इयं वागाहनस्यां वाचं अवादीत्
(२,६.१६क़्) तत्पावमानीभिरेव वाचं पुनीते
(२,६.१६र्) ताः सर्वा अनुष्टुभो भवन्ति
(२,६.१६स्) वाग्वा अनुष्टुप्
(२,६.१६त्) तत्स्वेनैव छन्दसा वाचं पुनीते
(२,६.१६उ) ता अर्धर्चशः शंसति
(२,६.१६व्) प्रतिष्ठित्या एव_
(२,६.१६w) <अव द्रप्सो अंशुमतीं अतिष्ठत्[èV८.९६.१३, ऋS२०.१३७.७]>_इत्येतं तृचं ऐन्द्राबार्हस्पत्यं सूक्तं शंसति_
(२,६.१६x) अथ हैतदुत्सृष्टम्_
(२,६.१६य्) तद्यदेतं तृचं ऐन्द्राबार्हस्पत्यं अन्त्यं तृचं ऐन्द्राजागतं शंसति सवनधारणं इदं गुल्मह इति वदन्तस्
(२,६.१६ज़्) तदु तथा न कुर्यात्
(२,६.१६आ) त्रिष्टुबायतना वा इयं वागेषां होत्रकाणां यदैन्द्राबार्हस्पत्या तृतीयसवने
(२,६.१६ब्ब्) तद्यदेतं तृचं ऐन्द्राबार्हस्पत्यं अन्त्यं तृचं ऐन्द्राजागतं शंसति स्व एवैनं तदायतने प्रीणाति स्वयोर्देवतयोः
(२,६.१६च्च्) कामं नित्यं एव परिदध्यात्
(२,६.१६द्द्) कामं तृचस्योत्तमया
(२,६.१६ई) तदाहुः संशंसेत्षष्ठेऽहनि न संशंसेत्
(२,६.१६फ़्फ़्) कथं अन्येष्वहःसु संशंसति
(२,६.१६ग्ग्) कथं अत्र न संशंसतीति_
(२,६.१६ह्ह्) अथो खल्वाहुर्नैव संशंसेत्
(२,६.१६इइ) स्वर्गौ वै लोकः षष्ठं अहः_
(२,६.१६ज्ज्) असमायी वै स्वर्गो लोकः
(२,६.१६क्क्) कश्चिद्वै स्वर्गे लोके शमयतीति
(२,६.१६ल्ल्) तस्मान्न संशंसति
(२,६.१६म्म्) यदेव न संशंसति तत्स्वर्गस्य लोकस्य रूपम्_
(२,६.१६न्न्) यद्वेवैनाः संशंसति यन्नाभानेदिष्ठो वालखिल्यो वृषाकपिरेवयामरुदेतानि वा अत्रोक्थानि भवन्ति तस्मान्न संशंसति_
(२,६.१६ऊ) ऐन्द्रो वृषाकपिः
(२,६.१६प्प्) सर्वाणि छन्दांस्यैतशप्रलापः_
(२,६.१६क़्क़्) उपाप्तो यदैन्द्राबार्हस्पत्या तृतीयसवने तद्यदेतं तृचं ऐन्द्राबार्हस्पत्यं सूक्तं शंसत्यैन्द्राबार्हस्पत्या परिधानीया विशो अदेवीरभ्याचरन्तीरिति_
(२,६.१६र्र्) अपरजना ह वै विशो देवीर्न ह्यस्यापरजनं भयं भवति
(२,६.१६स्स्) शान्ताः प्रजाः क्ळ्प्ताः सहन्ते यत्रैवंविदं शंसति यत्रैवंविदं शंसतीति ब्राह्मणं । । १६ । ।

(२,६.१६चोल्) इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे षष्ठः प्रपाठकः । ।

(चोल्) इत्यथर्ववेदब्राह्मणपूर्वोत्तरं समाप्तं । ।
 
मिलनः व्यास दर्शनम् संस्कृत महाविद्यालय

"https://sa.wikisource.org/w/index.php?title=गोपथब्राह्मणम्&oldid=91946" इत्यस्माद् प्रतिप्राप्तम्