गुणकारण्डव्यूहसूत्रम्

विकिस्रोतः तः
गुणकारण्डव्यूहसूत्रम्
[[लेखकः :|]]

गुणकारण्डव्यूहसूत्रम्

१. श्रीत्रिरत्न भजनानुशंसावदानम्

ओं नमः श्रीरत्नत्रयायः नमः सर्वबुद्धबोधिसत्त्वेभ्यः ॥


यं श्रीघनो महाबुद्धः सर्वलोकाधिपो जिनः ।
तं नाथं शरणं गत्वा वक्ष्ये लोकेशसत्कथाम् ॥
या श्री भगवती देवी सर्वधर्माधिपेश्वरी ।
तस्या भक्तिप्रसादेन वक्ष्यामि बोधिसाधनम् ॥
येन संपालितं सर्वं त्रैधातुकमिदं जगत् ।
तस्य लोकेश्वरस्याहं वक्ष्ये सर्वार्थसाधनम् ।
तद्यथाभून्महासत्त्वो जिनश्रीराज आत्मवित् ।
त्रिरत्नशरणं गत्वा यतिरर्हन् जिनात्मजः ॥
एकस्मिन् समये सोऽर्हद्बोधिमण्डे जिनाश्रमे ।
बोधिचर्याव्रतं धृत्वा जगद्धित्वे समाश्रयत् ॥
तदा तत्र महाभिज्ञो जयश्रीर्यतिरात्मवित् ।
सद्धर्मं समुपादेष्टुं सभासने समाश्रयत् ॥
तं दृष्ट्वा श्रावकाः सर्वे भिक्षवो ब्रह्मचारिणः ।
तत्सद्धर्मामृतं पातुमुपेत्य समुपाश्रयन् ॥
तथान्ये बोधिसत्त्वाश्च संबोधिव्रतसाधिनः ।
सुभाषितामृतं पातुं तत्सभां समुपाश्रयन् ॥
भिक्षुण्यश्चेलकाश्चैवमुपासका उपासिकाः ।
व्रतिनोऽपि महासत्त्वाः सम्बुद्धभक्तिचारिकाः ॥

(२)
ब्राह्मणाः क्षत्रियाश्चापि राजानो मन्त्रिणो जनाः ।
अमात्याः श्रेष्ठिनः पौराः सार्थवाहा महाजनाः ॥
तथा जानपदा ग्राम्याः पार्वतिकाश्च नैर्गमाः ।
तथान्ये दैशिका लोकाः सद्धर्मगुणवांछिनः ॥
सर्वे ते समुपागत्य तमर्हन्तं जयश्रियम् ।
यथाक्रमं समभ्यर्च्य प्रणत्वा समुपाश्रिताः ॥
तत्सद्धर्मामृतं पातुं कृतांजलिपुटा मुदा ।
शास्तारं तं समालोक्य परिवृत्य निषेदिरे ॥
तदा सोऽर्हन्महासत्त्वो बोधिसत्त्वो जिनात्मजः ।
जिनश्रीराजन्नालोक्य सर्वांल्लोकान् सभाश्रीतान् ॥
त्रिरत्नगुणमाहात्म्यं श्रोतुं समभिलाषिणः ।
समुत्थायासनात्तस्य जयश्रियः पुरोऽग्रतः ॥
उद्वहन्नुत्तरासंगं जानुभूमितलाश्रितः ।
पादाब्जं सांजलिर्नत्वा प्रार्थयदेवमादरात् ॥
भदन्त श्रोतुमिछामि त्रिरत्नोत्पत्तिसत्कथाम् ।
तद्भगवान् समुपादिश्य सम्बोधयतु मां गुरो ॥
इति संप्रार्थिते तेन जिनश्रीगुणसंभृता ।
जयश्रीः सुमतिः शास्ता सभा वीक्ष्यैवमादिशत् ॥
साधु शृणु समाधाय जिनश्रीराज सन्मते ।
त्रिरत्नस्य समुत्पत्तिसत्कथागुणविस्तरम् ॥
यथा मे गुरुणादिष्टं जिनकल्पेन योगिना ।
उपगुप्तेन लोकानां हितार्थे वक्ष्यते मया ॥
तद्यथाभून्महाराजश्चक्रवर्तीं नराधिपः ।
अशोको नाम राजेन्द्रः सर्वलोकहितार्थभृत् ॥
एकदा स महाराजः सद्धर्मगुणलालसः ।
त्रिरत्नगुणमाहात्म्यं श्रोतुमैच्छज्जगद्धिते ॥
ततः स भूपती राजा समन्त्रिजनपौरिकः ।
पूजोपहारमादाय स संवाद्य महोत्सवैः ॥

(३)
विहारे कुक्कुटारामे प्रययौ संप्रमोदितः ।
ततः प्राप्तः स राजेन्द्र प्रविश्य संप्रसादितः ॥
उपगुप्तं महाभिज्ञं संददर्श ससांघिकम् ।
तमर्हन्तं समालोक्य नत्वा स सांजलिर्मुदा ॥
सहसा समुपागत्य यथाविधि समर्चयेत् ।
ततः प्रदक्षिणीकृत्वा प्रवत्वा चरणाम्बुजे ॥
सांजलिस्तस्य सद्धर्म श्रोतुं पुरः समाश्रयत् ।
ततः सर्वेऽपि लोगकाश्च यथाक्रममुपागताः ॥
तमर्हन्तं यतिं नत्वा परिवृत्य समाश्रयन् ।
तदाशोकः स राजेन्द्रो दृष्ट्वा सभाश्रितान् जनान् ॥
उत्थाय स्वासनाच्छास्तुः पुरतः समुपाश्रितः ।
उद्वहन्नुत्तरासंगं जानुभ्यां भुवि संस्थितः ॥
सांजलिस्तं यतिं नत्वा प्रार्थयेदेवमादरात् ।
भदन्त श्रोतुमिछामि त्रिरत्नोत्पत्तिसत्कथाम् ॥
किं त्रिरत्नमिति ख्यातं तत्समादेष्टुमर्हसि ।
इति संप्रार्थिते राज्ञा सोऽर्हन् जिनात्मजः सुधीः ॥
उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत् ॥
साधु शृणु महाराज समाधाय जगद्धिते ॥
यथा मे गुरुणादिष्टं तथा ते वक्ष्यते मया ।
तद्यथादिसमुद्भूतो धर्मधातुस्वरुपकः ॥
पंचबुद्धांशसंजातो जगदीशस्तथागतः ।
महाबुद्धो जगन्नाथो जगच्छास्ता महेश्वरः ॥
धर्मराजो मुनीन्द्रोऽर्हन्वैरोचनसमाधिधृक् ।
सर्वज्ञः सद्गुणाधारः सर्वविद्याधिपो जिनः ॥
समन्तभद्ररुपांगः सुगतः श्रीसुखाकरः ।
षडभिज्ञो महावीरो वज्रसत्त्वविनायकः ॥
मारदर्पतमोहन्ता संबोधिज्ञानभास्करः ।
एष स भगवांल्लोके बुद्धरत्न इति स्मृतः ॥

(४)
ये चैतच्छरणं गत्वा बोद्धिसत्त्वा जगद्धिते ।
बोधिचर्याव्रतं धृत्वा चरन्तो भद्रचारिकान् ॥
जित्वा मारगणान् सर्वानर्हन्तो निर्मलाशयाः ।
सम्यक्संबोधिमासाद्य संबुद्धपदमागताः ॥
तेऽपि सर्वे जगन्नाथास्तथागता मुनीश्वराः ।
भगवन्तो महाभिज्ञा बुद्धरत्ना इति स्मृताः ।
या श्री भगवती देवी प्रज्ञा सर्वगुणाश्रया ।
जननी सर्वबुद्धानां संबोधिज्ञानभास्करी ॥
मारदर्पतमोहन्त्री सद्धर्मगुणदायिनी ।
सर्वविद्याधरी लक्ष्मी सर्वसत्त्वशुभंकरी ॥
एषः सद्धर्मसम्भर्ता धर्मरत्न इति स्मृतः ॥
ये चान्येऽपि महायानसूत्रादयः सुभाषिताः ।
देशिताः सुगतैस्तेऽपि धर्मरत्न इति स्मृतः ।
यश्च सद्धर्मसंभिर्ता बोधिसत्त्वो जगत्प्रभुः ।
महासत्त्वो जगन्नाथः सर्वधर्माधिपेश्वरः ॥
दुष्टक्लेशतमोहन्ता संबोधिगिणभास्करः ।
विश्वरुपो महाभिज्ञः सर्वसत्त्वहितार्थभृत् ॥
सर्वलोकाधिपः श्रीमान् धर्मराजो जिनात्मजः ।
एष लोकेश्वरः शास्ता संघरत्न इति स्मृतः ॥
ये चान्येऽपि महासत्त्वा बोधिसत्त्वा जितेन्द्रियाः ।
अर्हन्तो निर्मलात्मानः संबोधिज्ञानसाधिनः ॥
भद्रचर्यासमाचाराश्चतुर्ब्रह्मविहारिणः ।
संबुद्धसांघिकास्तेऽपि संघरत्नाः स्मृता जिनैः ॥
ये तेषां शरणं गत्वा भक्तिश्रद्धासमाहिताः ।
भजन्ति सर्वदा नित्यं स्मृत्वापि च दिवानिशम् ॥
ते भवन्ति महासत्त्वा बोधिसत्त्वा गुणाकराः ।
सच्छ्रीसंपत्समापन्नाः सर्वसत्त्वहितोत्सवाः ॥
बोधिचर्याव्रतं दृत्वा कृत्वा लोके शुभं सदा ।
सुखान्येव सदाअ भुक्त्वाअ प्रान्ते याअन्ति सुखावतीम् ॥

(५)
इत्येवं संघरत्नस्य भजनं पुण्यमुत्तमम् ।
मत्वा तच्छरणं गत्वा भजन्त्येतद्गुणार्थिनः ॥
एतत्पुण्यविशुद्धात्मा कदाप्येति न दुर्गतिम् ।
सर्वदा सद्गतिष्वेव जातो धर्माधिपो भवेत् ॥
ये चापि धर्मरत्नस्य प्रगत्वा शरणं सदा ।
भजन्ति श्रद्धया भक्त्या श्रुत्वाप्येतत्सुभाषितम् ॥
तेऽपि सन्तो महासत्त्वा बोधिसत्त्वा गुणाश्रयाः ।
संबोधिश्रीसुखाधाराः सर्वसत्त्वशुभारताः ॥
संबोधिचारिकां धृत्वा कृत्वा सत्त्वहितं सदा ।
सत्सुखान्येव भुक्त्वान्ते संयान्ति सुगतालयम् ॥
इत्येवं धर्मरत्नस्य भजनार्थं वरं वृषम् ।
विज्ञाय शरणं गत्वा भजन्त्वेतच्छुभार्थिनः ॥
एतद्धर्मविशुद्धात्मा दुर्गतिं नैव याति सः ।
सद्गतिष्वेव संजातो प्राओन्ते याति जिनालयम् ॥
इति विज्ञाय ये मर्त्याः सद्धर्मसुखवांछिनः ।
त्रिरत्नशरणं गत्वा भजन्तु ते सदा भवे ॥
एतत्पुण्यानुभावेन परिशुद्धाशया नराः ।
संबोधिचित्तमासाद्य चरन्ति बोधिसंवरम् ॥
बोधिचर्यां चरन्तस्ते पूर्य पारमिताः क्रमात् ॥
चतुर्मारान् विनिर्जित्य निःक्लेशा विमलाशयाः ।
अर्हन्तं प्राप्य संबोधिं संबुद्धपदमाप्नुयुः ॥
इति विज्ञाय यो मर्त्यः संबुद्धपदमिच्छति ।
स आदौ शरणं गत्वा सद्गुरोः समुपाश्रयेत् ॥
आराध्य सद्गुरुं भक्त्या सन्तोष्य संप्रसादयन् ।
तदुपदेशमासाद्य तीर्थ स्नात्वा व्रतं चरेत् ॥
व्रतानां पोषधं श्रेष्ठं समाख्यातं मुनीश्वरैः ।
एतत्पुण्यानुभावेन संप्राप्नोति बोधिमुत्तमाम् ॥
अतीता अपि संबुद्धा एतत्पुण्यानुभावतः ।
जित्वा मारान् समासाद्य संबोधिमभवन् जिनाः ।

(६)
ये चैतर्हि स्थिताः सर्वे तेऽप्येतत्पुण्यभावतः ।
अर्हन्तं प्राप्य संबोधिं भवन्ति सुगताः खलु ॥
ये चाप्यनागताः सर्वे बोधिसत्त्वा व्रतोपमाः ।
तेऽप्येतत्पुण्यपाकेन भविष्यन्ति मुनीश्वराः ॥
एवमन्येतत्पुण्यपाकेन भविष्यन्ति मुनीश्वराः ॥
एवमन्येऽपि सत्त्वाश्च ये येऽप्येतद्व्रतंचराः ।
ते ते सर्वे महासत्त्वा भवेयुर्बोधिभागिनः ॥
श्रीमन्तः सद्गुणाधारा निःक्लेशा विजितेन्द्रियाः ।
सर्वसत्त्वहितोद्युक्ताश्चतुर्ब्रह्मविहारिणः ॥
दुर्गतिं ते न गच्छन्ति कदापि हि भवालये ॥
सदापि सद्गतावेव संजाताः सत्सुखान्विताः ।
बोधिसत्त्वाः सुधीमन्तःसद्धर्मगुणसाधिनः ॥
क्रमेण बोधिसंभारं पूरयित्वा समाहिताः ।
त्रिविधां बोधिमासाध निर्वृतिपदमाप्नुयुः ॥
इति विज्ञान ये मर्त्या निर्वृतिपदकांक्षिणः ।
ते एतद्व्रतमाधाय संचरन्तो यथाविथि ॥
एतत्पुण्यविशुद्धा हि नैव गच्छन्ति दुर्गतिम् ।
सदा सद्गतिसंजाताः प्रान्ते ययुः सुनिर्वृतिम् ॥
एवं मे गुरुणादिष्टं मुनीन्द्रैदेशितं यथा ।
तथाहं ते मया राजन् गदितं संप्रध्यताम् ॥
त्वमप्येवं सदा राजन् दुर्गतिं न यदीच्छसि ॥
सदा सद्गतिसंजातो निर्वृतिं हि यदीच्छसि ॥
चरस्वैतद्व्रतं राजन् पोषधाख्यं यथाविधि ।
एतत्पुण्यविशुद्धात्मा नूनं यायाः सुनिर्वृतिम् ॥
इति तेनार्हता शाया समादिष्टं निशम्य सः ।
अशोको नृपती राजा तद्व्रतं धर्तुमैच्छत ॥
ततः स नृपती राजा कृतांजलिरुपाश्रितः ।
उपगुप्तं तमर्हन्तं नत्वैवं प्रार्थयन्मुदा ॥
भवन्ते भवतादिष्टं श्रुत्वा मे रोचते मनः ।
तथाहं संचरिष्येदं पोषधं व्रतमुत्तमम् ॥

(७)
तद्विधानं समाख्याहि तत्फलं च विशेषतः ।
त्रिरत्नभजनोत्पन्नं पुण्यfअलं च विस्तरम् ॥
इति संप्रार्थिते राज्ञा स शास्तार्हन्यतिः सुधिः ।
अशोकं तं महाराजं समालोक्यैवमादिशत् ॥
साधु शृणु महाराज यदिच्छसि समाहितः ।
यथा मे गुरुणाख्यातं तथा ते संप्रवक्ष्यते ॥
तद्याथायं प्रसन्नात्मा व्रतं चरितुमिच्छति ।
स आदौ प्रातरुत्थाय तीर्थ स्नात्वा यथाविधि ॥
शुद्धक्यावृतः शुद्धचित्तो ब्रह्मविहारिकः ।
अष्टांगविधिसंयुक्तं पोषधं व्रतमादधत् ॥
श्रीमदमोपाशस्य लोकेश्वरस्य मण्डलम् ।
सगणं वर्तयेद्रंगैः पंचभिः परिशोभितम् ॥
यथाविधि प्रतिष्ठाप्य शुचिशीलः समाहितः ।
तथैव मद्यमांसाद्या रसुनाद्या विवर्जयेत् ॥
आदौ गुरुं समभ्यर्च्य यथाविधि प्रणामयेत् ।
ततयिरत्नमभ्यर्च्य प्रणमेच्छरणं गतः ॥
ततश्चामोघपाशाख्यं लोकेश्वरं जगत्प्रभुम् ॥
निध्याय मनसावाह्य दत्वा पाद्यार्घमादरात् ॥
संस्थाप्य मण्डले तत्र सगणं संप्रमोदितः ।
यथाविथि समाराध्य श्रद्धाभक्तिसमन्वितः ॥
धूपैर्गन्धैः सुपुष्पैश्च दीपैः पंचामृताशनैः ।
सर्वैर्द्रव्यैः सरत्नैश्च समभ्यर्च्याभितोषयेत् ॥
जपस्तोत्रादिभिः स्तुत्वा कृत्वा नैकप्रदक्षिणाम् ।
अष्टांगैः सांजलिर्नत्वा प्रार्थयेद्भद्रसंवरम् ॥
ततश्च सांजलिः स्थित्वा कुर्यात्स्वपापदेशनाम् ।
पुण्यानुमोदनां चापि सुचिरं चापि संस्थितिम् ।
एवं स सुप्रसन्नात्मा संप्रार्थ्य बोधिसंवरम् ।
ततः क्षमार्थनां कृत्वा तन्मण्डलं विसर्जयेत् ॥

(८)
ततोऽह्नेः तृतीये यामे पंचामृतादिभोजनम् ।
निरामिषं यथाकामं भुक्त्वा चरेत्समाहितः ॥
एवं तद्व्रतसंपूर्णं कृत्वा संपालयन्मुदा ।
सर्वसत्त्वहितं कृत्वा चरेत्संबोधिमानसः ॥
एअतत्पुण्यविशुद्धात्मा निःक्लेशः स जितेन्द्रियः ।
बोधिसत्त्वो महासत्त्वः स्वपरात्महितार्थभृत् ॥
श्रीमान् सद्गुणसंवासो बोधिचर्याव्रतं दधत् ।
सदा सद्गतिसंजातो भुक्त्वा भोयं यथेप्सितम् ॥
त्रिविधां बोधिमासाद्य प्रान्ते यायात्सुनिर्वृतिम् ॥
एवमेवद्व्रतोद्भूतं पुण्यfअलं महत्तरम् ।
प्रमातुं शक्यते नैव सर्वैरपि मुनीश्वरैः ॥
तत्पूजाकृतपुण्यानां विशेषं फलमुच्यते ।
तच्छृणुष्व महाराज समाधाय सुचेतसा ॥
ये पुण्यकामा मनुजायिरत्नं समीक्ष्य हर्षाच्छरणं प्रयान्ति ।
ते धर्मरक्ताः शुभलक्ष्मीमन्तः सम्बोधिचर्याभिरता भवन्ति ॥
पंचामृतैः पंचसुगन्धितोयैर्ये स्नापयन्ति प्रमुदा त्रिरत्नम् ।
मन्दाकिनीदिव्यसुगन्धितोये स्नात्वा सुखं ते दिवि संरमन्ते ॥
ये च त्रिरत्नेषु सुगन्धिधूपं प्रधुपयन्ति प्रतिमोदयन्तः ।
ते शुद्धचिताः शुचिगन्धितांगा रत्नोपमाः श्रीईगुणिता भवन्ति ॥
ये पंचगन्धैरनुपयन्ति त्रिरत्नदेहे परिशुद्धचित्ताः ।
ते रत्नवन्तः क्षितिपाधिराजा भवन्ति सर्वार्थहितार्थकामाः ॥
ये दूष्यपट्टादिवराम्बराणि त्रिरत्ननथाय मुदार्पयन्ति ।
कौशेयरत्नाभरणावृतांगा धर्माधिपास्ते सुधियो भवन्ति ॥
ये च त्रिरत्नं स्थलजैः सुपुष्पैर्जलोद्भवैश्चापि समर्चयन्ति ।
ते दिव्यलक्ष्मीसुखभोग्यवन्तः श्रीसिद्धिमन्तः सुभगा भवन्ति ॥
त्रिरत्नबिम्बवरे पुष्पमाला ये धर्मकामा अवलम्बयन्ति ।
ते देवराजा वरलक्ष्मीमन्तः संबोधिकामाः सुभगा भवन्ति ॥
सर्वाणि पुष्पाणि सुगन्धिमन्ति त्रिरत्नबिम्बे प्रकिरन्ति ये च ।
देवाधिपाः स्वर्गगता भवन्ति महीगतास्ते क्षितिपाधिराजाः ॥

(९)
ये दीपमालां रचयन्ति ये च रत्नत्रयाग्रे हतमोहजालाः ।
ते कान्तरुपा गुणरत्नवन्तो भवन्ति भूपार्चितपादपद्माः ॥
प्रकुर्वते ये च प्रदीपदानं रत्नत्रयाग्रे घृततैलदीप्तम् ।
ते शुद्धनेत्राः प्रबला गुणाढ्या देवाधिराजाः क्षितिपाधिपाश्च ॥
भोज्यं प्रणीतं सुरसं सुवर्णं रत्नत्रयाय प्रतिपादयन्ति ।
ये भक्तियुक्ता दिवि ते भवन्ति सुराधिपा भूतपयश्च धीराः ॥
पानं नरा येऽमृतसद्गुणाढ्यं रत्नत्रयाय प्रतिपादयन्ति ।
ते भूराजा नीरुजो बलिष्ठा भवन्ति स्वर्गे त्रिदिशाधिपाश्च ॥
शाकानि मूलानि fअलानि ये च रत्नत्रयाय प्रतिपादयन्ति ।
यथेष्टभोग्यं सततं प्रभुक्त्वा गच्छन्ति तत्ते सुगतालये च ॥
ये च त्रिरत्नाय समर्पयन्ति सुपथ्यभैषज्यगणानि भक्त्या ।
श्रीईसमृद्धाः क्षितिपाधिनाथा भुक्त्वा सुखं यान्ति जिनालयं ते ॥
ताम्बूलपूगादिरसायनानि ये च त्रिरत्नाय समर्पयन्ति ।
दिव्यांगसौन्दर्यगुनाभिरामा भवन्ति ते श्रीगुणिनः सुराश्च ॥
वितानमुच्चैर्वितनोति यश्च रत्नत्रये सर्वनृपाभिवन्द्यः ।
विशालवंशो गुणवान् सुधीरो महानुभावप्रथितो भवेत्सः ॥
ध्वजान् विचित्रानवरोपयन्ति ये च त्रिरत्नालय उत्सवार्थम् ।
ते श्रीसमृद्धाः सुगुणाभिरामा भवन्ति नाथा दिवि भूतले च ॥
श्रीमत्पताका अवलम्बयन्ति रत्नत्रये ये रसाभियुक्ताः ।
लक्ष्मीश्वरास्ते जितदुष्टसंघा भवन्त्यधीशा दिवि भूतले च ॥
छत्राणि सौवर्णमयानि ये च कौशेयदूष्टै रचितानि वा च ।
सुशुद्धरंगैर्मयनैश्च पुष्पै रत्नत्रये येऽभ्यवरोपयन्ति ॥
ते भूपराजा वरसिद्धिमन्तो लक्ष्मीश्वराः सर्वहितार्थकायाः ।
सद्धर्मकामा गुणरत्नपूर्ना वन्द्या भवन्ति प्रवरर्द्धिमन्तः ॥
संगीतिवाद्यैर्मुरुजादिभिश्च मुकुंदढक्काप्रानवानकैश्च ।
मड्मृदंगपटहादिभिश्च मनोज्ञघोषैः श्रोतिचित्तरम्यैः ॥
स दुन्दुभिडिण्डमझर्झरैश्च प्रणादिभिर्मर्दनवादनैश्च ।
तथान्यकैर्मंगलशब्दवाद्यै रत्नत्रये ये रचयन्ति पूजाम् ॥

(१०)
तथा च वीणादिमनोज्ञनादैर्वशैः सुरावैरपि काहरैश्च ।
भेरीभिरुच्चैः परिवादिनीभि रत्नत्रयं येसुरसा भजन्ति ॥
तौर्यत्रिकैर्भद्रसुघोषशंखैः शृंगादिभिश्चापि मनोज्ञनादैः ।
नृत्यादिभिश्चापि प्रमोदयन्तो रत्नत्रयं ये सुरसा भजन्ति ॥
ते दिव्यश्रोत्राः सुमनोज्ञशब्दाः सर्वार्थसम्पत्यपरिपूर्णकोशाः ।
सद्धर्म्मपुण्यानुगुणाभिरक्ताः सुखानि भुक्त्वा प्रचरन्ति स्वर्गे ॥
क्षिपन्ति लाजाक्षतपुष्पकाणि रत्नत्रये ये परिहर्षमाणाः ।
न दुर्गतिं ते सततं व्रजन्ति स्वर्गे प्रयाताः सुभगा रमन्ते ॥
सुधातुरत्नानि सदक्षिणानि रत्नत्रये ये च समर्पयन्ति ।
सुलब्धकामार्थसुखाभिरामाः पूर्णेन्द्रियास्ते सुधियो भवन्ति ॥
प्रदक्षिणानि प्रविधाय भक्त्या भजन्ति ये चापि मुदा त्रिरत्नम् ।
ते शुद्धकायाः प्रतिलब्धसौख्या भवन्ति देवा मनुजाधिपाश्च ॥
ये च त्रिरत्नं स्तुतिभिर्भजन्ति गद्यत्मिकैः पद्यमयैश्च शुद्धैः ।
वागीश्वरास्ते सुसमृद्धकोषा भवन्ति नाथा दिवि भूतले च ॥
ये च त्रिरत्नं शरणं प्रयाता अष्टाभिरगैः प्रनमन्ति भ्क्त्या ।
भवन्ति ते श्रीगुणवर्णपूर्णाः सद्धर्मकामाः नृपतीश्वराश्च ॥
ये चापि नित्यं मनसा विचित्य भजन्ति भक्त्या शरणं प्रयाताः ।
ते पापनिर्मुक्तविशुद्धकायाः सद्धर्मकामाः दुर्गतिं व्रजन्ति ॥
ये च त्रिरत्नं मनसा विचिन्त्य तन्नाम नित्यं समुदीरयन्ति ।
ते शुद्धचित्ता विमलात्मकाश्च संबुद्धधर्माभिरता भवन्ति ॥
ये च त्रिरत्नानि सुदूरतोऽपि दृट्वा प्रसन्नाः प्रणमन्ति भक्त्या ।
ते चापि सद्धर्मगुणाभिलाषाः शुद्धत्रिकायाः सुभगा भवन्ति ॥
इत्येतदादीनि महत्तराणि पुण्याअनि श्रीसद्गुणासाधनानि ।
त्रिरत्नपूजाभजनोद्भवानि मत्वा भजन्तु त्रिगुणात्मकं तम् ॥
आख्यातमेतत्सुगतैश्च सर्वेः त्रिरत्नसेवाभजनोद्भवं तत् ।
पुण्यं महत्तस्य समं क्वचिन्न सर्वत्र लोकेष्वपि सत्येमेव ॥
एवं महत्पुण्यमुदारमग्रं बद्धप्रमेयं गणनानभिज्ञम् ।
मत्वा त्रिरत्नं शरणं प्रयातो राजन् यदि बोद्धिमिच्छसि ॥

(११)
ये ये त्रिरत्नं शरणं प्रयाता भजन्ति सत्कृत्य सदा प्रसन्नाः ।
ते सर्व एवं त्रिगुणाभिरामा सद्धर्मकामाः सुगतात्मजाः स्युः ॥
दत्वा सदार्थिभ्य उदारदानं संबोधिकामाः सुवृषे चरेयुः ।
क्रमेण सम्बोधिव्रतं चरन्तो बोधिं समासाद्य जिना भवेयुः ।
ततः ससंघायिजगद्धितार्थं विज्ञाय सुधर्ममुपादिशन्तः ।
समाप्य सर्वं त्रिषु बौद्धकार्यं संययुरन्ते परिनिर्वृतिं ते ॥
एवं हि विज्ञाय यदीच्छसि त्वं निर्वृतिसौख्यमधिगन्तुमेवम् ।
सदा त्रिरत्नं शरणं प्रयातः श्रद्धाप्रसन्नः सततं भजस्व ॥
मा निन्द राजन्नवमन्यमोहो त्रैधातुनाथं शुभदं त्रिरत्नम् ।
अनिन्दनीयं हि जगत्प्रधानं सद्धर्मराजं भजनीयमेव ॥
ये चाप्यधिक्षिप्य मदाभिमाना दुष्ट कुलेष्वेप्रि विहतात्मधैर्याः ।
आलोक्य निन्दन्ति सदा प्रसन्नाः त्रिलोकभद्रार्थप्रदं त्रिरत्नम् ॥
ते सर्व एनोऽभिरताः प्रमत्ताः सद्धर्मनिन्दाभिरताः प्रदुष्टाः ।
नष्टाः परद्रोहमदाभिमानाः सत्त्वविघाताभिरता भवेयुः ॥
ततश्च ते तदुरिताभिषक्ता महत्सु पापेष्वपि निर्विशंकाः ।
सर्वाणि धर्मार्थसुभाषितानि श्रुत्वा प्रसन्नाः परिभाषयेयुः ॥
एवं सुघोराणि बहूनि कृत्वा पापानि नित्यं समुदाचरन्तः ।
भूयोऽतिपापेष्वपि ते चरन्तो दुःखानि भुक्त्वा निरये व्रजेयुः ॥
गत्वापि तेऽपायनिमग्नदेहाः क्षुधाग्निसन्दग्धविमोहिताश्च ।
भुक्त्वाप्यमेध्यानि तृषाभितप्ताः पीत्वापि मूत्राणि च नैव तुष्टाः ॥
जिघत्सितास्तेऽतिपिपासिताश्च क्लेशाग्निसंतप्तविमोहिताश्च ।
तीव्रातिदुःखार्ताविलुप्तधैर्या भ्रमन्त एनोऽभिरता वसेयुः ॥
नैवापि तस्यापि विमुक्तिमार्गं लभेयुरेनोऽभिनिबन्ध्यमानाः ।
सदापि तत्रैव वसेयुरेवं तीव्रव्यथाक्रान्तविमोतास्ते ॥
ये चापि लोभेन बलेन चापि द्रव्यं त्रिरत्नस्य धनाशनादि ।
हत्वा मुषित्वाप्यपहत्य वापि प्रभुंजते क्लेशविलुतधैर्याः ॥
ते दुष्टसत्त्वा दुरताभिरक्ता कृत्वैव घोराण्यपि पातकानि ।
प्रभुंजमानाः सुचिरं सुदुःखं कृच्छ्रेण मृत्वा नरकं व्रजेतुः ॥

(१२)
तत्रापि ते क्लेशविलुप्तधैर्याः क्षुधातितृष्णाग्निप्रतापितांगाः ।
पुरीषमूत्रादिप्रभुंजमाना भ्रमन्त एवं निरये वसेयुः ॥
कालान्तरे ते प्रतिलब्धधैर्याः स्वदुष्कृतं कर्म विभावयन्तः ।
स्मृत्वा त्रिरत्नं मनसानुतप्ता ध्यात्वा प्रसन्नाः प्रणतिं विदध्युः ॥
ततस्तदेनःपरिमुक्तदेहाः समुत्थितान्नरकात्कदाचित् ।
मानुष्यजातिं समाप्नुवन्तो दीना दरिद्रा कृपणा भवेयुः ॥
तत्रापि ते दुष्टजानुसक्ताआः सद्धर्मनिन्दादुरितानुरक्ताः ।
भूयोऽपि पापानि महान्ति कृत्वा व्रजेयुरेवं नरकेषु भूयः ॥
भ्रमन्त एवं बहुधा भवे ते दुःखानि भुक्त्वा सचिरं रुजार्ताः ।
किंचित्सुखं नैव लभेयुरेनोनिबन्धचिता नरके वसन्ते ॥
एवं त्रिरत्नेष्वपकारजातं पापं सुघोरं कथितं मुनीन्द्रैः ।
मत्वेति राजन्नपकारमत्र रत्नत्रये मा विदधातु किंचित् ॥
भक्त्वा प्रसन्नः शरणं प्रयातयिरत्नमेव सततं भजस्व ।
एतद्विपाकेन सदा शुभानि कृत्वा प्रयायाः सुगतालयं ते ॥
इत्येवं तत्समादिष्टं श्रुत्वाशोकः स भूपतिः ।
तमर्हन्तं गुरुं नत्वा सांजलिरेवमब्रवीत् ॥
भदन्त भवतादिष्टं श्रुत्वा मे रोचते मनः ।
तथा तच्छरणं गत्वा भजामि सर्वदाप्यहम् ॥
सदाप्यस्य त्रिरत्नस्य व्रतं चापि समादरात् ।
धर्तुमिच्छाम्यहं शास्तस्तत्समादेष्टुमर्हति ॥
कस्मिन्मासे चरेदेतद्व्रतं कस्मिन्स्तिथावपि ।
एतत्सम्यक्तमादिश्य प्रबोधयतु मां भवान् ॥
इति बिज्ञापितं राज्ञा श्रुत्वा सोऽर्हन्महामतिः ।
उपगुप्तो नरेन्द्रं तं समालोक्यैवमादिशत् ॥
साधु शृणु महाराज यद्येतद्व्रतमिच्छसि ।
तथाहं ते प्रवक्ष्यामि यथा मे गुरुणोदितम् ॥
तद्यथा सर्वमासेषु चरेत्पंचसु पर्वसु ।
शुक्लाष्टम्यां विशेषेन पूर्णमास्यां जगुर्जिनाः ॥

(१३)
मासेषु श्रोवणे श्रेष्ठं कार्तिके च विशेषतः ।
कृतकर्मैविपाकत्वं बद्धसंख्यं महत्तरम् ॥
इति मत्वा महाराज यावज्जीवं समाहितः ।
त्रिरत्नं शरणं गत्वा व्रतमेतत्सदा चर ॥
एतत्पुण्यमहोदारं संबोधिज्ञानदायकम् ।
अक्षयं ह्यनुपमं चेति सर्वबुद्धैर्निगद्यते ॥
इति तेनार्हतादिष्टं श्रुत्वा राजा स मोदितः ।
तदुपदेशमासाध्य तद्व्रतं कर्तुमैच्छत ॥
ततं स नृपति राजा सभर्यात्मजबान्धवः ।
यथाविधि समाधाय चचारैतद्व्रतं सदा ॥
तन्नृपादेशमाधाय सर्वे मन्त्रिजना अपि ।
भृत्याः सैन्यगणाश्चापि पौरा ग्राम्या द्विजादयः ॥
सर्वलोकास्तथा भक्त्या त्रिरत्नशरणं गताः ।
सत्कारैः श्रद्धयाभ्यर्च्य प्राभजन् सर्वदा मुदा ॥
तदा तत्र सदाभद्रः महोत्साहं समन्ततः ।
प्रावर्तत निरुपातमेतद्धर्मानभावतः ॥
एवं मे गुरुणाख्यातं श्रुतं मया तथोच्यते ।
अनुमोद्य भवन्तोऽपि चरतैतद्व्रतं सदा ॥
एतत्पुण्यविशुद्धा हि परिशुद्धत्रिमण्डलाः ।
अर्हन्तो निर्मलात्मानः संबोधिं समवाप्नुयुः ॥
इति तेएन समाख्यातं जयश्रिया सुधीमता ।
श्रुत्वा ते श्रावकाः सर्वे प्राभ्यनन्दन् प्रबोधिताः ॥
तदारभ्य प्रसन्नात्मा जिनश्रीराज उन्मनाः ।
त्रिरत्नशरणं गत्वा चचारैतद्व्रतं सदा ॥
तत्संघा यतयश्चापि चतुर्ब्रह्मविहारिणः ।
त्रिरत्नभजनं कृत्वा व्रतमेतत्सदाचरन् ॥
ततस्ते व्रतिनः सर्वे परिशुद्धत्रिमण्डलाः ।
अर्हन्तो निर्मलात्मानो बभूवुर्बोधिभागिनः ॥
ये चापीदं त्रिरत्नं प्रथितगुणगणं श्रावयन्तीह लोकान् ।
श्रद्धाभक्तिप्रसन्नाः प्रमुदितमनसा ये च शृण्वन्ति मर्त्याः ॥
ते सर्वे बोधिसत्त्वा सकलगुणभृतः श्रीसमृद्धाः सुधिराः ।
भक्त्वा सौख्यं सदान्ते दशबलभुवने संप्रयाता रमेयुः ॥
भुक्त्वा सौख्यं सदान्ते दशबलभुवने संप्रयाता रमेयुः ॥

॥ इति श्रीत्रिरत्नभजनानुशंसावदानं प्रथमोऽद्यायः ॥


(१४)
२. अवीचि संशोषण श्रीधर्मराजाभिबोधन प्रकरणम्

अथ धीमान्महासत्त्वो जिनश्रीराज आत्मवित् ।
जयश्रियं यतिं नत्वा सांजलिरेवमब्रवीत् ।
भदन्त श्रोतुमिछामि संघरत्नस्य सन्मतेः ।
श्रीमतो लोकनाथस्य माहात्म्यगुणमुत्तमम् ॥
तच्छ्रीमद्बोधिसत्त्वस्य त्रैलोक्याधितेः प्रभोः ।
गुणमाहात्म्यमाख्यातुमर्हसि त्वं जगद्धिते ॥
इति संप्रार्थ्यमानोऽसौ जयश्रीर्मतिमान् यतिः ।
जिनश्रीराजमालोक्य तं यदिमेवमब्रवीत् ॥
साधु शृणु महाभाग यथा मे गुरुणोदितम् ।
तथाहं ते समासेन प्रवक्ष्यामि जगद्धिते ॥
तद्यथासौ महाराजा भूयोऽशोको नराधिपः ।
विहारे कुक्कुटारामे धर्मं श्रोतुदाचरत् ॥
तत्र स समुपाविश्य समन्त्रिनपौरिकाः ।
उपगुप्तं तमर्हन्तं प्रणत्वा समुपाश्रयत् ॥
तत्र स समुपागम्य तमर्हन्तं यतिं मुदा ।
अभ्यर्च्य सांजलिर्नत्वा प्रार्थयदेवमादरात् ॥
भदन्त श्रोतुमिच्छामि लोकेशस्य जगत्प्रभोः ।
सद्धर्मगुणमाहात्म्यं तत्समादेष्तुमर्हसि ॥
एवं तेन महीन्द्रेण प्रार्थ्यमानः स सन्मतिः ।
उपगुप्तो महीपालं तमालोक्यैवमादिशत् ॥
साधु शृणु महाराज यथा शृतं मया गुरोः ।
तथाहं ते प्रवक्ष्यामि माहात्म्यं त्रिजगप्रभोः ॥

(१५)
तद्यथासौ महाबुद्धः शाक्यमुनिर्जगद्गुरुः ।
धर्मराजो महाभिज्ञः सर्वज्ञोऽर्हन्मुनीश्वरः ॥
भगवांछ्रीघनः शास्ता तथागतो विनायकः ।
मारजित्सुगतो नाथयैधातुकाधिपो जिनः ॥
श्रीमतोऽनाथनाथस्य गृहस्थस्य महामतेः ।
विहारे जेतकोध्याने विजहार ससांघिकः ॥
तदा तत्र महासत्त्वा बोधिओसत्त्वा जिनात्मजाः ।
मैत्रेयप्रमुखास्सर्वे सद्धर्मं श्रोतुमागताः ॥
तत्र तं श्रीघनं दृष्ट्वा सुप्रसन्नाशया मुदा ।
तत्पादाब्जं प्रणत्वा तत्सभायां समुपाश्रयन् ॥
सर्वे प्रत्येकबुद्धाश्च अर्हन्तः समुपागताः ।
भगवन्तं तमानम्य तत्रैकान्ते समाश्रयन् ॥
श्रावका भिक्षवश्चापि यतयो ब्रह्मचारिणः ।
शास्तारं तं प्रणत्वा तत्सभायां समुपाश्रयन् ॥
ऋषयोऽपि महासत्त्वाः सर्वे सद्धर्मवांछिनः ।
दुरात्तं श्रीघनं दृष्ट्वा प्रणम्य समुपागताः ॥
ब्रह्मादयो महाभिज्ञा भासयन्तः समन्ततः ।
दूरात्तं सुगतं दृट्वा प्रणमन्तः समागताः ॥
इन्द्रादयः सुराः सर्वे धर्मामृतलालसाः ।
पश्यन्तो दूरतो नत्वा शास्तारं तं समागताः ॥
तथाग्निप्रमुखाः सर्वे लोकपालाः प्रमोदिताः ।
भगवन्तं समालोक्य दूरन्नत्वा समागताः ॥
तथा सर्वे च गन्धर्वा धृतराष्ट्रादयोऽपि ते ।
सुदूरात्सनिरीक्षान्ता नमन्तः सहसागताः ॥
विरुढकादयः सर्वे कुम्भाण्डाश्च प्रमोदिताः ।
तेऽपि सुदूरतो दृष्ट्वा नमन्तः सहसागताः ॥
विरुपाक्षादयश्चापि सर्वनागाधिपास्तथा ।
तेऽपि दृष्ट्वा सुदूरात्तं जिनण्समागताः ॥

(१६)
वैश्रवणादयश्चापि यक्षाः सर्वप्रमोदिताः ।
पश्यन्तो दूरतो नत्वा तं मुनिं समुपागताः ॥
एतं सूर्यादयः सर्वे ग्रहाधिपाः समागताः ।
सर्वास्तारागणाश्चापि सर्वे विधाधरा अपि ॥
सिद्धाः साध्याश्च रुद्राश्च वायवश्च महेश्वराः ।
कामधात्वीश्वराः सर्वे श्रीपतिप्रमुखा अपि ॥
गरुडेन्द्राश्च सर्वेऽपि किओन्नरेन्द्रा द्रुमादयः ।
वेमचित्रादयः सर्वे दैत्येन्द्रा राक्षसा अपि ॥
महोरगाश्च नागाश्च सर्वेऽपि जलचारिणः ।
सर्वेऽपि देवपुत्राश्च सर्वे षोषप्सरोगणाः ॥
सर्वा गन्धर्वकन्याश्च सर्वाः किन्नरकन्यकाः ।
नाजकन्याश्च दिव्यांगा रक्षोकन्याश्च भद्रिकाः ॥
यक्षकन्या असंख्येया तथा च दैत्यकन्यकाः ।
असंख्येयास्तथा विधाधरकन्या मनोहराः ॥
सिद्धकन्यास्तथा साध्यकन्याश्चातिमनोहराः ।
देवकन्यादयश्चान्यकन्याः सर्वाः प्रमोदिताः ॥
समीक्ष्य संप्रभासन्तमुपतस्थुः सभान्तिके ॥
तथा च ब्रह्मचारिणो भिक्षुण्यश्चैलका अपि ।
व्रतिन उपासकाश्चापि तथा चोपासिका अपि ॥
ऋषिकन्यास्तथा चान्याः सद्धर्मं श्रोतुमागताः ।
तथा च ब्राह्मणा विज्ञास्तीर्थिकाश्च तपस्विनः ॥
राजानः क्षत्रियाश्चापि सर्वे राजकुमारकाः ।
अमात्या मन्त्रिणश्चापि श्रेष्ठिनश्च महाजनाः ॥
सैन्या योधृगणाश्चापि भृत्याः परिजना अपि ।
गृहस्था धनिनः सार्थवाहादयो वणिग्गणाः ॥
शिल्पिनं कॄषिणश्चापि सर्वे कुटुम्बिनोऽपि च ।
सर्वे वैश्याश्च शूद्राश्च तथान्ये सर्वजातिकाः ॥

(१७)
नागराः पौरिकाश्चापि जानपदाश्च नैगमाः ।
ग्राम्याः प्रत्यन्तदेशस्थाः कार्पटिकाश्च पार्वताः ॥
एवं सर्वेऽपि लोकाश्च संबुद्धभत्तिमानसाः ।
त्रिरत्नगुणमाहात्यं पीयुषं पातुमागताः ॥
तत्र सर्वेऽपि ते लोका ब्रह्माअदय उपागताः ।
तं मुनीन्द्रं समालोक्य प्रणमन्तः पुरोगताः ॥
यथाविधि समभ्यर्च्य प्रणत्वा च यथाक्रमम् ।
तिस्त्रः प्रदक्षिणीकृत्य कृतांजलिपुटा मुदा ॥
तत्सद्धर्मामृतं पातुं परिवृत्य समन्ततः ।
पुरस्कृत्य समाधाय पश्यन्तः समुपाश्रयन् ॥
तत्र स भगवांस्तान् दृष्ट्वा सर्वान् समाश्रितान् ।
सर्वसंशोधनं नाम समाधिं विदधे तदा ॥
तस्मिन्नवसरे तत्र रश्मयः संप्रभास्वराः ।
अवभास्य दिशः सर्वा भासयन्तः समागताः ॥
तदा तद्रश्मिसंस्पृष्टे विहारे तत्र सर्वतः ।
हेमरत्नमया आसन् स्तम्भाः सर्वे प्रशोभिताः ॥
कूटागाराश्च सर्वेऽपि सुवर्णरत्नशोभिताः ।
द्वाराणि तत्र सर्वाणि हेमरुप्यमयानि च ॥
सोपानान्यपि सर्वाणि स्वर्णरुप्यमयानि च ।
वातायनानि सर्वाणि हेमरत्नमयानि च ॥
कपाटाअनि च सर्वाणि रुप्यरत्नमयाण्यपि ।
भित्तयोऽपि तथा सर्वाः स्वर्णरत्नमया बभुः ॥
पटलानि सुवर्णानि रत्नाभिमण्डितानि च ।
वेदिकास्तत्र सर्वाश्च सुवर्णरत्नमण्डिताः ॥
तोरणान्यपि सर्वाणि स्वर्णरत्नमयानि च ।
एवं सर्वेऽपि प्रासादाः सुवर्णरत्नमण्डिताः ॥
भूतलान्यपि सर्वाणि वैडूर्यसंनिभानि च ।
समतलानि शुद्धानि कोमलानि विरेजिरे ॥

(१८)
एवं तज्जातकारामे विहारं परिशोभितम् ।
दिव्यसुवर्णरत्नश्रीमण्डितं समरोचत ॥
बहिश्च जेतकारामे विहारस्य समन्ततः ।
कल्पवृक्षाः समुद्भूताः सर्वार्थिसुखदायिनः ॥
सुवर्णस्कन्धशाखाढ्या रुप्यपत्राभिच्छादिताः ।
दिव्यचीवरक्यादिलम्बिता परिशोभिताः ॥

समुज्ज्वलदुदारश्रीरत्नमालाप्रलम्बिताः ।
सर्वालंकारमुक्तादिरत्नहारप्रलम्बिताः ॥
अनेका पुष्पवृक्षाश्व समुद्भूताः समन्ततः ।
दिव्यसौरभ्यागन्धाद्यप्रच्छन्नपुष्पभारिणः ॥
अनेकफलवृक्षाश्च समुद्भूताः समन्ततः ।
दिव्यमृतरसस्वादसुपथ्यfअलभारिणः ॥
सर्वा औषधयश्चापि रसवीर्यगुणान्विताः ।
सर्वा रोगनिहन्तारः प्रादुरासन् समन्ततः ॥
अनेकाः पुष्करिण्यश्च शुद्धाम्बुपरिपूरिताः ।
पद्मोत्पलादिपुष्पाढ्याः प्रादुरासन्मनोरमाः ॥
एवं सर्वाणि वस्तूनि भद्राभिशोभितानि च ।
श्रीसमृद्धप्रसन्नानि बभूवुस्तत्र सर्वतः ॥
एवं तदा महानन्दसुखधर्मगुणान्वितम् ।
सर्वसत्त्वमनोह्लादि महोत्साहं प्रवर्तते ॥
एतन्महाद्भूतं दॄष्ट्वा सर्वे लोकाः सुरादयः ।
विस्मयाक्रान्तचित्तास्ते पश्यन् तस्तस्थुरुन्मुखाः ॥
अथ सर्वनीवरणविष्कम्भी नाम सन्मतिः ।
बोधिसत्त्वो महासत्त्वस्तान् पश्यन् विस्मयान्वितः ॥
दृष्ट्वा सर्वान् सभासीनान् विस्मयोद्धतमानसान् ।
तं मुनीन्द्रं समालोक्य तस्थौ तद्धेतुं चिन्तयन् ॥
तदा स भगवांच्छास्ता लोकान् सर्वासुरानपि ।
तदद्भुतं महद्धेतुं परिज्ञातुं समाहितः ॥

(१९)
गत्वा पश्यन् समाधाय तत्समाधेः समुत्थितः ।
तदद्भुतमहाहेतुं समुपादेष्टुमैच्छत ॥
तदालोक्य सुधीमान् स बोधिसत्त्वो जिनात्मजः ।
कृती सर्वनीवरणविष्कम्भी संविलोकयन् ॥
समुत्थायोपसंगच्छन् जानुभूमितलाश्रितः ।
उद्वहन्नुत्तरासंगं कृतांजलिपुटो मुदा ॥
संपश्यंस्तं जगन्नाथं शास्तारं त्रिजगद्गुरुम् ।
सर्वज्ञं श्रीघनं नत्वा प्रार्थयदेवमादरात् ॥
भगवन् परमाश्चर्यप्राप्तोऽस्मीदं विलोकयन् ।
कुत इते सुपुण्याभा रश्मयोऽत्र समागताः ॥
कस्य पुण्यात्मनश्चायं सद्धर्मविषयो महान् ।
प्रभाव इदृशोऽस्माभिर्दृश्यति न कदाचन ॥
तद्भवांस्त्रिगजच्छास्ता सर्वज्ञो भगवान् जिनः ।
तदेतन्नः समादिश्य प्रबोधयितुमर्हति ॥
इति संप्रार्थ्यमानोऽसौ भगवान् धर्माधिपो जिनः ।
दृओष्ट्वाआ सर्वनीवरणविष्कम्भिनं तमब्रवीत् ॥
यः श्रीमान्महाभिज्ञ आर्यावलोकितेश्वरः ।
बोधिसत्त्वो महासत्त्वः सर्वलोकाधिपेश्वरः ॥
स जिनस्यामिताभस्य धृताज्ञः करुणामयः ।
लोकधातोः सुखावत्याः सत्त्वानुद्धर्तुमागतः ॥
सांप्रतं नरकेऽवीचौ सत्त्वान् तेनाभिपाचितान् ।
प्रसमीक्ष्य समुद्धर्तुं प्रसारयन् करानागतः ॥
तत्प्रभा नरके तत्र स्पृष्ट्वा सर्वान् सुखान्वितान् ।
कृत्वा ततः समुद्धत्य समवभास्य सर्वतः ॥
इहागता इमास्तस्य लोकेशस्यात्मजाः प्रभाः ॥
एवमसौ महासत्त्वो महत्पुण्यसमृद्धिमान् ।
इहापि पापिनः सत्त्वान् समुद्धर्तुं समागतः ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः ।
धिमान् सर्वनीवरणविष्कम्भी विस्मयान्वितः ॥

(२०)
भगवन्तं मुनीन्द्रं तं समालोक्य सकौतुकः ।
लोकेशपुण्यमाहात्म्यं प्रष्टुमेवमभाषत ॥
भगवन्नकेऽवीचौ महानग्निः सदोज्वलः ।
वीचिर्न ज्ञायते तस्य ज्वाला या महदर्च्चिषः ॥
तत्कथं स महासत्त्वो लोकेश्वरः कृपान्वितः ।
तत्र सत्त्वान् समुद्धर्तुं प्रविशति जगद्गुरुः ॥
यत्र प्राकारपर्यन्तमयोमयं महीतलम् ।
महदग्निखदा तत्र प्रोज्वलाग्निशिखाकुला ॥
तस्यां संस्थापिता कुम्भी महती तैलपूरिता ।
तस्यां सत्त्वा दुरात्मानः पापिष्ठा दुरितारताः ।
अप्रमेया असंख्येयाः क्वाथमाना दिवानिशम् ।
खिद्यत्यह्ने विशीर्णांगास्तिष्ठिन्ते प्राणिनः खराः ॥
एवं ते प्राणिनो दुष्टा असह्यवेदनातुराः ।
स्वदुष्कृतानभिभुंजन्तस्तिष्ठिन्ति पारितापिताः ॥
तत्राप्यसौ महासत्त्वो लोकेनाथो जिनात्मजः ।
प्रविष्टः कथमुद्धत्य संप्रेषयेच्च तान् कुह ॥
भगवन् सर्वविच्छास्तरेतत्सर्वं सुविस्तरम् ।
समादिश्य भवानस्मान् प्रबोधयितुमर्हसि ॥
इति संप्रार्थिते तेन बोधिसत्त्वेन धीमता ।
भगवान्स्तं महासत्त्वं समालोक्यैवमादिशत् ॥
साधु शृणु महासत्त्व समाधाय यदीच्छसि ।
लोकेश्वरर्द्धिमाहात्म्यं प्रवक्ष्यामि जगद्धिते ॥
तद्यथा भूपती राजा चक्रवर्ती नृपाधिपः ।
महद्राज्यर्द्धिसंपन्नमहोत्साहैः समन्वितः ॥
वसन्तसमये रन्तुं सर्वत्र पुष्पमण्डिते ।
महोद्याने मनोरम्ये प्रविशति प्रमोदितः ॥
तथा स त्रिजगन्नाथ पुण्यर्द्धिश्रीसमन्वितः ।
तत्रावीचौ समालोक्य प्रविशति प्रभासयन् ॥

(२१)
तस्य कायेऽन्यथाभावं भवति नैव किंचन ।
सुखमेव महानन्दमहोत्साप्रमोदनम् ॥
यदा स त्रिजगन्नाथः स्वदेहरश्मिमुत्सृजन् ।
तदवीचिमुक्रान्तश्चरते संप्रभासयन् ॥
तदादौ निरयोऽवीचिर्महदग्निशिखाकुलः ।
शीतीभूतो महानन्दं सुखांगो भवति क्षणात् ॥
यमपालास्तदाअलोक्य संवेगोद्विग्नमानसाः ।
किमत्राशुभनैमित्तं जातमिति विषादिताः ॥
को देवोऽत्र महावीरो दैत्यो वा समुपागतः ।
इत्युक्त्वा ते च तद्द्रष्टुं प्रचरन्ते समन्ततः ॥
तत्र तं समुपासीनं दिव्यरुपं महत्प्रभम् ।
सौम्यरुपं सुभद्रांगं दिव्यालंकारमण्डितम् ॥
महच्छ्रीमणिसंयुक्तं जटामकुटशोभितम् ।
पश्यन्ते ते समालोक्य तिष्ठन्ते विस्मयान्विताः ॥
ततोऽसौ सर्वपालेन्द्रो लोकेश्वरो जिनात्मजः ।
संभासयन् विशुद्धाभैः प्रविशते विलोकयन् ॥
यदा तत्र प्रविष्टोऽसौ बोधिसत्त्वजगत्प्रभुः ।
तदा तत्र महापद्मं प्रादुर्भूतं प्रभास्वरम् ॥
सप्तरत्नमयं तत्र समाश्रित्य स तिष्ठति ।
तदा विस्फोटिता कुम्भी सा सोऽपि प्रशमितोऽनलः ॥
तत्रानलखदामध्ये प्रादुर्भूतं सरोवरम् ।
तदा ते पापिनः सत्त्वास्तद्रश्मिस्पर्शताश्रयाः ॥
निर्गतवेदनादुःखा महत्सौख्यसमन्विताः ।
विस्मिताः सुप्रसन्नात्माः संपश्यन्ते तमीश्वरम् ॥
समीक्ष्य सहसोपेत्य कृतांजलिपुटा मुदा ।
तत्पादाब्जे प्रणत्वा ते स्तुत्वा भजन्त आदरात् ॥
ततः सर्वेऽपि ते सत्त्वा निःशेषत्यक्तपातकाः ।
शुद्धांगा विमलात्मानः संप्रयान्ति सुखावतीम् ॥

(२२)
सुखावत्यां च ते सर्वे संगताः संप्रमोदिताः ।
मुनीन्द्रस्यामिताभस्य सर्वदा शरणं गताः ।
बोधिचर्याव्रतं धृत्वा संचरन्ते जगद्धिते ॥
तदा नरकपारास्ते सर्व उद्विग्नमानसाः ।
विलोक्य तं महाश्चर्यं सविस्मयभयाकुलाः ।
प्रगृह्य स्वस्वशयाणि पलायन्ते ततो द्रुतम् ॥
ततस्ते सहसा गत्वा यमराजस्य सन्निधौ ।
प्रणत्वेतत्प्रवृतान्तं निवेदयन्ति विस्तरम् ॥
तैर्निवेदितमाकर्ण्य यमराजोऽतिविस्मितः ।
पुरतः समुपामन्त्र्य पृच्छते तान् समादरात् ॥
किमेवं यूयमायाताः सर्वेऽप्युद्विग्नमानसा ।
कुतो भयं समायातं केत युयं प्रखेटिताः ॥
सर्वमेतत्प्रवृत्तान्तं युयं मे यदि भक्तिकाः ।
विस्तरेण समाअख्यातुमर्हथ मे पुनः पुनः ॥
इत्युक्ते यमराजेन सर्वे ते यमकिंकराः ।
प्रणत्वा यमराजं च निवेदयन्ति विस्तरात् ॥
यत्खलु देव जानीयाद्भवानेव जगत्प्रभुः ।
तत्रावीचौ महोत्पातं जायेते तन्निगद्यते ॥
प्रथमं तस्मिन् सुगन्धश्चरते शीतलोऽनिलः ।
ततः प्रह्लादिनी कान्तिर्भासयन्ति समागताः ॥
तत्प्रभास्पर्शितः सोऽग्निरवीचिरपि शाम्यते ।
ततो विस्फोटिता कुम्भी खण्डीभूता विचूर्णिता ॥
तत्राप्यग्निखदामध्ये प्रादुर्भूतं सरोवरम् ।
ततस्तत्र महासत्त्वः कामरुपोऽतिसुन्दरः ॥
भद्रमूर्त्तिर्विशुद्धात्मा जटामकुटशोभितः ।
श्रीमान्महर्द्धिको धीरो दिव्यालंकारमण्डितः ॥
दयाकारुण्यभद्रांशः शीतरश्मिप्रभास्वरः ।
समीक्षन् पापिनस्सत्त्वान् प्रविशते प्रभासयन् ॥

(२३)
तदा तत्र महापद्मं सप्तरत्नसमुज्ज्वलम् ।
प्रादुर्भूतं तदाश्रित्य तिष्ठते स प्रभासयन् ॥
तमासीनं समालोक्य पापिनस्ते सविस्मयाः ।
उपेत्य शरणं गत्वा सम्भजन्ते समादरात् ॥
ततस्ते प्राणिनः सर्वे शुधकायाः प्रमोदिताः ।
तत्पादाब्जे प्रणतिं कृत्वा सर्वे यान्ति ततश्च्युताः ॥
इत्यसौ नरकोऽवीचिर्निःशेषं प्रलयं गतः ।
तदत्र देव संवीक्ष्य विचारयितुमर्हति ॥
इति तैर्निवेदितं श्रूत्वा यमराजः स विस्मितः ।
किमेतदद्भुतं जातमित्युक्त्वैवं विचिन्तते ॥
कोऽसौ देवः समायात ईदृग्रूपो महर्द्धिकः ।
महेश्वरोऽथवा विष्णुर्ब्रह्माथ त्रिदशाधिपः ॥
वाडवो वा महानग्निरुत्थितः प्रलये यथा ।
गन्धर्वो वा सुरेन्द्रो वा किन्नरो वाथ राक्षसः ॥
किमुत्थितो महावायुरतिवीर्यपराक्रमः ।
यक्षो वाथ महासत्त्वो वज्रपाणिः स गुह्यराट् ॥
राक्षसेन्द्रो महावीरो रावणो मम स्पर्धी च ।
यक्षाधिपो महावीरो राजराजोऽथवान्यतः ॥
किं वा भूतेश्वरो रुद्र ईशानः प्रमथाधिपः ।
कोऽस्ति लोकाधिप वीर ईदृग्बलसमृद्धिमान् ॥
एतेषामपि सर्वेषां महद्वीर्यानुभाविनी ॥
ईदृग्विर्यप्राअभावो हि कस्यचिन्नैव दृश्यते ॥
अथवा तापसः कश्चिदृषिर्वापि नराधिप ।
तपःसिद्धिबलाधानमहद्वीर्यमृद्धिमान् ॥
कस्य देवस्य देव्या वा कस्या वा भक्तिमान् कृती ।
साधको वरमासाद्य मामपि जेतुमागतः ॥
कस्तदन्यो महावीर्यः पुरुषो विद्यते कुह ।
योऽवीचिं वहिनमुज्ज्वालं शमयितुं प्रशक्नुयात् ॥

(२४)
ईदृक्सत्त्वो महेशाख्यो महत्पुण्यसमृद्धिमान् ।
नैवात्र दृश्यते क्वापि त्रैधातुभुवनेष्वपि ॥
एवं विचिन्त्य सन्त्रस्तो यमराट्सोऽतिविस्मितः ।
अवीचौ नरके तत्र पश्चते दिव्यचक्षुषा ॥
तत्र रत्नयोदारपद्मासनसमाश्रितम् ।
दिव्यातिसुन्दरं कान्तं दिव्यालंकारभूषितम् ॥
समन्तभद्ररुपांगं जटामणिकिरीटिनम् ।
सौम्यकान्तिप्रभासन्तं सौम्यं पुण्यगुणाश्रयम् ॥
तं श्रीमन्तं समालोक्य लोकेश्वरं जिनात्मजम् ।
बोधिसत्त्वं महासत्त्वं विदित्वा स प्रमोदितः ॥
यमराट्सहसोत्थाय त्वरंस्तत्र समागतः ।
उमेत्य सांजलिर्नत्वा स्तौत्येवं तं जिनात्मजम् ॥
नमस्ते बोधिसत्त्वाय महासत्त्वाय तायिने ।
आर्याअवलोकितेशाय महेश्वराय सुश्रीये ॥
पद्मश्रीभूषितांगाय सद्धर्मवरदाय ते ।
नमो वंशकराय भुवरदृष्टिकराय ते ॥
सर्वदा जगदाश्वासवरदानप्रदाय च ।
शतसहस्त्रहस्ताय कोटीलक्षणाय च ॥
असंख्यानन्तरुपाय विश्वरुपाय ते नमः ।
सर्वभूतात्मरुपाय आदिनाथाय ते नमः ॥
वडवामुखपर्यन्तशशिदिगाननाय च ।
सर्वधर्मानुरुपाय धर्मप्रियाय सिद्धये ॥
सर्वसत्त्वमहदुःखसंमोक्षणकराय च ।
मत्स्याद्यम्बुजजन्तूनामाश्वासनकराय च ।
ज्ञानराश्युत्तमांगाय धर्मार्थप्रियदायेने ।
रत्नश्रीभूषितांगाय सद्गुणश्रीप्रदाय च ॥
सर्वनरकभूमीनां संशोषणकराय च ।
ज्ञानश्रीसंप्रभासाय ज्ञानलक्ष्मीप्रदाय च ॥

(२५)
सामरैः सासुरेन्द्रैश्च लोकैः संपूजिताय च ।
नमस्कृताय सभक्त्या वन्दिताय नमस्सदा ॥
अभयदानदत्ताय पारमितोपदेशिने ॥
सूर्यरोचनदीप्ताय धर्मदीपंकराय च ॥
कामरुपाय गन्धर्वसुरुपाय सुरुपिणे ।
हेमनगाधिरुढाय परमार्थयोगं बिभ्रते ॥
अब्धिगम्भीरधर्माय संमुखदर्शनाय च ।
सर्वसमाधिप्राप्ताय स्वभिरतिकराय च ॥
संविच्छुरितगात्राय मुनिपुंगवरुपिणे ।
वध्यबन्धनबद्धानां संमोक्षणकराय च ॥
सर्वभावस्नुरुपाय समुपचितकारणे ।
बहुपरिजनाढ्याय चिन्तामणिसरुपिणे ॥
निर्वाणमार्गसंचारसंदर्शनप्रदाय च ।
भूतप्रेतपिशाचादिनिलयोच्छोषकारिणे ॥
छत्रीभूताय लोकानां त्रैधातुकनिवासिनाम् ।
सर्वाधिव्याधियुक्तानां परिमोचनकारिणे ॥
नन्दोपनन्दनागेन्द्रनागेयज्ञोपवीतबिभ्रते ॥
श्रीमतोऽमोघपाशस्य रुपसन्दर्शनाय च ।
सर्वमन्त्रगुणाभिज्ञप्राप्ताय सद्गुणाय च ॥
वज्रपाणिमहायक्षविद्रापणकराय च ।
त्रैलोक्यदुष्टसत्त्वानां भीषणमूर्तिधारिणे ॥
भूतवेताडकुम्भाण्डरक्षोयक्षादिभीददे ।
नीलोत्पलसुनेत्राय गम्भीरधीरबुद्धये ॥
सर्वविद्याधिनाथाय सर्वक्लेशापहारिणे ।
विविधधर्मसंबोधिमार्गोपचिताय च ॥
मोक्षमार्गाभिरुढाय प्रबलधर्मबिभ्रते ।
प्राप्तसंबोधिसच्चित्तसन्मार्गोपचिताय च ॥
प्रेतादिदुर्गतिक्लेशपरिमोक्षणकराय च ।
परमाणुरजोसंख्यं समाधिं दधते नमः ॥

(२६)
नमस्ते लोकनाथाय बोधिसत्वाय ते सदा ।
महासत्त्वाय सद्धर्मगुणसंपत्तिदायिने ॥
नमामि ते जगच्छास्तः सदाहं शरणं व्रजन् ।
भजानि सततं भक्त्या तत्प्रसीद जगत्प्रभो ॥
क्षन्तव्यं मेऽपराधत्वं यन्मयापकृतं भवेत् ।
अद्यारभ्य सदा शास्तर्भवे त्वच्छरणाश्रीतः ॥
भवदाज्ञां शिरो धृत्वा चरिष्यामि जगद्धिते ।
तथात्राहं करिष्यामि भवता दिश्यते यथा ॥
तद्भवान्मे सदालोक्य प्रसीदतु जगत्प्रभो ।
भवदभिमतं कार्यं तस्करिष्याम्यहं भवे ॥
इत्येवं धर्मराजोऽसौ स्तुत्वा संप्रार्थयन्मुदा ।
तं पुनः सांजलिर्नत्वा समुपतिष्ठते पुनः ॥
ततो लोकेश्वरोऽसौ तं धर्मराजं विलोकयन् ।
समादिशति संबोधिमार्गे नियोक्तुमादरत् ॥
यम त्वं धर्मराजोऽसि सर्वलोकानुशासकः ।
तत्सम्पद्भिर्गयित्वैव सत्त्वान् धर्मेऽनुशासय ॥
ये चापि प्राणिनो दुष्टाः पापिष्ठा अपि दुर्धियः ।
तेऽपि धर्मे प्रतिष्ठाप्य बोधयित्वा प्रयत्नतः ॥
ये चापि श्रद्धया भक्त्या त्रिरत्नं शरणं गताः ।
भजन्ति सर्वदा नित्यं संबोधिधर्मवांछिनः ॥
ते सर्वेऽपि समालोक्य पालनीयास्त्वया सदा ॥
बोधयित्वा समालोक्य पालनीयास्त्वाय्र सदा ॥
बोधयित्वा च ते सर्वे चारयित्वा शुभे व्रते ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥
ये चापि पापिनो दुष्टास्तानपि त्वं प्रयत्नतः ।
प्रबोधय समालोक्य चारयस्व शुभे सदा ॥
इत्येवं मे वचनं श्रुत्वा संबोधिं यदि वांछसि ।
बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते ॥
यद्येवं कुरुषे लोके दयाधर्मं समाचरन् ।
धर्मराजाभिधानं ते यथार्थ्यसफलं व्रजेत् ॥
इत्येवं समुपादिष्टं तेन लोकेश्वरेण सः ।
धर्मराजः समाकर्ण्य तथेति परिबुध्यते ॥
ततः स धर्मराजस्तं लोकेश्वर जिनात्मजम् ।
समीक्ष्य सांजलिर्नत्वा संप्रयाति स्वमालयम् ॥
ततोऽसौ लोकनाथोऽपि संप्रस्थिति कृपाकुलः ।
अन्यत्रापि समुद्धर्तुं सत्त्वान् संचरते पुनः ॥

॥ इत्यवीचिसंशोषणधर्मराजाभिबोधनप्रकरणम् ॥


३. सूचीमुखोदर पर्वत प्रेतोद्धारण प्रकरण

अथ सर्वनीवरणविष्कम्भी सुगतात्मजः ।
बोधिसत्त्वो मुनीन्द्रं तं संपश्यंचैवमब्रवीत् ॥
कदासौ भगवंछास्तर्लोकेश्वरो जिनात्मजः ।
बोधिसत्त्व इहागच्छेत्तत्समादेष्टुमर्हति ॥
इति तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः ।
बोधिसत्त्वं तमालोक्य पुनरेवं समादिशत् ॥
असौ श्रीमान्महासत्त्वः कुलपुत्र ततश्चरन् ।
प्रेतलोकान् समुद्धर्तुं प्रेतालयेऽभिगच्छति ॥
तत्र प्रेतालये गत्वा प्रेतान् पश्यन् स दूरतः ।
शीतरश्मि समुत्सृज्य प्रविवेश प्रभासयन् ॥
तद्रश्मीः संप्रभासन्तीः समवभास्य सर्वतः ।
तत्प्रेतभुवनं सर्वं करोति शीततान्वितम् ॥
तदा ते प्रेतिकाः सर्वे शीतरश्मिसमन्विताः ।
किमेतदिति संचिन्त्य तिष्ठन्ति विस्मयान्विताः ॥
यदा तत्र प्रविष्टोऽसौ लोकेश्वरः प्रभासयन् ।
तदा वज्राशनिर्भूमि उपशान्ता समन्ततः ॥

(२८)
तदद्भुतं समाअलोक्य द्वारपालः स विस्मितः ।
किमतेतदिति संचिन्त्य लोहिताक्षो विलोकयन् ॥
उत्थाय सहसादाय कालकूटमहाविषम् ।
भिण्डिपालं धनुर्बाणं धृत्वा संत्रसते रुषा ॥
तत्र तं रत्नपद्मस्थं शीतरश्मिप्रभास्वरम् ।
विलोक्यासौ महारौद्रचित्तोऽपि विस्मयान्वितः ॥
तद्रश्मिसंपरिस्पृष्टः कारुण्यचित्तमाप्तवान् ।
स्वपापसाधनं कर्म संभाव्यैवं विचिन्तते ॥
धिग्मां यदीदृशे पापसाधने दुष्टकर्मणि ।
संरक्तो द्वारपालोऽत्र भूत्वा करोमि पापकान् ॥
नैव मे ईदृशं कर्म पालयतः शुभं भवेत् ।
नूनमेतन्महत्पापfअलं तुह्यां भवे सदा ॥
किमीदृग्कर्म साधव्यं केवलदुःखसाधनम् ।
तदहं नात्र तिष्ठेयं ह्युक्त्वा गेहं व्रजान्यपि ॥
इति विचिन्त्य स द्वारपालोऽतिकरुणान्वितः ।
पुरतस्तं महासत्त्वं प्रणत्वा चरते ततः ॥
तत्र तं समुपायातं सुधांशुसंप्रभासितम् ।
समीक्ष्य प्रेतिकाः सर्वे धावन्ति पुरतो द्रुतम् ॥
तस्य ते पुर आगत्य क्षुत्पिपासाग्नितापिताः ।
पानीयमभियाचन्तस्तिष्ठन्ति परिवृत्य वै ॥
तान् दृष्ट्वा स महासत्त्वः सूचीमुखानगोदरान् ।
दग्धस्थूणाश्रयानस्थियन्त्रवदतिमूर्च्छितान् ॥
स्वकेशरोमसंच्छन्नाः कृशांगान् विकृताननान् ।
क्षुप्तिपासाग्निसन्दग्धान् विण्मूत्रश्लेष्मभोजिनः ॥
ईदृशान् पापिनो दुष्टान् प्रेतान् सर्वान् विलोकयन् ।
तेभ्योऽतिकरुणार्तात्मा दादत्यब्जाद्भवं जलम् ॥
तदम्बु ते निपीयापि प्रेतास्सर्वे न तृप्तिताः ।
भूयोऽपि पातुमिच्छन्त उपतिष्ठिन्त तत्पुरः ॥

(२९)
तानतृप्तान् समालोक्य लोकेशोऽतिदयाकुलः ।
दशभ्यः स्वांगुलीभ्योऽपि निश्चारयति निम्नगाः ॥
तच्छ्रवन्तीः समालोक्य सर्वे ते प्रेतिका मुदा ।
यथेच्छा संपिबन्तोऽपि नैव तृप्तिसमागताः ॥
भूयोऽपि पातुमिच्छन्तः सर्वे ते समुपाश्रिताः ।
तमेवं समुपालोक्य विभ्रमन्ते तृषातुराः ॥
भ्रमतस्तान् विलोक्यासौ लोकेशोऽतिदयान्वितः ।
दशपादांगुलीभ्योऽपि निश्यारयति चापराः ॥
ताश्च महानदीर्दृष्ट्वा प्रेतास्सर्वेऽपि ते मुदा ।
समुपेत्य पिबन्तोऽपि नैव तृप्तिं समागताः ॥
तानतृतान् विलोक्यासौ लोकेशोऽतिकृपान्वितः ।
सर्वेभ्यो रोमकूपेभ्यो निश्चारयति चापगाः ॥
तांश्चापि ते समालोक्य सर्वाप्रेताः तृइषार्दिताः ।
सहसा समुपाश्रीत्य प्रपिबन्ते यथेप्सितम् ॥
यदा तेअ प्रेतिकाः सर्वे तदुदकं सुधानिभम् ।
अष्टांगगुणसंपन्नं पिबन्त्यास्वाध्यमोदिताः ॥
तदा सर्वेऽपि ते पूर्णगात्रा विपुलकण्ठकाः ।
परिपुष्टेन्द्रियास्तृप्ता भवन्ति संप्रमोदिताः ॥
ततश्चासौ महासत्त्वो दृष्ट्वा तान् जलतोषितान् ।
भूयोऽपि करुणात्मा तैस्तोषयितुं समीहते ॥
तत्र स करुणासिन्धुर्मेघानुत्थाप्य सर्वतः ।
प्रणीतसुरसाहारा संप्रवर्षयतेऽनिशम् ॥
तान् दिव्यसुरसाहारान् प्रवर्षितान् समन्ततः ।
दृष्ट्वा ते प्रेतिकाः सर्वे सविस्मयप्रमोदिताः ॥
समीक्ष्य स्वेछयादाय यथाकामं प्रभुंजते ।
ततः सर्वेऽपि ते सत्त्वा तदाहाराभितोषिताः ॥
ततस्ते सर्वे आहारैः पानैश्चाप्यमृतोपमैः ।
सन्तर्पिता महानन्दसुखोत्साहसमन्विताः ॥

(३०)
तदा ते सुखिताः सन्तः सद्धर्मगुणभाषिणः ।
परिशुद्धाशयाः सर्वे संचिन्त्यैवं वदन्त्यपि ॥
अहो ते सुखिनो लोका ये जाम्बुद्वीपिका नराः ।
आश्रित्य शीतलां छायां ध्यात्वा तिष्ठन्ति सद्गुरोः ॥
सुखितास्ते मनुष्या ये मातापित्रोर्यथासुखम् ।
परिचर्यां सदा कृत्वा भजन्ति समुपस्थिताः ॥
सुखितास्ते मनुष्या ये सन्मित्रं समुपस्थिताः ।
सुभाषितं सदा श्रुत्वा चरन्ति सर्वदा शुभे ॥
सुखिनस्ते महासत्त्वा ये संबोधिव्रतचारिणः ।
सर्वसत्त्वहितं कृत्वा संचरन्ति सदा शुभे ॥
सुखितास्ते महाभागा ये सुशीलाः शुभार्थिनः ।
स्वपरात्महितार्थेन चरन्ति पोषधं व्रतम् ॥
सत्पुरुषाः महाभागास्ते ये संघसमुपस्थिकाः ।
धर्मगण्डीं यथाकालमाकोटयन्ति सर्वदा ॥
ये विहारं प्रतिष्ठाप्य त्रिरत्नशरणं गताः ।
उपासकव्रतं धृत्वा चरन्ति तेऽपि भागिनः ॥
सुखितास्ते महासत्त्वा ये विहारं विशीर्णितम् ।
संस्कृत्य संप्रतिष्ठाप्य कुर्वन्ति संप्रशोभितम् ।
ये पूर्वस्तूपबिम्बानि विशिर्णस्फुटितानि च ।
संस्कृत्य प्रतिसंस्थाप्य भजन्ति ते सुभागिनः ॥
सद्धर्मभाणकान् ये च संमान्य समुपस्थिताः ।
सुभाषितानि शृण्वन्ति ते सुभाग्याः सुखान्विताः ॥
बुद्धानां प्रातिहार्याणि पश्यन्ति विविधानि ये ।
चंक्रमाणि च पश्यन्ति ये ते सर्वेऽपि भागिनः ॥
ये च प्रत्येकबुद्धानां विविधर्द्धिविकुर्वितम् ।
चंक्रमाणि च पश्यन्ति तेऽपि सर्वे सुभागिनः ॥
येऽर्हतां प्रातिहार्याणि पश्यन्ति चंक्रमाणि च ।
तेऽपि धन्या सुखापन्नाः संसारधर्मचारिणः ॥

(३१)
ये चापि बोधिसत्त्वानां पश्यन्ति चंक्रमाण्यपि ।
प्रातिहार्याणि ये चापि तेऽपि धन्याः सुभागिनः ॥
ये बुद्धशरणं गत्वा स्मृत्वा भजन्ति सर्वदा ।
ते एव सुभगा धन्याः सद्धर्म्मगुणलाभिनः ॥
ये च शृण्वन्ति सद्धर्मं भजन्ति श्रावयन्त्यपि ।
तेऽपि सर्वे महाभागाः संबोधिधर्मभागिनः ॥
ये संघान् च शरणं गत्वा भजन्ति समुपस्थिताः ।
ते सर्वे सुभगा धन्याः संबोधिप्रतिलाभिनः ॥
ये च दत्वा प्रदानानि पालयन्तः परिग्रहान् ।
कृत्वा सत्वहितर्थानि चरन्ते ते सुभागिनः ॥
पापतो विरता ये च परिशुद्धत्रिमण्डलाः ।
चरन्ति व्रतमष्टांगं भद्रिकास्ते सुभाविनः ॥
ये च क्षान्तिव्रतं धृत्वाअ सुप्रसन्नाशयाः सदा ।
सर्वसत्त्वहितार्थेषु चरन्ति ते सुभाविनः ॥
ये च सद्धर्मरत्नानि साधयन्तो जगद्धिते ।
सदा लोकहितार्थानि कुर्वंते ते महाजनाः ॥
ये च तत महासत्त्वा सर्वविद्यान्तपारगाः ।
कृत्वा सत्त्वशुभार्थानि चरन्ते ते सुभागिनः ॥
ये चापि शासने बौद्धे श्रद्धया शरणं गताः ।
प्रवज्यासंवरं धृत्वा चरन्ते ते सुनिर्मलाः ॥
ये च बौद्धाश्रमे नित्यं शोधयन्ति समाहिताः ।
ते सुश्रीईमत्सुभद्रांगाः सद्धर्मसुखसंयुताः ॥
ये चापि सततं स्निग्धा हितं कृत्वा परस्परम् ।
साधयन्ति यशोधर्मं ते सभाग्या सुभाविनः ॥
ये चरन्ति सदा भद्रे विरम्य दशपापतः ।
ते धन्या विमलात्मानः सद्गुणसुखलाभिनः ॥
ये चरन्ति तपोऽरण्ये त्यक्त्वा सर्वान् परिग्रहान् ।
ते सुभद्राः शुभात्मानः सदा सद्गतिचारिणः ॥

(३२)
बोधिचर्याव्रतं धृत्वा ये चरन्ति जगद्धिते ।
ते पुमांसो महासत्त्वाः संबुद्धपदलाभिनः ॥
इत्येवं ते समाभाष्य सर्वसंपरिनन्दिताः ।
महासत्त्वं तमानम्य प्रार्थयन्त्येमादरात् ॥
साधो भवान् हि नो नाथयाता स्वामी सुहृत्प्रभुः ।
नैवान्यो विद्यते कश्चिदेवं रक्ष्यहितार्थभृत् ॥
यद्भवान् स्वयमालोक्य पापिनोऽस्मान् सुदुःखितान् ।
समागत्यामृतैर्भोग्यैस्तोषयन्नभिरक्षति ॥
तद्वयं भवतामेव सर्वदा शरणं गताः ।
सत्कारैस्समुपस्थानं कर्तुच्छामहेऽधुना ॥
तद्भवान्नो हिताधाने संयोजयितुमर्हति ।
भवता यत्समादिष्टं तत्करिष्यामहे ध्रुवन् ॥
इति तै प्रार्थितं सर्वै लोकेश्वरो निशम्य सः ।
कृपादृष्ट्या समालोक्य समादिशति तान् पुनः ॥
शृणुध्वं तन्मयाख्यातं युष्माकं हितसाधनम् ।
संचरध्वं तथा नित्यं सदा भद्रं यदीच्छथ ॥
तद्यथादौ त्रिरत्नानां प्रयात शरणं मुदा ।
सर्वदा मनसा स्मृत्वा भजध्वं च समादरात् ॥
नमो बुद्धाय धर्माय संघाय च नमो नमः ।
इति त्रिभ्यो नमस्कारं कृत्वा चरत सर्वतः ॥
एतत्पुण्यानुभावेन सर्वत्रापि शुभं भवेत् ।
निरुत्पातं महोत्साहं सर्वदा च भवे ध्रिवम् ॥
ततो यूयं क्रमेणापि परिशुद्धत्रिमण्डलाः ।
बोधिचित्तं समासाध्य व्रतं चरितुमैक्ष्यथ ॥
तदेतत्पुण्यभावेन सर्वे यूयमितश्च्युताः ।
त्रिरत्नस्मृतिमाधाय सुखावतीं प्रयास्यथ ॥
तत्रामिताभनाथस्य शरणे समुपस्थिताः ।
सर्वदा भजनं कृत्वा चरिष्यथ महासुखम् ॥

(३३)
तदा यूयं समदाय पोषधं व्रतमुत्तमम् ।
विधिवत्संचरित्वैत्पुण्यैर्लप्स्यथ सन्मतिम् ॥
ततोऽपि विमलात्मानः सर्वसत्त्वहितोत्सुकाः ।
बोधिचर्याव्रतं धृत्वा चरिष्यथ जगद्धिते ॥
ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम् ।
दुष्टान्मारगणान् सर्वान् जित्वार्हन्तो भविष्यथ ॥
ततः संसारसंचारनिस्पृहा विजितेन्द्रियाः ।
त्रिविधां बोधिमासाध्य निर्वृतिपदमाप्स्यथ ॥
एवं सत्त्वास्त्रिरत्नानां गच्छन्तः शरणं सदा ।
स्मृत्वा नां समुच्च्चार्य नत्वा भजध्वं नाभवम् ॥
इति लोकेश्वरेणैवं समादिष्टं निशम्य ते ।
सर्वे तथेति विज्ञाप्य प्रतिमोदन्ति नन्दिताः ॥
ततो लोकेश्वरो मत्वा तेषां मनोऽभिशुद्धितम् ।
निश्चारयति कारण्डव्यूहसूत्रसूभाषितम् ॥
तत्सुभाषितमाकर्ण्य सर्वे ते संप्रमोदिताः ।
त्रिरत्नभजनोत्साहसौख्यं वांछन्ति साधितुम् ॥
ततस्ते मुदिताः सर्वे त्रिरत्नशरणं गताः ।
नमो बुद्धाय धर्माय संघायेति वदन्ति ते ॥
ततः सर्वेऽपि ते सत्वायिरत्नस्मृतिसंरताः ।
संसारविरतोत्साहा भवन्ति धर्मलालसाः ॥
ततो ज्ञानासिना भित्त्वा सत्कायदृष्टिपर्वतम् ।
त्यक्त्वा देहं ततः सर्वे तेऽभियान्ति सुखावतीम् ॥
तत्रामिताभनाथस्य शरणे समुपस्थिताः ।
निर्देशं शिरसा धृत्वा प्रचरन्ति शुभे मुदा ॥
ततः सर्वे भवेयुस्ते चतुर्ब्रह्मविहारिणः ।
बोधिसत्त्वा महासत्त्वा आकांक्षितमुखाभिधाः ॥
इत्येवं स महासत्त्वो लोकेश्वरो जिनात्मजः ।
सर्वान् प्रेतान् समुद्धृत्य प्रेषयति सुखावतीम् ॥

(३४)
एवं त्रैलोक्यनाथोऽसौ महाकारुणिकः कृती ।
कृपया स्वयमालोक्य संरक्ष्याभ्यवते जगत् ॥
ये ये सत्त्वाः सदा तस्य लोकेशस्य महात्मनः ।
स्मृत्वा नाम समुच्चार्य भजन्ते शरणं गताः ॥
ते ते सर्वेऽपि निष्पापाः श्रीमन्तः सद्गुणाकराः ।
सर्वसत्त्वहितं कृत्वा प्रचरन्तः शुभे सदा ॥
बोधिचर्याव्रतं धृत्वा भुक्त्वा धर्मयशःसुखम् ।
त्रिरत्नभजनोत्साहं धृत्वा यायुः सुखावतीम् ॥
न ते सर्वेऽपि गच्छन्ति दुर्गतिं च कदाचन ।
सदा सद्गतिसंजाता भद्रश्रीसद्गुणाश्रयाः ॥
परिशुद्धेन्द्रिया धीरा बोधिचर्याव्रतंधराः ।
स्वपरात्महितं कृत्वा यायुरन्ते जिनालये ॥
इत्येवं स महासत्त्वः सर्वसत्त्वहितार्थभृत् ।
कृपाकारुण्यसद्धर्मगुणमाहात्म्यसागरः ॥
असंख्यं पुण्यमाहात्म्यं तस्य लोकेश्वरस्य हि ।
सर्वैरपि मुनीन्द्रैस्तत्प्रमातुं नैव शक्यते ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः ।
सुधीः सर्वनीवरणविष्कम्भी चैवमब्रवीत् ॥
भगवन् स महासत्त्वो नागच्छति कदा व्रजत् ।
तस्याहं दर्शनं कर्तुमिच्छामि त्रिजगत्प्रभोः ॥
इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः ।
विकम्भिनं तमालोक्य पुनरेवं समादिशत् ॥
एवं तान् कुलपुत्रासौ लोकेश्वरः प्रबोधयन् ।
प्रेषयित्वा सुखावत्यां ततो निष्क्रम्य गच्छति ॥
अन्यत्रापि समुद्धर्तुं पापिनो नरकाश्रितान् ।
करुणासुदृशा पश्यंश्चरंस्ते संप्रभासयन् ॥
दिने दिने स आगत्य सर्वेषु नरकेष्वपि ।
निमग्नान् पापिनो दुष्टान् समालोक्य प्रभासयन् ॥
स्वयमुद्धृत्य सर्वान्स्तान् सुखीकृत्वा प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य संप्रेषयेत्सुखावतीम् ॥

॥ इति श्रीगुणकारण्डव्यूहे सूचीमुखोदरपर्वतप्रेतोद्धारनप्रकरणम् ॥


४. श्रीमहेश्वरादि देव समुत्पादन प्रकरणम्

श्रीभगवानुवाच ।
एवमसौ महासत्त्वो लोकेश्वरो जिनात्मजः ।
भवाब्धेः स्वयमुद्धृत्य पालयति सदा जगत् ।
प्रदुष्टानपि पापिष्टान् बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य संप्रेषयेज्जिनालये ॥
नास्तीदृग्गुणसंपन्नः सत्त्वयैधातुकेष्वपि ।
कस्यापि विद्यते नैव प्रतिभानं हि तादृशम् ॥
मुनीन्द्राणां च सर्वेषां नास्तीदृग्द्रुतिभानता ।
तेन लोकेश्वरो नाम बोधिसत्त्वस्स उच्यते ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः ।
विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत् ॥
भगवन् हेतुना केन सर्वलोकाधिपेश्वरः ।
लोकेश्वरः स आख्यात एतत्सम्यक्समादिश ॥
तस्येव प्रतिभासत्वं कस्यचिन्नैव विद्यते ।
मुनीन्द्राणामपि सर्वेषां नास्तीति तत्कथं खलु ॥
एतत्सम्यक्समाख्याहि श्रोतुमिच्छामि सर्ववित् ।
इमे सर्वे सभासीनास्तद्गुणश्रोतुमानसाः ॥
इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः ।
विष्कम्भिनं महाविज्ञं तमालोक्यैवमादिशत् ॥
शृणु त्वं कुलपुत्रास्य लोकेशस्य प्रभावताम् ।
संप्रवक्ष्यामि ते प्रीत्या सर्वसत्त्वानुबोधने ॥

(३६)
तध्ययाभूत्पुरा शास्ता तथागतो मुनीश्वरः ।
विपश्यी नाम संबुद्धः सर्वविद्याधिपो जिनः ।
सर्वज्ञोऽर्हन्महाभिज्ञो धर्मराजो विनायकः ।
भगवांयिजगन्नाथः सर्वसत्त्वहितार्थभृत् ॥
तदाहं कुलपुत्रासं सुगन्धसुखसंज्ञकः ।
वणिक्सुतो वृषोत्साही संबुद्धगुणलालसः ॥
तस्य विपश्यिनः शास्तुः संबुद्धस्य जगद्गुरोः ।
शरणे समुपाश्रित्य प्राचरन् बोधिसंवरम् ॥
तदा तेन मुनीन्द्रेण सर्वज्ञेन विपश्यिना ।
लोकेशगुणमाहात्यं समाअख्यातं श्रुतं मया ॥
तद्यथासौ जगच्छास्ता विपश्यी भगवान् जिनः ।
सद्धर्मं समुपादेष्टुं सभामध्ये समाअश्रितः ॥
तदासौ त्रिजगन्नाथो लोकेश्वरो जिनात्मजः ।
सर्वान् सत्त्वान् समुद्धर्तुं संपश्यन् करुणान्वितः ॥
पुण्यरश्मिं समुत्सृज्य प्रभासयन् समन्ततः ।
दुःखिनो नरकासीनान् सर्वान् सत्त्वान् विलोकयन् ॥
समुद्धृत्य प्रयत्नेन बोधयित्वानुमोदयन् ।
त्रिरत्नशरणे स्थाप्य चारयित्वा शुभे वृषे ॥
बोधिमार्गे प्रतिष्ठाप्य श्रावयित्वा सुभाषितान् ।
संबोधिसाधने धर्मे संनियोज्य विनोदयन् ॥
सर्वत्र मंगलं कृत्वा निरुपातं महोत्सवम् ।
त्रिरत्नगुणमाहात्म्यं प्रकाशयन् समाचरत् ॥
तदा तद्रश्मिसंस्पृष्टा सर्वा भुमिः प्रशोभिता ।
विशुद्धमंगलोत्साहसुखसमाकुलाभवत् ॥
तदद्भुतं महानन्दं महोत्साहं समन्ततः ।
समालोक्य महासत्त्वो महामतिर्जिनात्मजः ॥
विस्मयसमुपाघ्रात त्वन्त एवं व्यचिन्तयन् ॥
अहो कस्य प्रभाकान्तिरियमिह समागता ।
अवभास्य जगत्सर्वं संशोधयति शोभितम् ॥

(३७)
इति चिन्ताकुलात्मा स बोधिसत्त्वो महामतिः ।
समुत्थायोत्तरासंगमुद्वहन् पुरतो गतः ॥
जाअनुभ्यां भूतके धृत्वा कृतांजलिपुतो मुदा ।
विपश्यिनं मुनीन्द्रं तं नत्वैवं पर्यपृच्छत ॥
भगवन् कस्य प्रभावोऽयं यदियं भासमागता ।
अवभास्य जगत्सर्वं शोधयन्ति प्रशोभितम् ॥
यदिदं महदाश्चर्यं दृष्ट्वा सर्वेऽतिविस्मिताः ।
श्रोतुमिच्छन्ति सर्वज्ञ तत्समादेष्टुमर्हति ॥
इति तेनोदितं श्रुत्वा विपश्यी स मुनीश्वरः ।
महामतिं महासत्त्वं तमालोक्यैवमादिशत् ॥
महामते शृणुष्वेदमद्भुतं यत्समुद्भवम् ।
तत्पुण्यप्रभावत्वं कथयिष्यामि सांप्रतम् ॥
ययैलोकाधिपो नाथो बोधिसत्त्वो जिनात्मजः ।
सर्वधर्माधिपः श्रीमानार्यावलोकितेश्वरः ॥
स सत्त्वान् पापिनो दुष्टान् दुःखिनो नरकाश्रितान् ।
समालोक्य कृपादृस्ट्या महाकारुण्यचोदितः ॥
तान् सर्वान् हि समुद्दृत्य बोधियित्वानुमोदयन् ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषयितुं जिनालये ॥
संप्रस्थितः सुखावत्याः पुण्यरश्मीन् समुत्सृजन् ।
अवभास्य जगल्लोकमिहागन्तुं समागतः ॥
तस्य पुण्यप्रभाकान्तिरियं पापविशोधनी ।
अवभास्य जगत्सर्वं शोधयन्ती प्रसारिता ।
एवं स सर्वलोकानामधिपतिर्हितार्थभृत् ।
स्वयमालोक्य सर्वत्र याति सर्वान् समुद्धरन् ॥
पापिनोऽपि समालोक्य सर्वत्र नरकेष्वपि ।
निमग्नानतिदुःखांस्तान् पुण्यरश्मीन् समुत्सृजन् ॥
अवभास्य सुखापन्नान् समुद्धृत्य प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतिम् ॥

(३८)
एवं स श्रीगुणाधारः सद्धर्मसुखदारयकः ।
दिने दिनेऽप्यप्रेमेयान् सत्त्वानुद्धृत्य बोधयन् ॥
बोधिमार्गे प्रतिष्ठाप्य श्रावयित्या सुभाषितम् ।
कृत्वा शुद्धाशयान् सर्वान् प्रेषयति सुखावतीम् ॥
एवं तस्य महत्पुण्यं सर्वलोकाधिकं बहु ।
अप्रमेयमसंख्येयं संबोधिपदसाधनम् ॥
सर्वैरपि मुनीन्द्रैस्तत्पुण्यं महद्बहूत्तमम् ।
प्रमातुं परिसंख्यातुं शक्यते न कदाचन ॥
सर्वेषामपि बुद्धानामीदृक्पुण्यं महोत्तमम् ।
अप्रमेयसंख्येयं विद्यते न कदाचन ॥
कस्यापि दृश्यते नैवमीदृक्पुण्यं महत्तरम् ।
तेनासौ त्रिगजगन्नाथो विराजते समन्ततः ॥
एवं तस्य महत्पुण्यप्रमेयं बहुत्तमम् ।
सर्वैरपि मुनीन्द्रैस्तत्प्रमातुं शक्यते न हि ॥
तस्मादसौ जगन्नाथो जगच्छास्ता जगत्पतिः ।
सर्वलोकाधिपः श्रीमानार्यावलोकितेश्वरः ॥
आदिबुद्धात्मसंभूतो जगदीशो महेश्वरः ।
विश्वसृक्त्रिजगद्भर्त्ता संबोधिज्ञानभास्करः ॥
सर्वैः लोकाधिपैर्देवैः सासुरयक्षकिन्नरैः ।
राक्षसैर्गरुडैर्नागैः पूजितो वन्दितः सदा ॥
ग्रहैस्तारागणैः सर्वैर्विद्याधरैर्महर्द्धिकैः ।
सिद्धैः साध्यैश्च रुद्रैश्च कुम्भाण्डैश्च महोरगैः ॥
सर्वैर्भूताधिपैश्चापि सवह्निर्यममारुतैः ।
सर्वैश्चाप्यप्सरःसर्वैर्दैवादिकन्यकागणैः ॥
एवं दानवनागेन्द्रयक्षादिकन्यकागणैः ।
सदा ध्यात्वाप्यनुस्मृत्वा स्तुत्वा नत्वाभिपूजितः ॥
भैरवैश्च तथा सर्वैर्महाकालगणैरपि ।
मातृकाश्भिश्च सर्वाभिः संस्तुतो वन्दितोऽर्चितः ॥

(३९)
सर्वैश्च डाकिनीसंघैः सर्वैर्भूतैः पिशाचकैः ।
सर्वैर्विघ्नाधिपैचापि सप्रेतकठपूतकैः ॥
सर्वैर्मारगणैश्चापि त्रैधातुकनिवासिभिः ।
सदा नित्यमनुस्मृत्वा प्रणमितः प्रशंसितः ॥
एवं महर्षिभिः सर्वैर्योगिभिश्च तपस्विभिः ।
यतिभिस्तीर्थिकैश्चापि नित्यं स्मृत्वाभिवन्दितः ॥
श्रावकैर्भिक्षुभिः सर्वैरर्हद्भिर्ब्रह्मचारिभिः ।
सदानुस्मरणं कृत्वा ध्यात्वा वन्दितार्चितः ॥
तथा सर्वैर्महासत्त्वैर्बोधिसत्त्वैश्व सर्वदा ।
तद्गुणानुस्मृतिं धृत्वा स प्रशंस्योऽभिवन्ध्यते ॥
तथा प्रत्येकबुद्धैश्च श्रुत्वा दृष्ट्वा च तद्गुणान् ।
सदानुमोदनां कृत्वा प्रणत्वा संप्रशंस्यते ॥
एवं सर्वैर्मुनीन्द्रैश्च संबुद्धैरपि सर्वदा ।
तत्पुण्यगुणमाहात्म्यं संप्रशंस्यानुमोद्यते ॥
एवं स सर्वलोकेशः सर्वधर्माधिपेश्वरः ।
विश्वरस्त्रष्टा जगद्भर्ता त्रैधातुकाधिपेश्वरः ॥
महाबुद्धात्मसंभूतः सद्धर्मगुणभास्करः ।
सर्वसंघाधिराजेन्द्रो बोधिसत्त्वो जगत्प्रभुः ॥
इति सर्वैर्महाभिज्ञैः संबुद्धैः सर्वदर्शिभिः ।
मुनीश्वरैः समाख्यातं पुरा मया श्रुतं किल ॥
तद्यथादौ महाशून्यं पंचभूतेऽप्यनुद्भवे ।
ज्योतिरुसमुद्भूत आदिबुद्धो निरंजनः ।
त्रिगुणांशमहामूर्त्तिर्विश्वरुपः समुत्थितः ।
स स्वयंभुर्महाबुद्ध आदिनाथो महेश्वरः ।
लोकसंसर्जनं नाम समाधिं विदधे स्वयम् ॥
ततस्तस्यात्मसंभूतो दिव्यारुपः शुभांशभृत् ।
भद्रमूत्तिर्विशुद्धांगः सुलक्षणाभिमण्डितः ॥
पुण्यकान्तिविरोचिष्कः सर्वलोकाधिपेश्वरः ।
सोऽपि लोकोद्भवं नाम समाधिं विदधे स्वयम् ॥

(४०)
तदा तस्यादिनाथस्य चक्षुभ्यां चन्द्रभास्करौ ।
समुत्पन्नौ ललाटाच्च समुत्पन्नो महेश्वरः ॥
स्कन्धाभ्यां संप्रजातोऽभूदब्रह्मा सौम्यश्चतुर्मुखः ।
हदयाच्च समुद्भूतो नारायणोऽतिसुन्दरः ॥
उभाभ्यां दन्तपंक्तिभ्यां समुत्पुन्ना सरस्वती ।
वायुवो मुखतो जाताः पृथ्वी जाता च पादतः ॥
वरुणश्चोदराज्जातः वह्निश्च नाभिमण्डलात् ।
वामजानूद्भवा लक्ष्मीः श्रीदो दक्षिणजानुतः ॥
एवमन्येऽपि देवाश्च सर्वलोकाधिपा अपि ।
तस्य महात्मनो देहात्समुद्भूता जगद्धिओते ॥
यदैते लोकनाथस्य जाता लोकाधिपास्तनोः ।
तस्य सर्वे प्रसन्नास्याः पश्यन्तः समुपस्थिताः ॥
तदा महेश्वरो देवः स्त्रष्टारं तं जगद्गुरुम् ।
प्रणत्वा सांजलिः पश्यन् प्रार्थयदेवमादरात् ॥
भगवन् यदिमे सर्वे भवता निर्मिता वयम् ।
तदर्थेऽस्मानिमान् सर्वान् व्याकरोतु यथाविधि ॥
इति संप्रार्थिते तेन महेश्वरेण सर्ववित् ।
लोकेश्वरः समालोक्य सर्वांन्स्तानेवमादिशत् ॥
आरुप्यलोक्धात्वीशो भविष्यसि महेश्वर ।
त्राता योगाधिपः शास्ता संसारमुक्तिसौख्यदिक् ॥
कलियुगे समुत्पुन्ने सत्त्वधातौ कषायिने ।
तदा स्रष्टा विभर्त्ता च संहर्त्ता च भविष्यसि ॥
सर्वसत्त्वा दुराचारा मारचर्यासमारताः ।
मिथ्याधर्मगता दुष्टा सद्धर्मगुणनिन्दकाः ॥
विहीनबोधिचर्यांगास्तामसधर्मसाधिनः ।
तीर्थिकधर्मसंरक्ता भविष्यन्ति कलौ यदा ॥
तदा पृथग्जनाः सर्वे मोहेर्ष्यामदमानिकाः ।
सर्वे ते शरणं गत्वा भजिष्यन्ति सदादरात् ॥

(४१)
आकाशं लिंगमित्याहुः पृथिवी तस्य पीठिका ।
आलयः सर्वभूतानां लीयनाल्लिंगमुच्यते ॥
इति सर्वे तदा लोकाः प्रभाषन्तः प्रमादतः ।
सर्वान् देवान् प्रतिक्षिप्य चरिष्यन्ति विमोहिताः ॥
तान् सर्वान् समालोक्य बोधयित्वा प्रयत्नतः ।
मुक्तिमार्गे प्रतिष्ठाप्य व्रतं शैवं प्रचारय ॥
एवं कृत्वा महैशानं पदं प्राप्य महेश्वरः ।
त्रैलोक्याधिपतिर्नाथो भविष्यसि कलौ युगे ॥
इत्येवं तत्समादिष्टं निशम्य स महेश्वरः ।
तथेति प्रतिनन्दित्वा तत्रैव समुपाश्रयत् ॥
अथासौ सर्वविच्छास्ता लोकेश्वरो जिनात्मजः ।
ब्रह्मानं समुपामन्त्र्य संपश्यन्नैमब्रवीत् ॥
ब्रह्मन्स्त्वं रुपधात्निशश्वतुर्वेदांगशायभृत् ।
सृष्टिकर्ता जगच्छास्ता चतुर्ब्रम्हविहारिकः ॥
शान्तचर्यासमाचारः सात्त्विकधर्मनायकः ।
परमार्थयोगविद्विद्वान् शुभार्थभृद्भविष्यति ॥
युगे कलौ समुत्पन्ने तव चर्या विनक्ष्यति ।
म्लेछधर्मसमाक्रान्ते सद्वृत्तिः परिहास्यते ।
तदापि त्वं प्रयत्नेन नानारुपेण बोधयन् ।
धर्ममार्गे प्रतिष्ठाप्य प्रापयस्व सुनिर्वृतिम् ॥
एवं ब्रह्मन्स्त्वमालोक्य सर्वान् सत्त्वान् प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य पालयस्व जगद्धिते ॥
एवं कृत्वा महत्क्लेशभवोदधिं समुत्तरेत् ।
अर्हन्संबोधिमासाद्य संबुद्धोऽपि भविष्यसि ॥
इत्येवं तत्समादिष्टं समाकर्ण्य प्रबोधितः ।
ब्रह्मा तथेति संश्रुत्य प्राभ्यनन्दत्प्रसादितः ॥
ततोऽसौ च महासत्त्वो लोकेश्वरो जिनात्मभूः ।
नारायणं समालोक्य समामन्त्र्यैवमादिशत् ॥

(४२)
विष्णो त्वं कामधात्वीशः सर्वलोकाधिपः प्रभुः ।
रजोधर्माधिपः शास्ता सर्वसत्त्वहितार्थभृत् ॥
महाभिज्ञो महावीरः सर्वदुष्टप्रमर्दकः ।
संसारसुखसंभर्ता मायाधर्मविचक्षणः ॥
कलौ क्लेशाकुलान् सत्त्वान्नानारुपेण बोधयन् ।
त्रासयित्वापि यन्नेन सर्वान् धर्मे नियोजय ॥
एवं कृत्वा महासत्त्वो महत्पुण्यगुणान्वितः ।
राजा विश्वम्भरो नाथो लक्ष्मीपतिर्महर्द्धितः ॥
सर्वान् सत्त्वान् सुखीकृत्य सर्वान् दुष्टान् विनिर्जयन् ।
संवृतिविरतात्मान्ते निर्वृतिपदमाप्स्यसि ॥
इत्येवं तत्समादिष्टं निशम्य स प्रबोधितः ।
विष्णुस्तथेति विज्ञप्य प्राभ्यनन्दत्प्रसादितः ॥
ततश्चासौ महासत्त्वो लोकेश्वरो जिनांशजः ।
सरस्वतीं समालोक्य समामंत्र्यैवमादिशत् ॥
सरस्वती महादेवी सर्वविद्यागुणाकरी ।
महामायाधरी सर्वशायविज्ञा सुभाषिणी ॥
सद्धर्मगुणसंभर्त्री संबोधिप्रतिपालिनी ।
ऋद्धिसिद्धिप्रदात्री त्वं वागिश्वरी भविष्यसि ॥
सर्वान्मूर्खान् दुराचारानपि सत्त्वान् प्रयत्नतः ।
बोधयित्वा शुभे धर्मे योजयन्त्यभिपालय ॥
येऽपि ते शरणं गत्वा भजेयुर्भक्तिमानसाः ।
पण्डितास्ते महाभिज्ञा भवेयु श्रीगुणाश्रयाः ॥
एवं सत्त्वहितं कृत्वा मह्त्पुण्यगुणान्विता ।
प्रान्ते बोधिं समासाद्य संप्राप्स्यसि जिनास्पदम् ॥
इत्येवं तत्समादिष्टं निशम्य सा सरस्वती ।
तथेति प्रतिनन्दित्वा तत्रैकान्ते समाश्रयत् ॥
ततश्चासौ महासत्त्वो लोकेश्वरो जिनात्मजः ।
विरोचनं समालोक्य समामंत्र्यैवमादिशत् ॥

(४३)
सूर्य त्वं सुमहद्दीप्तिप्रभाकरो ग्रहाधिपः ।
दिवाकरो जगल्लोकतमोऽन्तको भविष्यसि ॥
अवभास्य जगल्लोकं प्रकाशयन् विशोधयन् ।
चारयित्वा शुभे धर्मे पालयस्व सदा भ्रमन् ॥
ततोऽसौ च महासत्त्वो लोकनाथो जगत्प्रभुः ।
चन्द्रमसं समालोक्य समामंत्र्यैवमादिशत् ॥
चंद्रमस्वं महाकान्तिः शीतरश्मिः सुधाकरः ।
ताराधिपो जगत्क्लेशसन्तापहृद्भविष्यति ॥
अवभास्य जगल्लोकं प्रवर्षयन् सदामृतम् ।
औषधीव्रीहिशस्यानां रसवीर्यं प्रवर्धयन् ॥
प्रह्लाद्सुखसंपन्नान् कृत्वा रात्रौ प्रबोधयन् ।
सर्वान् सत्त्वान् शुभे धर्मे चारयित्वाभिपालय ॥
ततो वायुं समालोक्य लोकेश्वरः स सर्ववित् ।
सर्वांस्तान् समुपामंत्र्य पुर एवमुपादिशत् ॥
यूयं समीरणाः सर्वे जगत्प्राणाः सुखावहाः ।
सर्वधर्मसुखोत्साहप्रकर्तारो भविष्यथ ॥
प्रचरन्तः सदा यूयं पुयगण्धसुखवहाः ।
प्रेरयित्वा जगद्धर्मे संपालयध्वमाभवम् ॥
ततः पृथ्वीं महादेवीं समालोक्य सर्वदृक् ।
जिनात्मजो लोकनाथो समामंत्र्यैवमादिशत् ॥
पृथिवि त्वं जगद्भर्त्री सर्वलोकसमाश्रया ।
वसुंधरा जगद्भर्ती विश्वमाता भविष्यसि ॥
सर्वधातून् सुरत्नानि व्रीहिशस्यमहौषधीः ।
दत्वा संस्थाप्य सद्धर्मे पालयस्व जगत्सदा ॥
ततो वरुमालोक्य स लोकेशो जिनात्मभूः ।
पुरतः समुपामंत्र्य व्याकरोदेवमादिशत् ॥
वरुण त्वमपां नाथः सर्वसत्त्वामृतपदः ।
सर्वरत्नाकराधीशो नागराजो भविष्यसि ॥

(४४)
सदामृतप्रदानेन पोषयित्वा प्रबोधयन् ।
दत्वा रत्नानि सद्धर्मे चारयस्व जगत्सदा ॥
ततो वह्निं समालोक्य चित्रभानुं प्रभास्वरम् ।
सर्वलोकाधिपः शास्ता समामंत्र्यैवमादिशत् ॥
वह्ने त्वं सर्वदेवानां मुखीभूतो हुतांशभुक् ।
पाचकः सर्ववस्तूनां दहनः पावकोऽप्यसि ॥
तस्मात्सर्वप्रयत्नेन सर्वालोकान् प्रहर्षयन् ।
सदा लोके सुखं दत्त्वा संपालय जगद्धिते ॥
ततो लक्ष्मीं महादेविं लोकेश्वरः स सन्मतिः ।
पुरतः समुपामंत्र्य समालोक्यैवमादिशत् ॥
लक्ष्मि त्वं श्री महादेवी माहेश्वरी वसुन्धरा ।
सर्वसंपत्सुखोत्साहप्रदायिनी भविष्यसि ॥
सधातुद्रव्यरन्तादिमहान्सम्पत्सुखान्यपि ।
दत्वा धर्मे प्रतिष्ठाप्य पालयस्व जगत्सदा ॥
ततः श्रीदं समालोक्य स लोकेशो जगत्प्रभुः ।
पुरतः समुपामंत्र्य व्याकरोदेवमादिशत् ॥
कुबेर त्वं महाभागः सर्वद्रव्याधिपः प्रभुः ।
श्रीसंपत्सद्गुणाधारो राजराजो भविष्यसि ॥
दत्वा श्रीगुणसंपत्तीः प्रदत्वा संप्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य पालयस्व सदा जगत् ॥
एवं स त्रिजगत्न्नाथो लोकेश्वरो जिनात्मजः ।
सर्वांस्तान् स्वाअत्मजान् देवान् समामंत्र्यैवमादिशत् ॥
यूयं सर्वे महासत्त्वाः संबोधिव्रतचारिणः ।
सर्वसत्त्वहितं कृत्वा प्रचरध्वं सदा शुभे ॥
एवं कृत्वा महत्पुण्यं श्रीसमृद्धिसमन्विताः ।
अन्ते संबोधिमासाद्य संबुद्धपदमाप्स्यथ ॥
इत्येवं तत्समादिष्टं श्रुत्वा सर्वे प्रबोधिताः ।
ते देवाः प्रतिनन्दन्तस्तथेति प्रतिशुश्रुवुः ॥

(४५)
एवं ते सकला देवाः धृत्वा तस्यानुशासनम् ।
बोधिचर्यां समाधाय संप्रचेरुजगद्धिते ॥
तदनुशासनादेव सर्वलोकाधिपा अपि ।
बोधिचर्याव्रतं धृत्वा संचरिरे जगद्धिते ॥
एवं स त्रिजगच्छास्ता लोकेश्वरो जिनात्मजः ।
बोधिसत्त्वमहाभिज्ञः सर्वलोकाधिपेश्वरः ॥
ये तस्य त्रिजगच्छास्तुः श्रद्धया शरणं गताः ।
सर्वे ते विमलात्मनो नैव गच्छन्ति दुर्गतिम् ॥
सदा सद्गतिसंजाताः सद्धर्मश्रीसुखान्विताः ।
निःक्लेशा बोधिमासाध्य संबुद्धपदमाप्नुयुः ॥
सर्वेऽपि सुगतास्तस्य श्रद्धया शरणं गताः ।
ध्यात्वानुस्मृतिमाध्याय प्रचरन्तो जगद्धिते ॥
एअतत्पुण्यानुभावेन निःक्लेशा विमलाशयाः ।
जित्वा मारगणान् बोधिं प्राप्य गताः सुनिर्वृतिम् ॥
अतीता अपि संबुद्धा वर्तमाना अनागताः ।
सर्वेऽपि ते जगच्छास्तुः श्रद्धया शरणं गताः ॥
ध्यात्वानुस्मृतिमाधाय प्रचरन्तो जगद्धिते ।
बोधिचर्याव्रतं धृत्वा कृत्वा सर्वजगद्धितम् ॥
क्रमेण बोधिसंभारं पूरयित्वा यथाविधि ।
जित्वा मारगणान् सर्वान् बोधिं प्राप्याभवन् जिनाः ॥
भवन्ति च भविष्यन्ति धर्मराजा मुनीश्वराः ।
अर्हन्तः सुगता नाथाः सर्वज्ञास्त्रिविनायकाः ॥
एवं स त्रिजगन्नाथो लोकेश्वरो महर्द्धिमान् ।
बोधिसत्त्वो महासत्त्वः सर्वलोकाधिपेश्वरः ॥
सर्वसत्त्वहितार्थेन बोधिचर्याव्रतं चरन् ।
सर्वान् सत्त्वान् स्वयं पश्यन्नवभास्य समुद्धरन् ॥
बोधिमार्गे प्रतिष्ठाप्य चारयित्वा शुभे वृषे ।
बोधयन् सुप्रसन्नांस्तान् प्रेषयति सुखावतीम् ॥

(४६)
एवं स जगदादीशो लोकेश्वरो जिनात्मजः ।
बोधिसत्त्वो महासत्त्वः सर्वधर्महितार्थभृत् ॥
नास्ति तस्य समं कश्चित्सद्धर्मगुणपुण्यवान् ।
कुतोऽधिको भवेत्तेन लोकेश्वरो जगत्प्रभुः ॥
इत्येवं सुगतैः सर्वैः संबुद्धैः सर्वदर्शिभिः ।
लोकेशगुणमाहात्म्यं समादिष्टं श्रुतं मया ॥
ईदृक्पुण्यगुणोद्भावं लोकेशस्य विपश्विनः ।
मिनीन्द्रेण समादिष्टं पुरा मयाभिसंश्रुतम् ॥
तस्माल्लोकेशवरः सर्वसंघाधिपो जगद्गुरुः ।
सेवनीयः प्रयत्नेन सद्धर्मगुणवांछिभिः ॥
ये ह्यस्य शरणं गत्वा भजन्ति श्रद्धया मुदा ।
दुर्गतिं ते न गच्छन्ति सर्वत्रापि कदाचन ॥
सदा सद्गतिसंजाता धर्मश्रीसुखभागिनः ।
शुभोत्साहं प्रभुंजन्ते प्रान्ते यान्ति सुखावतीम् ॥
इत्येवं हि समादिष्टं शाक्यसिंहेन तायिना ।
श्रुत्वा सर्वे सभालोकाः प्राभ्यनन्दन् प्रबोधिताः ॥

॥ इति श्रीमहेश्वरादिदेवसमुत्पादनप्रकरणम् ॥


५. सर्वाकार सर्वसत्त्व प्रबोधन बोधिचर्यावतारण प्रकरण

अथ सर्वनीवरणविष्कम्भी सुगतात्मजः ।
सांजलिर्भगवन्तं तं प्रणत्वा चैवमब्रवीत् ॥
भगवन्स महासत्त्वो लोकेश्वर जगत्प्रभुः ।
कदेह समुपागछेद्द्रष्टुमिच्छामि तं प्रभुम् ॥
इति तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः ।
विष्कम्भिनं महासत्त्वं तमालोक्यैवमादिशत् ॥

(४७)
विष्कम्भिन् स महासत्त्वो नागच्छेदिह सांप्रतम् ।
अन्यत्र नरके सत्त्वानुद्धर्तुमभिगच्छति ॥
सर्वत्रापि स्वयं गत्वा संपश्यन्नरकाश्रितान् ।
सर्वान् सत्त्वान् समुद्धृत्य प्रेषयति सुखावतीम् ॥
एवं स सर्वदा सत्त्वान् स्वयं पश्यन् दिने दिने ।
असंख्येयान् समुद्धृत्य प्रेषयति सुखावतीम् ॥
एवं कुर्वन् स लोकेशो बोधिचर्याव्रतं चरन् ।
असंख्यपुण्यरत्नाद्यश्रीसमृद्धो विराजते ॥
तस्य पुण्यमसंख्येयमप्रमेयं बहूत्तमम् ।
सर्वैरपि मुनीन्द्रैस्तत्प्रमातुं नैव शक्यते ॥
इत्येवं सुगतैः सर्वैः पुराख्यातं मया श्रुतम् ।
तदत्राहं प्रवक्ष्यामि शृणुध्यं यूयमादरात् ॥
तद्यथाभूत्पुरा शास्ता शिखि नाम तथागतः ।
सर्वज्ञोऽर्हन्महाभिज्ञोः धर्मराजो मुनीश्वरः ॥
सर्वविद्याधिराजेन्द्रः संबुद्धः सुगतो जिनः ।
मारजित्सर्वलोकेन्द्रस्त्रैधातुकविनायकः ॥
तदासं बोधिसत्त्वोऽहं दानशूरोऽभिधो गृही ।
सदादानरतो धीरः सर्वसत्त्वहितार्थभृत् ॥
सदा स शिखिनस्तस्य मुनीन्द्रस्य जगद्गुरोः ।
सत्कृत्य श्रद्धया नित्यं प्राभजन् समुपस्थितः ॥
तदा तेन मुनीन्द्रेण समाख्यातं मया श्रुतम् ।
लोकेश्वरस्य सद्धर्मसाधनोद्भवकौशलम् ॥
इति तेन मुनीन्द्रेण समाअख्यातं निशम्य सः ।
बोधिसत्त्वो महासत्त्वो विष्कम्भी चैवमब्रवीत् ॥
भगवन् किदृशं तस्य लोकेशस्य महात्मनः ।
सद्धर्मसाधनोद्भूतं कौशलं भवता श्रुतम् ॥
भगवन्स्तत्समाख्याय सर्वानस्मान् प्रबोधय ।
सर्वलोका इमे श्रुत्वा भवेयुस्तद्गुणारताः ॥

(४८)
इति संप्रार्थितं तेन श्रुत्वासौ भगवान् जिनः ।
सर्वांल्लोकान् सभासीनान् समालोक्यैवमादिशत् ॥
यदा स भगवांच्छास्ता शिखी तथागतो जिनः ।
सर्वलोकसभामध्ये ससांघिकः समाश्रितः ॥
आदिमध्यान्तकल्याणं संबोधिगुणसाधनम् ।
सद्धर्मं समुपादेष्टुं समारभेज्जगद्धिते ॥
तदा तस्य मुखद्वारान्नानावर्णाः सुरश्मयः ।
विनिर्गता जगत्सर्वमवभास्य प्रचेरिरे ॥
कृत्वा सर्वत्र लोकेषु सुभद्राणि समन्ततः ।
पुनरागत्य सा कान्तिस्तदाश्रम उपागताः ॥
शिखिनं तं महाभिज्ञं धर्मराजं मुनीश्वरम् ।
त्रिधा प्रदक्षिणीकृत्य तन्मुखाज्ये समाविशत् ॥
तत्सत्पुण्यप्रभां दृट्वा लोकेश्वरः स विस्मितः ।
अमिताभं जिनं नत्वा पप्रच्छैवं समादरात् ॥
भगवन् कस्य सत्पुण्यकान्तिरियं समागता ।
तद्भवान् समुपादिश्य संबोधयतु नो गुरो ॥
इति तदुक्तमाकर्ण्य भगवान् सोऽमितप्रभः ।
लोकेश्वरं महासत्त्वं तमालोक्यैवमादिशत् ॥
कुलपुत्र शिखी नाम संबुद्धोऽर्हन्मुनीश्वरः ।
सर्वज्ञस्त्रिगच्छास्ता धर्मराजस्तथागतः ॥
विहारे जेतकोद्याने समाश्रितः ससांघिकः ॥
सर्वलोकसभामध्ये समासीनः प्रभासयन् ।
सद्धर्मं समुपादेष्टुं प्रारम्भं कुरुतेऽधुना ॥
तस्येयं सुप्रभाकान्तिर्मुखद्वाराद्विनिर्गता ।
सर्वत्र भुवनेष्वेवमवभास्य प्रचर्यते ॥
इहापि समुपायाता भासयन्ती प्रचारिता ।
परावृत्य मुनेस्तस्य मुखे प्राविशतेऽधुना ॥
इत्यादिष्टं मुनीन्द्रेण लोकेश्वरः प्रसादितः ।
अमिताभं मुनीन्द्रं तं प्रणत्वैवमभाषत ॥

(४९)
भगवन् धर्मराजं तं द्रष्टुमिच्छामि सांप्रतम् ।
तत्तत्राहं गतिष्यामि तदाज्ञां दातुमर्हति ॥
इति संप्रार्थितं तेन लोकेशेन निशम्य सः ।
अमिताभो मुनीन्द्रस्तं लोकेशमेवमबव्रीत् ॥
कुलपुत्र मुनीन्द्रंस्तं यदि द्रष्टुं त्वमिच्छसि ।
गच्छ मद्वचनेनापि कौशल्यं स्प्रष्टुमर्हसि ॥
पद्मं समुपसंस्थाप्य तस्य पश्यन् सभामपि ।
समुपाश्रित्य सद्धर्मं श्रुत्वा गच्छानुमोदितः ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा लोकेश्वरो मुदा ।
सांजलिस्तं जिनं नत्वा संभासयंस्ततोऽचरत् ॥
यदा ततः सुखावत्यां संप्रस्थितः स भासयन् ।
तदा सर्वा मही साब्धिः सागाधा च प्रकम्पिता ॥
प्रवर्षाद्वियतो हेमरत्नमयं महोत्पलम् ।
निरुत्पातं शुभोत्साहं प्रावर्तत समन्ततः ॥
तदाश्रममहोद्याने कल्पवृक्षाः समुत्थिताः ।
दिव्यवस्त्रसुवर्णादिरत्नालंकारलम्बिताः ॥
नानाकुसुमवृक्षाश्च सुगंधिपुष्पशोभिताः ।
अनेकfअलवृक्षाश्च दिव्यरसfअलानताः ॥
अष्टांगुणसंपन्नजलपूर्णाः सरोवराः ।
नानापुष्पाभिसंकीर्णाः प्रादुर्भूता मनोरमाः ॥
विविधपुष्पवर्णाणि द्रव्याणि विविधान्यपि ।
हेमादिधातुरत्नानि वस्त्राणि भूषणानि च ॥
सुवर्णसुरसास्वादसंपन्नभोजनान्यपि ।
धान्यादिव्रीहिजातानि प्रवर्षन्त तदाश्रमे ॥
तत्र च सप्तरत्नानि संजातानि जिनाश्रमे ।
सर्वा भूमिश्च सौवर्णा निर्भासा संबभौ तदा ॥
तदा लोकेश्वर पद्मं सहस्त्रपत्रं सुवर्णिकम् ।
सप्तरत्नमयो ज्वालं समादाय ततश्चरन् ॥

(५०)
एवं तत्र सुभद्राणां निमित्तं संप्रकाशयन् ।
अवभास्य जगल्लोकं समालोक्य समन्ततः ॥
प्राणिनो दुःखिनः सर्वान् समुद्धृत्य प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य संप्रेषयन् सुखावतीम् ॥
सुधारश्मिं समुत्सृज्य संभासयन् समन्ततः ।
संबुद्धं शिखिनं तद्विहारमुपाचरत् ॥
तानि भद्रनिमित्तानि विलोक्य तत्सभाश्रितः ।
रत्नपाणिर्महासत्त्व बोद्धिसत्त्वोऽभिलोकयन् ॥
विस्मितः सहसोत्थाय पुस्तः समुपाचरत् ।
उद्वहन्नुत्तरासंगं जानुभ्यां भुवि संस्थितः ॥
भगवन्तं मुनीन्द्रं तं संबुद्धशिखिनं मुदा ।
कृतांजलिपुटो नत्वा पप्रच्छैवं समादरात् ॥
भगवन् कस्य प्रभाकान्तिरियमिह समागता ।
महद्भद्रनिमित्तानि दृश्यन्ते प्रोद्भवानि च ॥
भगवन्स्तत्समादिश्य सर्वानिमान् सभाश्रितान् ।
विस्मयाकुलचित्तान्तः प्रबोधयितुमर्हति ॥
इति संप्रार्थितं तेन श्रुत्वा शिखी तथागतः ।
रत्नपाणिं महासत्त्वं तं पश्यन्नेवमादिशत् ॥
रत्नपाणे महासत्त्व दृश्यन्ते यदिहाधुना ।
महद्भद्रनिमित्तानि संजातानि समन्ततः ॥
तद्धेतुं संप्रवक्ष्यामि शृणुध्वमिदमादरात् ।
यूयं सर्वे प्रसीदन्तः प्रतिबुध्यानुमोदत ॥
यः श्रीमांजगन्नाथो बोधिसत्त्वो जिनात्मजः ।
सर्वसंघाधिपः शास्त सर्वलोकाधिपेश्वरः ।
समन्तभद्रकारी स आर्यावलोकितेश्वरः ।
सत्त्वान् पश्यन् समुद्धर्तुं सुखावत्यां विनिश्चरन् ॥
पुण्यरश्मिं समुत्सृज्य संभासयन् समन्ततः ।
शोधयंस्त्रिजगल्लोकं कृत्वा भद्रं समन्ततः ॥

(५१)
पापिनोऽपि दुराचारान् सर्वत्र नरकेष्वपि ।
निमग्नांस्तान् समालोक्य समुद्धृत्य समन्तत ॥
बोधयित्वा प्रयत्नेन कृत्वा सद्धर्मलालसान् ।
ममेह दर्शनं कर्तुं समुपागच्छपि सांप्रतम् ।
तस्येयं सुप्रभा कान्तिर्भासयन्ती समागता ॥
ईदृग्द्रनिमित्तानि संजातानि समंततः ।
भद्रहेतुरयं तस्य लोकेशस्यागतः खलु ॥
इत्यादिष्टं मुनीन्द्रेण रत्नपाणिर्निशम्य सः ।
संबुद्धं तं सभां तां च समालोक्यैवमब्रवीत् ॥
भगवन् स महासत्त्वो लोकेश्वरो जगत्प्रभुः ।
नागच्छति कदागत्च्छेद्द्रष्टुमिच्छामि तं प्रभुम् ॥
इति तेनोदितं श्रुत्वा भगवान् स शिखी जिनः ।
रत्नपाणिं तमालोक्य सभां चाप्येवमादिशत् ॥
आगच्छेत्स महासत्त्वो लोकेश्वरः सुदुःखितः ।
सत्त्वान् सर्वान् समुद्धृत्य प्रेषयित्वा सुखावतीम् ॥
प्रथममिह मां द्रष्टुमागच्छेत्स कृपानिधिः ।
तदा तं त्रिजगन्नाथं पश्च भज समादरात् ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स रत्नभृन्मुदा ।
सह सर्वसभालोकैस्तस्थौ तद्दर्शनोत्सुकः ॥
तदासौ त्रिजगन्नाथो लोकेश्वरः प्रभासयन् ।
दूरात्तं सुगतं पश्यन् विहारे समुपाविशत् ॥
तं लोकेशं समायातं समीक्ष्य सुगतात्मजम् ।
सर्वे लोकाः सभासीनाः समुत्थाय प्रणेमिरे ॥
रत्नपाणिस्तमायातं संपश्यन् सहसोत्थितः ।
सांजलिः समुपागम्य ववन्दे तत्पदाम्बुजे ॥
एवं स वन्द्यमानस्तैः सर्वलोकैः प्रभासयन् ।
शिखिनं तं समालोक्य पुरतः समुपाचरत् ॥

(५२)
तं समायातमालोक्य भगवान् स शिखी मुदा ।
स्वागतं ते महासत्त्व कौशलमित्यपृच्छत ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः ।
कौशलं मे सदा शास्तरिति वदन्नुपाचरत् ॥
तत्रासौ त्रिजगन्नाथः शिखिनं तं मुनीश्वरम् ।
वन्दित्वा तं महापद्ममुपस्थाप्यैवब्रवीत् ॥
भगवन्नमिताभेन शास्त्रेमं प्रहितं कजम् ।
कुशलं चापि सर्वत्र पृच्छत ते समन्ततः ॥
इति तदुक्तमाकर्ण्य भगवान् स शिखी मुदा ।
गृहीत्वा तं महापद्मं वामे स्थाप्यैवमब्रवीत् ॥
सर्वत्र कौशलमत्र क्वचित्तस्यापि कौशलम् ।
इति पृष्ट्वा मुनीन्द्रैश्च तनेवं पर्यपृच्छत ॥
कुलपुत्र त्वया सत्त्वाः कियन्तो नरकाश्रिताः ।
समुद्धृत्य शुभे स्थाप्य प्रेषितास्ते सुखावतीम् ॥
इति पृष्टे मुनीन्द्रेण लोकेश्वरो विलोक्य सः ।
संबुद्धं तं सभां चापि समालोक्यैवमब्रवीत् ॥
भगवन् बहवोऽसंख्येयाः सत्त्वा नरकाश्रिताः ।
ते सर्वेऽपि प्रयत्नेन मयालोक्य समुद्धृताः ॥
तद्यथा ये महादुष्टा अवीचौ कर्मभोगिनः ।
रौरवे कालसूत्रे च हाहवतपनेऽपि च ॥
तापनेऽग्निधटे ये च शाल्मलिके च पापिनः ।
संघाअते चान्धकारे च शीतोदकेऽसिपत्रके ॥
एवमन्यषु सर्वेषु नरकेषु समन्ततः ।
स्वकृतकर्मभुंजानां तिष्ठन्तो दुःखभोगिनः ॥
तीव्रदुःखाग्निसन्तप्ता मूढा विलुप्तचेतनाः ।
ते सर्वेऽपि मयोद्धृत्य संप्रेषिताः सुखावतीम् ॥
भूताः प्रेताः पिशाचाश्च क्षुप्तिपासाग्निदाहिताअः ।
सूचिमुखादयो दुष्टा विण्मूत्रामेध्यभोगिनः ॥

(५३)
पशवोऽपि च ये दुष्टाः पक्षिणोऽपि दुरारताः ।
कृमिकीटादयश्चापि स्वकर्मfअलभोगिनः ॥
तेऽपि सर्वे मयालोक्य मोचयित्वा स्वकर्मतः ।
समुद्धृत्य प्रयत्नेने संप्रेषिताः सुखावतीम् ॥
एवमन्येऽपि सत्त्वा ये मर्त्या दैत्याःसुरा अपि ।
अधर्माभिरता दुष्टा भ्रष्टा नरकगामिनः ॥
तेऽपि सर्वे मयाअलोक्य बोधियित्वा प्रयत्नतः ।
सधर्मे संप्रतिष्ठाप्य संप्रेषिता जिनालये ॥
एवं नित्यं मयालोक्य प्राणिनो दुरितोऽर्द्धताः ।
सर्वेऽपि नरकासीनास्तीव्रदुःखाग्नितापिताः ॥
दिने दिनेऽप्यसंख्येया समुद्धृत्य प्रयत्नतः ।
बोधियित्वा शुभे स्थाप्य चारयित्वा सुसंवरे ।
बोधिमार्गे नियुज्यैवं संप्रेषिता जिनालये ॥
यथा मया प्रतिज्ञातं तथा कर्त्तव्यमेव तत् ।
इति नित्यं समालोक्य सत्त्वा धर्मेऽभियोजिताः ॥
यावन्तः प्राणिनः सर्वे यावन्न बोधिभागिनः ।
तावदहं न संबोधिं संप्राप्नुयां जगद्धिते ॥
इति दृढा प्रतिज्ञा मे यावन्न परिपूरिता ।
तावत्सत्त्वान् समालोक्य समुद्धृत्य प्रयत्नतः ॥
बोधयित्वापि कृत्वा च चतुर्ब्रह्मविहारिणः ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषयेयं सुखावतीम् ॥
इत्येवं भगवंच्छास्ते बोधिचर्यां समाचरन् ।
सर्वसत्त्वहितं कृत्वा चरे त्रिधातुकेष्वपि ॥
एवं नित्यं जगल्लोकिअ कृत्वा भद्रसुखोत्सवम् ।
प्रचरं प्रचराम्येवं चरिष्यामि सदा भवे ॥
इत्युक्त्वा स महासत्त्वो लोकेश्वरो जिनात्मजः ।
भूयस्तं शिखिनं नत्वा समनुज्ञामयाचत ॥
भगवन् गन्तुमिच्छामि सत्त्वानुद्धर्तुमन्यतः ।
तदनुज्ञां प्रदत्वा मे प्रसीदतु जगद्धिते ॥

(५४)
इति तदुक्तमाकर्ण्य स शिखी भगवान्मुदा ।
लोकेश्वरं महाभिज्ञं तमालोक्याइवमब्रवीत् ॥
सिध्यतु ते महासत्त्व कार्यं संबोधिसाधनम् ।
गच्छ लोके हितं कुर्वन् संचरस्व सुखं सदा ॥
इत्यादिष्टं मुनीन्द्रेण लोकेश्वरो जगत्प्रभुः ।
शिखिनं धर्मराजं तं प्रणत्वा प्राचरत्ततः ॥
प्रक्रमित्त्वा ततः सोऽग्निपिण्ड इव समुज्ज्वलन् ।
आकाशेऽन्तर्हितोऽन्यत्र भुवेने भासयन् ययौ ॥
तमेवं खे गतं दृष्ट्वा रत्नपाणिः स विस्मितः ।
शिखिनं भगवन्तं तं समालोक्यैवमब्रवीत् ॥
भगवंस्त्रिजगद्भर्तुर्लोकेअश्स्य महान्मनः ।
कियत्सुकृतसंभारं विद्यते तत्समादिश ॥
इति संप्रार्थितं तेन श्रुत्वा स भगवांछिखी ।
रत्नपाणिस्तमालोक्य समामंत्र्यैवमादिशत् ॥
कुलपुत्र शृणु चास्य लोकेशस्य जगत्प्रभोः ।
पुण्यस्कन्धं प्रवक्ष्यामि सत्त्वानां भद्रकारणे ॥
तद्यथैके महासत्त्वाः सर्वेषामपि देहिनाम् ।
सर्वदा सर्वसत्कारैर्भजन्ति समुपस्थिताः ॥
तेषां पुण्यानि यावन्ति तानि सर्वाणि सद्गुरोः ।
लोकेश्स्यैकवालाग्रे इति सर्वे जिना जगुः ॥
तद्यथापि चतुर्द्वीपे मेघा वर्षन्ति सर्वदा ।
तत्सर्वजलबिन्दूनां संख्यातुं शक्यते मया ॥
न तु लोकेश्वरस्यास्य बोधिसत्त्वस्य सत्प्रभोः ।
पुण्यस्कन्धप्रमाणानि कर्तुं केनापि शक्यते ॥
सर्वषामपि चाब्धीणां सर्वेषामपि चाम्भसाम् ।
एकैकबिन्धुसंख्यानि कर्तुं शक्नोम्यहं ध्रुवम् ॥
न तु लोकेश्वरस्यास्य संबोधिव्रतचारिणः ।
पुण्यसंभारसंख्यानि कर्तुं शक्नोम्यहं खलु ॥

(५५)
सर्वेषामपि जन्तूनां चतुर्द्वीपनिवासिनाम् ।
एकैकरोमसंख्याभिः प्रमाणं शक्यते किल ॥
न तु लोकेश्वरस्यास्य सद्धर्मसद्गुणाम्बुधेः ।
बोधिसंभारपुण्यानां प्रमातुं शक्यते मया ॥
हेमरत्नमयान् स्तूपान् परमाणुरजोपमान् ।
विधाय सर्वदाभ्यर्च्य प्रभजेत्समुपस्थितः ॥
संबुद्धप्रतिमांश्चैवं परमाणुरजोपमान् ।
हेमरत्नमयान् स्थाप्य सर्वे लोका महोत्सवैः ॥
सधातुरत्नपूजांगैर्भजेयुः सर्वदा मुदा ।
एतत्पुण्यप्रमाणानि कर्तुं शक्नोम्यहं ध्रुवम् ॥
नैव लोकेश्वरस्यास्य चतुर्ब्रह्मविहारिणः ।
पुण्यसंख्याप्रमाणानि कर्तुं शक्नोमि सर्वथा ॥
सर्वेषामपि वृक्षाणां चतुर्द्विपमहीरुहाम् ।
पत्रसंख्याप्रमाणानि कर्तुं शक्नोम्यहं खलु ॥
नैव लोकेश्वरस्यास्य सत्त्वहितार्थदायिनः ।
पुण्यसंख्याप्रमाणानि कर्तुं शक्नोमि सर्वदा ॥
सर्वे स्त्रीपुरुषा मर्याश्चतुर्द्वीपनिवासिनः ।
श्रोतापत्तिfअले स्थाप्य चारयेयुः सुसंवरम् ॥
तेषां पुण्यप्रमाणानि कर्तुं शक्नोम्यहं खलु ।
न तु लोकेशपुण्यानां प्रमातुं शक्नुयामहम् ॥
एतान् सर्वान्नरांश्चापि बोधयित्वा प्रयत्नतः ।
सकृदागामिनः कृत्वा चारयेयुः शुभे सदा ॥
एतेषामपि पुण्यानां प्रमातुं शक्यते खलु ।
नैव लोकेशपुण्यानां प्रमातुं शक्यते क्वचित् ॥
तथा च मानवान् सर्वान् बोधयित्वानुमोदयन् ।
अनागामीfअले स्थाप्य चारयेयुः सुसंबरे ॥
एतेषामपि पुण्यानां प्रमातुं शक्यते किल ।
नैव लोकेश्वरस्यास्य प्रमातुं शक्यते क्वचित् ॥

(५६)
तथैतान् सकलान्मर्त्यान् बोधयित्वा प्रयत्नतः ।
अर्हत्वे संप्रतिस्थाप्य चारयेयुः सुनिर्वृतौ ॥
एतेषामपि पुण्यानां प्रमातुं शक्यते मया ।
न तु लोकएश्वरस्यास्य शक्यते सुगतैरपि ॥
तथा प्रत्येकबोधौ च सर्वानेतान्नरानपि ।
बोधयित्वा नियुज्येव चारयेयुः सुनिर्वृतौ ॥
एतेषामपि पुण्यानां प्रमातुं शक्यते मया ।
न तु लोकेश्वरस्यास्य सर्वैरपि मुनीश्वरैः ॥
एतेषामपि सर्वेषां पुण्यानां प्रवरं महत् ।
पुण्यं लोकेश्वरस्यास्य बह्वमेयमुत्तमम् ॥
किं मयैकेन तत्पुण्यं प्रमातुमिह शक्यते ।
सर्वैरपि मुनीन्द्रैर्ही शक्यते न कदाचन ॥
एवमसौ महत्पुण्यसंभारश्रीसमृद्धिमान् ।
लोकश्वरो महासत्त्वो बोधिसत्त्वो जिनात्मजः ॥
नास्तीदृक्पुण्यसंभारसद्गुणश्रीसमृद्धिमान् ।
तदन्यो हि महासत्वः कुतस्त्रैधातुकेष्वपि ॥
इत्येवं तन्महत्पुण्यं श्रुत्वा यूयं प्रमोदिताः ।
तमीशं शरणं गत्वा भजध्वं सर्वदा भवे ॥
ये तस्य त्रिजगद्भर्तुर्लोकेशस्य जगत्प्रभोः ।
ध्यात्वा नाम समुच्चार्य स्मृत्वा भजन्ति सर्वदा ॥
ते भवक्लेशनिर्मुक्ताः परिशुद्धत्रिमण्डलाः ।
धर्मश्रीगुणसंपन्नाः संप्रयायुः सुखावतीम् ॥
तत्रामिताभनाथस्य गत्वा ते शरणं मुदा ।
सद्धर्मामृतमास्वाद्य रमेयुर्बोधिसाधिनः ॥
भूयस्ते भगसंक्लेशैर्बाधिष्यन्ते कदाचन ।
गर्भवासमहददुखं लभेयुर्न पुनर्भवे ॥
तस्यामेव सुखावत्यां पद्मे रत्नमेये वरे ।
संजाता सततं ध्यात्वा तिष्ठेयुस्तं मुनिश्वरम् ॥

(५७)
तावत्तत्र सुखावत्यां तिष्ठेयुस्ते सुखान्विताः ।
यावन्नास्य जगच्छास्तुः प्रतिज्ञा परिपूरिता ॥
क्रमेण बोधिसंभारं पूरयित्वा जगद्धिते ।
त्रिविधां बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥
इत्येवं सुगतैः सर्वेः समादिष्टं मया श्रुतम् ।
तदस्य लोकनाथस्य भजन्तु बोधिवांछिनः ॥
इत्यादिष्टं मुनीन्द्रेण रत्नपाणीर्निशम्य सः ।
शिखिनं भगवन्तं तं समालोक्यैवमब्रवीत् ॥
भगवन्नस्य प्रतिज्ञा या सुदृढातिमहत्यसौ ।
कियता खलु कालेन संपूरिता भविष्यते ॥
कथमेकात्मना तेन सर्वे त्रैधातुकाश्रिताः ।
बोधिमार्गे प्रतिष्ठाप्य संप्रेषिताः सुखावतीम् ॥
कथमसौ महासत्त्वः सत्त्वान्नाधिमुक्तिकान् ।
एकः प्रबोधयन् सर्वान् बोधिमार्गेऽभियोजयेत् ॥
सत्त्वाः षड्गतिसंजाता नानाकर्मानुचारिणः ।
एतान् सर्वान् कथमेको बोधयन् परिपाचयेत् ॥
इति तेनोदितं श्रुत्वा भगवान् स शिखी जिनः ।
रत्नपाणिं महासत्त्वं तमालोक्यैवमब्रवीत् ॥
एकोऽप्यसौ महासत्त्वो महाभिज्ञो जिनांशजः ।
नानारुपेण सत्त्वानां सद्धर्म समुपादिशत् ॥
बोधयन् प्राणिनः सर्वान् दत्त्वा द्रव्यं यथेप्सितम् ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषयति जिनालयम् ॥
बोद्धान् सुबुद्धरुपेण बुद्धधर्मे नियोजयन् ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतीम् ॥
प्रत्येकबुद्धरुपेण प्रत्येकबोधिवांछिनः ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुनिर्वृतिम् ॥
अर्हद्धर्मानुसंरक्तानर्हद्रूपेण बोधयन् ।
अर्हद्धर्मे प्रतिष्ठाप्य प्रेषयति सुखावतीम् ॥

(५८)
बोधिचर्येषिणो बोधिसत्त्वरुपेण बोधयन् ।
बोधिचर्याव्रते स्थाप्य चारयति जगत्द्धिते ॥
तथोपासकरुपेण प्रबोधयनूपासकन् ॥
बोधिमार्गे प्रतिष्ठाप्य चारयति सुसंवरम् ॥
तथा च शिवरुपेण शैवान् सर्वान् प्रबोधयन् ।
बोधिमार्गे नियुज्यासौ चारयति जगद्धिते ॥
एवं स वैष्णवान् सर्वान् विष्णुरुपेण बोध्यन् ।
बोधिमार्गे नियुज्यापि चारयति जगद्धिते ॥
तथा च ब्राह्मणान् सर्वान् ब्रह्मरुपेण बोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य चारयन्ति जगद्धिते ॥
तथैन्द्रानिन्द्ररुपेण सर्वानपि प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥
तथा सूर्यस्य वैनेयान् सूर्येरुपेण बोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥
तथा च चन्द्रवैनेयांश्चन्द्ररुप्रेण बोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥
तथा च वह्निवैनेयान् वह्निरुपेण बोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥
तथा च यमवैनेयान् यमरुपेण बोधयन् ।
एवं वरुणरुपेण वैनेयान् वरुणस्य च ॥
तथा च वायुवैनेयान् वायुरुपेण बोधयन् ।
वैनेयान् राक्षसस्यापि रक्षोरुपेण बोधयन् ॥
यक्षरुपेण यक्षस्य वैनेयान् संप्रबोधयन् ।
नागरुपेण नागस्य वैनेयान् संप्रबोधयन् ॥
तथा भूतेशरुपेण वैनेयान् भूतपरेरपि ।
तथा गणेशरुपेण वैनेयान् गणपस्य च ॥
तथा गन्धर्वरुपेण गान्धर्वधर्मचारिणः ।
तथा किन्नररुपेण वैनेयान् किन्नरस्य च ॥

(५९)
विद्याधरस्य रुपेण वैद्याधरान् प्रबोधयन् ।
तथा भैरववैनेयान् रुपेण भैरवस्य च ॥
तथा कुमारवैनेयान् स्कन्दरुपेण बोधयन् ॥
महाकालस्य रुपेण वैनेयांस्तस्य बोधयन् ।
महाकालस्य रुपेण वैनेयांस्तस्य बोधयन् ॥
मातृकाणां च रुपेण वैनेयान् संप्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥
एवं यस्य यस्य वैनेयान् सत्त्वान् यन्तेन बोधयन् ।
तस्य तस्यैव रुपेण योगयति जगद्धिते ॥
एवं स ऋषिवैनेयानृषिरुपेण बोधयन् ।
योगिरुपेण वैनेयान् योगिनश्चापि बोधयन् ॥
तथा च यतिवैनेयान् यतिरुपेण बोधयन् ।
तथा तपस्ववैनेयांस्तपस्विरुपेण बोधयन् ॥
तथा तैर्थिकरुपेण तीर्थिकांश्चापि बोधयन् ।
तथा च राजवैनेयान् राजरुपेण बोधयन् ॥
वैश्यरुपेण वैनेयान् वैश्यस्यापि प्रबोधयन् ।
शूद्ररुपेण शूद्रस्य वैनेयांश्च प्रबोधयन् ॥
गृहपतेश्चापि वैनेयांस्तद्रूपेण प्रबोधयन् ।
तथा च मंत्रीवैनेयान्मंत्रीरुपेण बोधयन् ॥
तथा चामात्यरुपेण तद्वैनेयान् प्रबोधयन् ।
तथा च योधृवैनेयान् योधृरुपेण कांश्चन ॥
एवं च भृत्यरुपेण दासरुपेण कांश्चन ।
कांस्चिच्च सार्थभृद्रूपेण शिन्पिरुपेण कांश्चन ॥
तथा च वैद्यरुपेण वणिग्रूपेण कांश्चन ।
कांश्चिच्च पितृरुपेण मातृरुपेण कांश्चन ॥
तथा च भ्रातृरुपेण भार्यारुपेण कांश्चन ।
रुपेणापि भगिन्याश्च पुत्ररुपेण कांश्चन ॥
कश्चिद्दुहितृरुपेण पौत्ररुपेण कांश्चन ।
एवं पितामहादीनां ज्ञातीनां सुहृदामपि ॥

(६०)
बंधुमित्रसहायानां रुपेण परिबोधयन् ।
कांश्चिच्च शत्रुरुपेण संत्रासयन् प्रयत्नतः ॥
कांश्चिच्चण्डालरुपेण चौररुपेण कांश्चन ।
सद्धर्मे प्रेरयित्वैव चररयति जगद्धिते ॥
एवं सिंहादिजन्तूनां रुपेण त्रासयन्नपि ।
पशूनां पक्षिणां चाअपि कृमिकीटादिप्राणिनाम् ॥
रुपेण त्रासयित्वापि बोधयित्वा च यत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य चारयति जगच्छुभे ॥
एवमसौ महासत्त्वो लोकनाथो जगत्प्रभुः ।
नानारुपेण सर्वेषां सत्त्वानां बोधयन्मनः ॥
त्रासयन्नपि सद्धर्मे प्रेरयसि प्रयत्नतः ॥
एवं स त्रिजगन्नाथो बोधिसत्त्वो जिनात्मजः ।
सर्वान् सत्त्वान् समुद्धृत्य प्रेषयति सुखावतीम् ॥
एवं कृत्वा स लोकेशः सर्वलोकाधिपेश्वरः ।
षड्गतिभवचारीणां दुष्टानामपि मूढानाम् ॥
सद्धर्मसद्गुणश्रीमन्माहैश्वर्यसमृद्धिमान् ॥
नास्ति तेन समः कश्चित्पुण्यश्रीगुणवानपि ।
दयालुर्भद्रसंचारी त्रैधातुभुवनेष्वपि ॥
एवं तस्य महत्पुण्यं मत्वा संबोधिवांछिनः ।
श्रद्धया शरणं गत्वा स्मृत्वा ध्यात्वा भजंति ते ॥
ये तस्य शरणं गत्वा स्मृत्वा ध्यात्वा भजंति ते ।
सर्वे हि विमलात्मानो भद्राशयाः शुभेंद्रियाः ॥
बोधिसत्वा महासत्वाः प्रचरंतः सदा शुभे ।
त्रिविधां बोधिमासाध्य निर्वृतिं पदमाप्नुयुः ॥
इत्यादिष्टं मुनींद्रेण रत्नपाणिर्निशम्य सः ।
अत्यद्भुतसमक्रान्तहदयश्चैवमब्रवीत् ॥
परमाद्भुतप्राप्तोऽहं भगवन् यदीदृशं क्वचित् ।
धर्मश्रीगुणमाहात्म्यं दृष्टं न श्रूयतेऽपि न ॥

(६१)
ईदृशं पुण्यसंभारं जिनानामपि न क्वचित् ।
दृश्यते श्रूयते नापि कदाचन मया खलु ॥
एवं तेनोदितं श्रुत्वा भगवान् स शिखी जिनः ।
रत्नपाणिं महासत्त्वं तमालोक्यैवमादिशत् ॥
सर्वाकारसुभद्रांशो विश्वरुपो मणिर्यथा ।
चिन्तामणिर्महारत्न इव सर्वहितार्थभृत् ॥
कामधेनुर्यथाकामं भोग्यं संपत्तिसंभरः ।
कल्पवृक्षो यथा भद्रश्रीसमृद्धिप्रदायकः ॥
भग्रघटो यथा सर्वसत्त्ववांछितपूरकः ।
लोकेश्वरः स सर्वेषां वांछितार्थाभिपूरकः ॥
बोधिसत्त्वो जगद्भर्ता विश्वनाथो जगत्प्रभुः ।
सर्वधर्माधिपश्शास्ता सर्वलोकाधिपेश्श्वरः ॥
किं वक्ष्यतेऽस्य माहात्म्यं बोधिश्रीगुणसंभृतः ।
शक्यते न समाख्यातुं सर्वैरपि मुनीश्वरैः ॥
तद्यथासौ महासत्त्वो दुर्दान्तानपि बोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य चारयति जगद्धिते ॥
वज्रकुक्षिगुहा ख्याता जम्बूद्विपेऽत्र विद्यते ।
तत्रानेकसहस्त्रानि वसन्ति स्म सुरद्विषाम् ॥
तत्र गत्वा सुराणां स शास्तृरुपेण संसरन् ।
सद्धर्मं समुपादेष्टुं पश्यंस्तान् समुपाचरत् ॥
तं दृष्ट्वा समुपायातमाचार्यं तेऽसुरा मुदा ।
सर्वे ते सहसोपेत्य प्रणत्वैवं बभाषिरे ॥
स्वागतं ते समयासि प्रणत्वैवं बभाषिरे ॥
स्वागतं ते समायसि कश्चित्सर्वत्र कौशलम् ।
कृपया नः समालोक्य धर्ममादेष्टुमर्हसि ॥
भवता यद्यथादिष्टं तत्तथा वयमादरात् ।
श्रुत्वा धृत्वा चरिष्यामः संसारसुखसाधने ॥
इति संप्रार्थन्ते सर्वे दानवास्तं गुरुं मुदा ।
सभासने प्रतिष्ठाप्य धर्मं श्रोतुमुपाश्रयन् ॥

(६२)
तान् सर्वान् समुपासीनान् दृष्ट्वा स सुगतात्मजः ।
दैत्यानां धर्ममारभ्य सद्धर्मं समुपादिशत् ॥
भवन्तः श्रूयत्वा धर्में संसारसुखसाधनम् ।
वक्ष्यतेऽत्र मया युष्मत्संसारगुःखमुक्तये ॥
मैत्रचिता भवन्तोऽत्र शान्तचिता जितेन्द्रियाः ।
दयाचित्ताश्च सत्त्वेषु भवध्यं समाचारिणः ॥
ततः सत्यसमाचाराः परिशुद्धाशया मुदा ।
त्रिरत्नशरणं गत्वा चरध्वं पोषधं व्रतम् ॥
धृत्वा तदव्रतराजाख्यं संसारभद्रकारिणः ।
शृणुध्वं चापि कारण्डव्यूहसूत्रसुभाषिते ॥
ये श्रुत्वेदं महायानसूत्रराजं सुभाषितम् ।
त्रिरत्नशरणं गत्वा चरन्ति पोषधं व्रतम् ॥
तेषां सर्वाणि पापानि पंचानन्तर्यकान्यपि ।
निःशेषं परिनष्टानि भविष्यन्ति सदा भवे ॥
ये च श्रुत्वानुदन्ति श्रद्दधास्यन्ति चादरात् ।
गृहिष्यन्ति लिखिष्यन्ति स्वाध्यास्यन्ति प्रमोदिताः ॥
ये च लिखापयिष्यन्ति वाचयिष्यन्ति सर्वदा ।
सदानुचिन्तयिष्यन्ति भावयिष्यन्ति चादरात ॥
परेभ्यो विस्तरेणार्थमुपदेष्यन्ति सादरात् ।
सत्कारैः श्रद्धया नित्यं पूजयिष्यन्ति सर्वदा ॥
ते एव सुखिता धन्याः संसारसुखभागिनः ।
न ते दुर्गतिदुःखानि भोज्यन्तेऽपि कदाचन ॥
सदासद्गतिसंजाताः संसारसुखभोगिनः ।
सद्गुणश्रीमहत्सपदृद्धिमन्तो महर्द्धिकाः ॥
बोधिचर्याव्रतं धृत्वा स्वपरात्महितोद्यताः ।
कृत्वा सर्वत्र भद्राणि चरिष्यन्ति सदा भवे ॥
प्रान्ते जातिस्मरास्ते च बोधिप्रणिहिताशयाः ।
त्रिरत्नशरणं गत्वा समेष्यन्ति सुनिर्वृतिम् ॥

(६३)
यदा काले समायाते तेषां निर्वृतिवांछिनाम् ।
द्वादशा सुगताः प्रेक्ष्य समुपागम्य सम्मुखम् ॥
उपस्थिताः समालोक्य स्पृष्ट्वा पुण्यसुधाकरैः ।
संपश्यन्तः समाश्वास्य मानयन्त्येवमादरात् ॥
मा भैषीः कुलपुत्रात्र तिष्ठालं व्यसुधीरताम् ।
यन्महायानकारण्यूहसूत्रं त्वया श्रुतम् ॥
तत्ते नास्ति भयं किंचिददुर्गतेश्च कदाचन ।
गमनाय सुखावत्यां मार्गेस्ते परिशोधितः ॥
युष्मदर्थे सुखावत्यां दिव्यालंकारभूषणम् ।
दिव्यामृतसुभोग्यं च संस्थापितमहत्तमम् ॥
इत्याश्वास्य मुनीन्द्रास्तान् त्यक्तदेहान् सुखावतिम् ।
नीत्वामिताभनाथस्य स्थापयेयुः सभासने ॥
तत्रामिताभनाथस्य पीत्वा धर्मामृतं मुदा ।
बोधिचर्याव्रतं धृत्वा प्रचरेयुः सदापि ते ॥
क्रमेण बोधिसंभारं पूरयित्वा जगद्धिते ।
त्रिविधां बोधिमासाद्य समाप्स्यन्ति सुनिर्वृतिम् ॥
इअत्येवं सुगतैः सर्वैः समाख्यातं मया श्रुतम् ।
तथा समुदितं श्रूत्वा यूयं सर्वेऽनुमोदत ॥
यद्येवं निर्वृतिं गन्तुं सर्वे यूयं समिच्छथ ।
त्रिरत्नशरणं गत्वा चरत पोषधव्रतम् ॥
महायानसूत्रराजं कारण्डव्यूहमुत्तमम् ।
श्रुत्वा सदा समाधाय चरते बोधिसंवरम् ॥
एतत्पुण्यानुभावेन सदाअ भुक्त्वा महासुखम् ।
निःक्लेशा विमलात्मानः परिशुद्धत्रिमण्डलाः ॥
बोधिचर्याव्रतं धृत्वा संचरन्तो जगद्धिते ।
बोधिसत्त्वा महासत्वाः सर्वसंसारपालकाः ॥
ततः प्रान्ते सुखावत्यां गत्वा भुक्त्वा महत्सुखम् ।
सद्धर्ममिताभस्य श्रुत्वा शुभे चरिष्यथ ॥

(६४)
तत्रापि बोधिसंभारं पूरयित्वा यथाक्रमम् ।
त्रिविधां बोधिमासाध्य संप्राप्स्यथ सुनिर्वृतिम् ॥
एतन्मया समाख्यातं यदि निर्वृतिमिच्छथ ।
श्रुत्वा यथा मयोद्दिष्टं तथा चरत सर्वदा ॥
इति तेन समादिष्टं श्रुत्वा सर्वेऽपि तेऽसुराः ।
तथेत्यभ्यनुमोदित्वा तथा चरितुमीच्छिरे ॥
ततस्ते दानवाः सर्वे निर्वृतिसुखवांछिनः ।
तमाचार्यं पुनर्नत्वा प्रार्थयन्नेवमादरात् ॥
शास्तर्भवत्समादिष्टं श्रुत्वा वयं प्रबोधिताः ।
तथा चरितुमिच्छामस्तत्समादेष्टुमर्हति ॥
इति तैः प्रार्थितं श्रुत्वा स लोकेशोऽसुरात्मधृत् ।
सर्वांस्तानसुरान् पश्यन् समामन्त्र्यैवमादिशत् ॥
भो भवन्तोऽसुराः सर्वे शृणुत तन्मयोदितम् ।
श्रुवानुमोदनां कृत्वा चरतैतद्व्रतं सदा ॥
आदौ सर्वे महायानसूत्रराजं वरोत्तमम् ।
कारण्डव्यूहमाकर्ण्य प्रानुमोद्य प्रबोधिताः ॥
प्रातस्तीर्थजले स्नात्वा शुद्धशीला जिनेन्द्रियाः ।
त्रिरत्नशरणं गत्वा ध्यानत्वा लोकेश्वरं प्रभुम् ॥
यथाविधि समभ्यर्च्य जपस्तोत्राभिवन्दनैः ।
संतोस्य प्रार्थनां कुर्युः संबोधिव्रतसाधनाम् ॥
एवं व्रतं समाप्यैव पंचामृतैर्निरामिषैः ।
भोजनैस्तृतीये यामे कुर्युस्तत्पालनं मुदा ॥
एवं नित्वं यथाशक्ति मासे मासेऽपि सर्वदा ।
अष्टम्यां पंचदश्यां च व्रतं कुर्युर्यथाविधि ॥
चरतैतदव्रतं नित्यं मासे मासेऽपि सर्वदा ।
अथैकवारमप्येवं वर्षे चरत्कार्तिके ॥
कार्तिके यय्कृतं कर्म तत्fअलं बहुसत्तमम् ।
अप्र्मेयमसंख्येयं न क्षणुयात कदाचन ॥

(६५)
इति मत्वा समाधाय चरतैतद्व्रतं सदा ।
एवं स समुपादिश्य तद्विधिं समुपादिशत् ॥
तदाचार्यसमादिष्टं धृत्वा सर्वेऽपि तेऽसुराः ।
यथाविधि समाधाय प्रेचिरुस्तदव्रतं सदा ॥
ततस्ते दानवाः सर्वे चतुर्ब्रह्मविहारिणः ।
बोधिसत्त्वा महासत्त्वा बभूवुर्भद्रचारिणः ॥
एवमसौ महाभिज्ञो दुर्दान्तानपि दानवान् ।
बोधयित्वा प्रयत्नेन बोधिमार्गे प्रयोजयेत् ॥
एवं तस्य जगच्छास्तुः पुण्यस्कन्धं महद्बहु ।
अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥
एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः ।
स्वयं पश्यन् जगत्सर्वं पालयति सदा भवे ॥
पापिष्टानपि दुर्दान्तानपि यत्नैः प्रबोधयन् ।
बोधिमार्गे नियुज्यैवं प्रेषयति सुनिर्वृतिम् ॥
तेनासौ त्रिजगच्छास्ता सर्वलोकाधिपेश्वरः ।
भजनीयः सदा भक्त्या संबोधिज्ञानवांछिभिः ॥
तस्य नाम समुच्चार्य स्मृत्वा ध्यात्वा भजन्ति ये ।
ते नूनं बोधिमासाध्य निर्वृतिं समवाप्नुयुः ॥
इत्यादिष्टं मुनीन्द्रेण रत्नपाणिर्निशम्य सः ।
प्रबोधितः प्रसन्नात्मा प्राभ्यनन्दत्स पार्षदः ॥
इत्येवं शिखिनादिष्टं संबुद्धेन मया श्रुतम् ।
लोकेश्वरस्य माहात्म्यं पुण्यस्कन्धं महत्तरम् ॥
इति तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम् ।
स्मृत्वा नाम समुच्चार्य ध्यात्वापि भजतां सदा ॥
तस्य नाम समुच्च्चार्य स्मृत्वा ध्यात्वा भजन्ति ये ।
ते सर्वे विमलात्मानः संयास्यन्ति सुखावतीम् ॥
तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा ।
बोधिचर्याव्रतं धृत्वा संचरन्तो जगद्धिते ॥
बोधिसत्त्वा महाभिज्ञाः परिशुद्धत्रिमण्डलाः ।
त्रिविधां बोधिमासाध्य निर्वृतिपदमाप्नुयुः ॥
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन स पार्षदः ।
श्रुत्वा सर्वनीवरणविष्कम्भी प्राभ्यनन्दत ॥

॥ इति श्रीसर्वाकारसर्वप्रबोधनसद्धर्मसंचारणं प्रकरणम् ॥


६. दुर्दान्त दानव प्रबोधन बोधिचर्यावतारण प्रकरणम्

अथ सर्वनीवरणविष्कम्भी स जिनात्मजः ।
भगवन्तं मुनीन्द्रं तं पुनर्नत्वैवमब्रवीत् ॥
दुर्क्लभं भगवन्स्तस्य लोकेश्वरस्य दर्शनम् ।
सद्धर्मश्रवणं चापि सदा त्रैधातुकेष्वपी ॥
कदासौ त्रिजगन्नाथो लोकेश्वर इहाव्रजेत् ।
द्रष्टुमिच्छाम्यहं शास्तस्तं सर्वाधिपतिं प्रभुम् ॥
इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः ।
विष्कम्भिनं महासत्त्वं तमालोक्यैवमादिशत् ॥
भूयस्तस्य जगद्भर्तुः लोकेश्स्य महात्मनः ।
सद्धर्मगुणमाहात्म्यं वक्ष्ये तच्छ्रणुतादरात् ॥
अस्मिन् द्वीपेऽस्ति कांचन्यमयी भूमिर्मनोरमा ।
तत्रानेकसहस्राणि वसन्ति स्मामरद्विषाम् ॥
तत्रासौ त्रिजगन्नाथो लोकेश्वरो विलोकयन् ।
दुर्दन्तान् दनुजान् दुष्टान् समुद्धर्तुमुपाचरत् ॥
ददर्श तान्महादुष्टान् दशाकुशले संचरतान् ।
मदमानातिर्दर्पान्धान् क्लेशाग्नितापिताशयान् ॥
संपश्यन् करुणात्मा स मैत्रीकारुण्यचोदितः ।
पुण्यरश्मिं समुत्सृज्य प्रभासयन्नुपाचरत् ॥
तद्रश्मिपरिसंस्पृष्टाः सर्वे ते सुखतान्विताः ।
अत्यद्भुतसमाघ्रातचित्ता एवं व्यचिन्तयन् ॥
अहो कुत इयं कान्तिः प्रायातेह प्रसारिता ।
यया स्पृष्टा वयं सर्वे महत्सौख्यसमन्विताः ॥

(६७)
इति चिन्तयतां तेषां स लोकेश्शो जिनात्मजः ।
पुर आचार्यरुपेण संपश्यन् समुपाचरन् ॥
तमेवं समुपायातं दृष्ट्वा सर्वेऽपि तेऽसुराः ।
सुप्रसन्नाः समागम्य प्रणत्वैवं बभाषिरे ॥
स्वागतं ते शिवं कश्चिद्विजयस्वात्र सद्गुरो ।
प्रविशेहासने शास्तर्यत्कार्यं तत्समादिश ॥
इति तैः प्रार्थितं श्रुत्वा समाश्रित्य स आसने ।
सर्वांस्तान् समुपासीनान् समालोक्यैवमब्रवीत् ॥
कस्येयं कान्तिरायाता यत्पृष्टे नो महत्सुखम् ।
मन्यध्वं किं भवद्भिस्तद्भुतमिह जायते ॥
इति तेनोदितं श्रुत्वा सर्वे ते दानवा अपि ।
शास्तारं तं समालोक्य प्रत्यूचुरेवमादरात् ॥
न जानीमो वयं शास्तः कस्येयं कान्तिरागता ।
तद्भवान्नः समादिश्य प्रबोधयितुमर्हति ॥
इति तैः प्रार्थितं श्रुत्वा स आचार्यो विलोक्य तान् ।
सर्वांस्तदद्भुतं प्रष्टुकामानेवमभाषत ॥
शृण्वन्तु तदहं वक्ष्ये यदियं कान्तिरागता ।
श्रुत्वा मया यथाख्यातं तथा चरितुमर्हथ ॥
इति तेन समादिष्टं श्रुत्वा सर्वेऽपि तेऽसुराः ।
सुप्रसन्नाशया नत्वा तं गुरुमेवमब्रुवन् ॥
शास्तर्भवान् यदमाकमाचार्यो धर्मदेशकः ।
तदेतदद्भुतं जातं समुपादेष्टुमर्हति ॥
इति तैः प्रार्थ्यमानः स आचार्यस्तान् प्रसादितान् ।
सर्वान् विस्मयसंपन्नान् समालोक्यैवमादिशत् ॥
शृणुध्वमादद्यूयं सर्वं तत्र ममोदितम् ।
तदेवमद्भुतं जातं बोधयितुं प्रवक्ष्यते ॥
तद्यथा यो जगन्नाथः सर्वत्रैधातुकाधिपः ।
जगच्छास्ता जगद्भर्ता बोधिसत्त्वो जिनात्मजः ॥

(६८)
महासत्त्वो महाभिज्ञ आर्यावलोकितेश्वरः ।
मैत्रीक्षमाप्रसन्नात्मा करुणामय ईश्वरः ॥
स त्रैलोकेश्वरः श्रीमान् सद्धर्मपुण्यभास्करः ।
सर्वान् सत्त्वान् समुद्धर्तुं चरते त्रिभवेष्वपि ॥
सर्वत्र स समालोक्य सर्वान् सत्त्वान् प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतीम् ॥
स एवं सर्वलोकेषु सर्वेषु नारकेष्वपि ।
निमग्नान् पापिनो दुष्टानपि सत्त्वान् विलोकयन् ॥
पुण्यसुधाकरैः स्पृष्ट्वा समुद्धृत्य प्रबोधयन् ॥
बोधिमार्गे प्रतिष्ठाप्य प्रेषयति सुखावतीम् ॥
दिने दिने स आलोक्य समुद्धृय प्रबोधयन् ।
अप्रेमेयानसंख्येयान् सत्त्वान् प्रेषयति सद्गतौ ॥
एवं कृत्वा स लोकेशोओ महत्पुण्यैः समन्वितः ।
सर्वधर्माधिपः शास्ता धर्मराजो जगत्प्रभुः ॥
बोधिसत्त्वो महासत्वः सर्वसत्त्वहितार्थभृत् ।
सर्वविद्याधिपो धीरः संबोधिज्ञानभास्करः ॥
इहापि स समागत्य सर्वान् सत्त्वान् प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य संप्रेषयेत्सुखावतीम् ॥
इत्येवं स इहागन्तुं पुण्यरश्मि समुत्सृजन् ।
प्रभासयन् जगल्लोकं संचरत्वे जिनालयान् ॥
तस्य पुण्यप्रभाकान्तिरिहापीयं प्रसारिता ।
तया यूयं परिस्पृष्टा महत्सुखसमन्विताः ॥
तत्तस्य शरणं कृत्वा ध्यात्वा स्मृवापि सर्वदा ।
नामापि च समुच्चार्य नत्वा भजितुमर्हथ ॥
ये तस्य शरणं कृत्वा ध्यात्वा स्मृत्वा समादरात् ।
श्रद्धया नाम प्रोच्चार्य स्तुत्वा नत्वा भजन्त्यपि ॥
सर्वेऽपि ते न जायन्ते दुर्गतीषु कदाचन ।
सदा सद्गतिसंजाताश्चरन्ति सर्वदा शुभे ॥

(६९)
विरतमारसंचाराः सद्धर्मगुणलालसाः ।
सर्वसत्त्वहिताधानसंबोधिव्रतकामिनः ॥
त्रिरत्नभजनोत्साहाश्चतुर्ब्रह्मविहारिणः ।
भद्रश्रीगुणसंपत्तिसमुद्धाः सद्गुणारताः ॥
यावज्जीवं सुखं भुक्त्वा स्वपरात्महितोद्यताः ।
बोधिचर्याव्रतं धृत्वा संचरेरन् जगच्छुभे ॥
ततोऽन्तःसमये तेषां लोकेश्वरः स संमुखम् ॥
उपागत्य समाश्वासं दद्यादेवं वदत्पुरः ॥
मा भैषीः कुलपुत्रात्र किंचिन्ना ते भयं क्वचित् ॥
त्रिरत्नभजनं कृत्वा सद्धर्मं यत्त्वयार्जितम् ।
न त्वं यायाः पुनः क्वापि दुर्गतिषु कदाचन ।
सदा सद्गुतिसंजाताः सद्धर्मश्रीसुखान्वितः ।
त्रिरत्नभजनं कृत्वा संचरेथाः सुसंवरे ॥
तथा यावद्भुवं लोके बोधिचर्याव्रतं चरन् ।
कृत्वा सत्त्वहितं सौख्यं भुक्त्वा प्रान्ते व्रजेद्दिवि ॥
तत्रापि त्वं महासौख्यं भुक्त्वा चरेत्सदा शुभे ॥
एवं मत्वा समाधाय स्मृत्वा रत्नत्रयं सदा ।
तिष्ठामोऽत्र विषीद त्वं मृतोऽपि सत्सुखं लभेः ॥
सर्वेषामपि जन्तूनां ससारे मरणं ध्रुवम् ।
त्वं सुखेनैव मुक्त्वेमं कायं दिव्यमवाप्स्यसि ॥
यावज्जीवं यथाकामं भुक्त्वा स्वर्गेऽमरैः सह ।
ततश्चापि सुखेनैव यायादन्ते सुखावतीम् ॥
तत्र गत्वामिताभस्य त्रिशास्तुः समुपाश्रितः ।
सदा धर्मामृतं पीत्वा संचरेथाः सुसंवरे ॥
तत्रैवं सुचिरं भुक्त्वा सद्धर्मश्रीसुखोत्सवम् ।
प्रान्ते बोधिं समासाद्य समाप्नुयाः सुनिर्वृतिम् ॥
इत्यन्ते समये तेषां लोकनाथः स संमुखम् ।
समागत्य समाश्वासं दत्वाभयं समर्पयेत् ॥

(७०)
इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः ।
श्रुतं मया तथाख्यातं श्रुवानुमोद्य चर्यताम् ॥
एवं मत्वास्य त्रैलोकनाथस्य शरणं गताः ।
स्मृत्वा नाम समुच्चार्य ध्यात्वा भजत सर्वदा ॥
तथा वः सर्वदा भद्रं निरुत्पातं भवेद्ध्रुवम् ।
यावज्जीवं सुखं भुक्त्वा यायान्तान्ते सुरालयम् ॥
तत्रापि सुचिरं भुक्त्वा दिव्यकामं सुखोत्सवम् ।
ततोऽन्तसमये च्युत्वा संयास्यथ सुखावतीम् ॥
तत्र गत्वामिताभस्य सर्वदा समुपस्थिताः ।
पीत्वा धर्मामृतं पुण्यं महोत्साहैश्चरिष्यथ ॥
तत्रापि सुचिरं भुक्त्वा सद्धर्मश्रीमहोत्सवम् ।
प्रान्ते संबोधिमासाद्य समवाप्स्यथ निर्वृतिम् ।
इति तेन समादिष्टं श्रुत्वा सर्वैऽपि तेऽसुराः ।
तथेति प्रतिविज्ञाप्य प्रबोधिताश्चैवमब्रुवन् ॥
शास्तस्तथा करिष्यामः यथादिष्टं त्वयाधुना ।
अद्यारभ्य सदा तस्य नाथस्य शरणं गताः ॥
स्मृत्वा ध्यात्वा समुच्चार्य नामापि प्रभजामहे ।
तदस्माकं हितार्थेन भवांस्तस्य जगत्प्रभोः ॥
व्रतस्यापि विधानं च समुपादेष्टुमर्हति ।
इति तैः प्रार्थितं श्रुत्वा स आचार्योऽप्रबोधितान् ।
सर्वांस्तान् दानवान् दृष्ट्वा पुनरेवमुपादिशत् ।
शृणुध्वमस्य वक्ष्यामि व्रतविधिं समासतः ॥
आदौ तीर्थे जले स्नात्वा शुद्धशीला जिनेन्द्रियाः ।
ब्रह्मविहारिणो भूत्वा चरित्वा पोषधं व्रतम् ।
त्रिरत्नशरणं गत्वा ध्यात्वा तं सुगतात्मजम् ।
लोकेश्वरं समावाह्य समभ्यर्च्य यथाविधि ।
जगस्तोत्रादिभिः स्तुत्वा कृत्वा चापि प्रदक्षिणाम् ।
जगस्तोत्रादिभिः स्तुत्वा कृत्वा चापि प्रदक्षिणाम् ।
अष्टांगै प्रणतिं कृवा स्मृत्वा चापि समादरात् ॥

(७१)
नामानि च समुच्चार्य दृष्ट्वा श्रुत्वापि तद्गुणान् ।
प्रशंसामपि भाषित्वा प्रकाशित्वा च सर्वतः ॥
सत्कृत्य श्रद्धया सर्वैरुपकणवस्तुभिः ।
यथाशक्ति समभ्यर्च्य वन्दित्वा भजताभवम् ।
एवं नित्यं समाधाय चतुस्संध्यं दिने दिने ।
यथाशक्ति भजध्वं तं ध्यात्वा स्मृत्वापि भावतः ॥
प्रत्यहमेकवारं वा मासे मासेऽपि वा सिते ।
अष्टम्यां पूर्णमास्यां वा भजध्वं सर्वदा तथा ॥
एवं विधाय सर्वेऽपि यूयमेतद्गुणान्विताः ।
यथोक्तं तत्fअलं प्राप्य नूनं यास्यथ निर्वृतिम् ॥
इति तेन समादिष्टं श्रुत्वा सर्वेऽपि तेऽसुराः ।
प्रबोधिताः प्रमोदन्तस्तथा चरितुमिच्छिरे ॥
ततस्ते दानवास्सर्वे दुर्दान्ता मदमानिनः ।
अप्येतत्पुण्यसत्सौख्यप्रकाममुदिताशयाः ॥
शुद्धशीलाः प्रसन्नाश्च सद्धर्मगुणलालसाः ।
विरतोपायसंचाराश्चतुर्ब्रह्म्विहारिणः ॥
तेन शास्त्रा यथादिष्टं तथाधाय समादरात् ।
तस्य त्रैलोकनाथस्य प्रकृत्वा शरणं मुदा ॥
ध्यात्वा स्मृत्वा सदा नाम समुच्चार्य यथाविधि ।
पोषधं च व्रतं धृत्वा प्राचरन्त समाहिताः ॥
यथाशक्ति समभ्यर्च्य सर्वोपकणैरपि ।
कृत्वा प्रदक्षिणान्येव कृत्वा च प्रणतिं मुहुः ।
अष्टांगैश्चापि वन्दित्वा प्रभजन्तः समाचरन् ॥
एवं ते दानवाः सर्वे शान्तचर्या जितेन्द्रियाः ।
शुद्धशीलाः शुभाचाराश्चतर्ब्रविहारिणः ॥
परस्परं हितं कृत्वा सद्धर्मगुणभाषिणः ।
बोधिचर्याव्रतारक्ता बभूवुर्बोधिभागिनः ॥
एवं तान् दानवान् सर्वानाचार्यः स प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य समामन्त्र्य ततोऽचरत् ॥

(७२)
ततः सोऽन्तर्हितः खे स्थः प्रभासयन् समन्ततः ।
धृत्वा लोकेश्वरो मूर्तिं सर्वांस्तान् समदर्शयत् ॥
तमाकाशे प्रभासन्तं लोकेश्वरं जिनात्मजम् ।
दृष्ट्वा ते दानवास्सर्वे बभूवुर्विस्मयान्विताः ॥
तत्र ते प्रणतिं कृत्वा गत्वा तं शरणं मुदा ।
जपस्तोत्रादिभिः स्तुत्वा वन्दित्वा प्रावदंस्तथा ॥
नमस्ते भगवन्नाथ सदा ते शरणं स्थिताः ।
बोधिचर्याव्रतं धृत्वा चराम तत्प्रसीदतु ॥
यदस्मदपराधं तत्क्षन्तव्यं भवता सदा ।
एवमस्मान् समालोक्य संपालयितुमर्हति ॥
इत्येवं तेऽसुराः सर्वे प्रार्थयित्वा समादरात् ।
अष्टांगैरपि तं नत्वा पश्यन्त एव तस्थिरे ॥
ततः स त्रिजगन्नाथो दत्वा तेभ्यो जयाशिषम् ।
ततश्चान्तर्हितोऽयत्र सत्त्वानुद्धर्तुमाचरत् ॥
ततस्ते दानवाः सर्वे भूयोऽतिधर्मलालसाः ।
त्रिरत्नभजनं कृत्वा संप्रचेरुः सदा शुभे ॥
एवं स त्रिजगन्नाथो नानारुपेण बोधयन् ।
दुर्दान्तानपि सद्धर्मे नियोजयति यत्नतः ॥
तेनास्य त्रिजगद्भर्तुः पुण्यस्कन्धं महत्तरम् ।
अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥
इत्यसौ त्रिजगच्छास्ता सर्वलोकाधिपेश्वरः ।
सर्वज्ञैः सुगतैः सर्वैः प्रशंसितः सदादरात् ॥
इति तस्य जगल्लोकैः पुण्यमाहात्म्यसत्कथाम् ।
श्रुत्वानुमोदनां कृत्वा प्रशंस्य ते समन्ततः ॥
इति मत्वा सदा तस्य लोकेशस्य जगत्प्रभोः ।
श्रद्धया शरणे स्थित्वा भक्तव्यं सः सुखार्थिभिः ॥
इत्येवं शिखिनाख्यातं संबुद्धेन मया श्रुतम् ।
तथात्र वः समाख्यातं श्रुत्वानुप्रतिबुध्यताम् ॥
एवं मत्वास्य माहात्म्यं सद्धर्मगुणवांछिभिः ।
कर्तुव्याः सर्वदा भक्त्या ध्यात्वा स्मृत्वापि भावतः ॥
ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि भावतः ।
नामापि च समुच्चार्य भजन्ति सर्वदा मुदा ।
ते सर्वे विमलात्मानः संबुद्धश्रीगुणाकराः ॥
बोधिसत्त्वा महासत्वा भविष्यन्ति जिनात्मजाः ।
इति शास्त्रा मुनीन्द्रेण समादिष्टं निशम्य ते ॥
विष्कम्भिप्रमुखाः सर्वे प्राभ्यनन्दन् प्रबोधिताः ॥

॥ इति दुर्दान्तदानवप्रबोधन बोधिचर्यावतारणप्रकरणम् ॥


७. अधोमुख सत्त्वोद्धारण प्रकरणम्

अथासौ भगवांच्छास्ता श्रीघनस्त्रिजगद्गुरुः ।
विष्कम्भिनं महासत्त्वं संपश्यंश्चैवमब्रवीत् ॥
भूयोऽपि कुलपुत्रास्य लोकेशस्य महद्गुणम् ।
श्रुतं मया तथा वक्ष्ये तच्छृणुत समादरात् ॥
तद्यथाभुत्पुरा शास्ता तथागतो मुनीश्वरः ।
सर्वज्ञोऽर्हन्महाभिज्ञो धर्मराजो विनायकः ॥
सर्वधर्माधिपो नाथः सर्वविद्याधिपेश्वरः ।
विश्वभूर्नां संबुद्धो भगवान् सुगतो जिनः ॥
तदाहं कुलपुत्रासं क्षान्तिवादीति विश्रुतः ।
महर्षिस्तापसो धीमान् संयमी विजितेन्द्रियः ॥
गिरिगुहां समाश्रित्य संबोधिधर्मसाधकः ।
व्यहरन् सत्त्वहितं कृत्वा चतुर्ब्रह्मविहारिकः ॥
तदाप्यस्य जगच्छास्तुर्लोकेशस्य महत्तरम् ।
गुणप्रभावमाख्यातं विश्वभुवा श्रुतं मया ॥

(७४)
तद्यथासौ जगच्छास्ता विश्वर्भूभगवान् जिनः ।
तद्वनोपाश्रमे रम्ये विजहार ससांघिकः ॥
तदा स भगवांस्तत्र सर्वलोकसभाश्रितः ।
सद्धर्मं समुपादिश्य सत्त्वान् बोधौ व्यनोदयन् ॥
यदैकसमये तत्र भगवान् स मुनीश्वरः ।
आर्यधर्ममुपादेष्टुं सभासने समाश्रयत् ॥
तदा तत्र महान् रश्मिरवभास्य समन्ततः ।
सर्वत्र मंगलं कृत्वाह्लादयन्ती समासरत् ॥
तद्रश्मिसंपरिस्पृष्टाः सर्वसत्त्वाः सुखान्विताः ।
तदद्भुतं समालोक्य विस्मयं समुपाययुः ॥
तदा गगनगंजाख्यो बोधिसत्त्वो महामतिः ।
सर्वांस्तान् विस्मयापन्नान् लोकान् पश्यन् समुत्थितः ॥
उद्वहन्नुत्तरासंगं सांजलिः पुरतोऽग्रतः ।
विश्वभुवं मुनीन्द्रं तं नत्वैवं पर्यपृच्छत ॥
भगवन् पुण्यप्रभाकान्तिः कस्य हेयं समागता ।
यया स्पृष्टा इमे लोका महत्सुखसमन्विताः ॥
विस्मितास्तत्समालोक्य भगवन्तं मुनीश्वरम् ।
तद्धेतुं श्रोतुमिच्छन्तः सर्वे तस्थुः समाहिताः ॥
तेदषां हदयान्तःस्थं महदद्भुतकौतुकम् ।
विनोदितुमिमं हेतुं कस्येति तदुपादिश ॥
इति तेनोदितं श्रुत्वा विश्वभूः स मुनीश्वरः ।
विलोक्य तं महासत्त्वं गगनगंजमब्रवीत् ॥
शृणु त्वं कुलपुत्रात्र यदिदं कान्तिरागता ।
तदहं संप्रवक्ष्यामि श्रुत्वेदमनुमोदत ॥
या कांचनमयीः भूमिर्जम्बुद्विपेऽत्र विद्यते ।
तस्यामधोमुखाः सत्वा निवसन्त्यप्रमोयिकाः ॥
तान् सर्वान् पापिनो दुष्टान् पश्यन् स सुगतात्मजः ।
लोकेश्वरः समद्धर्त्तुं सुखावत्या इहागतः ॥

(७५)
तेषां पापविशोधार्थं पुण्यरश्मिं समुत्सृजन् ।
भासयन् स जगल्लोकांस्तत्र याति कृपानिधिः ॥
तत्प्रभापरिसंस्पृष्टाः सर्वे ते सत्सुखान्विताः ।
किमेतदिति संविक्ष्य तिष्ठन्ति विस्मिताशयाः ॥
तदा तत्र स लोकेश ऋषिरुपेण भासयन् ।
सर्वानधोमुखान् सत्त्वानुपैति तान् विलोकयन् ।
तमृषिं संप्रभासन्तं समायातं विलोक्य ते ॥
सर्वेऽप्यधोमुखाः सत्त्वाः समुपायान्ति संमुखम् ।
तत्र सर्वेऽपि ते सत्त्वाः प्रणत्वा तं मुनिं मुदा ॥
श्रद्धासने प्रतिष्ठाप्य प्रार्थयन्त्येवमादरात् ।
महर्षे यदिहायासि तदस्मद्भाग्ययोगतः ॥
तद्भवान् कृपयास्माकं दैवमाख्यातुमर्हति ।
किं कर्म पातकं घोरमस्माभिः प्रकृतं पुरा ॥
येनास्मोऽधोमुखा सर्वे वयं जाता इहेदृशाः ॥
इति तैः प्रार्थितं श्रुत्वा स महर्षिर्विलोक्य तान् ।
सर्वानधोमुखान् सत्त्वान् समादिशति बोधयन् ॥
शृणुश्वं यत्पुरा कर्म युष्माभिः प्रकृतं यथा ।
तत्समुपदिशाम्यत्र श्रुत्वा तत्परिबुध्यताम् ॥
यत्त्रिरन्तं प्रतिक्षिप्य मदेर्ष्यामानगर्विताः ।
अदृश्यमिति भाषन्तो चरन्नधोमुखाः पुरा ॥
तेनैतद्दैवयोगेन यूयं सर्वेऽप्यधोमुखाः ।
दुःखानि विविधान्यत्र भुक्त्वा वसथ साम्प्रतम् ॥
तदत्र श्रद्धया यूयं त्रिरत्नशरणं गताः ।
ध्यात्वा स्मृत्वा समुच्चार्य नामापि भजतादरात् ॥
पोषधं च व्रतं धृत्वा चतुर्ब्रह्मविहारिणः ।
स्वपरात्महितं कृत्वा संचरध्वं सदा शुभे ॥
ततः संबोधिचित्तेन धृत्वा बोधिव्रतं सदा ।
त्रिरत्नभजनोत्साहैः संचरध्वं जगद्धिते ॥

(७६)
ततो यूयं विकल्मषाः परिशुद्धत्रिमण्डलाः ।
निःक्लेशा बोधिमासाद्य निर्वृतिसुखमाप्स्यथ ॥
इति तेन समादिष्टं श्रुत्वा सर्वेऽपि ते मुदा ।
तस्य पादौ पुनर्नत्वा पुरःस्थित्वैवमब्रुवन् ॥
नाथोऽसि त्वं जगल्लोके सद्धर्मसुखसंभरः ।
आश्वासय तदस्माकमन्धानां पापचारिणाम् ॥
तमोऽभिभूतदृष्टीनां प्रणष्टपथचारिणम् ।
अनाथानाममित्राणां दीनानां मूढचेतसाम् ॥
त्राणशरण्यशून्यानां मन्दानां दुःखभागिनाम् ।
धर्मदीपं समुज्ज्वाल्य दर्शय निर्वृतेः पथः ॥
दत्वा सत्सुखसम्पत्तिर्न्नाथो भव शुभार्थभृत् ।
दत्वा पुण्यार्जनोपायं सन्मित्रो भव सन्मतिः ॥
दुर्गतितरणोपायं प्रदत्वा भवसद्गतिः ।
सद्गतिगमनोपायं दत्वा शास्त्वा गुरुर्भव ॥
निर्वार्य पापसंगेभ्यस्त्राता क्लेशापहो भव ।
दुर्वृत्तिक्लेशसंतापं हत्वा भवशरण्यकः ॥
सद्धर्मसाधनोत्साहं दत्वा भव विनायकः ।
सद्गुणसुखसंपत्तीर्दत्वा भव सुहत्प्रभुः ॥
सद्धर्मं समुपादिश्य चारयास्मान् सुसंवरे ।
विमुक्तिसाधनोपायं दत्वा प्रेषय निर्वृतिम् ॥
धन्यास्ते सुखिता येते सततं शरणे स्थित्वा ।
स्मृत्वा नाम समुच्चार्य ध्यात्वा भजन्ति सर्वदा ॥
ईदृग्दुःखं न ते क्वापि यास्यन्ति भवचारणे ।
यादृग्वयमिदं दुःखमनुभावामहे सदा ॥
ते सद्भाग्या महासत्त्वा ये सदा ते उपस्थिताः ।
आदिमध्यान्तकल्याणं धर्मं श्रुत्वा चरन्ति वै ॥
वयमपि तथा सर्वे सदा ते शरणे स्थिताः ।
धर्मं श्रुत्वा सुकल्याणमिच्छामश्चरितुं व्रतम् ॥

(७७)
तत्प्रसीद महर्षे त्वमस्माकं सद्गुरुर्भव ।
सद्धर्मं समुपादिश्य चारयास्मान् सुसंवरे ॥
इति तैः प्रार्थितं श्रुत्वा स महर्षिः प्रसादितान् ।
तान् सर्वान समुपामन्त्र्य समालोक्यैवमादिशत् ॥
शृणुध्वं सादरं यूयं सदा भग्रं यदीच्छथ ।
हितार्थं वः प्रवक्ष्यामि सद्धर्मबोधिसाधनम् ॥
इत्यादिश्य स कारण्डव्यूहसूत्रं सुभाषितम् ।
उच्चार्य श्रावयन् बोधिचर्यायां योजयत्यपि ॥
ततस्ते पुरेषाः सर्वे सद्धर्मसाधनोद्यताः ।
त्रिरत्नभजनं कृत्वा संचरन्ते सुसंवरे ॥
ततस्ते विमलात्मानः परिशुद्धत्रिमण्डलाः ।
बोधिचर्याव्रतं धॄत्वा संचरन्ते जगद्धिते ॥
सर्वेऽपि ते महासत्त्वा बोधिसत्त्वा महर्द्धिकाः ।
परमसुखाभर्तारो भवन्त्यप्यनिवर्तिनः ॥
एवं स त्रिजगन्नाथ ऋषिरुपेण बोधयन् ।
सर्वान्स्तान बोधिचर्यायां नियुज्य चारयत्यपि ॥
एवं तान् बोधिमार्गेऽसौ महर्षिः सर्वान्नियुज्य च ।
ततोऽन्तर्हित आकाशे याति वह्निरिवोज्ज्वलन् ॥
तमाकाशगतं दृष्ट्वा सर्वे तेऽप्यतिविस्मिताः ।
प्रणत्वा चानुशंसतः संचरन्ते समादरात् ॥
तस्य लोकेश्वरस्येयं पुण्यकान्तिः शुभा प्रभोः ।
अवभास्य जगल्लोकमिहापि संप्रसारिता ॥
एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः ।
सर्वसत्त्वहितं कृत्वा प्रचरन्ति समन्ततः ॥
तेन तस्य महत्पुण्यस्कन्धं बहुसमुत्तमम् ।
अप्रमेयमसंख्येयमित्यादिष्टं मुनीश्वरैः ॥
एवं विज्ञाय सर्वेऽस्य लोकेशस्य सदादरात् ।
स्मॄत्वा ध्यात्वा समुच्चार्य नामापि भक्तुमर्हथ ॥

(७८)
ये तस्य शरणं गत्वा स्मृत्वा ध्यात्वापि सर्वदा ।
नामापि च समुच्चार्य भजन्ति श्रद्धया मुदा ॥
दुर्गतिं ते न गच्छन्ति संजातास्सद्गतौ सदा ।
धर्मश्रीगुणसंपत्तिर्भुक्त्वा यान्ति सुखावतीम् ॥
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते ।
सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥
इत्येवं लोकनाथस्य पुण्यप्रभावमुत्तमम् ।
विश्वभुवा मुनीन्द्रेण समादिष्टं मया श्रुतम् ॥
एवं सुकृतमाहात्म्यं लोकेश्वरस्य सद्गुरोः ।
विज्ञाय शरणं गत्वा भजन्तु बोधिवांछिन ॥
ये तस्य शरणं गत्वा भजन्ति श्रद्धया सदा ।
सद्धर्मगुणसौख्यं भुक्त्वा यायुः सुखावतीम् ॥
तत्र गत्वामिताभस्य सद्धर्मामृतमुत्तमम् ॥
पीत्वा संबोधिमासाद्य प्रान्ते यायुः सुनिर्वृतिम् ॥
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते ।
सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥

॥ इत्यधोमुखसत्त्वोद्धरप्रकरणम् ॥


८. रूपमयी भूमि चतुष्पाद पुरुषोद्धारण प्रकरणम्

अथासौ भगवांश्छास्ता शाक्यमुनिरीश्वरः ।
विष्कम्भिनं तमालोक्य पुनरेवं तमादिशत् ॥
शृणु च कुलपुत्रास्य लोकेश्चरस्य सद्गुरोः ।
सद्धर्मगुणमाहात्म्यं श्रुतं मया तद्च्यते ॥
तदा गगनगंजोऽसौ भगवन्तं मुनीश्वरम् ।
विश्वभुवं तमानम्य पुनरेवमपृच्छत ॥
भगवन् स महाभिज्ञो लोकेश्वरो जिनात्मजः ।
पुनः सत्त्वान् समुद्धर्तुं कुत्रान्यत्राभिगत्छति ॥

(७९)
पुनस्तच्छ्रोमिच्छामि यदन्यत्र स संसरन् ॥
सत्त्वान् पश्यन् समुद्धृत्य धर्मे युनक्ति तदादिश ॥
इति तेनोदितं श्रुत्वा भगवन् स मुनीश्वरः ।
गगनगंजमालोक्य तं पुनरेवमादिशत् ॥
शृणुष्व कुलपुत्रास्य लोकेशस्य जगत्प्रभोः ।
वक्ष्ये सद्गुणमाहात्म्यं श्रोतुं त्वं च यदीच्छसि ॥
तद्यथासौ महासत्त्वो लोकेश्वरो जिनात्मजः ।
ततो रुपमयीं भूमीं गच्छति संप्रभासयन् ॥
तत्र सत्त्वान्मनुष्यान् गांश्चतुष्पादान् विलोक्य सः ।
लोकेश्वरो दिव्यरुपः समुपासृत्य तिष्ठति ॥
तं दिव्यरुपमालोक्य सर्वे ते विस्मयान्विताः ।
पुरतः समुपाश्रित्य नत्वैवं प्रार्थयन्मुदा ॥
अहोभाग्यं तदस्माकं यद्भवानिह दृश्यते ।
तदस्मां कृपयालोक्य समुद्धर्त्तुमिहार्हति ॥
इति तैः प्रार्थ्यमानोऽसौ लोकेश्वरः कृपात्मकः ।
तान् सर्वान् समुपामन्त्र्य समालोक्यैवमादिशत् ॥
भगवन्तोऽत्र समाधाय शृणुध्वं यूयमादरात् ।
वक्ष्यामि यन्महत्सिद्धं धर्मनिर्वृतिसाधनम् ॥
तद्यथा यज्जगच्छ्रेष्ठं त्रिरत्नं भद्रकारकम् ।
तत्स्मृत्वा शरणं गत्वा भजध्वं सर्वदादरात् ॥
ये तेषां शरणं गत्वा न ते गछन्ति दुर्गतिम् ।
सदा सद्गतिसंजाताश्चरन्ति बोधिसंवरे ॥
एतत्पुण्यानुभावेन सर्वे ते पुरुषोत्तमाः ।
बोधिसत्त्वा महासत्त्वाः संचरेवं जगद्धिते ॥
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ।
सर्वसत्त्वहितं कृत्वा संयास्यन्ति सुखावतीम् ॥
तत्र गत्वामिताभस्य जितेन्द्रस्य सभाश्रिताः ।
सद्धर्मामृतमाभुज्य संरमेयुर्यहोत्सवैः ॥

(८०)
एवं ते सुचिरं तत्र भुक्त्वा सौख्यं शुभोत्सवम् ।
ततोऽन्ते त्रिविधां बोधिं प्राप्य यास्यन्ति निर्वृतिम् ॥
एवं मत्वा त्रिरत्नानां श्रद्धया शरणे स्थिताः ।
स्मृत्वा ध्यात्वा समुच्चार्य्य नामापि भजतादरात् ॥
तदैतत्पुण्यलिप्तांगाः शुद्धाशया जितेन्द्रियाः ।
निःक्लेशा विमलात्मानो बोधिसत्त्वा भविष्यथ ॥
ततः सत्त्वहितार्थेन बोधिचर्याव्रतोद्यताः ।
सर्वत्र भद्रतां कृत्वा गमिष्यथ सुखावतीम् ॥
तत्रामिताभनाथस्य पीत्वा धर्मामॄतं सदा ।
सद्धर्ममंगलोत्साहै रमिष्यथ सुसंवरे ॥
एवं तत्र चिरं भुक्त्वा सौख्यं भद्रमहोत्सवम् ।
प्रान्ते संबोधिमासाद्य समाप्स्यथ सुनिर्वृतिम् ॥
एवं मत्वा सदा बुद्धरत्नस्य शरणं गताः ।
स्मृत्वा ध्यात्वा समुच्चार्य नामापि भगतदरात् ॥
धर्मरत्नस्य माहात्म्यं श्रुत्वापि शरणे स्थिताः ।
स्मृत्वा ध्यात्वा समुच्चार्य नामापि भजतादरात् ॥
एवं च संघरत्नानां सत्कारैः समुपस्थिताः ।
स्मृत्वा ध्यात्वा समुच्चार्य नामापि भवताभवम् ॥
एतत्पुण्यं महत्ख्यातमसंख्येयं बहूत्तमम् ।
अप्रमेयं समाख्यातं सर्वैरपि मुनीश्वरैः ॥
एवं मत्वा त्रिरत्नानां शरणे समुपस्थिताः ।
स्मृत्वा ध्यात्वा समुच्चार्य नामापि सेव्यताभवम् ॥
एतत्पुण्यानुभावेन यूयं सर्वे विकल्मषाः ।
निःक्लेशा निर्मलात्मानः संयास्यथ सुखावतीम् ॥
तत्र गत्वामिताभस्य मुनीन्द्रस्योपसंश्रिता ।
सदा धर्मामृतं पीत्वा रमिष्यथ शुभोत्सवैः ॥
एवं तत्र चिरं भुक्त्वा महानन्दमयं सुखम् ।
प्रान्ते सम्बोधिमासाद्य संयास्यथ सुनिर्वृतिम् ॥

(८१)
इति तेनोदितं श्रुत्वा सर्वे ते पुरुषा मुदा ।
तथेति प्रतिसंश्रुत्व वदन्त्येवं च मोदिताः ॥
मार्ष भवति नोऽन्धानां सन्माअर्गमुपदर्शकः ।
अत्राणानामपि त्राणं शरण्यं शरणार्थिनाम् ॥
अनाथानां पिता माता नाथश्चेष्टः सुहृत्पतिः ।
अगतीनां गतिश्चापि मित्रश्च व्यसनापहृत् ॥
तमःप्रणष्टमार्गाणां महादीपो भवानपि ।
मूर्खानां च प्रमत्तानां शास्ता सद्धर्मदेश्कः ॥
तद्वयं सर्वदा सर्वे भवतां शरणे स्थिताः ।
आज्ञां धृत्वा शुभे धर्मे संचरिष्यामहे ध्रुवम् ॥
सुखितास्ते माहाभागा ये भवच्छरणे स्थिताः ।
त्रिरत्नभजनं कृत्वा संचरन्ते शुभे सदा ॥
न तेषामिदृशं दुःखं भविष्यति कदाचन ।
यादृगिदं महट्कष्टमनुभावमहे भवे ॥
तद्भवान् कृपयास्माकं निर्वृतिसुखसाधनम् ।
सद्धर्मं समुपादिश्य सदेह स्थातुमर्हति ॥
इति तैः प्रार्थितं श्रुत्वा बोधिसत्त्वः स सर्ववित् ।
तान् प्रबोधितान् सर्वान् वदत्येवं विलोकयन् ॥
नाहं सदात्र तिष्ठेयं कार्याणि हि बहूनि मे ।
तन्मयात्र यथाख्यातं धृत्वा चरत सर्वदा ॥
इत्युक्त्वा स महाभिज्ञस्तेषां संबोधिसधनम् ।
समादिशति कारण्डव्यूहसूत्रं सुभाषितम् ॥
तत्सर्वेषां महायानसूत्राणां प्रवरोत्तमम् ।
श्रुत्वा ते पुरेषाः सर्वे प्राभिनन्दन्ति बोधिताः ॥
ततस्ते पुरुषाः सर्वे धृत्वा तत्सूत्रमादरात् ।
त्रिरत्नभजनं कृत्वा संचरन्ते शुभे मुदा ॥
एतत्पुण्यानुभावेन सर्वे ते विमलाशयाः ।
बोधिसत्त्वा महासत्त्वा भवन्ति ब्रह्मचारिणः ॥

(८२)
बोधिचर्याव्रतं धृत्वा प्रचरन्तो जगद्धिते ।
सद्धर्मचरणे युक्ता भवन्त्यप्यनिवर्तिनः ॥
एवं ते पुरुषाः सर्वे परिशुद्धत्रिमण्डलाः ।
स्वपरात्महितोत्साहैः संचरन्ते महासुखम् ॥
एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः ।
सर्वांस्तान् पुरुषान् धर्मे नियोजयति बोधयन् ॥
ततोऽन्यत्र स लोकेशः सत्त्वानुद्धर्त्तुमुत्सुकः ।
अन्तर्हितो ज्वलदग्निरिवाकाशेन गच्छति ॥
एवं कृत्वा महत्पुण्यस्कन्धं तस्य जगत्प्रभोः ।
अप्रमेयमसंख्येयं समाख्यातं मुनीश्वरैः ॥
इति मत्वा सदा तस्य शरणे समुपस्थिताः ।
स्मृता नामापि चोच्चार्य ध्यात्वापि भजताभवम् ॥
ये तस्य शरणे स्थित्वा श्रद्धया समुपस्थिताः ।
स्मृत्वा ध्यात्वापि नामापि समुच्चाअर्य भजन्ति वै ॥
दुर्गतिं ते न गच्छन्ति कदाचन क्वचिद्भवे ।
सदा सद्गतिसंजाता भवन्ति धर्मचारिणः ॥
धर्मश्रीगुणसत्सौख्यं भुक्त्वा यान्ति सुखावतीम् ।
तत्र गत्वामिताभस्य शरणे समुपाश्रिताः ॥
सदा धर्मामृतं पीत्वा स्वपरात्महितोद्यताः ।
महानन्दसुखोत्साहैस्संरमन्ते यथासुखम् ॥
तत्रैव सुचिरं भुक्त्वा प्रचरन्तो जगद्धिते ।
प्रान्ते बोधिं समासाद्य निर्वृतिपदमाप्नुयुः ॥
इति सत्यं परिज्ञाय यूयं बोधिं यदीच्छथ ।
तल्लोकेशं महाभिज्ञं भजध्वं सर्वदा भवे ॥
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य सः ।
गगनगंज औत्सुक्यं प्राभ्यनन्दत्समार्षदः ॥
इत्येवं समुपादिष्टं विश्वभुवा श्रुतं मया ।
यूयमपि तथा तस्य सर्वदा भजतादरात् ॥
यूयमपि तथा सौख्यं भुक्त्वा सदा शुभारताः ।
बोधिश्रीगुणसंपन्नाः गमिष्यथ जिनालयम् ॥
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते ।
सर्वसांघिका लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥

॥ इति रुपमयीभूमिचतुष्पादरुषोद्धारणप्रकरणम् ॥


९. बलि संबोधन बोधिमार्गावतारण प्रकरणम्

अथ सर्वनीवरणविष्कम्भी सोऽभिनन्दितः ।
भूयस्तं श्रीघनं नत्वा प्रार्थयदेवमादरात् ॥
भगवछ्रोतुमिच्छामि भूयोऽप्यस्य जगत्प्रभोः ।
सद्धर्मगुणमाहात्म्यं तेन श्रुत्वा स भगवान् पुनः ।
विष्कम्भिनं महासत्त्वं तमालोक्यैवमादिशत् ॥
ततोऽसौ त्रिजगन्नाथो लोकेश्वरो जिनात्मजः ।
सत्त्वान् पश्यन् समुद्धर्तुं पाताले समुपाचरत् ॥
तत्र चायोमयी भूमी रसतले सुरालया ।
तत्रापि स महाभिज्ञो भासयन् समुपाचरत् ॥
यत्र राजा बलिर्नाम सर्वदैत्याधिपोऽपि यः ।
बद्धः स वामनः सान्तःपुर जनोऽधितिष्ठति ॥
दुर्दान्तं तं महावीर्यं त्रैलोकातिभयंकरम् ।
समुद्धर्तुं समालोक्य तत्राविशत्स भासयन् ॥
तत्र स रश्मिमुत्सृज्य सर्वत्र संप्रभासयन् ।
शनैश्चरन् समालोक्य बलेः सद उपाचरत् ॥
तत्र तं समुपायातं सुवर्णबिम्बमिवोज्ज्वलम् ।
दुरतः स बलिर्दृष्ट्वा निधायैवं व्यचिन्तयत् ॥
कोऽयमत्र समायातो दिव्यकान्तिः प्रभसयन् ।
महेश्वरोऽथवा सूर्यश्चन्द्रो वापि हुताशनः ॥

(८४)
कोऽन्य ईदृक्प्रभाश्रीमान् देवो वा दानवोऽपि वा ।
गन्धर्वो किन्नरो वापि नागो वा गरुडोऽपि वा ॥
ईदृग्महर्द्धिकः श्रीमान्नास्ति त्रैधातुकेष्वपि ॥
बोधिसत्त्वोऽथवार्हन् वा मुनीन्द्रो वा समागतः ॥
इत्येवं चिन्तयन् द्रष्टुं स वामनासुरैः सह ।
सर्वपरिजनैश्चासौ बलिस्तं समुपाचरत् ॥
पश्यन्तं स बली राजा समीक्ष्यैनं जिनात्मजम् ।
लोकेश्वरं महासत्त्वं विज्ञाय संप्रमोदितः ॥
सहसा समुपासृत्य कृतांजलिपुटो मुदा ।
तस्य पादाम्बुजे नत्वा संपश्यन्नेवमब्रवीत् ॥
अद्य मे सfअलं जन्म भवत्संदर्शनोद्भोवे ।
अधुना प्रणिधानं च संसिध्यते मनोरथम् ॥
अस्य मे शुध्यतेऽप्यात्मा मुच्यते सर्वपापतः ।
मुक्तोऽस्मि बन्धनादद्य प्राप्तवान् सुगतेः पथः ॥
यद्भवान् स्वयमालोक्य मामुद्धर्तुमिहागतः ।
संदृश्यते मय ह्यद्य तन्मे पुण्यविपाकतः ॥
भवन्तं येऽपि पश्यन्ति पुण्यवन्तो नरा हि ते ।
भवन्ति श्रीसुखापन्नाः सर्वक्लेशविवर्जिताः ।
ते सत्त्वाः सुखिनो लोके परिशुद्ध विकल्मषाः ॥
भवचारणमुक्ता ये दृश्यन्ते भवतो भवे ।
भवतां दर्शनेनैवं मुक्तोऽस्मि भवबन्धनात् ।
क्लेशादयः पलायन्ते गरुडस्येव पन्नगाः ।
भवानेव जगन्नाथः शास्ता सद्धर्मदेशकः ।
त्राता भर्ता शरण्येऽपि नास्त्यन्यो मे सुहृद्गतिः ॥
तद्भवान् कृपयालोक्य मामुद्धृत्य भवोदधेः ।
सन्मार्गे संप्रतिस्थाप्य संपालयितुमर्हति ॥
इति संप्रार्थ्य दैत्येन्द्रः स बलिः सांजलिः पुनः ।
प्रणत्वा तं जगन्नाथं सादरात्स्वपुरेऽनयत् ॥

(८५)
तत्र तं स्वपुरे नीत्वा महोत्सवैः प्रमोदनैः ।
अन्तःपुरे सुभास्वर्णरत्नपीठे न्यवेशयत् ॥
तत्र तं संप्रतिष्ठाप्य राजा संमोदितो बलिः ।
सान्तःपुरजनैः सार्धं यथाविधि समर्चर्यत् ॥
महद्राअजर्द्धिसत्कारैः सत्कृत्य प्रभजन्मुदा ।
पादाब्जे प्रणतिं कृत्वा प्रार्थयदेवमादरात् ॥
भगवंस्त्रैधातुनाथोऽसि यदत्र स्वयमागतः ।
तदस्मान् कृत्पयालोक्य सर्वान् संत्रातुमर्हसि ॥
त्राता न विद्यतेऽस्माकं दशाकुलचारिणाम् ।
जरामरणभीतानां क्लेशाग्निदहितात्मनाम् ॥
भवाब्धश्रमखिन्नानां नित्यमुद्विग्नचेतसाम् ।
अनाथानामबन्धूनां भव माता पिता सुहृत् ॥
एषां बन्धनबद्धानां जात्यन्धानां दुरात्मनाम् ।
मूढानां च शुचित्तानां भव क्लेशापहो गतिः ॥
नाथो भव जगन्नाथः शास्ता सद्धर्मदेशकः ।
शरण्यं सद्गुरुर्मित्रं त्राता भर्ता हितार्थभृत् ॥
यथा भवान् जगल्लोकं निवार्य पापमार्गतः ।
धर्ममार्गे प्रतिष्ठाप्य पालयति विलोकयन् ॥
तथास्मानपि पापिष्ठान्निवार्य पापपद्धतेः ।
नियुज्य सहसे पश्यन् पालयितुं सदार्हसि ॥
कृपयास्मान् दुरासक्तान् समुद्दृत्य भवोदधेः ।
संबोधिसाधने धर्मे नियोजयतु बोधयन् ॥
इति संप्रार्थितं तेन बलिना भद्रवांछिना ।
श्रुत्वा लोकेश्वरश्चैनं बलिं दृष्ट्वैवमादिशत् ॥
साधु शृणु समाधाय दैत्याधिप समादरात् ।
हितार्थं ते प्रवक्ष्यामि यद्धर्मं बोधिसाधनम् ॥
संसारे सर्वदा भद्रं सौख्यं भोक्तुं यदीच्छसि ।
त्रिरत्नस्मरणं कृत्वा भज नित्यं समाहितः ॥

(८६)
त्रिरत्नशरणं कृत्वा ये भजन्ति सदा भवे ।
दुर्गतिपरिमुक्तास्ते गछन्ति सद्गतिं सदा ॥
सद्गतावेव संजाताः सद्धर्मसाधनोद्यताः ।
पुण्यश्रीगुणसत्सौख्यं भुक्त्वा यान्ति जिनालयम् ॥
त्रिरत्नभजनोत्पन्नं पुण्यfअलं महद्बहु ।
अप्रमेयसंख्येयं संबोधिज्ञानसाधनम् ॥
एवं विज्ञाय दैत्येन्द्र संबोधिं यदि वांछसि ।
धर्मधातुं समभ्यत्च्य भज नित्यं समाहितः ॥
धर्मधातुं समभ्यर्च्य ये भजन्ति सदादरात् ।
विमुक्तपातकाः सर्वे गच्छन्ति ते जिनालयम् ॥
सद्धर्मान् च सदा श्रुत्वा सत्कृत्य श्रद्धयादरात् ।
अभ्यर्च्य शरणं कृत्वा भज नित्यं समाहितः ॥
सद्धर्मं ये सदा श्रुत्वा सत्कृत्य श्रद्धयादरात् ।
गत्वा शरणमभ्यर्च्य भजन्ति संप्रमोदिताः ॥
ते सर्वे क्लेशनिर्मुक्ताः परिशुद्धत्रिमण्डलाः ।
बोधिसत्त्वा महाभिज्ञाः संयान्ति सुगतालयम् ॥
संघरत्नानि येऽभ्यर्च्य श्रद्धया शरणं गताः ।
सत्कारैः समुपस्थाय भजन्ति सर्वदा मुदा ॥
तेऽपि क्लेशविनिर्मुक्ताः शुद्धाशयाः शुभोद्यताः ।
महासत्त्वाः शुभोत्साहं भुक्त्वा यान्ति सुखावतीम् ॥
श्रद्धया योऽर्हते पिण्षपात्रामेकं प्रयच्छति ।
तस्य पुण्यमसंख्येयमप्रमेयं जगुर्जिनाः ॥
सर्वेषामपि पुण्यानां शक्यते मया ।
एतत्पुण्यप्रमानं तु शक्यते न जिनैरपी ॥
सर्वत्रैधातुकोत्पन्नाः सत्त्वाश्चेत्सुगतात्मजाः ।
तेऽप्येतत्पुण्यसंख्यानां प्रमातुं नैव शक्नुयुः ॥
प्रागेवाहमिहैकोऽस्मिन् तत्कथं शक्नुयामिदम् ।
पुण्यस्कन्धं समाख्यातुं यन्न शक्यं जिनैरपि ॥

(८७)
चूर्णीकृत्य महीं सर्वां कृत्वा चानुरजोमयम् ।
तत्सर्वं गणितुं शक्यं सर्वैबुद्धर्मयापि च ।
नतु त्रिरत्नसत्कारे पुण्यस्कन्धं कदाचन ।
प्रमातुं शक्यते सर्वैर्मुनीश्वरैर्मयापि च ॥
सर्वेषामुदधीनां च नदीनां च जलान्यपि ।
बिन्दुसंख्याप्रमाणेन गणितुं शक्यते मया ॥
मेरुप्रमाणभूर्जेषु संपूर्णमक्षरं लिखेत् ।
तदक्षराणि सर्वाणि संख्यातुं शक्यते मया ॥
सर्वेस्वपि समुद्रेषु सर्वास्वपि नदीषु च ।
यावत्यो वालुकास्तासां संख्यातुं शक्यते मया ॥
सर्वेषामपि जन्तूनां चतुर्द्विपनिवासिनाम् ।
देहजानि च लोमानि संख्यातुं शक्यते मया ॥
सर्वेषामपि वृक्षाणां चतुर्द्वीपमहीरुहाम् ।
शस्यानामपि पत्राणि संख्यातुं शक्यते मया ॥
प्रवर्षज्जलधराणां वर्षैकस्य निरन्तरम् ।
तद्बिन्दुपरिसंख्याभिः प्रमातुं शक्यते मया ॥
नतु त्रिरत्नसत्कारपिण्डपात्रादिदानजम् ।
पुण्यस्कन्धमसंख्येयं प्रमातुं शक्यते मया ॥
यदि सर्वेऽपि सत्त्वाश्च दशभूमिप्रतिष्ठिताः ।
बोधिसत्त्वा महासत्वा भवेयुर्ब्रह्मचारिणः ॥
यावत्तेषां महत्पुण्यं संबोधि&॰२८९;यानसाधनम् ।
ततोऽपि हि महत्पुण्यं त्रिरत्नं संप्रादानजम् ॥
किमेवं बहुना प्रोक्ता सर्वेरपि मुनीश्वरैः ।
यत्संख्यातुं प्रमातुं च शक्यते न कदाचन ॥
तत्कथमहमेकोऽत्र संख्यातुं शक्नुयामपि ॥
अप्रेमेयमसंख्येयमित्येवं परिबुध्यताम् ॥
एतदेव महत्पुण्यं न क्षिणोति कदाचन ।
सर्वसत्त्वहिताधानसद्धर्मगुणसाधनम् ॥

(८८)
भद्रश्रीसुखसंपत्तिसंस्थितिसंप्रदायकम् ।
सर्वक्लेशाग्निसंतापहरं संबोधिसाधनम् ॥
एवं महत्fअलं मत्वा त्रिरत्नं सर्वदा स्मरन् ।
ध्यात्वा स्तुत्वा प्रणत्वापि भज नित्यं समाहितः ॥
ये त्रिरत्नं सदा नित्यं श्रद्धया समुपाश्रिताः ।
स्मृत्वा ध्यात्वापि तुष्टाश्च प्रणत्वापि भजन्त्यदि ॥
सर्वे ते विमालात्मानः परिशुद्धेन्द्रियाशयाः ।
निःक्लेशाः सद्गुणाधाराश्चतुर्ब्रह्मविहारिणः ॥
धर्मश्रीगुणसंपत्तिशुभोत्साहसुखारताः ।
बोधिसत्त्वा महासत्त्वा भविष्यन्ति जिनात्मजाः ॥
ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम् ।
जित्वा मारगणान् सर्वान्निःक्लेशा विमलेन्द्रियाः ॥
अर्हन्तः त्रिजगत्पूज्या महाभिज्ञा विनायकाः ।
त्रिविधां बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥
इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः ।
मत्वा तस्मात्त्रिरत्नस्य भज बोधिं यदीच्छसि ॥
इति तेन जगच्छास्ता समादिष्टं निशम्य सः ।
बलिर्दैत्याधिपः पश्यन् विस्मयं समुपाययौ ॥
अथासौ चितयन् यज्ञदानादिप्रकृतं स्वकम् ।
गलदश्रुमुखः पश्यंल्लोकेश्वरं तमब्रवीत् ॥
भगवन् कीदृशं कर्म मूढेन प्रकृतं मया ।
येनेहापि मया प्राप्तं बन्धनं स्वजनैः सह ॥
हा मया कुधिया यज्ञं तीर्थिकसंमतं कृतम् ।
यत्fअलेनाहमत्रैवं बन्धितः सजनोऽधसि ॥
अहो बौद्धेषु यद्दानं प्रकृतं तत्फलं शुभम् ।
येनेह भद्रसंपत्तीर्भुक्त्वान्ते याति निर्वृतिम् ॥
हा मूढेन कृत तीर्थिकशासने मया ।
येनेहैवं महद्दुःखं प्राप्तं स्वजनैः सह ॥

(८९)
यदा मया जगन्नाथ समारभ्य महन्महम् ।
सर्वार्थिभ्यः ससत्कारं दानं दत्तं यथेप्सितम् ॥
तदा वामन आगत्य ब्रह्मचारी ममाग्रतः ।
द्विपदमात्रसंस्थानं पृथिव्यां समयाचयत् ॥
तच्छ्रुत्वा दानरक्तेतन मया मानातिमानिना ।
तृतीये पदसंस्थानं दत्तं तस्मै महीतले ॥
मया प्रदत्तमादाय स्वस्तिवाक्यमुदीरयन् ।
वामनः स महन्मूर्त्तिं धृत्वातिष्ठत्पुरो मम ॥
स त्रिपादो महद्भूतो भीमरुपो महर्द्धिमान् ।
धृत्वा त्रैविक्रमीं मूर्त्तिं पश्यन्मामेवमब्रवीत् ॥
देहि मे यत्त्वया दत्तं तृतीयस्य पदस्य मे ।
स्थानं न विद्यते कुत्र स्थापयेयमिदं वद ॥
एकं न्यस्तं मयाकाशे द्वितीयं च महीतले ॥
तृतीयं मे पदं कुत्र स्थापयेथा त्दं वद ॥
इति तेनोदितं श्रुत्वा लज्जितो प्रविषर्णधिः ।
किंचिद्वक्तुशक्तोऽहमतिष्ठं मूढमानसः ॥
तदा स विष्णुरालोक्य मामवमवदत्पुनः ।
यत्राहं स्थापयिष्यामि तत्र संस्थापयेद्ध्रुवम् ॥
इति तदुक्तमाकर्ण्य तदाहमवदंस्तथा ॥
त्वया संस्थाप्यते यत्र तत्र संस्थापयाम्यहम् ॥
इति सत्यं मया प्रोक्तं श्रुत्वा स संप्रहर्षितः ।
मूर्धनि मे तृतीयेन पादेनाक्रम्य विक्रमी ॥
मामिहाधसि पाताले सान्तःपुरजनान्वितम् ।
सबन्धुसानुगं चापि बन्धने स्थापयत्यसौ ॥
यन्महादारुणं पापं निर्दयेन मया कृतम् ।
तेनात्र बन्धनं प्राप्तं सान्तःपुरजनैः सह ॥
दत्वार्थिभ्योऽपि सर्वेभ्यः सर्वोपकरणान्यपि ।
यथाभिवांछितं द्रव्यं गजाश्वरथवाहनम् ॥

(९०)
कुक्षत्रे यत्कृतं दानमेतत्फलमिहाश्यते ।
हा मया किं कृतं श्रुत्वा तीर्थिकशासनम् ॥
एवं भद्रfअलं पुण्यं त्रिरत्नभजोनोद्भवम् ।
मया न श्रूयते क्वापि ज्ञायते नैवमुत्तमम् ॥
हाहं तीर्थिकैर्दुष्टैवशीकृत्वाभिवांछितः ।
प्रतारितोऽप्यसद्धर्मे प्रापितोऽत्रापि बन्धने ॥
ईदृशं सत्fअलं पुण्यं भद्रश्रीबोधिसाधने ।
सुक्षत्रे दानसंभूतं नश्रुतं न मतं मया ॥
यदीदृशं महत्पुण्यं भद्रश्रीबोधिसंप्रदम् ।
न ज्ञातं तत्त्रिरत्नानां प्राभजिष्यन् सदा भवे ॥
तन्मया भगवन् ज्ञातं श्रुत्वेदं भवतोदितम् ।
तत्सदैव त्रिरत्नानां शरणस्थो भजाम्यहम् ॥
तद्भवान् समुपाख्यातु त्रिरत्नभजने विधिम् ।
अद्यारभ्य सदाप्येवं चरिष्याम्यहमाभवम् ।
तथाहं भगवन् बुद्धरत्नस्य शरणे स्थितः ।
यथाविधि समभ्यर्च्य भजानि सर्वदाभवम् ॥
तथा च धर्मरत्नानां शरणे समुपस्थितः ।
सत्कृत्य श्रद्धया गौण्यं श्रुत्वा भजानि सर्वदा ॥
तथा य संघरत्नानां शरणे सर्वदा स्थितः ।
तथार्हभोजनैश्चापि सत्कृत्य प्रभजाम्यहम् ॥
यथात्र भवतादिष्टं संचरिष्ये तथा खलु ।
संबोधिसाधनं धर्मं समुपादेष्टुमर्हति ॥
इति तदुक्तमाकर्ण्य लोकेश्वरः स सर्ववित् ।
प्रबोधितं तमालोक्य दैत्येन्द्रमेवमादिशत् ॥
साधो बलेऽसुरेन्द्रोऽसि तच्छ्रिणुष्व समाहितः ।
हितार्थं ते प्रवक्ष्यामि यदि सद्धर्ममिच्छसि ॥
आदौ विरम्य पापेभ्यो दुष्टमित्राद्दूरगतः ॥
सन्मित्रं समुपाश्रित्य चर भद्र समाहितः ॥

(९१)
ततः श्रद्धाशयो धीरश्चतुर्ब्रह्मविहारिकः ।
त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर ॥
सौगतेभ्यस्तथार्थिभ्यः श्रद्धया मानयन्मुदा ।
संबोधिप्रणिधानेन कुरुष्व दानमीप्सितम् ॥
संबोधिप्रणिधानेन यद्धानं श्रद्धया कृतम् ।
तत्fअलं हि महत्सिद्धं संबुद्धपदसाधनम् ॥
ततोऽन्यत्प्रणिधानेन यद्दानं प्रकृतं मुदा ।
तत्कलं श्रीमहत्सौख्यं दद्यान्नैव तु सौगतम् ॥
तत्त्रिरत्नमनुस्मृत्वा संबोधिनिहिताशयः ।
ददस्व श्रद्धया दानं बौद्धं पदं यदीच्छसि ॥
एवं दत्वा सदा दानं बोधिचित्तो जितेन्द्रियः ।
शुचिशीलसमाचारश्चरस्व पोषधं व्रतम् ॥
व्रतं विना न शुध्येत त्रिकायं महतामपि ।
तद्बोधिप्रणिधानेन चरष्व सौगतं व्रतम् ॥
एवं व्रतं सदा धृत्वा चतुर्ब्रह्मविहारधृक् ।
संबोधिप्रणिधानेन क्षान्तिव्रतं समाचर ॥
कृत कल्पसहस्त्रैर्यद्दानं त्रिरत्नसाधनम् ।
क्लेशोत्थितो जगद्दुष्टः क्रधो हन्ति क्षणेन तत् ॥
तत्क्लेशारीन् जगद्दुष्टान् क्रोधमूलान् विनिर्जयन् ।
संबोधिप्रणिधानेन सत्त्वे क्षमाव्रतं चर ॥
केवलं क्षमया नैव सद्धर्मगुणसाधनम् ।
विना वीर्यसमुत्साहं सिध्यते बोधिसंवरम् ॥
तत्कौधीद्यं समुत्सृज्य संबोधिनिहिताशयः ।
धृत्वा वीर्यसमुत्साहं चर भद्रार्थसाधने ॥
न हि वीर्यं विनाकार्यं सिध्यते सुधियामपि ।
तस्माद्वीर्यं समाधाय संबोधिकृतनिश्चयः ॥
स्वपरामहिताधानं सद्धर्मरत्नमर्जय ।
दुर्बुद्धेर्हि महोत्साहं वीर्यं न साधयेच्छुभम् ॥

(९२)
स्वपरात्महितोत्पातमेव कुर्यात्सदारिवत् ।
तद्धैर्यसुमतिं धृत्वा संबोधिध्याननिष्ठितः ॥
सर्वसत्त्वहिताधानं सद्धर्मरत्नमर्जय ।
प्रज्ञाविरहितो नैव ध्यानाहितोऽपि सिध्यते ।
तत्सत्प्रज्ञामहारत्नमर्जय त्रिजगद्धिते ॥
एतद्धि परमोपायं संबोधिज्ञानसाधने ।
विज्ञाय त्वं सदा सत्त्वहितार्थे चर सद्व्रतम् ॥
तदा त्वं बोधिसत्त्व स्याः सर्वसत्त्वहितार्थभृत् ।
भद्रचारी महाअभिज्ञो महासत्त्वो जिनात्मजः ॥
इति बौद्धपदं प्राप्तुं यदीच्छसि जगद्धिते ।
बोधिचित्तं महारत्नं प्राप्तुं रत्नत्रयं भज ॥
त्रिरत्नभजनोत्पत्रपुण्यरत्नानुभावतः ।
बोधिचित्तं महारत्नं प्राप्स्यते जगद्धिते ॥
इति तेन जगच्छास्त्रा समादिष्टं निशम्य सः ।
बलिः प्रबोधितो बोधिचर्याव्रतं समैच्छत ॥
ततः स बलिरालोक्य तं लोकेशं जिनात्जम् ।
सांजलिः प्रणतिं कृत्वा प्रार्थयच्चैवमादरात् ॥
भगवंस्त्रिजगन्नाथो भवानेव जगद्गुरुः ।
समुद्धर्ता सुहृन्मित्रं कश्चिन्नैवापरो मम ॥
तदाज्ञां भवतां धृत्वा शिरसाहं समाहितः ।
त्रिरत्नभजनं कॄत्वा संचरिष्ये सुसंवरम् ॥
तच्चित्तरत्नसंप्राप्त्यै सर्वान् बुद्धान्मुनीश्वरान् ।
धर्मरत्नं च संघांश्च शरणं गच्छामि सर्वदा ॥
तेषां पूजां करिष्यामि श्रद्धया समुपस्थितः ।
धर्में श्रुत्वा च संघानां दास्ये यथार्हं भोजनम् ॥
अद्यारभ्य सदा तेषां मुनीन्द्राणामुपासकः ।
यथाविधि व्रतं धृत्वा चरिष्यामि जगद्धिते ॥
सच्चित्तरत्नग्रहणाय सम्यक्पूजां करोम्येष तथागतानाम् ।
सद्धर्मरत्नस्य च निर्मलास्य बुद्धात्मजानां च गुणाकराणाम् ॥

(९३)
यावन्ति पुष्पाणि fअलानि चौवं भैषज्यजातानि च यानिओ सन्ति ।
रत्नानि यावन्ति च सन्ति लोके जलानि च स्वच्छमनोरमाणि ॥
महीधरा रत्नमयास्तथान्ये वनप्रदेशाश्च विवेकरम्याः ।
लताः सुपुष्पाभरणोज्ज्वलाश्च दुमाश्च ये सत्fअलनम्रशाखाः ॥
देवादिलोकेषु च गन्धधूपाः कल्पद्रुमा रत्नमयाश्च वृक्षाः ।
सरांसि चाम्भोरुहभूषनानि हंसस्वनात्यन्तमनोहराणि ॥
अकृष्टजातानि च शस्यजातान्यन्यानि वा पूज्यविभूषणानि ।
आकाशधातिप्रसरावधीनि सर्वान्यपीमान्यपरिग्रहानि ॥
आदाय बुद्धया मुनीपुंगवेभ्यो निर्यातयाम्येष सपुत्रकेभ्यः ।
गृह्णन्तु तन्मे वरदक्षिणीया महाकृपा मामनुकम्पमानाः ॥
अपुण्यवानस्मि महादरिद्रः पूजार्थमन्यन्मम नास्ति किंचित् ।
अतो ममार्थय परार्थचिन्ता गृणन्तु नाथा इदमात्मशक्त्या ॥
ददामि चात्मानमहं जिनेभ्यः सर्वेण सर्वं च तदात्मजेभ्यः ।
परिग्रहं मे कुरुताग्रसत्त्वा युष्मासु दासत्वमुपैमि भक्त्या ॥
परिग्रणास्मि भवत्कृतेन निभीर्भवे सत्त्वहितं करोमि ।
पूर्वं च पापं समतिक्रमामि नान्यच्च पापं प्रकरोमि भूयः ॥
सबुद्धधर्मसंघेषु चैत्येषु प्रतिमासु च ।
पुष्परत्नादिवर्षाश्च प्रवर्तन्तां निरन्तरम् ॥
बोधिसत्त्वा महासत्त्वाः पूजयन्ति यथा जिनान् ।
तथा सर्वान्मुनीन्द्रांस्तान् सपुत्रान् पूजयाम्यहम् ॥
स्वरांगसागरैः स्त्रोत्रैः स्तौमि चाहं गुणोदधीन् ।
स्तुतिसंगीतिमेघाश्च संभवन्त्येष्वनन्यथा ॥
सर्वक्षत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहम् ।
सर्वांस्त्र्यध्वगतान् बुद्धान् सहधर्मगणोत्तमान् ॥
सर्वचैत्यानि वन्देऽहं बोधिसत्त्वाश्रयानपि ।
नमस्करोम्युपाध्यायानभिवन्द्यान् यतींस्तथा ॥
बुद्धं गच्छामि शरणं यावदाबोधिमण्दतः ।
धर्मं गच्छामि शरणं बोधिसत्त्वगणांस्तथा ॥

(९४)
विज्ञापयामि संबुद्धान् सर्वदिक्षु व्यवस्थितान् ।
महाकारुणिकांश्चापि बोधिसत्त्वान् कृतांजलिः ॥
अनादिगतिसंसारे जन्मन्यत्रैव वा पुनः ।
यन्मया पशुना पापं कृतं कारितमेव वा ॥
यच्चानुमोदितं किंचिदात्मघाताय मोहिनः ।
तदत्ययं देशयाम्यत्र पश्चात्तापेन तापितः ॥
रत्नत्रयेऽपकारो यो मातापितृषु वा मया ।
गुरुष्वन्येषु वा क्षोपात्कायवाग्बुद्धिभिः कृतः ॥
अनेकदोषदुष्टेन मया पापेन मोहना ।
यत्कृतं दारुणं पापं तत्सर्वं देशयाम्यहम् ॥
कथं च निःसराम्यस्मात्नित्योद्विग्नोऽस्मि साम्प्रतम् ॥
मा भून्मे मृत्युरचिरादक्षीणे पापसंचये ॥
कृताकृतोपरीक्षोऽयं मृत्युर्विश्रम्भघातकः ।
स्वस्थास्वस्थैरविश्वास्य आहस्मिकमहाशनिः ॥
प्रियाप्रियनिमित्तेन पापं कृतमनेनेकधा ।
सर्वमुत्सृज्य गन्तव्यं मया न ज्ञातमीदृशम् ॥
अप्रिया न भविष्यन्ति भविष्यन्ति न मे प्रियाः ।
अहं च न भविष्यामि सर्वं च न भविष्यति ॥
तत्तत्स्मरणतां याति यद्यद्वस्त्वनुभूयते ।
स्वप्नानूभूतवत्सर्वें गतं न पुनरीक्ष्यते ॥
इहैव तिष्ठतस्तावद्गतानेकप्रियाप्रियाः ।
तन्निमित्तं कृतं पापं मे पुरःस्थितम् ॥
एवमागन्तुकोऽमीती मया नैव समीक्ष्यते ।
मोहनुनयाविद्वेअषैः कृतं पापमनेकशः ॥
रात्रिंदिवमविश्राममायुषो वर्धते व्ययः ।
आयस्यज्यागमो मास्ति न मरिष्याम्यहं कथम् ॥
इह शय्यागतेनापि बन्धुमध्येऽपि तिष्ठता ।
मयैवैकेन सोढव्या मर्मछेदादिवेदना ॥

(९५)
यमदूतैर्गृहीतस्य कुतो बन्धुसुहृत्सखाः ।
पुण्यमेकं तदा त्राणं मया तत्रैव संचितम् ॥
अनित्यजीवीतासंगादित्थं भयमजानता ।
प्रमत्तेन मदान्धेन बहुपापं मयार्जितम् ॥
अंगछेदार्थमप्यन्यो नीयमानो विशुष्यति ।
पिपसितो दीनदृष्टिरन्यदेवेक्षते जगत् ॥
किं दुष्टैर्भैरवाकारैर्यमदूतैरधिष्ठितः ।
महात्रासंकरग्रस्तः पुरीषोत्सर्गवेष्टितः ॥
कातरैर्नत्रविक्षोपैस्त्राणान्वेषी चतुर्दिशम् ।
को मे महाभयादस्मात्साधुस्त्राता भवेदिह ॥
त्राणशून्या दिशो दृष्ट्वा पुनः संमोहमागतः ।
तदाहं किं करिष्यामि तस्मिन् स्थाने महाभये ॥
अधैव शरणं यामि जगन्नाथान्महाबलान् ।
जगद्रक्षार्थमुद्युक्तान् सर्वत्रासहरान् जिनान् ॥
तैश्चाधिगतं धर्मं संसारभयनाशनम् ।
शरणं यामि भावेन बोधिसत्त्वगणं तथा ॥
समन्तभद्रायात्मानं ददामि भयविह्वलः ।
विरौम्यार्तरवं भीतो भयं नाशयते द्रुतम् ॥
तत्र सर्वज्ञनाथस्य सर्वपापापहारिणः ।
वाक्यमुल्लंघयामीति धिग्मामत्यन्तमोहितम् ॥
तिष्ठाम्यत्यप्रमत्तोऽहं प्रयातेष्वितरेष्वपि ।
किमु योजनसाहस्रे प्रपाते दीर्घकालिके ॥
अद्यैव मरणं नैति न युक्त मे सुखासिका ।
अवश्यं न भविष्यामि कस्मान्मे सुस्थिनं मनः ॥
पूर्वानुभूते नष्टेभ्यः किं मे सारमवस्थितम् ।
येषु मेऽभिनिविष्टेन गुरुणां लंघिनं वचः ॥
जीवलोकमिमं त्यक्त्वा बन्धून् परिचितानपि ।
एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः ॥

(९६)
इयमेव तु मे चिन्ता युक्ता रात्रंदिवं सदा ।
अशुभान्नियतं दुःखं निःसरेयं ततः कथम् ॥
मया दुष्टेन मूढेन यत्पापं प्रकृतं पुरा ।
प्रकृत्या देशयाम्येष नाथानामग्रतोऽधुना ।
कृतांजलिर्दुःखभीतः प्रणिपत्य पुनः पुनः ॥
अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः ।
अभद्रकं पुनर्नाथा न करिष्यामि सर्वदा ॥
अपायदुःखविश्रामं सर्वसत्त्वैः कृतं शुमम् ।
अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः ॥
संसारे दुःखवैमोक्षमनुमोदे शरीरिनाम् ।
बोधिसत्त्वत्वबुद्धत्वमनुमोदे च तायिनाम् ॥
चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान् ।
सर्वसत्त्वहिताधानाननुमोदे च शासिनाम् ॥
सर्वदिक्संस्थितान् बुद्धन् प्रार्थयामि कृतांजलिः ।
धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम् ॥
जिनान्निर्वातुकामांश्च याचयामि समादरात् ।
कल्पोऽननल्पान्स्तिष्ठन्तु मा भूदन्धमिदं जगत् ॥
इत्युक्ते बलिना तेन लोकेश्वरो निशम्य निशम्य सः ।
साधु साध्विति संराध्य तं बलिं चैवमब्रवीत् ॥
क्षणसंपदियं सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी ।
यदि नात्र विचिन्त्यते हितं पुनरप्येष समागमः कुतः ॥
रात्रौ यथा मेघघनान्धकारे विद्युत्क्षणं दर्शयति प्रकाशम् ।
बुद्धानुभावेन तथा कदाचिल्लोकस्य पुण्येषु मतिःक्षणं स्यात् ॥
तस्माच्छुभं दुर्बलमेव नित्यं बलं तु पापस्य महत्सुघोरम् ।
तज्जीयतेऽयेन शुभेन केन संबोधिचित्तं यदि नाम न स्यात् ॥
कल्पाननल्पान् प्रतिचिंतयद्भिर्दृष्टं मुनीन्द्रैः हितमेतदेव ।
यतः सुखेनैव सुखं प्रवृद्धमुत्प्लावयत्यमितान् जनौघान् ॥

(९७)
भवदुःखशतानि तर्तुकामैरपि सत्त्वव्यसनानिओ हर्तुकामैः ।
बहुसौख्यशतानि भोक्तुकामैर्न विमोच्यं हि सदैव बोधिचित्तम् ॥
भवचारकबन्धनो वरो कः सुगतानां सुत उच्यते क्षणेन ।
सनरामरलोकवन्दनीयो भवति स्यादित एव बोधिचित्ते ॥
अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्घाम् ।
रसजातमतीव वेधनीयं सुदृढं गृह्णीष्व बोधिचित्तरत्नम् ॥
सुपरीक्षितमप्रमेयधीभीर्बहुमूल्यं जगदेकसार्थवाहैः ।
गतिपत्तनविप्रवासशीलाः सुदृढं गृह्णन्तु बोधिचित्तरत्नम् ॥
कदलीव fअलं विहाय याति क्षयमन्यत्कुशलं हि सर्वमेव ।
सततं fअलति क्षयं न याति प्रसवत्येव हि बोधिचित्तवृक्षः ॥
कृत्वापि पापानि सुदारुणानि यदाश्रयादुत्तरति क्षणेन ।
शूराश्रयेणैव महाभयानि नाश्रीयते तत्कथमज्ञसत्त्वैः ॥
युगान्तकालानलवन्महान्ति पापानि यन्निर्दहति क्षणेन ।
यस्यानुशंसानमितानुवाच मैत्रेयनाथः सुधनाय धीमान् ॥
तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः ।
बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च ॥
गन्तुकामश्च गन्तुश्च यथाभेदः प्रतीयते ।
तद्वद्भेदाऽनयोर्ज्ञेयो यथासंख्येन पण्डितैः ॥
बोधिप्रणिधिचित्तस्य सम्सारेऽपि महत्fअलम् ।
न त्वविच्छिन्नपुण्यत्वं यथाप्रस्थानचेतसः ॥
यतः प्रभृत्यपर्यन्तसत्त्वधातुप्रमोक्षणे ।
समाददाति तच्चित्तमनिवर्तेन चेतसा ॥
ततः प्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः ।
अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः ॥
जगदानन्दबीजस्य जगद्दुःखौषधस्य च ।
चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयते ॥
हिताशंसनमात्रेन बुद्धपूजा विशिष्यते ।
किं पुनः सर्वसत्त्वानां सर्वसौख्यार्थमुद्यमात् ॥

(९८)
दुःखमेवाभिधावन्ति दुःखनिःसरणाशयाः ।
सुखेच्छयैव संमोहात्स्वसुखं घ्नन्ति शत्रुवत् ॥
यस्तेषां सुखरंकाणां पीडितानामनेकशः ।
तृप्तं सर्वसुखैः कुर्यात्सर्वाः पीडाश्छिनत्ति च ॥
नाशयत्यपि संमोहं साधुस्तेन समः कुतः ।
कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः ॥
कृते यः प्रतिकुर्वीत सोऽपि तावत्प्रशस्यते ।
अव्यापारितः साधुस्तु बोधिसत्त्वः किमुच्यते ॥
इति मन्त्रयतौ जिनस्य पुत्रे कलुषं स्वहृदये करोति यः ।
कलुषोदयसंख्यया सकल्पान्नरकेष्वासतीति नाथ आह ॥
अथ यस्य मनः प्रसादमेति प्रसवेत्तस्य ततोऽधिकं fअलम् ॥
तस्माद्गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः ।
शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः ॥
त्वयापि च यथाशक्तिस्तत्र किं परिलम्ब्यते ।
नाद्य चेत्क्रियते यत्नं तलेनापि तलं व्रजेः ॥
यदि चैवं प्रतिज्ञाय साधयेनैव कर्मणा ।
एअतान् सर्वान् विसंवाद्य का गतिस्ते भविष्यति ॥
मनसा चिन्तयित्वा तु यो न दद्यात्पुनर्नरः ।
स प्रेतो भगवतीत्युक्तमल्पमात्रेऽपि वस्तुनि ॥
किमुतानुत्तरं सौख्यमुच्चैरुद्घुष्य भावतः ।
यस्मादापद्यमानोऽसौ सर्वसत्त्वार्थहानिकृत् ॥
योऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति ।
तस्य दुर्गतिपर्यन्तं नास्ति सत्त्वार्थघातिनः ॥
एकस्यापि हि सत्त्वस्य हितं हित्वा हतो भवेत् ।
अशोषाकाशपर्यन्तवासिनां किमु देहिनाम् ॥
अप्रेमेयागता बुद्धाः सर्वसत्त्वगवेषकाः ।
त्वमेषां न स्वदोषेण चिकित्साअगोचरं गतः ॥
न हीदृशैस्त्वच्चरित्रैः सद्गुतिर्लभ्यते पुनः ।
सद्गतावलभ्यमानायां पापमेव कुतः शुभम् ॥

(९९)
यदा कुशलयोग्योऽपि कुशलं त्वं करोषि न ।
अपायादुःखसंमूढ किं करिष्यसि तदा शुभम् ॥
अकुर्वतश्च कौशल्यं पापमेवोपचिन्नतः ।
हतः सुगतिशब्दोऽपि कल्पकोटिशतैरपि ॥
एके क्षणकृतात्पापादवीचौ कल्पमास्यते ॥
अनादिकालोपचितात्पापात्का सुगतौ कथा ॥
यदीदृशं क्षणं प्राप्य पुनः सीदसि मोहितः ।
शोचिष्यसि चिरं भूयो यमदूतैः प्रचोदितः ॥
चिरं धक्ष्यति ते कायं नारकाग्नि सुदुःसहः ।
पश्चात्तापानलचित्तं चिरं धक्ष्यत्यशिक्षितम् ॥
हस्तपादादिरहितास्तृष्णाद्वेषादिशत्रवः ।
न शुरा नैव ते प्राज्ञाः कथं दासीकृतोऽसि तैः ॥
त्वच्चितावस्थित्ता एव घ्नन्ति त्वामेव सुस्थिताः ।
अत्र ते चेतना नास्ति मन्त्रैरिव विमोहितः ॥
सर्वे देवा मनुष्याश्च यदि स्युस्तव शत्रवः ।
तेऽपि नावीचिकं वह्निं समुदानयितुं क्षमाः ॥
सर्वे हिताय कल्प्यन्ते स्वानुकूल्येन सेविताः ।
सेव्यमानस्त्वमी क्लेशाः सुतरां दुःखकारकाः ॥
भवचारकपालका इमे नरकादिष्वपि वध्यघातकाः ।
मतिवेश्मनि लोभयन् जले यदि तिष्ठन्ति कुत सुखं तव ॥
अकारणेनापि रिपुक्षतानि गात्रेष्वलंकारदुद्वहन्ति ।
महार्थसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मात्तव बाधकानि ॥
स्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः ।
शीतातपादिव्यसनं सहन्ते जगद्धितार्थं सहसे कथं न ॥
दुर्गापुत्रककर्णाढ्या दाहछेदादिवेदनाम् ।
मुधा सहन्ते मुक्त्यर्थं कस्मात्त्वमसि कातरः ॥
मुक्त्यर्थिनश्च यक्तं ते लोभसत्कारबन्धनम् ।
ये मोचयन्ति बन्धात्त्वां द्वेषस्तेषु कथं तव ॥
स्पृष्त उष्नोदकेनापि सुकुमारः प्रतप्यसे ।
कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते ॥
न किंचिदस्ति तद्वस्तु तदभ्यासस्य दुष्करम् ।
तस्माअमृदुव्यथाभ्यासात्सोढव्यापि महाव्यथा ॥
दुःखं नेच्छसि दुःखस्य हेतुमिच्छसि दुर्मते ।
स्वापराधागते दुःखे कस्मादन्यत्र दूष्यते ॥
मुक्त्वा धर्मरतिं श्रेष्ठामनन्तसुखसन्ततिम् ।
रतिराद्धत्यहासादौ दुःखहेतौ कथं तव ॥

(१००)
स्पृष्ट उष्णोदकेनापि सुकुमारः प्रतप्यसे ।
कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते ॥
न किंचिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम् ।
तस्माअमृदुव्यथाभ्यासात्सोढव्यापि महाव्यथा ॥
दुःखं नेच्छसि दुःखस्य हेतुमिच्छसि दुर्मते ।
स्वापराधागते दुःखे कस्मादन्यत्र दूष्यते ॥
मुक्त्वा धर्मरतिं श्रेष्ठामनन्तसुखसन्ततिम् ।
रतिराद्धत्यहासादौ दुःखहेतौ कथं तव ॥
बोधिच्छन्दवियोगेन पौर्वकेन तवाधुना ।
विपत्तिरीदृशी जाता तस्माद्बोधिं प्रसाधय ॥
मिथ्या कल्पनया चित्ते पापात्काये व्यथा यतः ।
तस्मात्कार्यं शुभे छन्दं भावयित्वैवमादरात् ॥
न प्राप्तं भगवन्पूजामहोत्साहसुखं त्वया ।
न कृता शासने कारा दरिद्राशा न पूरिता ॥
भीतेभ्यो नाभयं दत्तमार्ता न सुखिनः कृताः ।
केवलस्वात्मसौख्यार्थं यज्ञदानं कृतं त्वया ॥
अभिलाषविघाताश्च जायन्ते पापकारिणाम् ।
दुःखानि दौर्मनस्यानि भयानि विविधान्यपि ॥
पापकारी सुखेच्छश्च यत्र यत्राभिगच्छति ।
तत्र तत्रैव तत्पापैर्दुःखशस्त्रैअहन्यते ॥
मनोरथं शुभकृतां यत्र यत्रैव गच्छति ।
तत्र तत्रापि तत्पुण्यैः फलार्घ्येनाभिपूज्यते ॥
विपुलसुगन्धिशीतलसरोरुहगर्भगताः ।
मधुरजिनस्वराशनकृतोपचितद्युतयः ॥
मुनिकरबोधितां व्रज विनिर्गतसद्वपुषः ।
सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः ॥
यमपुषापनीतसकलछविरार्तरवो
हुतवहतापविद्रुतकताम्रनिषिक्ततनुः ।

(१०१)
ज्वलदसिशक्तिघातशतशातितमांसदलः
पतति सुतप्तलोहधरणीष्वशुभैर्बहुशः ॥
जन्मान्तरेऽपि सोऽभ्यासः पापाद्दुःखं वर्धते ।
अन्यच्च कार्यं कालं च हीनं तत्तनसाधितम् ॥
आपदा बाधतेऽल्पापि मनस्ते यदि दुर्बलम् ।
विषादकृतनिश्चेष्ट आपदः सुकरा ननु ॥
व्युत्थितश्चेष्तमानस्तु महतामपि दुर्जयः ।
तदेष मानो वोढव्यो जिनसिंहसुतो ह्यहम् ॥
ये भोग्यमानविजिता वराकास्ते न मानिनः ।
मानि शत्रुं वशं नेति मानशत्रुवशास्तु ते ॥
मानेन दुर्गतिं नीता मूर्खा दुर्दर्शनाः कृशाः ।
हताशाः परिभूताश्च मानुष्येऽपि हतोत्सवाः ॥
ते मानिनो विजयिनश्च त एव शूराः ये मानशत्रुविजयाय वहन्ति मानम् ।
ये तं स्फुरन्तमपि मानरिपुं निहत्य कामं जने जयfअलं प्रतिपादयन्ति ॥
कामैर्न तृप्तिः संसारे क्षुरधारामधूपमैः ।
पुण्यामृतैः कथं तृप्तिर्विपाकमधुरैः शिवैः ॥
कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति ।
येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः ॥
अवश्यं न धृतिं याति समाधौ न च तिष्ठति ।
नच तृप्यति दृष्ट्वापि पूर्वद्बाध्यते तृषा ॥
न पश्यति यथाभूतं संवेगादवहीयते ।
दद्यते तेन शोकेन प्रियसंगमकांक्षया ॥
तच्चिन्तया मुधा याति ह्रस्वमायुर्मुहुर्मुहुः ।
अशाश्वतेन मित्रेण धर्मो भ्रश्यति शाश्वतः ॥
बालैः स भागचरितो नियतं याति दुर्गतिम् ।
नेष्यते विसभागश्च किं प्राप्तं बलसंगमात् ॥

(१०२)
क्षणाद्भवन्ति सुहृदो भवन्ति रिपवः क्षणात् ।
तोषस्थाने प्रकुप्यन्ति दुराराध्याः पृथग्जनाः ॥
हितमुक्ताः प्रकुप्यन्ति वारयन्ति च ते हितात् ।
अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम् ॥
ईर्ष्योत्कृष्टात्समाद्वन्द्वो हीनात्मानः स्तुतेर्मदः ।
अवर्णात्प्रतिघश्चेति कदा बालाद्धितं भवेत् ॥
आत्मोत्कर्षः परावर्णः संसाररतिसंकथा ।
इत्याद्यवश्यमशुभं सर्वथा बालसंगमात् ॥
तस्मात्प्राज्ञो न तामिच्छेदिच्छातो जायते भयम् ।
नानाधिमुक्तिकाः सत्त्वा जिनैरपि न तोषिताः ॥
बहवो लाभिनोऽभूवन् बहवश्च यशस्विनः ।
सहलाभयशोभिस्तेन ज्ञाताः क्व गता इति ॥
कामा ह्यनर्थजनका इहलोके परत्र च ।
इह बन्धवधछन्दैर्नारकादौ परत्र च ॥
यदर्थं दूतदूतीइनां कृतोंऽजलिरनेकधा ।
न च पापमकीर्त्तिर्वा यदर्थं गणिता पुरा ॥
प्रक्षिप्तश्च भयेऽप्यात्मा द्रविणं च व्ययीकृतम् ।
यान्येव च परिष्वज्य बभूवोत्तमनिर्वृतिः ॥
तान्येवास्थीनि नान्यानि स्वाधीनान्यममानि च ।
प्रकामं संपरिष्वज्य किं न गच्छति निर्वृतिम् ॥
एकस्मादशनादासां लालामेध्यं च जायते ।
तत्रामेध्यमनिष्ठं ते लालापानं कथं प्रियम् ॥
यदि न तेऽशुचौ रागः कस्मादालिंगसे परम् ।
मांसकर्दमसंलिप्तं स्नायुबद्धास्थिपंजरम् ॥
अमेध्यभवमल्पत्वान्न वांछस्यशुचिं कृमिम् ।
बह्वमेध्यमयं कायममेध्यजमपीच्छसि ॥
श्मशाने परितान् घोरान् कायां पश्यापरानपि ।
कथं ज्ञात्वापि तत्रैव पुनरुत्पद्यते रतिः ॥

(१०३)
मानार्थं दासतां यान्ति मुढाः कामविदम्बिताः ।
दह्यन्ते छिद्यमानाश्च हन्यमानाश्च शक्तिभिः ॥
अर्जनरक्षणेनाथ विषादैरर्थमनन्तमवेहि ।
व्यग्रतया धनसत्तमतीनां नावसरो भवदुःखविमुक्त्यै ॥
मायया निर्मितं सर्वं हेतुभिर्यच्च निर्मितम् ।
आयाति तत्कुतः कुत्र याति चेति निरुप्यताम् ॥
स्वप्नोपमास्तु गत्यो विचारे कदलीसमाः ।
निर्वृतानिर्वृतानां च विशेषो नास्ति वस्तुतः ॥
एवं शून्येषु भावेषु किं लब्धं किं हृतं भवेत् ।
सत्कृतः परिभूतो वा केन कः संभविष्यति ॥
कुतः सुखं वा दुःखं वा किं प्रियं वा किमप्रियम् ।
का तृष्णा कुत्र सा तृष्णा मृग्यमाना स्वभावतः ॥
विचारे जीवलोके हि को नामात्र मरिष्यते ।
को भविष्यति को भूतः को बन्धुः कस्य कः सुहृत् ॥
सर्वमाकाशसंकाशं परिगृह्णीष्व तत्तथा ।
प्रकुप्यन्ति प्रहृष्यन्ति कलहोत्सवहेतुभिः ॥
शोकायासौविषादैश्च मिथश्छेदनभेदनैः ।
यापयन्ति सुकृच्छ्रेण पापैरात्मसुखेच्छवः ॥
मृताः पतन्त्यपायेषु दीर्घतीव्रव्यथेषु च ।
आगत्त्यागत्य सुगतिं भूत्वा भूत्वा सुखोचिताः ॥
भवे बहुप्रपातश्च तत्र वा तत्त्वमीदृशम् ।
तत्रान्योन्यविरोधश्च न बह्वेत्तत्त्वमीदृशम् ॥
तत्र चानुपमास्तीव्रा अनन्ता दुःखासागराः ।
तत्रैवमल्पबलता तत्राप्यल्पत्वमायुषः ॥
तत्रापि जीवितारोग्यव्यापारैः क्षुत्क्लमश्रमैः ।
निद्रयोपद्रवैर्बालैः सत्संगैनिष्fअलैस्तथा ॥
वृथैवायुर्वहत्याशु विवेकस्तु सुदुर्लभः ।
तत्राप्यभ्यस्तविक्षेपनिवारणगतिः कुतः ॥

(१०४)
तत्रापि यतते मारो महापायप्रपातने ।
तत्रासन्मार्गबाहुल्यं विचिकित्सा च दुर्जया ॥
पुनश्च क्षणदौर्बल्यं बुद्धोत्पादोऽतिर्लभः ।
क्लेशौघो दुर्निवारश्चेत्यहो दुःखपरम्परा ॥
अहो बतातिशोच्यत्वमेषां दुःखौघवर्तिनाम् ।
येनेक्षन्ते स्वदौःस्थित्यमेवमप्यतिदुःखिताः ॥
स्नात्वा स्नात्वा यथा कश्चिद्विशेद्वह्निं मुहुर्मुहुः ।
स्वसौस्थित्यं न मन्यन्त एवमप्यतिदुःस्थिताः ॥
अजरामरशीलानामेवं विहरतां सताम् ।
आयास्यन्त्यापदो घोरा कृत्वा मरणमग्रतः ॥
एवं दुःखातप्तानां शान्त्यै बोधिव्रतं चर ।
बोधिव्रतं महत्पुण्यं संबोधिज्ञानसाधनम् ॥
पुण्यमेघसमुद्भूतैः सुखोपकरणैः स्वकैः ।
सदोपलम्भदृष्टिभ्यो बुद्धादेशय शून्यताम् ॥
संवृत्यानुपलम्भेन पुण्यसंभारमाचर ।
तस्माद्यथार्त्तिशोकादेरात्मानं गोप्तुमिच्छसि ॥
रक्षाचित्तं दयाचित्तं जगत्यभ्यस्यतां तथा ।
दुष्करान्मा निवर्तस्व तस्मासभ्यासशक्तितः ।
यस्यैव श्रवणात्त्रासस्तैरेव न विना रतिः ॥
आत्मानं च परांश्चैव यः शीघ्र त्रातुमिच्छति ।
स चरेत्परमं गुह्यं परात्मसमवर्तनम् ॥
यस्मिनात्मन्यतिस्नेहादल्पासपि भयाद्भयम् ।
न द्विषेत्कस्तमात्मानं शत्रुवद्यो भयावहः ॥
यो मान्यक्षुप्तिपासादिप्रतीकारचिकीर्षया ।
पक्षिमत्स्यमृगान् हन्ति परिपन्थं च तिष्ठति ॥
यो लाभसत्क्&॰६१७८३;रियाहतोः पितरावपि मारयेत् ।
रत्नत्र्यस्वमादद्याद्येनावीचिन्धनो भवेत् ॥
कः पण्डितस्तमात्मानमिच्छेद्रक्षेत्प्रपूजयेत् ।
न पश्येच्छत्रुवच्चैनं कश्चैवं प्रतिमानयेत् ॥

(१०५)
यदि दास्यामि किं भोज्ये इत्यात्मार्थे पिशाचता ।
भोक्ष्ये चेत्किं ददामीति परार्थे देवराजता ॥
आत्मार्थं पीडयित्वान्यन्नरकादिषु पच्यते ।
आत्मानं पीडयित्वा तु परार्थे सर्वसंपदः ॥
दुर्गतिर्नीचता सौख्यं ययेवात्मोन्नतीच्छया ।
तामेवान्यत्र संक्राम्य सुगतिः सत्कृतिर्मतिः ॥
आत्मार्थं परमाज्ञाप्य दासत्वाद्यनुभूयते ।
परार्थं स्वयमाज्ञाप्य स्वामित्वाद्यनुभूयते ॥
ये केचिद्दु&॰२८९;खिता लोके सर्वे ते स्वसुखेच्छया ।
य केचित्सुखिता लोके सर्वे तेऽन्यसुखेच्छया ॥
बहुनात्र किमुक्तेन दृश्यतामिदमन्तरम् ।
स्वार्थार्थिनश्च बालस्य मुनेश्चान्यार्थकारिणः ॥
न नामसाध्यं बुद्धत्वं संसारेऽपि कुतः सुखम् ।
स्वसुखस्यान्यदुःखेन परिवर्त्तमकुर्वतः ॥
आस्तां तावत्परो लोको दृष्टोऽप्यर्थो न सिध्यति ।
भृत्यस्याकुर्वतः कर्म स्वामिनोऽददतो भृतिम् ॥
त्यक्त्वान्योन्यसुखोत्पादं दृष्ट्वादृष्टसुखोत्सवम् ।
अन्योन्यदूषणाद्घोरं दुःखं गृह्णन्ति मोहिताः ॥
उपद्रवा ये च भवन्ति लोके यावन्ति दुःखानि भयानि चैव ।
सर्वाणि तान्यात्मपरिग्रहेण तत्किं तव स्वात्मपरिग्रहेण ॥
आत्मानमपरित्यज्य दुःखं त्यक्तुं न शक्यते ।
यथाग्निमपरित्यज्य दाहस्त्यक्तुं न शक्यते ॥
तस्मात्स्वदुख शान्त्यर्थं परदुःखशमाय च ।
ददस्वान्येभ्य आत्मानं परान् गृह्णीष्व चात्मवत् ॥
अन्यसंबन्धितोऽस्मीति निश्चयं कुरु संमते ।
सर्वं सत्त्वार्थमुत्सृज्य नान्यच्चिन्त्यं त्वयाधुना ॥
सर्वमेतत्सुचरितं दानं सुगतपूजनम् ।
कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत् ॥

(१०६)
न च द्वेषसमं पापं न च क्षान्तिसमं तपः ।
तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः ॥
मनः शमं न गृह्णाति न प्रीतिसुखमश्रूते ।
न निद्रां न धृतिं द्वेसशल्ये हृदि स्थिते ॥
पूजयत्यर्थमानैर्यान्येऽपि चैनं समाश्रिताः ।
तेऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम् ॥
सुहृदोऽप्युद्विजन्तेऽस्माद्ददाति चेन्न सेव्यते ।
संक्षेपान्नास्ति तत्किंचित्क्रोधनो येन सुस्थितः ॥
न द्विषन्तः क्षयं यान्ति दुर्जना गगनोपमाः ।
मारिते क्रोधचित्ते तु नश्यन्ते सर्वशत्रवः ॥
विकल्पेधनदिप्तेन जन्तुः क्रोधाग्निना किल ।
दहत्यात्मानमेवादौ परं धक्ष्यति वा न वा ॥
जरा रुपवतां क्रोधः तमश्चक्षुष्मतामपि ।
वधो धर्मार्थकामानां तस्मात्क्रोधं निवारयेत् ॥
अनिष्टकरणाज्जातमिष्टस्य च विघातनात् ।
कोधं यो हन्ति निर्बन्धात्स सुखीह परत्र च ॥
अत्यनिष्ठागमेनापि न क्षोभ्या मुदिता त्वया ।
दौर्ममनस्येऽपि नास्तीष्टं कुशलं त्ववहीयते ॥
यद्यस्त्येव प्रतीकारो दौर्मनस्येन तत्र किम् ।
अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम् ॥
गुणोऽपरश्च दुःखस्य यत्सम्वेगान्मदच्युतिः ।
संसारिषु च कारुण्यं पापाद्भीतीर्जिने स्पृहा ॥
ये केचिदपराधास्तु पापानि विविधानि च ।
तत्सर्वं प्रत्ययबलात्स्वतन्त्रस्तु न विद्यते ॥
तस्मान्मित्रममित्रं वा दृष्ट्वाप्यन्यायकारिणम् ।
ईदृशाः प्रयया अस्येत्येवं मत्वा सुखी भव ॥
त्वत्कर्मचोदिता एव जातास्त्वय्यपकारिणः ।
येन यास्यन्ति नरकान् त्वयैव ते हता ननु ॥

(१०७)
एतानाश्रित्य ते पापं क्षीयते क्षमता बहु ।
त्वामाश्रिय तु यान्त्येते नरकान् दीर्घवेदनान् ॥
त्वमेवास्यपकार्येषां तवैते चापकारिणः ।
मोहादिके पराध्यन्ते कुप्यन्त्यन्येऽपि मोहिताः ॥
एवं बुध्वा तु सत्त्वेषु क्षान्तिं धृत्वा शुभे चर ।
येन सर्वे भविष्यन्ति मैत्रचित्ताः परस्परम् ॥
स्तुतियशोऽर्थसत्कारा न पुण्या यतर्चषुष्वे ।
न बलार्थं न चारोग्येन च कायसुखाय ते ।
स्तुत्यादयश्च ते क्षेमं संवेगं नाशयन्त्यपि ।
गुणवत्स्वपि मात्सर्यं सम्पत्कोपं च कुर्वते ॥
तस्मात्स्तुत्यादिघाताय ये तव प्रत्युपस्थिताः ।
अपायपातरक्षार्थं प्रवृत्तास्तद्विषस्तव ॥
दुःखप्रवेष्टुकामस्य ये कपाटत्वमागताः ।
बुद्धाधिष्ठानत जाता इव द्वेषस्तेषु कथम् ॥
पुण्ये विघ्नः कृतोऽनेनेत्यत्र को यो न युज्यते ।
क्षान्त्या समं तपो नास्ति न त्वेतत्तदुपस्थितम् ॥
अथ त्वमात्मदोषेण न करोषि क्षमामिह ।
त्वयैवात्र कृतो विघ्नः पुण्यहेतावुपस्थिते ॥
न कालोपपन्नेन दानविघ्नः कृतोऽथिना ।
न च प्राव्राजके प्राप्ते प्रव्रज्य बिघ्न उच्यते ॥
सुलभा याचका लोके दुर्लभास्त्वपकारिणः ।
यतस्तेऽनपराद्धस्य न कश्चिदपराध्यति ॥
अश्रमोपार्जितस्तस्माद्गृहे निधिरिवोत्थितः ॥
बोधिचर्यासहायत्वात्स्पृहणीयस्सदा रिपुः ।
अपकाराशयोऽसेऽतिशत्रुर्यदि न पूज्यते ॥
अन्यथा ते कथं क्षान्तिर्भिषग्जीवहितोद्यते ।
तद्दुष्टाशयमेवातः प्रतीत्योत्पद्यते क्षमा ।
स एवातः क्षमाहेतुः पूज्यस्स धर्मवत्सदा ॥

(१०८)
सत्त्वक्षेत्रं जिनक्षेत्रमित्यतो मुनिनोदितम् ।
एतानाराध्य बहवः सम्पत्पारं यतो गताः ॥
सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे समे ।
जिनेषु गौरवं यद्वन्न सत्त्वेष्विति कः क्रमः ॥
मैत्र्याशयस्तु यत्पूज्यः सत्त्वमाहात्म्यमेव तत् ।
बुद्धप्रसादाद्यत्पुत्यं बुद्धमाहात्ममेव तत् ॥
बुद्धधर्मागमांशेन तस्मात्सत्त्वा जिनैः समाः ।
न तु बुद्धैः समाः केचिदनन्तांशैर्गणार्णवैः ॥
गुणसारैकराशीनां गुणोऽणुरपि चेत्क्वचित् ।
दृश्यते तस्य पूजार्थं त्रैलोक्यमपि न क्षमम् ॥
बुद्धधर्मोदयांशश्च श्रेष्ठः सत्त्वेषु विद्यते ।
एतदंशानुरुपेण बुद्धपूजा कृता भवेत् ॥
किं च निश्च्छद्मबन्धूनामप्रमेयोपकारिणाम् ।
सत्त्वाराधनमुत्सृज्य निष्कृतिः कापरा भवेत् ॥
येषां सुखे यान्ति मुदं मुनीन्द्रा येषां व्यथायां च प्रविशन्ति मन्युम् ।
तत्तोषणात्सर्वमुनीन्द्रतुष्टिस्तत्रापकारेष्वकृतं मुनीनाम् ॥
आदीप्तकायस्य यथासमन्तान्न सर्वकामैरपि सौमनस्यम् ।
सत्त्वव्यथायामपि तद्वेदेवमप्रीत्युपायोऽस्ति दयामयानाम् ॥
आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिर्नैव हि संशयोऽस्ति ।
दृश्यन्ते एते ननु सत्त्वरुपास्त एव नाथाः किमनादरोऽत्र ॥
तथागताराधनमेतदेव स्वार्थस्य संसाधनमेतदेव ।
लोकस्य दुःखापहमेतदेव तस्मात्तवास्तु व्रतमेतदेव ॥
आस्तां भविष्यबुद्धत्वं सत्त्वाराधनसम्भवम् ।
इहैव सौभाग्ययशः सौस्थित्यं किन्न पश्यसि ॥
प्रासादिकत्वमारोग्यं प्रामोद्यं चिरजीवितम् ।
चक्रवर्त्तिसुखं स्fईतं क्षमी प्राप्नोति संसरन् ॥
एवं क्षमो भजेद्वीर्यं वीर्यं बोधिर्यतः स्थिता ।
न हि वीर्यं विना पुण्यं यथा वायुं विन गतिः ॥

(१०९)
वीर्यं हि सर्वगुणरत्ननिधानभूतं सर्वापदस्तरति वीर्यमहाप्लवेन ।
नैवास्ति तज्जगति वस्तु विचिन्त्यमानं नाप्नुयाद्यदिह वीर्यरथाधिरुढः ॥
युद्धेषु यकरितुरंगपदातिमत्सु नाराचतोमरपरश्वधसंकुलेषु ।
हत्वा रिपून् जयमनुत्तममाप्नुवन्ति विष्णुर्जितं तदह वीर्यमहाहटस्य ॥
अम्भोनिधीन्मकरवृन्दविघट्टिताबुतुंगाकुलाकुलतंरगविभंगभीमान् ।
विर्येण गोष्पदमिव प्रविलंघ्य शूराः कुर्वन्त्यनर्घगुणरत्नधनार्जनानि ॥
रागादीनूरगानिवोग्रवपुषो विष्टभ्य धैर्यान्विताः ।
शीलं सज्जनचित्तनिर्मलतरं सम्यक्तमादापयेत् ॥
मर्त्याः कान्ततरेषु मेरुशिखरोपान्तेषु वीर्यान्विताः ।
मोदन्ते सुरसुन्दरीभुजलतापाशोपगुढाश्चिरम् ॥
यद्देवो वियति विमान्बवासिनो ये निर्द्वन्द्वाः समनुभवन्ति सौमनस्यम् ।
अत्यन्तं विपुलfअलप्रसूतिहेतो वीर्यस्थिरविहितस्य सा विभूतिः ॥
क्लेशारिवर्गं त्वभिभूय धीराः संबोधिलक्ष्मीपदमाप्नुवन्ति ।
बोध्यंगदानं प्रदिशन्ति सद्भ्यो ध्यानं हि तत्र प्रवदन्ति हेतुम् ॥
जन्मप्रबन्धकरणैकनिमित्तभूतान् राजादिदोषनिचयान् विदार्य सर्वान् ।
आकाशतुल्यमनसः समलोष्टहेमाध्यानाद्भवन्ति मनुजा गुणहेतुभूताः ॥
प्रज्ञाधनेन विकलं तु नरस्य रुपमालेख्य रुपमिव सारविहीनमन्तः ।
बुद्धयान्वितस्य fअलमिष्टमुदेति वीर्याद्वीर्यन्तु बुद्धिरहितं स्ववधायशत्रुः ॥
यद्बुद्धो मर्त्यलोके मलतिमिरगणं दारयित्वा महान्तम् ।
ज्ञानालोकं करोति प्रहरति च सदा दोषवृन्दं नराणाम् ॥
आदेष्ट्य चेन्द्रियाणां परमनुजमनो वेत्ति सर्वैः प्रकारैः ।
प्रज्ञां तत्रापि नित्यं शुभवरजननीं हेतुमत्कीर्तयन्ति ॥
कार्यार्णवे वापि दृढं निमग्नाः संग्राममध्ये मनुजाः प्रधानाः ।
प्रज्ञावशात्ते विजयं लभन्ते प्रज्ञा ह्यतः सा शुभहेतुभूता ॥
तस्मात्सर्वगुणार्थसाधनकरी प्रज्ञैव संवर्ध्यताम् ।
न प्रज्ञा विकला विभान्ति पुरुषाः प्राताःप्रदीपा इव ॥
स्वर्गापवर्गगुणरत्ननिधानभूता एताः षडेव भुवि पारमिता नराणाम् ।
ज्ञात्वा भवस्व हितसाधनतत्परस्त्वं कुर्या अतः सततमेव शुभे प्रयत्नम् ॥

(११०)
सद्धर्मसाधनं कायमितरार्थं न पीडयेः ।
एवं बुध्वा हि सत्त्वानामाशामाशु प्रपूरयेः ॥
आचारो बोधिसत्त्वानामप्रमेय उदाहृतः ।
चित्तशोधनमाचारं नियतं तावदाचर ॥
या अवस्थाः प्रपद्यन्ते स्वयं परवशोऽपि वा ।
तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः ॥
न ही तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः ।
न तदस्ति न यत्पुण्यमेवं विहरतः सतः ॥
पारम्पर्येण साक्षाद्वा सत्त्वार्थात्मान् सदा चर ।
सत्त्वानामेव चार्थाय सर्वं बोधाय नामय ॥
सदाकल्याणमित्रं च जीवितार्थेऽपि मा त्यज ।
बोधिसत्त्वव्रतधरं महायानार्थकोविदम् ॥
इत्येवं लोकनाथेन समादिष्टं निशम्य सः ।
बलिरश्रुविरुक्षास्यो रुदित्वा चैवमबव्रीत् ॥
आकृतं किं मया नाथ यज्ञं तीर्थिकसम्मतम् ।
यस्येह fअलं भुंजानो वसाम्यत्र जनैः सह ॥
त्राहि मां भगवन्नथ पापिनं मूढमानसम् ।
सजनोऽहं सदा शास्तर्भवतां शरणं व्रजे ॥
नमोऽस्तु बोधिसत्त्वाय शुभपद्मधराय ते ।
पद्मश्रीभूषितांगाय जटामकुटधारिणे ॥
जिनराजशिरस्काय सत्त्वाश्वासप्रदाय च ।
हीनदीनानुकम्पाय दिनकृद्वरचक्षुषे ॥
पृथिवीवरनेत्राय भैषज्यराजकाय च ।
सुशुद्धसत्त्वनाथाय परमयोगधारिणे ॥
मोक्षप्रवरधर्माय मोक्षमार्गोपदर्शिने ।
चिन्तामणिप्रभासाय धर्मगंजाभिपालिने ॥
षण्णां पारमितानां च निर्देशनकराय च ।
बोधिमार्गोपदिष्टाय सुचेतनकराय च ॥

(१११)
एवं स्तुत्वा स दैत्येन्द्रो लोकनाथं तमीश्वरम् ।
सांजलिर्मुदितो नत्वा पुनरेवमभाषत ॥
रक्ष मां दुर्मतिं नाथ समुद्धर भवोदधेः ।
बोधिमार्गे प्रतिष्ठाप्य नियोजय शुभे वृषे ॥
अद्यारभ्य सदा नाथ त्रिरत्नशरणं गतः ।
बोधिचर्याव्रतं धृत्वा संचरेयं जगद्धिते ॥
सर्वदिक्षु स्थितान्नाथान् संबुद्धांश्च मुनीश्वरान् ।
कृतांजलिः सदा स्मृत्वा नमामि शरणे स्थितः ॥
यच्च धर्मं जिनैः सर्वैः समादिष्टं जगद्धिते ।
तत्सद्धर्ममहं धृत्वा संचरिष्ये सदा शुभे ॥
सर्वाल्लोकधिपान्नाथान् बोधिसत्त्वान् जिनात्मजान् ।
तानप्यहं सदा स्मृत्वा भजानि शरणे स्थितः ॥
एवं तद्भजनं कृत्वा यन्मया साधितं शुभम् ।
तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत् ॥
ग्लानानामस्मि भैअज्यं भवेयं वैद्य एव च ।
तदुपस्थायकश्चापि यावद्रोगी पुनर्भवे ॥
क्षुत्पिपाअसाव्यथां हन्यामन्नपानप्रवर्षणैः ।
दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम् ॥
दरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः ।
नानोपकरणाकारैरुपतिष्ठेयमग्रतः ॥
आत्मभावांस्तथा भोगन् सर्वं त्र्यध्वगतं शुभम् ।
निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये ॥
सर्वत्यागश्च निर्वाणं निर्वानार्थि च मे मनः ।
त्यक्तव्यं चेन्मया सर्वं वरं सत्त्वेषु दीयते ॥
यथासुखीकृतश्चात्मा कर्तव्यो जयतां मया ।
घ्नन्तु निन्दन्तु वा नित्यमाकिरन्तु च पांशुभिः ॥
क्रीडन्तु मम कायेन हसन्तु विलसन्तु च ।
दत्तस्तेभ्यो मया कायश्चिन्तया किं ममान्यथा ॥

(११२)
कारयन्तु च कर्माणि यानि तेषां सुखावहे ।
अनर्थः कस्यचिन्मा भून्मामालम्ब्य कदाचन ॥
येषां क्रुद्धा प्रसन्ना वा मामालम्ब्य मतिर्भवेत् ।
स एव तेषां हेतुः स्यान्नित्यं सर्वार्थसिद्धये ॥
अत्याख्यास्यन्ति मां ये च ये चान्येऽप्यपकारिणः ।
उत्प्रासकास्तथान्ये वा सर्वे स्युर्बोधिभागिनः ॥
अनाथानामहं नाथः सार्थर्वाहश्च जायिनाम् ।
पारेप्सुनां च नौभूतः सेतुः संक्रम एव च ॥
दीपार्थिनामहं दीपः शय्या शय्यार्थिनामहम् ।
दासार्थिनामहं दासो भवेयं सर्वदेहिनाम् ॥
चिन्तामणिर्भद्रधटः सिद्धविद्यामहौषधिः ।
भवेयं कल्पवृक्षश्च कामधेनुश्च देहिनाम् ॥
पृथिव्यादीइनि भूतानि निःशेषाकाशवासिनाम् ।
सत्त्वानामप्रमेयाणां यथाभोओग्यन्यनेकधा ॥
एवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा ।
भवेयमुपजीव्योऽहं यावत्सर्वे न निर्वृताः ॥
यथा गृहितं सुगतैर्बोधिचित्तं पुरातनैः ।
ते बोधिसत्त्वशिक्षायामानुपूर्व्या यथास्थिताः ॥
तद्वदुत्पादयाम्येष बोधिचित्तं जगद्धिते ।
तद्वदेव च ताः शिक्षाः शिक्षिस्यामि यथाक्रमम् ॥
अद्य मे सfअलं जन्म सुलब्धाः सारसंपदः ।
अद्य बुद्धकुले जातो बुद्धपत्रोऽस्मि साम्प्रतम् ॥
तथाधुना मया कार्यं स्वकुलोचितकारिणा ।
निर्मलस्य कुलेऽस्यास्य कलंको न भवेद्यथा ॥
अन्धः सत्कालकूटेभ्यो यथाअ रत्नमवाप्नुयात् ।
तथा कंखचिदप्येतद्बोधिचित्तं ममोदितम् ॥
जगन्मृत्युविनाशाय जातमेतद्रसायनम् ।
जगद्दारिद्रयशमनं निधानमिदमक्षयम् ॥

(११३)
जगद्व्याधिप्रशमनं भैषज्यमिदमुत्तमम् ।
भवाब्धभ्रमणश्रान्तजगद्विश्रामपादपः ॥
दुर्गत्युत्तरणे सेतुः सामान्यः सर्वपापिनाम् ।
जगत्क्लेशोष्मशमन उदितश्चित्तचन्द्रमाः ॥
जगदज्ञानतिमिरप्रोत्सारणमहारबिः ।
सद्धर्मक्षीरमथनान्नवनीतं समुत्थितम् ॥
सुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाब्धचारिणः ।
सुखस्त्रमिदं ह्युपस्थितं सकलाभ्यागतसत्त्वतर्पणम् ॥
जगदद्य मया निमन्त्रितं सुगतत्वेन सुखेन चान्तरा ।
पुरतः खलु सर्वतायिनामभिनन्दन्तु सुरासुरादयः ॥
तस्मान्मया यज्जनदुःखदेन दुःखं कृतं सर्वमहाकृपानाम् ।
तदद्य पापं प्रतिदेशयामि यत्खेदितास्तन्मुनयः क्षमन्ताम् ॥
आराधना याद्य तथागतानां सर्वात्मन दासमुपैमि लोके ।
कुर्वन्तु मे मूर्ध्नि पदं जनौघा निघ्नन्तु वा तुष्यतु लोकनाथः ॥
त्वामेवाहमृषिं व्रजामि शरणं प्राणैरपि प्राणिनाम्
एकं बान्धवमेकेव सुहदं शास्तारमेकं गुरुम् ।
त्रानं त्रैभुवार्त्तिगह्वरदरीव्यावर्त्तिनां प्राणिनाम्
आचार्यं परमर्थतत्त्वविषये भूतार्थनाथं विभुम् ॥
मन्ये पूतमिवात्मभावमधुना शास्तुः प्रणामोद्भवैः
पुण्यम्भोभिरखण्डमण्डलशशिज्योत्स्नावली निर्मलैः ।
को वा त्वं प्रणिपत्य सान्द्रकरुणां प्रह्लादिताध्याशयं
तीव्रापायवतीं विषादनकरीं तीर्णां न दुःखापगाम् ॥
स्वाभिप्रायमतो ब्रवीमि सकलं संसारमप्युत्सहे
वस्तुं भीमभयानके लोकेश्वरालंकृते ।
न त्वेवैकपि क्षणं सुरपुरे संबुद्धशून्ये जगत्य्
उद्वृत्तक्षतवृत्तराक्षसगणव्यालुप्तपुण्योत्सवे ॥
तद्यावन्न पतति सर्व एव लोको दुर्दृष्टिव्रतविवृते प्रमादकूपे
सर्वज्ञप्रवचनभास्करे गतेऽस्तं तत्तावद्वचनरसायनैर्निषेव्यम् ।

(११४)
पापाभ्यासकलंकितान्यपि यतः कल्याणमित्राश्रयात्
तोयानीव घनात्यये विमलतां चेतांसि गच्छन्त्यतः ।
सम्यक्मित्रसमागमोत्सवसुखान्याश्रित्य तस्मात्सदा
सेव्याः सत्पुरुषा निरत्ययगुणश्रीसम्पदं वांछता ।
एवं विनिश्चित्य करोमि यत्नं यथोक्तशिक्षाप्रतिपत्तिहेतोः
वैद्योपदेशाच्चलतः कुतोऽस्ति भैषज्यसाध्यस्य निरामयत्वम् ॥
इति तेनासुरेन्द्रेण समाख्यातं निशम्य सः ।
लोकेश्वरः समालोक्य तं बलिं चैवमब्रवीत् ॥
साधु साधु महाराज यद्येवं व्रतमिच्छसि ।
तावच्चित्तं समाधाय शिक्षां रक्ष प्रयत्नतः ॥
शिक्षां रक्षितुकामेन चित्त रक्षयं प्रयत्नतः ।
न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता ॥
अदान्ता मत्तमातंगा न कुर्वन्तीह तां व्यथाम् ।
करोति यामवीच्यादौ मुक्तश्चित्तमतंगजः ॥
बद्धश्चेच्चित्तमातंगः स्मृतिरज्ज्वा समन्ततः ।
भयमस्तं गतं सर्वं सर्वं कल्याणमागतम् ॥
व्याघ्राः सिहां गजा ऋक्षाः सर्पाः सर्वे च शत्रवः ।
सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा ॥
सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात् ।
चित्तस्यैकस्य दमनात्सर्वे दान्ता भवन्त्यपि ॥
यस्माद्भयानि सर्वाणि दुःखानि विविधान्यपि ।
चित्तादेव भवन्तीति प्रोक्तं सर्वमुनीश्वरैः ॥
तस्माच्चित्तं समाधाय स्मृत्वा रक्षन् प्रयत्नतः ।
चित्तादेव हि सर्वत्र भयं भद्रं च जायते ॥
शस्त्राणि नरके केन घट्टितानि प्रयत्नतः ।
तप्तायःकुट्टिमं केन कुतो जाताश्च ता स्त्रियः ॥
पापचित्तसमुद्भूतं तं तु सर्वं जगुर्जिनाः ।
तस्मात्कश्चिन्न त्रैलोक्ये चित्तादन्यो भयानकः ॥

(११५)
अद्ररिद्रं जगत्कृता दानपारमिता यदि ।
जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम् ॥
फलेन सह सर्वस्वत्यागचित्ते जनेऽखिले ।
दानपारमिता प्रोक्ता तस्मात्सा चित्तमेव हि ॥
मत्स्यादयः क्व नीयन्तां मारयेयुर्यतो नतान् ।
लब्धे विरतिचित्ते तु शीलपारमिता मता ॥
कियतो मारयिष्यामि दुर्जनान् गगनोपमान् ।
मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः ॥
भूमिं छादयितुं सर्वां कुतः चर्म भविष्यति ।
उपानच्चर्ममात्रेण छन्ना भवति मेदिनी ॥
बाह्या भावास्तथा सर्वा न शक्या वारयितुं क्वचित् ।
स्वचित्तमेव निवार्य किमेवान्यैर्निवारितैः ॥
सहापि वा च्छरीलाभ्यां मन्दवृत्तेन तत्fअलम् ।
यत्पटोरेककस्यापि चित्तस्य ब्रह्मतादिकम् ॥
जपास्तपांसि सर्वाणि दीर्घकालकृतान्यपि ।
अन्यचित्तेन मन्देन वृथैवेत्याह सर्ववित् ॥
दुःखं हन्तुं सुखं प्राप्तुं भ्रमन्ति ते मुधाम्बरे ।
यैश्चैतद्धर्मसर्वस्वं चित्तगुह्यं न भावितम् ॥
तस्मात्स्वाधिष्ठितं चित्तं सदा कार्यं सुरक्षितम् ।
चित्तरक्षाव्रतं मुक्त्वा किमन्यैर्बहुभिर्व्रतैः ॥
यथा चपलमध्यस्थो रक्षति व्रणमादरात् ।
एवं दुर्जनमध्यस्थो रक्षेश्चित्तव्रणं सदा ॥
लाभा नश्यन्तु ते कामं सत्कारः कायजीवितम् ।
नश्यत्वन्यच्च कुशलं मा तु चित्तं कदाचन ॥
असंप्रजन्यचित्तस्य श्रुतचिन्ततभावितम् ।
सछिद्रकुम्भजलवन्न स्मृताववतिष्ठते ॥
अनेके श्रुतवन्तोऽपि श्रद्धायत्नपरा अपि ।
असंप्रजन्यदोषेन भवन्त्यापत्तिकश्मलाः ॥

(११६)
असंप्रजन्यचौरेण स्मृतिमोषानुसारिणः ।
उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम् ॥
क्लेशतस्करसंघोऽयमवतारगवेषकः ।
प्राप्यावतारं मुष्णाति हन्ति सद्गतिजीवितम् ॥
तस्मात्स्मृतिर्मनोद्वारान्नापनेया कदाचन ।
गतापि प्रत्युपस्थाप्या संस्मृत्वा पापिकीं व्यथाम् ॥
बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतक्षणाः ।
सर्वमेवाग्रतस्तेषामहं चापि पुरःस्थितः ॥
इति ध्यात्वा तथा तिष्ठन् त्रपादरभ्यान्वितः ।
बुद्धानुस्मृतिरप्येव भवेत्तव मुहुर्मुहुः ॥
संप्रजन्यं तदायाति नैव यात्यागतं पुनः ।
स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते ॥
इत्येवं त्वं महाराज बोधिचर्याव्रतं चर ।
त्रिरत्नं शरणं कृत्वा भज नित्यमनुस्मरन् ॥
एतत्पुण्यविपाकेन परिशुद्धत्रिमण्डलः ।
बोधिसत्त्वो महासत्त्वो महाभिज्ञो भवेद्ध्रुवम् ॥
ततः पारमित्ताः सर्वाः पूरयित्वा यथाक्रमम् ।
दुष्टमारान् विनिर्जित्य सद्धर्मगुणराड्भवेह् ॥
सद्धर्मश्रीगुणाधारः सर्वसत्त्वहितार्थभृत् ।
षडक्षरीमहाविद्यां प्राप्य भवेः समृद्धिमान् ॥
ततो मारगणान् सर्वान् जित्वार्हद्विजितेन्द्रियः ।
प्राज्ञः सम्बोधिमासाद्य सम्बुद्धपदमाप्नुत्याः ॥
तदा त्वमसुरेन्द्रश्रीनार्म तथागतो जिनः ।
धर्मराजो जगन्नाथः सर्वज्ञोर्हन्मुनीश्वरः ॥
सर्वविद्याधिपः शास्ता महाभिज्ञो विनायकः ।
समन्तभद्रकृच्छ्रीमान् गुणाकरो भविष्यसि ॥
इमे सर्वे सुरास्तत्र श्रावकास्ते जितेन्द्रियाः ।
निःक्लेशा विमलात्मानो भविष्यन्ति शुभंकराः ॥

(११७)
तदा तव मुनीन्द्रस्य बुद्धक्षत्रे समन्ततः ।
क्लेशानां समुदाचारा भविष्यन्ति कदापि न ॥
इत्येवं त्वं परिज्ञाय समाधायासुराधिप ।
बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते ॥
बोधिचर्यासमुद्भूतं पुण्यं नैव क्षिणोत्यपि ।
सदापि सत्fअलं दद्याद्यावत्संबोधिनिर्वृतिम् ॥
बोद्धिचर्याद्भवं पुण्यं सर्वैरपि मुनीश्वरैः ।
प्रमातुं शक्यते नैव मयैकेन कथं खलु ॥
तस्मात्सर्वप्रयत्नेन विरम्य क्लेशसंगतेः ।
त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर ॥
यद्येवं चरसे राजन् क्वापि न दुर्गतिं व्रजेः ।
सदा सद्गतिसंजातो बोधिसत्त्वः समृद्धिमान् ॥
स्वपरात्महितं कृत्वा भुक्त्वा सौख्यं सदा भवेः ।
सद्धर्मश्रीगुणापन्नसत्सौक्याभिनन्दितः ॥
अन्ते गत्वा सुखावत्याममिताभं जिनेश्वरम् ।
संपश्यंश्च्छरणं गत्वा भजिष्यसि सदादरात् ॥
तत्सद्धर्मामृतं पीत्वा संबुद्धश्रीगुणालयः ।
संबुद्धपदमासाद्य सुनिर्वृतिमवाप्स्यति ॥
इत्यादिष्टं जगच्छास्त्रा लोकेश्वरेण सद्धिया ।
श्रुत्वा सोऽसुरेन्द्रोऽपि मुमोद बोधिसाधने ॥
अथ बलिः स दैत्येन्द्रस्तं लोकाधिपतीश्वरम् ।
महाराजर्द्धिसत्कारैः समार्चयत्प्रमोदितः ॥
ततः पादाम्बुजे नत्वा सांजलिः संप्रसादितः ।
संबोधिप्रणिधिं धृत्वा पुनरेवमभाषत ॥
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् ।
यत्राद्य रोपितं बीजमद्य संपद्यते fअलम् ॥
यावत्र प्राणिनः सर्वे बोधिसत्त्वा भवन्त्यपि ।
तावत्सत्त्वहितार्थाय चरेऽहं बोधिसंवरम् ॥

(११८)
उत्पादयामि संबोधौ चित्तं नाथ जगद्धिते ।
निमन्त्रये जगत्सर्वं दारिद्रयान्मोचयामि तत् ।
व्यापादाखिलचित्तं तदीर्ष्यामात्सर्यदुर्मतिम् ।
नाद्याग्रेण धरिष्यामि यावन्नाप्स्यामि निर्वृतिम् ॥
ब्रह्मचर्यं चरिष्यामि कायान्स्त्यक्ष्यामि पापकान् ।
बुद्धानामनुशिक्ष्येऽहं शीलसंयमसंवरम् ॥
नोऽहं त्वरितरुपेण बोधिं प्राप्तुं समुत्सहे ।
भवान्तकोटिमिच्छामि स्थातुं सत्त्वस्य कारणाम् ॥
क्षेत्रान् विशोधयिष्यामि चाप्रमेयान् समन्ततः ।
नामधेयं करिष्यामि दशसु दिक्षु विश्रुतम् ॥
कायवाचोमनस्कर्म शोधयिष्यामि सर्वथा ।
बोधिमार्गे प्रतिष्ठाप्य चारयिष्ये जगच्छुभे ॥
त्रिरत्नभजनं कृत्वा यावत्र निर्वृतिं गतः ।
बोधिचर्याव्रतं धृत्वा करिष्यामि जगद्धितम् ॥
इति मे निश्चयं शास्तस्तद्भवान् संप्रसीदतु ।
भवत्प्रसादमासाद्य बोधिसत्त्वोऽस्मि साम्प्रतम् ॥
इति तदुक्तमाकर्ण्य लोकेश्वरः प्रसादितः ।
तं बलिं बोधितं पश्यन् पुनरेवमुपादिशत् ॥
यद्येवं ते मनो बोधिचर्याव्रते सुनिश्चितम् ।
हितार्थं ते प्रवक्ष्यामि तच्छृणुष्व समाहितः ॥
यस्य पुण्येऽभिलाषोऽस्ति तेन पूज्या जिनास्सदा ।
तेन संलभ्यते पुण्यं संबोधिगुणसाधनम् ॥
यस्य ज्ञाने रुचिस्तेन श्रोतव्यं योगमुत्तमम् ।
ततः संप्राप्यते ज्ञानं संबोधिपदसाधनम् ॥
यस्य भोग्ये रुचिस्तेन कर्तव्यं दानमीप्सितम् ।
ततोऽभिवांछितं भोग्यं प्राप्यते श्रीगुणान्वितम् ॥
यस्य स्वर्गेऽभिलाषोऽस्ति सुशीलं तेन धार्यताम् ।
ततो दिव्यमहत्सौख्यं लभ्यते श्रीगुणास्पदम् ॥

(११९)
प्रतिभाणार्थिकेनापि कर्तव्यं गुरुगौरवम् ।
तेन संप्राप्यते नूनं प्रतिभाणं महत्तरम् ॥
संधारणार्थिकेनापि भावनीया निरात्मता ।
तेनाभिलभ्यते मुक्तिर्भवचारणबन्धनात् ॥
सुखार्थिकेन त्यक्तव्या पातकाभिरतिर्मतिः ।
तेन संलभ्यते सौख्यं सुभद्रं निरुपद्रवम् ॥
सत्त्वहितार्थिकेनापि धर्तव्यं बोधिमानसम् ।
तेन सत्त्वहितं कृत्वा प्राप्यते बोधिरुत्तमा ॥
मंजुस्वरार्थिकेनापि वक्तव्यं सत्यमेव हि ।
तेन मंजुस्वरो सत्यवादी भवति सन्मतिः ॥
शुद्धगुणार्थिकेनापि सेवितव्यः सुसद्गुरुः ।
तेन सद्गुणसंपत्तिश्रीसमृद्धो भवत्यपि ॥
शमथे रुच्यते तेन कार्या सत्संगचारणा ।
विपश्यनार्थिकेनापि प्रत्यवेक्ष्यात्मशून्यता ॥
तथा हि सर्वदोषाणाअं व्युओपशन्तिर्भवेद्भवे ॥
ब्रह्मलोकार्थिकेनापि धार्या ब्रह्मविहारिता ।
तया ब्रह्म समासाद्य परा गतिरवाप्यते ॥
नृदेवश्र्यर्थिकेनापि धर्तव्यं दशकौशलम् ।
तेन सुरेन्द्रसम्पत्तित्वम्छ्रीः संप्राप्यते ध्रुवम् ॥
सुनिर्वाणार्थिकेनापि कार्यं ज्ञानभियोजनम् ।
तेनेव सकलान्मारान् जित्वा संबोधिमाप्नुयात् ॥
बोधिगुणार्थिकेनापि सेवितव्यं त्रिरत्नकम् ।
तेन बोधिमतिं प्राप्य निर्वृतिपदमाप्नुयात् ॥
एवं विज्ञाय दैत्येन्द्र सद्धर्मसुखसाधनम् ।
मया ते हितमाख्यातं बुध्वा धर्तुं यदीच्छसि ॥
विरम्य तीर्थिकासंगात्त्रिरत्नशरणं गतः ।
बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते ॥
एवं कृत्वासुरेन्द्र त्वं बोधिसत्त्वो जिनात्मजः ।
महासत्त्वो महाभिज्ञो सर्वलोकाधिपो भवेः ॥

(१२०)
एवं यो चरते नात्र क्लेशव्याकुलिताशयः ।
मारचर्यागुणसक्तोऽसत्पथे संचरिष्यते ॥
ततोऽतिक्लेशितात्मा स दशाकुशलसंरतः ।
भूयोऽतिपातके घोरे निर्विशंकश्चरिष्यति ॥
ततोऽतिदुरितात्मा स दारुणदुःखतापितः ।
दुःसहक्लेशरागाग्निदग्धांगः परितप्यते ॥
तदा तस्य सुहतत्राता कश्चिदेकोऽपि नैव हि ।
तथातिचिररोगार्त्तः कृच्छ्रेण स मरिष्यत ॥
ततः स यमदूतेन बध्वा संतर्ज्य नेष्यते ।
तत्र पश्यन् स सर्वत्र सर्वान् दुष्टान् भयंकरान् ॥
पश्येद्वृक्षान् प्रदीप्ताग्निज्वालामालातिभीषणान् ।
पूयशोणितसंपूर्णां भीमां वैतरणीं नदिम् ॥
तान् दृष्ट्वा स परित्रस्तो विकलो दीनमानसः ।
विमोहितो विषण्णात्मा तिष्ठेत्त्रासविषार्दितः ॥
ततस्ते यमदूतास्तं कालपाशैर्निबध्य च ।
क्षुरधारोचिते मार्गे क्रामयेयुर्बलाद्द्रुतम् ॥
तत्पादशीर्णमांसानि काकगृध्रोलूकादयः ।
पक्षिणः श्वशृगालाश्च भक्षेयु रुधिराण्यपि ॥
पुनेरेवं समुद्भूतो भविष्यतो विशीर्णितो ।
एवं स महतीं प्रत्यनुभवेन्नरके व्यथाम् ॥
ततोऽवतार्य भूयस्तं बध्वा ते यमकिंकराः ।
तीक्ष्णकण्टाचित्ते मार्गे क्रामयेयुरितस्ततः ॥
एकैकांघ्रितले तस्य पंचपंचशतान्यपि ।
कण्टकान्यतितीक्ष्णानि प्रवेक्ष्यन्ति समन्ततः ॥
तत्र स चंक्रमाशक्तातत्तीव्रवेदनार्दितः ।
किं मया प्रकृतं पापमित्युक्त्वाभिरुदनक्रमेत् ॥
तच्छ्रुत्वा यमदूतास्ते रक्ताक्षा भीइषणननाः ।
ततोऽवतार्य तं दुष्टं वदेयुरेवेमग्रतः ॥

(१२१)
अरे पापिन किमत्रैवमिदानीमनुशोचसे ।
अवश्यं यत्कृतं कर्म भोग्यमेव हि तत्fअलम् ॥
यत्त्वया प्रकृतं पापं तत्fअलं भुक्तमत्र हि ।
यदि न प्रकृतं पापं भुंज्यानैवात्र तत्fअलम् ॥
धर्मस्ते विद्यते नैव तत्त्राता नात्र कश्चन ।
धर्म एव सुहत्त्राता सर्वेषां भवचारिणाम् ॥
यत्त्वय कामरक्तेन विलंघ्य सद्गुरोर्वचः ।
असन्मित्रानुरागेण प्रकृतं पातकं बहु ॥
हत्वापि प्राणिनोऽनेका भुक्तास्त्वया प्रमोदिना ।
अदत्तमपि चाहृत्य भुक्तं द्रव्यं त्वया बलात् ॥
अधर्मरतिरोगेण भुक्ताश्चापि परयियः ।
यशोजीवितद्रव्यार्थे प्रभाषितं मृषा वचः ॥
पैशुन्यवचसा भेदं सुहृदां च कृतं त्वया ।
लोके भिन्नप्रलापेन प्रकृतं वैरविग्रहम् ॥
पारुष्यवचसाक्रुष्य सन्तोऽपि परिभाषिताः ।
परस्वविषये लोभात्तृष्णाक्लिष्टं मनस्तव ॥
साधूनामर्हतां चापि व्यापादमपि चिन्तितम् ।
मिथ्यादृष्टिप्रमादेन स्वपरात्माहितं कृतम् ॥
एवं नानाविधानेन क्लेशाभिमानिना त्वया ।
प्रभुक्त्वैव यथाकामं संचरित्वा यथेच्छया ।
साधितं पापमेवैवं धर्मं किंचिन्न साधितम् ॥
भुक्त्वैव केवलं भोग्यं यथाकामं प्रमोदिना ।
क्रीडीत्वा पशुनेवैवं दु&॰६१७६८;ख हेतु त्वयार्जितम् ॥
सद्धर्मसाधनं चित्तमुत्साहितं न ते क्वचित् ।
तेनात्रैवं महद्दुखं त्वया दुरात्मना ॥
नापि किंचित्त्वया दत्तमर्थिभ्यः द्रव्यमीप्सितम् ।
दृष्ट्वापि परदेहानि मनस्ते रोषदूषितम् ॥

(१२२)
शीलं ते विद्यते नैव किंचिदपि च संयमे ।
क्षान्तिर्न भाविता नैव सत्त्वेषु दुःखितेष्वपि ॥
न कृतं शासने बोउद्धे सत्कारभजनोत्सवम् ।
त्रिरत्नस्मरणं कृत्वा ध्यानं नापि जगद्धितम् ॥
प्रज्ञापि साधिता नैव सद्धर्मगुणसाधनी ।
त्रिरत्नस्तूपबिम्बानां दृष्ट्वापि नानुमोदितम् ।
सत्कारं भजनं नैव किंचिदपि कृतं त्वया ॥
प्रदक्षिणानि कृत्वापि वन्दिप्वापि कदाचन ।
स्मृत्वा नाम गृहीत्वापि न हि संसाधितं शुभम् ॥
सद्धर्मभाषितं क्वापि श्रुतं त्वया कदापि न ।
सांघिकानां च सत्कारं कृतं नापि कदाचन ॥
धर्मगण्डीनिनादं च श्रुतं त्वया कदापि न ।
किंचिदपि न ते धर्मे मनोऽभिलषते क्वचित् ॥
तेनात्र दारुणं दुःखं त्वयाप्तं साम्प्रतं ध्रुवम् ।
येनैव यत्कृतं कर्म तेनैव भुज्यते fअलम् ॥
इति तैर्गदितं श्रुत्वा स पापी परितापितः ।
तेषां पुरो रुदन्नैवं ब्रूयाच्च निःश्वसन् शनैः ॥
अश्राद्धोऽहं तदा धर्मे त्रिरत्नगुणनिःस्पृहः ।
असन्मित्रोपदेशेन प्रारमन्दुरिते सदा ॥
तद्भवद्भिः कृपाबुद्धया क्षन्तव्या मेऽपराधता ।
रक्षितव्याहमात्रापि युष्माभिरपि सर्वथा ॥
इति तत्प्रार्थितं श्रुत्वा सर्वे ते यमकिंकराः ।
तं बध्वा यमराजस्य पुरतः सहसा नयेत् ॥
तं दृष्ट्वा यमराजोऽपि समुपानीतमग्रतः ।
तान् सर्वान् किन्नरान् पश्यन् सहसैवमुपादिशेत् ॥
किमत्र मे उपानीतः पापिष्ठोऽयं हि दुर्मतिः ।
यदस्य पापिनो द्रष्टुमपि नेच्छाम्यहं मुखम् ॥
गच्छतैवं निबध्वापि दर्शयत स्वकर्मताम् ।
यत्र कर्मfअलं भोग्यं तत्रैनं नयत द्रुतम् ॥

(१२३)
इति राज्ञा समादिष्टं श्रुत्वा ते यमकिन्नराः ।
तं बध्वा सहसा नीत्वा कालसूत्रेऽतिदारुणे ।
क्षिप्त्वा शक्तिशतैः काये प्रहरेयुरनेकधा ॥
तथा स विध्यमानोऽपि शक्तिशतैरनेकधा ।
दुःसहवेदनां भुक्त्वा जीवन्नैव त्यजेदसून् ॥
तथापि तं महादुष्टं जीवन्तं तं समीक्ष्य ते ।
बध्वा चाग्निखदामध्ये क्षिप्त्वा कुर्युर्विदाहितम् ॥
तथापि जीवितो नैव त्यजेत्प्राणं स किल्विषी ।
सर्वांगदग्धितश्चापि तिष्ठेत्प्रश्वस्य मोहितः ॥
तथापि तममुक्तासुं दृष्ट्वा ते यमकिंकराः ।
क्षिप्त्वा तस्य मुखे तप्तं भक्षयेयुरयोगुडम् ॥
तेन तस्य मुखमोष्ठौ जिह्वा दन्ता च कण्ठकम् ।
हदयमन्त्रगुणा दग्धा सर्वांगोऽप्यभिधक्ष्यते ॥
ततो निदग्धकायोऽसौ पापी त्यक्त्वा तदाश्रयम् ।
अन्यत्र नरके जन्म लब्ध्वैवं दुःखमाप्स्यते ॥
एवमेव महाराज दशाकुशलचारिणः ।
सर्वे ते पापिनो दुष्टा भुंजन्ते नरके व्यथाम् ॥
कश्चित्त्राता तदा तेषां नास्त्येव तत्र नारके ।
यावन्न क्षीयते कर्म तावद्दुःखं समन्ततः ॥
पुण्यमेव सुहृत्त्राता सर्वभवचारिणः ।
पापिनो नरकासीनाः स्वर्गासीना हि पुण्यिनः ॥
तस्माद्राजन्विदित्वैवं संसारभद्रवांछिभिः ।
दुःखं हन्तुं सुखं प्राप्तुं कर्तव्यं पुण्यमेव हि ॥
पुण्येन जायते क्वापि दुर्गतौ न कदाचन ।
सदा सद्गतिसंजाता भवन्ति श्रीगुणालयाः ॥
पुण्यवांल्लक्ष्मीमांछ्रीमान् गुणवान् बुद्धिमान् कृती ।
सर्वविद्याकलाभिज्ञः सर्वसत्त्वार्थभृद्भवेत् ॥
सुशीलो संयमी धीरः क्षान्तिमान् वीर्यवान् बली ।
समाधिगुणवान् प्राज्ञः सर्वधर्माधिपो भवेत् ॥

(१२४)
बोधिचित्तमपि प्राप्य सर्वसात्त्वहितार्थभृत् ।
बोधिसत्त्वो महासत्त्वः संबुद्धगुणसाधकः ॥
बोधिचर्याव्रतं धृत्वा संचरेत जगद्धिते ॥
ततोऽभिसुहृत्कृपात्मा स परिशुद्धत्रिमण्डलः ।
निःक्लेशोऽर्हत्त्रिधां बोधिं प्राप्य निर्वृतिमाप्नुयात् ॥
इति विज्ञाय राजेन्द्र यदि संबोधिमिच्छसि ।
विरम्य तीर्थिकासंगाद्बोधिचर्याव्रतं चरन् ॥
सर्वसत्त्वहितं कृत्वा चतुर्ब्रह्मविहारधृक् ।
त्रिरत्नभजनं कृत्वा साधय पुण्यसन्मणिम् ॥
यद्येवं साध्यते पुण्यं भवेरेवं महर्द्धिमान् ।
सद्धर्मरत्नमासाद्य त्रिलोकाधिपतिर्भवेत् ॥
इत्येवं समुपादिष्टं लोकेशेन निशम्य सः ।
बलिस्तथेति विज्ञप्य प्राभ्यनन्दन्प्रबोधितः ॥
ततः स दैत्यराजेन्द्रस्तं त्रैलोकाधिपं गुरुम् ।
महद्राजर्द्धिसत्कारैः समभ्यर्च्य प्रमोदितः ॥
दिव्यरत्नमयोज्ज्वालं मौलिकुण्डलभूषणम् ।
मुक्तिकाहारत्नादिन् दक्षिणान् समढौकयेत् ॥
ततः प्रदक्षिणान्कृत्वा सांजलिः संप्रमोदितः ।
तत्पादाम्बुरुहे नत्वा समालोक्यैवमब्रवीत् ॥
भगवंल्लोकराजेन्द्र भवत्कृपाप्रसादतः ।
पवित्रीभूतमात्मानं भवति मेऽधुना ध्रुवम् ॥
सर्वदाहं जगन्नाथ भवतां शरणाश्रितः ।
त्रिरत्नभजनं कृत्वा संचरे बोधिसंवरे ॥
तन्मेऽनुग्रहमाधाय सदैवं द्रष्टुमर्हति ।
क्षमित्वा चापराधत्वं पुत्रवत्पालयस्व माम् ॥
भवानत्रैवमाश्रित्य सद्धर्मं समुपादिशत् ।
अस्मदनुग्रहं कृत्वा विजयितुं सदार्हति ॥
इत्येवं प्रार्थिने तेन बलिना स जगत्प्रभुः ।
लोकेश्वरो महासत्त्वस्तं विलोक्यैवमादिशत् ॥

(१२५)
नाहं सदात्र तिष्ठेयं बहु कार्यं ममास्ति हि ।
ततोऽहं जेतकोद्याने विहारे सुगताश्रमे ।
सदेवासुरलोकानां सन्निपाता भवत्यपि ॥
तत्र तं त्रिजगन्नाथं विश्वभुवं मुनीश्वरम् ।
संबुद्धं द्रष्टुमिच्छामि तद्गमिष्यामि साम्प्रतम् ॥
तत्त्वं यथा परिज्ञातं तथा कृत्वा समाहितः ।
बोधिचर्याव्रतं धृत्वा सुखं चर सदा शुभे ॥
इति शास्ता समादिष्टं श्रुत्वा स बलिरादरात् ।
तथेति प्रतिवन्दित्वा प्राभ्यनन्दत्तमीश्वरम् ॥
एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः ।
तं बलिं समनुशास्य प्रतस्थौ भासयन्स्ततः ॥
संचरन्तं तमालोक्य सजनः सोऽसुराधिपः ।
दूरतः सांजलीर्नत्वा संपश्यन् स्वालयं ययौ ॥
तदारभ्यासुरेन्द्रोऽसौ बोधिचर्याव्रतं दधत् ।
त्रिरत्नभजनं कृत्वा सदारज्जगद्धिते ॥
सर्वे तस्य जनाश्चापि त्रिरत्नभजने रताः ।
तथा बोधिव्रतं धृत्वा प्राचरन्त सदा शुभे ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे सभाश्रिताः ।
लोकाः सद्धर्मं वांछन्तः प्राभ्यनन्दन् प्रबोधिताः ॥

॥ इति बलिसंबोधनबोधिमार्गावतारणप्रकरणम् ॥


१०. तमोन्धकार भूमि यक्ष राक्षस परिबोधन सद्धर्मावतारण प्रकरणम्

अथ सर्वनीवरणविष्कम्भी सुगतात्मजः ।
भगवन्तं पूनर्नत्वा सांजलिरेवमब्रवीत् ॥
भगवन् स महाभिज्ञो लोकेश्वरो जिनात्मजः ।
कदेह समुपागच्छेत्संद्रक्ष्यते मया कथम् ॥

(१२६)
नैवास्मि तोषितः शास्तः पीत्वापि तद्गुणामृतम् ।
यत्साक्षाद्द्रष्तुमिच्छामि कदेह स समाचरेत् ॥
यत्त्रैलोकाधिपतीशोऽसौ दुर्दान्तानपि दानवान् ।
बोधयित्वा प्रयत्नेन बोधिमार्गे न्ययोजयत् ॥
तत्तस्येव महद्वीर्यं कस्यापि विद्यते न हि ।
मुनीन्द्रैरपि सर्वैर्यत्प्रमातुं नैव शक्यते ॥
भूयोऽपि पातुमिच्छामि तद्गुणामृतमुत्तमम् ।
तद्भवान्समुपादिश्य तुष्टोऽन्तः कर्तुमहति ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥
शृणु साधो महासत्त्व लोकेशस्य महद्गुणम् ।
भूयोऽहं संप्रवक्ष्यामि सर्वस्त्तवशुभार्थतः ॥
ततो निष्क्रम्य दैत्येन्द्रभवनात्स जिनात्मजः ।
अन्यत्रापि समुद्धर्तुं सत्त्वान् संभासयन् ययौ ॥
ततश्चासौ महाभिज्ञो लोकेश्वरः स्वपुण्यजान् ।
नानारश्मीन् समुत्सृत्य जगल्लोकमभासयत् ॥
तद्रश्मयो जगल्लोकानभास्य प्रसारिताः ।
जेतोद्याने मुनीन्द्रस्य विश्वभुवः पुरः स्थिताः ॥
जेतोद्याने तदा तत्र प्रादुर्भूताः सरोवराः ।
अष्टांगगुणसंपन्नजलपूर्णा मनोहराः ॥
दिव्यसौवर्णपद्मादिपरिपूर्णाभिशोभिताः ।
अनेके कल्पवृक्षाश्च सर्वालंकारलम्बिताः ।
सरत्नमणिमुक्तादिहारलम्बितशोभिताः ॥
काशिकदुष्यपट्टादिवस्त्रालंकारलम्बिताः ।
प्रवालोहितस्तम्बाः सुवर्णरुप्यपत्रकाः ॥
अनेके पुष्पवृक्षाश्च fअलवृक्षादयोऽपि च ।
सर्वाश्चापि महौषध्यः प्रादुर्भूतास्समन्ततः ॥
तत्रारामे विहारे च सुगन्धिकुसुमानि च ।
दिव्यसुवर्णपुष्पाणि निपेतुर्वियतस्तदा ॥

(१२७)
एवं तन्मंगलोद्भूतनिमित्तं महदद्भुतम् ।
समुद्भूतं समालोक्य तस्थुः सर्वे सविस्मयाः ॥
अथ गगनगंजाख्यो बोधिसत्त्वोऽपि विस्मितः ।
तन्महद्भद्रनैमित्यं परिस्प्रष्टुं समुत्थितः ॥
विश्वभुवो मुनीन्द्रस्य पुरतः समुपस्थितः ।
पादाब्जे प्रणतिं कृत्वा सांजलिरेवमब्रवीत् ॥
कस्य पुण्यप्रभारश्मिर्भगवन्नयमागतः ।
कुत इह समाभास्य करोत्येवं शुभाद्भुतम् ॥
तद्भवान् समुपादिश्य सर्वान् सभाश्रितानिमान् ।
लोकाअन् प्रबोधयन् धर्मे विनोदयितुमर्हति ॥
एवं संप्रार्थिते तेन विश्वभूर्भगवान् जिनः ।
गगनगंजमालोक्य तमेवं पुनरब्रवीत् ॥
असौ लोकेश्वरस्तस्माद्भवनान्निश्चरन् बलेः ।
तमोऽन्धकारभूम्यां च सत्त्वान् पातुं प्रगच्छति ॥
तस्य लोकेश्वरस्यायं पुण्यरश्मिस्समन्ततः ।
अवभास्य जगल्लोकमिहापि संप्रसारितः ॥
तेनदं भद्रनैमित्यं कुलपुत्र प्रजायते ।
तत्र सत्त्वान् समुद्धृत्य प्रागच्छेत्स जगत्प्रभुः ॥
तदात्र कुलपुत्रस्त्वं त्रैलोकाधिपतीश्वरम् ।
तमायातं समालोक्य नत्वाराधय सादरम् ॥
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य सः ।
गगनगंज आलोक्य तं मुनीमेवमब्रवीत् ॥
कथं स भगवान् याति तत्रान्धतमसे भुवि ।
सूर्यचन्द्रमसोर्यत्र प्रभा न ज्ञायते क्वचित् ॥
तत्रापि प्राणिनः सन्ति यानुद्धर्तुं स गच्छति ।
कथं किमर्थमालोक्य विहरेत्क्व जिनात्मजः ॥
इति तेनोदिते शास्ता विश्वभूः स मुनीश्वरः ।
गगनगंजमालोक्य तं पुनरेवमादिशत् ॥

(१२८)
तत्रापि कुलपुत्रास्ति वरदो नाम सद्गुणी ।
चिन्तामणिर्महारत्नः श्रीकान्तिमान् दिनेशवत् ॥
तत्रानेकसहस्राणि यक्षणां रक्षसामपि ।
यथाकामं सुखं भुक्त्वा वसन्ति स्वैरचारिणः ॥
तान् क्लेशाभिमानो दुष्टान् पश्यन् स करुणानिधिः ।
बोधयित्वा प्रयत्नेन चारयितुं सुसंवरम् ॥
स्वपुण्यरश्मिमुत्सृज्य संभासयन् समन्ततः ।
प्रविशति यथा पूर्णचन्द्रः प्रह्लादयन् जगत् ॥
तद्रश्मिपरिस्पृष्टास्ते सर्वेऽपि यक्षराक्षसाः ।
महासौख्यसमापन्नाः तिष्ठन्ति विस्मयान्विताः ॥
तदा तं समुपायातं श्रीकान्तिसंप्रभासितम् ।
दृष्ट्वा ते मुदिताः सर्वे पुरतः समुपागताः ।
कृतांजलिपुटा नत्वा तस्य पादाम्बुजे मुदा ।
पुरतः समुपाश्रित्य संपृच्छन्त्येवमादरत् ॥
मा त्वं भगवंच्छ्रान्तः क्लान्तो व भवतां तनौ ।
कच्चित्सर्वत्र कौशल्यं दृश्यते सुचिराद्भवान् ॥
इति तैरुदितं श्रुत्वा लोकेशः स जिनात्मजः ।
तान् सर्वान् समुपासीनान् वदत्येवं विलोकयन् ॥
ममानेकानि कार्याणि सत्त्वानां हितसाधने ।
तेनाहं सुचिरेणात्र समागच्छामि साम्प्रतम् ॥
नात्मभावो मयैकस्य सत्त्वस्य कार्यसाधने ।
निष्पादितो जगत्सत्त्वसद्धर्मसाधनेऽपि हि ॥
सर्वे सत्त्वा मयालोक्य बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥
तेनाहं सुचिरेणात्र समागच्छामि साम्प्रतम् ।
नात्मभावो मयैकस्य सत्त्वस्य कार्यसाधने ॥
निष्पादितो जगत्सत्त्वसद्धर्मसाधनेऽपि हि ।
सर्वे सत्त्वा मयालोक्य बोधयित्वा प्रयत्नतः ॥

(१२९)
बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥
तेनाहं सुचिरेणापि युष्माकं हितसाधने ।
विलोक्य समुपायामि नान्यथेति हि मन्यत ॥
इत्यादिष्टं जगच्छास्त्रा तेन लोकेश्वरेण ते ।
श्रुत्वा सर्वे मुदा तस्य पुर एवं वदन्ति च ॥
जयोऽस्तु ते सदा कार्ये सिध्यतु ते समीहितम् ।
सदैवं कृपयालोक्य सर्वान्नः पातुमर्हति ॥
इत्युक्त्वा ते प्रसन्नाक्षाः सर्वे तं त्रिगुणाधिपम् ।
स्वर्णरत्नासने स्थाप्य प्रार्थयन्येवमानताः ॥
भगवन्नाथ लोकेश सत्सौख्यगुणसाधनम् ।
अस्मदनुग्रहे धर्मं समुपादेष्टुमर्हति ॥
इति सम्प्रार्थिते तैः स लोकेश्वरो जिनात्मजः ।
तान यक्षान् राक्षसान् सर्वान् समालोक्यैवमादिशत् ॥
साधु चित्तं समाधाय शृणुध्वं यूयमादरात् ।
कारण्डव्यूहमौदार्यसूत्रं वक्ष्यामि वो हिते ॥
ये श्रोष्यन्ति महायानसूत्रराजमिदं मुदा ।
ये श्रुत्वा धारयिष्यन्ति वाचयिष्यन्ति ये सदा ॥
पर्यवाप्स्यन्ति ये चापि लिखिष्यन्ति च ये तथा ।
ये च लिखापयिष्यन्ति भावयिष्यन्ति ये सदा ॥
ये च प्रवर्तयिष्यन्ति श्रावयिष्यन्ति ये परान् ।
अनुमोद्य सदा स्मृत्वा प्रणत्वा ये भजन्त्यपि ॥
ये चापि श्रद्धया नित्यमर्चयिष्यन्ति सर्वदा ।
सादरं ये च सत्कृत्य मानयिष्यन्ति सर्वदा ॥
तेषां पुण्यमसंख्येयमप्रमेयं महत्तरम् ।
सद्गुनश्रीमहत्सौख्यसंबुद्धपदसाधनम् ॥
सर्वज्ञाः सुगताः सर्वे मुनीन्द्रा अपि सर्वदा ।
एतत्पुण्यप्रमाणानि कर्तुं न चाभिशक्नुयुः ॥
तद्यथापि च चतुर्द्विपनिवासिनोऽपि मानवाः ।
हेमरत्नमयं स्तूपं कुर्युरेकैकमुच्छ्रितम् ॥

(१३०)
तेषु स्तूपेषु सर्वेषु धातुरत्नावरोपणम् ।
कूर्युस्ते मानवाः सर्वे चतुर्द्वीपनिवासिनः ॥
तेसां यावन्महत्पुण्यस्कन्धमौदार्यसत्तमम् ।
ततोऽधिकं हि तत्पुण्यं कारण्डव्यूहसूत्रजम् ॥
तद्यथा च महानघाः पंचपूर्णजलावहाः ।
सहस्रपरिवारास्ताः संक्रमन्ति यथोदधिम् ॥
एवमेव महत्पुण्यं कारण्डव्यूहसूत्रजम् ।
श्रवणभजनादीनां संप्राभिवहते सदा ॥
एवमेतन्महत्पुण्यं मत्वा यूयं यदीच्छथ ।
त्यक्त्वा पापमतिं सर्वे शृणुतेदं सुभाषितम् ॥
श्रुत्वानुमोद्य सत्कृत्य मानयत सदादरात् ।
एतत्पुण्याभिलिप्ता हि भविष्यथ जिनात्मजाः ॥
इति तेन जगच्छास्त्रा समादिष्टं निशम्य ते ॥
सर्वे ते राक्षसा यक्षा मुदिताश्चेदमब्रुवन् ॥
ये चापीदं महायानसूत्रराजं जगत्प्रभाः ।
लिखापयन्ति तेषां स्यात्कियत्पुण्यं समादिश ॥
इत्यक्ते तैः स लोकेशो बोधिसत्त्वो जिनात्मजः ।
सर्वांस्तान्मुदितान्मत्वा समालोक्येदमादिशत् ॥
कुलपुत्रा अप्रमेयं पुज्यं तेषां प्रजायते ।
लिखन्तीदं सूत्रराजं लिखापयन्ति येऽपि च ॥
चतुरशीतिसद्धर्मस्कन्धसाहस्रिकानि तैः ।
लिखापितानि सर्वाणि तेषां पुण्यं महत्तरम् ॥
राजानस्ते भविष्यन्ति नृपेन्द्राश्चक्रवर्तिनः ।
धर्मिष्ठा लोकभर्तारो विरा धीरा विचक्षणाः ॥
ये चाप्यस्य महायानसूत्रराजस्य सर्वदा ।
नामानुस्मरणं कृत्वा भजन्ति संप्रसादिताः ॥
ते सर्वे भवदुःखेभ्यो विमुक्ता विमलाशयाः ।
निःक्लेशाः परिपूर्णांगाः सुगन्धिमुखवासिनः ॥

(१३१)
चन्दनगन्धितांगाश्च सुवीर्यबलवेगिनः ।
जातिस्मराश्च धर्मीष्ठा भवेयुः श्रीगुणाश्रयाः ॥
एवं मत्वा महत्पुण्यं यद्येतद्गुणमिच्छथ ।
विरम्य क्लेशसंगेभ्यः परिशुद्धाशया मुदा ॥
एतत्कारण्डव्यूहस्य सूत्रराजस्य सर्वदा ।
नामानुस्मरणं कृत्वा भजत श्रद्धयादरात् ॥
ततो यूयं विनिर्मुक्ता भवक्लेशातिदुःखतः ।
निःक्लेशा विमलात्मानः सुखावतीं गमिष्यथ ॥
तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा ।
बोधिचर्यांव्रतं प्राप्य भविष्यथ जिनात्मजाः ॥
ततः सत्त्वहिताधानश्रीसंपत्सद्गुणाश्रयाः ।
सर्वसत्त्वहितं कृत्वा संबुद्धपदमाप्स्यथ ॥
इति सत्यं परिज्ञाय शुद्धाशया जितेन्द्रियाः ।
त्रिरत्नभजनं कृत्वा भजन तत्सुभाषितम् ॥
इति तदुक्तमाकर्ण्य सर्वे ते यक्षराक्षसाः ।
प्रबोधिता महोत्साहैश्चरन्त्येवं समादरात् ॥
ततः केचिन् भवन्त्येतद्धर्मश्रद्धानुसारिणः ।
केचिच्च श्रोताअपन्नाः सकृदागामिनोऽपरे ॥
अन्येऽनागामिनः केचिद्भवन्ति बोधिसाधने ।
ततस्सर्वेऽपि ते यक्षा राक्षसाः संप्रमोदिताः ॥
तदुपदिष्टमासाद्य भवन्ति ब्रह्मचारिणः ।
परस्य च हितं कृत्वा संचरन्ते शुभे सदा ॥
ततस्ते नन्दिताः सर्वे भूयस्तं त्रिगुणाधिपम् ।
कृताजंलिपुटा नत्वा प्रार्थयन्त्येवमादरात् ॥
भगवन्नुबोधे नः सद्धर्मं समुपादिशत् ।
विहरस्व सदात्रैव क्वचिदन्यत्र मा व्रज ॥
स्वर्णरत्नमयं स्तूपं कृत्वा दास्यामहेऽत्र ते ।
रथचंक्रयात्रा च करिष्यामो जगत्प्रभोः ॥

(१३२)
सदा ते शरणे स्थित्वा पीत्वा धर्मामृतं मुदा ।
सद्धर्मसाधनं कृत्वा चरिष्यामः सुखं शुभे ॥
इति तैः प्रार्थितं सर्वैः श्रुत्वा लोकेश्वरोऽथ सः ।
सर्वान्स्तान् राक्षसान् यक्षान् समालोक्यैवमादिशत् ॥
नाहं सदात्र तिष्ठेयमन्त्रत्राप्येवमाचरन् ।
बोधयन्नपरान् सत्त्वान् योजयेयं सुसंवरे ॥
तस्माद्यूयमिमे सर्वे उपदिष्टं यथा मया ।
तथा धृत्वा सदा धर्मे चरित्वा तिष्ठताभवम् ॥
इति शास्त्रा समादिष्टं श्रुत्वा ते यक्षराक्षसाः ।
तद्वियोगातिदुःखार्ता वदन्येवं परस्परम् ॥
गमिष्यति भवन्तोऽयं लोकनाथो जगत्प्रभुः ।
तद्भविष्यामहे सर्वे सद्धर्मरहिता वयम् ॥
इति संभाष्य सर्वे ते तस्य त्रैधातुकप्रभोः ।
पादाब्जे प्रणतिं कृत्वा तिष्ठन्ति समुपाश्रिताः ॥
ततः स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः ।
तान् सर्वान् समुपामन्त्र्य चरति प्रस्थितस्ततः ॥
तत्र ते राक्षसा यक्षास्सर्वे तस्य जगत्प्रभोः ।
रुदन्तः स्नेहरागार्ता गच्छन्ति पृष्ठतोऽनुगाः ॥
तान् दृष्ट्वा त्वागतान् सर्वान् स लोकेशो करुणात्मकः ।
प्रायातान् दूरतो मार्गे समालोक्यैवमब्रवीत् ॥
सुदूरमागतो यूयं निवर्तध्वं स्वमालयम् ।
मागच्छत गमिष्यामि शुद्धावासे सुरालये ॥
इत्यादिष्टे जगच्छास्त्रा सर्वे ते यक्षराक्षसाः ।
लोकेश्वरस्य पादाब्जे नत्वा यान्ति स्वमालयम् ॥
तत्र ते राक्षसा यक्षा धृत्वाज्ञां त्रिजगत्प्रभोः ।
त्रिरत्नभजनं कृत्वा चतुर्ब्रह्मविहारिणः ॥
बोधिचर्याव्रतं धृत्वा संबोधिनिहिताशयाः ।
परस्परं हितं कृत्वा संचरन्ते सदा शुभे ॥

(१३३)
एवं स त्रिजगन्नाथो दुर्बोधान् यक्षराक्षसान् ।
अपि नियुज्य सद्धर्मे चारयति प्रबोधयन् ॥
एवं स त्रिजगन्नाथः सर्वासत्त्वान् प्रबोधयन् ।
बोधिमाअर्गे प्रतिष्ठाप्य पालयति सदा भवे ॥
तेनास्य त्रिजगद्भर्तुः पुण्यस्कन्धं महत्तरम् ।
अप्रमेयं जिनैः सर्वैः प्रमातुं नैव शक्यते ॥
तस्मात्तस्य जगद्भर्तुः स्मृत्वापि नाम सर्वदा ।
समुदाहृत्य नत्वापि कर्तव्यं भजनं मुदा ॥
ये तस्योच्चार्य नामापि भजन्ति सर्वदा मुदा ।
दुर्गतिं ते न गच्छन्ति संप्रयायुः सुखावतीम् ॥
तत्रामिताभनाथस्य शरणे समुपाश्रिताः ।
सदा धर्मामृतं पीत्वा संचरेरन् सुसंवरे ॥
ततो बोधिव्रतं धृत्वा संचरित्वा जगद्धिते ।
त्रिविधां बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते ।
सर्वे लोकाः सभासीनाः प्राभ्यनन्दन् प्रबोधिताः ॥
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते ।
सर्वे ससांघिका लोका मुहुर्मुहुः संप्रबोधिताः ॥

॥ इति तमोऽन्धकारभूमियक्षराक्षसपरिबोधनसद्धर्मावतारणप्रकरणं समाप्तम् ॥


११. शुद्धावासिक सुकुण्डल देवपुत्रोद्धारण प्रकरणम्

अथ गगनगंजोऽसौ बोधिसत्त्वः कृतांजलिः ।
विश्वभुवं मुनीन्द्रं तं नत्वेवं पुनरबवीत् ॥
भगवन् स महासत्त्वो लोकेश्वरो जिनात्मजः ।
कदेह समुपागच्छेद्द्रक्ष्यते स कथं मया ॥

(१३४)
ततः कुत्र प्रयातोऽसौ समुद्धर्तुं च दुःखितः ।
तदुपादिश्य नः सर्वान् प्रबोधयितुमर्हति ॥
इति संप्रार्थिते तेन गगनगंजेन सद्धिया ।
विश्वभूर्मुनिराजस्तं समालोक्यैवमादिशत् ॥
ततोऽसौ कुत्रपुत्रान्तर्हिताग्निवत्प्रभासयन् ।
गत्वा विहायासौ शुद्धवासलोकेऽभिगच्छति ॥
तत्र स ब्राह्मणं रुपं धृत्वा पश्यन् समन्ततः ।
तत्र देवनिकायेषु समुपाचरते दीनवत् ॥
तत्र सुकुण्डलो नाम देवपुत्रो दरिद्रितः ।
दुःखितः क्लेशाभिन्नात्मा दुर्भगो दीनमानसः ॥
तं संपश्यन् समुद्धर्तुं सदृशाभाविताशयः ।
शनैस्तस्य गृहद्वारे समुपाश्रित्य तिष्ठति ॥
तं द्वारसमुपासीनं विलोक्य स सुकुण्डलः ।
कस्त्वं किमर्थमायात इत्येवं परिपृच्छति ॥
तेनैवं परिपृष्टेऽसौ ब्राह्मणोऽर्थि सुदुःखिवत् ।
निश्वस्यैवं शनैस्तस्य संपश्यन् वदते पुरः ॥
ब्राह्मणोऽहं महाभाग दूरदेशादिहागतः ।
क्षुत्पिपासाभितप्तोऽस्मि तद्भोज्यं मे प्रदीयताम् ॥
तेनैवं याचमानोऽसौ देवपुत्रः सुकुण्डलः ।
रुदन् दीनस्वरः पश्यन् वदत्येवं तमानतः ॥
ब्राह्मण किं प्रदास्यते किंचिद्वस्तु न मे गृहे ।
तत्क्षमस्वापराधं मे प्रार्थयान्यमितो व्रजन् ॥
इति तेनोदितं श्रुत्वा वदत्येवं द्विजः स तम् ।
किंचिदपि प्रदातव्यं क्षुत्तृष्णाखेदितस्य मे ।
यदि न दीयते किंचिदप्यत्र मरणं व्रजे ॥
इति तदुक्तमाकर्ण्य देवपुत्रः सुकुण्डलः ।
किंचिद्वस्तु गृहे द्रष्टुं प्रविश्य पश्यते श्वसन् ॥
तदा तस्य जगद्धर्तुः कृपादृष्ट्यनुभावतः ।
तत्र गृहे समुद्भूता महदैश्वर्यसंपदः ॥

(१३५)
तदा तस्य गृहे तत्र काष्ठागारेषु सर्वतः ।
भाण्डानि विविधै रत्नैः पूर्णानि सर्वधातुभिः ॥
अन्नैश्च भोजनैर्द्रव्यैः पानैर्दिव्यामृतैरपि ।
दिव्यचीवरवस्त्रादिसर्वालंकारभूषणैः ॥
सुगन्धिद्रव्यपुष्पैश्च परिपूर्णानि सर्वतः ।
विलोक्य समुदाश्चर्यसमाकुलितमानसः ॥
अहो किमिदमाश्चर्यं स्वप्नं वा दृश्यते मया ।
इति संचिन्त्य भूयोऽपि समीक्ष्यैवं विचिन्तयन् ॥
नूनमयं महाभिज्ञः पुरुषो मद्गृहागतः ।
यस्य दर्शनभावेन लक्ष्मीर्जाता ममेदृशी ॥
इति निश्चित्य चित्तेन देवपुत्रः स नन्दितः ।
सहसोपेत्य तं विप्रं भाषते एवमादरात् ॥
नमस्ते ब्राह्मणश्रेष्ठ कश्चित्ते कौशलं तनौ ।
प्रविशात्र गृहेऽस्माकमनुग्रहीतुमर्हसि ॥
इति तेनोदितं श्रुत्वा ब्राह्मणः स प्रसादितः ।
सहसोत्थाय तद्गेहं प्रविशति विलोकयन् ॥
तत्र स सुप्रसनात्मा देवपुत्रः सुकुण्डलः ।
ब्राह्मणं तं प्रतिष्ठाप्य स्वासने चार्चते मुदा ॥
प्रवार्य दूष्यपट्टादिचीवरैः शुष्मकोमलैः ।
मण्डयित्वा च सर्वागं सर्वालंकारभूषणैः ॥
दिव्यरसाग्रसुस्वादैराहारैरमृतोत्तमैः ।
वर्णगन्धरसोदारैर्भोजयति समादरम् ॥
तत्सत्कारं समालोक्य ब्राह्मणः स प्रसादितः ।
भुक्त्वा भोग्यं यथाकामं ददात्यस्मै शुभाशिषम् ॥
स्वस्ति ते मंगलं भूयात्सर्वदापि समन्ततः ।
तिष्ठतु ते गृहे लक्ष्मीः सदा सद्धर्मसाधिनी ॥
भवतु ते सदा शुद्धं चित्तं सद्धर्मलालसम् ।
सिध्यन्तु तेऽभिलाषं च सम्वृतिकार्यसाधनम् ॥

(१३६)
सदैतच्छ्रीसुसंपत्तिसुखं भुक्त्वा हितार्थभृत् ।
त्रिरत्नभजनं कृत्वा तिष्ठ चरन्मुदा शुभे ॥
अहं गच्छामि जेतर्षेरुद्यने सौगताश्रमे ।
विश्वभुवं मुनीन्द्रं संद्रष्टुं वन्दितुमुत्सहे ॥
इति तदुक्तमाकर्ण्य देवपुत्रः स विस्मितः ।
ब्राह्मणं तं समालोक्य पृच्छते चैवमादरात् ॥
कीदृशं तन्महोद्यानं जेतर्षेः सौगताश्रमम् ।
कीदृशी रमणीया सा भूमी तद्वद मे द्विज ॥
इत्येवं देवपुत्रेण परिपृष्टे निशम्य सः ।
ब्राह्मणस्तं समालोक्य वदत्येवं च सादरम् ॥
रमणीयं तदुद्यानं जेतर्षः सौगताश्रमम् ।
दिव्यसौवर्णरत्नादिनानालंकारमण्डितम् ॥
तत्रैनकसमुद्भूता कल्पृक्षा महीरुहाः ।
सर्वकुसुमवृक्षाश्च सर्वसत्fअलशाखिनः ॥
अष्टांगगुणसम्पन्नाः जलपूर्णमनोहराः ।
अनेकाः पुष्करिण्योऽपि पद्मोत्पलादिशोभिताः ॥
तत्रार्हन्तः शुभात्मानो भिक्षवो ब्रह्मचारिणः ।
शुद्धशीला महाभिज्ञा दक्षिणीया विचक्षणाः ॥
विश्वभुवो मुनीन्द्रस्य श्रावका बोधिचारिणः ।
अनेके बोधिसत्त्वाश्च महासत्त्वा महर्द्धिकाः ॥
भिक्षुण्यो ब्रहचारिण्यः शुद्धशीला जितेन्द्रियाः ।
चैलकव्रतिनश्चापि तथान्येऽपि च सांघिकाः ॥
त्रिरत्नभजनारक्ता उपासका उपासिकाः ।
विश्वभुवो मुनीन्द्रस्य शासने शरणाश्रिताः ॥
सदा धर्मामृतं पीत्वा विहरन्ति समाहिताः ।
एवमन्येऽपि लोकाश्च ब्राह्मणस्तीर्थिका अपि ॥
राजानः क्षत्रियाश्चैव समन्त्रिजनपौरिकाः ।
श्रेष्ठिनः सार्थवाहाश्च महाजनाः शुभार्थिनः ॥

(१३७)
तत्रागत्य समाश्रित्य श्रुत्वा सद्धर्ममादरात् ।
त्रिरत्नभजनं कृत्वा विहरन्ति सदा शुभे ॥
तथा देवाश्च दैत्याश्च गन्धर्वा अपि किन्नराः ।
यक्षाश्च नागराजाश्च गरुडाश्च महोरगाः ॥
सिद्धा विद्याधराश्चापि सर्वे लोकाधिपा अपि ।
सदा तत्र समागत्य विश्वभुवो जगद्गुरोः ॥
सत्कृत्याभ्यर्च्य सद्धर्मं श्रुत्वा तिष्ठन्ति सादरम् ॥
एवं तत्र मुनीन्द्रोऽसौ विश्वभूः संप्रदर्शयन् ।
प्रातिहार्याणि सद्धर्मं समुपादिश्य तिष्ठति ॥
एवं तज्जेतकारामं पुण्यक्षेत्रं मनोरमम् ।
सर्वैर्लोकाधिपैश्चापि संसेवितं प्रशासितम् ॥
तदत्र साम्प्रतं सर्वे लोका देवाधिपा अपि ।
सद्धर्मं श्रोतुमागात्य तिष्ठन्ति तत्सभाश्रिताः ॥
तवापि यदि वांछास्ति तत्र गच्छ समदरात् ।
विश्वभुवो मुनीन्द्रस्य सभां पश्च वृषं शृणु ॥
तत्सद्धर्मामृतं पीत्पा संबोधिनिहिताशयः ।
त्रिरत्नभजनं कृत्वा बोधिचर्याव्रतं चर ॥
एतत्पुण्यविशुद्धत्मा परिशुद्धत्रिमण्डलः ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यसि ॥
इति मत्वा समाधाय श्रुत्वा सद्धर्ममादरात् ।
त्रिरत्नभजनं कृत्वा तिष्ठ चरन् सदा शुभे ॥
इति तेन समादिष्टं निशम्य स सुकुण्डलः ।
प्रबोधितस्तथेत्युक्त्वा पृच्छत्येवं द्विजं च तम् ॥
अवस्यं सत्यमाख्यातुमर्हसि मे पुरः द्विज ।
देवोऽसि मानवो वा त्वं दैत्येन्द्रो वा महर्द्धिमान् ॥
कस्यापि विद्यते नेदृक्कृपाधर्मानुभावता ।
यथा त्वमिह मां पश्यन् तथा कोऽन्योऽनुपालयेत् ॥
इति तेनोदितं श्रुत्वा ब्राह्मणः स प्रसादितः ।
देवपुत्रं तमालोक्य वदत्येवं प्रबोधने ॥

(१३८)
न देवो मानवो नैव दैत्येन्द्रो वापि नास्म्यहम् ।
बोधिसत्त्वोऽस्म्यहं सर्वसत्त्वहितार्थसंभरः ॥
बोद्धिचर्याव्रतं धृत्वा पश्यन् सत्त्वान् सुदुःखितः ।
बोधयित्वा प्रयत्नेन योजयित्वा सुसंवरे ॥
एवं सर्वत्र लोकेषु दुःखिनः पापिनोऽप्यहम् ।
बोधयित्वा स्वयं पश्यन् योजयेयं सदा शुभे ॥
तथहं स्वयमालोक्य सर्वान् सत्त्वान् प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य गच्छे तत्र जिनाश्रमे ॥
इति तेन समादिष्टं निशम्य संप्रमोदितः ।
स रत्नदक्षिणां दत्वा तस्यैवं च प्रभाषते ॥
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् ।
यत्राद्य रोपितं वीजमद्य संपद्यते fअलम् ॥
धन्यास्ते पुरुषाः सर्वे ये त्रिरत्नसुभक्तिकाः ।
सदा धर्मामृतं पीत्वा संचरन्ते जगद्धिते ॥
अहमपि गमिष्यामि जेतारामे जिनाश्रमे ।
विश्वभुवं मुनीन्द्रं तं द्रष्टुमिच्छे ससांघिकम् ॥
तदहं भवता सार्द्धं तत्र गन्तुं समुत्सहे ।
तन्मां नीत्वा मुनीन्द्रं तं संदर्शयितुमर्हति ॥
इति संप्रार्थिते तेन ब्राह्मणः स सुकुण्डलम् ।
देवपुत्रं तमालोक्य प्रतिब्रवीति बोधयन् ॥
अहमन्यत्र लोकेऽपि सत्त्वान् पश्यन् प्रबोधयन् ।
बोधिमार्गे नियुज्यैवं गमिष्यामि तदाश्रमे ॥
त्वमेव प्रथमं गत्वा तत्र जेताश्रमे वने ।
विहारस्थं मुनीन्द्रं तं संदर्शय ससांघिकम् ॥
तत्सद्धर्मामृतं पीत्वा संबोधिनिहिताशयः ।
त्रिरत्नभजनं कृत्वा संचरस्व सदा शुभे ॥
इत्युक्त्वा स महासत्त्वो ब्राह्मणः प्रस्थितस्ततः ।
अन्तर्हितः क्षणाद्वह्निरिवाशेऽभिगच्छति ॥

(१३९)
तद्दृष्ट्वा देअवपुत्रोऽसौ मुदाश्चर्यकुलाशयः ।
नत्वाकाशे मुहुः पश्यंश्चिरेण गच्छते गृहे ॥
तत्र सत्त्वालयासीनाः ब्राह्मणं तमनुस्मरन् ।
तद्दुपदिष्टमाधाय तिष्ठते संचरेच्छुभे ॥
त्रिरत्नभजनं कृत्वा संचरन्ते सदा शुभे ॥
एवं स त्रिजगन्नथो लोकेश्वरो जिनात्मजः ।
देवानपि प्रयत्नेन बोधयित्वा प्रमोदयन् ।
बोधिमार्गे नियुज्यैवं चारयति जगद्धिते ॥
एवं तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम् ।
अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥
तत्रास्य त्रिजगद्भर्तुः स्मृत्वापि नाम सर्वदा ।
ध्यात्वापि प्रणतिं कृत्वा भजन्तु बोधिवांछिनः ॥
ये भजन्ति मुदा तस्य न ते गच्छन्ति दुर्गतिम् ।
सदा सद्गतिसंजाताः प्रान्ते यान्ति सुखावतीम् ॥
तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा ।
बोधिचर्याव्रतं धृत्वा संयास्यन्ति जिनालयम् ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे सभाश्रिताः ।
लोकास्तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥

॥ इति शुद्धावासिकसुकुण्डलदेवपुत्रोद्धरणप्रकरणं समाप्तम् ॥


१२. सिंहलद्वीप राक्षसी परिबोधनोद्धारण प्रकरणम्

अथ गगनगंजोऽसौ बोधिसत्त्वो जिनात्मजः ।
विश्वभुवं मुनीन्द्रं तं पुनर्नत्वैवमब्रवीत् ॥
अद्यापि स महासत्त्वो नायाति भगवन्निह ।
कदेह समुपागच्छेत्कुत्र गच्छति साम्प्रतम् ॥

(१४०)
इति तेनाभिसंपृष्टे विश्वभूः स सुधाखिरः ।
गगनगंजमालोक्य तमेवं पुनरादिशत् ॥
ततः संप्रस्थितोऽसौ च लोकेश्वः प्रभासयन् ।
सिहंलद्वीप आलोक्य च लोकेश्वर राक्षसीरभिगच्छति ॥
दिव्यातिसुन्दरं कामरुपं धृत्वा स भासयन् ।
तत्राभिसरते चित्तं राक्षसीनां प्रमोदयन् ॥
तमायातं समुपालोक्य प्रौढकामातिसुन्दरम् ।
सर्वासां राक्षसीनां तत्कामरागं समुत्थितम् ॥
तदा ताः प्रमदाः सर्वा राक्षस्य मदनाकुलाः ।
नवयौवनकन्तांगा रतिरुपातिसुन्दराः ॥
भूत्वा तं समुपालोक्य पुरतं समुपाश्रिताः ।
तत्पादाम्बुरुहे नत्वा बुवत्येवं समादरम् ॥
स्वागतं ते भवान् हि कच्चित्सर्वत्र कौशलम् ।
संपश्यन् तर्पयास्माकमनुगृहीतुमर्हसि ॥
अस्माकं यौवनीनां यत्स्वामी भर्ता पतिः प्रभुः ।
कस्या अपि हि नैकोऽपि विद्यते हि कदाचन ॥
तदास्माकं भवान् स्वामी भर्ता पतिः प्रभुः सुहृत् ।
भवतु नागतिश्चापि त्राता द्वीपः परायणः ।
शरण्यं च सदा लोके सन्मार्गदेशकोऽचि च ॥
सदा ते शरणे स्थित्वा समादिष्टं तथा त्वया ।
तथा सर्वा वयं धृत्वा संचरिष्यामहे मुदा ॥
सन्त्यत्र विविधा भोग्या दिव्यामृतरसोत्तमाः ।
वस्त्राणि विविधान्येवं विविधभूषणाम्यपि ॥
रमणीयास्तडागाश्च क्रीडोद्यानवनानि च ।
प्रासादा रमणीयाश्च दीर्घिकाश्च मनोरमाः ॥
सन्ति द्रव्याणि सर्वाणि रत्नानि विविधान्यपि ।
सर्वोपकरणवस्तूनि सुपथ्यान्यौषधान्यपि ॥
एतानीमानि सर्वाणि त्वदधीनानि सर्वदा ।
तद्भवान् समुपालोक्य स्वेच्छया दातुमर्हति ॥

(१४१)
यथाकामं सुखं भुक्त्वा सहास्माभिः सदा रमन् ।
स्वेच्छया संचरंस्तिष्ठन् वसत्विहैव सर्वदा ॥
भवद्वशे समाश्रित्य सर्वा वयं समासरात् ।
पूरयित्वाप्यभिप्रायं चरिष्यामो यथासुखम् ॥
तदस्माकं भवान् स्वामी भूत्वात्रैव सदा रमन् ।
स्थातुमर्हसि राजेव पालयन्नः सुदुःखिताः ॥
भवतो भजनं कृत्वा करिष्यामः समीहितम् ।
तत्तिष्ठतु सदेहैव मान्यत्र व्रजतु क्वचित् ॥
एवं ताभिः समाख्यातं निशम्य स जगत्प्रभुः ।
सर्वास्ताः प्रमदाः पश्यन् ब्रवीत्येवं पुरः पुनः ॥
यथा मयोपदिष्टं हि युष्माभिः क्रियते यदि ।
तथा युष्मद्वशे स्थित्वा चरिष्यामीह सर्वदा ॥
यथाकामं सुखं भुक्त्वा युष्माभिः सह सर्वदा ।
रमन् सर्वमभिप्रायं पूरयिष्यामि वो ध्रुवम् ॥
इति तेन समादिष्टं श्रुत्वा ताः प्रमदा अपि ।
सर्वास्तं पुरुषं कान्तं संवीक्ष्यैवं ब्रुवन्ति च ॥
त्वदादिष्टं वयं श्रुत्वा न चरिष्यामहे कथम् ।
अवश्यं ते वशे स्थित्वा करिष्यामो यथोदितम् ॥
तदस्माकं वचः श्रुत्वा भुक्त्वास्माभिः सुखं सह ।
यथाकामं रमन्नत्र संचरतां यथेच्छया ॥
इति ताभिः समाख्यातं निशम्य स जगत्प्रभुः ।
सर्वास्ता राक्षसीः पश्यन् ब्रवीत्येव प्रबोधयन् ॥
यदि यूयं मयाख्यातं धृत्वा सर्वाश्चरिष्यथ ।
तच्छृणुध्वं समाधाय देशितं वो हितं मया ॥
विरम्य दशपापेभ्यो धृत्वा ब्रह्मविहारिकम् ।
त्रिरत्नभजनं कृत्वा चरध्वं पोषधं व्रतम् ॥
यद्येतद्व्रतमाधाय चरथ सर्वदादरात् ।
तदा युष्मद्वशे स्थित्वा तिष्ठेयमिह संरमन् ॥

(१४२)
इति तेन समादिष्टं श्रुत्वा ताः प्रमदा अपि ।
सर्वास्तथेति विज्ञप्य कुर्वन्त्येवं च तत्पुरः ॥
स्वामिन् यथा त्वयादिष्टं तथा वयं चरेमहि ।
तदेतद्विधिमस्माकं समुपादेष्टुमर्हसि ॥
इति संप्रार्थितं ताभिनिर्शम्य स जिनात्मजः ।
ताः सर्वास्ता बोधिता मत्वा समीक्ष्यैवं ब्रवीति तत् ॥
शृणुध्वं यदि वांछास्मिन् युष्माकं सत्सुखे सदा ।
व्रतराजविधानं च उपदेक्ष्यामि विस्तरम् ॥
आदौ पुण्यसुखोत्साहं धृत्वा शुद्धाशया मुदा ।
तीर्थे स्नात्वा विशुद्धांगा प्रावृत्य शुद्धचीवरैः ॥
अभ्यर्च्य सद्गुरुं नत्वा त्रिरत्नशरणं गताः ।
श्रीमल्लोकेश्वरं ध्यात्वा समभ्यर्च्य यथाविधिम् ॥
ततश्चार्घादिकं दत्वा संस्तुत्वा स्तुतिजल्पनः ।
अष्टांगैः सादरं नत्वा कृत्वा वापि प्रदक्षिणान् ॥
सधातुद्रव्यरत्नादिदक्षिणान् श्रद्धयादरात् ।
उपढोक्य समालोक्य कृताजलिपुता मुदा ॥
पापानां देशनां कृत्वा धृत्वा पुण्यानुमोदनाम् ।
संबोधिओप्रणिधिं धृत्वा प्रार्थगेत जगच्छुभे ॥
एवं कृत्वा व्रतं नित्यमह्नायामे तृतीयके ।
भोग्यं निरामिषं भुक्त्वा कुरुत व्रतपालनाम् ॥
एवं नित्यं समाधाय कृत्वा व्रतमिदं सदा ।
त्रिरत्नशरणं कृत्वा संचरध्वं जगद्धितम् ॥
एतत्पुण्यानुभावेन परिशुद्धत्रिमण्डलाः ।
सदा सद्गतिसंजाताः सद्धर्मश्रीगुणाशयाः ॥
सत्सुखानि सदा भुक्त्वा निःक्लेशा विजितेन्द्रियाः ।
सर्वत्र भद्रतां कृत्वा गमिष्यथ सुखावतीम् ॥
तत्रामिताभनाथस्य पीत्पा धर्मामृतं सदा ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यथ ॥

(१४३)
एवं मत्वा महत्पुण्यं पोषधव्रतसंभवम् ।
यदीच्छथ सदा भद्रं तच्चरध्वं सदा व्रतम् ॥
इत्येवं तत्समादिष्टं श्रुत्वा ताः प्रमदा अपि ।
राक्षस्यो मुदिताः सर्वा धर्तुमिच्छन्ति तद्व्रतम् ॥
ततस्ताः प्रमदाः सर्वा राक्षस्योऽपि प्रबोधिताः ।
यथाविधि समाधाय चरन्ति पोषधं व्रतम् ॥
एतत्पुण्यानुभावेन सर्वास्ता विमलाशयाः ।
विमुक्तकामसंरागा भवन्ति ब्रह्मचारिकाः ॥
तदा तासां च सर्वासां राक्षसीनां मनांस्यपि ।
क्लेशदुःखैर्न बाध्यन्तेऽपहारिभिः कदापि च ॥
तासामाघाचित्तं च नैवाभिजायते क्वचित् ।
दशाकुशलसंरागं कस्याश्चापि न जायते ॥
सर्वा श्रद्धानुसारिण्यः सद्धर्मगुणसाधने ।
तथा धर्मानुसारिण्यो भवन्ति प्राप्तसंवराः ॥
चतुःसत्यागमप्रप्ताः प्राप्तमार्गचतुष्टयाः ।
काश्चिच्च श्रोताअपतिfअलप्राप्ताः प्रबोधिताः ॥
तथान्याः सकृदागामिfअलप्राप्ताः काश्चित्सद्धर्मसाधने ॥
काश्चिदर्हत्वसंप्राप्ताः परिशुद्धत्रिमण्डलाः ।
प्रत्येकां बोधिमन्याश्च काश्चित्संबोधिलालसाः ॥
एवं तदुपदेशमासाद्य सर्वास्ताः प्रमदा अपि ।
सद्धर्माभिता भद्रा भवन्ति बोधिमानसाः ॥
एवं तस्य जगद्भर्तुः प्रसादास्ताः प्रमोदिताः ।
शिक्षासंवरमासाद्य प्रचरन्ति जगद्धिते ॥
ततस्ता नन्दिताः सर्वाः शास्तारं तमुपस्थिताः ।
कृताजलिपुटा नत्वा प्रार्थयन्त्येवमादरात् ॥
यद्भवान् स्वयमालोक्य सर्वानस्मान् दुरारतान् ।
कृत्या बोधयन् धर्मे नियोजयति सद्गुरो ॥

(१४४)
तदस्माकं भवांच्छस्ता सुहृन्मित्रं च सद्गुरुः ।
सद्धर्मं समुपादिश्य सदेह स्थातुमर्हति ॥
वयं सर्वा भवच्छिक्षास्तद्भवच्छरणे स्थिताः ।
भवता यद्यथादिष्टं तत्करिष्यामहे तथा ॥
न पुरा राक्षसीवृत्तिं करिष्यामः कदाचन ।
शिक्षासंवरमाधाय चरिष्यामो व्रतं सदा ॥
जम्बूद्वीपे यथा मर्त्या विरम्य दशपापतः ।
संवृतिसुखभुंजाना जीवन्ति सद्गुणारताः ॥
तथा वयं विरम्यात्र दशकुलमार्गतः ।
सद्वृतिसुखभुंजाना जीवेम सद्गुणारताः ॥
सदैतद्व्रतमाधाय त्रिरत्नभजनारताः ।
सर्वं सत्त्वहितं कृत्वा संचरिष्यामहे शुभे ॥
तदस्मान् कृपया पश्यन्नेवं चानुग्रहं सदा ।
कृत्वा सद्धर्ममादिश्य विहरत्विह मान्यतः ॥
इति संप्रार्थितं ताभिः सर्वाभिः स जिनात्मजः ।
लोकेश्वरः समाकर्ण्य ता वीक्ष्य वदते पुनः ॥
नाहं सदेह तिष्ठेयं सर्वत्रापि सुदुःखिनः ।
प्राणिनः स्वयमालोक्य समुद्धर्तुं चरेमहि ॥
तदेतत्संवरं धृत्वा यूयमेवं समाहिताः ।
त्रिरत्नभजनं कृत्वा सौख्यं भुक्त्वाभितिष्ठत ॥
काले कालेऽहमागत्य युष्माकं हितसाधने ।
देशयिष्यामि सद्धर्मसंबुद्धपदसाधानम् ॥
एवं संबोधयन् सर्वा राक्षसीस्ताः स राक्षसः ।
लोकेश्वरो महासत्त्वः संप्रस्थितस्ततो द्रुतम् ॥
ततोऽन्तर्हित आकाशे गत्वेन्दुरिव भासयन् ।
प्रह्लादयन् जगल्लोकं चरते सत्वहितोत्सुकः ॥
तं खे गतं प्रभास्वन्तं दृष्ट्वा ताः सकला अपि ।
राक्षस्यो विस्मयोत्पन्नास्तिष्ठन्ति प्रतिनन्दिताः ॥

(१४५)
ततः प्रभृती ताः सर्वा राक्षस्योऽपि समाहिताः ।
तच्छिक्षासंवरं धृत्वा संचरन्ते सदा शुभे ॥
एवं स त्रिजगन्नाथो राक्षसीरपि बोधयन् ।
बोधिमार्गे नियुज्यापि चारयति सदा शुभे ॥
एवं तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम् ।
अप्रमेयसंख्येमित्याख्यातं मुनीश्वरैः ॥
तत्तस्य त्रिजगद्गर्तुः शरणं समुपाश्रिताः ।
ध्यात्वाप्युच्चार्य नामापि स्मृत्वापि भजताद्भवम् ॥
ये तस्य त्रिजगद्भर्तुः श्रद्धया शरणे स्थिताः ।
ध्यात्वाप्युच्चार्य नामापि स्मृत्वा भजन्ति सर्वदा ॥
ते सदा सद्गतिं यान्तिं न कदाचन ।
भद्रश्रीगुणसंपत्तिसमापन्ना भवन्त्यपि ॥
सदा सत्त्वहिताधाने सद्धर्मसाधनारताः ।
त्रिरत्नभजनं कृत्वा संप्रयायुः सुखावतीम् ॥
तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा ।
अर्हन्तो बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते ।
सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥

॥ इतिसिंहलद्वीपराक्षसीपरिबोधनोद्धरण प्रकरणम् ॥


१३. वाराणसी कृमि कीटोद्धारण प्रकरण

अथ गगनगंजोऽसौ बोधिसत्त्वः कृतांजलिः ।
विश्वभुवं मुनीन्द्रं च प्रणत्वैवमवोचत ॥
भगवन् स महासत्त्वो लोकेश्वरो जिनात्मजः ।
नाद्यापिह समायाति कदागच्छेत्तदादिश ॥

(१४६)
इति तेनोदितं श्रुत्वा विश्वभूः स मुनीश्वरः ।
गगनगंजमालोक्य तं पुनरेवमब्रवीत् ॥
ततः संप्रस्थितश्चासौ लोकेश्वरो विलोकयन् ।
वाराणस्यां समुद्धर्तुं सत्त्वान् समभिगत्च्छति ॥
दृष्ट्वा स प्राणिनोऽनेकानसंख्येयान् सुदुःखितान् ।
सविण्मूत्रमृदालग्नांस्तिष्ठत्येवं विचिन्तयन् ॥
हा पापं कथमेतानि सविण्मुत्राश्रीतान्यहम् ।
कृम्यसंख्यसहस्त्राणि प्रोद्धरेयं प्रबोधयन् ॥
तत्र स चिन्तयन्मत्वा सत्त्वान् कृपया संविलोकयन् ।
भ्रमररुपमाधाय भर्मते तदुपाचरन् ॥
नमो बुद्धाय धर्माय संघायेति प्रणोदितम् ।
मधुरशब्दमुच्चार्य भ्रमते स वियच्चरन् ॥
तं खे भ्रमन्तमालोक्य सर्वे ते प्राणका अपि ।
तत्कलारावमाकर्ण्य चिन्तयन्येवमुत्सुकाः ॥
अहोऽयं सुखवान् पक्षी भ्रमते खेऽतियथेच्छया ।
किमनेन कृतं पुण्यं चरते सुखम् ॥
किमस्माभिः कृतं पापं येनामेध्याश्रिता वयम् ।
इति विचिन्त्य ते सर्वे कृमयस्तत्सुखेच्छिताः ॥
तद्विण्वमनुश्रुत्वा संतिष्ठन्ते तदुन्मुखाः ॥
तथा ते कृमयः सर्वे तन्नामस्मृतिभाविताः ।
तत्त्रिरत्ननमस्कारं धृत्वा तिष्ठन्ति चेतसा ॥
तथा चैवं समुच्चार्य त्रिरत्ननाम चेतसा ।
स्मृत्वा कृत्वा नमस्करं तिष्ठन्ति त्रिमणेर्मुदा ॥
एतत्पुण्यविलिप्तास्ते सर्वे संजातपक्षकाः ।
तत उड्डीय गंगायां निपतन्तस्त्यजन्त्यसून् ॥
ततस्ते विमलात्मानः संप्रयाताः सुखावतीम् ।
सर्वे सुगन्धमुखा नाम बोधिसत्त्वा भवन्त्यपि ॥
ते तत्रामितभासस्य पीत्वा धर्मामृतं सदा ।
त्रिविधां बोधिमासाद्य निर्वृपदमाप्नुयुः ॥

(१४७)
एवमसौ महासत्त्वो लोकेश्वरः कृमीनपि ।
प्रयत्नेन समुद्धृत्य प्रेषयति सुखावतीम् ॥
तथा तस्य जगच्छास्तुः पुण्यस्कन्धं महत्तरम् ।
अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥
ये चास्य लोकनाथस्य श्रद्धया शरणे स्थिताः ।
ध्यात्वा स्मृत्वा समुच्चार्य नाम भजन्ति सर्वदा ॥
सदा ते सद्गतौ जाता दुर्गतौ न कदाचन ।
सद्धर्मश्रीसुखापन्नाः संप्रयायुः सुखावतीम् ॥
तत्रामिताअभनाथस्य पीत्वा धर्मामृतं सदा ।
त्रिविधां बोधिमासाद्य संप्राप्स्यन्ति जिनालयम् ॥
इति मत्वा सदा भद्रसौख्यमिच्छन्ति ये भवे ।
तेऽस्य त्रैलोकनाथस्य भजन्तु शरणे स्थिताः ॥
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते ।
सर्वे समाश्रिता लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥

॥ इति वाराणसीकृमिकीटोद्धारणप्रकरणं समाप्तम् ॥


१४. मागधिक सत्त्व प्रबोधनोद्धारण प्रकरण

अथ गगनगंजोऽसौ बोधिसत्त्वः प्रमोदितः ।
विश्वभुवं मुनीन्द्रं तं प्रणत्वैवमुवाच च ॥
भगवन् स महाभिज्ञः कदेह समुपासरेत् ।
इदानीं क्व प्रयातोऽसौ ह्येतदादेष्टुमर्हति ॥
इति संप्रार्थिते तेन विश्वभूः स मुनीश्वरः ।
बोधिसत्त्वं तमालोक्य सभां चाप्येवमब्रवीत् ॥
ततोऽसौ त्रिजगन्नाथो वाराणस्यां विनिश्चरन् ।
सत्त्वान् पश्यन् समुद्धर्तुं मगधेऽभिगतोऽधुना ॥

(१४८)
तत्र स समुपाश्रित्य दुर्भिक्षपरिपीडितान् ।
नृमांसान्यपि भुंजानान् पिबतो रुधिराण्यपि ॥
परस्परं युध्यमानान्महापातकचारिणः ।
क्लेशाग्नितापितान् दुष्टान् संपश्यन्ननुपृच्छति ॥
कस्माद्यूयमिहान्योन्यं युद्धं कृत्वाविरोधिताः ।
नृमांसान्यपि भुक्त्वैवं पीत्वा नृरुधिराण्यपि ॥
क्लेशाग्निदहितात्मानो महापातचारिणः ।
भूतयक्षा इव क्षुराश्वरथैवमभद्रके ॥
इति तत्पृष्टमालोक्य सर्वे ते दुर्जना अपि ।
तत्पुण्यांशुपरिस्पृष्टा भवन्ति दमिताशयाः ॥
ततः सर्वेऽपि ते तस्य पुरतः समुपाश्रिताः ।
तं समीक्ष्य महासत्त्वं निवेदयन्ति तद्वृतिम् ॥
साधो यदत्र दुर्भिक्षमहोत्पातं प्रवर्तते ।
तन्नात्र विद्यते किंचिदन्नं पानं च भोजनम् ॥
विंशतिवर्षंजातो स दहतिः प्रवर्तिता ।
तत्क्षुत्तृष्णाग्निसंदग्धाः सर्वेऽतिक्लेशिता वयम् ॥
यदेवं क्लेशसंतप्ता दुःसहवेदनातुराः ।
निःस्नेहा निर्दयाः क्रूराश्चाण्डालवृत्तिचारिणः ॥
तदन्योन्यं निहत्यापि युद्धं कृत्वा दिवानिशम् ।
नृमांसान्यपि भुंजानाः पीत्वा नृरुधिराण्यपि ॥
कृत्वातिदारुणं कर्म महापातकचारिणः ।
स्वात्मानमेव संतृप्य पालयन्तश्चरामहे ॥
विंशतिवर्षपर्याप्तं कान्तारमिह वर्तते ।
अभक्ष्यान्यपि तद्भुक्त्वा पालयामः स्वजीवितम् ॥
तद्भवान् यदि शक्नोति दुर्भिक्षं शमयन्निह ।
कृत्वा सुभिक्षमस्माकं त्राता भवितुमर्हति ॥
इति तैः कथितं श्रुत्वा बोधिसत्त्वः स ऋद्धिमान् ।
गत्वा खे विविधं द्रव्यं प्रवर्षयति सर्वतः ॥

(१४९)
प्रथममौदकं वर्षं प्रवर्तितं समन्ततः ।
तद्दृष्ट्वा ते जनाः सर्वे साश्चर्यहर्षिताशयाः ॥
तद्मृतं सुखं पीत्वा यथेच्छया प्रमोदिताः ।
संतृप्तरिसन्तुष्टा भवन्ति प्रीणीताश्रयाः ॥
ततश्चासौ महाभिज्ञो भोग्यानि विविधानि च ।
सुपिष्टादीनि खाद्यानि वर्षयति समन्ततः ॥
तानि दृष्ट्वा च ते सर्वे समागृह्य यथेच्छया ।
प्रभुक्त्वा सुखमासाद्य तिष्ठन्ति विस्मयान्विताः ॥
यदाहारेअण संतृप्ताः सर्वे ते संप्रमोदिताः ।
तदा धान्यादिसर्वाणि व्रीहिशस्यानि वर्षयन् ॥
विविधानि च वस्त्राणि द्रव्याणि विविधान्यपि ।
सर्वाणि धातुरत्नानि सर्वाणि भूषणानि च ॥
वर्षयंस्तत्र सर्वत्र करोति तान् प्रमोदितान् ।
तद्दृष्ट्वा सकला लोका भवन्ति विस्मयान्विताः ॥
तानि सर्वाणि ते सर्वे दृष्ट्वादाय यथेच्छया ।
पूरयित्वा गृहे कोष्ठे भवन्ति प्रतिनन्दिताः ॥
यदा तेषामभिप्रायं सर्वेसामनुसिध्यते ।
तदा ते नन्दिताः सर्वे समेत्येकान्त आश्रिताः ॥
परस्परं समालोक्य साश्चर्यहर्षिताशयाः ।
अहो कस्यानुभावोऽयमित्युक्त्वा समुपास्थिताः ॥
तदासौ त्रिजगच्छास्ता वृद्धमेकं महल्लकम् ।
सुदृष्ट्या समधिष्ठाय प्रेषयन्ति तदन्तिके ॥
तत्र स संचरन् वृद्धो जीर्णः कुब्जो महल्लकः ।
दण्डपरायणो गत्वा शनैः पश्चन्निषीदति ॥
तत्र मध्ये निषीत्वा स वृद्धस्तान् समुपाश्रितान् ।
सर्वांल्लोकान् समालोक्य कथयत्येवमानतः ॥
किं मन्यध्व इदं भद्रं जातं कस्यानुभावतः ।
कस्यापीदृक्प्रभावं हि नास्ति त्रैधातुकेष्वपि ॥

(१५०)
ज्ञायाअं ह्यनुभावोऽयं लोकेशस्य जगत्प्रभोः ।
श्रूयतां वक्ष्यते तस्य प्रभावोऽत्र मयाधुना ॥
यो लोकेश्वरो नाम बोधिसत्त्वो जिनात्मजः ।
महासत्त्वो महाभिज्ञस्त्रैधातुकाधिपेश्वरः ॥
स सर्वेषामपि त्राता नाथः शास्ता हितार्थभृत् ।
धर्मश्रीगुणसंपत्तिसुखभर्ता गुरुं प्रभुः ॥
अन्धानामपि सन्मार्गं दर्शयति प्रदीपवत् ।
सूर्यादितापदग्धानां छत्रीभूतः सुधांशुवत् ॥
तृषितानां नदीभूतः क्षुधितानां सुरद्रुमः ।
रोगिणां शल्यहृद्वैद्यः माता पिता च दुःखिनाम् ॥
नरकाभ्युओपपन्नानामुद्धर्ता निर्वृतिप्रदः ।
दरिद्रानां प्रदाता च शरण्यं शरणार्थिनाम् ॥
अगतीनां गतिर्बन्धुमित्रं द्विपः परायणः ।
किमेव बहुनाख्याय सर्वधर्माधिपोऽप्यसौ ॥
सुखितास्ते महाभागा भद्राः सद्धर्मलाभिनः ।
येऽस्य त्रैधातुनाथस्य स्मृत्वा भजन्ति सर्वदा ॥
तेऽपि धन्या महात्मानः सद्धर्मगुणलाभिनः ।
येऽस्य नाम समुच्चार्य भजन्ति श्रद्धया सदा ॥
ते भवदुःखनिर्मुक्ता निःक्लेशा विमलाशयाः ।
पूजांगैः श्रद्धयाभ्यर्च्य भजन्ति ये समादरात् ॥
ये चास्य मण्डलं कृत्वं समभ्यर्च्य यथाविधि ।
जपस्तोत्रप्रणामाद्यैर्भजन्ते शरणाश्रिताः ॥
ते भवन्ति महाराजा नरेन्द्राश्चक्रवर्तिनः ।
धर्मश्रीगुणसत्कीर्तिसप्तरत्नसमन्विताः ॥
सौम्याः सुगन्धिकायाश्च पूर्णगात्राः शुभेन्द्रियाः ।
जातिस्मराः सुभद्रांशाः सद्धर्मगुणसाधिनः ॥
एवं तस्य जगत्त्रातुः सद्गुणं वर्ण्यते कथम् ।
अप्रमेयमसंख्येमित्याख्यातं मुनीश्वरैः ॥

(१५१)
एवं तस्य महत्पुण्यस्कन्धमहत्तरं वरम् ।
यूयं विज्ञाय नामापि स्मृत्वा भजत सर्वदा ॥
ये चास्य श्रद्धया नित्यं स्मृत्वा ध्यात्वा समाहिताः ।
नामापि च समुच्चार्य भजन्ति शरणाश्रिताः ॥
दुर्गतिं ते न गच्छन्ति कदाचिदपि कुत्रचित् ।
सदा सद्गतिसंजाता भवन्ति श्रीगुणाश्रयाः ॥
कृत्वा भद्राणि सत्त्वानां भुक्त्वा सौख्यानि सर्वदा ।
बोधिचर्याव्रतं धृत्वा प्रान्ते यान्ति सुखावतीम् ॥
तत्रामितरुचेः शास्तुः पीत्वा धर्मामृतं सदा ।
त्रिविधां बोधिमासाद्य निर्वृतिपदमाप्नुयुः ॥
इति तेन समादिष्टं श्रुत्वा सर्वेऽपि ते जनाः ।
तथेति प्रतिनन्दित्वा व्रजन्ति स्वगृहं ततः ॥
सोऽपि महल्लको वृद्धः सद्धर्मगुणविस्तरम् ।
समाख्याय समुत्थाय संप्रयाति स्वमालयम् ॥
तदा सर्वेऽपि ते लोक मागधिकाः प्रबोधिताः ।
लोकेश्चरमनुस्मृत्वा भजन्ति सर्वदा मुदा ॥
तदारभ्य सदा तत्र सुभिक्षं संप्रवर्तितम् ।
सर्वे सत्त्वा यथाकामं भुक्त्वा चरन्ति सद्वृषे ॥
सर्वे ते विमलात्मानश्चतुर्ब्रह्मविहारिणः ।
बोधिचर्याव्रतं धृत्वा संचरन्ते शुभे सदा ॥
एवं स त्रिजगन्नाथो लोकेश्वरो जिनात्मजः ।
सर्वधर्माधिपः शास्ता बोधिसत्त्वः कृपानिधिः ॥
स्वयं सत्त्वान् समाअलोक्य पापिनो दुर्जनानपि ।
बोधयित्वा प्रयत्नेन चारयति शुभे व्रते ॥
एवं तस्य जगद्भर्तुः पुण्यस्कन्धं महत्तरम् ।
अप्रमेयमसंख्येयमित्याख्यातं जिनैरपि ॥
तेनासौ त्रिजगन्नाथः सर्वत्रैधातुकाधिपः ।
सर्वर्माभिसंभर्ता बोधिश्रीगुणरत्नभृत् ॥

(१५२)
सर्वैर्मुनीश्वरैश्चापि प्रशंसितोऽभिसंष्टुतः ।
सर्वैर्लोकाधिपैश्चापि नित्यं स्मृत्वाभिवन्दितः ॥
इत्येवं तस्य सद्धर्मगुणमाहात्म्यमुत्तमम् ।
विज्ञाय स्मरणं धृत्वा भजन्तु बोधिवांछिनः ॥
ये तस्य शरणे स्थित्वा स्मृत्वा ध्वात्वापि चेतसा ।
नामोच्चार्याभिवन्दित्वा स्तुत्वा भजन्ति सर्वदा ॥
दुर्गतिं ते न गच्छन्ति क्वचिदपि कदाचन ।
सदा सद्गतिसंजाता भवन्ति बोधिचारिणः ॥
बोधिचर्याव्रतं धृत्वा सर्वसत्त्वहितोद्यताः ।
बोधिश्रीगुणसंपन्नाः संप्रयान्ति सुखावतीम् ॥
तत्रामितरुचेः शास्तुः पीत्वा धर्मामृतं सदा ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥
इति यूयमपि ज्ञात्वा स्मृत्वा तं त्रिगुणाधिपम् ।
ध्यात्वा स्मृत्वाभिवन्दित्वा भजध्वं सर्वदादरात् ॥
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते ।
सर्वे लोकास्तथेत्युक्त्वा प्राभ्यनन्दन् प्रबोधिताः ॥

॥ इति मागधिकसत्त्वप्रबोधनोद्धारणप्रकरणं समाप्तम् ॥


१५. श्रीजेताराम विश्वभू दर्शन सुखावती प्रत्युद्गम प्रकरणम्

अथ सर्वनीवरणविष्कम्भी स जिनात्मजः ।
सांजलिः श्रीघनं नत्वा समालोक्यैवमब्रवीत् ॥
भगवन् स महासत्त्वो लोकेश्वरस्ततश्चरन् ।
कुत्र सत्त्वान् समुद्धर्तुं संप्रयातस्तदादिश ॥
इति तदुक्तमाकर्ण्य भगवन् स मुनीश्वरः ।
सभां विष्कम्भिनं तं च समालोक्यैवमादिशत् ॥
ततोऽप्यन्तर्हितश्चासौ लोकेश्वरो वियद्गतः ।
संभासयन् जगल्लोकं स्थित्वा चैवं व्यचिन्तयत् ॥

(१५३)
जेतारामे विहारेऽद्य सर्वदेवासुरादयः ।
लोकाः समेत्य सद्धर्मं श्रोतुं सभासमाश्रिताः ॥
अहमपि मुनीन्द्रं तं विश्वभुवं जगद्गुरुम् ।
वन्दितुं तस्य धर्मं च श्रोतुं गच्छेयं साम्प्रतम् ॥
इति ध्यात्वा स लोकेश्वरः प्रभासयन् समन्ततः ।
प्रह्लादयन् जगल्लोकं जेताराममुपाचरत् ॥
तत्र स समुपाविश्य संपश्यन्स्तं मुनीश्वरम् ।
सर्वावतीं सभां तां च संभासयन्नुपासरत् ॥
तं दृष्ट्वा समुपायातं गगनगंज उत्थितः ।
उपेत्य तं मुनिं नत्वा सांजलिरेवमब्रवीत् ॥
भगवन्नयमायातः कतमस्सुगतात्मजः ।
बोधिसत्त्वो जगल्लोकं प्रभासयन् समागतः ॥
इति तत्पृष्टमालोक्य विश्वभूः स मुनीश्वरः ।
लोकेश्वरोऽयमायात इति पश्यन्स्तमब्रवीत् ॥
तत्रोपेत्य स लोकेशो बोधिसत्त्वो विलोकयन् ।
त्रिधा प्रदक्षिणीकृत्य विश्वभुवो जगद्गुरोः ।
सांजलिः प्रणतिं कृत्वा वामपार्श्वे समाश्रयत् ॥
कच्चिते कुशलं काये श्रान्तः क्लान्तश्च मास्यपि ।
इत्येवं कुशलं पृष्ट्वापृच्छत्स भगवान् पुनः ॥
कुलपुत्र त्वया कुतेर सत्त्वाः समुद्धृताः ।
कियन्तो बोधयित्वा च नियुज्य स्थापिता शुभे ॥
इति पृष्टे मुनीन्द्रेन लोकेश्वरः स आदितः ।
विस्तरेण मुनीन्द्रस्य पुर एवं न्यवेदयत् ॥
प्रेतलोकेषु ये सत्त्वाः प्रेताः सूचीमुखादयः ।
तेऽपि सर्वे मयोद्धृत्य संप्रेषिताः सूखावतीम् ॥
ये चावीचौ निमग्नास्ते सर्वे मया समुद्धृताः ॥
कालसूत्रे च ये सत्त्वा ये चापि रौरवाश्रिताः ।
हाहे च तपने ये च शीतोदके चये स्थिताः ॥

(१५४)
असिच्छदे च ये सत्त्वाः संवृते चापि ये स्थिताः ।
एवमन्यत्र सर्वत्र नरकेषु समास्थिताः ॥
तेऽपि सर्वे मयोद्धृत्य संप्रेषिताः सुखावतीम् ॥
ये चापि पापिनो दुष्टास्तेऽपि मया प्रयत्नतः ।
बोधयित्वा प्रतिष्ठाप्य बोधिमार्गे नियोजिताः ॥
तथा कांचनभूम्यां च सत्त्वा येऽधोमुखाः ।
अपि ते सर्वेऽपि मया यत्नाद्बोधिमार्गे नियोजिताः ॥
तथा रुपमयीभूम्यां सत्त्वाः पुरुषपुंगलाः ।
तेऽपि मया प्रयत्नेन बोधिमार्गे नियोजिताः ॥
ततश्चायोमयीभूम्यां पाताले निवसन्ति ये ।
बलिप्रमुखदैत्याश्च दुर्दान्ता मदमानिनः ॥
तेऽपि सर्वे मया यत्नाद्बोधयित्वा प्रसादिताः ।
बोधिमार्गे प्रतिष्ठाप्य चारयित्वा जगद्धिते ॥
तमोऽन्धकारभूम्यं च ये सत्त्वा यक्षराक्षसाः ।
ते सर्वे बोधिमार्गेषु बोधयित्वा नियोजिताः ॥
शुद्धावासे देवलोके सुकुण्डलादयोऽमराः ।
बोधयित्वा प्रयत्नेन बोधिमार्गे नियोजिताः ॥
ततः सिंहलद्वीपे च राक्षस्योऽपि प्रयत्नतः ।
बोधयित्वा बोधिमार्गे सर्वाः स्थापिता मया ॥
वाराणस्यां च येऽमेध्यनिमग्नाः कृमयोऽपि ते ।
सर्वे मया समृद्धृत्य संप्रेषिताः सुखावतीम् ॥
ततो मागधिका लोका दुष्टा अपि प्रयत्नतः ।
बोधयित्वा बोधिमार्गे नियुज्य पालिता मया ॥
एवमन्येऽपि सत्त्वाश्च दुष्टाः पातकिनोऽपि ते ।
सर्वे मया समुद्धृत्य संप्रेषिताः सुखावतीम् ॥
एवं भूताः पिशाचाश्च प्रेताश्चापि निशाचराः ।
सर्वे पापिनो मग्नाः सर्वेषु नरकेष्वपि ।
मया समुद्धृत्य संप्रेषिताः सुखावतीम् ॥

(१५५)
तिर्यंचोऽपि सर्वे सद्गतौ स्थापिता मया ।
तेऽपि मया समुद्धृत्य संप्रेषिताः सुखावतीम् ॥
एवं नागाश्च दैत्याश्च यक्षगन्धर्वकिन्नराः ।
कुम्भाण्डा राक्ष्यश्चापि दुष्टा दर्पाभिमानिनः ॥
तेऽपि सर्वे प्रयत्नेन बोधिमार्गे मयेरिताः ॥
एवं च मानवा दुष्टाः पापिष्ठा अपि यत्नतः ।
शोधयित्वा समालोक्य बोधिमार्गे नियोजिताः ॥
एवं दिव्यसुखारक्ता देवाश्चापि प्रयत्नतः ।
बोधयित्वा मया सर्वे बोधिमार्गे नियोजिताः ॥
एवं सर्वेऽपि सत्त्वाश्च त्रैधातुकनिवासिनः ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥
एवं सर्वान् समालोक्य समुद्धृत्य समन्ततः ।
भवतां दर्शनं कर्तुमिहाहमागतोऽधुना ॥
भवतां दर्शनं प्राप्य साfअल्यं मे परिश्रमम् ।
इतोऽहं भगवंच्छास्ता गमिष्यामि सुखावतीम् ॥
भवानिह समाश्रित्य पुण्याभैर्भासयन् जगत् ।
सद्धर्मं सर्वदादिश्य विहरतु जगद्धिते ॥
इति तेन समाख्यातं श्रुत्वा स संप्रहर्षितः ।
गगनगंज आलोक्य लोकेशमेवमव्रवीत् ॥
अहो ईदृक्महाभिज्ञं दृष्टं श्रुतं न कस्यचित् ।
संबुद्धानां न विद्यन्ते तत्कस्यान्यस्य विद्यते ॥
इत्युक्त्वा स महासत्त्वो गगनगंज उत्थितः ।
तस्य लोकेश्वरस्याग्रे सांजलिः समुपाचरन् ॥
मा त्वं श्रान्तोऽसि लोकेश कच्चित्ते कौशलं तनौ ।
इति पृष्ट्वा पदाम्भोजे नत्वा पश्यन् समाश्रितः ॥
इत्येवं तेन संपृष्टे लोकेश्वरो निशम्य ते ।
गगनगंजमालोक्य सस्मित एवमब्रवीत् ॥
नात्राहं भवतां मध्ये श्रान्तः क्लिष्टोऽपि वा चरे ।
भवतां दर्शनेनापि कौशल्यं मम सर्वतः ॥

(१५६)
इति तेन समादिष्तं निशम्य संप्रमोदितः ।
गगनगंज आलोक्य तं लोकेशमभाषत ॥
सदात्रास्मद्धिते शास्तर्विहरस्व कृपामते ।
भवद्धर्मामृतं पीत्वा करिष्यामो जगद्धितम् ॥
इति तदुक्तमाकर्ण्य लोकेश्वरो जिनात्मजः ।
गगनगंजमालोक्य तं पुनरेवमब्रवीत् ॥
नाहं सदेह तिष्ठेयं सर्वत्रापि चरेय हि ।
यथा मया प्रतिज्ञातं कर्तव्यं तज्जगद्धितम् ॥
सर्वे सत्त्वा मयालोक्य बोधयित्वा प्रयत्नतः ।
बोधिमार्गे प्रतिष्ठाप्य प्रेषणीयाः सुखावतीम् ॥
तत्सत्त्वान् समुद्धृत्य शोधयित्वाभिबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य गमिष्यामि सुखावतीम् ॥
तद्भन्तः सदाप्येवं संबुद्धशरणाश्रिताः ।
बोधिचर्याव्रतं धृत्वा विहरन्तु जगद्धिते ॥
सदा वो मंगलं भूयात्कार्ये संबोधिसाधने ।
संसिध्यतु जगद्भद्रसाधनश्रीः समृद्ध्यतु ॥
इत्यादिष्टं जगद्भर्त्रा श्रुत्वा स संप्रहर्षितः ।
गगनगंज एनं च समालोक्यैवमब्रवीत् ॥
भवतामपि सिध्यन्तु कार्याणि त्रिजगद्धिते ।
मंगलं च सदा भूयात्संबोधिश्रीः समृद्ध्यतु ॥
इत्येवं तौ महासत्वौ पृष्ट्वान्योन्यं सकौशलम् ।
मिथौ भद्राशिषं दत्वा तूष्णीभूत्वावतिष्ठतुः ॥
तदासौ भगवांच्छास्ता विश्वभूस्तान् सभाश्रितान् ।
सर्वांल्लोकान् समालोक्य सद्धर्मं समुपादिशत् ॥
शृण्वन्तु कुलपुत्रा यत्संबोधिज्ञानसाधनम् ।
सद्धर्मं तन्मयाख्यातं सत्त्वानां भद्रकारणम् ॥
प्रथमं बोधिसत्त्वेन संबोधिज्ञानसिद्धये ।
संबोधिं प्रणिधिं कृत्वा कर्तव्यं दानमीप्सितम् ॥

(१५७)
ततो विरम्य पापेभ्यो दशभ्योऽपि समादरात् ।
शुद्धशीलं समाधाय चरितव्यं सुसंवरम् ॥
ततः क्लेशान् विनिर्जित्य चतुर्ब्रह्मविहारिणः ।
क्षान्तिव्रतं सदा धृत्वा चरितव्यं जगद्धितम् ॥
ततो धर्ममहोत्साहं धृत्वा सत्त्वार्थसाधने ।
पापमित्रारतिं त्यक्त्वा साधनीयं महद्गुणम् ॥
ततो दुष्टाशयं त्यक्त्वा कामभोग्यविरागिना ।
सुधीरचित्तमाधाय ध्यातव्यं त्रिजगद्धितम् ॥
ततो दुर्मित्रसंरागं त्यक्त्वा संबोधिरागिना ।
प्रज्ञाब्धौ बोधिसद्रत्नं साधनीयं जगच्छुभे ॥
एताः पारमिताः षड्वा पूरयित्वा यथाक्रमम् ।
सर्वान्मारगणान् जित्वा संबोधिज्ञानमाप्स्यते ॥
तत एवं महाभिज्ञश्रीईसंपद्वीर्यसद्गुणैः ।
सर्वसत्त्वहितं कृत्वा संबुद्धपदमाप्स्यते ॥
एवं यूयं परिज्ञाय संबुद्धत्वं यदीच्छथ ।
एवं पारमिताः सर्वाः पूरयध्वं यथाक्रमम् ॥
संबोधिप्रणिधिं धृत्वा चतुर्ब्रह्मविहारिणः ।
त्रिरत्नभजनं कृत्वा संचरध्वं जगद्धिते ॥
एतत्पुण्यानुभावेन सर्वे यूयं जितेन्द्रियाः ।
अर्हन्तः प्राप्य संबोधिं संबुद्धपदमाप्स्यथ ॥
इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्य ते ।
सर्वे लोकाः सभासीनस्तथेत्यभ्यनुमोदिताः ॥
विश्वभुवं मुनीन्द्रं तं तन्त्रलोकाधिपेश्वरम् ।
कृतांजलिपुटा नत्वा स्वस्वालयं ययुर्मुदा ॥
ततो लोकेश्वरो गत्वा खेऽग्निपिण्ड इवोज्जवलन् ।
संभासयन् जगल्लोकं द्रुतं सुखावतीं ययौ ॥
इत्येवं त्रिजगत्त्रातुर्लोकेशस्य महात्मनः ।
विश्वभुवा समादिष्टं महाभिज्ञं मया श्रुतम् ॥

(१५८)
दृष्टं चापि तथा तस्य लोकेशस्य जगत्प्रभोः ।
महाभिज्ञानुभावत्वं मया तद्वो निगद्यते ॥
एवं तस्य महाभिज्ञं मत्वा यूयं समादरात् ।
ध्यात्वा स्मृत्वा समुच्चार्य नामापि भजताभवम् ॥
ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि सर्वदा ।
नामापि च समुच्चार्य भजन्ति बोधिमानसाः ॥
दुर्गतिं ते न गच्छन्ति कदाचन क्वचिद्भवे ।
सदा सद्गतिसंजाताः सद्धर्मगुणसाधिनः ॥
भद्रश्रीगुणसंपत्तिसमृद्धिसिद्धिभाविनः ।
सदा लोके शुभं कृत्वा प्रान्ते यायुः सुखावतीम् ॥
तत्रामिताभनाथस्य पीत्वा धर्मामृतं सदा ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥
इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्य ते ।
सर्वे लोकाः सभासीनाः प्राभ्यनन्दन् प्रबोधिताः ॥

॥ इति श्रीजेतारामविश्वभूदर्शनसुखावतीप्रत्युद्गमप्रकरणं समाप्तम् ॥


१६. सिंहल सार्थवाहोद्धारण प्रकरणम्

अथ सर्वनीवरणविष्कम्भी स जिनात्मजः ।
श्रीघनं तं पुनर्नत्वा सांजलिरेवमब्रबीत् ॥
भगवन् यदसौ श्रीमदार्यावलोकितेश्वरः ।
बोधिसत्त्वो महासत्त्वस्त्रैधातुकाधिपेश्वरः ॥
सर्वान् सत्त्वान् स्वयं पश्यन् त्रिधातुभुवनेष्वपि ।
समुद्धृत्याभिसंबोध्य प्रेषयति सुखावतीम् ॥
पापिनोऽपि समालोक्य स्वयमुद्धृय बोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य संचारयते संवरम् ॥
तत्कथं स महासत्त्वः समुद्धृत्याभिशोधयन् ।
कृत्वा शुद्धेन्द्रियान् सर्वान् प्रेषयति सुखावतीम् ॥

(१५९)
केनोपायेन पापिष्ठान् दुष्टानपि प्रबोधयन् ।
बोधिमार्गे नियुज्यापि प्रचारयनि संचरन् ॥
कथं सुदुःखिनः सर्वान् करोति सत्सुखान्वितान् ।
दरिद्रान् दुर्भगान् दीनान् धनिनः सुभगान् सतः ॥
दुर्दान्तान् दानवान् यक्षान् राक्षसान् राक्षसीरपि ।
बोधिमार्गे प्रतिष्ठाप्य चारयति कथं व्रतम् ॥
तदुपायं समाख्यातुं सत्त्वानां हितसाधनम् ।
येनोपायेन स सर्वान् करोति बोधिभागिनः ॥
इति संप्रार्थिते तेन विष्कम्भिना सुभाविना ।
भगवान् स तमालोक्य सभां चाप्येवमादिशत् ॥
कुत्रपुत्र स लोकेशो महोपायविधानवित् ।
येन सत्त्वान् समुद्धृत्य करोति बोधिभागिनः ॥
समाअधिस्तस्य प्राज्ञस्य महोपायो जगद्धिते ।
येन स सहसोद्धृत्य योजयति शुभे जगत् ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स विस्मिताशयः ।
विस्कम्भी भगवन्तं तं प्रार्थयदेवमादरात् ॥
भगवांस्तत्समाधिं मे समुपादेष्टुमर्हति ।
येन सहसोद्धृत्य चारयते शुभे जगत् ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥
बहवस्तस्य विद्यन्ते कुलपुत्र समाधयः ।
यैः स सत्त्वान् समुद्धृत्य प्रेषयति सुखावतीम् ॥
अप्रेमेयैरसंख्येयैः सर्वाकारकरादिभिः ।
समाधिभिः समापन्नो भवति स जगत्प्रभुः ॥
धारणीनां च विद्यानां परमाणां सहस्रकैः ।
अप्रमेयैरसंख्येयैः समापन्नो विराजते ॥
एतेषामनुभावैः स समुद्धृत्य भवोदधेः ।
बोधिमार्गे प्रतिष्ठाप्य पालयति जगत्त्रयम् ॥

(१६०)
एतत्पुण्यानुभावैः स लोकेश्वरो महर्द्धिमान् ।
शोधयित्वा जगत्सत्त्वं चारयति सुसंवरम् ॥
एवं तस्य जगत्त्रातुः पुण्यस्कन्धं महत्तरम् ।
अप्रमेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥
तेनासौ त्रिजगच्छास्ता सर्वत्रैधातुकेश्वरः ।
सर्वधर्माधिपो नाथो जगत्त्रातेति कथ्यते ॥
तेन तस्य भये दुःखे रक्षा न क्रियते क्वचित् ।
सर्वत्रापि सदा रक्षा क्रियते सर्वप्राणिनाम् ॥
नानोपायविधानेन समुद्धृत्य प्रबोधयन् ।
बोधिचर्याव्रतं दत्वा प्रापयति सुखावतीम् ॥
एवमसौ महासत्वो बोधिसत्त्वो महर्द्धिमान् ।
सर्वसत्त्वहित्तं कृत्वा संचरते समन्ततः ॥
अहमपि पुरा तेन संरक्षितो महाभयात् ।
यन्ममैतत्पुरावृत्तं शृणुध्वं वक्ष्यतेऽधुना ॥
तद्यथा सिंहकल्पायां राजधानां वणिक्प्रभोः ।
सिंहस्य सार्थवाहस्य पुत्रोऽभूत्सिंहलाभिधः ॥
बाल्येऽपि स महासत्त्वः सर्वसत्त्वहिताशयः ।
दिव्यातिसुन्दरः कान्तः सर्वसत्त्वमनोहरः ॥
कौमार्येऽपि स सर्वासां विद्यानां पारमागतः ।
सर्वसत्त्वहितं कृत्वा रेमे सुहृत्सहायकैः ॥
दत्वार्थिभ्यो यथाकामं श्रुत्वा नित्यं सुभाषितम् ।
गुरुणां सत्कृतिं कृत्वा कुलधर्माभिसंरतः ॥
स्वकुलदेवतादीन् च सर्वान् देवान् समर्चयन् ।
मानयन् सकलांल्लोकान् भृत्यान् दासान् च तोषयन् ॥
ज्ञातिबन्धुसुहृन्मित्रसचिवान् चाभिनन्दयन् ।
यथाकामं सुखं भुक्त्वा रेमे पित्रोरनुज्ञया ॥
ततो नूतनयौवन्ये प्रौढः पुष्टांगिकः कृती ।
शूरो धीरः समुत्साही व्यवहारविचक्षणः ॥

(१६१)
मेधावी सद्गुणारक्तः सर्वविद्याविशारदः ।
यदुपचार आत्मज्ञः सत्यधर्मयशोऽर्थभृत् ॥
यथामूल्यं समादाय द्रन्यं दत्वा वणिग्जनान् ।
सर्वान्विनीय संस्थाप्य स्ववशेऽभ्यन्वमोदयत् ॥
सर्वेषामपि रत्नानां परीक्षासु विचक्षणः ।
सार्थवाहान् वणिग्नाथानपि सर्वान् व्यनोदयत् ॥
एवं स सकलांल्लोकान् धर्मश्रीगुणविक्रमैः ।
जित्वा राजेव सन्नीत्या विहरन्नभ्यराजत ॥
तस्यैतद्गुणसंपत्तिं दृष्ट्वेर्ष्यालुर्वणिक्कुधीः ।
रहसि तं समागम्य सुहृद्वदेवमब्रवीत् ॥
साधो धन्योऽसि सत्पुत्रः सर्वलोकाभिनन्दनः ।
तत्कुलर्जितसंवृत्तौ चरन् धर्मार्थमर्जय ॥
इति तेनोदितं श्रुत्वा सिंहलः स विचक्षणः ।
को कुलार्जितसंवृत्तिस्तद्वक्तुं मे त्वमर्हति ॥
इति तेनोदितं श्रुत्वा स ईर्ष्याकुलिताशयः ।
सिंहलं तं समालोक्य बोधितुमेवब्रवीत् ॥
जनकस्ते महाभाग सार्थवाहो वणिक्पतिः ।
सदा रत्नाकरे गत्वा सो धयति सुसंपदे ॥
धन्यास्ते एव सत्पुत्रा ये कुलधर्मचारिणः ।
अन्ये किंपुरुषास्ते हि भुक्त्वैव गृहचारिणः ॥
पितुर्द्रव्यं समादाय दत्वार्थिभ्यो न ते fअलम् ।
स्वार्जितमेव तन्दद्याद्यशोधर्मार्थसिद्धये ॥
तत्त्वं कुलार्जितां वृत्तिं दधानः श्रीगुणोत्साहः ।
अब्धौ रत्नाकरे गत्वा रत्नद्रव्याणि साधय ॥
ततो गृहं समागत्य दत्वार्थिभ्यो यथेप्सितम् ।
यथाकामं सुखं भुक्त्वा संचरस्व यशोऽन्वितः ॥
एवं श्रीगुणसंपत्तियशोधर्मासुखान्वितः ।
स्वकुलवृत्तिसंचारमहोत्साहैः सदा रम ॥

(१६२)
एवं तदुक्तमाकर्ण्य सिंहलः स प्रबोधितः ।
समुद्रं गन्तुमुत्साहं प्रवर्धयन्मुदाचरत् ॥
ततः स सिंहलोऽम्भोधियात्रां गन्तुं समुत्सुकः ।
सार्थवाहात्मजान् सर्वान् समामन्त्र्यैवमब्रवीत् ॥
भवन्तोऽहं समिच्छामि गन्तुं रत्नाकरेऽधुना ।
भवतां यदि वांछास्ति प्रागच्छन्तु मया सह ॥
इति तदुक्तमाकर्ण्य सर्वे ते वणिगात्मजाः ।
तथेति प्रतिनन्दतः सहर्षमेवमब्रुवन् ॥
सार्थवाह समिच्छामो गन्तुं रत्नाकरे वयम् ।
यदस्माकं भवान्नेता तदन्वाहर्तुमर्हति ॥
इति तैः सह संभाष्य स सिंहलः समुन्मनाः ।
पितुः पादाम्बुजे नत्वा सांजलिरेवमब्रवीत् ॥
ततोऽहं गन्तुमिच्छामि रत्नाकरे महाम्बुधै ।
तद्भवान् सुदृशा मह्यमनुज्ञां दातुमर्हति ॥
इति पुत्रोदितं श्रुत्वा सिंहः सः सार्थभृत्पिता ।
स्वात्मजं तं समालोक्य सुचिन्तादेवमब्रवीत् ॥
पुत्र शृणु हितं वाक्यं मयोदितं त्वयात्मज ।
यत्तावत्सुकुमारोऽसि तत्कथमम्बुधौ व्रजेः ॥
तावन्मेऽस्ति महासंपन्मया कष्टैरुपार्जिता ।
सर्वा एतास्तवाधीना भुक्त्वा रम यथेच्छया ॥
यावज्जीवाम्यहं पुत्र तावद्गृहे सुखं रमन् ।
यथाकामं प्रभुज्यैवं संचरस्व यथेप्सिते ॥
तत्रैव च महाम्भोधौ तावन्मा व्रजथाः क्वचित् ।
मृतेऽपि मयि तत्राब्धौ गन्तुं नेह कदाचन ॥
यावद्द्रव्ये गृहे पूर्णे तावन्मा गाः कुहापि च ।
यदा क्षीणे गृहे द्रव्यं तदापि स्वगृहेऽर्जय ॥
सर्वदापि त्वया पुत्र महाम्बुधै सुदुस्तरे ।
गन्तुं नैवाभिवाछां ते भवेद्वांछास्ति ते यदि ॥

(१६३)
किमेव बहुभिर्द्रव्यैः क्लेश एव यदुद्भवेत् ।
क्लेशिना हि सदा दुःखं संसारे सुखता कुतः ॥
बहुद्रव्यवतां नित्यं क्लेशदुःखमहद्भयम् ।
तन्निरर्थं बहुद्रव्यं साधने मा समुद्यम ॥
यदर्जितं बहुद्रव्यं गृहेऽस्ति तावदात्मज ।
एतत्सर्वं तवाधीनं तत्किमर्थत्वमर्जितुम् ॥
एततसर्वं त्वमादाय दत्वार्थिभ्यो यथेच्छया ।
यथाकामं स्वयं भुक्त्वा यावज्जीवं सुखं चर ॥
इति पित्रा समादिष्टं श्रुत्वात्नजस्स सिंहलः ।
जनकं तं समालोक्य पुनरेवं न्यवेदयत् ॥
सत्यमेव त्वयादिष्टं तथापि श्रूयतां मम ।
अभिप्रायं प्रवक्ष्यामि श्रुत्वानुबुध्यतां पितः ॥
विधिना प्रेरितो यत्र जातस्तद्वृत्तिसाधितैः ।
धर्मविद्यागुणद्रव्यसंपद्भिरेव शोभते ॥
तदन्यथार्जितैरेतैर्धर्मविद्यागुणादिभिः ।
सर्वद्रव्यैः समापन्नः पुमानपि न शोभते ॥
यदहं कर्मणा जातः सार्थवाहकुले तथा ।
तत्कुलवृत्तिविभ्राणः संचरितुं समुत्सहे ॥
तदहं स्वकुलाचारवीर्योत्साहाभिमानभृत् ।
गत्वा रत्नाकरेऽप्यब्धौ रत्नायर्जितुमुत्सहे ॥
स्वयमेवार्जितं द्रव्यं दत्वार्थिभ्यो यथेप्सितम् ।
भुक्त्वैव स्वजनान् बन्धूनपि संभर्तुमुत्सहे ॥
इत्येवं स कुलाचारवृत्तिधर्मार्थसाधिनम् ।
स्वात्मजं मां समालोक्य प्राभिनन्दितुमर्हसि ॥
निवारणा न कार्यात्र मम धर्मार्थसाधने ।
त्वयानुज्ञाप्रदानेन नन्दनीयोऽहमात्मजः ॥
यदि दैवाद्विपत्तिः स्यात्सर्वतीर्थाधिपेऽम्बुधौ ।
पतित्वा सर्वमुत्सृज्य संप्रयायां सुरालयम् ॥

(१६४)
तथापि मां महत्पुण्यकीर्त्तिः संशोधयेत्कुलम् ।
इति विज्ञाय मे तात ह्यनुज्ञां दातुमर्हति ॥
गृहेऽपि नो भवेदेव विपित्तिर्दैवयोगतः ।
अवश्यंभाविनो वा भवेयुरेव सर्वतः ॥
इति शंकाविषं हित्वा सद्धर्मस्मृतिमानसः ।
धर्मार्थसाधने नित्यं महोत्साही समाचरेत् ॥
अथाहं क्षमकौशल्यं संपन्नो निरुपद्रवः ।
रत्नश्रीसुखसंयुक्तं संप्रायां स्वगृहे मुदा ॥
तदा किमुच्यते सौख्यं यशोधर्मोत्सवान्वितम् ।
दत्वार्थिभ्यो यथाकामं भुक्त्वा शुभे चरेमहि ॥
ततोऽस्मत्कुलजाश्चापि धर्माचारसमन्विताः ।
दत्वार्थिभ्यो यथाकामं भुक्त्वा यायुः सुरालयम् ॥
एतत्सत्यमिति ज्ञात्वा यदीच्छसि हितं मम ।
सुदृशानुग्रहं कृत्वा तदनुज्ञां प्रदेहि मे ॥
यद्यनुज्ञां ददासि न वियोगो नौ भवेद्ध्रुवम् ।
मृत्युर्हि सर्वजन्तूनां सर्वत्रापि पुरः सदा ॥
इति पुत्रोदितं श्रुत्वा सिंहः पिता स बोधितः ।
आत्मजं तं समालोक्य सिंहमेवमब्रवीत् ॥
यद्येवं निश्चयं पुत्र समुद्रे गन्तुमिच्छसि ।
तव निर्बन्धितं चितां वारयितुं न शक्यते ॥
तद्गच्छ ससहायस्त्वं मार्गेऽरण्ये वनेऽम्बुधौ ।
महाभयानि विद्यन्ते तत्समीक्ष्य समन्ततः ॥
शीतवातातपादीनि दुःखानि दुःसहान्यपि ।
सहित्वा धैर्यमालम्ब्य शनैर्व्रजाभिलोकयन् ॥
सिध्यतु ते विसंयात्रा भूयात्सर्वत्र मंगलम् ।
यथा हि वांछितं द्रव्यं गृहीत्वायाह्यविघ्नतः ॥
इति पित्राभ्यनुज्ञाते सिंहलः संप्रमोदितः ।
पित्रोः पादान् प्रणत्वैव सहसा गन्तुमारभेत् ॥

(१६५)
तदा माता समालिंग्य सिंहलं तं प्रियात्मजम् ।
रुदन्त्यश्रुभिर्लिप्तास्या विलपन्त्यैवमब्रवीत् ॥
हा पुत्र मां परित्यज्य कथं गन्तुं त्वमिच्छसि ।
नान्यो मे विद्यते कश्चिदेक एव त्वमात्मजः ॥
हा जिवननन्दनो मेऽसि वल्लभो हि न चापरः ।
हा प्राण मातारि स्नेहः कथं ते विद्यते न हि ॥
यदा गर्भप्रविष्टो मे तदारम्भ समादरात् ।
मया सदाभिनन्दन्त्या संपाल्यसे प्रयत्नतः ॥
जायमानोऽपि संदृष्ट्वा मया संपालितो मुदा ।
बाल्येऽपि च सदालोक्य संपाल्य परिपुष्यसे ॥
कौमार्येऽपि समाराध्य सहानन्देन वर्द्धितः ।
मया संपालितः प्रौढभूतोऽसि नवयौवनः ॥
इदानीं त्वं युवा भूत्वा कथं मां त्यक्तुमिच्छसि ।
पुत्रः स्वां मातरं वृद्धां रक्षदेव त्यजेन्न तु ॥
इदानीं कथमेवं त्वं निःस्नेहश्चरसे मयि ।
हा पुत्र कथं मे को मां जीर्णितां त्यक्तुमर्हति ॥
यावज्जीवाम्यहं पुत्र कुत्रापि मा व्रजोऽन्यतः ।
यथाकामं सुखं भुक्त्वा संचरस्व गृहे रमन् ॥
मृतायां मयि ते पुत्र यत्रेच्छा वर्तते तदा ।
तत्र गत्वा यथाकामं कुरु धर्मार्थसाधनम् ॥
इति मात्रोदितं श्रुत्वा सिंहलः स विनोदितः ।
मातरं तां विलपन्तीं समाश्वस्यैवमब्रतीत् ॥
मा रौत्सीः किं विषादं ते धैर्यमालम्ब्य मा शुचः ।
विधिना प्रेरितो यत्र तत्रावश्यं गतिर्भवे ॥
यदभावि भवेत्तत्र सर्वत्रापि भवे सदा ।
भावि चेदृग्भवेदेव नैवान्यथा क्वचिद्भवेत् ।
अवश्यंभाविनो भावा भवन्त्येव हि नान्यथा ।
सर्वेषामपि जन्तूनां षड्गतिभवचारिणाम् ॥

(१६६)
सर्वेषांश्चापि जन्तूनां सर्वत्र मृत्युरग्रतः ।
संपत्तिश्च विपत्तिश्च स्वस्वदैवानुयोगतः ॥
इति विज्ञाय किं मातविर्योगदुःखशंकया ।
अवश्यमेव सर्वेषां वियोगं भवचारिणाम् ॥
इति मेऽत्र महत्कार्ये कुलधर्मार्थसाधने ।
रुदित्वैवं निवारन्ती विघ्नं कर्तुं न चार्हसि ॥
यदि तेऽस्ति मयि स्नेहो पश्यन्ती सुदृशैव माम् ।
दत्वा भद्राशिषं मह्यमनुज्ञां दातुमर्हसि ॥
ममार्थे देवतां स्मृत्वा प्रार्थयन्ती सुमंगलम् ।
पित्रा सह सुखं भुक्त्वा पालयन्ती गृहे वस ॥
अचिरेणागमिष्यामि तन्मे स्मृत्वापि मा शुचः ।
विमुचं मा विषादं च प्रसीदाहं व्रजानि हि ॥
इत्युक्त्वा स महासत्त्वो मातरं संविनोदयन् ।
गाढाभिलिंगनान्मुक्तः प्रणत्वैव ततोऽचरत् ॥
ततः स नगरे तत्र घण्टाघोषमचारयत् ।
सिंहलः सार्थवाहोऽब्धौ रत्नाकरे व्रजेदिति ॥
तद्घण्टाघोष्णं श्रुत्वा पंचवणिक्श्तान्यपि ।
तथा रत्नाकरे तेन सह गन्तुं समीच्छिरे ॥
ततस्ते वणिजस्सर्वे समील्य सहसा मुद्रा ।
सिंहलस्य पुरो गत्वा प्रार्थयन्नेवमानताः ॥
सार्थवाह वयं सर्वे सार्थवाहात्मजा अपि ।
रत्नाकरे त्वया सार्धं गन्तुमिच्छामहे खलु ॥
यत्सर्वणिजां नेता सार्थवाहात्मजा भवान् ।
तन्नानुग्रहमाधाय समन्वाहर्तुमर्हति ॥
इति तैः प्रार्थिते सर्वैः स सिंहलो महामतिः ।
सर्वांस्तान् समुपामन्त्र्य संपश्यन्नेवमब्रवीत् ॥
भो भवन्तः समिच्छन्ति यद्यागन्तुं मया सह ।
तत्सर्वं पण्यमादाय समायान्तु व्रजामहे ॥

(१६७)
इति तेनोदितं श्रुत्वा सर्वे ते संप्रहर्षिताः ।
सहसा स्वस्वगृहं गत्वा ज्ञातीन् सर्वान् विनोदयन् ॥
लब्धानुज्ञाः पितुर्मातुर्धृत्वा स्वस्त्ययनं मुदा ।
सर्वे ते पण्यमादाय संप्रस्थिताः समाचरन् ॥
सोऽपि महाअसत्त्वः धृवा स्वस्त्ययनं मुदा ।
पित्रोः पादान् प्रणत्वा च पण्यमादाय प्रस्थितः ॥
तत्र तान् वणिजः सर्वान् दृष्टवा स समुपाचरन् ।
संमील्य संमतं कृत्वा संप्रस्थितो मुदाचरत् ॥
तत्र सोऽनुगतान् सर्वान् बन्धुमित्रसुहृज्जनान् ।
संबोधयन् समालोक्य संनिर्वार्य न्यवर्तयत् ॥
ततः संसंचरन् पंचवणिक्शतैः समन्वितः ।
अनेकैर्गर्दभैर्गोभिरुष्ट्रैश्च भारवाहकैः ॥
सामुद्रपण्यभारात्तैः शनैः संप्रस्थितः क्रमात् ।
ग्रामारण्यवनोद्याननिगमपत्तनानि च ॥
नगरराज्यसौराष्ट्रराजधानीप्युरादिषु ।
चंचूर्यमाण आलोक्य समुत्साहैः समाचरत् ॥
ततो देशान्तरेऽरण्यकान्तारशैलपर्वतान् ।
शनैश्चरन् विलंघ्यापि सुदूरविपिने ययौ ॥
तत्र प्राप्ता विषण्णास्ते सर्वे त्रासविषादिताः ।
भग्नोत्साहाः शनैर्गत्वा ददृशुर्दूरतोऽम्बुधिम् ॥
दृत्वा सर्वेऽपि तेऽम्बोधिं दुरभिसंप्रहर्षिताः ।
प्रोत्साहवीर्यसंकान्तास्तीरं प्रापुर्महोदधेः ॥
तत्र ते समुपासृत्य सर्वे सहंर्षिताशयाः ।
प्रणत्वा तं महाम्बोधिं पश्यन्तः समुपाश्रयन् ॥
अथ ते वणिजः सर्वे समीक्ष्य तं महाम्बुधिम् ।
प्राणस्नेहनिरुत्साहास्तस्थुः संत्रसिताश्याः ॥
तदा स सिंहलो दृष्ट्वा सर्वांस्तांस्त्रासिताशयान् ।
कर्णधारं समामन्त्र्य पुर एवं न्यवेदयत् ॥

(१६८)
कर्णधार महाभाग यद्वयमागता इह ।
सर्वसंपत्तिमिच्छन्तो गन्तुं रत्नाकरेऽम्बुधौ ॥
तद्भवानत्र सन्मित्रं नेताअस्माकं हितार्थदिक् ।
समीक्ष्यानुग्रहं कृत्वा संतारयितुमर्हति ॥
इत्येवं प्रार्थितं सर्वैः कर्णधारो निशम्य सः ।
सर्वांस्तान् वणिजः पश्यन् समामन्त्र्यैवमब्रवीत् ॥
भवन्तो यदि वांछन्ति गन्तुं रत्नाशयाम्बुधौ ।
तद्धैर्यदेवतां स्मृत्वा तिष्ठन्तु नौसमाश्रिताः ॥
इति तेनोदितं श्रुत्वा सर्वेऽपि ते वणिग्जनाः ।
नत्वा नावं समारुह्य संतस्थिरे समाहिताः ॥
ततः स कर्णधारोरोऽपि संस्मृत्वा कुलदेवताम् ।
सांजलिः प्रणतिं कृत्वा प्रार्थयदेवमम्बुधिम् ॥
महोदधे जगद्भर्ता भवान् रत्नामृताकरः ।
तदिमे वणिजः सर्वे भवच्छरण आश्रिताः ॥
तद्भवान् कृपया धृत्वा सर्वानिमान् धनार्थिनः ।
रत्नाकरे सुभद्रेण संप्रापयितुमर्हसि ॥
इति संप्रार्थ्य नत्वा तमम्भोधिं तरणिं च ताम् ।
नाविकः स समारुह्य प्राचारयन् शनैः क्रमात् ॥
ततः संचारिता सा नौ सदा गतिसमीरिता ।
क्रमेण संवहन्त्यब्धेर्मध्यद्वीपमुपाययौ ॥
तत्र नौका भ्रमन्त्येव तस्थै वाताभिताडिता ।
तद्दृष्ट्वा कर्णधारस्तं सिंहलमेवमब्रवीत् ॥
सार्थवाह विजानीयाद्भवानत्र महद्भयम् ।
यदियं नौर्महावातैराहता भ्रमते मुहुः ॥
कुत्र गन्तुं समीहा वो वाता वान्ति महाजवाः ।
स्वकुलदेवताः स्मृत्वा संप्रार्थ्य त्राणमम्बुधिम् ॥
धैर्यमालम्ब्य सर्वत्र संतिष्ठध्वं समाहिताः ॥
इति तेनोदितं श्रुत्वा सर्वे ते त्रसिताशयाः ।
स्वस्वेष्टदेवताः स्मृत्वा प्रार्थयदेवमम्बुधिम् ॥

(१६९)
महोदधे जगद्भर्तर्वयं ते शरणे स्थिताः ।
तदस्मान् कृपया धृत्वा संतारयितुमर्हसि ॥
इत्येवं प्रार्थयन्तस्ते सर्वे स्मृत्वा स्वदेवताम् ।
धैर्यमालम्ब्य संत्रस्तास्तस्थुर्जीवराशिताः ॥
ततः स कर्णधारोऽपि संप्रार्थ्य तं महोदधिम् ।
स्वकुलदेवतां स्मृत्वा तस्थौ जीवनिराशितः ।
सिंहलः सार्थवाहोऽपि संप्रार्थ्य त्राणमम्बुधिम् ।
त्रिरत्नस्मरणं कृत्वा तस्थै धैर्यसमाहितः ॥
ततस्ते वायवः शान्ता नौका संचरिता क्रमात् ।
तद्दृष्ट्वा वणिशः सर्वे तस्थुः संहर्षिताशयाः ॥
तत्र तां समुपायातां नावं वणिक्समाश्रिताम् ।
ताम्रद्वीपनिवासिन्यो राक्षस्योयोऽद्राक्षुरम्बुधौ ॥
ततस्ताभिः समेत्याशु राक्षसीभिः प्रभंजनाः ।
उत्सृष्टाः कालिका वातास्तन्नौकाभिमुखा ववुः ॥
तैराशु प्रहता सा नौ भ्राम्यमाना प्रलोलिता ।
तीव्रातिवेगकल्लोलोऽभिहताभूद्विभिन्निता ।
तदा ते वणिजः सर्वे संत्रासाभिहताशयाः ।
हा दैवेति विलपन्तस्तस्थुः प्राणनिराशिताः ॥
तदा स सिहंलो दृष्ट्वा तरणिं तां विभिन्निताम् ।
सर्वांस्तान् सुहृदो भीतान् समालोक्यैवब्रवीत् ॥
भवन्तः किं विषादेन दैव एव गतिर्भवेत् ।
तत्त्रिरत्नस्मृतिं धृत्वा धैर्यमालम्ब्य तिष्ठत ॥
यदि दैवाद्विपत्तिः स्यादत्र तीर्थाधिपेऽम्बुधौ ।
द्रव्यैः सार्धं वयं सर्वे पतिता निधनं गताः ॥
सर्वपातकनिर्मुक्ताः परिशुद्धत्रिमण्डलाः ।
सद्गतौ सुकुले जाता भवेम श्रीगुणाश्रयाअः ॥
इत्युक्ता तेन ते सर्वे तीर्थिकानामुपासकाः ।
त्रिरत्नस्मरणं धातुं श्रद्दधुर्न कथंचन ॥

(१७०)
स एव सिंहलः स्मृत्वा त्रिरत्नं शरणं गताः ।
ध्यात्वा नाम समुच्चार्य तस्थै संबोधिमानसः ॥
तदापि दैवतस्तेषां कालिकावातघातिता ।
कल्लोलभ्रमणाक्रान्ता नौकाभूच्छतखण्डिता ॥
सर्वे ते वणिजश्चापि विभग्नाशा विमोहिताः ।
पतितास्तत्र महाम्भोधौ सह द्रव्यैर्निमज्जिताः ॥
तत्र ते वणिजः सर्वे निमग्नान्यपि दैवतः ।
स्वस्वबाहुबलेनैव समुतेरुस्तटान्तिकम् ॥
दृष्ट्वा तान् वणिजः सर्वांस्तीरान्तिकसमागतान् ।
ताम्रद्वीपनिवासिन्यो राक्षस्यः संप्रमोदिताः ॥
दिव्यकौमारिकारुपं धृत्वा सर्वाः समागताः ।
तीरे स्थित्वा समुत्तार्य सर्वान्स्तानेवमब्रुवन् ॥
मा भैष्ट धैर्यमालम्ब्य समागम्य तरोरधः ।
छायामाश्रित्य सर्वत्र विश्रान्तुं तिष्ठत क्षणम् ॥
इत्येवं कथितं ताभिः श्रुत्वा ते वणिजस्ततः ।
गत्वा चम्पकवृक्षस्य छायायां समुपाश्रयन् ॥
तत्र विश्रम्य ते सर्वे संनिरीक्ष्य परस्परम् ।
ज्ञातीन् स्मृत्वानुशोचन्तो निश्वस्यैवं बभाषिरे ॥
हा दैव कथमस्माकं विपत्तिर्भवतीदृशी ।
क इह साम्प्रतं त्राता हितार्थी सद्गतिर्भवेत् ॥
इति तैः कथितं श्रुत्वा सार्थवाहः स सिंहलः ।
सर्वान्स्तान् त्रासभिन्नात्मान् समाश्वास्यैवमब्रवीत् ॥
नास्त्यस्माकमिह त्राता को हितार्थी सुहृद्गतिः ।
धर्म एव भवेत्त्राता सर्वत्रापि सुहृद्गतिः ॥
अवश्यंभाविनो भावा भवन्ति महतामपि ।
सर्वेषामपि जन्तूनां सर्वत्रापि न चान्यथा ॥
तदत्र श्रद्धया सर्वे त्रिरत्नस्य समाहिताः ।
स्मृत्वा नाम समुच्चार्य ध्यात्वापि भजतानताः ॥

(१७१)
एतदेव हि संसारे धर्ममूलं निगद्यते ।
धर्म एव हि सर्वत्र त्राता भर्ता सुहृद्गतिः ॥
एवं विज्ञाय सर्वेऽपि त्रिरत्नस्य समाहिताः ।
स्मृत्वा नाम समुच्चार्य ध्यात्वापि भजतानताः ॥
इति तेनोदितं श्रुत्वा सर्वे ते परिबोधिताः ।
तीर्थिका श्रावका नैव त्रिरत्नं स्मर्तुमीच्छिरे ॥
स एव सिंहलः स्मृत्वा त्रिरत्नस्य समाहितः ।
ध्यात्वा नाम समुच्चार्य तस्थौ संबोधिमानसः ॥
ततस्ताः प्रमदाः कान्ताः कुमारिका मनोरमाः ।
सर्वान्स्तान् वणिजान् दृष्ट्वा पुरस्था एवमब्रुवन् ॥
वैषाद्यं वः किमत्रापि नैव चिन्त्यो हि दुःखता ।
यथेप्सितं सुखं भुक्त्वा संचरध्वं यथेच्छया ॥
अस्माकं स्वामिनो नैव गतिर्वापि न कश्चन ।
परायणोऽपि नैवास्ति भर्तापि न सुहृत्प्रियः ॥
तद्यूयं भवतास्माकं स्वामिनो गतयोऽपि च ।
परायणाश्च भर्तारः पतयः सुहृदः प्रियाः ॥
विद्यन्तेऽत्र गृहा रम्या भोग्यानि विविधान्यपि ।
पानानि सुरसान्येवं वस्त्राणि विविधानि च ॥
सर्वद्रव्याणि रत्नानि सर्वाणि भूषणान्यपि ।
सर्वर्तुफलपुष्पादिरम्योद्यानवनान्यपि ॥
पुष्करिण्योऽपि सन्त्यत्र दिव्यगन्धाम्बुपूरिताः ॥
तदत्र किं विषादं वः संरमध्वं यथेच्छया ।
यथाकामं सुखं भुक्त्वा संचरध्वं प्रमोदिताः ॥
इत्येवं कथितं ताभिर्निशम्य ते वणिग्जनाः ।
सर्वेऽपि ताः समालोक्य विस्मयं समुपाययुः ॥
ततस्ताः प्रमदाः सर्वान्मत्वा तान् काममोहितान् ।
एकैकं पुरुषं धृत्वा स्वस्वगेहं न्यवेशयन् ॥
तासां वृद्धापि या कान्ता सा दृष्ट्वा समुपासृता ।
सिंहलं तं समादाय स्वालयं संन्यवेशयत् ।

(१७२)
अथ ताः प्रमदाः सर्वान् स्वान् स्वांस्तान् स्वामिनो मुदा ।
स्वस्वालये प्रतिष्ठाप्य दिव्यभोगैरतर्पयन् ॥
ततस्तान् भोगसंतृप्तान् सर्वान्स्ताः प्रमदाशयाः ।
रहिक्रीडारसाभोगैः सन्तर्पयितुमारभन् ॥
एवं ते वणिजः सर्वे भुक्त्वा भोज्यं यथेप्सितम् ।
संक्रीडित्वा यथाकामं संचरिते प्रमोदिताः ॥
एवं भुक्त्वा यथाकामं रमित्वा ते दिवानिशम् ।
महानन्दसुखासक्ताः सप्ताहानि व्यलंघयन् ॥
अथापरे क्षपायां स सिंहलः ।
त्रिरत्नस्मृतिमाधाय तस्थौ ध्यानसमाहितः ॥
तदा तत्रालये दीपः संप्रदीप्तमहोज्ज्वलः ।
राक्षस्यां निद्रितायां स प्राहसन् संप्रभासयन् ॥
तं प्रदीप्तं हसन्तं स दृष्ट्वातिविस्मिताशयः ।
सुचिरं संनिरीक्ष्यैवं ध्यात्वा चैवं व्यचिन्तयत् ॥
अहो चित्रं किमर्थेऽयं प्रदीपो यत्प्रहस्यते ।
एवं हि हसितो दीपो दृष्टो नैव श्रुतोऽपि न ॥
इति ध्यात्वा चिरं पश्यन् सिंहलः स समुत्थितः ।
समुपाश्रित्य तं नत्वा पप्रच्छैवं कृतांजलिः ॥
किमर्थं हससे दीप तदत्र मे समादिश ।
कोऽत्र दीपे प्रविष्टो हि मया न ज्ञायते भवान् ॥
इति तेनाभिंसंपृष्टे प्रदीपः स समुज्ज्वलन् ।
सिंहलं तं समामन्त्र्य प्रहसन्नेवमब्रवीत् ॥
सिंहल किं न जानासि राक्षसीयं न मानुषी ।
रमित्वापि यथाकामं भक्षेत्त्वां नैव संशयः ॥
सर्वास्ताः प्रमदाः कान्ता राक्षस्यो नैव मानवाः ।
सर्वांस्तांस्त्वत्सहायांश्च भक्षिष्यन्ति न संशयः ॥
इति दीपसमाख्याउतं श्रुत्वा भीतः स सिंहलः ।
किमिदं सत्यमेवं स्यादिति तं पर्यपृच्छत ॥

(१७३)
सत्यमेव प्रदिपेयं राक्षसी यन्न मानुषी ।
कथं भवान् विजानासि सत्यमेतत्समादिश ॥
इति संप्रार्थिते तेन स प्रदीपः पुनर्हसन् ।
सिंहलं सार्थवाहं तं समामन्त्र्यैवमादिशत् ॥
सत्यमेतन्मयख्यातं यदि न त्वं प्रतीच्छसि ।
दक्षिणस्यां महारण्ये गत्वा पश्य त्वमात्मना ॥
तत्रारण्ये महद्दुर्गे आयसकोट्ट उच्चके ।
वणिक्शतसहस्त्राणि प्रक्षिप्य स्थापितानि हि ॥
केचिज्जीवन्ति केचिच्च मृताः केचिच्च भक्षिताः ।
अस्थीनि चावकीर्णान्निप्रतिणि समन्ततः ॥
तत्र गत्वा समालोक्य सर्वमेतन्मयोदितम् ।
सत्यं वा यदि वाऽसत्यं श्रद्दध्या मे वचस्तदा ॥
इत्येवं तदुपाख्यातं श्रुत्वा स परिबोधितः ।
तत्र गत्वा तथा द्रष्टुं सर्वमेतस्तमुत्सुकः ॥
प्रसुप्तां राक्षसीं मोहजालनिद्रावृतेन्द्रियाम् ।
कृत्वा चन्द्रप्रभं खड्गं धृत्वा संप्रस्थितो द्रुतम् ॥
ततो गच्छन् स एकाकी निशीये संविलोकयन् ।
दक्षिणस्यां महारण्ये दुर्गमे समुपाचरत् ॥
तत्रात्युच्चे महकोट्टमयःप्राकारसंवृतम् ।
गवाक्षद्वारे निर्यूहवीहीनं लोकसंस्कृतम् ॥
तं दृष्ट्वा समुपासृत्य परिभ्रमन्समन्ततः ।
लोकविषादवैलाप्यं श्रुत्वा स विस्मयाकुलः ॥
तत्र चम्पकवृक्षाग्रमारेह्य स समाश्रितः ।
महोत्काशरवो नैव नाजुहाव तदाश्रितान् ॥
भवन्तः के कियन्तोऽत्र प्रक्षिप्ताः केन निश्रिताः ।
किं भुक्त्वा वसथात्रापि तत्सर्वं वक्तुमर्हथ ॥
इति तदुक्तमाकर्ण्य तत्रस्थास्ते वणिग्जनाः ।
वृक्षशाखाग्रमारुढं तमालोक्यैवमब्रुवन् ॥

(१७४)
कस्त्वं भो कथमायासि कस्मादिहागतः कुतः ।
सर्वमेतत्प्रवृत्तान्तं समुपाखातुमर्हति ॥
इति तदुक्तमाकर्ण्य साअर्थवाहः स सिंहलः ।
तत्रस्थांस्तान् जनान् सर्वान् समामन्त्र्यैवमब्रवीत् ॥
सिंहलः सार्थवाहोऽहं जम्बूद्वीपादिहागतः ।
गन्तुं रत्नाकरेऽम्भोधौ वणिक्पंचशतैः सह ॥
अब्धिमध्ये महावातैर्हता नौका विखण्डिता ।
उदके पतितास्सर्वे वयुमुत्तीर्य बाहुभिः ॥
तीरमासाद्य वृक्षस्य छायायां समुपाश्रिताः ।
स्वदेशमनुशोचन्तो न्यषीदाम विषादिताः ॥
तत्रातिसुन्दरीकान्ताः कुमारिका मनोहराः ।
ताः सर्वाः पुरतोऽस्माकं समाश्रित्यैवमब्रुवन् ॥
मा भैष्ट किं विषादं वा धैर्यमालम्ब्य तिष्ठत ।
सर्वासामपि ह्यस्माकं कश्चित्स्वामी न विद्यते ॥
तद्यूयं स्वामिनोऽस्माकं भूत्वा भुक्त्वा यथेप्सितम् ।
यथाकामं रमित्वेह संचरध्वं सदा सुखम् ॥
इत्यस्मानालोक्य सर्वास्तान् सर्वानस्मान् विमोहितान् ।
एकैकं स्वामिनं धृत्वा स्वास्वालयं न्यवेशयन् ॥
तत्रास्मान् यथाकामं भोजयित्वात्यमोदयन् ।
यथेच्छया रमित्वापि चारयन्ति सदा सुखम् ॥
इत्येवं महदाश्चर्यं सुखं भुक्त्वातिविस्मितः ।
किमत्र विषये वृत्तमिति द्रष्टुमिहाव्रजे ॥
इति तेन समाख्यातं श्रुत्वा तेऽपि वणिग्जनाः ।
सर्वे स्वकं प्रवृत्तान्तं कथित्वा तं व्यनोदयन् ॥
यत्खलु सार्थवाहोऽसि जानीहि ताभि राक्षसीः ।
तदत्र रतिसंरक्ता मा तिष्ठाशु व्रज स्वं पुरम् ॥
वयमप्येवमम्भोधौ पतिता व्यसनितास्तथा ।
राक्षसीभिः समुत्तार्त्य स्वस्वगृहे निवेशिताः ॥

(१७५)
भोजयित्वा यथाकामं रमित्वापि यथेच्छया ।
विनोद्य स्ववशे स्थाप्य संचारिताः सुखे सदा ॥
यदा यूयमिह प्राप्तास्तद ताभिर्वयं द्रुतम् ।
कोटेऽत्र सर्व आनीय प्रक्षिप्ता बन्धनालये ॥
गृहीत्वामीभिरस्स्माकं राक्षसीभिर्दिवानिशम् ।
खादित्वा पुरुषान्नित्यं संचर्यन्ते यथेच्छया ॥
यूयमपि तथामीभी राक्षसीभिर्यथेच्छया ।
गृहीत्वात्र प्रतिक्षिप्ता भक्षिष्यध्वे न संशयः ॥
इत्यवश्यं भवेदेवं विज्ञाय सहसा भवान् ।
सर्वान् सार्थान् समाहूय स्वदेशं द्रुतम् ॥
यदीतः सहसा यूयं सर्वे गच्छत सांप्रतम् ।
कुशलं वा भवेन्नैवं यदि सर्वे विनक्ष्यथ ॥
इति तदुक्तमाकर्ण्य सिंहलं स प्रबोधितः ।
अवतीर्य द्रुतं वृक्षात्सहसा स्वालयं ययौ ॥
तत्र रतिकरं दीपमुद्दीप्तं तं समीक्ष्य सः ।
सांजलिः प्रणतिं कृत्वा पुरतः समुपाश्रयत् ॥
तं पुरस्थं समालोक्य प्रदीपः स समुज्ज्वलन् ।
साधो सत्यं त्वया दृष्टमित्येवं समपृच्छत ॥
इति दीपोदितं श्रुत्वा पुनराह स विस्मितः ।
सर्वं सत्यं मया दृष्टमादिष्टं भवता यथा ॥
किमुपायमिहाप्यस्ति येनेतः सहसा पुनः ।
जम्बूद्वीपं गमिष्याम तत्समादेष्टुमर्हति ॥
इति संप्रार्थिते तेन स प्रदीपः समुज्ज्वलन् ।
प्रहसंस्तं समाश्वस्य पुनरेवमुपादिशत् ॥
तदुपायमिहाप्यस्ति येनेतः सहसा व्रजेः ।
जम्बूद्वीपं पुनर्गन्तुं यदीच्छसि शृणुष्व तत् ॥
अत्र तीरे महाम्भोधेः सुवर्णबालुकास्थले ।
बालाहोऽश्वो महा..त्रो विद्यते करुणात्मकः ॥

(१७६)
स श्वेता औषधीर्भुक्त्वा प्रावर्त्य परिवर्त्य च ।
समुत्थाय स्वमात्मानं प्रच्छोडित्वैवमालपेत् ॥
क इतोऽब्धिं समुत्तिर्य गन्तुमिच्छन्ति ये पुनः ।
स्वदेशं मे समारुह्य पृष्ठे तिष्ठन्तु ते दृढम् ॥
यदि गन्तुं तवेच्छास्ति जम्बूद्वीपमितः पुनः ।
तत्र गत्वाश्वराजं तं नत्वा संप्रार्थयादरात् ॥
वयमिच्छामहे गन्तुं जम्बूद्विपमितः पुनः ।
तदस्मान् कृपया सर्वान् संप्रापयिमर्हति ॥
ततः सोऽश्वो महाभिज्ञः सर्वान् युष्मानितो द्रुतम् ।
स्वपृष्ठेन समावाह्य पारेऽब्धेः प्रापयिष्यति ॥
इत्येवं समुपादिश्य स दीपोऽन्तर्हितोऽभवत् ।
सोऽपि शयनमारुह्य राक्षस्या शयितोऽभवत् ॥
तदंगशीतत्वं स्पृष्टा विबुद्धा सा निशाचरी ।
कथं ते शीतलं देहमित्येवं पर्यपृच्छत ॥
तच्छ्रुत्वा सार्थवाहोऽसौ सिंहलो भीतमानसः ।
तां कान्तां प्रमदामेवं प्रबोधयितुमब्रवीत् ॥
कान्तेऽहं निर्गतो गेहाम्मुलमूत्रं विसृज्य च ।
आगम्य शयितस्तेन शीतलिता तनु मम ॥
इति तां मिथ्यया कान्तां बोधियित्वापि शंकितः ।
सिंहलः स विषण्णात्मा तस्थौ निद्रापराङ्मुखः ॥
ततः स प्रातरुत्थाय सर्वांस्तान् वणिजः सत्त्वान् ।
समाहूय बहिर्देशे गत्वा यानमुपाश्रयत् ।
तथा ते वणिजश्चापि सर्वे तत्र समाश्रिताः ।
परस्परं समाभाष्य संतस्थिरेऽभिनन्दिताः ॥
तत्र तान् वणिजः सर्वान्निर्विशंकाभिनन्दितान् ।
सिंहलः स समालोक्य समामन्त्र्यैवमब्रवीत् ॥
भवन्तः प्रष्टुमिच्छामि सत्यं भाषन्तु नान्यथा ।
किदृक्स्नेहोपचारैर्वः कान्ताः संमानयन्ति हि ॥

(१७७)
इति तदुक्तमाकर्ण्य तत्रओकोऽतिप्रगल्भितः ।
सिंहलं तं समालोक्य सहर्षमेवमब्रवीत् ॥
धन्योऽस्मि सार्थवाहात्र भाग्येन प्रेरितः खलु ।
ईदृग्भोग्यमहत्सौख्यं मन्ये स्वर्गेऽपि दुर्लभम् ॥
यन्मे कान्ता सुभद्रांगी सुस्नेहोपचारिणी ।
यथेच्छा सुरसैर्भोग्यैर्मानयन्ति दिवानिशम् ॥
तथान्यः प्रावदत्तत्र महर्सौख्यमिहाप्तवान् ।
भाग्येन प्रेरितोऽत्राहमीदृक्सौख्यं कुहापि न ॥
यन्मे कान्ता वरैर्भोग्यैस्तोषयित्वा दिवानिशम् ।
रमयन्ती यथाकामं मानयन्ती समादरात् ॥
तथापरो वणिक्प्राह धन्योऽहमतीभाग्यवान् ।
ईदृक्सम्पन्महत्सौख्यं लप्स्ये कुत्र कथं कदा ।
ईदृक्महत्तरं सौख्यं मन्ये स्वर्गेऽपि दुर्लभम् ॥
यन्मे स्नेहवती भार्या दिव्यवस्त्रादिभूषणैः ।
मण्डयित्वा यथाकामं रमयित्वा दिवानिशम् ॥
यथाभिलषितैर्भोग्यैस्सन्तर्प्य प्रतिपाति माम् ।
तथान्योऽपि वणिक्प्राह भाग्येनेहाहमाप्तवान् ॥
यदीदृक्महदैश्वर्यं संपत्तिर्लप्स्यते कुतः ॥
स्वर्गेऽपि दुर्लभं मन्ये कुत्रात्र पृथिवीतले ।
यन्मे भार्या मनोरम्या कान्ता दिव्यातिसुन्दरी ॥
विविधदिन्यसौरभ्यगन्धद्रव्यैर्दिवाशम् ।
अनुलिप्य यथाकामं क्रिडयति समादरात् ॥
भोजनैर्विविधास्वादैः पानैर्दिव्यामृतात्तमैः ।
वस्त्रैश्च विविधैः काम्यैर्भूषणैर्विविधैरपि ॥
मण्डयित्वा यथाकामं भोजयित्वा दिवानिशम् ।
यथाभिलषितैः सौख्यैः रमयन्त्यभिपाति माम् ॥
एवं ते वणिज्यः सर्वे स्वस्वभार्याकृतादरम् ।
स्नेहोपचारसत्सौख्यं निवेधैवं बभाषिरे ॥

(१७८)
अहो भाग्यं तदस्माकं यदिह प्रेषिता वयम् ।
ईदृक्संपन्महत्सौख्यं स्वर्गेऽपि दुर्लभं खलु ॥
तदिहैव सदा भुक्त्वा यथाकामं चरेमहि ।
जम्बूद्वीपे पुनर्गन्तुं नोत्सहेम कदाचन ॥
किमीदृक्सुखसंपत्तिर्हित्वा यास्यामहे वयम् ।
स्वदेशेऽपि पुर्नगत्वा किं किं भोक्ष्यामहे सुखम् ॥
कुत्रेदृग्गुणसंपन्ना दिव्यकान्ता मनोरमाः ।
सर्वविद्याकलाभिज्ञा लभ्यन्ते दुर्लभा भुवि ॥
एताः कान्ताः सुभद्रांगाः स्वामिस्नेहोऽनुचारिकाः ।
हित्वा गत्चा स्वदेशेऽपि किं स्थित्वा स्वजनैः सह ॥
धन्यास्ते पुरुषा मर्त्याः कान्ताभिर्ये सदा रताः ।
यथाकामं सुखं भुक्त्वा संचरन्ते यथेच्छया ॥
एवं श्रीगुणसंपन्ना दिव्यकान्तासहारताः ।
यावज्जीवं सुखं भुक्त्वा संतिष्ठेमहि सर्वदा ॥
जम्बूद्विपे पुनर्गन्तुं नाभीच्छामः कदापि हि ।
किं लप्स्यामह एतादृक्महत्सौख्यं कदा कथम् ॥
इत्येवं तैः समाख्यातं सर्वैरपि निशम्य सः ।
सिंहलस्तान् समालोक्य निष्श्वसन्नेवमब्रवीत् ॥
भवन्तः श्रूयतां वाक्यं यन्मया सत्यमुच्यते ।
यदि भद्रेऽस्ति वांछा वः तत्कुरुध्वं यथोदितम् ॥
इति तेनोदितं श्रुत्वा सर्वे ते विस्मताशयाः ।
सिंहलं सार्थवाहं तं समालोक्यैवमब्रुवन् ॥
किं वाक्यं समुपाख्याहि यदि भद्रे समीहसि ।
भवता यत्समादिष्टं करिष्यामस्तथा वयम् ॥
इति तैः कथितं सर्वैः श्रुत्वा स सिंहलः सुधीः ।
सर्वांस्तान् वणिजः सार्थान् संपश्यन्नेवमब्रवीत् ॥
सर्वैः सत्य समाधाय समयं धास्यते यदि ।
तदाहमुपदेक्ष्यामि सत्यमेतद्यथाश्रुतम् ॥

(१७९)
इति तेनोदितं श्रुत्वा सर्वेऽपि तेऽतिविस्मिताः ।
किं समयं धरिष्यामस्तदादिशेति चाब्रुवन् ॥
एतत्तैः कथिते सर्वैः सार्थवाहः स सिंहलः ।
सर्वांस्तान् वणिजः संघान् समालोक्यैवमब्रवीत् ॥
भवन्तः श्रूयतां सर्वैः समयमुदितं मया ।
नैतत्केनापि वक्तव्यं भार्यायाः पुरतोऽपि वः ॥
कश्चिद्भाषेत भार्यायाः पुरा यदि प्रमादतः ।
तदा सर्वे वयं ह्यत्र व्रजेम निधनं खलु ॥
इति सत्यं समाधाय समयं धातुमर्हथ ।
यदि संधार्यते सत्यं सर्वेषामपि भद्रता ॥
इति तदुक्तमाकर्ण्य सर्वेऽपि ते वणिग्जनाः ।
सत्यमेतद्धरिष्यामः समादिशेति चाब्रुवन् ॥
इति सर्वै समाख्यातं श्रुत्वा स सिंहलः सुधीः ।
सर्वांस्तान् वणिजः संघान् संपश्यन्नेवमब्रवीत् ॥
शृणुध्वं धैर्यमालम्ब्य तिष्ठत मा विषीदत ।
इमा हि प्रमदाः सर्वा राक्षस्यो नैव मानुषाः ॥
इति सत्यं मयाख्यातं श्रुत्वा सर्वेऽपि बोधिताः ।
कश्चिदपि स्वभार्यायाः पुरतो वक्तुमर्हति ॥
इति तेन समाख्यातं श्रुत्वा सर्वे वणिग्जनाः ।
भीतिसंत्रसितात्मानः क्षणं तस्थुर्विमोहिताः ॥
ततस्ते वणीजः सर्वे संत्रासाभिहताशयाः ।
सिंहलं सार्थवाहं तं समालोक्यैवमब्रुवन् ॥
सार्थवाह कथं ज्ञातं कुत्र दृष्टं श्रुतं त्वया ।
एताः कान्ता न मानुष्यो राक्षस्य इति तद्वद ॥
यद्येता नैव मानुष्यो राक्षस्य एव तत्कथम् ।
अस्माकं क इह त्राता गतिर्वा स्यात्परायणः ॥
यद्येतत्सत्यमेवेह तिष्ठेमहि कथं वयम् ।
पलायेमहि कुत्रेतस्तदुपायमुपादिश ॥

(१८०)
इति तैः कथितं श्रुत्वा सार्थवाहः स सिंहलः ।
सर्वान्स्तान् वणिजः संघान् समाश्वास्यैवमब्रनीत् ॥
सत्यमेव मृषा नैव तथापि मा विषीदत ।
उपायं विद्यतेऽत्रापि तच्छृणुध्वं मयोदितम् ॥
योऽश्वाजोऽत्र बालाहो नाम तीरे महोदधेः ।
स्थितः सत्त्वानुकम्पार्थं स नः त्राता गतिर्भवेत् ॥
स तिष्ठेदुधेस्तीरे सुवर्णबालुकास्थले ।
आवर्त्य परिवर्त्तापि भुक्त्वा श्वेता महोषधीः ॥
तत्र गत्वा वयं सर्व उपसरेम वन्दितुम् ।
संपश्येत्करुणात्मा स सर्वानस्मानुपासृतान् ॥
दृष्ट्वास्मान् स समुत्थाय प्रच्छादयेत्स्वमाश्रयम् ।
कोऽत्र पारमितो गन्तुमिच्छन्तीति वदेत्त्रिधा ॥
तदा सर्वे वयं नत्वा तमेवं प्रार्थयेमहि ।
इच्छामहे इतो गन्तुं पारं तत्सहसा नय ॥
इत्यस्मत्प्रार्थित श्रुत्वा सर्वानस्मान् स्वपृष्ठके ।
आरोप्य समसोत्तीर्य नयेत्पारं महोदधेः ॥
स एवास्माकमिह त्राता गतिर्नान्यो हि विद्यते ।
तद्वयमश्वराजं तं नत्वैवं प्रार्थयेमहि ॥
एतदुपायमत्रापि विद्यतेऽस्मत्परायणे ।
कश्चिदेतत्स्वभार्याया वक्तुं नैवार्हति ध्रुवम् ॥
प्रमोदाद्यदि भार्यायाः स्नेहात्कश्चिद्वदेत्पुरः ।
राक्षस्योऽस्मान्स्तद सर्वान् भक्षिष्यन्ते न संशयः ॥
इति स्नेहोऽस्ति जीवे वो धृत्वैतत्समयं दृढम् ।
कस्याश्चित्पुरतः किंचिद्वक्तव्यं नैव केनचित् ॥
इति तेनोदितं श्रुत्वा सर्वेऽपि ते वणिग्जनाः ।
मृत्युत्रासाहतात्मानः सिःहलमेवमब्रुवन् ॥
सार्थवाह भवन्नाथस्त्राता मित्रं सुहृद्गतिः ।
अस्माकं नापरः कश्चित्तदन्वाहर्तुमर्हति ॥

(१८१)
कस्मिन्दिने गमिष्याम इतस्तीरे महोदधेः ।
यत्र तिष्ठेदश्वराज इति सत्यं समादिश ॥
इत्युक्तं तैर्निशम्यासौ सार्थवाहो निरीक्ष्य तान् ।
इतोऽहिन तृतीयेऽवश्यं गच्छेमहीति चाब्रवीत् ॥
न कस्याश्चित्पुरः कश्चत्सत्यमेतद्वदेन्न हि ।
गोपनीयं प्रयत्नेन त्रिधेति सोऽब्रवीत्पुनः ॥
इति संमतमाधाय सर्वेऽपि ते वणिग्जनाः ।
तत्पुरे पुनरागत्य स्वस्वालयं समाविशत् ॥
तत्र ताः प्रमदाः कान्ता दृष्ट्वा तान् स्वगृहागतान् ।
स्वं स्वं स्वामितनमालोक्य पप्रच्छुरेवमादरात् ॥
कुत्र भवान् प्रयातोऽत्र समायातोऽसि साम्प्रतम् ।
सत्यमेतत्समाख्याहि यदि स्नेहोऽस्ति ते मयि ॥
इति भार्योदितं श्रुत्वा सर्वेऽपि ते वणिग्जनाः ।
देशाद्बहिर्वयं गत्वागताः स्म इति चाब्रुवन् ॥
एतच्छ्रुत्वा च ताः कान्ताः सर्वाः स्वं स्वं प्रियं मुदा ।
समीक्ष्य समुपासीनाः पप्रच्छुरेवमादरात् ॥
दृष्टं किं महदुद्यानं दृष्टं वापि सरोवरम् ।
fअलपुष्पाभिनम्राश्च दृष्टाः किं पादपा अपि ॥
इति भार्योदितं श्रुत्वा सर्वेऽपि ते वणिग्जनाः ।
किंचिन्न दृश्यतेऽस्माभिरिति प्रत्युत्तरं ददुः ॥
तच्छ्रुत्वा प्रमदाः सर्वाः समीक्ष्य ता स्वकं प्रियम् ।
संप्रहासं कुर्वन्त्यः पुनरेवं बभाषिरे ॥
कथं न दृश्यतेऽत्रास्ति महोद्यानं सरोवरम् ।
विविधास्तरवः सन्ति fअलपुष्पभरानताः ॥
अहो यूयं गताः कुत्र दृश्यन्ते न कथं खलु ।
एतत्सत्यं समाख्याहि यदि प्रियास्म्यहं तव ॥
एतच्छ्रुत्वापि ते सर्वे वणिजः स्वस्वप्रियां प्रति ।
प्रहसन् संनिरीक्ष्यापि पुनरेवं बभाषिरे ॥

(१८२)
इतोऽह्नि तृतीयेऽवश्यं तदुद्यानं सरोवरम् ।
सर्वानपि तरुन् द्र्ष्टुं गमिष्यामो वयं प्रिये ॥
तानि सर्वाणि संवीक्ष्य गृहीत्वापि fअलानि च ।
पुष्पाण्यपि समाहृत्य समायास्यामहे द्रुतम् ॥
तच्छ्रुत्वा तास्तथेत्युक्त्वा सर्वाः स्वं स्वं प्त्रियं मुदा ।
यथाभिलषिताइर्भोग्यैः सादरं समतोषयन् ॥
भुक्त्वा तेऽपि यथाकामं सर्वैः संतोषिता अपिओ ।
दिर्घोच्छ्वासं समुत्सृज्य तस्थुः क्षणं विषादिताः ॥
तदृष्ट्वा प्रमदास्ताश्च सर्वाः स्वस्वप्रभुं प्रति ।
किमुच्छ्वासं समुत्सृष्टं वदेति प्रावदत्पुनः ॥
स्वदेशविषयं स्मृत्वा समुच्छ्वासं समुत्थितम् ।
इति स्वस्वप्रियास्ते सर्वेऽपि पुरतोऽवदन् ॥
तच्छ्रुत्वा प्रमदास्ताश्च सर्वाः स्वस्वपतेः पुनः ।
उपासीना विहसन्त्यः संनिरीक्ष्यैवमब्रुवन् ॥
किं स्वदेशस्मृतिं कृत्वा सुखं भुक्त्वेह तिष्ठत ।
संरमित्वा यथाकामं संचरध्वं यथेच्छया ॥
द्रव्याण्यपि च सर्वाणि भोग्यानि विविधानि च ।
सर्वोपकरणवस्तूनि वस्त्राणि भूषणान्यपि ॥
उद्यानानि सुरम्यानि पुष्करिण्यो मनोरमाः ।
fअलपुष्पाभिनम्राश्च पादपा विविधा अपि ॥
प्रासादाश्च मनोरम्या गृहाश्चाट्टाभिशोभिताः ।
मण्डपाश्च मठाश्चापि रथा अश्वाश्च हस्तिनः ॥
गावश्च महिषाश्चापि सर्वेऽपि पशुजातिकाः ।
विद्यते सकलोऽन्यत्र किं नास्तीह निरीक्ष्यताम् ॥
तदेतान्यपि सर्वाणि त्वदधीनानि सर्वदा ।
यथेच्छया समादाय भुक्त्वा रमन्सुखं चर ॥
नात्र किंचिद्विषादत्वं भयं चापि न किंचन ॥
यथाकामं प्रभुक्त्वैव रम चरन् सुखं वस ॥

(१८३)
इति ताभिः समाख्यातं सर्वेऽपि ते वणिग्जनाः ।
तथेति प्रभाषित्वा तस्थुः विनोदिता इव ॥
ततस्ताः प्रमदाः सर्वा रात्रो स्वस्वप्रियैः सह ।
यथाकामं रमित्वापि सुषेयुः शयनाश्रिताः ॥
तेऽप्येवं वणिजः सर्वे रमित्वा शयनाश्रिताः ।
मृत्युशंकाहतात्मानस्तस्थुर्निद्रापराङ्मुखाः ॥
ततः प्रातः समुत्थाय सर्वेऽपि ते वणिग्जनाः ।
स्वां स्वां भार्यां समामन्त्र्य समालोक्यैवमब्रुवन् ॥
वयं यास्यामहे द्रष्टुं तडागोद्यानपादपान् ।
सज्जीकृत्य तदाहारं संस्थापयत संवरम् ।
तच्छ्रुत्वा प्रमदाः सर्वास्तास्तथेति प्रबोधिताः ।
सज्जीकृत्योपसंस्थाप्य स्वस्वप्रियं व्यनोदयन् ॥
तस्मिंश्च दिवसेऽप्येवं सर्वेऽपि ते वणिग्जनाः ।
भुक्त्वा भोग्यं रमित्वापि तस्थुर्जागर्तिका निशि ॥
ततः प्रातः समुत्थाय सर्वे ते सिंहलादयः ।
स्वां स्वां भार्यां समामन्त्र्य गृहीत्वा स्वस्वसंवरम् ॥
संमील्य सहसा सर्वे देशाद्बहिर्विनिर्गताः ।
गत्वा दूरमनोद्यनसमीपं समुपाश्रयन् ॥
तत्र स सिंहलः सर्वान् वणीजस्तान् विलोकयन् ।
समामन्त्र्य क्रियाकाअरं कर्तुमेवमभाषत ॥
भवन्तः श्रूयतां वाक्यं यन्त्रयात्र निगद्यते ।
तत्सर्वे सत्यमाधाय कर्तुमर्हन्ति नान्यथा ॥
यदि स्नेहः स्वजिवोऽस्ति ज्ञातिबन्धुसुहृत्स्वपि ।
युष्माभिर्मद्वचः श्रुत्वा सत्यं धर्तव्यमत्र हि ॥
शृणुध्वं तत्क्रियाबन्धं क्रियते यन्मया हिते ।
त्रिरत्नशरणं धृत्वा चरितव्यं समाहितैः ॥
केनापि स्मरणीया न भर्या कान्ता प्रिया अपि ।
पश्चान्नैवाभिलोक्यं च यावत्पारं न गम्यते ॥

(१८३)
इति कृत्वा क्रियाबन्धं सर्वे ते सिंहलादयः ।
ततः संप्रस्थिताः शीघ्रं तीरं प्राप्तो महोदधेः ॥
तत्र तमश्वमद्राक्षुः सवर्णवालुकास्थले ।
आवर्त्यपरिवर्तित्वा भुक्त्वौषधीः समाश्रितम् ॥
तत्र तान् समुपयातान् दृष्ट्वा सोऽश्वः समुत्थितः ।
प्रच्छाडित्वा त्रिधा कोऽतः पारगामीति प्रावदत् ॥
तदा ते वणिज्यः सर्वे सांजलयस्तमादरात् ।
त्रिधा प्रदक्षिणीकृत्य प्रणत्वैवं बभाषिरे ॥
देव सर्वे वयं पारं गन्तुमिच्छामहे खलु ।
तद्भवान्नो द्रुतं पारं संप्रापयितुमर्हति ॥
इति तैः प्रार्थितं श्रुत्वा सोऽश्वराजो दयानिधिः ।
सर्वांस्तान् वणिजः पश्यन् पुनरेवमभाषत ॥
यदि पारमितो गन्तुं यूयं सर्वे समिच्छथ ।
मत्पृष्ठं दृढमारुह्य संतिष्ठध्वं समाश्रिताः ॥
यावत्र छोदितं कायं मया तावत्र केनचित् ।
कर्तव्यो दृष्टिविक्षेपो यदि जीवितमिच्छथ ॥
इति तेन समादिष्टं श्रुत्वा स सिंहलाग्रतः ।
नत्वा तत्पृष्टमारुह्य संश्रितः समतिष्ठत ॥
ततस्ते वणिज्यः सर्वे नत्वा तं सहसा क्रमात् ।
रुह्यते पृष्ठमाश्रित्य संश्लेषिता निषेदिरे ॥
ततः सोऽश्वो महावेगी संवहन्स्तान् वणिग्जनान् ।
संक्रमन् सहसाम्भोधेर्मध्ये द्वीपमुपाययौ ॥
तदाश्वेनाहूतान् सर्वान् राक्षस्यस्तान् वणिग्जनान् ।
दृष्टवा ताः सकलास्तत्र सहसा खादुपाचरन् ॥
हा कान्ता प्रियभर्तासि मां विहायाधुना कथम् ।
निःस्नेहो मयि कुत्रैक एव गन्तुं त्वमिच्छसि ॥
अहमपि त्वया सार्धं गन्तुमिहाव्रजामि हि ।
तन्मां पश्यन्भवाकान्त समत्वहर्तुमर्हति ॥

(१८५)
हा कान्त कथमेकान्ते त्यक्त्वा मां भक्तिचारिणीइम् ।
निःस्नेहो रतिसंभोगो क्व प्रयातुं त्वमिच्छसि ॥
कथं मत्स्नेहसंभोगरतिसौख्यमहोत्सवम् ।
विस्मृतं भवता कान्त तत्स्मृत्वा पश्येमां प्रियाम् ॥
हा प्राणसमकान्तोऽसि नैवास्ति मे सुहत्प्रियः ।
तवाप्यस्मि प्रिया भार्या तत्कथं नौ वियोगता ॥
सुदुष्यकोमलैवस्त्रैः प्रावृतोऽसि मयेप्सितैः ।
तत्स्नेहतिमुत्सृज्य कुत्र गन्तुं त्वमिच्छसि ॥
यथाभिलषितैर्भोग्यैः पानैश्च परितोषितः ।
विस्मृत्य कथमेकान्ते मां त्यक्त्वा गन्तुमिच्छसि ॥
विविधसुरभिद्रव्यैस्त्वं लिप्त्वा मोदितो मया ।
सौगन्धिद्रव्यमुज्झित्वा कुत्र गन्तुं त्वमिच्छसि ॥
मुक्ताहाराद्यलंकारैर्भूषितोऽसि यथेप्सितैः ।
तत्ते सर्वमलंकारं त्यक्त्वा गन्तुं कुहेच्छसि ॥
भुक्त्वा भोग्यं यथाकामं रमित्वापि दिवानिशम् ।
तद्भोग्यरतिसत्सौख्यं हित्वा गन्तुं कुहेच्छसि ॥
हा कान्त मम नाथोऽसि कृत्वनाथामिमां सतीम् ।
निर्दयो मां परित्यज्य कथं गन्तुं कुहेच्छसि ॥
हा कान्त पस्य मां भार्यां भवद्धर्मानुचारिणीम् ।
देहि मे दर्शनं स्वामि मा त्यजेमां प्रियंवदाम् ॥
यदि मे दर्शनं कान्त न ददासीह किंचन ।
भवन्नाम समुच्चार्य मरिष्ये श्वो निराशिता ॥
तदा भवानपि मां स्मृत्वा भोग्यक्रीडासुखान्यपि ।
कियत्कालं धरेत्प्राणं यास्यसि मरणं ध्रुवम् ॥
इति स्नेहोऽस्ति ते भर्तः स्वजिवे मयि वा यदि ।
एकधापीह मां स्मृत्वा भवान् संद्रष्टुमर्हति ॥
इत्येवं विलपन्त्यस्ता राक्षस्यः सकला अपि ।
स्वस्वभर्तारमालोक्य रुदन्त्योऽनुययुर्द्रुतम् ॥

(१८६)
तत्कारुण्यविलापं ते श्रुत्वा सर्वे वणिग्जनाः ॥
स्नेहरतिसुखोत्साहं स्मृत्वा ता द्रष्टुमिच्छिरे ॥
तत्र ये येऽतिस्तेनेहार्द्राषु कारुण्याधैर्यमोहिताः ।
तान् द्रष्टुं पृष्टमद्राक्षुस्ते तेऽश्वान्न्यपतन् जले ॥
ये येऽश्वान्निपततन्तोऽब्धौ तान्स्तानालोक्य ता द्रुतम् ।
राक्षस्यः सहसोद्धृत्य प्रादनत्स्वस्वपतिं मुदा ॥
एवं ते वणिजः सर्वे निपतन्तो महाम्बुधौ ।
सहसोद्धृत्य सर्वाभी राक्षसीभिः प्रभक्षिताः ॥
सिंहल एक एवाश्वपृष्ठे संश्लिष्य संश्रितः ।
त्रिरत्नस्मरणं धृत्वा संतस्थौ निश्चलेन्द्रियः ॥
तमेवैकं महासत्त्वमुहित्वा सोऽश्वराट्लघुः ।
सहसा संक्रमत्पारमब्धेरस्तीरं समाययौ ॥
तत्र स तीरमासाद्य प्रच्छोडित्वा स्वमाश्रयम् ।
अवतार्य स्वपृष्ठात्तं सिंहलमेवमब्रवीत् ॥
साधो व्रज समाधाय संपश्यन् पथि सर्वतः ।
सर्वत्र ते शुभं भूयाद्रमस्व बन्धुभिः सुखम् ॥
इति तेन समादिष्टं श्रुत्वा स सिंहलः कृती ।
तमश्वं सांजलिर्नत्वा संपश्यन्नेमवमब्रवीत् ॥
धन्योऽसि त्वं महासत्व यन्मां मृत्युमुखगतम् ।
आदाय सहसोत्तार्य रक्षसि स्वयमागतः ॥
तन्मे नाथोऽसि शास्ता पिण्डानुत्राता सुहृद्गतिः ।
यावज्जीवं भवत्पादं स्मृत्वा भजेय सर्वदा ॥
मन्ये भवन्तमीशांशनिर्मितं त्रिजगत्प्रभुम् ।
बोधिसत्त्वं महासत्वं सर्वसत्त्वानुपालकम् ॥
इत्थं मां सर्वदालोक्य भवान् सर्वत्र संकटे ।
बोधयित्या प्रयत्नेन कृपया त्रातुमर्हति ॥
इति संप्रार्थ्य तं नाथमश्वराजं स सिंहलः ।
त्रिधा प्रदक्षिणीइकृत्य ननाम तत्पदान् पुनः ॥

(१८७)
ततः सोऽश्वस्तमालोक्य किंचिद्दूरे चरन् स्वयम् ।
अन्तर्हितो ज्वलद्वह्निरिवाकाशे ययौ द्रुतम् ॥
तमेवं खे गतं दृष्ट्वा सिंहलः सोऽतिविस्मितः ।
यावद्दृष्टिपथं पश्यंस्तस्थौ नत्वा कृतांजलिः ॥
ततः स सिंहलो धीरः पश्यन्न्मार्गे सहाहितः ।
एकाकी संक्रमन् जम्बूद्वीपारण्यमुपाययौ ॥
तदा या राक्षसी भार्या सिंहलस्य वणिक्पतेः ।
राक्षस्यः सकलास्तास्तां परिवृत्यैवमब्रुवन् ॥
अस्माभिर्भक्षिताः सर्वस्वामिनोऽपि स्वकस्वकाः ।
भक्षितो न त्वयैवैकः स्वामी निर्वाहितः कथम् ॥
यदि तावत्तमानीय भक्षसे न त्वमात्मना ।
त्वां विहत्य वयं सर्वा भक्षिष्याम इति ध्रुवम् ॥
इत्येवं कथितं ताभिः सर्वाभिस्तन्निशम्य सा ।
संत्रस्ता पुरतस्तासां विषण्णास्यैवब्रवीत् ॥
भगिन्यो यदि युष्माकं निर्बन्ध एष निश्चयः ।
सर्वथाहं तमानीय भक्षेयमिति निश्चितम् ॥
इति तयोक्तमाकर्ण्य राक्षस्यः सकला अपि ।
एवं चेत्ते भवेद्भद्रं नोचेन्नेति हि चाब्रुवन् ॥
ततः सा राक्षसी धृत्वा परमभीषणाकृतिम् ।
आकाशात्सहसा गत्वा सिंहलस्य पुरोऽसरत् ॥
दृष्ट्वा तां राक्षसीं भीमां पुरतः समुपासृताम् ।
सिंहलोऽसिं समुत्थाप्य संत्रासयितुमुद्ययौ ॥
सिंहलं तमसिं धृत्वा निहन्तुं संमुखागतम् ।
दृष्ट्वा सा राक्षसी त्रस्ता प्रदुद्राव वनान्तरे ॥
तदा तत्र वणिक्सार्थो मध्यदेशात्समाययौ ।
तं दृष्ट्वा सा सुन्दरीरुपं धृत्वा पुर उपासरत् ॥
तां कान्तां सुन्दरीं रम्यां पुरतः समुपासृताम् ।
सार्थवाहः समालोक्य पप्रच्छैवं समादरात् ॥

(१८८)
भगिनि को भवन्तीह कान्तारे तु मिताश्रया ।
एकाकी कुत आयासि तत्सत्यं वक्तुमर्हसि ॥
इति सार्थभृता पृष्टे रुदन्ती सा कृतांजलिः ।
तस्य सार्थपतेः पादौ प्रणत्वैवं न्यवेदयत् ॥
अहं सार्थपते राज्ञस्ताम्रद्विपपतेः सुता ।
सिंहलस्यास्य भार्यार्थं दत्त तेन महीभुजा ॥
अनेन सार्थवाहेन परिनीयाहमात्मना ।
दत्वा विश्रम्भमानीता स्वदेशगमनं प्रति ॥
अब्धितीरोसंप्राप्ता नौकायादौ विभग्निता ।
अमंगलेति कृत्वाहं छोरितानेन जंगले ॥
तद्भवान् बोधयित्वैनं सार्थवाहं मम प्रियम् ।
मयि स्नेहभिसम्बन्धे संयोजयितुमर्हति ॥
तयेति प्रार्थितं श्रुत्वा सार्थवाहस्तथेति सः ।
प्रतिश्रुय तस्य सार्थवाहस्य समुपासरत् ॥
तं दृष्ट्वा समुपायातं सिंहलः स प्रसादितः ।
आसने संप्रतिष्ठाप्य समालोक्यैवमब्रवीत् ॥
वयस्य कौशलं कश्चिद्देहे सर्वत्र चापि ते ।
इत्येवं संकथालापं कृत्वा तस्थौ विनोदयन् ॥
तथा स सार्थवाहस्तं सिंहलं कौशलं मुदा ।
पृष्ट्वा संमोदयन् वीक्ष्य पुनरेवमभाषत ॥
वयस्यासौ राजपुत्री परिणीता त्वया स्वयम् ।
अस्थाने मा परित्याज्या क्षमस्वास्या विरोधताम् ॥
इति तेनोदितं श्रुत्वा सिंहलः स महामतिः ।
सार्थवाहं तमालोक्य पुनरेवं न्यवेदयत् ॥
सुखेन राजपुत्रीयं परिणीतापि ना मया ।
राक्षसीयमिहायाता ताम्रद्वीपनिवासिनी ॥
इति तेनोदितं श्रुत्वा सार्थवाहः स विस्मितः ।
सिंहलं सुहृदं तं च समालोक्यैवमब्रवीत् ॥

(१८९)
वयस्य राक्षसीयं कि कथमेवमिहागता ।
ज्ञातापि च त्वया केन तत्सत्यं वक्तुमर्हसि ॥
इति तेनोदिते सर्ववृत्तान्तं विस्तरेण सः ।
सिंहलस्य मित्रस्य पुरतः संन्यवेदयत् ॥
तदुक्तं सर्वृत्तान्तं श्रुत्वा स सार्थभृत्सुधीः ।
सत्यमिति परिज्ञाय बभुव त्रसिताशयः ॥
ततः स सिंहलस्तस्मात्संप्रस्थितः समाहितः ।
संपश्यन् पथि सर्तत्र संचरन् स्वपुरं ययौ ॥
तत्र स स्वगृहे गत्वा मातापित्रोः पुरो गतः ।
तत्पादान् सहसा नत्वा कौशल्यं समपृच्छत ॥
त्वन्मुखदर्शनादेव कौशल्यं नौ सदा भवेत् ।
तवापि कौशलं कच्चिदिति तौ पर्यपृच्छताम् ॥
तच्छ्रुत्वा सिंहलश्चासौ स्वप्रवृत्तिमनुस्मरन् ।
गलदश्रुविलिप्तास्यो पित्रोरेवं न्यवेदयत् ॥
किं ताताविह वक्षामि दैवेन प्रेरितोऽस्मि हि ।
एक एवाहमायातः सर्वे नष्टाः सहायकाः ॥
कथमिति पुनः पृष्टः पितृभ्यां सिंहलः सुतः ।
सर्वमेतत्स वृत्तान्तं विस्तरेण न्यवेदयत् ॥
तदुक्तं सर्वमाकर्ण्य पितरौ प्रहताशयौ ।
चिरं निःश्वस्य तं पुत्रं पश्यन् तावेवमूचतुः ।
हा पुत्र भाग्यतो नौ त्वं जीवन्निह समागतः ।
मा शुचस्तद्धनं नष्टं धैर्यं धृत्वा सुखं चर ॥
किमेव बहुभिर्द्रव्यैर्विना पुत्रेण नौ गृहे ।
पुत्र एव महारत्नं धर्मार्थवंशसाधनम् ॥
बहुरत्नानि नः सन्ति यदि त्वमिह नागतः ।
एतान्यपि हि सर्वाणि व्यर्थं क्षिणुयुरावयोः ॥
द्रव्ये नष्टे पुनर्द्रव्यं साधययं प्रयत्नतः ।
त्वयि पुत्रे विनष्टेऽहं साधयेयं कथं परम् ॥

(१९०)
किं करिष्यन्ति रत्नानि विना पुत्रेण साधुना ।
निर्धनोऽपि वरं साधुः पुत्रो धर्मार्थसाधनः ॥
मृते रत्नानि किं कुर्युर्विना पुत्रेण साधुना ।
सत्पुत्रः पिण्डदानादीन् कृत्वा स्वर्गेऽपि प्रेर्स्येत् ॥
सत्पुत्र एवं सद्रत्नमिह धर्मार्थसद्गुणान् ।
साधयेद्यत्परत्रापि संस्कृत्य प्रेरयोद्दिवि ॥
तत्त्वमेवावयो रत्नमिह धर्मार्थसौख्यदम् ।
संस्कारपिण्डदानैश्च परत्र प्रेरयेद्दिवि ॥
इत्यावयोर्हि संसारे त्वन्मुखाम्भोजदर्शनात् ।
जन्मजीवितसम्पत्तिसाधनं सfअलं भवेत् ॥
इति विज्ञाय सत्पुत्र त्वमावाभ्यां सहान्वितः ।
सद्धर्मसाधनं कृत्वा भुक्त्वा कामं समाचर ॥
धृत्वा स्वकुलसंवृत्तिं त्रिरत्नशरणं गतः ।
दत्वार्थिभ्यो यथाकामं संरमस्व गृहाश्रितः ॥
तस्मिन्नवसरे तत्र राक्षसी सातिसुन्दरी ।
भूत्वा सिंहलसंकाशं पुत्रं धृत्वा समाययौ ॥
तत्र तं बालकं पुत्रमंक आरोप्य सर्वतः ।
पृच्छन्ति सिंहलगेहं बभ्राम सा प्रगल्भिका ॥
तत्र सा प्रेरिता लोकैः सिंहलस्य गृहान्तिके ।
गत्वा समीक्ष्यमाना तद्द्वारमूलमुपाश्रयत् ॥
तत्र लोकाः समालोक्य बालकं तं मनोहरम् ।
सिंहलसदृशाकारं पश्यन्त एवमब्रुवन् ।
भवन्तो ज्ञायतामेष बालकः सिंहलात्मजः ।
यदस्य सिंहलस्येव निर्विशेषं मुखेन्द्रियम् ।
इत्युक्तं जनकायेन निशम्य सा क्षपाचरा ।
भवद्विर्ज्ञातेऽस्यायं पुत्र इत्येवमब्रवीत् ॥
भगिनि त्वं सुता कस्य कुतः कथमिहागता ।
इति तैश्च जनैः पृष्टा सा पुनरेवमब्रवीत् ॥

(१९१)
भवन्तोऽहं सुता राज्ञस्ताम्रद्वीपाधिपस्य हि ।
पित्रास्य सार्थवाहस्य दत्ता भार्यार्थमात्मना ॥
अनेन सार्थवाहेन परिणीता सहागता ।
अब्धितीरोपप्राप्ता नौर्भग्ना यादोऽनिलाहता ॥
अमंगलेति कृत्वाहं छोरितानेन जंगले ।
क्षुद्रं पुत्रमिमं धृत्वा कष्टेनेहाहमागता ॥
अस्यात्मजो ह्ययं बालो भार्याहं धर्मचारिणी ।
इत्येनं स्वामिनं सर्वं संबोधयितुमर्हथ ॥
तयेति प्रार्थितं श्रुत्वा सर्वे लोकास्तथेति ते ।
प्रतिज्ञाय द्रुतं तस्य सिंहलस्य पुरो गताः ॥
सर्वमेतत्प्रवृत्तान्तं यथोदितं तथा तथा ।
विस्तरेण समाख्याय सिंहलमेवमव्रुवन् ॥
सार्थवाह त्वया भार्या क्षुद्रपुत्रा तपस्विनी ।
बालकश्च सुतस्तेऽसौ त्यक्तावेनावुभौ कथम् ।
तदस्माकं वचः श्रुत्वा भार्यां तां स्वात्मजं च तम् ।
संपश्यन् कृपया साधो समन्वाहर्तुमर्हसि ॥
इति तैः प्रार्थ्यमानोऽसौ सिंहलस्तान् सुहृज्जनान् ।
सर्वानपि समालोक्य पुर एवमभाषत ॥
भवन्तो न सुता राज्ञो भार्यापीयं न मे खलु ।
राक्षसी हि नराहारा ताम्रद्वीपनिवासिनी ॥
बालोऽप्ययं न मे पुत्रो निर्मितो माययानया ।
इति सत्यं मया ज्ञात्वा कथ्यते न मृषा खलु ॥
तच्छ्रुत्वा ते जनाः सर्वे तस्य पित्रोः पुरो गताः ।
सर्वमेतत्प्रवृत्तान्तं विस्तरेण न्यवेदयन् ॥
तन्निवेदितमाकर्ण्य पितरौ तौ प्रबोधितौ ।
स्वात्मजं तं समामन्त्र्य पुर एवमभाषताम् ॥
क्षमस्व स्वात्मजस्नेहाद्दुहितुर्नृपतेस्तव ।
भार्यायाः परिणीयात अपराधं सहस्रशः ॥

(१९२)
इति तदुक्तमाकर्ण्य सिंहलः सोऽभिरोषितः ।
पित्रोरेतत्प्रवृत्तान्तं निवेद्य चैवमब्रवीत् ॥
तात नेयं सुता राज्ञः भार्यापि च न मे खलु ।
दारकोऽयं न मे पुत्रो निर्मितो माययानया ॥
राक्षसीयं नराहारा ताम्रद्वीपनिवासिनी ।
अस्मानपि समाहर्तुं ताम्रद्वीपादिहागता ॥
इति पुत्रोदितं श्रुत्वा तौ मातापितरावपि ।
तमात्मजं समालोक्य पुनरेवमभाषताम् ॥
सर्वा अपि स्त्रियः पुत्र राक्षस्य एव मायिकाः ।
तेनास्या अपराधत्वं क्षन्तुमर्हसि सर्वथा ॥
इत्येतत्कथितं ताभ्यां श्रुत्वा स सिंहलः सुतः ।
तौ मातापितरौ पश्यन् पुनेरेवमभाषत ॥
यद्येषा तात युष्माकमभिप्रेता मनोरमा ।
धारयत गृहे ह्येतां यास्याम्यन्यत्र साम्प्रतम् ॥
इति पुत्रोदितं श्रुत्वा तौ मातापितरौ पुनः ।
आत्मजं तं समालोक्य स्नेहादेवमभाषताम् ॥
धास्यामः सुत तामेनां तवैवार्थे गृहे सदा ।
यदि ते रुचिता नेयं किमस्माकमनयात्मज ॥
इति ताभ्यां कथित्वासौ निष्कासिता बलात्ततः ।
सिंहकेशलिनो राज्ञः सकाशं सहसा ययौ ॥
तत्र सा सुन्दरी कान्ता सपुत्रा द्वारे सन्निधौ ।
समुपासृत्य पश्यन्ती मोहयन्ती समाश्रयत् ॥
तां दृष्ट्वा मन्त्रिणोऽमात्याः सर्वे कौतूहलान्विताः ।
नृपतेः पुरतो गत्वा समीक्ष्यैवं न्यवेदयन् ॥
देवातिसुन्दरी कान्ता सकान्तबालकात्मजा ।
राजद्वारमुपाश्रित्य संपिष्ठते प्रगल्भिका ॥
इति तैर्निवेदितं श्रुत्वा राजा स सिंहकेशली ।
प्रवेशयात्र पश्येयमिति तान्मन्त्रिणोऽब्रवीत् ॥

(१९३)
मन्त्रिणस्तथेत्युक्त्वा गच्छन्तः सहसा ततः ।
वनितां तां समाहूय प्रावेशयन्नृपालयम् ॥
दृष्ट्वा तां सुन्दरी कान्तां राजासौ रागमोहितः ।
सुचिरं तां समालोक्य तस्थौ निश्चरितेन्द्रियः ॥
ततः स नृपतिः पश्यन् पृष्ट्वा तां कौशलं मुदा ।
कुतस्त्वमागता कस्य पुत्रीति पर्यपृच्छत ॥
तच्छ्रुत्वा प्रमदा सा तं पश्यन्ती नृपतिं चिरात् ।
गलदश्रुविलिप्तास्या प्रणत्वैवमभाषत ॥
देव जानीहि मां पुत्रीं ताम्रद्वीपमहीपतेः ।
सार्थवाहस्य भार्यार्थं ददौ स नृपतिः स्वयम् ॥
तेनापि सार्थवाहेन परिणीतासमादरात् ।
ततः संप्रस्थितानेन सहेहागन्तुमुत्सुका ॥
अब्धितीरे प्राप्ता नौर्भग्ना यादोऽनिलाहता ।
कृच्छ्रात्ततः समुत्तीर्य तीरमासद्य प्राचरन् ॥
अमंगलेति कृत्वाहं छोरितानेन जंगले ।
तदात्मजमिमं धृत्वा शनैरिह समागता ॥
पृष्ट्वाहं सार्थवाहस्य गृहं गत्वा समाश्रिता ।
पितृभ्यामपि संत्यक्ता निर्वाहिता गृहाद्बलात् ॥
तद्भवच्छरणे राजन् क्षुद्रपुत्राहमागता ।
तद्भवान्सिंहलं पौरैं क्षमापयितुमर्हति ॥
इति तयोक्तमाकर्ण्य नृपतिः स समीक्ष्य ताम् ।
समाश्वास्य समाहूय मन्त्रिण एवमब्रवीत् ॥
मन्त्रिणः सार्थवाहं तं सिंहलं सिंहनन्दनम् ।
गत्वाहं सहसाहूय समानयत साम्प्रतम् ॥
इति राज्ञा समादिष्टं श्रुत्वा ते मन्त्रिणो द्रुतम् ।
सिंहलं तं समाहूय नृपस्य समुपानयत् ॥
दृष्ट्वा तं समुपायातं सिंहलं स नराधिपः ।
सादरं समुपामन्यिं समीक्ष्यैवं समादिशत् ॥

(१९४)
सिंहलं केन भार्येषा त्वया त्यक्ता नृपात्मजा ।
क्षमस्वैनां गृहे नीत्वा सात्मजामभिपालय ॥
इत्यादिष्टं नरेन्द्रेण श्रुत्वा स सिंहलो वणिक् ।
सांजलिस्तं नृपं नत्वा समालोक्यैवमब्रवीत् ॥
देव नैषा सुता राज्ञो भार्यापि मे सुतोऽप्ययम् ।
राक्षसीयं नराहारा ताम्रद्वीपादिहागता ॥
तेनैतत्कथितं श्रुत्वा स राजा रागमोहितः ।
सिंहलं तां च समीक्ष्य पुनरेवं समादिशत् ॥
सर्वाः स्त्रियोऽपि राक्षस्य एव तत्क्षन्तुमर्हति ।
येद्येषा नाभिप्रेता ते त्यक्त्वा मे दीयतां त्वया ॥
एतद्राजोदितं श्रुत्वा सिंहलः स वणिक्सुधीः ।
नृपतिं तं समालोक्य पुनरेवं न्यवेदयत् ॥
राक्षसीयं महाराज न दद्यां नापि वारये ।
भवान् सम्यग्विचार्यैव करोतु ते हितं यथा ॥
इति तदुक्तमाकर्ण्य राजा स रागमोहितः ।
इत्युक्त्वा सिंहतो धीरः ततः संप्रेस्थितो गृहे ॥
त्रिरत्नस्मृतिमाधाय तस्थौ धैर्यसमाहितः ।
तां कान्तां ससुतां स्वान्तःपुरे प्रावेशयन्मुदा ॥
ततः सा रमणी कान्ता राजानं तं प्रमोहितम् ।
रमयन्ती यथाकामैः सुखैर्हृत्वा वशेऽनयत् ॥
तयैव सह संरक्तो राजा स कामनन्दितः ।
यथाकामं सुखं भुक्त्वा चचार स्वेच्छया रमन् ॥
एवं सा राक्षसी नित्यं रमयित्वा यथेच्छया ।
नृपतिं तं वशीकृत्य स्वच्छन्दं समचारयत् ॥
ततः सा राक्षसी रात्रो राजकुलाश्रितान् जनान् ।
नृपतिप्रमुखान् सर्वान् संप्रास्वपितान् व्यधात् ॥
कृत्वा सर्वान् प्रसुप्तांस्तान् प्रास्वापनाभिमोहितान् ।
ततः सा सहसाकाशात्ताम्रद्वीपं मुदाचरत् ॥

(१९५)
तत्र सा सहसोपेय ताः सर्वा अपि राक्षसी ।
पुरतः समुपाहूय समालोक्यैवमब्रवीत् ॥
भगिन्यस्तेन युष्माकमेकेन सिंहलेन किम् ।
सिंहकेशरिणो राज्ञः सिंहकल्पाभिधे पुरे ॥
नृपतिप्रमुखाः सर्वे जना अन्तःपुराश्रिताः ।
मया कृताः प्रसुप्तास्ते प्रास्वापनाभिमोहिताः ॥
आगच्छत मया सार्धं सहसा तत्र चरेमहि ।
नृपतिप्रमुखान् सर्वान् भक्षिष्यामोऽधुना वयम् ॥
इति तयोक्तमाकर्ण्य राक्षस्यः सकला अपि ।
आकाशात्सहसा गत्वा सिंहकल्पं मुदाचरन् ॥
तत्र ताः सहसोपेत्य सर्वा राजकुले स्थितान् ।
नृपतिप्रमुखान् सर्वांल्लोकान्मुदा च खादिरे ॥
सर्वेऽपि भक्षितास्ताभी राक्षसीभिर्नृपादयः ।
जना राजकुलद्वारं नोद्घाटितमुषस्यपि ॥
राजकुलोपरि प्रातः पक्षिणः कुणपाशिनः ।
गृध्रादयो विरावन्तः प्रभ्रमन्तः प्रेचिरिरे ॥
तत्र प्रातः समायाता अमात्या मन्त्रिणो जनाः ।
पक्षिणो भ्रमतो दृष्ट्वा तस्थुः सर्वेऽपि विस्मिताः ॥
कथं राजकुलं द्वारं नोद्घाटितं च साम्प्रतम् ।
भ्रमन्तः पक्षिणोऽनेके इत्युक्त्वा तस्थुरुन्मुखाः ॥
तत्प्रवृत्तान्तमाकर्ण्य सिंहलः सहसोत्थितः ।
निशितं खड्गमादाय प्राचरत्तत्र सत्वरः ॥
तत्र तां जनतां पश्यन्सिंहलः स उपाश्रितः ।
गलदश्रुविलिप्तास्यः पुरत एवमब्रवीत् ॥
भवन्तः कुणपाहारा भ्रमन्त्यत्र खगा यतः ।
तद्राजापि जनाः सर्वे राक्षस्या भक्षिता खलु ॥
तदुक्तमिति तच्छ्रुत्वा सर्वेऽपि मन्त्रिणो जनाः ।
कथमेवं त्वया ज्ञातमित्यप्राक्षुस्तमादरात् ॥

(१९६)
तच्छ्रुत्वा सिंहलश्चासौ सर्वान्स्तान्मन्त्रिणो जनान् ।
समीक्ष्य तत्पुरः स्थित्वा सहसौवमभाषत ॥
भवन्तो दीर्घनिःश्रेणिः सहसानीयतामिह ।
आरुह्योपरि गत्वाहं पश्याम्यत्र समन्ततः ॥
तदुक्तं मन्त्रिणः श्रुत्वा निःश्रेणिं सहसा जनैः ।
आनयित्वाशु प्रासादे प्रान्ते समध्यरोपयन् ॥
तान् दृष्ट्वा सिंहलः खड्गं धृत्वाभिरुह्य संक्रमन् ।
प्रासादोपरि संस्थित्वा त्रासयत्ताः निशाचरीः ॥
सिंहलं खड्गपाणिं तं प्रासादोपरि संस्थितम् ।
राक्षस्यस्ताः समालोक्य सर्वा भीता विबभ्रमुः ॥
तासां काश्चिच्छिरो धृत्वा काश्चित्पादान् भुजान् पराः ।
ताः सर्वा अपि राक्षस्यः पलायितास्ततो द्रुतम् ॥
ततः सिंहल आलोक्य सर्वास्ता निष्पलायिताः ।
प्रासादादवतीर्याशु द्वारं समुदघाटयत् ॥
ततस्ते मन्त्रिणोऽमात्या जनाः सर्वेऽपि सैनिकाः ।
गत्व समीक्ष्य राजादीन् सर्वान् भुक्तान् विचुक्रुशुः ॥
सुचिरं विलपित्वा ते सर्वेऽपि मन्त्रिणो जनाः ।
अमात्याः सैनिकाः पौरा विचेरुः संत्रसिताशयाः ॥
ततः स सिंहलो दृष्ट्वा सर्वांस्तान्मन्त्रिणो जनान् ।
अमात्यान् सैनिकान् पौरान् समामन्त्र्यैवमब्रवीत् ॥
भवन्तो मा विचरन्त्यत्र नास्ति काचिन्निशाचरी ।
तत्सर्वे समुपाविश्य पश्यन्तां सर्वतः पुनः ॥
ततस्ते मन्त्रिणोऽमात्या जनाः संवीक्ष्य सर्वतः ।
सर्वराजकुलं सान्तर्बहिस्तं समशोधयन् ॥
ततस्ते मन्त्रिणोऽमात्या ब्रह्मणादीन्महाजनान् ।
सन्निपात्य प्रजाश्चापि समामर्नयैवमब्रुवन् ॥
भवन्तोऽत्र मृतो राजा वंशस्तस्य न विद्यते ।
तदत्र कं कृत्वा मिमीमहि वदन्त्विदम् ॥

(१९७)
इति तैर्मन्त्रिभिः प्रोक्तं श्रुत्वा ते ब्राह्मणादयः ।
महाजनाः प्रजाश्चापि सर्वेऽप्येवं न्यवेदयन् ॥
यः प्राज्ञः सात्विको विरो नीतिशास्त्रविचक्षणः ।
दयाकारुण्यभद्रात्मा सर्वधर्महितार्थभृत् ॥
तं विधिनाभिंषिंच्यात्र प्रतिष्ठाप्य नृपासने ।
सर्वराज्याधिपं कृत्वा प्रमाणयन्तु सर्वदा ॥
इति तैः कथितं श्रुत्वा केचिद्विज्ञा महाजनाः ।
सर्वेषां मन्त्रिणां तेषां पुरत एवमब्रुवन् ॥
सिंहलोऽयं सार्थावाहः सात्विको नीतिवित्कृती ।
दयाकारुण्यभद्रात्मा सर्वसत्त्वहितार्थभृत् ॥
ईदृग्वीरो महाप्राज्ञो दयाकारुण्यसन्मतिः ।
मैत्रीश्रीसद्गुणाधारो नास्ति कश्चिन्महाजनः ॥
तदेनं सिंहलं वीरमभीषिंच्य नृपासने ।
प्रतिष्ठाप्य नृपं कृत्वाभिमतां सकलैः सह ॥
इति तैरुदितं श्रुत्वा तेऽमात्या मन्त्रिणो जनाः ।
सर्वेऽप्यनुमतं कृत्वा तथा कर्तुं समारभन् ॥
ततस्ते मन्त्रिणोऽमात्या ब्राह्मणाश्च महाजनाः ।
सिंहलं तं समामन्यिं पुरत एवमब्रवन् ॥
सिंहलात्र यदस्माकं प्रजानामपि संमतम् ।
तदनुमोद्य राज्योऽत्र राजा भवितुर्हसि ॥
इति तैर्मन्त्रिभिः सर्वैरमात्यैः सुजनैर्द्विजैः ।
प्रार्थितं सिंहलः श्रुत्वा तत्पर एवमब्रवीत् ॥
भवन्तोऽहं वणिग्वृत्तिव्यवहारोपजीविकः ।
तत्कथं राज्यसंभारं संवोढुमभिशक्नुयाम् ॥
तदेतन्मम योग्यं न क्षमन्तु तदशक्यताम् ॥
यद्योग्यं कर्म तत्रैव योजनीयो हि मन्त्रिभिः ॥
इति तेनोदितं श्रुत्वा तेऽमात्या मन्त्रिणो जनाः ।
सर्वे तं सिंहलं वीक्ष्य समामन्त्र्यैवमब्रुवन् ॥

(१९८)
भवत्सदृशः सद्बुद्धिर्विर्यवान् सदयः कृती ।
सात्विको लोकविख्यातः कश्चिदन्यो न निद्यते ॥
यच्चास्य नृपतेर्वंशे विद्यतेऽपि न कश्चन ।
तदत्रेदं भवान् राज्यमनुशासितुमर्हति ॥
इति तैर्मन्त्रिभिः सर्वैः संप्रार्थितं निशम्य सः ।
सिंहलो मन्त्रिणः सर्वान् समालोक्यैवमब्रवीत् ॥
भवन्तो यदि मां सर्वे राजानं कर्तुमिच्छथ ।
समये नाहमिच्छामि राज्यं समनुशासितुम् ॥
इति तेनोदितं श्रुत्वा सर्वे ते मन्त्रिणो जनाः ।
अमात्यास्तं महाभिज्ञं समलोक्यैवमब्रुवन् ॥
यथा यद्भवताख्यातं समयं तत्तथा खलु ।
सर्वे वयं समाधाय चरिष्यामः समाअहिताः ॥
इति तदुत्तमाकर्ण्य सिंहलः संप्रबोधितः ।
सर्वान्स्तान्मन्त्रिणोऽमात्यान् समालोक्यैवमब्रवीत् ॥
यद्येतत्सत्यमाधाय सर्वे चरितुमच्छथ ।
तथात्र राज्यसंभारं संवोढुमुत्सहेऽप्यहम् ॥
तद्भवन्तोऽत्र मे वाक्यं धृत्वा धर्मानुसाधिनः ।
त्रिरत्नभजनं कृत्वा चरेयुः सर्वेदा शुभे ॥
इत्यनुशासनं धृत्वा मम धर्मासहायीनः ।
सर्वेसत्त्वहिताधारे दह्र्मे चरितुमर्हथ ॥
इति तेनोदितं श्रुत्वा सर्वे मन्त्रिणो जनाः ।
अमात्या द्विजपौराश्च तथेति प्रतिशुश्रुवुः ॥
ततस्ते मन्त्रिणोऽमात्या जना द्विजा महाजनाः ।
सर्वेऽपि संमतं कृत्वा तं नृपं कर्तुमारभन् ॥
ततस्तेऽत्र पुरे सम्यग्छोधयित्वा समन्ततः ।
ध्वजछत्राद्यालंकारैर्मण्डनैः समशोधयन् ॥
ततस्ते परिशुद्धेऽहिन सिंहलं यथाविधिम् ।
अभिषिंच्य महोत्साहैश्चक्रुः लोकाधिपं नृपम् ॥

(१९९)
नृपासने प्रतिस्ठाप्य सर्वे लोकाः समन्त्रिणः ।
सिंहलं तं महाराजं संसेविरे समादरात् ॥
ततः स सिंहलो राज सर्वांल्लोकाअन् विनोदयन् ।
स्वस्वधर्मे प्रतिष्ठाप्य शशास स्वात्मजानिव ॥
तदनुशासनं धृत्वा सर्वे लोका द्विजादयः ।
त्रिरत्नभजनं कृत्वा संचेविरे शुभे सदा ॥
तदा तस्य प्रभो राज्ये सर्वत्र विषयेष्वपि ।
निरुत्पातं शुभोर्साह प्रावर्त्तत निरन्तरम् ॥
तथा स मन्त्रिभिः सद्भिः नीतिधर्मविचक्षणैः ।
सेव्यमानो महाविज्ञो रराज देवराडिव ॥
तत्र स नृपतिर्जित्वा जन्बूद्वीपे महीभुजः ।
सर्वान्स्तान्मन्त्रिणोऽमात्यान् समामर्नयैवमादिशत् ॥
सज्जीक्रियतामाश्वत्र चतुरंगबलैः सह ।
ताम्रद्विपे गमिष्यामि जेतुं ता राक्षसीरपि ॥
तदादिष्टं समाकर्ण्य सर्वे मन्त्रिणो जनाः ।
चतुरंगबलान्येवं सहसा समसज्जयन् ॥
ततः सन्नाह्य स भूमीन्द्रश्चतुरंगबलैः सह ।
संप्रस्थितो महोत्साहैस्तीरं प्राप महोदधेः ॥
तत्र स तानि सर्वाणि चतुरंगबलान्यपि ।
आरोप्य वहनेष्वब्धौ संप्रस्थितो चरन्मुदा ॥
तत्र स संतरन् सर्वैश्चतुरंगवलैः सह ।
स्वस्तिना सहसाम्बोधेः पारतीरमुपाययौ ॥
ताम्रद्वीपे तदा तत्र राक्षसीनां महद्ध्वजः ।
रेपित आपणस्थाने कम्पितोऽसूचयद्भयम् ॥
तं प्रकम्पितमालोक्य राक्षस्यो भयशंकिताः ।
सर्वा एकत्र संमिल्य मिथ एवं समूचिरे ॥
भवन्त्य आपणस्थोऽथं ध्वजः प्रकम्पितोऽधुना ।
जाम्बुद्वीपनृपा नूनमस्भिर्योद्धुमागताः ॥

(२००)
सज्जीकृत्वा तदस्माभिः स्थातव्यमिह साम्प्रतम् ।
इति संभाष्य ता द्रष्टुमब्धितीरमुपाचरन् ॥
तत्रस्थाः सकलास्तास्तान् सिंहलादीन्नराधिपान् ।
तीरोत्तीर्णान्महोत्साहैर्ददृशुर्योद्धुमागतान् ॥
दृष्ट्वा तान् समुपायातान् राक्षस्यस्ता भयान्विताः ।
काश्चित्पलायिता भीताः काश्चद्योद्धं समाश्रिताः ॥
योद्धं प्रत्युद्गताः काश्चित्काश्चित्तस्थुर्निरीक्ष्य खे ॥
तान् प्रत्युद्गतान् दृष्ट्वा सिंहलस्या&॰२८९;याया द्रुतम् ।
विद्याधरिभिराविष्टा वीरैः शस्त्रैः प्रद्योतिताः ॥
अवशिष्टा अभिस्ताः सिंहलस्य नृपप्रभोः ।
कृतांजलिपुटा नत्वा पादयोरेवमब्रुवन् ॥
क्षमस्व नो महाराज व्रजामः शरणे तव ।
तदस्मान् योषितो बाला हन्तुं नार्हति क्षत्रियः ॥
इति संप्रार्थितं ताभिः श्रुत्वा स सिंहलः प्रभुः ।
समयेन क्षयं व इति ता वीक्ष्याब्रवीत् ॥
तच्छुत्वा सकला तास्तं सिंहलं क्षत्रियाधिपम ।
सांजलयः पुनर्नत्वा समालोक्यैवमब्रवीत् ॥
किं समयं समाख्यातुं भवताभिहितं यथा ।
तथा सर्वे वयं धृत्वा चरिष्यामः सदापि हि ॥
इतिः ताभिः समाख्यातं निशम्य स नृपः सुधीः ।
तां सर्वा राक्षसीः पश्यन् पुनरेवमभाषत ॥
यदीदं नगरं त्यक्त्वा सर्वेऽन्यत्राधितिष्ठथ ।
मद्विजिते च यद्यत्र नापराध्येथ कस्यचित् ॥
तदा युष्माकमेवाहमपराध्यक्षयमेनहि ।
तदन्यथा कृते युष्मान् सर्वा हन्यां स संशयः ॥
इति तेन समाख्यातं श्रुत्वा ताः सकला अपि ।
सिंहलं तं प्रणत्वा च समालोक्यैवमब्रुवन् ॥
स्वामिंस्तथा करिष्यामो भवानभिहितं यथा ।
तदस्मान् योषिता बालाः संपालयितुमर्हति ॥

(२०१)
इति संप्रार्थ्य सर्वास्ता राक्षस्यः परिबोधिताः ।
त्यक्त्वा तद्विषयं गत्वा वनेऽन्यत्र समाश्रयन् ॥
तत्र स सिंहलो राजा सामात्या मन्त्रिणो जनाः ।
स्थित्वा लोकानधिष्ठाप्य स्वस्वधर्मेऽन्वशासत ॥
तत्र ते सकला लोका धृत्वा तन्नुपशासनम् ।
त्रिरत्नभजनं कृत्वा स्वस्वर्धं समाचरन् ॥
तदैतद्धर्मभावेन सुभिक्षं निरुपद्रवम् ।
सद्धर्ममंगलोत्साहं प्रावर्तत समन्ततः ॥
सिंहलेन नरेन्द्रेण जित्वा संवासितं स्वयम् ।
तेनासौ सिंहलद्वीप इति प्रख्यापितोऽभवत् ॥
योऽसौ सिंहलो राजा तदाहमभवं खलु ।
यः सिंहकेशरी राजा ज्येष्ठ एव महल्लकः ॥
तदाभूद्राक्षसी या सा वेषा एवानुपमा खलु ।
यो वलाहोऽश्वराजोऽभूदेषोऽवलोकितेश्वरः ॥
तदाप्येवं स लोकेशो बोधिसत्त्वो विलोक्य माम् ।
अश्वो भूत्वा समुत्तार्याप्यब्धेरेवं महद्भयात् ॥
एवं स त्रिजगन्नाथो बोधिसत्त्वः सदा स्वयम् ।
विलोक्य सकलान् सत्त्वान् समुत्तार्य भयादवत् ॥
तेनास्य सदृशो धर्मो नास्ति कस्यापि कुत्रचित् ।
बुद्धानामपि नास्त्येव कुतोऽन्येषाअं त्रिधातुषु ॥
इत्थमयं महासत्त्वः सर्वलोकाधिपेश्वरः ।
सर्वधर्माधिपः शास्ता महाभिज्ञाऽधिराजते ॥
तेन लोकाधिपाः सर्वे त्रैधातुकाधिपा अपि ।
अस्य शरणमाश्रित्य प्रभजन्ति सदादरात् ॥
येऽप्यस्य शरणं कृत्वा भजन्ति सर्वदादरात् ।
दुर्गतिं ते न गच्छन्ति संप्रयान्ति सुखावतीम् ॥
तत्र गत्वामिताभस्य मुनीन्द्रस्योपसंश्रिताः ।
सदा धर्मामृतं पीत्वा प्रचरन्ति जगद्धिते ॥
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ।
निःक्लेशा बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥
इति विज्ञाय ये सत्त्वाः समीच्छन्ति जिनास्पदम् ।
तस्य लोकाधिनाथस्य भजन्तु शरणाश्रिताः ॥
इति शास्त्रा समादिष्टं श्रुत्वा सर्वे सभाश्रिताः ।
लोकास्तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥

॥ इति सिंहलसार्थवाहोद्धारणप्रकरणं समाप्तम् ॥


१७. सर्वसत्त्वोद्धारण संबोधिमार्ग स्थापन महेश्वरोमादेवी संबोधिव्याकरणोपदेश प्रकरणम्

अथ सर्वनीवरणविष्कम्भी स जिनात्मजः ।
सांजलिर्भगवन्तं तं पुनर्नत्वैवमब्रवीत् ॥
भगवंस्त्रिजगद्धर्तुस्ते लोकाधिपतेः प्रभोः ।
काये धर्माः कियन्तोऽपि विद्यन्ते तान् समादिश ॥
इति संप्रार्थितं तेन विष्कम्भिना निशम्य सः ।
भगवांस्तं महासत्त्वं समलोक्यैवमादिशत् ॥
कुलपुत्रास्य नाथस्य त्रैधातुकनिवासिनाम् ।
काये सर्वेऽपि सद्धर्माः संविद्यन्ते व्यवस्थिताः ॥
तद्यथास्य तनौ लोम्नां विवरेषु सन्ति ये वृषाः ।
तान् संक्षेपेण वक्ष्यामि शृणुध्वं यूयमादरात् ॥
तद्यथैकविले लोम्नः सुवर्णानि बहून्यपि ।
गन्धर्वाणां सहस्त्राणि निवसन्ति महासुखम् ॥
बाध्यन्ते न च ते क्लेशैर्दुःखैः संसारिकैरपि ।
विरक्ता दुरिताचारोपविशुद्धेन्द्रियोत्तमाः ॥
सद्धर्माचारसंरक्ताश्चतुर्ब्रह्मविहारिणः ।
शुद्धशीलाः सदाष्टांगपोषधव्रतधारिणः ॥
तत्र श्रीमन्महारत्नं चिन्तामणिसमुज्ज्वलः ।
सर्वसत्त्वहितार्थाय स्वयमुत्पद्य संस्थितः ॥
यदा ते मणीमभ्यर्च्य गन्धर्वास्ते समीप्सितम् ।
प्रार्थयन्ति तदा तेषां सर्वं संसिध्यते तथा ॥
एवं भद्रसुखं भुक्त्वा गन्धर्वास्ते प्रमोदिताः ।
त्रिरत्नभजनं कृत्वा प्रचरन्तः शुभे स्थिताः ॥
एतदपि महद्धर्ममस्य लोमविले स्थितम् ।
तेनासौ त्रिजगन्नाथो धर्मकायो विराजते ॥
ततोऽन्यस्मिंश्च कृष्णाख्ये लोमविले जगत्प्रभोः ।
शतकोटिसहस्राणि महर्षीणां वसन्त्यपि ॥
एकोऽभिज्ञा द्वयभिज्ञाश्च त्र्यभिज्ञाश्चापि केचन ।

(२०४)
केचिच्चतुरभिज्ञाश्च पंचाभिज्ञाश्च केचन ।
सर्वे ते ऋषयो धीराः स्वस्वकुलव्रतंधराः ।
सुवर्णमयशैलानां पार्श्वेषु कुट्टिमाश्रिताः ॥
केचिद्रूपमयानां च पार्श्वेषु भूभृतां स्थिताअः ।
पद्मरागमयानां च केचित्पार्श्र्वेषु भूभृताम् ॥
केचिन्नीलमयानां च पार्श्वेषु कुट्टिमाश्रिताः ।
केचिद्वज्रमये पार्श्वे केचिन्मणिमये स्थिताः ॥
वैडूर्यकुट्टिमे केचिदश्मगर्भमयेऽपरे ।
केचिद्भीष्ममये पार्श्वे सप्तरत्नमयेष्वपि ॥
सर्वेषामपि रत्नानां पार्श्वेषु सरसीष्वपि ।
उद्यानेषु तथा केचिदारामेषु वनेषु च ॥
सर्वेर्तुfअलपुष्पाद्यैर्वृक्षैः संशोभितेष्वपि ।
केचिच्चन्दनवृक्षाणां केचिदगुरुर्भूरुहाम् ॥
केचित्तमालवृक्षाणां केचिच्चम्पकभूरुहाम् ।
अश्वत्थानां वटाणां च तथान्येषां च भूरुहाम् ॥
तथान्ये कल्पवृक्षाणां वांछितार्थप्रदायिनाम् ।
तलेषूटजमाश्रित्य संतिष्ठन्ते समाहिताः ॥
केचिदष्टांगशुद्धाम्बुसम्पूर्णेषु सरस्स्वपि ।
दिव्यपद्मोत्पलाद्येषु समाश्रित्य समाहिताः ॥
शुद्धशीला विशुद्धांगाः शुद्धाशय जितेन्द्रियाः ।
नानातपोव्रतं धृत्वा संतिष्ठन्ते समाहिताः ॥
अनेककल्पवृक्षाअश्च सुवर्णरुप्यपत्रकाः ।
सन्ति लोहितदण्डाश्च सर्वालंकारलम्बिताः ॥
तत्रेदृक्कल्पवृक्षाणामेकैकस्य तले स्थितम् ।
गन्धर्वाणां शतं स्मृत्वा त्रिरत्नं भजने सदा ॥
यदा ते भवसंचारदुखानि विविधान्यपि ।
विचिन्त्य खेदितात्मानः एवमुदीरयन्त्यपि ॥
अहो जन्मजराव्याधिक्लेशव्याकुलदुःखता ।

(२०५)
सर्वेषामपि जन्तूनां संसारभ्रमतां सदा ॥
जाम्बूद्वीपमनुष्यास्ते क्लेशाग्निनितापिताशयाः ।
दुःखानि विविधान्येव भुक्त्वा चरन्तिं दुर्वृतौ ॥
कथं ते मानवा दृष्ट्वा जीवीतं भंगुरोपमम् ।
त्रिरत्नभजनं कृत्वा न चरन्ति जगद्धिते ॥
त्रिरत्नभजनं कृत्वा ये चरन्ति जगद्धिते ॥
तेषां सर्वमभिप्रायमिहापि सिध्यते खलु ॥
परत्र ते सुखावत्यां लोकधातौ समीरिताः ।
जिनेन्द्रस्यामिताभस्य शरणे समुपस्थिताः ॥
सर्वदा भजनं कृत्वा पीत्वा धर्मामृतं मुदा ।
बोधिचर्याव्रतं धृत्वा संचरेरन् जगद्धिते ॥
ततस्ते विमलात्मानो बोधिसत्त्वा जिनात्मजाः ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥
इत्येवं तैः समाख्यातं श्रुत्वा पक्षिमृगादयः ।
पशवोऽपि समुद्विग्ना मनसैवं व्यचिन्तयन् ॥
अहो दुःखं मनुष्याणामपि संसारचारिनाम् ।
तिरश्चां पशुजातीनामस्माकं किं कथ्यते ॥
कदा वयमिमं पापकायं त्यक्त्वा पुनर्भवे ।
मानुष्यजन्म आसाद्य चरेमहि सदा वृषे ॥
धन्यास्ते मनुजा लोके त्रिरत्नशरणं गताः ।
स्मृत्वा ध्यात्वा भजन्तोऽयं संचरन्ते जगद्धिते ॥
इत्येवं तेऽनुसंचिन्त्य सर्वे पक्षिमृगादयः ।
त्रिरत्नमनुसंस्मृत्वा ध्यात्वा भजन्त आदरात् ॥
तदा तेषामभिप्रायं सर्वेषामपि सिध्यते ।
दिव्यभोग्यादिवस्तूनि सर्वाण्यपि भवन्ति च ॥
तद्दृष्ट्वा सुप्रसन्नास्ते सर्वे पक्षिमृगादयः ।
त्रिरत्नभजनं कृत्वा भजन्तः प्रचरन्त्यपि ॥
एवं ते ऋषिगन्धर्वाः पक्षिमृगादिजन्तवः ।

(२०६)
अपि सर्वे शुभोत्साहैः संतिष्ठन्ते प्रमोदिताः ॥
एवं कृष्णाभिधे लोमे विवरे काये जगत्प्रभोः ।
ऋष्यादयो महासत्वाः महर्द्धिधर्मचारिणः ॥
एवं तस्य जगद्धर्तुः काये सर्वे वृषाः स्थिताः ।
तेनायं त्रिजगन्नाथः सर्वधर्माधिपः प्रभुः ॥
इति मत्वास्य सर्वेऽपि श्रद्धया शरणं गताः ।
नामाप्युच्चार्य स्मृत्वापि भजन्तु वोधिवांछिनः ॥
येऽप्यस्य शरणे स्थित्वा नामाप्युच्चार्य सर्वदा ।
ध्यात्वा स्मृत्वापि सद्भक्त्वा भजन्ति संप्रसादिताः ॥
दुर्गतिं ते न गच्छन्ति संयास्यन्ति सुखावतीम् ।
तत्रामिताभनाथस्य शरणे समुपस्थिताः ॥
सदा धर्मामृतं पीत्वा परिशुद्धत्रिमण्डलाः ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥
इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः ।
विष्कम्भिप्रमुखाः सर्वे प्राभ्यनन्दन् प्रबोधिताः ॥
ततः स भगवांस्तं च विष्कम्भिनं जिनात्मजम् ।
सादरं समुपामन्त्र्य संपश्यन्नेवमादरात् ॥
कुलपुत्र ततोऽन्यत्र तस्य त्रैधातुकप्रभोः ।
लोकेशस्य तनौ लोमविवरे रत्नकुण्डले ॥
तत्रानेकानि गन्धर्वकन्यानां नियुतानि च ।
शतकोटिसहस्राणि निवसन्ति सदा मुदा ॥
ताः सर्वा देवकन्याभा दिव्यारुपा मनोहराः ।
सौम्यातिसुन्दराः कान्ता भद्रपोष्टेन्द्रियाशयाः ॥
बाध्यन्ते नैव ताः क्लेशैः दुःखैर्मानुष्यकैरपि ।
सद्धर्मश्रीगुणसंपत्तिसुखासंपन्ननन्दिताः ॥
तास्सर्वास्तस्य नाथस्य चतुःसंध्यं समाहिताः ।
ध्यात्वा नाम समुच्चार्य स्मृत्वा भजन्ति सादरम् ॥
तासां सर्वाणि वस्तूनि द्रव्याणि भूषणानि च ।

(२०७)
प्रादुर्भूतानि सिध्यन्ते यथाभिवांछितान्यपि ॥
एवं ताः सुखसंपन्नाश्चतुर्ब्रह्मविहारिणः ।
बोधिचर्याव्रतं धृत्वा प्रचरन्तो जगद्धिते ॥
त्रिरत्नभजनं कृत्वा संबोधिनिहिताशयाः ।
सत्यधर्मानुसंरक्तास्तिष्ठन्ति संप्रमोदिताः ॥
एवं तस्य जगन्नाथशरीरं सुकृतालयम् ।
तेनासौ त्रिजगन्नाथो धर्मराजो विराजते ।
ततोऽन्यस्मिन् विले लोम्नस्तस्य च त्रिजगत्प्रभोः ।
कोटिशतसहस्राणि निवसन्त्यमृतान्धसाम् ॥
ते सर्वेऽप्यमरा धीराः संबोधिनिहिताशयाः ।
बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्मविहारिणः ॥
एकभूमिस्थितः केचित्केचिद्द्वितीयभूमिकाः ।
तृतीयभूमिकाः केचित्केचिच्चतुर्थभूमिकाः ॥
पंचमभूमिकाः केचित्केचिच्च षष्ठभूमिकाः ।
सप्तमभूमिकाः केचित्केचिदष्टमभूमिकाः ॥
नवमभूमिकाः केचित्केचिद्दशमभूमिकाः ॥
सर्वे सत्त्वहिताधानसंबोधिव्रतचारिणः ।
त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते ॥
तस्मिंश्च विवरे सन्ति हेमरुप्यमया नगाः ।
षष्टियोजनसाहस्रसमुच्छ्रिता महत्तराः ॥
सर्वेऽपि शतशृंगास्ते सप्तरत्नमयोज्ज्वलाः ।
तेषां पार्श्वेषु सर्वेषु ते एकभूमिकादयः ।
बोद्धिसत्वा महासत्वा ध्यात्वा तिष्ठन्ति योगिनः ।
गन्धर्वाणां च साहस्रकोटिलक्षशतान्यपि ॥
रत्नमयविमानेषु संरमन्ते महोत्सवैः ।
संगीतितूर्यसंवाद्यैर्महायानव्रतोत्सवैः ॥
त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते ॥
ततो विश्रम्य सर्वे ते विमानेषु समाश्रिताः ।

(२०८)
कृत्वा सद्धर्मसांकथ्यं संवसन्ते प्रमोदिताः ॥
ततस्ते चंक्रमस्थाने पुष्करिण्यो वै शुभाम्बुभिः ।
अष्टांगगुणसम्पन्नैः पूर्णायाश्च सरोरुहैः ॥
पद्मोत्पलादिपुष्पैश्च छन्नायास्तटमन्दिरे ।
मण्डितहेमरुप्यादिरत्नालंकारभूषणैः ॥
भूषिते कल्पवृक्षैश्च सुवर्णरुप्यपत्रकैः ।
प्रवाललोहितस्तम्बैः सर्वालंकारलम्वितैः ।
चंक्रम्य तत्र ते रात्रो सर्वे ध्यात्वा समाहिताः ।
षड्गतिभवसंचारनिःस्पृहा निर्वृतीच्छिकाः ॥
निःक्लेशा विमलात्मानश्चतुर्ब्रह्मविहारिणः ।
महायानव्रतोत्साहः सुखं भुक्त्वा समाश्रिताः ।
एवं ते सकला नित्यं चतुस्संध्यं समाहिताः ॥
त्रिरत्नाराधनं कृत्वा भजन्तो निवसन्त्यपि ॥
एवमस्य जगद्भर्तुः कायो धर्मगुणाश्रयः ।
ततोऽसौ त्रिजगन्नाथो धर्मकायो विराजते ॥
ततोऽन्यत्र विले लोम्ना वज्रमुखाभिधे पुनः ।
अनेके पर्वताः सन्ति लक्षकोटीसहस्रकाः ॥
केचिद्धेममया केचिद्रौप्यवज्रमया अपि ।
केचिन्नीलमयाः केचित्पद्मरागमया अपि ॥
केचिन्मणिन्मयाः केचिदश्मगर्भमयास्तथा ।
वैडूर्याः स्fआटिकाश्चापि सप्तरत्नमया अपि ॥
तेषु सर्वेषु भूभृत्सु कल्पवृक्षा महोच्छ्रयाः ।
विद्रुमपादपाश्चापि चन्दनतरवोऽपि च ॥
सर्वे सौगन्धिवृक्षाश्च सर्वे पुष्पमहीरुहाः ।
सर्वर्तुfअलवृक्षाश्च विद्यते परिशोभिताः ॥
पुष्करिणीसहस्रानि दिव्यामृतभराण्यपि ।
पद्मोत्पलादिसौगन्धिपुष्पपूर्णानि सन्ति च ॥
विमानान्यपि चानेकसाहस्राणि हि सन्त्यपि ।

(२०९)
सुवर्णरुप्यदिव्यादिरत्नमयानि सन्ति च ॥
तेषु दिव्यविमानेषु किन्नराणां सुधर्मिणाम् ।
लक्षशतसहस्राणि वसन्ति सुरसोत्सवैः ॥
ते सर्वे किन्नरा दिव्यारत्नलंकारभूषिताः ।
भवचारभयोद्विग्नाश्चतुर्ब्रह्मविहारिणः ॥
प्रदातारः शुभाचाराः दयात्मनो महाशयाः ।
योगधानसमाधानाः शुद्धप्रज्ञाविचक्षणाः ॥
सर्वे तेषु विमानेषु विश्रान्ता विजितेन्द्रियाः ।
त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते ॥
ततः सर्वेऽपि ते तेषु विमानेषु समाश्रिताः ।
सर्वपारमिताधर्मसांकथ्यं संप्रकुर्वते ॥
ततस्ते चंक्रमस्थाने कूटागारमनोरमे ।
अधस्तात्कल्पवृक्षाणां हेमरुप्यपलाशिनाम् ॥
प्रवाररक्षदण्डानां सर्वालंकारलम्बिनाम् ।
चंक्रम्य तत्र ते सर्वे विश्रम्य समुपाश्रिताः ॥
षड्गतिभवसंचारनानादुःखानुभाविनः ।
भवचारनिरुत्साहाः सद्धर्माभिरताशयाः ॥
त्रिरत्नस्मृतिमाधाय संतिष्ठन्तेइ समाहिताः ।
तद तेषां च सर्वेषां प्रादुर्भूतानि सर्वतः ॥
सरत्नद्रव्यभोग्यानि सर्वोपकरणान्यपि ॥
एवं ते किन्नराः सर्वे सद्धर्मश्रीसुखान्विताः ।
त्रिरत्नभजनं कृत्वा तिष्ठन्ते बोधिमानसाः ॥
एवं तस्य जगद्भर्तुः कायो महद्वॄषाश्रयः ।
तेनासौ त्रिजगन्नाथो धर्मकायेऽभिराजते ॥
ततोऽन्यस्मिन् विले लोम्नः सूर्यप्रभात्किधे पुनः ।
कनकपर्वताः सन्ति द्वादशशतलक्षकाः ॥
तदैकैकस्य शृंगानि दशशतशतानि च ॥
तत्रैकैकस्य पार्श्वानि दशलक्षशतानि च ।

(२१०)
तत्रैकैकत्र पार्श्वाणि सप्तरत्नमयोज्ज्वलः ॥
उद्यानानि विचित्राणि मण्डितानि सुरद्रुमैः ॥
पुष्करिण्योऽप्यनेकाश्च स्वष्टांगगुणसंयुतैः ।
जलैः पद्मादिपुष्पैश्च परिपूर्णाः सुगन्धिभिः ॥
कूटागाराणि लक्षाणि हेमरत्नमयानि च ।
विचित्रदिव्यरत्नादिमण्डनालंकृताअन्यपि ॥
तेषां मध्ये महारत्नं सारदकोसिधो महान् ।
चिन्तामणिर्जगद्भद्रवांच्चितार्थाभिपूरकः ॥
तेषु सर्वेष्वसंख्येया बोधिसत्त्वा समाश्रिताः ।
त्रिरत्नभजनं कृत्वा निवसन्ति समाहिताः ॥
यदा ते बोधिसत्त्वास्तं चिन्तामणिमुपस्थिताः ।
सम्भ्यर्च्य यथाकामं प्रार्थयन्ति जगद्धिते ॥
तदा तेषां स सर्वार्थं पूरयति यथेप्सितम् ॥
एवं श्रीसुखसंपन्नाः संतिष्ठन्ते जिनात्मजाः ॥
यदा तत्र प्रतिष्ठास्ते बोधिसत्त्वाः शुभाशयाः ।
प्रजल्पन्ते महाविद्यामनुस्मृत्वा षडक्षरीम् ॥
तदा पश्यन्ति ते सर्वे सुखावत्यां समाश्रितम् ।
अमिताभं जिनं तं च सर्वलोकाधिपं प्रभुम् ॥
सर्वान् बुद्धांश्च पश्यन्ति सर्वक्षत्रसमाअश्रितान् ।
बोधिसत्त्वान् समासत्त्वान् सर्वांश्च सद्गुणाकरान् ॥
एवं सर्वान् जिनान् तृप्तान् बोधिसत्वांश्च ते मुदा ।
सर्वे तेनापि निष्क्रम्य चंक्रमन्ते यथेप्सिते ॥
केचिद्रत्नमयोद्याने पुष्करिणीतटेष्वपि ।
केचित्पर्वतपार्श्वेषु कल्पवृक्षतलेष्वपि ॥
तत्र पर्यंकमाभुज्य परिशुद्धत्रिमण्डलाः ।
ऋजुकायाः स्मृतिमन्तो ध्यात्वा तिष्ठन्ति योगिनः ॥
एवं तस्य जगद्भर्तुः काय सर्ववृषाश्रयः ।
तेनायं त्रिजगन्नाथो धर्मकायो विराजते ॥ २११
ततोऽन्यस्मिन् विले लोम्न इन्द्रराजाभिधे पुनः ।
नगाशीतिसहस्राणि हेमरत्नमयानि च ॥
तेष्ववैवर्त्तिका धीर बोधिसत्त्वाः समाश्रिताः ॥
महासत्त्वा महाभिज्ञा कोटिलक्षसहस्रकाः ॥
तत्र मध्ये समुद्भूतं चिन्तामणिं महत्तरम् ।
तं ते सर्वे समभ्यर्च्य प्रार्थयन्ति प्रार्थयन्ति यदेप्सितम् ॥
तदा तेषामभिप्रायं सर्वेषामपि वांछितम् ।
असौ चिन्तामणिः सर्वं संपूरयति सर्वदा ॥
तेषां न विद्यते किंचिद्दुःखं कदापि भाविकम् ।
बाध्यन्ते नापि ते सर्वे क्लेशै रोगादिभिः सदा ॥
सदापि ते महासत्त्वाश्चतुर्ब्रह्मविहारिणः ।
त्रिरत्नाराधनं कृत्वा संचरन्ते जगद्धिते ॥
एवं तत्र महाभिज्ञाः बोधिचर्याविवर्तिकाः ।
संबोधिनिहितात्मानः संतिष्ठन्ते समाहिताः ॥
ततोऽन्यस्मिन् विले लोम्नो महौषध्यभिधे च पुनः ।
नवनवेतिसाहस्रपर्वतास्तत्र सन्त्यपि ॥
केचिद्धेममया रुप्यमया वज्रमया अपि ।
इन्द्रनीलमयाश्चापि पद्मरागमया अपि ॥
मरकतमयाश्चापि केचिच्च स्fअटिका अपि ।
सर्वरत्नमयाश्चापि विद्यम्ते तत्र भूधराः ॥
तत्रानेकसहास्राणि प्रथमबोधिचारिणाम् ।
त्रिरत्नभजनं कृत्वा संचरन्ते जगद्धिते ॥
ते सर्वेऽपि न बाध्यन्ते क्लेशैर्दुःखैः कदाचन ।
भद्रश्रीगुणसंपत्तिसमन्विता निराधयः ॥
सुशीला विमलात्मानश्चतुर्ब्रह्मविहारिणः ।
संबोधिप्रणिधिं कृत्वा संचरन्ते सुसंवरे ॥
तेषु पर्वतशृंगेषु पार्श्वेषु च समन्ततः ।
गन्धर्वाणां सहस्राणि निवसन्ति बहूनि च ॥

(२१२)
सर्वेऽपि ते महायानचर्याव्रतसमाहिअताः ।
परिशुद्धाशया धीराः संबोधिनिहिताशयाः ॥
सततं धर्मसंगीतिसंप्रवृत्तिमहोत्सवैः ।
लोकेशस्मृतिमाधाय प्रवर्तन्ते सदा शुभे ॥
एतद्धर्ममहोत्साहं सर्वे ते बोधिचारिणः ।
त्रिविधमोक्षाणि संचिन्त्य भावयन्ति सुनिर्वृतिम् ॥
ततस्ते भवसंचारे सुखदुःखादिभाविनः ।
संबोधिप्रणिधिं कृत्वा संतिष्ठन्ते समाधिषु ॥
ततोऽन्यस्मिन् विले लोम्नश्चित्रराजोऽभिधे पुनः ।
प्रत्येकबुद्धकोटीनां नियुतानि शतानि च ॥
सप्तरत्नमयोगानां पार्श्वेषु गह्वरेष्वपि ।
ध्यात्वा स्मृतिमुपस्थाप्य संतिष्ठन्ते समाधिषु ॥
सर्वेऽपि ते महाभिज्ञा महर्द्धिका विचक्षणाः ।
विविधप्रातिहार्याणि दर्शयन्ति वियद्गताः ॥
ततस्ते सप्तरत्नांगसानुषु समुपाश्रिताः ।
विविधधर्मसांकथ्यं कृत्वा तिष्ठन्ति मोदिताः ॥
ततस्ते कल्पवृक्षाणां छायासु समुपाश्रिताः ।
समाधिनिहितात्माअनः संतिष्ठन्ते समाहिताः ॥
ततस्ते कल्पवृक्षेभ्यः प्रार्थयित्वा समादरात् ।
सरत्नद्रव्यभोग्यानि भुक्त्वार्थिभ्यो ददन्ति च ॥
एवं तत्र महाभिज्ञाः प्रत्येकसुगताः स्थिताः ॥
ध्यात्वा सत्त्वहितं कृत्वा संचरन्ते समन्ततः ॥
एवमन्येषु सर्वेषु लोम्नां च विवरेष्वपि ।
ब्रह्मादयो मुनीन्द्राश्च शक्रादयोऽपि चामराः ॥
गन्धर्वाः किन्नराः सिद्धाः साध्या रुद्रा गणाधिपाः ।
भैरवा मातृकाः सर्वा महाकालगणा अपि ॥
भूताः प्रेताः पिशाचाश्च कुम्भाण्डा राक्षसादयः ।
नागाश्च गरुडा दैत्याः स्वस्वधर्मानुचारिणः ॥

(२१३)
ब्रह्मणा वैष्णवाः शैवा योगिनो ब्रह्मचारिणः ।
निर्ग्रन्थाअस्तीर्थिकाश्चापि यतयश्च तपस्विनः ॥
राजानः क्षत्रिया वैश्याः शूद्राः सर्वे च मानवाः ।
एवं च प्राणिनः सर्वे यावन्तो भवचारिणः ॥
स्वस्वकुलव्रताचारसंरता धर्मचारिणः ।
सर्वे तस्य जगद्भर्तुः सर्वलोमविलाश्रिताः ॥
यदा ते तं जगन्नाथं ध्यात्वा स्मृत्वा समादरत् ।
त्रिरत्नं प्रणयन्तोऽपि संभजन्ते समाहिताः ॥
तदा तेषामभिप्रायधर्मश्रीगुणसाधनम् ।
सर्वेषामपि तत्सर्वं संसिध्यते यथेप्सितम् ॥
एवं तस्य जगच्छास्तुः कायस्सर्ववृषालयः ।
तेनासौ त्रिजगन्नाथो धर्मराजो विरजते ॥
तदग्रे विवरे लोम्नां ध्वजाग्रे सर्वेपश्चिमे ।
अशीत्यगसहस्राणि सन्ति रत्नमयान्यपि ॥
विद्यन्ते कल्पवृक्षाणां कोटिलक्षशतानि च ।
चन्दनागुरुसौगन्धिपुष्पfअलद्रुमा अपि ॥
सर्वा वज्रमयी भूमीश्चन्द्रकान्तिप्रभासमाः ।
कूटागारसहस्रानां कोटीनियुतशतानि च ॥
तेषु सर्वेषु सौवर्णसप्तरत्नमयेषु च ।
सोपानादीनि सौवर्णसप्तरत्नमयान्यपि ॥
कूटागारेषु सर्वेषु तेषु तथागताः स्थिताः ।
संबोधिसाधनं धर्मं निर्दिशन्ति जगद्धिते ॥
एवं ते सुगताः सर्वे जम्बूद्वीपे नृइणामपि ।
सर्वाः पारमिताश्चापि निर्दिशन्ति सदापि च ॥
एवं ते सर्वदा काले विविधां धर्मदेशनाम् ।
कृत्वा सत्त्वहितार्थेन संतिष्ठन्ते समाहिताः ॥
एवं तस्य जगच्छास्तुः कायः सर्ववृषाश्रयः ।
तेनासौ त्रिजगच्छास्ता धर्मकायो विराजते ॥

(२१४)
अथ सर्वनीवरणविष्कम्भी स जिनात्मजः ।
भगवन्तं मुनीन्द्रं तं समालोक्यैवमब्रवीत् ।
भगवन् पुनरन्यानि लोमविवराणि सन्त्यपि ।
तानि सर्वाणि मे शास्तः समुपदेष्टुमर्हसि ॥
इति तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः ॥
विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥
कुलपुत्र न विद्यन्ते ततोऽतिक्रम्य दक्षिणे ।
पादांगुष्ठे जगद्भर्तुर्भ्रमन्ति चतुरब्धयः ॥
तदंगुष्ठाद्विनिष्क्रम्य यदा पतति वाडवे ।
तदा तदुदकं सर्वं भस्मत्वमधियास्यति ॥
एवं तस्य जगद्भर्तुः सर्वधर्मालया तनुः ।
तेनायं त्रिजगद्भर्ता धर्माराजोऽभिराजते ॥
अथ सर्वनीवरणविष्कम्भी स जिनात्मजः ।
भगवन्तं मुनीन्द्रं तं समालोक्यैवमब्रवीत् ॥
भगवन् भगतादिष्टं महात्म्यं त्रिजगत्प्रभोः ।
श्रुत्वाहं परमाश्चर्यं प्राप्तोऽस्मि खलु साम्प्रतम् ॥
तच्छ्रुत्वा भगवांच्छास्ता शाक्यसिंहो जगद्गुरुः ।
विष्कम्भिनं तमालोक्य पप्रच्छैवं समादरात् ॥
कुलपुत्र किमर्थं त्वं परमाश्चर्यं प्राप्तवान् ।
एतत्सत्यं ममाग्रेऽत्र वक्तुमर्हति सर्वथा ॥
इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः ।
विष्कम्भी भगवन्तं समालोक्यैवमब्रवीत् ॥
यदसौ भगवान्नाथः सर्वधर्मसमाश्रयः ।
त्रैधातुकोऽधिपालेन्द्रो धर्मराजोऽभिराजते ॥
यदस्य शरणं गत्वा श्रद्धया समुपस्थिताः ।
ध्यात्वा स्मृत्वापि नामापि समुच्चार्य भजन्ति ये ॥
तदा तेषामभिप्रायं सद्धर्मगुणसाधने ।
भद्रश्रीसुखसंपत्तिरपि सर्वैव सिध्यते ॥

(२१५)
धन्यास्ते सुखिताः सर्वे यस्य त्रैधतुकप्रभोः ।
सद्धर्मगुणासांकथ्यं शृण्वन्ति श्रद्धया मुदा ॥
ये चाप्यस्य गुणाशंसाकारण्डव्यूहसूत्रकम् ।
लिखेल्लिखापयेद्वापि पठेच्च पाठयेदपि ॥
श्रुत्वा च मनसा नित्यं भावयेत्सर्वदादरात् ।
विस्तरेण तदर्थं च परेभ्यः समुपादिशेत् ॥
सोऽपि धन्यो महासत्त्वो बोधिसत्त्वः गुणाशयः ।
निष्पापः परिशुद्धात्मा परिशुद्धेन्द्रियो भवेत् ॥
नापि स बाध्यते क्लेशैर्दुःखैश्च भवचारिकैः ।
न वापि जायते हीनकुलेषु दुर्गतिष्वपि ॥
तस्य काये ज्वराश्चाष्टौ रोगाः कुष्ठादयोऽपि च ।
विविधा व्याधयः सर्वे जायेरन्न कदाचन ॥
न च हीनेन्द्रियश्चासौ नापि दुःस्थो दुराशयः ।
बलवान् परिपुष्टांगः शुद्धेन्द्रियः सुखी सुधीः ॥
सद्धर्मसाधनोत्साही संबुद्धगुणलालसः ।
त्रिरत्नभजनं कृत्वा संचरेत जगद्धिते ॥
एतत्पुण्यविशुद्धात्मा परिशुद्धेन्द्रियः कृती ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥
इति तेन समाख्यातं श्रुत्वा स भगवान्मुदा ।
विषम्भिनं तमालोक्य पुनरेवं समादिशत् ॥
साधु साधु महासत्त्व त्वमीदृक्प्रतीभानवान् ।
यल्लोकेशगुणोद्भावमाहात्यमनुभाषसे ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः ।
प्रमोदितो मुनीन्द्रं तं समालोक्यैवमब्रवीत् ॥
भगवन् यदहं भाषे लोकेशगुणसत्कथाम् ।
एतल्लोकसभामध्ये तद्भवतोऽनुभावतः ॥
यदाहं भगवन्नत्र लोकेशसुकृतोत्कथाम् ।
भाषामीमे तदा सर्वे लोकाः श्रद्धार्पिताशयाः ॥

(२१६)
तदनुशंसनं श्रुत्वा सर्बेऽपीमे सभाश्रिताः ।
ब्रह्मेन्द्रासुरनागेन्द्रप्रमुखा अनुमोदिताः ॥
अस्य त्रैलोकनाथस्य सदा शरण आस्थिताः ।
ध्यात्वाप्याराधितुं नित्यं समभीच्छन्ति साम्प्रतम् ॥
इति तेन समाख्याते भगवान् स मुनीश्वरः ।
विष्कम्भिनं तं समालोक्य पुनरेव समादिशत् ॥
साधु साधु सुधिओइरोऽसि यत्त्वमत्र पुनः पुनः ।
प्रोत्साहयन्निमांल्लोकान् सर्वान् करोषि बोधितान् ॥
तदहं ते प्रसन्नोऽस्मि यत्स्वयं मे सभाश्रिताः ।
सर्वेऽस्य त्रिजगद्भर्तुः धर्मं प्रोत्साह्य नन्दिताः ॥
इत्यादिष्टं मुनीन्द्रेण विष्कम्भी सोऽभिनन्दितः ।
भगवन्तं तमानम्य प्रार्थयदेवमादरात् ॥
भगवंस्त्रिजगद्भर्तुस्तानि लोमविलान्म्यहम् ।
द्रष्टुमिच्छमि तच्छास्तः सन्दर्शयितुमर्हति ॥
इति संप्रार्थिते तेन विष्कम्भिना स सर्ववित् ।
भगवांस्तं महासत्त्वं समालोक्यैवमादिशत् ॥
अग्राह्या कुलपुत्रस्त्रे लोमविला जगत्प्रभोः ।
असंस्पृश्या असंदृश्या यथाकाशस्तथा किल ॥
तेषु समन्तभद्राद्या बोधिसत्त्वा जिनात्मजाः ।
सर्वे द्वादश वर्षाणि संभ्रमन्ते समन्ततः ॥
सर्वं तेनैव दृष्टानि तानि लोमविलानि हि ।
बुद्धैरपि न दृश्यन्ते तेष्वेव संस्थितैरपि ॥
किमन्यैर्बोधिसत्त्वैस्तौइरर्हद्भिर्ब्रह्मचारिभिः ।
योगिभिरृषिभिश्चापि दृश्यन्ते नैव केनचित् ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा स सुगतात्मजः ।
विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत् ॥
ये च समन्तभद्रेण दृश्यन्ते भ्रमतापि न ।
यानि बुद्धैर्न दृश्यन्ते तत्रैव संस्थितैरपि ॥

(२१७)
भगवंस्तानि संद्रष्टुं शक्नुयां कथमेव हि ।
हा मे जन्म निःसारं यन्न दृष्टो स जगत्प्रभुः ॥
इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः ।
विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥
मयापि कुलपुत्रास्य लोमविलानि यत्नतः ।
चिरात्संवीक्षमाणेन दृश्यन्ते तानि सर्वतः ॥
कुलपुत्र स लोकेशो मायावी सूक्ष्मरुपकः ।
अरुप्यदृश्यमाण्येऽपि निराकारो निरंजनः ॥
अथ रुपी महरुपो विश्वरुपो महाकृतिः ।
एकादशशिरस्कंश्च शतसहस्रहस्तकः ॥
कोटिशतसहस्राक्षो दिव्यरुपः सुरुपकः ।
महायोगी महाप्राज्ञः परमार्थयोगपालकः ॥
सुचेतनो महाभिज्ञो बोधिसत्त्वो जगत्प्रभुः ।
कुलीनस्त्रिजगद्भर्ता सर्वधर्माधिपेश्वरः ॥
सर्वसत्त्वसमुद्धर्ता संसारोदधितारकः ।
महासत्त्वो महायानधर्मशास्ता जगद्गुरुः ॥
त्रैधातुकजगन्नाथो धर्मधातुस्वरुपद्धृक् ।
सर्वज्ञस्त्रिगुनाधारो निःक्लेशो विमलेन्द्रियः ॥
अर्हन् संबोधिमार्गस्थः सर्वसत्त्वहितार्थभृत् ॥
सर्वेषु भद्रधर्मेषु छायाभूतो निराकुलः ।
संबोधिधर्मसंभारपूरकः श्रीगुणाकरः ॥
ब्रह्मचारी विशुद्धात्मा सर्वलोकशुभंकरः ।
सर्वपारमिताधर्ता सर्वसंघाधिपेश्चरः ॥
एवं श्रीमान्महासत्त्व आर्यावलोकितेश्वरः ।
बोधिसत्त्व महाभिज्ञः सर्वसमाधिभृद्वरः ॥
केनापि दृश्यते नासौ सर्वधर्ममयाश्रयः ।
अचिन्त्यो ह्यसमीक्षोऽपि सर्वनिर्माणरुपधृक् ॥
सर्वसत्त्वान् समालोक्य दुर्गतितः प्रयत्नतः ।

(२१८)
समुद्धृत्य शुभे धर्मे योजयति प्रबोधयन् ॥
दुर्दान्तानपि संपश्यन् प्रातिहार्याणि दर्शयन् ।
बोधयित्वा प्रयत्नेन योजयति सुसंवरे ॥
बोधिसत्त्वान्महासत्त्वांश्च परिपाचयन् ।
बोधिमार्गे प्रतिष्ठाप्य पालयत्यात्मजानिव ॥
एवं स त्रिजगन्नाथो जगत्सर्वं प्रबोधयन् ।
बोधिमार्गे प्रतिष्ठाप्य संप्रयायात्सुखावतीम् ॥
सुखावत्यां मुनीन्द्रस्य शरणे समुपस्थितः ।
सदानुशासनं धृत्वाअ संचरन्ते जगद्धिते ॥
तस्यामिताभनाअथस्य पीत्पा धर्मामृतं सदा ।
सर्वसत्त्वहिताधानं व्रतं धृत्वाधितिष्ठति ॥
इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः ।
विष्कम्भी भगवन्तं च समालोकयैवमब्रवीत् ॥
भगवंस्तं जगन्नाथमार्यावलोकितेश्वरम् ।
केनोपायेन पश्येयमहं कुत्र कदा कथम् ॥
भगवन् स जगन्नाथो येनोपायेन दीक्ष्यते ।
तदुपायं समादेष्टुमर्हति मे भवान् गुरुः ॥
इति संप्रार्थिते तेन भगवान् सर्वविज्जिनः ।
विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥
कुलपुत्र स लोकेशः सत्त्वानुद्धृत्य सर्वतः ।
प्रथममत्र समागच्छेत सभायां मम दर्शने ॥
इति शास्त्रा समादिष्टं श्रुत्वा स सुगतात्मजः ।
विष्कम्भी भगवन्तं च समालोक्यैवब्रवीत् ॥
अनुजानाअम्यहं शास्त यत्स नाथ इहाव्रजेत् ।
कदेहासौ जगन्नाथ आगच्छेत्तत समादिश ॥
इति तदुक्तमाकर्ण्य भगवांस्तं जिनात्मजम् ।
विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥
कुलपुत्र समालोक्य पुनरेवं समादिशत् ॥
कुलपुत्र यदा सर्वसत्त्वो बोधिपथास्थितः ।

(२१९)
भवति स महासत्त्वः प्रथममासरेदिह ॥
इति शास्त्रोदितं श्रुत्वा विष्कम्भी स विषादितः ।
कपोलं स्वकले धृत्वा मनसैवं व्यचिन्तयत् ॥
हा मया किं कृतं पापं यदस्य त्रिभवप्रभोः ।
सर्वधर्माधिनाथस्य दर्शनं प्राप्स्यते न हि ॥
किं ममानेन कायेन सुचिरं जीवितेन च ।
विना सन्दर्शनेनात्र लोकेश्स्य जगद्गुरोः ॥
कदाहं तस्य नाथस्य दृष्ट्वा मुखसुधाकरम् ॥
क्लेशतापहतं लप्स्ये प्रह्लादनं महत्सुखम् ॥
कदास्य चरणाम्भोजे शरणे समुपस्थितः ।
प्रणत्वा श्रीगुणं लप्स्ये सर्वसत्त्वहितार्थदम् ॥
कदास्य भजनं कृत्वा पीत्वा धर्मामृतं सदा ।
महानन्दसुखोत्साहैः संचरेयं जगद्धिते ॥
कदास्य शासनं धृत्वा कृत्वा सर्वहितं सदा ।
संबोधिश्रीसुखं प्राप्तुं संगच्छेयं सुखावतीम् ॥
कदा गत्वा सुखावत्याममिताभं मुनीश्वरम् ।
समीक्ष्य समुपाश्रित्य भजेयं सर्वदा मुदा ॥
तत्सद्धर्मामृतं पीत्वा कृत्वा धर्ममयं जगत् ।
संबुद्धपदमासाद्य यास्यामि निर्वृतिं कदा ॥
इत्येवं मनसा ध्यात्वा विष्कम्भी स पुरो गतः ।
भगवन्तं पुनर्नत्वा प्रार्थयदेवामादरात् ॥
भगवन् स जगद्भर्ता कदेह समुपासरेत् ।
द्रष्टुमिच्छामि तं नाथं सर्वथाहं कुहापि हि ॥
येनोपायेन नाथोऽसौ यथा संद्रक्ष्यते मया ।
तदुपायं तथा मह्यं समुपादेष्टुमर्हत्ति ॥
इति तत्प्रार्थितं श्रुत्वा भगवान् विहसन्नपि ।
विष्कम्भिनं समालोक्य पुनरेव समादिशत् ॥
कुलपुत्रागतः कालो लोकेशस्य न साम्प्रतम् ।

(२२०)
समयेऽसौ महाभिज्ञो ह्यवश्यमाचरेदिह ॥
दुर्लभं कुलपुत्रास्य दर्शनं त्रिभवे प्रभोः ।
कदाचित्केनचित्काले कथंचिल्लभते खलु ॥
यदसौ सर्वलोकेशः सार्वधर्माधिपः प्रभुः ।
सद्धर्मगुणसंभर्ताभद्रश्रिसंपदाश्रयः ॥
सर्वेषामपि सत्त्वानां षड्गतिभवचारिणाम् ।
त्राता भर्ता पिता माता सन्मित्रं सद्गुरुर्गतिः ॥
शरण्यं परायणं द्वीपः सुहृद्बन्धुर्हितार्थदः ।
भवोदधिसमुद्धर्ता क्लेशाग्निशमनामृतः ॥
सर्वमारनिहन्तापि सर्वदुष्टभयापहा ।
संबोधिमार्गसंदेष्टा निर्वृतिपददेशकः ॥
एवमसौ महेशाख्यः सर्वलोओकाधिपेश्वरः ।
बोधिसत्त्वाधिपः शास्ता सर्वसंघविनायकः ॥
संसारे तस्य सद्धर्मश्रवणं चापि दुर्लभम् ।
नामापि ग्रहणं चापि स्मरणं चापि दुर्लभम् ॥
ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि सर्वदा ।
अभिधानं समुच्चार्य संभजन्ते समाहिताः ॥
एतत्पुण्यानुभोवेन सर्वे ते विमलेन्द्रियाः ।
निःक्लेशा विमलात्मानो भवन्ति बोधिचारिणः ॥
ततस्ते भद्रिताचाराश्चतुर्ह्मविहारिणः ।
पोषधं संवरं धृत्वा संचरम समाहिताः ॥
एतत्पुण्यानुभावेन परिशुद्धत्रिमण्डलाः ।
त्रिरत्नभजनोत्साहैः संचरेरन् जगद्धिते ॥
ततस्ते स्युर्महासत्त्वा बोधिसत्त्वा जिनात्मजाः ।
षडक्षरीं महाविद्यां विद्याराज्ञीं समाप्नुयुः ॥
यदा षडक्षरी विद्यां संप्राप्य ये जिनात्मजाः ।
ध्यात्वा स्मृत्वा समुच्चार्य जपन्ति श्रद्धया सदा ॥
तदा तस्य जगद्भर्तुः सर्वधर्ममयाश्रये ।

(२२१)
लोमविलेषु जायेरन् सर्वे ते सुगतात्मजाः ॥
ततस्तेनैव संसाअरे संसरेयुः कदाचन ।
तस्यैव लोमरन्ध्रेषु जाता भ्रमेयुराभवम् ॥
तत्रैव संभवन्तस्ते संबोधिज्ञानसाधनम् ।
बोधिचर्याव्रतं धृत्वा संतिष्ठेरन् समाहिताः ॥
तत्रैव संस्थितातेऽपि विना दुष्करचर्यया ।
सुखेन प्राप्य संबोधिं निर्वृतिपदमाप्नुयुः ॥
इति शास्त्र समादिष्टं श्रुत्वा स सुगतात्मजः ।
विष्कम्भी मुनीराजं तं समालोक्यैवमब्रवीत् ॥
भगवन् प्राप्तुमिच्छामि विद्यां षडक्षरीम् ।
तद्भवान्म इमां विद्यॠअं समर्चयितुमर्हति ॥
इति तत्प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः ।
विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥
दुर्लभां कुलपुत्रेमां विद्याराज्ञीं षडक्षरीम् ।
बुद्धा अपि न जानन्ति प्रागेवान्ये जिनात्मजाः ॥
इत्यादिष्टं मुनीन्द्रेण विष्कम्भी स विषादितः ।
भगवन्तं समालोक्य पुनरेवं न्यवेदयत् ॥
यद्भगवन्न जानन्ति सर्वे बुद्धा जिनात्मजाः ।
तत्कुतोऽहमिमां विद्यां प्राप्स्यामि तदुपादिश ॥
इति तदुक्तमाकर्ण्य भगवान् सर्वविज्जिनः ।
विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥
विद्येयं कुलपुत्रास्य लोकेशस्य जगत्प्रभोः ।
परमहृदयं हीति सर्वबुद्धैर्निगद्यते ॥
तदियं दुर्लभा विद्या सर्वविद्याविनायकाः ।
जानाति य इमां विद्यां परमार्थं स वेत्ति हि ॥
इत्यादिष्टे मुनीन्द्रेण विष्कम्भी च जिनात्मजः ।
भगवन्तं समालोक्य पप्रच्छैवं समादरात् ॥
भगवन् स महासत्त्वो विद्यतेऽपि भवालये ।

(२२२)
जानीत य इमां विद्यां तं दर्शयितुमर्हति ॥
इति संप्रार्थिते तेन भगवांस्तं महामतिम् ।
विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥
जानीते कुलपुत्रात्र कश्चित्तेषां षडक्षरीम् ।
महाविद्यां महेशाख्यां सर्वत्रैधातुकेष्वपि ॥
एषा महत्तरी विद्या सर्वयोगास्तमोधला ।
यन्नापि ज्ञायते बुद्धैः सर्वैरपि जिनात्मजैः ॥
एनां विद्यां समिच्छन्तः सर्वबुद्धा जिना अपि ।
भ्रमन्ति बोधिसत्त्वाश्च दशदिक्षु समन्ततः ॥
कुतश्चिल्लभ्यते नैव बुद्धैस्तैस्तु गतैरपि ।
बोधिसत्त्वैश्च तैः सर्वैरेवमेषा सुदुर्लभा ॥
केनचिल्लभ्यतेऽप्येषा भ्रमता सुचिरादिह ।
बहुपुण्यानुभावेन लोकेश्वरप्रसादतः ॥
धन्यास्ते बहुपुण्योघा बोधिश्रीगुणलाभिनः ।
सततं ये जपन्त्येनं लोकेशहृदयं मुदा ॥
जपति यो यदा यत्र विद्यामेनां षडक्षरीम् ।
तदा तस्यान्तिके बुद्धाः सर्वेऽप्युरुपाश्रिताः ॥
बोधिसत्त्वाश्च सर्वेऽपि महासत्त्वा महर्द्धिकाः ।
रक्षेयुस्तं महासत्त्वं समेत्य समुपस्थिताः ॥
षड्वपारमिताः सर्वाः तस्य द्वारसमाश्रिताः ।
संबोधिसाधनोपायसिद्धिं दद्युर्जगद्धिते ॥
द्वात्रिंशदेव पुत्राश्च सर्वे सपरिवारकाः ।
जल्पकं तं समालोक्य रक्षेयुर्विपदाश्रिताः ॥
चत्वारश्च महाराजाः ससैन्यसचिवानुताः ।
तस्य रक्षां प्रकुर्युस्ते दशदिक्षु व्यवस्थिताः ॥
सर्वे नागाधिपाश्चापि धरणीसमुपाश्रिताः ।
तस्य रक्षाविधानार्थं दृष्ट्वा दद्युर्महामणिम् ॥
भौमा यक्षाश्च सर्वेऽपि आश्रिताः संप्रसादिताः ।

(२२३)
तस्य रक्षा प्रकुर्वन्ति संचरेरन् समन्ततः ॥
बुद्धाश्च बहवस्तस्य कायलोमविलाश्रिताः ।
साधुकारं प्रदत्वैवं वर्णयेयुः प्रसादिताः ॥
धन्यस्त्वं कुलपुत्रासि यदीदृग्च्छ्रीगुणाकरम् ।
चिन्तामणिअं महारत्नं प्राप्तवान् साधु सन्मते ॥
सप्तवंशाश्च ते सर्वे परिशुद्धत्रिमण्डलाः ।
निःक्लेशा विमलात्मानो लभेयुर्निर्वृतेः पदम् ॥
तव कुक्षि स्थिताश्चापि सर्वे प्राणिगणाः खलु ।
बोधिसत्त्वा महासत्वा भवेयुश्च निर्वर्तिकाः ॥
एवं तस्याः षडक्षर्या विद्यायाः पुण्यमुत्तमम् ।
अप्रमेयमसंख्येयमिति प्राहुर्मुनीश्वराः ॥
यश्चादारादिमां विद्यामहाराज्ञीं षदक्षरीम् ।
मूर्ध्नि कण्ठे भुजे वापि बध्वा दध्यात्समाहितः ॥
स सर्वपापनिर्मुक्तः परिशुद्धत्रिमण्डलः ।
निःक्लेशं परिशुद्धात्मा वज्रकायो भवेद्ध्रुवम् ॥
बुद्धधातुमणिस्तूप इव धर्ममयाश्रयः ।
संबोधिज्ञानसद्रत्नराशिश्रीसद्गुणाश्रयः ॥
तथागतगुणधारः सद्धर्मगुणसागरः ।
बोद्धिसत्वो महासत्त्वो महासमृद्धिमान् ॥
यश्चापीमां महाविद्यां गृहीत्वा विधितो मुदा ।
श्रीमल्लोकेश्वरं ध्यात्वा जपेन्नित्यं समाहितः ॥
स सर्वपातकैर्मुक्तः परिशुद्धत्रिमण्डलः ।
भवेत्सद्धर्मदिग्धीमानक्षयप्रतिभानवान् ॥
सर्वधर्माधिपः शास्ता ज्ञानराशिसमृद्धिमान् ।
भवेद्भद्रसमाचारी चतुर्ब्रह्मविहारिकः ॥
सर्वविद्याधिराजेन्द्रश्चक्रवर्ती गुणाकरः ।
षट्कपारमितां नित्यं संपूरयेद्दिने दिने ॥
ये च तस्य समुच्छ्वासैः स्पृश्यन्ते तेऽपि निर्मलाः ।

(२२४)
बोधिसत्त्वा महासत्त्वा भवेयुरविवर्तिकाः ॥
ये चापि तस्य वस्त्राणि स्पृशन्ति तेऽपि निर्मलाः ।
बोधिसत्त्वाः सुधीराः स्युश्चरमभविकाः खलु ॥
ये चापि जपमानं तं पश्यन्ति तेऽपि निर्मलाः ।
चरमभविकाः सर्वे भवेयुः सुगतात्मजाः ॥
पक्षिणः पशवो वापि सर्वेऽपि प्राणिनश्च ये ।
पश्यन्ति जपमानं तं ते स्युस्सर्वे जिनात्मजाः ॥
एवमेतन्महाविद्याजपमानस्य सन्मतेः ।
पुण्यश्रीगुणसंपत्तिसंचोदनादिता जिनैः ॥
इति शास्त्रा स्मादिष्टं निशम्य स जिनात्मजः ।
विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत् ॥
भगवन् प्राप्तुमिच्छामि महाविद्यां षडक्षरीम् ।
तत्कुतः कथमाप्स्यामि भवानदेष्टुमर्हति ॥
यो मेए दद्यादिमां विद्यां सर्वाविद्याधिपेश्वरीम् ।
सर्वयोगगुश्रेणीं सर्वध्यानगुणार्थदाम् ॥
संबोधिज्ञानसंभर्त्रीं निर्वाणमार्गदर्सनीम् ।
क्लेशविद्यायतनीं भद्रां सद्धर्मविराजतीम् ॥
षड्गतिभवसंचारक्लेशसुखाग्निशामिनीम् ।
बोधिसंभारसंभर्त्रीं सर्वज्ञज्ञानदायिनीम् ॥
तस्मादहं चतुर्द्वीपान् सप्तरत्नाभिपूरितान् ।
संप्रदातुं समिच्छामि सत्यमेतन्मयोदितम् ॥
स हि माताधिमाता मे पिता संसारदर्शकः ।
मित्राणामपि सन्मित्रं गुरुणामपि सद्गुरुः ॥
तस्याहं शासनं धृत्वा शरणे सर्वदाश्रितः ।
निर्विकल्पः समाधानः संचरेयं मुदा सर्वतः ॥
इति मे भगवन् वक्यं सत्यमेवान्यथा न हि ।
तत्र मां प्रेषयित्वाशु यत्रासौ सद्गुरुः स्थितः ॥
दशदिक्ष्वपि सर्वत्र त्रैधातुभुवनेष्वपि ।

(२२५)
यत्रासौ संस्थितः शास्ता तत्रापि गन्तुमुत्सहे ॥
इति मे खेदता चित्ते कायेऽपि विद्यते न हि ।
सर्वं भवान् विजानीते तदर्थे मे प्रसीदतु ॥
भवानेव जगच्छास्त सर्वधर्महितार्थभृत् ।
तन्मेऽनुग्रहं कृत्वा पूरयतु मनोरथम् ॥
एतत्तेनोदितं श्रुत्वा भगवान् सर्वसार्थदिक् ।
विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥
कुलपुत्राहमप्यस्या विद्यायाः करणे पुरा ।
लोकधातुषु सर्वत्र पर्यभ्रमन् समुत्सुकः ॥
बुद्धक्षेत्रेषु सर्वेषु सुचिरं भ्रमता मया ।
न लब्धेयं महाविद्या सकाशात्कस्यचिन्मुनेः ॥
ततो रत्नोत्तमाख्यायां लोकधातौ मुदा चरन् ॥
तत्ररत्नोत्तमाख्यस्य संबुद्धस्य पुरो व्रजन् ।
तस्य रत्नोत्तमस्याग्रे सांजलिः समुपाचरन् ॥
पादौ नत्वाश्रुलिप्तास्यः संवीक्ष्यैवं न्यवेदयन् ॥
भगवन्नहमायामि भवतां शरणेऽधुना ।
तन्मेऽर्हति भवान् दातुं महाविद्यां षडक्षरीम् ॥
इति मयोदितं श्रुत्वा रत्नोत्तमः स सर्ववित् ।
संबुद्धोऽश्रुविलिप्तास्यं मां पश्न्नेवमादिशत् ॥
कुलपुत्राश्रु मा मुंच यदर्थे त्वमिहागतः ।
नैतन्मे विद्यते नूनं तदन्ये प्रार्थयेर्हि तम् ॥
यदि तेऽस्ति समीच्छा हि प्राप्तुं विद्यां षडक्षरीम् ।
गच्छ पद्मोत्तमाख्यायां लोकधातौ महामते ॥
तत्र पद्मोत्तमो नाम तथागतो मुनीश्वरः ।
सद्धर्मं समुपादिश्य विहरति जगद्धिते ॥
स एवेमां विजानीते महाविद्यां षडक्षरीम् ॥
तदेनां तं समाराध्य प्रार्थयस्व मुनीश्वरम् ।
स ते शास्ता महाभिज्ञः सर्वधर्माधिपो जिनः ।

(२२६)
दद्यादेनां महाविद्यां षडक्षरीं जगद्धिते ॥
इति तेन समादिष्टं निशम्याहं प्रसादितः ।
ततः पद्मोत्तमाख्यायां लोक्धातौ मुदाचरम् ॥
तत्र पद्मोत्तमं नाम संबुद्ध तं सभाश्रितम् ।
दूरतोऽहं समालोक्य सहसा समुपाचरम् ॥
तत्र गत्वा पुरस्तस्य पद्मोत्तमस्य सद्गुरोः ।
पादाब्जे सांजलिर्न्नत्वा प्रार्थयमेवमादरात् ॥
भगवन् सर्वलोकेषु बुद्धक्षेत्रेष्वहं भ्रमन् ।
षडक्षरीं महाविद्यां प्राप्तुकाम इहाचरे ॥
यस्याः स्मृतिमात्रेन परिशुद्धत्रिमण्डलाः ।
लभेयुर्दुर्लभां बोधिं तस्या अर्थेऽहमाव्रजे ॥
यदर्थेऽहमसंख्येयालोकधातुर्भ्रमन्निह ।
भवच्छरणमायामि तत्साfअल्यं करोतु मे ॥
इति तेनोदितं श्रुत्वा पद्मोत्तमः स सर्ववित् ।
सुबुद्धो मां परिक्लिष्टं समालोक्यैवमादिशत् ॥
धन्योऽसि कुलपुत्रस्त्वं यदर्थेऽखिन्नमानसः ।
बुद्धक्षेत्रेषु सर्वेषु भ्रमन्निह समागतः ॥
तदर्थं ते महासत्व पूरयामि जगद्धिते ।
तत्पुण्यगुणमाहात्म्यं वक्ष्ये शृणु समाहितम् ॥
तद्यथा कुलपुत्रास्या विद्यायाः पुण्यमुत्तमम् ।
अप्रेयमसंख्येयमित्याख्यातं मुनीश्वरैः ॥
सर्वस्थाणुरजःकृत्वा तत्संख्यातुं प्रशक्यते ।
षडक्षरीमहामन्त्रजपपुण्यं न शक्यते ॥
सर्वाब्धिबालुकानां च संख्याकर्तुं प्रशक्यते ।
सर्वभूतलसंजातव्रीहिसंख्या च विद्यते ॥
सर्वसमुद्रतोयानां बिन्दुसंख्या च विद्यते ।
सर्वनदीजलानां च बिन्दुसंख्यापि विद्यते ॥
सर्वभूतृणवृक्षाणां पत्रसंख्या च विद्यते ।

(२२७)
सर्वेषामपि जन्तूनां लोमसंख्या च विद्यते ।
सदावृष्टिजलानां च बिन्दुसंख्यापि विद्यते ॥
सर्वसत्त्वा भवेयुश्च दशभूमिप्रतिष्ठिताः ।
यावत्तेषां महत्पुण्यं ततोऽप्येतन्महत्तरम् ॥
सर्वेषु पुण्यतीर्थेषु सर्वेष्वपि च पर्वसु ।
स्नानदानजपुण्यानामेतज्जावद्वृषं महत् ॥
सर्वे सत्वा भवेयुश्च ये तपोब्रह्मचारिणः ।
तान् सर्वान् समभ्यर्च्य भोजयेयुर्थाविधि ॥
यावत्तेषां महत्पुण्यं भद्रश्रीगुणसंपदम् ।
ततोऽप्यभ्यधिकं पुण्यं षडक्षरीजपोद्भवम् ॥
सर्वे सत्त्वा भवेयुश्च प्रत्येकसुगता अपि ।
यश्चैतान् सुगतान् सर्वान् सत्कारैर्विधिनार्चयेत् ॥
तस्य यावन्महत्पुण्यं सद्धर्मश्रीगुणार्थदम् ।
ततोऽप्यभ्यधिओकं पुण्यं षडक्षरीजपोद्भवम् ॥
यश्चापि सुगतान् सत्कारैर्विधिनार्चयेत् ।
ततोऽप्यभ्यधिकं पुण्यं षडक्षरीजपोद्भवम् ॥
एवं महत्तरं पुण्यं षडक्षरीजपोत्थितम् ।
सर्वैरपि हि सर्वज्ञैः प्रमातुं नैव शक्यते ॥
कथमप्रमेयैकेन प्रमातुं शक्यतेऽखिलम् ।
एवं महत्तरं पुण्यं षडक्षरीजपोद्भवम् ॥
इति सर्वैर्जिनैः ख्यातं निशम्याहं प्रमोदितः ।
एतां षडक्षरीं विद्यां प्राप्तुमैच्छन् जगद्धिते ॥
एषो हि परमो धर्मः संबोधिधर्मसाधनः ।
सूक्ष्मोऽनागतोऽव्यक्तो लोकेशहृदयं वरम् ॥
सर्वाः पारमिताः सर्वतीर्थस्नानव्रतादिकम् ।
सर्वमेतन्महाविद्यामन्त्रसंप्राप्तिकारणम् ॥
यदा ह्येतन्महाविद्यामन्त्रसिद्धिरवाप्यते ।
तदा सर्वमहाविद्यासिद्धिश्रीगुणमाप्नुयात् ॥

(२२८)
एवमेतन्महोपायकुशालं त्रिजगद्धिते ।
लोकेशस्य जगद्भर्तुर्हृदयमन्त्रमुत्तमम् ॥
एवमेतन्महाविद्यामन्त्रं संबोधिसाधनम् ।
असंख्येयं महत्पुण्यमित्याख्यातं मुनीश्चरैः ॥
एतां षडक्षरी महाविद्यां संप्राप्तिकारणे ।
अहमपि पुरा सर्वबुद्धक्षेत्रेष्वपि भ्रमन् ।
सर्वेषामपि बुद्धानां शरणे समुपाश्रितः ॥
सत्कारैर्विधानाभ्यर्च्य संप्रार्थयमिमां वराम् ॥
कुत्राप्येतां महाविद्यां संबोधिज्ञानसाधनीम् ।
कस्यचित्सुगतस्यापि नाध्यगच्छन् सकाशतः ॥
ततोऽप्यहमिमाः विद्यां समधिगन्तुमुत्सुकः ।
लोकधातौ सुखावत्यां प्रागच्छन् संप्रमोदितः ॥
तत्रामिताभमालोक्य दूरतोऽहं सभाश्रितम् ।
सांजलिः प्रणतिं कृत्वा दूरतः समुपाचरन् ॥
तस्य शास्तुर्मुनीन्द्रस्य नत्वा पादाम्बुजे पुरे ।
गलदश्रुविलिप्तास्यः संपश्यन्समुपाश्रयम् ॥
तद्दृष्ट्वा स भगवांच्छास्ता सर्वज्ञो मामुपाश्रितम् ।
जानन्मनोऽभिलाषं मे समालोक्यैवमदिशत् ॥
कुत्रपुत्र षदक्षरीं विद्यामिच्छन्निहागतः ।
त्वं किमेतन्ममाग्रेऽत्र प्रवदैनां यदीच्छसि ।
इत्यादिष्टं जिनेन्द्रेण निशम्याहं प्रसादितः ॥
भूयः पादाम्बुजे तस्य प्रणत्वैवं न्यवेदयम् ॥
भगवन्नेमिच्छामि महाविद्यां षडक्षरीम् ।
तद्भवान्मे मनोवांछां संपूरयितुमर्हति ॥
भगवन् यदहं सर्वलोकाधातुषु सर्वतः ॥
भ्रमन्निह समागच्छे प्राप्तुं विद्यां षडक्षरीम् ॥
सर्वेषामपि बुद्धानां बुद्धक्षेत्रेषु सर्वतः ।
भ्रमितोऽहमिमां विद्यां समन्वेषसमुत्सुकः ॥

(२२९)
सर्वेषामपि वुद्धानां शरणे समुपाश्रितः ।
सत्कारैर्विधिनाराध्य प्राभजन् श्रद्धया मुदा ॥
एकस्यापि मुनीन्द्रस्य सकाशात्कस्यचिन्मया ।
लब्धा नेयं महाविद्या षडक्षरी श्रुतापि न ॥
भगवन्स्तद्भवंच्छास्ता मां शरणं समागतम् ।
संपश्यन् पुत्रवद्धर्मे नियोजयितुमर्हति ॥
भगवन् भव मे त्राता भर्ता गतिः परायणः ।
बन्धुर्मित्र सुहृच्छास्ता गुरुर्नाथो हितार्थभृत् ॥
देहि मे भगवन् धर्मदृष्टिं सर्वार्थदर्शनीम् ।
शमय मे महत्क्लेशं वह्नितापं सुधांशुवत् ॥
दर्शय बोधिमार्गं मे सम्बुद्धपुरचारणम् ।
देहि धर्मनिधानं मे सद्धर्मश्रीसुखार्थदम् ॥
स्थापय मां शुभे धर्मे संप्रेरय सुनिर्वृतिम् ॥
इत्येवं बहुधासौ संपार्थ्यमानो मया मुहुः ।
अमिताभो जिनेन्द्रोऽपि लोकेश्वरं व्यलोकयत् ॥
तद्दृष्ट्वासौ माहसत्त्वो लोकेश्वरः समुत्थितः ।
सांजलिः धर्मराजं तं प्रनत्वैवमभासत ॥
भगवन् किमभिप्रायं भगतां यत्समादिश ।
भवदाज्ञां वहन्मूर्ध्नि कुर्यामेव समादिश ॥
इत्युक्ते लोकनाथेन भगवान् सोऽमितप्रभः ।
लोकेश्वरं महाभिज्ञं समालोक्यैवमादिशत् ॥
पस्य त्वं कुलपुत्रेमं पद्मोत्तमं मुनीश्वरम् ।
षडक्षरीं महाविद्यां प्राप्तुमिह समागतम् ॥
योऽयं शास्ता मुनीन्द्रोऽपि संबुद्धोऽपि तथागतः ।
जगत्सत्त्वहिताधानीं विद्यामिच्छन्निहागतः ॥
तद्देहि कुलपुत्रास्मै सर्वसत्त्वशुभार्थिने ।
श्रद्धाभक्तिप्रसन्नाय महाराज्ञीं जगद्धिओते ॥
इत्यादिष्टे मुनीन्द्रेण लोकेश्वरो जगत्प्रभुः ।
अभिताभं जिनेन्द्रं तं समलोक्यैवमब्रवीत् ॥

(२३०)
भगवन् कथमत्रास्मै विना मण्डलदर्शनम् ।
अनभिषिच्य दास्यामि विद्यामिमां षडक्षरीम् ॥
देया नेयं महाविद्या ह्यनभिषिक्ताय भिक्षवे ।
वीतरागाय दुष्टाय तीर्थिकाय दुरात्मने ॥
देया हीयं महाविद्या भद्रश्रीगुणसाधनी ।
सुसत्त्वाय प्रसन्नाय महायानव्रतार्थिने ॥
बोधिसत्त्वाय विज्ञाय सर्वसत्त्वहितेप्सवे ।
श्रद्धाअभक्तिप्रसन्नाय सद्धर्मगुणसाधने ॥
सर्वसत्त्वहिताधाने बोधिचर्याव्रतोद्यते ।
अस्थाने भगवन्नस्मै सुगतायार्हतेऽपि हि ॥
दया चेदभिषिंचैनं दर्शयित्वापि मण्डलम् ।
ततोऽस्मै सुप्रसन्नाय दास्यामि भवदाज्ञया ॥
इति निवेदितं तेन लोकेशेन निशम्य सः ।
अमिताभो मुनीन्द्रस्तं लोकेशमेवमब्रवीत् ॥
कुलपुत्र मयाख्यातं विद्यादानविधानं तम् ।
नानाविधिं समाख्यातं सर्वैरपि मुनीश्वरैः ॥
नैलचूर्णैः पद्मरागचूर्णैर्मारकतैरपि ।
सौवर्णै रुप्यकैश्चूर्णैर्वर्तन्मण्डलं गुरुः ॥
तथा शक्तौ पुष्पचूर्णैर्गन्धचूर्णैः सुरंगकैः ।
विधाय मण्डलं तीर्थें वाभिषेकं प्रदापयेत् ॥
यद्येतानि न विद्यन्ते देशभ्रमणचारिणः ।
स्थानपदान्वितस्यापि दरिद्रस्यापि सन्मतेः ॥
आचार्यो मनसा ध्यात्वा मुद्रालक्षणमण्डलम् ।
तीर्थशंखाभिषेकं वा दत्वा विद्यां समर्पयेत् ॥
इत्यनेन विधानेन कुलपुत्र सुभाविने ।
अस्मै श्रद्धालवे देया महाविद्या षडक्षरी ॥
इति शास्त्रमिताभेन समादिष्टं निशम्य सः ।
मुदितोऽहं समुत्थाय लोकेशस्य पुरोगतः ॥

(२३१)
पादाब्जे प्रणतिं कृत्वा कृतांजलिपुतो मुदा ।
लोकेश्वरं तमालोक्य प्रार्थयमेवमादरात् ॥
भगवन् भगतामत्र शरणेऽहं समागतः ।
ददस्व मे महाविद्यां षडक्षरीं जगद्धिते ॥
ययाहं सकलान् सत्त्वान् समुद्धृत्य भवोदधेः ।
बोधिमार्गे समायुज्य प्रापयेयं सुनिर्वृतिम् ॥
तन्मे भवान् जगत्सर्वं सत्त्वं संबुद्धपदवांछिने ।
संबोधिसाधिनीं सर्वविद्येशां दातुमर्हति ॥
मयैवं प्रार्थ्यमाणोऽसौ लोकेश्वरो विनोदितः ।
संप्रादान्मे महाविद्यां षडक्षरीमुदाहरन् ॥
अग्रे प्रणवमस्यान्ते मणिरस्य सरोरुहम् ।
हद्बीजमिति सिद्धेयं षडक्षरीति विश्रुता ॥
संप्रदत्तां समादाय महाविद्यामहं मुदा ।
प्रादात्तस्मै जगच्छास्त्रे मुक्तामालां स दक्षिणाम् ॥
गृहीत्वा तां जगद्भर्ता मुक्तामालां स दक्षिणाम् ।
संबुद्धायामिताभाय समुपानामयत्तत्पुरः ॥
अमिताभो मुनीन्द्रोऽपि तां मालां प्रतिगृह्य च ।
मम पुरमुपस्थाप्य प्रादाद्भक्तिप्रसादितः ॥
तत्प्रदत्तां समादाय तां च मालां प्रबोधितः ।
तत्र श्रावकसंघेभ्य उपहृत्य समर्पयन् ॥
तत्र एतन्महन्मन्त्रं शास्त्रा दिष्टं यथा तथा ।
सश्रीलोकेश्वरं ध्यात्वा प्रजपन्ति समाहिताः ॥
तदा विघ्नगणाः सर्वे दुष्टा मारगणा अपि ।
संत्रासविह्वलात्मानः पलायन्ते दिगन्ततः ॥
चचाल वसुधा साब्धि षडविधा सशिलातोयाः ।
पपात पुष्पवृष्टिश्च सर्वत्राभूच्छुभोत्सवम् ॥
ततोऽहं श्रीमतः शास्तुर्लोकेशस्य जगत्प्रभोः ।
लब्धानुज्ञः प्रणत्वांघ्रीं मुदितः स्वाश्रमं ययौ ॥

(२३२)
इत्थं मयातिकष्टेन भ्रमता सर्वभूमिषु ।
अमिताभानुभावेन प्राप्ता लोकेश्वरादियम् ॥
दुर्लभा कुलपुत्रेयं महाविद्या षडक्षरी ।
न लब्धा सुगतैस्सर्वैः कैश्चिल्लब्धा जिनैरपि ॥
इत्यादिष्टं मुनीन्द्रेण पद्मोत्तमेन मत्पुरः ।
श्रुत्तमेव मयाप्येतन्महोपायं जगद्धिते ॥
इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः ।
विष्कम्भी भगवन्तं च संपश्यन्नेवमब्रवीत् ॥
भगवन् कुत्र लप्स्येऽहं कथं कस्यान्तिकादिमाम् ।
जगद्भद्रकरीं विद्यां तन्मे आदेष्टुमर्हति ॥
धन्यास्ते विमलात्मानः पुण्यवन्तः सुभागिनः ।
जपन्ति य इमां विद्यां शृण्वन्ति भावयन्त्यपि ॥
दधत ये च भासन्ति मनसा चिन्तयन्त्यपि ।
तेऽपि सर्वे महासत्त्वा भद्रश्रीसद्गुणाश्रयाः ॥
अथासौ भगवान् पश्यन् विष्कम्भिनं महामतिम् ॥
एवमेते महासत्वा भवेयुर्हीइति प्रादिशत् ॥
यश्चापि कुलपुत्रेमां विद्यां संबोधिसाधनीम् ।
लिखापयेल्लिखेच्चापि लिखितां धारयेदपि ॥
चतुरशीतिसाहस्रधर्मस्कम्धानि तेन हि ।
लिखापितानि भवन्त्येव लिखितानि धृतानि च ॥
सर्वेषां यश्च बुद्धानां धातुरत्नाभिगर्भितान् ।
हेमरत्नमयान् स्तूपान् कृत्वा नित्यं भजन्मुदा ॥
यावत्तेषां महत्पुण्यं बहुतरतोऽधिकम् ।
विद्याराज्ञाः षडक्षर्या एकाक्षरस्य यत्fअलम् ॥
यो मुदा श्रद्धया नित्यं जपेदिमां षदक्षरीम् ।
संबोधिसाधनीं विद्यां भद्रश्रीसद्गुइणाकरीम् ॥
सोऽचिन्त्यश्रीर्महाभिज्ञः सर्वपारमिताप्रभुः ।
सर्वाश्च धारणीः सर्वान् समाधींश्च लभेदपि ॥

(२३३)
सर्वविद्याधिपः शास्ता सर्वधर्माधिपः प्रभुः ।
अर्हन्मारविजेताअ च भवेत्सर्वहितार्थभृत् ॥
इत्यादिष्टं मुनीन्द्रेण निशम्य स प्रमोदितः ।
विष्कम्भी बोधिसत्त्वस्तं निशम्य स प्रमोदितः ।
विष्कम्भी बोधिसत्त्वस्तं मुनीन्द्रमेवमब्रवीत् ॥
भगवन् कुत्र गच्छेयं यत्रास्तीयं षडक्षरी ।
तत्राहं भवता शास्त्रा प्रेषणीयो हि सर्वथा ॥
एवं तदुक्तमाकर्ण्य भगवान् स मुनीश्वरः ।
विष्कम्भिनं तमालोक्य पुनरेवं समादिशत् ॥
कुलपुत्रैक एवास्ति जानाति यः षडक्षरीम् ।
वाराणस्यां नगर्यां स संतिष्ठते जपन् सदा ॥
स्वयं धृत्वा परेभ्योऽपि समुपादिश्य सादरम् ।
ध्यानसमाधिमुक्तात्मा विहरति जगद्धिते ॥
एतच्छास्त्रा समादिष्टं निशम्य स प्रमोधितः ।
विष्कम्भी बोधिसत्त्वस्तं शास्तारमेवमब्रवीत् ॥
भगवन्स्तत्र यास्यामि यत्र शास्ता स तिष्ठते ।
वाराणस्यां महापुर्यामपि तं द्रष्टुमुत्सहे ॥
तं समुत्सुकमालोक्य भगवान् स मुनीश्वरः ।
विष्कम्भिनं महासत्त्वं पश्यन्नेवं समादिशत् ॥
गच्छ त्वं कुलपुत्रेमां महाविद्यां यदीच्छसि ।
वाराणस्यां महापुर्यां स्थितं तं सद्गुरुं भजे ॥
स शास्ता सुविशुद्धात्मा धर्मभाणक आअत्मवित् ।
संबुद्धवन्महाभिज्ञः पुण्यराशिश्चरन्निव ॥
धर्मधातुमयस्तूपश्चरन्निव शुभाश्रयः ।
भूतवादी शुभाचारी सर्वसत्त्वहितार्थभृत् ॥
चिन्तामणिरिव श्रीमान् सर्वार्थसिद्धसंप्रदः ।
धर्मराजो जगद्भर्ता जगदुद्धारणप्रभुः ॥
यदि दृष्ट्वा तमात्मज्ञं निन्दंस्त्वविचारतः ।
गंगेव सर्वतीर्थानां क्षेत्राणां बोधिमण्डवत् ॥

(२३४)
द्रष्टव्यः स त्वया नैव कुलपुत्र तदन्यथा ।
विचिकित्सा न कर्तव्या दृष्ट्वा तं धर्मभाणकम् ।
योगाचारं महात्मानं परिशुद्धत्रिमण्डलम् ॥
यदि दृष्ट्वा तमात्मज्ञं निन्दस्त्वमविचारतः ।
च्युत्वा हि बुद्धभूमेस्त्वमपायेषु पतेदपि ॥
स हि योगविशुद्धात्मा निर्विकल्पो जितेन्द्रियः ।
अनाचारो मलालिप्तो ह्यशुचिचीवरावृतः ॥
अनीर्यापथसंवृत्तो गृहाश्रमसमाश्रयः ।
शक्तिभार्यासमापन्ना दुहितृपुत्रावानपि ॥
तथापि स महाभिज्ञः षडक्षरीविशुद्धवित् ।
समन्तभद्रवद्योगी वन्दनीयस्वयादरात् ॥
इति भगवतादिष्टं निशम्य स प्रबोधितः ।
विष्कम्भी भगवन्तं च समालोक्यैवमब्रवीत् ॥
भगवन् भवता शास्त्रा यथाज्ञप्तं तथा खलु ।
कृत्वा तच्छरणे स्थित्वा भजेयं तं समादरात् ॥
भगवन्स्तत्र गच्छामि प्राप्तुं विद्यां षडक्षरीम् ।
तदनुज्ञां भवान्मह्यं साम्प्रतं दातुमर्हति ॥
ततः स भगवान्सतस्मै बोधिसत्त्वाय सद्धिये ।
गच्छ सिध्यत्वभिप्रायमित्यनुज्ञाशिषं ददौ ॥
प्राप्तानुज्ञा मुनीन्द्रस्य विष्कम्भी स प्रमोदितः ।
पादाब्जे सांजलिर्नत्वा ततः संप्रस्थितोऽचरत् ॥
अनेकैर्बोधिसत्त्वैस्स यतिर्ब्रह्मविहारिभिः ।
भिक्षुभिः श्रावकैः सद्भिचैलकैचाप्युपासकैः ॥
गृहस्थैर्व्रतिभिर्विप्रप्रमुखैः पौरिकैर्जनैः ।
वणिग्भिः सार्थवाहैश्च श्रेष्ठिभिश्च महाजनैः ॥
सार्धं पूजोपहारादिपुष्पाणि विविधान्यपि ।
सर्वर्तुजानि सर्वाणि जलजस्थलजान्यपि ॥
सुगन्धद्रव्याणि सर्वाणि धूपानि सुरभीनि च ।

(२३५)
सर्वालंकारवस्तूनि वस्त्राणि विविधानि च ॥
ध्वजच्छत्रवितानानि पताकाव्यंजनानि च ।
चामराणि समुद्दीप्तरत्नदीपान्मुरुणि च ॥
धातुद्रव्याणि सर्वाणि रत्नानि सकलानि च ।
औषधादीनि सर्वाणि भोग्यानि सुरसानि च ॥
एवमन्यानि वस्तूनि सर्वोपकरणान्यपि ।
समादाय महोत्साहैः वाराणसिं ययौ ॥
तत्र प्राप्तः स विष्कम्भी दृष्ट्वा तं धर्मभाणकम् ।
दूरतः सांजलिर्नत्वा मुदितः समुपासरत् ॥
तत्र स मुदितो धर्मभाणकस्य पुरो गतः ।
पादाब्जे सांजलिर्नत्वा समालोक्यैवमब्रवीत् ॥
भदन्त कौशल कश्चिद्भवतामिन्द्रियेष्वपि ।
सर्वपरिग्रहाणां च सबन्धुसुहृदामपि ॥
यदर्थे भवतां शास्त शरणेऽहमिहाव्रजम् ।
तद्भवानपि जानीयात्तदर्थे मे प्रसीदतु ॥
इति विज्ञप्य तस्याग्रे शास्तुः स सुगतात्मजः ।
विष्कम्भी सुप्रन्नात्मा पूजां चक्रे यथाक्रमम् ॥
यथाविधि समभ्यर्च्य सर्वपूजोपहारदूष्यादिशुद्धरुचिरचीवरैः ।
ध्वजच्छत्रवितानैश्च पताकाव्यंजनादिभिः ।
अलंकृत्य महोत्साहं चक्रे सगीतवादनैः ॥
ततस्तस्य पुरः सर्वद्रव्योपकरणान्यपि ।
सधातुरत्नजातानि भोग्यानि चौषधीरपि ॥
सर्वाण्येतान्युपस्थाप्य पुरतः समकल्पयेत् ।
ततोऽष्टांगैः प्रणामानि प्रदक्षिणानि चाकरोत् ॥
ततः स प्रांजलिर्भूत्वा शास्तारं धर्मभाणकम् ।
समीक्ष्य सुप्रसन्नास्यः प्रार्थयदेवमादरात् ॥
भदन्त सद्गुरो शास्ता धर्मश्रीगुणसागराः ।
तद्भवान्मे मनोवांछां संपूरयितुमर्हति ॥

(२३५)
शृण्वन्ति ये सदा धर्मं भवतः समुपाश्रिताः ।
देवा अप्यसुराश्चापि यक्षगन्धर्वकिन्नराः ॥
गरुडा अपि नागाश्च विद्याधरादयोऽपि च ।
कुम्भाण्डा राक्षसाश्चापि भूतप्रेतपिशाचकाः ॥
सिद्धाः साध्या ग्रहास्ताराः सर्वाश्चाप्यप्सरोगणाः ।
सर्वलोकाधिपाश्चापि ब्राह्मणाश्च महर्षयः ॥
यतिनो योगिनश्चापि भिक्षवो ब्रह्मचारिणः ॥
भिक्षुण्यश्चैलकाश्चापि व्रतिनश्चाप्युपासकाः ॥
तीर्थिकाश्चापि शैवाश्च वैष्णवाश्च तपस्विनः ।
राजानः क्षत्रिया वैश्याः श्रेष्ठिनोऽपि महाजनाः ॥
पौरिकाः सार्थवाहाश्च वणिजः शिल्पिनोऽपि च ।
एवमन्येऽपि लोकाश्च सर्वे ते विमलाशयाः ॥
पुण्यवन्तो महासत्त्वा भद्रश्रीसद्गुणाश्रयाः ।
बोधिसत्त्वा महाभिज्ञा भवेयुर्बोधिलाभिनः ॥
भजन्ति भवतां ये च शरणे समुपस्थिताः ।
ते सर्वे विमलात्मानः भवेतुर्बोधिलाअभिनः ॥
भवद्दर्शनमात्रेण सर्वाणि पातकान्यपि ।
निरवशेषे विनष्टानि क्षिणुयुर्दारुणान्यपि ॥
जानन्ते तव संबुद्धाः सर्वेऽपि दशदिक्स्थिताः ।
बोधिसत्त्वाश्च सर्वेऽपि सर्वेऽर्हन्तोऽपि योगिनः ॥
ब्रह्मशक्रादयो देवाः सर्वलोकाधिपा अपि ।
महत्पुण्याभिवांछन्तो भजन्ति सर्वतः सदा ॥
धन्यास्ते पुरुषाः सर्वे सद्धर्मश्रीगुणलाभिनः ।
ये ते धर्मामृतं पीत्वा भजन्ति समुपस्थिताः ॥
पुण्यक्षेत्रमहाभूमिरियं वाराणसी भुवि ॥
भवत्पादरजोलिप्ता भवत्यतिपवित्रिता ॥
तद्भदन्त भवांच्छास्ता कृपया मां विलोकयन् ।
पुण्यामृतेन संसिचं संविभृतां स्वपुत्रवत् ॥

(२३७)
इति तेनोदितं श्रुत्वा स सुधीर्धर्मभाणकः ।
विष्कम्भिनं महासत्त्वं तं पश्चन्नेवमब्रवीत् ॥
कौकृत्यं कुलपुत्रात्र मोत्पादय ममाग्रतः ।
किमिच्छसि भवे क्लेशं सद्धर्मसुखसाधनम् ॥
कति मार्षाः किल क्लेशाः संसार औपभागिकाः ॥
नैमित्तिकाः प्रजोत्पत्तेः सद्धर्मगुणसाधनाः ॥
ये चापीयं महाविद्यां संजानन्ते षडक्षरीम् ।
संलिप्यन्ते न तेअ क्लेशैः संसारधर्मचारिणः ॥
यथा जाम्बुनदं हेम मलैर्नासन्ध्यते क्वचित् ।
यस्य कायगता चेयं महाविद्या षडक्षरी ॥
संसारे सरतोऽप्यस्य काये क्लेशैर्न लिप्यते ।
इति तेन समादिष्टं निशम्य स विनोदितः ।
विष्कम्भी प्रार्थयदेवं नत्वैनं धर्मभाणकम् ॥
ददस्व धर्मचक्षुर्मे नष्टमार्गस्य सद्गुरो ।
संतर्पय जगद्भर्त धर्मामृतरसेन माम् ॥
संबोधिकल्पवृक्षस्य बीजं रोपय मे तरौ ।
सद्धर्मगुणरत्नानां कुरु मे कार्यमालयम् ॥
भद्रश्रीसुखसंपत्तिवसतिं कुरु मे तनौ ।
अभेद्यकुशलाधारं सुप्रतिष्ठ वृषाश्रयम् ॥
कुरु मां निर्मलात्मानं परिशुद्धत्रिमण्डलम् ।
ददस्व मे महाविद्यां संबोधिज्ञानसाधनीम् ॥
सद्धर्मश्रीगुणाधारीं षडक्षरीं जगद्धिते ॥
ययाहं क्षिप्रमासाद्य संबोधिज्ञानसन्मणिम् ।
उद्धरेयं जगल्लोकं सांसारमहदम्बुधेः ॥
प्रवर्तयेयमालोकं धर्मचक्रं भवालये ।
मोचयेयं जगत्सर्वं षड्गतिक्लेशबन्धनात् ॥
श्रावयेयं जगत्सर्वं संबुद्धानां सुभाषितान् ।
चारयेयं जगल्लोके महायानं व्रतोत्तमम् ॥

(२३८)
स्थापयेयं जगत्सर्वं बोधिमार्गेऽभिबोधयन् ।
तद्भवान्मे कृपासिन्धो महाविद्यां षडक्षरीम् ॥
संबोधिज्ञानसंभर्ता प्रयच्छतु जगद्धिते ।
दत्वा मे श्रीमतीमेनां महाविद्यां षडक्षरीम् ॥
त्राता नाथो गुरुः शास्ता सन्मित्रं सद्गुणार्थभृत् ।
गतिर्बन्धुः सुहृत्स्वामि प्रभुः पिता परायणः ॥
द्वीपपरायणो भर्ता शरण्यं भवतां मम ॥
इति संप्रार्थिते तेन श्रुत्वा स धर्मभाणकः ।
विष्कम्भिनं महासत्वं तमालोक्यैवमब्रवीत् ॥
दुर्लभं कुलपुत्रेदं सर्वविद्यामहत्पदम् ।
अभेद्यं सर्वमाराणां वज्रसारमनुत्तरम् ॥
सर्वक्लेशाग्निसंतापप्रशान्तिकरणं महत् ।
भद्रश्रीगुणसद्धर्मसमृद्धिसुखसाधनम् ॥
सर्वसत्त्वहिताधानं बोधिसंभारपूरणम् ।
सर्वधर्मोत्तमोदारं सर्वापायविशोधनम् ॥
अक्षयज्ञानसम्पत्तिविमुक्तिपदसाधनम् ।
दशपारमिताधर्मसारसंबोधिसाधनम् ॥
सर्वदेवादिलोकैश्च समभिकांक्षितं पदम् ।
सर्वधर्मपदस्थानं प्रवेशनपदं महत् ॥
ये च स्वस्वकुलेस्थानाअं देवतानां यथाविधि ।
अभिषेकं समादाय चरन्ति सद्व्रतं सदा ॥
केचित्तीर्थे समाश्रित्य सद्धर्ममोक्षवांछिनः ।
ध्यात्वा मन्त्राणि जल्पन्तो भक्त्याराधयन्ति तान् ॥
केचिद्गिराशरण्येऽपि गुहायां निर्जने वने ।
पुण्यक्षेत्रे गृहे रन्मे पीठे प्रेतालयेऽपि च ॥
केचिच्चैत्यविहारे च सभागारे च मण्डपे ।
उद्याने वॄक्षमूले च शिवादिसुरमन्दिरे ॥
केचिन्महोदधेस्तीरे नदीतिरे सरस्तटे ।
एवमन्यत्र सत्क्षेत्रे समाश्रिताः समाहिताः ॥

(२३९)
स्वस्वकुलेष्टदेवानां शरणे समुपस्थिताः ।
ध्यात्वाराध्य समभ्यर्च प्रार्थयन्ति सुनिर्वृतिम् ॥
सुनिर्वृतिं न ते यान्ति कृत्वापि दुष्करं तपः ।
स्वस्वकुलेष्टेवानामालयमेव यान्ति ते ॥
ये च सन्तो महासत्त्वा बोधिसत्त्वाः शुभार्थिनः ।
त्रिरत्नभजनं कृत्वा ददत दानमादरात् ॥
एतत्पुण्याभिलिप्तास्ते भवेयुर्विलाशयाः ।
शुद्धशीलसमाचाराः संचरेरन् सुसंवरम् ॥
एतत्पुण्यानुलिप्तास्ते परिशुद्धत्रिमण्डलाः ।
क्षान्तिव्रतं समाधाय संचरेरन् जगद्धिते ॥
एतत्पुण्याभियुक्तास्ते सद्धर्मसाधनोद्यताः ।
महावीर्ये समुत्साहं कुर्युर्भवार्थसाधनम् ॥
एतत्पुण्यविमुक्तास्ते निःक्लेशा विजितेन्द्रियाः ।
योगध्यानसमाधानाः संतिष्ठेरन् समाहिताः ॥
एतत्पुण्यामृतव्याप्ता अर्हन्तस्ते निरंजनाः ।
संबोधिप्रणिधिं धृत्वा वरेयुर्बौद्धसंवरम् ॥
एतत्पुण्यांशुदीप्तास्ते चतुर्ब्रविहारिणः ।
प्रज्ञारत्नं समासाद्य संचरेरन् सुसंवृतौ ॥
एतत्पुण्यानुभावैस्ते सर्वोपायविचक्षणाः ।
सर्वसत्त्वहिताधानीं चरेयुर्भद्रचारिकाम् ॥
एतत्पुण्यसमृद्धास्ते यथेच्छारुपचारिणः ।
सर्वहितार्थसंभारं पूरयेयुर्जगद्धिते ॥
एतत्पुण्यसमुद्दीप्ता महाभिज्ञा गुणाकराः ।
बोधिमार्गे जगत्सर्वं स्थापयेयुः प्रयत्नतः ॥
एतत्पुण्यमयांगास्ते परमार्थज्ञानमुत्तमम् ।
प्राप्य मारान् विनिर्जित्य संबोधिं समवाप्नुयुः ॥
ततस्ते सुगता बुद्धां जगत्सत्वं सुसंवृतौ ।
बोधयित्वा प्रतिष्ठाप्य संप्रयायुः सुनिर्वृतिम् ॥

(२४०)
एवं चिरेण बुद्धास्ते चरन्तो बोधिचारिकाः ।
दशपारमिताः सर्वाः पूरयित्वा यथाक्रमम् ॥
जित्वा मारगणान् सर्वांश्चतुर्ब्रह्मविहारिणः ।
परमज्ञानमासाद्य संबोधिं प्राप्य निर्वृताः ॥
एवं दुष्करमर्माणि कृत्वा सर्वजिना अपि ।
चिरात्संबोधिमासाद्य संप्रायाताः सुनिर्वृतिम् ॥
य इमां श्रीमहत्सर्वविद्येश्वरीं षडक्षरीम् ।
ध्यात्वा लोकेश्वरं नित्यं जपति बोधिमानसः ॥
स तत्क्षणाद्विशुद्धात्मा परिशुद्धत्रिमण्डलः ।
भद्रश्रीसुखसंपन्नः संप्रयायात्सुखावतीम् ॥
तत्र प्राप्तोऽमिताभस्य मुनेः शरणनिश्रितः ।
बोधिधर्मामृतं पीत्वा बोधिसत्त्वव्रतं चरेत् ॥
ततः संवृतिशुद्धात्मा सर्वसत्त्वहितोत्सुकः ।
कृती पारमिताः सर्वाः संपूरयन् यथाअक्रमम् ॥
संवृतिधर्मसंभारं पूरयन्ति जितेन्द्रियाः ।
समाधिसद्गुणाधारा जित्वा मारगणानपि ॥
परमार्थं समासाद्य संबोधिं समवाप्नुयात् ।
ततो बुद्धपदं प्राप्य कृत्वा धर्ममयं जगत् ॥
निर्विकल्पो विशुद्धात्मा संप्रयायात्सुनिर्वृतिम् ।
सर्वयोगा महाविद्याः परमार्थाप्तिकारणाः ॥
एषा विद्या महाधर्मसंबोधिज्ञामसाधनी ।
यथा हि तण्डुलसिद्धं संसारधर्मपालनम् ॥
एवमेषा महाविद्या सर्वसद्धर्मपालिनी ।
सर्वलोका सुमेदिन्यामुर्वरायां प्रयत्नतः ॥
कृषित्वा धान्यमारोप्य संपालयन्ति सादरम् ।
तदंकुरे समुद्भूते नदीभिन्नरहाम्बुभिः ॥
मेघधाराम्बुभिः सम्यक्स्fआल्यमानं प्रवर्धिते ।
ततस्तत्परिनिष्पन्नं छिवा खले महीतले ॥

(२४१)
मर्दयित्वा गृहे नीत्वा संशोष्य भास्वदातपैः ।
ततस्तं मुशलेनापि भेदयित्वा समादरात् ॥
तद्बुषाणि परित्यज्य समालोन्त्येव तण्डुलम् ।
तदेव तण्डुलं सिद्धं सर्वसंसारपालनम् ॥
सद्धर्मप्राप्तिसंभारपुरणं बोधिसाधनम् ।
तथा सर्वमहायोगाः सर्वाः पारमिता अपि ॥
सर्वा विद्याश्च मन्त्राणि सद्धर्मप्राप्तिसिद्धये ।
सर्वेषां योगविद्यानां मन्त्राणामपि सत्तमम् ॥
सिद्धमेतन्महाविद्यामन्त्रं सम्बोधिसाधनम् ।
एवमेव महाविद्या सर्वधर्मार्थसाधनी ॥
महत्पुण्यैर्विना नैव लभ्या केनापि सद्दिया ।
सुक्षेत्रे व्यारुहेन्नेव तण्डुलं वितुषं क्वचित् ॥
निष्पुण्यैः लभ्यते नैषा महाविद्या कथंचन ।
यावन्न लभ्यते ह्येषा विद्या सर्वार्थसाधनी ॥
तावत्पुण्यानि सर्वाणि संसाधयेत्प्रयत्नतः ।
यदैषा लभ्यते विद्यां तदा पुण्यनिरादरः ॥
एतामेव महाविद्यां ध्यात्वा लोकेश्वरं जपेत् ।
यदेयं सिध्यते विद्या सर्वसंभारसाधनी ॥
तदा सद्धर्मकार्याणि साधयेत्स्वेच्छयानया ।
एषा हि तण्डुलाकारा संसारधर्मसाधनी ॥
सर्वधर्मास्तुषाकाराअ एतद्विद्याप्तिकारणाः ।
एवं महत्तरीमेनां विद्याराज्ञां षडक्षरीम् ॥
ध्यात्वा पारमिताः सर्वाः प्रणमन्ते सदादरात् ।
संबुद्धामपि सर्वेऽथ बोधिसत्त्वा जिनात्मजाः ॥
अर्हन्तो वीतक्लेशाश्च ध्यात्वेमां प्रणमन्त्यपि ।
सर्वेऽपीन्द्रादयो देवाः ब्रह्मादयो महर्षयः ॥
सूर्यादयो ग्रहाः सर्वे चन्द्रादितारका अपि ।
सर्वसिद्धाश्च साध्याश्च वसवश्चाप्सरोगणाः ॥

(२४२)
सर्वेऽपि त्रिदशेन्द्राश्च सर्वविद्याधरा अपि ।
विष्णुब्रह्मादिलोकेन्द्राः कुम्भाण्डाश्च यमादयः ॥
सर्वेऽपि राक्षसेन्द्राश्च वरुणादयोऽप्यहीश्वराः ।
सर्वेऽपि गरुडेन्द्राश्च सर्वेऽपि पवनाधिपाः ॥
सर्वे श्रीदादियक्षेन्द्राः सर्वेऽपीशादियोगिणः ॥
गन्धर्वकिन्नरेन्द्राश्च सर्वलोकाधिपा अपि ॥
सदा नित्यामिमां विद्यां विद्याराज्ञीं षडक्षरीम् ।
ध्यात्वा स्मृत्वा प्रणत्वापि संभजन्ते समादरात् ॥
ये येप्यस्याः सुसिद्धायाः विद्याराज्ञां समादरात् ।
ध्यात्वा स्मृत्वा प्रणत्वापी प्रभजन्ते सदानिशम् ॥
ते तेअ सर्वे विशुद्धांगाः विमुक्तसर्वपातकाः ।
निःक्लेशा विमलात्मानः संप्रयायुः सुखावतीम् ॥
तत्रामितरुचेः शास्तुः शरणे समुपाश्रिताः ।
सदा धर्मामृतं पीत्वा संचरेरन् जगद्धिते ॥
एवं ते च जगल्लोकं हितं कृत्वा प्रमोदिताः ।
बोधिसत्त्वा महाभिज्ञा भवेयुर्धर्मराजिकाः ॥
ततस्ते विमलात्मानः परिशुद्धत्रिमण्डलाः ।
अर्हन्तो बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥
एवं महत्तरी विद्या प्रसिद्धेयं षडक्षरी ।
यस्या अनुस्मृतिमात्रेण सर्वे नष्टा हि पापकाः ॥
य एनां जपते नित्यं तस्य यः चीवरं स्पृशेत् ।
सोऽपि भवेन्महासत्त्वो बोधिसत्त्वो विवर्तिकः ॥
यश्चैनं पूजयेद्भक्त्या तेन सर्वेऽर्चिता जिनाः ।
ससंघा अपि सत्कारैर्भवन्ति पूजिताः सदा ॥
एवं महत्तरी सर्वभद्रश्रीसद्गुणार्थदा ।
षदक्षरीति विख्याता सर्वत्र भुवनेष्वपि ॥
बुद्धानां जननी माता प्रज्ञापारमितापि सा ।
सांजलिं प्रणतिं धृत्वा भजत्येनां शुभंकरीम् ॥

(२४३)
अत एषा महाविद्या संसारधर्मसाधनी ।
मुनीन्द्रैर्बोधिसत्त्वैश्च सर्वदेवैश्च वन्दिता ॥
अस्या नामसंभारं ग्रहणमपि दुर्लभम् ।
स्मरणं श्रवणं चापि विना पुण्यैर्न लभ्यते ॥
इति तेन समादिष्टं श्रुत्वा स संप्रमोदितः ।
विष्कम्भी सांजलिः प्रार्थ्य नत्वैवं धर्मभाणकम् ॥
भदन्त सद्गुरो शास्तः शरणे तेऽहमागतः ।
तद्भवान्मे महाविद्यां प्रददातु जगद्धिते ॥
इति संप्रार्थितस्तेन पश्यन् स धर्मभाणकः ।
स्मृत्वा लोकेश्वरं ध्यात्वा तस्थौ तद्दानचिन्तया ॥
तदाकाशान्महच्छब्दो निश्चचार मनोहरः ।
ददस्वास्मै जगल्लोकहितार्थपुण्यवांछिनः ॥
योऽयं धीरो महासत्त्वो बोधिसत्त्वो जिनात्मजः ।
सर्वसत्त्वहितानि विद्यामिच्छन् समागतः ॥
श्रद्धाभक्तिप्रसन्नात्मा सं बोधिज्ञानलालसः ।
तत्प्रसिद्धा महाविद्या देयास्मै दीयतामिति ॥
तन्निश्चरन्महाशब्दं श्रुत्वा स धर्मभाणकः ।
कुतोऽयं चरते शब्द इति ध्यात्वा व्यवस्थितः ॥
भूयोऽप्येयं महाशब्दो निश्चचार विहायसः ।
देयास्मै सुप्रसन्नाय संबोधिज्ञानसाधिने ॥
सर्वसत्त्वहितार्थाय सद्धर्मश्रीगुणार्थिने ।
बोधिसत्त्वाय धीराय श्रद्धया दीयतामिति ॥
निश्चरन्तं सुशब्दं तं श्रुत्वा स धर्मभाणकः ।
कुतोऽयं चरते शब्द इति ध्यात्वा व्यलोकयेत् ॥
समीक्ष्य सर्वतो दिक्षु धिमान् स संविलोकयन् ।
विस्मयापन्नचित्तः खे संपश्यन् संददर्श तम् ॥
शरत्पूर्णेन्दुदीप्ताभं जटामिताभशोभितम् ।
पद्महस्तं महासत्त्वमार्वलोकितेश्वरम् ॥

(२४४)
दृष्ट्वा तं खे कजालीनं बोधिसत्त्वं जिनात्मजम् ।
भद्रश्रीसद्गुणाधारं संबोधिधर्मभास्करम् ॥
संपश्यन् समुत्थाय सानन्दविस्मिताशयः ।
अष्टांगैः प्रणतिं कृत्वा तस्थौ ध्यात्वा कृतांजलिः ॥
तमेवं संस्थितं धर्मभाणकं निश्चरेन्द्रियम् ।
स त्रैलोकेश्वरः पश्यन् समामन्त्र्यैवमादिशत् ॥
कुलपुत्रायमुद्योगी संबोधिज्ञानसाधने ।
अस्मै दैया महाविद्या प्रदियतां षडक्षरी ॥
इति तेन जगच्छास्त्रा समादिष्टं निशम्य सः ।
धर्मभाणकः आलोक्य नत्वैनमब्रवीत् ॥
भगवन्नाथ धर्मेन्द्र भवदाज्ञां शिरो वहन् ॥
ददात्वस्मै महाविद्यां तद्भवान् संप्रसीदतु ॥
इति विज्ञप्य लोकेशं ततः स धर्मभाणकः ।
विष्कम्भिनं समामन्त्र्य संपश्न्नेवमब्रवीत् ॥
कुलपुत्र जगच्छास्ता दत्ताज्ञा मे प्रसीदतः ।
दद्यामहं महाविद्यां गृहाणेमां षडक्षरीम् ॥
इत्यादिश्य स धर्मिष्ठो विधिनास्मै महात्मने ।
सविशुद्धिमुदाहृत्य प्रादाद्विद्यां षडक्षरीम् ॥
प्रणवमणिकजहृद्बीजमिति षडक्षरम् ।
सिद्धमेतन्महाविद्या षदक्षरीति विश्रुता ॥
तत्प्रदत्तामिमां विद्यां विद्याधीणां षडक्षरी ।
विष्कम्भी सांजलिर्नत्वा संप्राग्रहीत्प्रमोदितः ॥
तत्क्षणे साचला साब्धिश्चचाल षड्विधा मही ।
पपात पुष्पवृष्टिश्च सर्वतोऽप्यचरच्छुभम् ॥
तद्विद्या दत्तमात्रेऽपि विष्कम्भी स समृद्धिमान् ।
अनेकधर्मसंभारसमाधिप्राप्तवानभूत् ।
ततः स सुप्रसन्नाअत्मा शत्रे तस्मै सदक्षिणाम् ।
चतुर्द्वीपां सप्तरत्नपरिपूर्णां ददौ मुदा ॥

(२४५)
तां दृष्ट्वा स महाभिज्ञो धर्मिष्ठो धर्मभाणकः ।
विष्कम्भिनं महासत्त्वं तं समालोक्यैवमब्रवीत् ॥
कुलपुत्र त्वमार्योऽसि नानार्यः सुगतात्मजः ।
वैनेयो बोधिसत्त्वस्तत्गृह्णीयां दक्षिणां न ते ॥
एता एकाक्षरस्यापि पर्याप्ता न तु दक्षिणा ।
प्रागेव षडक्षराणां गृह्णियां ते तथापि न ॥
तच्छ्रुत्वा स महाभिज्ञो विष्कम्भी तस्य सद्गुरोः ।
महार्घ्यमूल्यशुद्धाभं मुक्ताहारमुपाहरत् ॥
तमुपनामितं पश्यन् गृहीत्वा धर्मभाणकः ।
तस्मै प्रत्यर्पयित्वा स पश्यंस्तं चैवमब्रवीत् ॥
कुलपुत्र मुनीन्द्रस्य शाक्यमुनेर्जगद्गुरोः ।
एनं पुन उपास्थाप्य मद्वचसा वदेर्नमः ॥
इति शास्त्रा समादिष्टं निशम्य स विनोदितः ।
विष्कम्भिनं सुप्रसन्नं समालोक्यैवमब्रवीत् ॥
भवता यद्यथादिष्टं तत्तथाहं करोमि हि ।
इति विज्ञप्य तं मुक्ताहारं नत्वा समाददे ॥
ततः स सुप्रसन्नात्मा विष्कम्भी तस्य सद्गुरोः ।
पादाअब्जे सांजलिर्नत्वा संप्रस्थितोऽचरन्मुदा ॥
सार्धं सर्वैः सदा यैस्तैः प्रतिलब्धमनेप्सितः ।
सुमंगलमहोत्साहं जेतोद्यानमुपाचरत् ॥
तत्र स दूरतः पश्यन् भगवन्तं सभाश्रितम् ।
सांजलिः प्रणतिं कृत्वा सहसा समुपासरत् ॥
तत्र समुपासृत्य शास्तुस्तस्य जगद्गुरोः ।
पादाब्जं सांजलिर्नत्वा संपश्यन् समुपाश्रयत् ।
तत्र स भगवान् पश्यन् विष्कम्भिनं समागतम् ।
सुप्रसन्नमुखाम्भोजं समालोक्यैवमादिशत् ॥
स्वागतं कुलपुत्रैहि कश्चित्ते कौशलं तनौ ।
वांछितार्थं समासाद्य समायासि प्रसीदतः ॥

(२४६)
इत्यादिष्टे मुनीन्द्रेण विष्कम्भी संप्रसादितः ।
भगवन्तं जगन्नाथं पश्यन्नेवं न्यवेदयत् ॥
भगवन् लब्धवानस्मि भवत्कृपानुभावतः ।
संबोधिसाधनीं विद्यां भद्रश्रीसद्गुणार्थदाम् ॥
अद्य मे सfअलं जन्म बुद्धपुत्रोऽस्मि साम्प्रतम् ।
प्राक्संबोधिसन्मार्गो भद्रश्रीमान् जगद्धिते ॥
भगवन् यद्भवांच्छास्ता सर्वर्महितार्थभृत् ।
यथाशु बोधिमाप्नुयां तथा मां प्रोत्तुमर्हति ॥
इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः ।
विष्कम्भिनं समालोक्य पुनरेवं समादिशत् ॥
धन्यस्त्वं कुलपुत्रोऽसि बोधिसत्त्वो जिनात्मजः ।
सर्वसत्त्वहिताधानी महविद्यासमाप्तवान् ॥
भूयोऽप्यहं महाविद्यां सप्तसप्ततिकोटिभिः ।
संबुद्धैर्भाषिता या तां दास्यामि ते जगद्धिते ॥
य एतां धारणीं विद्यां सर्वपातकनाशनीम् ।
भद्रश्रीसद्गुणाधारां संबोद्धपदसाधनीम् ॥
समादाय सुचित्तेन स्मृत्वा ध्यात्वा समाहितः ।
संबोधिप्रणिधिं धृत्वा पठति सर्वदादरात् ॥
स सर्वपापनिर्मुक्तः परिशुद्धेन्द्रियः सुधीः ॥
निःक्लेपरिशुद्धात्मा बोधिसत्त्वो भवेत्कृती ॥
सर्वैरपि मुनीन्द्रैस्स समालोक्य सदानिशम् ।
दुष्टमारभ्येभ्योऽपि संरक्ष्यते स्वपुत्रवत् ॥
सर्वविघ्नगणानां स्यात्प्रधृष्यः स वीर्यवान् ।
महासत्त्वो महोत्साही सद्धर्मगुणसाधने ॥
संबुद्धजननी देवी प्र&॰२८९;यापारमितापि तम् ।
बोद्धिसत्त्वं महासत्त्वं पश्यन्ती समवत्सदा ॥
लोकेश्वरोऽपि संपश्यन्स्तं श्रीभद्रगुणाश्रयम् ।
सर्वत्र सर्वदा रक्षेद्योजयन् बोधिसंवरे ॥

(२४७)
ततः स त्रिगुणाभिज्ञो बोधिचर्याव्रतं दधन् ।
सर्वं संबोधिसंभारं संपूरयन् यथाक्रमम् ॥
ततः स सुविशुद्धात्मा निःक्लेशो विमलेन्द्रियः ।
अर्हन्मारान् विनिर्जित्य त्रिविधां बोधिमाप्नुयात् ॥
ततः स त्रिजगच्छास्ता कृत्वा धर्ममयं जगत् ।
सर्वं बोधिव्रते युज्य समाप्नुयात्सुनिर्वृतिम् ॥
एवं महत्तरी विद्यां संबुद्धपदसाधनी ।
एषा त्वया सदा धार्या पठनीया जगद्धिते ॥
ये चाप्येतन्महाविद्यापाठभाषणसुस्वरम् ।
श्रुत्वानुमोदमानास्तं नत्वा भजन्ति सादरम् ॥
तेऽपि सर्वे विकल्माषाः परिशुद्धत्रिमण्डलाः ।
त्रिरत्नभजनोद्युक्त्ता भजेयुः सुगतात्माजाः ॥
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ।
त्रिविधां बोधिमासाद्य संबुद्धापदमाप्नुयुः ॥
एवं सर्वैर्जगन्नाथैरियं विद्यां महत्तरी ।
धृत्वा संपाठिता नित्यं देशिता च जगद्धिते ॥
इति मत्वा त्वयाप्येषा विद्या संबोधिसाधनी ।
भद्रश्रीधर्मसंभर्त्री पठितव्या जगद्धिते ॥
इत्यादिश्य मुनीन्द्रोऽसौ भगवांस्त्रिजगद्गुरुः ।
विष्कम्भिने सुधीराय बोधिसत्त्वाय सद्धिये ॥
आअ ओं चले चूले चुन्दे स्वाहेत्येतन्नवाक्षरम् ।
धारणीं परमां विद्यां प्रादात्स्वयमुदाहरन् ॥
शास्त्रा स्वयं प्रदत्तं तां महाविद्यां नवाक्षरीम् ।
विष्कम्भी सांजलिर्नत्वा समादायापठन्मुदा ॥
धृत्वा विष्कम्भिना शास्तुः पाठेमाना गुरोः पुरः ।
संसिद्धा सा महाविद्या बभूव त्रिजगद्धिते ॥
एतद्विद्यानुभावेन विष्कम्भी स विशुद्धदृक् ।
लोकेश्वरस्य प्राद्राक्षीत्सर्वलोमविलान्यपि ॥

(२४८)
तानि दृष्ट्वा स विष्कम्भी सहर्षविस्मयान्वितः ।
अहो चित्रं महामाया संदृश्यते मयाधुना ॥
धर्मकाये जगद्भर्तुः सर्वाणि भुवनान्यपि ।
इति ध्यात्वा समाधाअय संतस्थे निश्चलेन्द्रियः ॥
ततः स सुप्रसन्नात्मा विष्कम्भी संप्रबोधितः ।
भगवन्तं प्रणत्वा च सांजलिरेवमब्रवीत् ॥
भगवंस्त्रिजगद्भर्तुः सर्वधर्माश्रयेऽधुना ॥
लोमविलेषु पश्यामि सर्वाणि भुवनात्मनि ॥
कति सन्ति तनौ तस्य सर्वधर्माधिपस्स्य हि ।
लोमविलेषु लोकास्तान् सर्वान् दर्शयितुमर्हति ॥
इति संप्रार्थिते ते विष्कम्भिना स सर्ववित् ।
भगवान्स्तं महासत्त्वं संपश्यन्नेवमादिशत् ॥
कुलपुत्रे विजानीहि सर्वत्रैधातुकान्यपि ।
भुवनानि जगद्भर्तुः सन्ति धर्ममयाश्रये ॥
तेनासौ त्रिजगन्नाथो सर्वधर्ममयाश्रयः ।
सर्वधर्माधिपः शास्ता सर्वलोकाधिपेश्वरः ॥
एवमसौ महेशाख्यो धर्मश्रीसद्गुणाश्रयः ।
बोधिसत्त्वो महाभिज्ञो धर्मराजोऽभिराजते ॥
तत्तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वा समाहितः ।
नामापि समुदाहृत्य भजितुमर्हति सर्वदा ॥
ये तस्य शरणे स्थित्वा ध्यात्वा स्मृत्वापि सर्वदा ।
नामापि च समुच्चार्य प्रभजन्ते समाहिताः ॥
दुर्गतिं ते न गच्छन्ति यान्ति सद्गतिमेव हि ।
भद्रश्रीगुणसंपन्नाश्चरेयुः पोषधं सदा ॥
तत्पुण्यपरिशुद्धास्ते निःक्लेविमलेन्द्रियाः ।
बोधिचर्याव्रतं धृत्वा संचरेरन् जगद्धिते ॥
ततस्ते सद्गुणाधाराः कृत्वा सर्वसुभद्रकम् ।
त्रिरत्नस्मृतिमाधाय प्रान्ते प्रेयुः सुखावतीम् ॥

(२४९)
तत्र गत्वामिताभस्य शरणे समुपाश्रिताः ।
सदा धर्मामृतं पीत्वा संचरेरन्महाव्रतम् ॥
ततः ते स्युर्महासत्त्व बोधिसत्त्वा गुणाकराः ।
सर्वं संबोधिसंभारं पूरयित्वा यथाक्रमम् ॥
सर्वसत्त्वहिताधानसंबोधिसाधनोद्यताः ।
अर्हन्तो विमलात्मानश्चतुर्ब्रह्मविहारिणः ॥
जित्वा मारगणान् दुष्टान्महाभिज्ञाः सुभद्रिकाः ।
त्रिविधाम्बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा ते तत्सभाश्रिताः ।
सर्वे देवादयो लोकाः प्राभ्यनन्दन् प्रबोधिताः ॥
ततः सर्वनीवरणविष्कम्भी संप्रसादितः ।
भगवन्तं समालोक्य पुनरेवमभाषत ॥
भगवन्स्त्रिजगन्नाथो लोकेअश्वरो जिनात्मजः ।
नाद्यापीह समायाति कदागच्छेत्तदादिश ॥
इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः ।
विष्कम्भिनं महासत्त्वं समालोक्यैवमादिशत् ॥
कुलपुत्र स लोकेशो बोधिसत्त्वो जगत्प्रभुः ।
व्याकरणं महेशाय दातुमिहाधुना चरेत् ॥
ममापि दर्शनं कर्तुं दर्शयितुमिमाः सभाः ।
सर्वांच्छुभे प्रतिष्ठाप्य प्रथममिह प्राव्रजेत् ॥
इत्यादिष्टं मुनीन्द्रेण निशम्य स प्रबोधितः ।
विष्कम्भी स समालोक्य तस्थौ संहर्षिताशयः ॥
तस्मिन्नवसरे तत्र विहारे जेतकाश्रमे ।
नानावर्णाः सुपुण्याभा अवभास्यात्यरोचयन् ॥
तत्रोद्याने महाकल्पवृक्षाः समीहितार्थदाः ।
सर्वर्तुपुष्पवृक्षाश्च सर्वfअलद्रुमा अपि ॥
अष्टांगगुणशुद्धाम्बुपरिपूर्णाः सरोवराः ।
पद्मादिकजपुष्पाद्याः प्रादुर्भूता मनोरमाः ॥

(२५०)
तद्रश्मिसंपरिस्पृष्टाः सर्वलोकाः सभाश्रिताः ।
महाद्भुतसुखापन्नो बभूवुर्नन्दिताशयाः ॥
तत्सुभद्रनिमित्तानि प्रादुर्भूतानि सर्वतः ।
सरोवरद्रुमादीनि दृष्ट्वा तस्थुः सविस्मयाः ॥
तान् समीक्ष्य स विष्कम्भी सहर्षविस्मयान्वितः ।
भगवन्तं प्रणम्यैवं पओप्रच्छ सांजलिः पुनः ॥
भगवन् कुत आअयाता इमे पुण्यसुरश्मयः ।
नानावर्णाः सुभद्राभा एअतदादेष्टुमर्हती ॥
इति संप्रार्थिते तेन विष्कम्भिना स सर्ववित् ।
भगवान्स्तं सभां चापि समालोक्यैवमादिशत् ॥
योऽसौ त्रैधातुकाधिश आर्यावलोकितेश्वरः ।
बोधिसत्त्वो समासत्त्व इहागन्तुं समीहते ॥
तेनमास्य सुपुण्याभा समुत्सृज्य समन्ततः ।
भासयित्वा विहारेऽत्र शोभयितुं समीरिताः ॥
इदानीं स जगन्नाथः सर्वान् सत्त्वान् भवोदधेः ।
उद्धृत्य बोधिसन्मार्गे प्रतिष्ठाप्येह प्राचरेत् ॥
तस्मिन्नवसरे तत्र विहारे संप्रभासयन् ।
समागत्य स लोकेशः प्रविवेशावलोकयन् ॥
तं समागतमालोक्य भगवन् संप्रसादितः ।
स्वागतमेहि भद्रं ते कच्चिदित्यभ्यपृच्छत ॥
इति पृष्टे मुनीन्द्रेण दृष्ट्वावलोकितेश्वरः ।
भगवन्नागतोऽस्मीति निवेद्य समुपासरत् ॥
तत्र तस्य मुनीन्द्रस्य दिव्यसुवर्णवारिजम् ।
पुरतः समुपस्थाप्य पादाब्जे प्रणतिं व्यधात् ॥
ततः स त्रिजगन्नाथस्तस्य शास्तुर्जगद्गुरोः ।
वामपार्श्वे समाश्रित्य पश्यन्नेवं न्यवेदयन् ॥
भगवन्नमिताभेन भगवतेममम्बुजम् ।
प्रहितं भवतां सर्वकौशल्यं चापि पृच्छति ॥

(२५१)
तत्सौवर्णांगमालोक्य भगवान् संप्रमोदितः ।
गृहीत्वा वामपार्श्वे संनिधायैवं समादिशत् ॥
धन्यस्त्वं कुलपुत्रासि समुद्धृत्य भवोदधेः ।
बोधिमार्गे त्वया सत्त्वाः कियन्तः संनियोजिताः ॥
इति पृष्टे मुनीन्द्रेअण लोकएश्वरो जिनात्मजः ।
भगवन्तं सभां चापि पश्यन्नेवं न्यवेदयत् ॥
भगवन्स्तत्प्रजानीते भवान् सर्वं भवालये ।
यत्सत्त्वाः समुद्धृत्य संवृतौ योजिता मया ॥
एतत्तदुक्तमाकर्ण्य भगवान् संप्रमोदितः ।
लोकेश्वरं महाभिज्ञं संपश्यन्न्वेवमादिशत् ॥
साधु साधु महासत्त्व सर्वत्रैधातुकाधिपः ।
त्वमेव सर्वसत्त्वानां त्राता नाथो हितार्थभृत् ॥
यत्त्वया सर्वलोकेषु व्यवलोक्य भवोदधेः ।
सर्वसत्त्वाः समुद्धृत्य बोद्धिमार्गे नियोजिताः ॥
तेनासि त्वं महासत्त्वः सर्वत्रैधातुकाधिपः ।
लोकेश्वरो जगद्गर्ता लोकनाथो जगत्प्रभुः ॥
सिद्धानि सर्वकार्याणि यथाभिवांछितान्यपि ।
जयतु ते सदा सर्वसत्त्वोद्धारणसंवरम् ॥
सर्वेऽपि दुष्टमारास्ते प्रभास्पृटाः शुभाशयाः ।
शरणे समुपासृत्य भवन्तु बोधिचारिणः ॥
सर्वेषामपि सत्त्वानां त्वन्नामस्मृतिभाविनाम् ।
सर्वत्रापि सदा भद्रं भवन्तु निरुपद्रवम् ॥
इत्येवं बहुधा तस्मै लोकेशाय महात्मने ।
सिद्धाशिषं प्रदत्वासौ भगवान्मौनमादधे ॥
तस्मिन्नवसरे तत्र महेश्वरः समागतः ।
भगवन्तं समालोक्य पुरस्तात्समुपाचरत् ॥
भगवतो मुनीन्द्रक्य पुस्तात्समुपाचरत् ॥
भगवतो मुनीन्द्रस्य शरणे समुपाश्रितः ।
पादाब्जे प्रणतिं कृत्वा संपार्थ्यैवं कृतांजलिः ॥

(२५२)
भगवन् सर्वविच्छास्तर्भवच्छरनमाव्रजे ।
तद्भवान्मे महायानसंवरं दातुमर्हति ॥
एतत्संप्रार्थितं तेन महेश्वरेण सादरम् ।
श्रुत्वा स भगवानेनं महेशमेवमादिशत् ॥
गच्छ त्वं कुलपुत्रेशं प्राथर्येमं जगत्प्रभुम् ।
अयं लोकेश्वरो दद्याद्व्रतं ते बोधिसाधनम् ॥
इत्यादिष्टं स मुनीन्द्रेण श्रुत्वा महेश्वरो मुदा ।
लोकेशस्य पुरो गत्वा पादाब्जे प्रणतिं व्यधात् ॥
ततो महेश्वरस्तस्य लोकेशस्य पुरः स्थितः ।
सद्गुणतथ्यसंवादैस्तुष्य चैवं कृतांजलिः ॥
नमेऽहं भगवंच्छास्त्रेऽवलोकितेश्वराय ते ।
पद्मभृते महेशाय सुप्रह्लादनकराय च ॥
पद्मासनाय पद्मश्रीपरिवृतसुमूर्तये ।
संशुभपद्महस्ताय जगदाश्वासदायिने ॥
पृथिवीवरनेत्राय संशुद्धपंचचक्षुषे ।
जिनरत्नकिरीटाय चिन्तामणिविभूषिते ॥
इत्येवं स महेशानं स्थुत्वा तं श्रीगुणाकरम् ।
तत्पादाब्जे पुनर्नत्वा पश्यन्नेव समाश्रयत् ॥
तमेवं संस्थितं दृष्ट्वा आर्यावलोकितेश्वरः ।
सुप्रसन्नमुखाम्भोजं संपश्यन्नेवमादिशत् ॥
महेश किमभिप्रायं तव चित्तेऽभिरोचते ।
तदहं पूरयेयं हि तद्वदस्व ममाग्रतः ॥
इत्यादिष्टं जगद्भर्त्रा निशम्य स महेश्वरः ।
संहर्षितः पुनर्नत्वा संप्राथ्यैवं कृतांजलिः ॥
भगवन् सर्वविच्छास्तर्बोधिं मे वांछते मनः ।
तन्मे ददस्व सम्बोधिव्याकरणं जगद्धिते ।
इति तत्प्रार्थितं श्रुत्वा लोकेश्वरो जगत्प्रभुः ।
तमीशानं समामन्त्र्य संपश्यन्नेवमादिशत् ॥

(२५३)
धन्योऽसि त्वं महेशान यत्संबोधिमभीच्छसि ।
तदहं ते प्रदास्यामि संबोधिसाधनं व्रतम् ॥
तदादौ श्रद्धया नित्यं संबोधिनिहिताशयः ।
त्रिरत्नभजनं कृत्वा दद्या अर्थिं समीप्सितम् ॥
ततः शुद्धसमाचारः परिशुद्धत्रिमण्डलः ।
अष्टांगाचारसंपन्नं पोषधं व्रतमाचरे ॥
ततो धैर्यं समालम्ब्य चतुर्ब्रह्मविहारिकः ।
स्वपरात्मसमाधानं क्षान्तिव्रतं समाचरेः ॥
ततः पुण्यमहोत्साहं धृत्वा सद्धर्मसाधनम् ।
सर्वान् दुष्टगणां जित्वा संवृतिव्रतमाचरेः ॥
ततः क्लेशान् विनिर्जित्य संसारे रतिनिःस्पृहः ।
ध्यात्वादिओइश्वरसंबुद्धं ध्यानव्रतं समाचरेः ॥
ततः सद्धर्मशास्त्राब्धाववगाह्य जगद्धिते ।
प्रज्ञारत्नं समासाद्य महायानव्रतं चरेः ॥
ततः समाधिगुणापायं सर्वसत्त्वाभिबोधनम् ।
सद्धर्मसाधनं रत्नं धृत्वा कुर्याज्जगद्धितम् ॥
ततः श्रीधारणीद्यासिद्धिसाधनतत्परः ।
सम्बोधिप्रणिधिं धृत्वा संचरेथा जगद्धिते ॥
ततः श्रीगुणसंपन्नो भद्रचर्यासमाहितः ।
सर्वसत्त्वान् वशे स्थाप्य धर्मराजो बली भवेः ॥
ततो मारगणान् जित्वा निःक्लेशो विमलेन्द्रियः ।
अर्हन्सम्बोधिमासाद्य दशभूमिश्वरो भवेः ॥
ततस्त्वं स्या महाभिज्ञस्तथागतो मुनीश्वरः ।
सर्वविद्यधिपः शास्ता जगन्नाथो विनायकः ॥
भस्मेश्वर इति ख्यातः सर्वत्रैधातुकेश्वरः ।
सर्वधर्माधिराजेन्द्रः संबुद्धः सुगतो भवेः ॥
लोकधातौ विवृतायां बुद्धक्षेत्रं भवेत्तव ।
ततस्त्वं भगवान् सर्वं कृत्वा धर्ममयं जगत् ॥

(२५४)
संप्राप्य सौगतं कार्यं सम्बुद्धालयमाप्नुयाः ॥
इत्यादिष्टं जगद्भर्त्रा निशमुअ स महेश्वरः ।
मुदितस्तं जगन्नाथं नत्वा चैकान्तमाश्रयत् ॥
अथोमापि महादेवी लोकेशस्य पुरो गता ।
पादाब्जे प्रांजलिर्नत्वा स्तोत्रमेवं व्यधान्मुदा ॥
नमेऽहं भगवंच्छास्त्रेऽवलोकितेश्वराय ते ।
महेशाय जगद्भर्त्रे प्राणदाय महात्मने ॥
पृथिवीधरनेत्राय शुभपद्मधराय च ।
पद्मश्रीपरिवृताय सुचेतनकराय च ॥
धर्मधराय नाथाय दशभूमीश्वराय च ।
सुनिर्वृतिमयानसंप्रस्थिताय्सर्वदा ॥
इत्युमा सा महादेवी संतुष्टा तं जिनात्मजम् ।
लोकेश्वरं पुनर्नत्वा संप्रार्थ्यैवं कृतांजलिः ॥
भगवन्मां समालोक्य स्त्रीभावात्परिमोचय ।
कलिमलाधिवासाच्च गर्भावासाच्च मोचय ॥
क्लेशपरिग्रहोद्वीचेः समुद्धृत्य भवोदधेः ।
बोधिमार्गे प्रतिष्ठाप्य प्रापय सौगतीं गतिम् ॥
इति तया महादेव्या संप्रार्थितं निशम्य सः ।
लोकेश्वर उमादेवीं समालोक्यैवमादिशत् ॥
भगिनि त्वं महादेवि निर्वृतिं यदि वांछसि ।
त्रिरत्नभजनं कृत्वा प्रचेरेः पोषधं व्रतम् ॥
ततस्संशुद्धपुण्याप्ता परिशुद्धत्रिमण्डला ।
भद्रश्रीगुणसम्पन्ना प्रान्ते यायाः सुखावतीम् ॥
तत्रामिताभनाथस्य शरणे समुपाश्रिता ।
सदा धर्मामृतं पीत्पा समुपाश्रिता ।
सदा धर्मामृतं पीत्पा संबोधिव्रतमाप्नुयाः ॥
ततः पारमिताः सर्वाः पुरयित्वा यथाक्रमम् ।
जगद्भर्ता जगनाथो दशभूमीश्वरो भवेः ॥
ततः संबोधिमासाद्य तथागतो मुनीश्वरः ।

(२५५)
उमेश्वर इति ख्यातः संबुद्धो भगवान् जिनः ।
सर्वविद्याधिपः शास्ता सर्वधर्माधिपेश्वरः ॥
धर्मराजो जगन्नाथः सद्धर्मश्रीगुणाकरः ।
सर्वसत्त्वाधिराजोऽर्हन्सर्वत्रैधातुके प्रभुः ॥
मारजेता महाभिज्ञो विनायको भविष्यसि ।
हिमवद्दक्षिणे पार्श्वे बुद्धक्षेत्रं भवेत्तव ॥
एतेऽपि तीर्थिकाः सर्वे भवेयुः श्रावकास्तव ।
इत्यादिष्टो जगच्छास्त्रा लोकेशेन निशम्य सा ।
उमा देवी प्रहर्षन्ती तत्रैकान्ते समाश्रयत् ॥
अथ स भगवान् सर्वान् सभालोकान् समीक्ष्य तम् ।
विष्कम्भिनं च संपश्यन् समामन्त्रैवमादिशत् ॥
दृष्यतां कुलपुत्रोमा देवी संबोधिकामिनी ।
संबोधौ व्याकृतानेन लोकेशेन जगद्धिते ॥
यूयमप्यस्य सच्छास्तुः शरणे समुपाश्रिताः ।
संबोधिप्रणिधिं धृत्वा भजध्वं सर्वदादरात् ॥
एतत्पुण्यानुभावेन परिशुद्धत्रिमण्डलाः ।
बोद्धिसत्त्वा महासत्त्वा भवेत श्रीगुणाकरा ॥
ततः सर्वत्र सत्त्वानां कृत्वा भद्रवृषोत्सवम् ।
धर्मश्रीसुखसंपन्नाः प्रान्ते प्रेध्वं सुखावतीम् ॥
तत्र गत्वामिताभस्य मुनेः शरणमाश्रिताः ।
सदा धर्मामृतं पीत्वा संचरध्वं जगद्धिते ॥
ततः बोधिसंभारं पूरयित्वा यथाक्रमम् ।
त्रिविधां बोधिमासाद्य संबुद्धपदमेष्यथ ॥
एतद्भगवतादिष्टं निशम्य ते सभाश्रिताः ।
विष्कम्भिप्रमुखाः सर्वे लोकाः संमोदिताशयाः ॥
उत्पाअय समुपासृत्य लोकेशस्य जगत्प्रभोः ।
पादाब्जे प्रांजलिं कृत्वा प्रणेमिरे यथाक्रमम् ॥
सर्वेषामपि तेषाः स लोकनाथः शिरः स्पृशन् ।

(२५६)
बोधिसिद्धाशिषं दत्वा चेतांसि प्राभ्यनन्दयत् ॥
ततः श्रीजगन्नाथ आर्यावलोकितेश्वरः ।
भगवन्तं मुनीन्द्रं तं समालोक्यैवमब्रवीत् ॥
भगवन् गन्तुमिच्छमि सुखावत्यां निजाश्रमे ।
तदनुज्ञां प्रदत्वा मेऽभिनन्दयतु मानसम् ॥
इति संप्रार्थिते तेन लोकेशेन स सर्ववित् ।
दिव्यरत्नाम्बुजं तस्मै दत्वैवं च समादिशत् ॥
गच्छ त्वं कुलपुत्रेमं पद्मं शास्तुर्महामुनेः ।
उपहृत्य पुरः पृच्छः कौशल्यं मद्गिरा नमेः ॥
तथेति प्रतिविज्ञप्य लोकेश्वरो जिनात्मजः ।
भगवन्तं प्रणत्वा च सभां समीक्ष्य प्राचरत् ॥
ततः संप्रस्थितो लोकनाथः स पुण्यरश्मिभिः ।
संभासयन् जगल्लोकं सरत्सुखावतीं ययौ ॥
ततः स समुपासृत्य शास्तुरमितरोचिषः ।
पादाब्जे सांजलिर्नत्वा तत्पद्मं समुपाहरत् ॥
समीक्ष्य तं समायातं लोकेश्वरं स सर्ववित् ।
अमिताभो जगच्छास्ता सम्पश्यन्नेवमादिशत् ॥
एहि समागतोऽसि त्वं कुलपुत्रेह संश्रय ।
सिद्धानि सर्वकार्याणि कच्चित्तवापि कौशलम् ॥
कियन्तो हि त्वया सत्त्वा समुद्धृताः कुतः कुतः ।
दर्शितो भगवांच्छास्ता शाक्यसिंहः मुनीश्वरः ॥
इति पृष्तेऽमिताभेन लोकेश्वरः स सांजलिः ।
शास्तुरग्रे स्ववृत्तान्तं सर्वमेवं न्यवेदयत् ॥
भगवन् सर्वलोकेषु सर्वेषु नरकेष्वपि ।
निमग्नान् प्राणिनः सर्वान् समालोक्य प्रयत्नतः ॥
समुद्धृत्य प्रसन्नांस्तान् बोधयित्वा विनोदतन् ।
बोधिमार्गे प्रतिष्ठाप्य प्राचारयन् जगद्धिते ॥
एवं तान् सकलान् सत्त्वान् कृत्वा संबोधिसाधिनः ।

(२५७)
जेतोद्याने विहारस्थं संबुद्धं द्रष्टुमाचरम् ॥
तत्राविष्टोऽहमालोक्य तं मुनीन्द्रसभाश्रितम् ।
सर्वावतीं सभां तान् च सश्रावकजिनात्मजान् ॥
पुरतः समुपासृत्य शाक्यमुनेर्जद्गुरोः ।
पद्मं पुर उपस्थाप्य वन्दित्वा समुपाश्रयम् ॥
तत्र भगवतामग्रे संप्रेषितो महेश्वरः ।
स मया व्याकृतो बोधौ सोमापि व्याकृता तथा ॥
तथा सर्वेऽपि लोकाश्च तत्सभासमुपाश्रिताः ।
विनोद्य बोधिसंभारव्रते नियोजिता मया ॥
ततस्तस्य मुनीन्द्रस्य प्राप्यानुज्ञां प्रमोदितः ।
भवतां दर्शनं कर्तुं समुत्सुकोऽहमाव्रजे ॥
भवतां प्रहितं तेन भगवता सवन्दनम् ।
इदं रत्मयं पद्मं कौशल्यं चापि पृच्छ्यते ॥
एत्यन्निवेदितं तेन लोकेशेन निशम्य सः ।
अमितभो जगच्छास्ता प्राभ्यनन्दत्प्रमोदितः ॥
ततः सोऽमितप्रभस्तं लोकेश्वरं समीक्ष्य च ।
साधु धन्योऽसि सत्पुत्र इत्याराध्याभ्यनन्दयेत् ॥
इत्येवं स जगन्नाथो महाभिज्ञो जिनात्मजः ।
सर्वसत्त्वहिताधानं व्रतं धृत्वा समाचरेत् ॥

॥ इति सर्वसत्त्वोद्धरणसंबोधिमार्गस्थापनमहेश्वरोमादेवी-संबोधिव्याकरणोपदेशप्रकरणं समाप्तम् ॥


१८. सर्व सभालोकसद्धर्मश्रवणोत्साहसंप्रमोदितस्वस्वालयप्रतिगमनप्रकरणम्

अथ सर्वनीवरणविष्कम्भि स प्रमोदितः ।
भगवन्तं तमानम्य सांजलिरेवब्रवीत् ॥
भगवन्नद्य स दृष्टो लोकेश्वरोऽधुना मया ।
तदस्मि परिशुद्धात्मा सद्धर्मप्राप्तवानपि ॥
अद्य मे जन्मसाfअल्यं संसिद्धश्च मनोरथः ।

(२५८)
आशा सम्पूर्णसिद्धा च सम्बोधिं प्राप्तवान् भवे ॥
भूयोऽपि भगवन्नस्य लोकेशस्य महात्मनः ।
गुणविशेषसत्कीर्तिं श्रोतुमिच्छामि साम्प्रतम् ॥
तद्भवान् सर्वसत्त्वानां सम्बोधिव्रतचारिणाम् ।
मनः प्रोत्साहनं कर्तुं समुपादेष्टुमर्हति ॥
इति संप्रार्थिते तेन विष्कम्भिना स सर्ववित् ।
भगवांस्तं महासत्त्वं संपश्यन्नेवमादिशत् ॥
साधु शृणु महासत्त्व कुलपुत्र समाहितः ।
लोकेशगुणसत्कीर्तिं प्रवक्ष्यामि समासतः ॥
अप्रमेयसंख्येयं लोकेशस्य महात्मनः ।
पुण्यगुणप्रमाणानि कर्तुं न शक्यते मया ॥
तद्यथा सर्वलोकेषु सर्वेषामपि भूभृताम् ।
पलसंखयाप्रामाणानि कर्तुं मयापि शक्यते ॥
सपर्वता मही सर्वा कृत्वायणुरजोमया ।
तेषां संख्याप्रमाणानि कर्तुं मया हि शक्यते ॥
सर्वेषामपि चाब्धीनां सर्वासां सरितामपि ।
जलबिन्दुप्रमाणानि संख्यातुं शक्यते मया ॥
सर्वेषामपि वृक्षाणां सर्वत्रापि महीरुहाम् ।
पत्रसंख्याप्रमाणानि प्रकर्तुं शक्यते मया ॥
न त्वस्य लोकनाथस्य पुण्यसंभारमुत्तमम् ।
अप्रेयमसंख्येयं संख्यातुं शक्यते मया ॥
सर्वे सत्त्वाश्च संबुद्धान् सर्वानपि ससांघिकान् ।
सर्वोपकरणैर्नित्यं संभाजेरन् समादरम् ॥
यावत्तेषां महत्पुण्यं बोधिश्रीगुणसाधनम् ।
ततोऽप्यधिकमौदार्यं लोकेशभजनोद्भवम् ॥
यदसौ त्रिजगन्नाथो बोधिसत्त्वो महर्द्धिमान् ।
सर्वसमाधिसपन्नः प्रकरोति जगद्धिते ॥
ईदृशस्त्रिजगन्नाथो बोधिसत्त्वो महर्द्धिकः ।

(२५९)
सर्वसमाधिसम्पन्नस्त्रैलोक्ये नास्ति कश्चन ॥
तद्यथाहं पुराद्राक्षमस्य त्रैधातुकप्रभोः ।
समाधिगुणमाहात्म्यं सर्वजिनात्मजाधिकम् ॥
तद्यथाभूत्पुरा शास्ता क्रकुच्छन्दस्तथागतः ।
सर्वविद्याधिपो धर्मराजोऽर्हत्सुगतो जिनः ।
तदाहं दानशूराख्यो बोधिसत्त्वो हितार्थभृत् ॥
तस्य शास्तुर्मुनीन्द्रस्य सद्धर्मशासनारतः ॥
तदैकसमयेऽसौऽपि क्रकुच्छन्दो विनायकः ।
जेताश्रमे विहारेऽत्र विजहार ससांधिकः ॥
तदा तस्य मुनीन्द्रस्य पातुं धर्मामृतं मुदा ।
ब्रह्मादिब्राह्मणाः सर्वे शक्रादित्रिदशाधिपाः ॥
सर्वे लोकाधिपाश्चापि दैत्येन्द्रा राक्षसाधिपाः ।
गन्धर्वाः किन्नरा यक्षा नागेन्द्रा गरुडाधिपाः ॥
सूर्यादयो ग्रहाः सर्वे चन्द्रादयश्च तारकाः ।
सिद्धाः साध्याश्च रुद्राश्च सर्वे विद्याधरा अपि ॥
राजानः क्षत्रिया वैश्या अमात्या मन्त्रिणो जनाः ।
वणिजः सार्थवाहाश्च श्रेष्ठिनश्च महाजनाः ॥
पौरजानपदा ग्राम्यास्तथान्ये देशवासिनः ।
सर्वेऽपि ते समासृत्य समभ्यर्च्य यथाक्रमम् ॥
क्रकुच्छन्दमुनीन्द्रं तं नत्वा तस्थुः सभाश्रिताः ।
तदानेकमहासत्त्वा बोधिसत्त्वाः समाहिताः ॥
समाधिविग्रहं चक्रुःक्रकुच्छन्दमुनेः पुरः ॥
यदा समन्तभद्राख्यो बोधिसत्त्वो महर्द्धिमान् ।
समापेदे समाधिं तद्यद्ध्वजोद्गतसंज्ञकम् ॥
तदा लोकेश्वरश्चासौ बोधिसत्त्वो महर्द्धिकः ।
समापेदे समाधिं तद्यद्विकिरिणसंज्ञकम् ॥
यदा समन्तभद्रश्च बोधिसत्त्वो जिनात्मजः ।
समापेदे समाधिं तद्यत्पूर्णेन्दुवरलोचनम् ॥

(२६०)
तदा लोकेश्वरश्चासौ महाभिज्ञो जिनात्मजः ।
समापेदे समाधिं तद्यत्सुर्यवरलोचनम् ॥
यदा समन्तभद्रश्च महाभिज्ञो जिनात्मजः ।
समाधिं तत्समापेदे यद्विच्छुरितसंज्ञकम् ॥
तदा लोकेश्वरश्चापि महाभिज्ञो जिनात्मजः ।
समापेदे समाधिं यद्गगनगंजसंज्ञकम् ॥
यदा समन्तभद्रश्च बोधिसत्त्वो महामतिः ।
समापेदे समाधिं तत्सर्वाकारकराभिधम् ॥
तदा लोकेश्वरश्चापि बोधिसत्त्वो महामतिः ।
समापेदेद्समाधिं यदिन्द्रमत्यभिधानकम् ॥
यदा समन्तभद्रश्च बोधिसत्त्वो गुणाकरः ।
समापेदे समाधिं यदिन्द्रराजोऽभिधानकम् ॥
तदा लोकेश्वरश्चासौ बोधिसत्त्वो गुणाकरः ।
समापेदे समाधिं यदब्धिगम्भीरसंज्ञकम् ॥
यदा समन्तभद्रश्च बोधिसत्त्वः सुवीर्यवान् ।
समापेदे समाधिं यत्सिहंविजृम्भिताह्वयम् ॥
तदा लोकेश्वरश्चापि बोधिसात्त्वः सुवीर्यवान् ।
समापेदे समाधिं यत्सिहविक्रीडिताभिधम् ॥
यदा समन्तभद्रश्च बोधिसत्त्वः सुबुद्धिमान् ।
समापेदे समाधिं यद्वरदायकसंज्ञकम् ॥
तदा लोकेश्चरश्चापि बोधिसत्त्वः सुबुद्धिमान् ।
समापेदे समाधिं तद्यदवीच्यभिशोषणम् ॥
यदा समन्तभद्रश्च बोधिसत्त्वो विचक्षणः ।
उद्घाट्य दर्शयामास सर्वलोमविलान्यपि ॥
तदा लोकेश्वरश्चापि बोधिसत्त्वो विचक्षणः ।
अपावृणोत्स सर्वाणि लोमरन्ध्राण्यशेषतः ॥
तदा समन्तभद्रोऽसौ लोकेशं तं महर्धिकम् ।
समीक्ष्य सांजलिर्नत्वा संपश्यन्नेवमब्रवीत् ॥

(२६१)
साधु धन्योऽसि लोकेश यदीदृक्प्रतिभानवान् ।
कश्चिन्नैवास्ति लोकेषु त्वादृक्समाधिवित्सुधिः ॥
एवमन्यैर्महासत्त्वैर्बोधिसत्त्वैर्महद्धिकैः ।
स्माधिविग्रहे सैव लोकेश्वरो विजितवान् ॥
तदा सर्वे महाभिज्ञ बोधिसत्त्वाः प्रसादिताः ।
लोकेशं तं महाभिज्ञं समानम्यैवमब्रवन् ॥
साधु धन्योऽसि लोकेश यदीदृक्प्रतिभानवान् ।
कश्चिन्नैवास्ति लोओके यत्त्वादृक्समाधिसद्बली ॥
तदा स भगवान् दृष्ट्वा सर्वांस्तान् सुगतात्मजान् ।
पुरतः समुपामन्त्र्य संपश्यन्नेवमादिशत् ॥
कुलपुत्राल्पमेवैतत्प्रतिभानं जगत्प्रभोः ।
लोकेशस्यास्य युष्माभिर्दृश्यतेऽपीह साम्प्रतम् ॥
यादृग्लोकेश्वरस्यास्य प्रतिभानं महत्तरम् ।
ईदृक्सर्वमुनीन्द्राणामपि नैवास्ति कस्यचित् ॥
एवं तस्य जगद्भर्तुः प्रतिभानं महत्तरम् ।
क्रकुच्छन्दमुनीन्द्रेअण समाख्यातं मया श्रुतम् ॥
अथ सर्वनीवरणविष्कम्भी स प्रबोधितः ।
भगवन्तं मुनीन्द्रं च समालोक्यैवमब्रवीत् ॥
भगवन् यन्महायानसूत्रराजं निगद्यते ।
तत्समादिश कारण्डव्यूहसूत्रोद्भवं वृषम् ॥
यच्छ्रुत्वापि वयं सर्वे सम्बोधिगुणसाधनैः ।
धर्मरसौरभिव्याप्तमानसाः प्रचरेमहि ॥
तच्छ्रुत्वा भगवांश्चापि विष्कम्भिनं महामतिम् ।
साधु शृणु समाधाय वक्ष्ये तदिति प्रादिशत् ॥
येऽपि श्रोष्यन्ति कारण्डव्यूहसूत्रं सुभाषितम् ।
तेषां सर्वाणि पापानि क्षिणुयुर्दारुणान्यपि ॥
दशाकुशलपापानि पंचातिपातकान्यपि ।
निरवशेषनष्टानि क्षिणुयुरिति निश्चयम् ॥

(२६२)
इत्यादिष्टे मुनीन्द्रेण विष्कम्भी संप्रमोदितः ।
भगवन्तं समालोक्य पुनरेवमभाषत ॥
भगवन् सर्वविच्च्छास्त जानीमहि कथं वयम् ।
यत्पापं कुरुते क्षीणं कारण्डन्यूहसूत्रकम् ॥
तच्छ्रुत्वा भगवान् भूयो विष्कम्भिनं विबोधितम् ।
सभाश्रितान् जनांश्चापि समालोक्यैवमादिशत् ॥
विद्यते कुलपुत्रासौ तीर्थो मलसुनिर्मलौ ।
सुमेरोर्दक्षिणे पार्श्वे मुनीन्द्रैः परिकल्पितौ ॥
मलतीर्थजले क्षिप्तं शुभ्रवासोऽपि नीलितम् ।
तथा तज्जलसंस्पृष्टो शुद्धोऽपि नीलितो भवेत् ॥
सुनिर्मले जले क्षिप्तं नीलवासोऽपि शुक्लितम् ।
तथा तज्जलसंस्पृष्टः पापात्मापि भवेच्छुचिः ॥
एवमिदं महायानसूत्राग्रं योऽभिनन्दति ।
सद्धर्मलिप्तोऽपि क्लेशैः संक्लिश्यते द्रुतम् ॥
श्रुत्वापीदं महायानसूत्राग्रं योऽभिनन्दति ।
स महापापलिप्तोऽपि निःक्लेशः स्याच्छुभान्तिकः ॥
यथा शतमुखो हीन्द्रो विनिसृत्य निजालयात् ।
दहति सर्वभूजातान् तृणगुल्मलताद्रुमान् ॥
तथेदं सर्वसूत्राणां कारण्डव्यूहमुत्तमम् ।
पातकान्यपि सर्वाणि निःशेषं दहते द्रुतम् ॥
ये श्रुत्वेदं महायानसूत्रराजं सुभाषितम् ।
अनुमोद्याभिनन्दन्तः संभजन्ते सदादरात् ॥
ते सर्वे निर्मलात्मानो निःक्लेशविमलेन्द्रियाः ।
बोधिसत्त्वा महासत्त्वा भवेयुर्निवर्तिकाः ॥
इदं सर्वमहायानसूत्रराजं महोत्तमम् ।
श्रुत्वा नैवानुमोदेयुः पृथग्जना दुराशयाः ॥
ये चापीदं महायानसूत्रराजं महोत्तमम् ।
निशम्याभ्यनुमोदन्तः प्रभजन्ते सदादरात् ॥

(२६३)
धन्यास्ते पुरुषाः सर्वे परिशुद्धत्रिमण्डलाः ।
निःक्लेशा निर्मलात्मानो भवेयुः सुगतात्मजाः ॥
मृत्युकालेऽपि तेषां च द्वादश सुगता जिनाः ।
समुपेत्याभिपश्यन्तो दद्युरेवं वरोत्तमम् ॥
मा भैषीः कुलपुत्र त्वं यत्कारण्डव्यूहसूत्रकम् ।
श्रुत्वानुमोद्य सत्कारैर्भजसे श्रद्धयादरात् ॥
एतत्पुण्यानुलिप्तात्मा भूयो न संसरेर्भवे ।
नैव क्लेशाग्निसंतापैः संधक्ष्यसे कदाचन ॥
यावज्जीवं महत्सौख्यं भुक्ता श्रीसद्गुणान्वितम् ।
भूयो धर्मामृतं भोक्तुं संप्रयायाः सुखावतीम् ॥
तत्र त्वममिताभस्य जिनस्य शरणे स्थितः ।
सदा धर्मामृतं पीत्वा संचरेथाः सुसंवरे ॥
ततो निर्मलशुद्धात्मा परिशुद्धत्रिमण्डलः ।
सर्वसत्त्वहिताधनबोधिचर्याव्रतं चरेः ॥
ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमम् ।
निःक्लेशोऽर्हन्महाभिज्ञश्चतुर्ब्रह्मविहारिकः ॥
जित्वा मारगणान् सर्वान् सम्बोधिनिश्चलाशयः ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयाः ॥
इति तैः सुगतैः सर्वैः समादिष्टं निशम्य ते ।
सर्वेऽप्युभ्यनुमोदन्तो नमेयुस्तान् जिनान्मुहुः ॥
ततस्ते तान् जिनान् स्मृत्वा प्राणं त्यक्त्वा समाहिताः ।
तैरेव सुगतैः सार्धं संप्रयायुः सुखावतीम् ॥
तत्रोपेत्यामिताभस्य शरणे समुपाश्रिताः ।
सदा धर्मामृतं पीत्वा संचरेयुर्जद्धिते ॥
ततः सम्बोधिसंभारं पूरयित्वा यथाक्रमम् ।
निःक्लेशा निर्मलात्मानः परिशुद्धत्रिमण्डलाः ॥
जित्वा मारगणान् सर्वांश्चतुर्ब्रह्मविहारिणः ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥

(२६४)
एवं महत्तरं पुण्यं कारण्डव्यूहसूत्रजम् ।
अप्रमेयमसंख्येयं संबोधिज्ञानसाधनम् ॥
यूयं सर्वेऽपि विज्ञाय संबोधिं यदि वांच्छथ ।
शृणुतेदं महायानसूत्रराजं सुभाषितम् ॥
अनुमोदत सत्कृत्य भजन सर्वदादरात् ।
इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः ।
सर्वे लोकास्तथेत्युक्त्वा प्राभ्यनन्दन् प्रबोधिताः ॥
ततस्ते सर्वे सभालोका ब्रह्मादयो महर्षयः ।
शक्रादयः सुरेन्द्राश्च सर्वलोकाधिपा अपि ॥
गन्धर्वकिंनरा रक्षाः सिद्धाः साध्याः सुरांगनाः ।
विद्याधराश्च दैत्येन्द्रा नागेन्द्रा गरुडा अपि ॥
महोरगाश्च दैत्येन्द्र नागेन्द्रा गरुडा अपि ॥
महोरगाश्च नैरृत्या भूतेशाश्च शुभाशयाः ।
योगिनो यतिनश्चापि तीर्थिकाश्च तपस्विनः ॥
विप्रराजादयः सर्वे मनुष्याश्च प्रसादिताः ।
त्रिधा प्रदक्षिणीकृय कृतांजलिपुटो मुदा ॥
भगवन्तं ससंघं तं नत्वा स्वस्वालयं ययुः ॥

॥ इति सर्वसभालोकसद्धर्मश्रवणोत्साहसंप्रमोदितस्वस्वालयप्रतिगमनप्रकरणं समाप्तम् ॥


१९. सिक्षा संवर समुद्देश प्रकरणम्

तदानन्दः समुत्थाय भगवतः पुरो गतः ।
पादाब्जे सांजलिर्नत्वा सम्पश्यन्नेवमब्रवीमब्रवीत् ॥
भगवच्छास्तरस्माकं भिक्षूणां ब्रह्मचारिणाम् ।
शिक्षासंवरसंवृत्तं समुपादेष्टुमर्हति ॥
इति संप्रार्थिते तेन भगवान् स मुनीश्वरः ।
आयुष्मन्तं तमानन्दं संपश्यन्नेवमादिशत् ॥

(२६५)
साधु शृणु त्वमानन्द भिक्षूणां ब्रह्मचारिणाम् ।
शिक्षासंवरसांवृतं प्रवक्षामि समासतः ।
ये शुद्धश्स्यः सत्त्वाः प्रव्रजित्वा जिनाश्रमे ।
शिक्षासंवरमिच्छन्ति धर्तुं निर्वृतिसाधनम् ॥
प्रथमं ते समालोक्य शुद्धक्षेत्रे मनोरमे ।
निषद्य स्वासने ध्यात्वा संतिष्ठेरन् समाहिताः ॥
भस्मास्थिकेशजम्बालावस्करामेध्यसंकुले ।
क्षेत्रे नैव निवास्तव्यं कदापि ब्रह्मचारिभिः ॥
दुःशीलैर्भिक्षुभिः सार्धं कर्तव्या नैव संगतिः ।
आअलापोऽपि निवासोऽपि कर्तव्या न कदाचन ॥
दुःशीलैर्भिक्षुभिः सार्धं भोक्तव्यं नापि किंचन ।
न स्थातव्यं न गन्तव्यं क्रीडितव्यं न च क्वचित् ॥
उपसंपन्ने दातव्या न च ज्ञप्तिचतुर्थकम् ।
सद्धर्मस्साधनोपायं नापि देयं दुरात्मनाम् ॥
दुःशीला हि दुरात्मानो बौद्धशासनदूषकाः ।
मारचर्यानुसंरक्ताः क्लेशव्यालितेन्द्रियाः ॥
तेषां नैवाभिदातव्य आवासः सौगताश्रमे ।
दातव्यो दूरतस्तेषामावास आश्रमाद्बहिः ॥
संघालापो न दातव्यो दुःशीलानां कदाचन ।
न तेषां सांघिकी भूमिर्नैवार्हति कुहापि हि ॥
न तेषां विद्यते किंचिदर्हत्संवृत्तिचारणम् ।
सर्वसत्त्वहिताधानं कुतः संबोधिसाधनम् ॥
इत्यादिष्टं मुनीन्द्रेण निशम्य स जिनात्मजः ।
आनन्दस्तं मुनीशानं समालोक्यैवमब्रवीत् ॥
भगवन् कतमे काले दुःशीला भिक्षवः शठाः ।
दक्षणीया भविष्यन्ति नायकाः सौगताश्रमे ॥
इत्यानन्देन संपृष्टे भगवान् सर्वविज्जिनः ।
तमानन्दं समालोक्य पुनरेवं समादिशत् ॥

(२६६)
त्रिवर्षशतनिर्याते सुनिर्वृतस्य मे तदा ।
दुःशीला भिक्षवो दक्षाः भवेयुः सौगताश्रमे ॥
तत्र ते भिक्षवः सर्वे भ्रष्टाचारा दुराशयाः ।
विहारे समुपासीनाश्चरेयुर्गृहिचारिकम् ॥
भार्यापुत्रसुताभ्रातृज्ञातिबन्धुसमन्विताः ।
यथाकामं सुखं भुक्त्वा संचरेरन् प्रमादिताः ॥
तेऽनीत्याहृत्य संघानां सर्वोपकरणान्यपि ।
सर्वाणि स्वात्मसात्कृत्वा भविष्यन्ति निजालयम् ॥
यथेच्छया समादाय भुक्त्वा भोग्यान् यथेप्सितम् ।
कुटुम्बसाधनोपाये संचरेरन् प्रगल्भिताः ॥
ते सांघिकोपचारेऽपि कुर्युर्विण्मूत्रसर्जनम् ।
श्लेष्मलालोद्वमोच्छिष्ठं विसर्जेयुश्च सर्वतः ॥
एतत्कर्मविपाकानि न ते ज्ञास्यन्ति दुर्धियः ।
उन्मत्ता इव दुर्दान्ताश्चरेयुर्दुरितारताः ॥
ये सांघिकोपचारेषु कुर्तुः श्लेष्मादिसर्जनम् ।
शालाटव्यां भवेयुस्ते प्रेताः सूचीमुखा किल ॥
विण्मूत्रादिपरित्यागं कुर्युर्ये सांघिकाश्रमे ।
वाराणस्यां भवेयुस्ते कृमयो गूथमूत्रजाः ॥
दन्तकाष्ठादिकं हृत्वा प्रभुं स्fऊर्य च सांघिकम् ॥
ते स्यू रक्तपशम्बूकमत्स्यादिजलजन्तवः ।
व्रीहिद्रव्याणि ये हृत्या भुंज्युर्ये सांघिकानि च ।
ते भवेयुर्महाप्रेताः सूचीमुखा नगोदराः ॥
येऽन्नपानादिकं कृत्व भुंज्युर्ये चापि सांघिकम् ।
ते स्युर्हीनकुले जाता हीनेन्द्रियाश्च पाचकाः ॥
ततश्च्युताश्च ते जाता लंगितकुब्जदुर्मुखाः ।
कुष्थव्याधिपरीतांगा भवेयुः पूतिवाहिकाः ॥
यदा तत्र स्थिता यायुर्यष्टिं धृत्वा शनैर्भुवि ।
नियतेयुस्तदा तेषां सर्वाणि पिशितान्यपि ॥

(२६७)
एवं ते बहुवर्षाणि दुःखानि विविधानि च ।
भुक्त्वापायिकं कर्म कृत्वा यायुश्च नारकान् ॥
ये चापि सांघिकीं भूमिं परिभोज्यन्ति लोभिनः ।
ते दुष्टाः क्लेशितात्मानो यायु रौरवनारके ॥
तत्र तेषां मुखे तप्तलौहगुडा निवेशयेत् ।
तैस्तेषामभिधक्ष्यन्ते ताल्वौष्ठहृदुदरान्यपि ॥
कण्ठहृदुदरान्त्रादीन् धक्ष्यन्ते सर्वविग्रहान् ।
तथा मृताः पुनस्तेऽपि जीवेयुः कर्मभोगिनः ॥
यमपालैर्गृहीत्वा च क्षेप्स्यन्ते घोरनारके ।
तेषां कर्मवशाज्जिह्वा प्रभवेच्च महत्तरी ॥
कृष्यन्ते हलशतैस्तत्र जिह्वायां यमकिन्नरैः ।
एवं बहूनि वर्षाणि दुःखानि विविधानि ते ॥
भुक्त्वा मृताः पुनर्यायुर्नाकेऽग्निघटे खलु ।
तत्र तेषां महज्जिह्वा प्रोद्भवेदपि तत्र च ॥
सूचीशतसहस्राणि विध्येयर्युमकिन्नराः ।
तथापि ते मृता नैव स्थास्यन्ति दुःखिताश्चिरम् ॥
ततस्थानग्निखदायां च क्षेप्स्यन्ति यमकिन्नराः ।
तत्रापिअ ते मृता नैव स्थास्यन्ति कर्मभोगिनः ।
ततश्चोत्क्षिप्य तान् प्रेतनद्यां क्षेप्स्यन्ति किन्नराः ॥
तत्रापि बहुवर्षाणि दुखानि विविधानि ते ॥
भुक्त्वा स्थास्यन्ति दुःखार्ताः सुचिरं कर्मभोगिनः ॥
एवं त्रिकल्पवर्षाणि भ्रमतां नरके सदा ।
ततस्तत्कर्मवैपाकक्षीणं तेषां भवेच्चिरात् ॥
ततश्च्युत्वा च ते जंबूद्वीपे जातास्सुदुःखिताः ।
दरिद्रिताश्च जात्यन्धा भवेयुर्दुरिताशयाः ॥
एवं ते बहुदुःखानि प्रभुक्त्वा बहुजन्मसु ।
सदा क्लेशाग्निसंतप्ता भ्रमेयुर्भवसागरे ॥
तस्मादानन्द संघानां सर्वोपकरणान्यपि ।
द्रव्याण्यपि च सर्वाणि रक्षितव्यानि यत्नतः ॥

(२६८)
अनीत्या नैव भोक्तव्यं सांघिकं वस्तु किंचन ।
केनापि सांघिकं वस्तु जीर्णीकर्तुं न शक्यते ॥
तदभोग्यमनीत्या हि सांघिकं वस्तु किंचन ।
अस्पृश्यं वह्निवत्तप्तं दहनं वस्तु सांघिकम् ॥
भारोपमं सदाक्रान्तमभेद्यं वज्रसन्निभम् ।
अपथ्यविषवद्दुष्टं तीक्ष्णासिधारसन्निभम् ॥
वैषं तेजैः समीकर्तुं मन्त्रौषध्यैर्हि शक्यते ।
सांघिकिं वस्तु हर्तुं न पापं केनापि शम्यते ॥
इति मत्वात्र संसारे सम्बोधिश्रीसुखेप्सुभिः ।
सांघिकं वस्तु यत्नेन रक्षितव्यं रक्षितव्यं सदादरात् ॥
एवं विज्ञाय संबोधिचित्तं धृत्वा समहितः ।
शिक्षासंवरमाधाय सम्पद्रक्षितुमर्हति ॥
शिक्षां रक्षितुकामेन चित्तीरक्ष्यं प्रयत्नतः ।
न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता ॥
अदान्ता मत्तमातंगा न कुर्वन्तीह तां व्यथाम् ।
करोति यामवीच्यादौ मुक्तश्चित्तमतंगजः ॥
बद्धश्चेच्चित्तमातंगः स्मृतिरक्षा समन्ततः ।
भयमस्तं गतं सर्वं सदा कल्याणमागतम् ॥
व्याघ्राः सिंहा गजा ऋक्षा सर्वे च दुष्टशत्रवः ।
सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा ॥
सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात् ।
चित्तस्यैकस्य दमनात्सर्वे दान्ता भवन्त्यमी ॥
यस्माद्भयानि सर्वाणि दुःखाप्रमितान्यपि ।
चित्तादेव समुद्यान्ति सर्वेषां भवचारिणाम् ॥
शस्त्राणि नरके केन घटितानि समन्ततः ।
तप्तायःकुट्टिमं केन कुतो जाताश्च ताः स्त्रियः ॥
पापं चित्तसमुद्भुतं सर्वमेतद्भवालये ।
तस्मान्न कश्चित्त्रैलोक्ये चितादन्यो भयानकः ॥

(२६९)
अदरिद्रं जगत्कृत्वा दानपारमिता यदि ।
जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम् ॥
fअलेन सह सर्वस्वत्यागचित्तं जनेअखिले ।
दानपारमिता प्रिक्ता तस्मात्सा चित्तमेव हि ॥
मत्स्यादयः क्व नीयन्तां मारयेयुर्यतो रतान् ।
लब्धे विरतिचित्ते तु शीलपाअरमिता मता ॥
कियतो मारयिष्यन्ति दुर्जनान् गगनोपमान् ।
मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः ॥
भूमिं छादयितुं सर्वान् कुतश्चर्म भविष्यति ।
उपानच्चर्ममात्रेण छन्ना भवति मेदिनी ॥
बाह्या भावाः सदा तद्वच्छक्या वारयितुं न हि ।
स्वचित्तमेव निवार्यं तत्किमेवान्यैर्निवारित्रैः ॥
सहापि वाक्छरीराभ्यां मन्ददृत्तेर्न तत्fअलम् ।
यत्पटोरेकैकस्यापि चित्तस्य ब्रह्मतादिकम् ॥
जपांस्तपांसि सर्वाणि दीर्घकालकृतान्यपि ।
अन्यचित्तेन मन्देअन वृथैव सिध्यते न हि ॥
दुःखं हन्तुं सुखं प्राप्तुं ते भ्रमन्ति मुधाम्बरे ॥
यैरेतद्धर्मसर्वस्वं चित्तं गुह्यं न भावितम् ।
तस्मात्स्वधिष्ठितं चित्तं सदा कार्यं सुरक्षितम् ॥
चित्तरक्षाव्रतं त्यक्त्वा बहुभिः किं तपोव्रतैः ।
यथा चपलमध्यस्था रक्षति व्रणमादरात् ॥
एवं दुर्जनमध्यस्था रक्षेच्चित्तं प्रयत्नतः ।
व्रणदुःखलवाद्वीता रक्षेत्स्वं व्रणमादरात् ॥
संघातपर्वताघाताद्भीतश्चित्तं बलं न किम् ।
अनेन हि विहारेन विहरन् दुर्जनेष्वपि ॥
प्रमदाजनमध्येऽपि यतिर्धीरो न खण्दते ॥
लाभा नश्यन्तु संपत्तिः सत्कारः कायजीवितम् ।
नश्यत्वन्यच्च कौशल्यं मा तु चित्तं न कस्यचित् ॥

(२७०)
चित्तमेव सदा रक्ष्यं संबोधिज्ञानसाधनम् ।
स्मृतिं च संप्रजन्यं च सर्वयत्नेन रक्षयेत् ॥
व्याध्याकुलो नरो यद्वन्न क्षमः सर्वकर्मसु ।
तथाभ्यां व्याकुलं चित्तं न क्षमं बोधिसाधने ॥
असंप्रजन्यचित्तस्य श्रुतचिन्तितभावितम् ।
जलवच्छिद्रिते कुम्भे स्मृतौ नैवाभितिष्ठते ॥
अनेके श्रुतवन्तोऽपि श्रद्धायत्नपरा अपि ।
असंप्रजन्यदोषेण भवन्त्यापत्तिकश्मलाः ॥
असंप्रजन्यचौरेण स्मृतिमोषानुसारिणा ।
उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम् ॥
क्लेशतस्करसंघोऽयमेव तारणवेषकः ।
प्राप्यावतारं मुष्णाति हन्ति सद्गतिं जीवितम् ॥
तस्मात्स्मृतिर्मनोद्वारान्नापनेया कदाचन ।
गतापि प्रत्युपस्थाप्या संस्मृत्या पापिकीं व्यथाम् ॥
उपाध्यायानुशासिन्या भीत्याप्यादरचारिणाम् ।
धन्यानां गुरुसंवासात्सुकरं जायते स्मृतिः ॥
बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतेक्षणाः ।
सर्वोऽप्ययं जगल्लोकस्तेषामग्रे सदा स्थितः ॥
इति ध्यात्वा सदा तिष्ठेत्त्रपादरभयान्वितः ।
बुद्धानुस्मृतिरप्येवं भवेत्तस्य मुहुर्मुहुः ॥
संप्रजन्यं तदा याति नैव यात्यागतं पुनः ।
स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते ॥
पूर्वं तावदिदं चित्तं सदोपस्थाप्यमीदृशम् ।
सदा निरिन्द्रयेणैव स्थातव्यं काष्ठवत्सदा ॥
निष्fअला नेत्रविक्षेपा न कर्तव्याः कदाचन ।
निध्यायन्तीव सदापि कार्या दृष्टिरधोगता ॥
दृष्टिविश्रामहेतोस्तु दिशः पश्येत्कदाअचन ।
आभासमात्रमालोक्य स्वागतार्थं विलोकयन् ॥

(२७१)
मार्गादौ भयबोधार्थं मुहुः पश्येच्चतुर्दिशम् ।
दिशो विश्रम्य विक्षते परावृत्यैव पृष्ठतः ॥
सरेदपसरेद्वापि पुरः पश्चान्निरुप्य च ।
एवं सर्वास्ववस्थासु कार्यं बुद्ध्वा समाचरेत् ॥
कायेनैवमवस्थेयमित्याक्षिप्य क्रियां पुनः ।
कथं कायः स्थित इति द्रष्टव्यः पुनरन्तरा ॥
निरुप्य सर्वयत्नेन चित्तमत्तद्विपस्तथा ।
धर्मचित्तो महास्तम्भे यथाअ बद्धो न मुच्यते ॥
कुत्र मे वर्तत इति प्रत्यवेक्ष्यं तथा मनः ।
समाधानधुरं नैव क्षणमप्युत्सृजेद्यथा ॥
भयोत्सवादिसम्बन्धे यद्यसक्तो यथासुखम् ।
दानकाले तु शीलस्य यस्मादुक्तमुपेक्षणम् ॥
यद्बुद्ध्वा कर्तुमारब्धं ततोऽन्यत्र विचिन्तयेत् ।
तदेव तावन्निष्पाद्यं तद्गतेनान्तरात्मना ॥
एवं हि सुकृतं सर्वमन्यथा नोभयं भवेत् ।
असंप्रजन्यक्लेशोऽपि वृद्धिं चैव गमिष्यति ॥
नानाविधप्रलापेषु वर्धमानेष्वनेकधा ।
कौतूहलेषु सर्वेषु हन्यादौत्सुक्यमागतम् ॥
मृण्मर्दनतृणच्छेदने खाद्यfअलमागतम् ।
स्मृत्वा तथागतीं शिक्षां तत्क्षणाद्भीत उत्सृजेत् ॥
यदा चलितुकामः स्याद्वक्तुकामोऽपि वा भवेत् ।
स्वचित्तं प्रत्यवेक्ष्यादौ कुर्याद्धैर्यं युक्तिमत् ॥
अनुनीतं प्रतिहतं यदा पश्येत्स्वकं मनः ।
न कर्तव्यं न वक्तव्यं स्थातव्यं काष्ठवत्तदा ॥
उद्धतं सोपहासं वा यदा मानमदान्वितम् ।
सोत्प्रसातिशयं वक्त्रं वंचकं च मनो भवेत् ॥
यदात्मोत्कर्षणाभासं परपंशनमेव च ।
साधिक्षेपं ससंरम्भं स्थातव्यं काष्ठवत्तदा ॥

(२७२)
लाभसत्कारकीर्त्यर्थि परिकारार्थि वा यदा ।
उपस्थानार्थि वा चित्तं तदाअ तिष्ठेच्च काष्ठवत् ॥
परार्थरुक्षं स्वार्थार्थि परिसत्काममेव वा ।
वक्तुमिच्छति सक्रोधं तदा तिष्ठेच्च काष्ठवत् ॥
असहिष्णुलसंभीतं प्रगल्भं मुखरं यदा ।
स्वपक्षाभिनिविष्टं वा तदा तिष्ठेच्च काष्ठवत् ॥
एवं संक्लिष्टमालोक्य निष्fअलारम्भि वा मनः ।
निगृह्णीयाद्दृधं शूरः प्रतिपक्षेण तत्सदा ॥
सुनिश्चितं सुप्रसन्नं धीरं सादरगौरवम् ।
सलज्जं सभयं शान्तं पराराधनतत्परम् ॥
परस्परविरुद्धाभिर्बालेच्छाभिरखण्डितम् ।
क्लेशोत्पादादिकं ह्येतदेषामिति दयान्वितम् ॥
आत्मसत्त्ववशं नित्यमनवद्येषु च वस्तुषु ।
निर्माणमिव निर्माणं धारयेन्मानसं सदा ॥
चिरात्क्षणवरं प्राप्तं स्मृत्वा स्मृत्वा मुहुर्मुहुः ।
धारयेदीदृशं चित्तमप्रकम्प्यं सुमेरुवत् ॥
गृद्धैरामिषसंगृद्धैः कर्ष्यमाण इतस्ततः ।
न करोत्यन्यथा कायः कस्मादत्र प्रतिक्रियाम् ॥
कायनौ बुद्धिमाधाय गत्यागमननिश्रयात् ।
यथाकामं गमं कार्यं कुर्यात्सर्वार्थसिद्धये ॥
एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत् ।
त्यजेद्भृकुटिसंकोचं पूर्वाभाषी जगत्सुहत् ॥
स शब्दपातं सहसा न पिठादीन् विक्षिपेत् ।
नास्fआलयेत्कपाटं च स्यान्निःशब्दरुचिः सदा ॥
बको विडालश्चौरश्च निःशब्दो निभृतश्चरन् ।
प्राप्तो ह्यभिमतं कार्यमेवं नित्यं यतिश्चरन् ॥
परचोदनदक्षाणामनधीष्टोपकारिणाम् ।
प्रतीच्छेच्छिरसा बाह्यं सर्वशिष्यः सदा भवेत् ॥

(२७३)
सुभाषितेषु सर्वेषु साधुकारमुदीरयेत् ।
पुण्यकारिणमालोक्य स्तुतिभिः संप्रहर्षयेत् ॥
परोक्षे च गुणान् श्रूयादनुश्रूयाच्च तोषतः ।
स्ववर्णभाष्यमाणे च भावयेत्तद्गुणज्ञताम् ॥
सर्वारम्भा हि तुष्ट्यर्थाः स चित्तैरपि दुर्लभा ।
भुंज्यात्तुष्टिसुखं तस्मात्परश्रमकृतैर्गुणैः ॥
न चात्रापि व्ययः कश्चित्परत्र च महत्सुखम् ।
द्वेषैरप्रीतिदुःखं तु महद्दुखं परत्र च ॥
विश्वस्तविन्यस्तपदं विस्पष्टार्थं मनोरमम् ।
श्रुतिसौख्यं कृपामूलं मृदुमन्दस्वरं वदेत् ॥
ऋजु पश्येत्सदा सत्त्वांश्चक्षणा संपिबन्निव ।
यस्मादेतान् समाश्रितान् संबुद्धत्वमवाप्नुयात् ॥
सातत्याभिनिशोत्थं प्रतिपक्षोत्थमेव च ।
गुणोपकारिक्षित्रे च दुःखिते च महच्छुभम् ॥
दक्ष उत्थानसम्पन्नः स्वयंकारी सदा भवेत् ।
नावकाशः प्रदातव्यः कस्यचित्सर्वकर्मसु ॥
उतरोत्तरतः श्रेष्ठा दानपारमितादयः ।
नैतरार्थं त्यजेच्छ्रेष्ठामन्यत्राचारसेतुतः ॥
एवं बुद्ध्वा परार्थेषु भवेत्सततमुत्थितः ।
निषिद्धमप्यज्ञातं कृपालोरर्थदर्शिनः ॥
विनिपातगतानाथान् व्रतस्थान् संविभज्य च ।
भुंजीत मध्यमां मात्रां त्रिचीवरबहिस्त्यजेत् ॥
सद्धर्मसेवकं कायमितरार्थं न पीडयेत् ।
एवमेव हि सत्त्वानामाशामाशु प्रपूरयेत् ॥
त्यजेन्न जीवितं तस्मादशुद्धेऽकरुणाशये ।
तुल्याशये तु तत्त्याज्यमित्थं न परिहीयते ॥
धर्मं निगौरवेऽस्वस्थे न शिरोवेष्ठिते वदेत् ।
सछत्रदण्डशस्त्रं च नावगुण्ठितमस्तके ॥

(२७४)
गम्भीरोदारमल्पेषु न स्त्रीषु पुरुषं विना ।
हीनोत्कृष्टेषु धर्मेषु समं गौरवमाचरेत् ॥
नोदारधर्मपात्रं च हीनधर्मे नियोजयेत् ।
न चाचारं परित्यज्य सूत्रमन्त्रैः प्रलोभयेत् ॥
दन्तकाष्ठस्य खेटस्य विसर्जनमपावृतम् ।
नेष्टं जले स्थले भोग्ये मूत्रादेशचापि गर्हितम् ॥
मुखपूरं न भुंजीत सशब्दं प्रसृताननम् ।
प्रलम्बपादं नासीत न बाहू मर्दयेत्समम् ॥
नैकयान्या स्त्रिया कुर्याद्यानं शयनमासनम् ।
लोकाप्रसादितं सर्वं दृट्वा पृट्वा स वर्जयेत् ॥
नांगुल्या कारयेत्किंचिद्दक्षिणेन तु सादरम् ।
समस्तेनैव हस्तेन मार्गमप्येवमादिशेत् ॥
नवाह्नक्षेपकं किंचिच्छब्दयेदल्पसंभ्रमे ।
अच्छतादिं तु कर्तुव्यन्यथा स्यादसंहृतः ॥
नाथनिर्वाणशय्यावच्छयीतेप्सितया दिशा ।
संप्रजानन् लघूत्थानं प्रागवश्यं नियोगतः ॥
आचारो बोधिसत्त्वानामप्रमेयमुदाहृतम् ।
चित्तशोधनमाचारं नियतं तावदाचरेच् ॥
रात्रिं दिवं च त्रिस्कन्धं त्रिकालं च प्रवर्तयेत् ।
शेषापत्तिसमस्तेन बोधिचित्तजिनाशयान् ॥
यो अवस्थाः प्रपद्यते स्वयं परवशोऽपि वा ।
तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः ।
न हि तद्विद्यते किंचिद्यन्न शिक्ष्यं जिनात्मजैः ॥
न तदस्ति न यत्पुण्यमेव विहरतः सतः ।
पारंपर्येण साक्षाद्वा सत्त्वार्थान्नान्यदा चरेत् ॥
सत्त्वानामेव चार्थाय सर्वं बोधाय नामयेत् ।
सदा कल्याणमित्रं च जीवीतार्थेऽपि न त्यजेत् ॥
बोधिसत्त्वव्रतधरं महायानार्थकोविदम् ।
एतदेव समासेन संप्रजन्यस्य लक्षणम् ॥

(२७५)
यत्कायचित्तवस्थायाः प्रत्यवेक्ष्य मुहुर्मुहुः ।
यतो निवार्यते यत्र यदेव च नियुज्यते ॥
तल्लोकचित्तरक्षार्थं शिक्षां दृष्ट्वा समाचरेत् ।
सर्वमेतत्सुचरितं दानं सुगतपूजनम् ।
कृतं कल्पसहस्त्रैर्यत्प्रतिघ प्रतिहन्ति तत् ॥
न च द्वेषसमं पापं न च क्षान्तिसमं तपः ।
तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः ॥
मनः शमं न गृह्णाति न प्रीतिसुखमश्नुते ।
न निद्रां न धृतिं याति द्वेषशस्ये हृदि स्थिते ॥
पूजयत्यर्थमानैर्यान् येऽपि चैनं समाश्रिताः ।
तेऽप्येनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम् ॥
सुहृदोऽप्युद्विजन्तेऽस्माद्ददाति न च सेव्यते ।
संक्षेपान्नास्ति तत्किंचित्क्रोधनो येन सुस्थितः ॥
एवमादीनि दुःखानि करोतीत्यरिसंज्ञया ।
यः क्रोधं हन्ति निर्बन्धात्स सुखीह परत्र च ॥
तस्मात्क्रोधबलं हत्वा रत्नत्रयप्रभावतः ।
बुद्ध्वा क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः ॥
नैवं द्विषः क्षयं यान्ति यावज्जीवमपि घ्नतः ।
क्रोधमेकं तु यो हन्यात्तेन सर्वद्विषो हताः ॥
[अल्पनिष्ठागमेनापि नतोत्पामुदिता सदा ।
दौर्मनस्येऽपि नास्तीष्टं कुशलं त्ववहीयते ॥
यद्येव प्रतीकारोऽस्ति दौर्मनस्येन तत्र किम् ।
अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम् ॥
दुःखापकारपारुष्यमयशश्चेत्यनीप्सितम् ।
प्रियानामात्मना वापि शत्रोश्चैतद्विपर्ययात् ॥
कथंचिल्लभ्यते सौख्यं दुःखं स्थितमयत्नतः ।
दुःखेन बहिः निःसारस्तत्कार्यं मनो दृढम् ।
सत्त्वक्षेत्रं जिनक्षेत्रमित्याख्यातं मुनीश्वरैः ।
एता आराध्य संबुद्धाः सर्वे निर्वृतिमागताः ॥

(२७६)
[सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे सः ।
जिनेषु गौरवं यद्वन्नष्विति कः क्रमः ॥
आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिः नैव हि संशयोऽस्ति ।
दृश्यन्त एते ननु सत्त्वरुपास्त एव नाथाः किमनादनात्र ॥
तथागताराधनमेतदेव लोकस्य दुःखापहमेतदेव ।
स्वार्थस्य संसाधनमेतदेव तत्साचरध्वं तमेवेदम् ॥
] यस्मान्नरकपालाश्च कृपावन्तश्च तद्बलम् ।
तस्मादाराधरेत्सत्त्वान् भृत्यश्चण्डनृपं यथा ॥
कुपितः किं नृपः कुर्याद्येन स्यान्नरकव्यथा ।
यत्सत्त्वदौर्मनस्येन कृतेन ह्यनुभूयते ॥
तुष्टः किं नृपतिर्दद्याद्यद्बुद्धत्वं समं भवेत् ।
यत्सत्त्वसौमनस्येन कृतेन ह्यनुभूयते ।
आस्तां भविष्यबुद्धत्वं सत्त्वाराधनसंभवम् ।
इहापि सौभाग्ययशःसौस्थित्यं लभते क्षमी ॥
प्रासादिकत्वप्रामोद्यमारोग्यं चिरजीवितम् ।
चक्रवर्तिसुखस्थानं क्षमी प्राप्नोति संसरन् ॥
एवं क्षमो भवेद्वीर्यं वीर्ये बोद्धिर्यतः स्थितः ।
न हि वीर्यं विना पुण्यं यथा वायु विना गतिः ॥
किं विर्यं कुशलोत्साहस्तद्विपक्षः क उच्यते ।
आलस्यकुत्सिता शक्तिर्विषादात्मावमन्यता ॥
अव्यापारसुखास्वादनिद्रयाश्रयतृष्णया ।
संसारदुःखानुद्वेगादालस्यमुपजायते ॥
तस्मादालस्यमुत्सृत्ज धृत्वा वीर्यं समाहितः ।
सर्वसत्त्वहिताधानं बोधिचर्याव्रतं चरेत् ॥
वीर्यं हि सर्वगुणरत्ननिधानभूतं सर्वापदस्तरति वीर्यमहाप्लवेन ।
नैवास्ति तज्जगति विचिन्त्यमानं नावाप्नुयाद्यदिह वीर्यस्थाधिरुढः ॥
यद्धेषु यत्करितुरंगपदातिमत्सु नाराचतोमरश्वधसंकुलेषु ।
हत्वा रिपून् जयमनुत्तममाप्नुवन्ति विस्fउर्जितं तदिह वीर्यं महाभटस्य ॥

(२७७)
अम्भोनिधीन्मकरवृन्दविघट्टिताम्बुतुंगोकुलाकुलतरंगविभंगभीमान् ।
वीर्येण गोष्पदमिव प्रविलंघ्य शूराः कुर्वन्त्यनर्घगुणरत्नधनार्जनानि ॥
रागादीनुरगानिवोग्रवपुषो विष्कम्भवीर्यान्विताः
शीलं सज्जनचित्तनिर्मलतरं समादाय यन्मर्त्याः ।
कान्ततरे सुमेरुशिखरोपान्ते वीर्यान्वितास्तिष्ठन्ते
सुरसिद्धसंघसहिताः संबोधिसत्त्वाः सुखम् ॥
यद्देवा वियति विमानवासिनोऽन्ये निर्द्वन्द्वाः समनुभवन्ति सौमनस्यम् ।
अत्यन्तविपुलfअलप्रसूतिहेतोर्वीर्यस्थिरविहितस्य सा विभूतिः ॥
इति मत्वा सदोत्साहं धृत्वा संबोधिसाधने ।
सर्वसत्त्वहिताधाने बोधिचर्याव्रते चरेत् ॥
लघु कुर्यात्तथात्मानमप्रमादकथां स्मरन् ।
कर्मागमाद्यथा पूर्वं सज्जः सर्वत्र च तु ते ॥
यथैव तूलिकं वायोर्गमनागमने वशम् ।
तथोत्साहवशं यायादृद्धिश्चैवं समृध्यति ॥
वर्धयित्वैवमुत्साहं समाधौ स्थापयेन्मनः ।
विक्षिप्तचित्तस्तु नरः क्लेशं दंष्ट्रान्तरे स्थितः ॥
कायचित्तविवेकेन विक्षेपस्य न संभवः ।
तस्माल्लोकान् परित्यज्य वितर्कान् परिवर्जयेत् ॥
स्नेहान्न त्यज्यते लोको लाभादिषु च तृष्णया ।
तस्मादेतत्परित्यागे विद्वानेवं विचारयेत् ॥
शमथेन विपश्यनया सुयुक्तः कुरुते क्लेशविनाशमित्यवेत्य ।
शमथः प्रथमं गवेषणीयः स च लोके निरपेक्षयभिरत्या ॥
कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति ।
येन जन्मसहस्त्राणि द्रष्टव्यो न पुनः प्रियः ॥
अपश्यन्नरतिं याति समाधौ न च तिष्ठति ।
न च तृप्यति दृष्ट्वापि पूर्ववद्बाधते तृषा ॥
न पश्यति यथाभुतं संवेगादवहीयते ।
दह्यते तेन शोकेन प्रियसंगमकांक्षया ॥

(२७८)
तच्चिन्तया मुधा याति ह्रस्वमायुमुहुर्मुहुः ।
अशाश्वतेन मित्रेण धर्मो भ्रश्यति शाश्वतः ॥
बालैः सभागचरितो नियतं याति दुर्गतिम् ।
नेष्यते विषभागश्च किं प्राप्तं बालसंगमात् ॥
क्षणाद्भवन्ति सुहदो भवन्ति रिपवः क्षणात् ।
तोषस्थाने प्रकुप्यन्ति दुराराध्याः पृथग्जनाः ॥
अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम् ।
ईर्ष्योत्कृष्टात्समाद्वन्द्वा हीनात्मानः स्तुतेर्मदः ॥
अवर्णात्प्रतिघश्चेति कदा बालाद्धितं भवेत् ॥
आत्मोत्कर्षः परावर्णः संसाररतिसंकथा ।
इत्याद्यमवश्यमशुभं किंचिद्बालस्य बालता ॥
एवं मत्वा यतिर्धीमान्विहाय बालसंगमम् ।
बालाद्दूरं पलायेत्प्राप्तमाराधयेत्प्रियैः ॥
न संस्तवानुबन्धेत किंभूदासीनसाधुवत् ।
एकाकी विहरेन्नित्यं सुखमक्लिष्टमानसः ॥
धर्मार्थमात्रादाय भृंगवत्कुसुमान्मधुः ।
अपूर्व इव सर्वत्र विहरेदप्यसंस्तुतः ॥
एवं यतिर्महासत्त्वः संसाररतिनिःपृहः ।
समाधिसत्सुखासक्तो विहरेद्बोधिमानसः ॥
क्लेशारिवर्गानभिभूय वीराः संबोधिलक्ष्मीपदमाप्नुवन्ति ।
बोध्यंगदानं प्रदिशन्तिं सद्भ्यो ध्यानं हि तत्र प्रवदन्ति हेतुम् ॥
जन्मप्रबन्धकर्णैकनिमित्तभूतान् रागादिदोषनिचयान् प्रविदार्य सर्वान् ।
आकाशतुल्यमनसः समलोष्टहेमाध्यानाद्भवन्ति मनुजा गुणहेतुभूताः ॥
जित्वा क्लेशारिवृन्दं शुभबलमथनं सर्वथा लब्धलक्षम् ।
प्राप्तः संबोधिलक्ष्मीं प्रवरगुणमयीं दुर्लभामन्यभूतैः ॥
सत्त्वे ज्ञानाधिपत्यं विगतरिपुभयाः कुर्वते यन्नरेन्द्राः ।
ध्यानं तत्रैकहेतुं सकलगुणनिधिं प्राहुः सर्वे नरेन्द्राः ॥
मोहान्धकारं प्रविदार्यं शश्वज्ज्ञानावभासं कुरेते समन्तात् ।
संबुद्धसुर्यस्सूरमानुषाणां हेतुः स तत्र प्रवरस्समाधिः ॥

(२७९)
इति मत्वा समाधाय क्लेशावरणहानये ।
विमार्गाच्चित्तमाकृष्य समाधौ स्थाप्य प्राचरेत् ॥
इमं परिकरं समाधौ स्थाप्य प्राचरेत् ॥
इमं परिकरं सर्वं प्रज्ञार्थं हि जगद्धिते ।
तस्मादुत्पादयेत्प्रज्ञां दुःखनिर्वृतिकांक्षया ॥
संवृत्तिः परमार्थश्च सत्यद्वयमिदं मतम् ।
बुद्धेरगोचरं तत्त्वं बुद्धिसंस्मृतिरुच्यते ॥
तत्र लोको द्विधादृष्टो योगी प्राकृतकस्तथा ।
तत्र प्राकृतको लोको यगिलोकेन बाध्यते ॥
बाध्यन्ते धीविशेषेण योगिनोऽप्यत्तरोत्तरैः ।
दृष्टान्तेनोभयेष्टेन कार्यार्थमविचारतः ॥
लोकेन भावा दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः ।
न तु मायावदित्यत्र विवादो योगिलोकयोः ॥
इति मत्वा यतिर्धिमान् सर्वं मायाभिर्निर्मितम् ।
प्रज्ञारत्नं समासाद्य संचरेत जगद्धिते ॥
प्रज्ञाधनेन विकुलं तु नरस्य रुपमालेख्य रुपमिव सारविहीनमन्तः ।
बुद्धयान्वितस्य fअलमिष्टमुदेति वीर्याद्वीर्यं हि बुद्धिरहितं स्ववधाय शत्रुः ॥
योऽनेकजन्मान्तरितं स्वजन्मभूतंभविष्यत्कुलनामगोत्रैः ।
मध्यान्तमाद्यपि जनः प्रवेत्ति प्रज्ञाबलं तत्कथयन्ति तज्ज्ञाः ॥
यद्बुद्धो मर्त्यलोके मलतिमिरगणं दारयित्वा महान्तम् ।
ज्ञानालोकं करोति प्रहरति च सदादोषवृन्दं नराणाम् ॥
आदेष्टा चेन्द्रियाणां परमनुजमनो वेत्ति सर्वैः प्रकारैः ।
प्रज्ञां तत्रापि नित्यं शुभवरजननीं हेतुमुत्कीर्तयन्ति ॥
कार्यार्णवेऽपि दृढं निमग्नाः संग्राममध्ये मनुजाः प्रधानाः ।
प्रज्ञावशात्ते विजयं लभन्ते प्रज्ञा ह्यतः सा शुभहेतुभूताः ॥
प्रज्ञाबलेनैव जिनाः जयन्ति घोरं सुदुष्टं च मारसैन्यम् ।
प्रज्ञाविशेषेण जना विभान्ति प्रज्ञा हि ख्याता जननी जिनानाम् ॥
तस्मात्सर्वगुणार्थसाधनकरी प्रज्ञैव संवर्ध्यताम् ।
यत्प्रज्ञाविकला विभान्ति पुरुषाः प्रातःप्रदीपा इति ॥

(२८०)
स्वर्गापवर्गगुणरत्ननिधनभूता एताः षडेव भुवि पारमिता नराणाम् ।
ज्ञात्वा नरः स्वहितसाधनतत्परः स्यात्कुर्यादतः सततमाशु दृढं प्रयत्नम् ॥
एतद्धि परमं शिक्षासंवरं बोधिचारिणाम् ।
मया प्रज्ञप्तमानन्द धातव्यं बोधिप्राप्तये ॥
य एतत्परमाचारं धृत्वा सम्बोधिमानसाः ।
त्रिरत्नशरणे स्थित्वा संचरन्ते जगद्धिते ॥
ते भद्रश्रीगुणाधाराः शीलवन्तः शुभेन्द्रियाः ।
क्षान्तिसौरभ्यसंवासाः सदोत्साहा हिताशयाः ॥
निःक्लेशा निर्मलात्मानो महासत्त्वा विचक्षणाः ।
प्रज्ञावन्तो महाभिज्ञा अर्हन्तो ब्रह्मचारिणः ॥
त्रिविधां बोधिमासाद्य संबुद्धालयमाप्नुयुः ।
एतच्छास्त्रा समादिष्टं श्रुत्वानन्दोऽभिबोधितः ॥
भगवन्तं मुनीन्द्रं च समालोक्यैवमब्रवीत् ।
भगवन् भवताज्ञप्तं संबुद्धपदसाधनम् ।
शिक्षासंवरमाधाय ये चरन्ति सदा शुभे ॥
त एव सुभगा धन्याः शिक्षासंवृतिकौशलाः ।
विनयाभिमुखाः सन्तः सद्धर्मकोशधारिणः ॥
जिनात्मजा महाभिज्ञाः अर्हन्तो निर्मलेन्द्रियाः ।
बोधिसत्त्वा महासत्त्वा भवन्ति बोधिलाभिनः ॥
तेषामेव सदा भद्रं सर्वत्रापि भवेद्ध्रुवम् ।
सद्धर्मसाधनोत्साहं निरुत्पातं निराकुलम् ॥
तेषां भूयात्सदा भद्रं बोधुइश्रीगुणसाधनम् ।
त्रिरत्नशरणे स्थित्वा ये चरन्ति जगद्धिते ॥
इत्यानन्दसमाख्यातं श्रुत्वा स भगवन्मुदा ।
आयुष्मन्तं तमानन्दं समालोक्यैवमादिशत् ॥
एवमेव सदा तेषां भद्रं संबोधिसाधनम् ।
धर्मश्रीगुणसम्पन्न भवेन्नुनं भवालये ॥
इति सत्यं परिज्ञाय यूयं सर्वेऽभिबोधिताः ।
त्रिरत्नभजनं कृत्वा संचरध्वं जगद्धिते ॥

(२८१)
एवं मयोक्तमादाय चरध्वे यदि सर्वदा ।
नूनं सम्बोधिमासाद्य संबुद्धपदमाप्स्यथ ॥
इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वेऽपि सांघिकाः ।
तथेति प्रतिविज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥
अथ ते सांघिकाः सर्वे आनन्दप्रमुखाः मुदा ।
नत्वा पादौ मुनीन्द्रस्य स्वस्वध्यानालयं ययुः ॥
भगवानपि तान् वीक्ष्य सर्वान् ध्यानालयाश्रीतान् ।
गत्वा ध्यानालयासीनस्तस्थौ ध्यानसमाहितः ॥
इत्येवं मे समाख्यातं गुरुणा शाणवासिना ।
श्रुतं मया तथाख्यातं श्रुत्वानुमोद भूपते ॥
प्रजा अपि महाराज श्रावयित्वा प्रबोधयन् ।
त्रिरत्नभजनोत्साहे चारयित्वानुपालय ॥
तथा चेत्ते सदा राजन् धर्मश्रीगुणसंयुतम् ।
शुभोत्साहं निरातंकं भवेद्ध्रुवं समन्ततः ॥
त्वमपि बोधिसंभारं पुरयित्वा यथाक्रमम् ।
जित्वा मारगणानर्हन् बोधिं प्राप्य जिनो भवेः ॥
इति शास्त्रा समादिष्टं श्रुत्वाशोकः स भूपतिः ।
तथेति प्रतिविज्ञप्य प्राभ्यनन्दत्सपार्षदः ॥

॥ इति शिक्षासंवरसमुद्देशप्रकरणं समाप्तम् ॥


२०. फलश्रुतिः

अथ भूयः स राजेन्द्रो भूपोऽशोकः कृतांजलिः ।
उपगुप्तं तमर्हन्तं नत्वालोक्येदमब्रवीत् ॥
भदन्त लोकनाथोऽसौ यदावलोकितेश्वरः ।
इति नाम्ना प्रसिद्धोऽभूत्तत्केन समुपादिश ॥

(२८२)
इति संप्रार्थिते राज्ञा यतिः सोऽर्हन्महामतिः ।
अशोकं तं महाराजं समालोक्यैवमादिशत् ॥
शृणु राजन्महाभाग यथा मे गुरुणोदितम् ।
तथाहं ते प्रवक्ष्यामि श्रुत्वानुबोधितो भव ॥
षड्गतिसम्भवा लोकास्त्रैधातुभुवनाश्रिताः ।
तेषां ये दुःखिता दुष्टाः क्लेशाग्निपरितापिताः ॥
तान् सर्वान् स जगन्नाथः कृपादृष्ट्यावलोकयत् ।
तेनावलोकितेशाख्यः प्रसिद्धस्त्रिजगत्स्वपि ॥
ये ये सत्त्वा जगद्भर्त्रा कृपादृष्ट्यावलोकिताः ।
ते ते सर्वे विकल्माषा भवेयुर्विमलाशयाः ॥
येऽप्यस्य त्रिजगच्छास्तुः शृणुयुर्नां सादरम् ।
विमुक्तपातकास्ते स्युर्निःक्लेशा विमलेन्द्रियाः ॥
दुःखाग्नौ पतितो योऽपि स्मृत्वा लोकेश्वरं भजेत् ।
तदा तं स महासत्त्वः कृपादृष्ट्यावलोकयन् ॥
तदा स सहसा तस्माद्दुःखाग्नेः परिमुक्तितः ।
शुद्धेन्द्रियो विशुद्धात्मा भवेत्संबोधिमानसः ॥
यो नद्या प्रोह्यमाणोऽपि क्रन्देल्लोकेश्वरं स्मरन् ।
तदा स बोधिसत्त्वस्तं कृपादृष्ट्यावलोकयेत् ॥
तदा दद्यान्नदी तस्य गाधं सन्तरणार्थिनः ।
ततः स सहसोत्तीर्य स्मृत्वा धर्मरतो भवेत् ॥
यदा च वणिजः सार्था नौकारुढा महाम्बुधौ ।
रत्नार्थिनो महोत्साहैः संक्रमेयुर्यथाक्रमम् ॥
तत्र नौः कालिकावातैः प्रेर्यमाणां विलोलिता ।
तरसा राक्षसीद्वीपसमीपं समुपाचरेत् ॥
तदा तेषां महाधीरः स्मृत्वा लोकेश्वरं नमेत् ।
लोकेशस्तान्स्तदा सर्वान् कृपादृष्ट्यावलोकयन् ॥
ततस्ताः कालिका वाता न चरेयुः प्रसादिताः ।
ततो नौ सवणिक्सार्था स्वस्ति रत्नाकरं व्रजेत् ॥

(२८३)
तत्र ते वणिजः सर्वे लब्धरत्नाः प्रमोदिताः ।
स्वस्ति प्रत्यागताः स्वस्ति समियुः स्वपुरं लघु ॥
यदि दैवाद्विपत्तिः स्यात्सर्वतीर्थजलाश्रये ।
मृतास्ते शोषितात्मानः संप्रयायुः सुखावतीम् ॥
यश्च दुष्टो वधात्सृष्टो गृहीतो वध्यघातकैः ।
भीतो लोकेश्वरं स्मृत्वा ध्यात्वा नामाप्युदाहरेत् ॥
तदा लोशेश्वरस्तं स कृपादृष्ट्यावलोकयेत् ।
ततस्ते घातकाः सर्वे तं हन्तुं नाभिशक्नुयुः ॥
यदि विघातितो दैवात्त्यक्त्वा पापाश्रयां मृतः ।
शुद्धाशयो विशुद्धात्मा संप्रयायात्सुखावतीम् ॥
सर्वे यक्षाश्च गन्धर्वाः कुम्भाण्डा राक्षसा अपि ।
किन्नरा गरुडा नागा भूताः प्रेताः पिशाचिकाः ॥
लोकेश्वरस्य भक्तारं ध्यातारं स्मृतिभाविनम् ।
नामोच्चारणकर्तारं द्रष्टुमपि न शक्नुयुः ॥
यश्चापि निगडैर्बद्धा स्थापितो बन्धनालये ।
स्मृत्वा लोकेश्वरं द्यात्वा तिष्ठेन्नामाप्युदाहरेत् ॥
तत्क्षणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् ।
तदा स बन्धनान्मुक्तो धर्माभिरततो भवेत् ॥
यश्चारण्ये गृहे वापि चौरैर्धूतैरुपद्रुते ।
स्मृत्वा लोकेश्वरं ध्यात्वा नमेन्नामाप्युदाहरेत् ॥
तत्क्षणे लोकनाथस्तं कृपादृट्यावलोकयेत् ।
तदा ते धूर्तकाश्चौराः सर्वे यायुः पराङ्मुखाः ॥
यश्च रोगी सदा दुष्टः कुष्ठव्याध्याचिताश्रयः ।
स्मृत्वा लोकेश्वरं ध्यात्वा नमेन्नामाप्युदाहरेत् ॥
तत्क्षेणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् ।
तदा स व्याधितो मुक्तो नीरोगी पुष्टितेन्द्रियः ॥
शुद्धाशयो विशुद्धात्मा भवेत्संबोधिमानसः ।
यदि दैवाद्विपत्तिः स्याद्धित्वा दुःखाश्रयं तनुम् ।
शुद्धाशयो विशुद्धात्मा संप्रयायात्सुखावतीम् ॥

(२८४)
यश्च दरिद्रितो दुःखी दीनोऽनाथो दुराश्रयः ।
स्मृत्वा लोकेश्वरं ध्यात्वा नमेन्नामाप्युदाहरेत् ॥
तत्क्षणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् ।
तदा स श्रीगुणोत्पन्नो भवेत्साअधुः शुभेन्द्रियः ॥
यश्च संग्राममध्येऽपि शत्रुभिः परिवेष्टित ।
स्मृत्वा लोकाधिपं ध्यात्वा नमेन्नामाप्युदाअहरेत् ॥
तत्क्षणे लोकनाथस्तं कृपादृष्ट्यावलोकयेत् ।
तदा सोऽरीन्विनिर्जित्य लब्ध्वा रमेज्जयश्रियम् ॥
यश्चापि दह्यमानेषु गृहोद्यानाश्रमेष्वपि ।
स्मृत्वा लोकाधिपं ध्यात्वा नाम प्रोच्चारयन्नमेत् ॥
तत्काले लोकनाथस्तं कृपादृष्ट्यावलोकयेत् ।
तदा स सहसा वह्निस्कन्धः शाम्येन्निराकुलः ॥
विवादे कलये वापि परिभूतेऽपि दुर्जनैः ।
स्मृत्वा लोकेश्वरं ध्यात्वा नाम प्रोच्चारयन्नमेत् ॥
तत्क्षणे लोकशास्ता तं कृपादृष्ट्यावलोकयेत् ।
तदा स विजयन् सर्वान् संस्थापयेन्निजे वशे ॥
यश्च क्लेशाग्निसंतप्तो व्याकुलेन्द्रियमानसः ।
स्मृत्वा लोकप्रभुं ध्यात्वा नमेन्नामाप्युदाहरन् ॥
तत्क्षणे तं महासत्त्वो दयादृष्त्यावलोकयेत् ।
तदा निःक्लेशभद्रात्मा भवेद्भद्रेन्द्रियः सुधीः ॥
योऽपुत्रः पुत्ररत्नार्थी तं लोकेशं शरणं गतः ।
स्मृत्वा ध्यात्वा यथाशक्ति भजेन्नामान्युदाहरन् ॥
तदा स त्रिजगद्भर्ता कृपादृष्ट्यावलोकयेत् ।
दद्यात्तस्मै पुत्ररत्नं महासत्त्वं जगत्प्रियम् ॥
सुतार्थिनेऽपि सत्पुत्रीं रमाकारां शुभेन्द्रियाम् ।
सर्वसत्त्वप्रियां कान्तां साध्वीं दद्याज्जगत्प्रभुः ॥
विद्यार्थी लभते विद्यां धनार्थि लभते धनम् ।
राज्यार्थी लभते राज्यं लोकेशभक्तिमानपि ॥

(२८५)
द्रव्यार्थी लभते द्रव्यं गुणार्थी लभते गुणम् ।
भोग्यार्थी लभते भोज्यं गृहार्थी लभते गृहम् ॥
एवमन्यानि वस्तूनि सर्वोपकरणान्यपि ।
यथाभिवांछितं सर्वं लभेल्लोकेशभक्तिमान् ॥
तेनासौ त्रिजगन्नाथ आर्यावलोकितेश्वरः ।
इति प्रख्यापितः सर्वैर्धर्मराजैमुनीश्वरैः ॥
एवं महत्तरं पुण्यं लोकेशभक्तिभाविनाम् ।
अप्रमेयमसंख्येयं संबुद्धपदसाधनम् ॥
इत्येवं सुगतैः सर्वैः समादिष्टं समन्ततः ।
बोधिसत्त्वैर्महाभिज्ञैः सर्वैश्चापि प्रशंस्यते ॥
इति मत्वा महाराज लोकनाथस्य सर्वदा ।
शरणे समुपाश्रित्य भजस्व श्रद्धया मुदा ।
यस्य लोकेश्वरे भक्तिस्तस्य पापं न किंचन ।
दुष्टक्लेशभयं नापि निर्विघ्नं सत्सुखं सदा ॥
सर्वे दुष्टगणा माराः क्षीयन्ते सर्वतः सदा ।
यमदूतादयश्चापि पलायेयुः पराङ्मुखाः ॥
लोकेशभ्क्तिभाजांश्च पुण्यधारा निरन्तरा ।
अप्रेया असंख्येयाः प्रवर्धन्ते दिवानिशम् ॥
एतत्पुण्यानुभावैस्तु सद्धर्मस्तेन लभ्यते ।
तत्सद्धर्मानुभावेन संबुद्धो दृश्यतेऽग्रतः ॥
ततो बुद्धानुभावेन बोधिचित्तं सुलभ्यते ।
बोधिप्रणिधिचित्तेन चर्यन्ते बोधिचारिकाः ॥
क्रमात्संबोधिसंभारं पूरयित्वा यथाक्रमम् ।
सर्वान् क्लेशान् विनिर्जित्याअचतुर्मारगणानपि ॥
सर्वत्र वशिता प्राप्ता धारणीगुणसंयुता ।
दशभूमीश्वरो भूत्वा संबोधिं समवाप्नुयात् ॥
इति मत्वा महाभिज्ञो लोकेश्वरो जिनात्मजः ।
भजनीयः सदा सद्भिः संबुद्धपदवांछिभिः ॥

(२८६)
ये भजन्ति सदा नित्यं लोकेश्वरं जगत्प्रभुम् ।
तेषां नैव भयं किंचित्सर्वत्र सर्वदापि हि ॥
रक्षेयुस्तं समालोक्य ब्रह्यादयो महर्षयः ।
शक्रादयः सुरेन्द्राश्च सर्वलोकाधिपा अपि ॥
रक्षेयुरग्नयोऽप्येनं लोकेशभक्तिभाविनम् ।
धर्मराजादयः प्रेताः सर्वे निशाचरा अपि ॥
वरुणाश्च हि राजाश्च सर्वे वायुगणा अपि ।
सर्वे श्रीदादयो यक्षाः सर्वे भूताधिपा अपि ॥
सूर्यादयो ग्रहाः सर्वे चन्द्रादयश्च तारकाः ।
सर्वे सिद्धाश्च साध्याश्च रुद्रा विद्याधरा अपि ॥
धृतराष्ट्रादयः सर्वे गन्धर्वा अपि सर्वदा ।
विरुढकादिकुम्भाण्डा रक्षेयुस्तं सदानुगाः ॥
विरुपाक्षादयः सर्वे नागेन्द्रा गरुडा अपि ।
कुवेरप्रमुखाः सर्वे यक्षा अपि समादरात् ॥
द्रुमादिकिन्नराः सर्वे वेमचित्रादयोऽसुराः ।
सर्वे पैशाचिकाश्चापि रक्षेयुस्तं समाहितः ॥
सर्वे मातृगणाश्चापि सकुमारगणाधिपाः ।
सर्वेऽपि भैरवाः सर्वे महाकालगणा अपि ॥
सडाकडाकिनीसंघाः सर्वे कापालिका अपि ।
सर्वे वैताडिकाश्चापि दृष्ट्वा चेयुस्तमादरात् ॥
तथा च योगिनः सिद्धा अविकल्पा जितेन्द्रियाः ।
दूराद्दृष्ट्वाभिरक्षेयुस्तं लोकेशशरणाश्रितम् ॥
वज्रपाण्यादयो वीराः सर्वमन्त्रार्थसाधकाः ॥
रक्षेयुस्तं समालोक्य लोकेशभक्तिचारिणम् ॥
यतयस्तीर्थिकाश्चापि तापसा ब्रह्मचारिणः ।
वैष्णवा अपि शैवाश्च लिंगिनो व्रतिनोऽपि च ॥
दूरादपि तमालोक्य भक्तिमन्तं जगत्प्रभोः ।
प्रणत्वा प्रांजलिं धृत्वा प्रशंसेयुः समादरात् ॥

(२८७)
अर्हन्तो भिक्षवश्चापि दृष्ट्गा तं दूरतो मुदा ।
धन्योऽसीति समाराध्य प्रकुर्युरभिनन्दितम् ॥
श्रावकाश्चैलकाश्चापि व्रतिनश्चाप्युपासकाः ।
दूरतस्तं महाभागं दृष्ट्व नमेयुरानताः ॥
सर्वे चापि महासत्त्वा बोधिसत्वा जिनात्मजाः ।
वरदानैस्तमाराध्य चारयेयुर्जगद्धिते ॥
प्रत्येकसुगतश्चापि दृष्ट्वा तं बोधिभागिनम् ।
समालोक्य समाश्वास्य प्रेरयेयुः सुसंवरे ॥
संबुद्धा अपि सर्वे तं संबुद्धपदलाभिनम् ।
दृष्ट्वाभिनन्द्य सद्धर्मे नियुज्यावेयुराभवम् ॥
एवमस्य जगद्भर्तुर्लोकेशस्य महात्मनः ।
सद्धर्मगुणमाहात्म्यं सर्वबुद्धैः प्रशंस्यते ॥
एवं महत्तरं पुण्यं लोकेशभजनोद्भवम् ।
मत्वा सदानुमोदित्वा श्रोतव्यं बोधिवांछिभि ॥
इदं सर्वं महायानसूत्ररत्नं सुभाषितम् ।
शृण्वन्ति श्रद्धया येऽपि कलौ पंचकषायिते ॥
दुर्गतिं ते न गच्छिन्त कदाचन कथंचन ।
सदा सद्गतिसंजाता भवन्ति भद्रचारिणः ॥
लोकेशस्य जगच्छास्तुः सर्वदा शरणे स्थिताः ।
ध्यात्वा नाम समुच्चार्य स्मृत्वा भजेयुराभवम् ॥
एतत्पुण्यानुलिप्तास्ते भद्रश्रीसद्गुणालयाः ।
सद्धर्मसुखसंपत्तिं भुक्त्वा यायुः सुखावतीम् ॥
एनं यः सकलांल्लोकांच्छ्रावयति प्रबोधयन् ।
सोऽपि न दुर्गतिं याति याति सद्गतिमेव हि ॥
एतत्पुण्यविशुद्धात्मा भद्रश्रीसद्गुणाश्रयः ।
सद्धर्मसुखसंपत्तिं भुक्त्वा यायात्सुखावतीम् ॥
यश्चापीदं कलौ काले निरपेक्षाः स्वजीविते ।
सभामध्ये समासीनो भाषेत्सूत्रसुभाषितम् ॥

(२८८)
सोऽप्येतत्पुण्यशुद्धात्मा यायान्न दुर्गतिं क्वचित् ।
सदा सद्गतिसंजातो भद्रश्रीसद्गुणाश्रयः ॥
सर्वसत्त्वहिताधानं सद्धर्ममेव साधयन् ।
शुभिओत्साहसहत्सौख्यं भुक्त्वा यायात्सुखावतीम् ॥
तत्रामितरुचेः शास्तुः सर्वे शरणे स्थिताः ।
सदा धर्मामृतं पीत्वा चरेयुर्बोधिसंवरम् ॥
ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमम् ।
भवेयुः सर्वे लोकेशा दशभूमीश्वरा अपि ॥
ततस्ते निर्मलत्मानो बोधिसत्त्वा जिनात्मजाः ।
भवेयुयुस्त्रिगुणाभिज्ञा महासत्त्वाः शुभेन्द्रियाः ॥
क्लेशान्मारगणान् सर्वान् जित्वार्हन्तो निरंजनाः ।
त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥
येऽपि वेदमहायानसूत्रराजं लिखेन्मुदा ।
तेनापि लिखितं सर्वमहायानसुभाषितम् ॥
लेखापितं च येनेदं सूत्रराजसुभाषितम् ।
तेन लेखापितं ज्ञानं सर्वं महायानसुभाषितम् ॥
लिखितं वापि येनेदं प्रातिष्ठाप्य यथाविधि ।
शुद्धस्थाने गृहे स्थाप्य पूजांगैः सर्वदार्चितम् ॥
तेनार्हन्तो जिनाः सर्वे प्रत्येकसुगता अपि ।
ससंघा बोधिसत्त्वाश्च भवन्ति पूजिताः खलु ॥
यश्चापीदं स्वयं धृत्वा परेभ्योऽपि समादिशेत् ।
भावयेत्सततं स्मृत्वा ध्यात्वापि प्रणयेन्मुदा ॥
तस्य सर्वे मुनीन्द्राश्च प्रत्येकसुगता जिनाः ।
अर्हन्तो बोधिसत्त्वाश्च तुष्टा दद्युः समीहितम् ॥
यश्चैतदुपदेष्टारं सर्वांश्च श्रावकानपि ।
यथाविधि समभ्यर्च्य भोजनैः परितोषयेत् ॥
तेन सर्वेऽपि संबुद्धाः प्रत्येकसुगता अपि ।
अर्हन्तो भिक्षवः सर्वे योगिनो ब्रह्मचारिणः ॥

(२८९)
बोधिसत्त्वाश्च सर्वेऽपि व्रतिनो यतयोऽपि च ।
अभ्यर्च्य भोजनैर्नित्यं भवेयुः परितोषिताः ॥
किमेवं बहुनोक्तेन सर्वे बुद्धाः मुनीश्वराः ।
सर्वाः पारमिता देव्यः सर्वे संघा जिनात्मजाः ॥
नित्यं तेषां समालोक्य कृपादृष्ट्यानुमोदिताः ।
रक्षां विधाय सर्वत्र वरं दद्युर्जगद्धिते ॥
लोकपालाश्च सर्वेऽपि सर्वे देवाश्च दानवाः ।
रक्षां कृत्वा वरं दद्युस्तेषां सद्धर्मसाधिनाम् ॥
राजानोऽपि सदा तेषां रक्षां कृत्वानुमोदिताः ।
यथाभिवांछितं कृत्वा पालयेयुः समाअदरात् ॥
मन्त्रिणोऽपि सदा तेषां सामात्यसचिवानुगाः ।
सभृत्यसैन्यभट्टाश्च भवेयुर्हितकारिणः ॥
सर्वे वैश्याश्च सर्वार्थभर्तारः स्युः सुहृत्प्रियाः ।
श्रेष्ठिमहाजनाः सर्वे भवेयुर्हितकारिणः ॥
द्विषोऽपि दासतां यायुर्दुष्टाश्च स्युर्हिताशयाः ।
एवमन्येऽपि लोकाश्च सर्वे स्युर्मैत्रमानसाः ॥
पशवः पक्षिणश्चापि सर्वे कीटाश्च जन्तवः ।
नैव तेषां विरुद्धाः स्युर्भवेयुर्हितशंसिनः ॥
एवं सर्वत्र लोकेषु तेषां सद्धर्मसाधिनाम् ।
निरुत्पातं शुभोत्साहं सौमांगल्यं सदा भवेत् ॥
एवं भद्रतरं पुण्यं लोकेशभजोनोद्भवम् ।
मत्वा तं त्रिजगन्नाथं भजस्व सर्वदा स्मरन् ॥
ये तस्य शरणे स्थित्वा ध्यात्वा समाहिताः ।
नामापि च समुच्चार्य भजन्ति श्रद्धया सदा ॥
तेषां स्युः सुप्रसन्नानि त्रिरत्नान्यपि सर्वदा ।
कृपादृष्ट्या समालोक्य कृत्वा चेयुः शुभं सदा ॥
एतच्छास्त्रा समादिष्टमुपागुप्तेन भिक्षुणा ।
श्रुत्वाशोकः स भूमीन्द्रः प्राभ्यननदन् प्रबोधितः ॥

(२९०)
सभा सर्वावती सापि श्रुत्वैतत्संप्रसादिता ।
तथेति प्रतिवन्दित्वा प्राभ्यनन्दत्प्रबोधिता ॥
ततस्ते सकला लोकाः समुत्थाय प्रमोदिताः ।
उपगुप्तं तमर्हन्तं नत्वा स्वस्वालयं ययुः ॥
ततः प्रभृति राजा स लोकेशं सर्वदा स्मरन् ।
ध्यात्वा नाम समुच्चार्य प्राअभजत्पालयन् प्रजाः ॥
तदा तस्य नरेन्द्रस्य विषये तत्र सर्वदा ।
निरुत्पातं शुभोत्साहं प्रावर्तत समन्ततः ॥
इति जयश्रियादिष्टं निशम्य स ससांघिकः ।
जिनश्रीराज आत्मज्ञः प्राभ्यनन्दत्प्रबोधितः ॥
ततश्चासौ महाभिज्ञो जयश्रीः सुगरातात्मजः ।
सर्वान् संघान् समालोक्य पुनरेवं समादिशत् ॥
यत्रेदं सूत्रराजेन्द्रं प्रावर्तयेत्कलावपि ।
भाषेद्यः शृणुयाद्यश्च श्रावयेद्यश्च प्रचारयेत् ॥
एतेषां तत्र सर्वेषां संबुद्धाः सकलाः सदा ।
कृपादृष्ट्या समालोक्य कुर्वन्तु भद्रमाभवम् ॥
सर्वाः पारमितादेव्यस्तेषां तत्र सदा शिवम् ।
कुर्वन्त्या बोधिसंभारं पूरयन्तु जगद्धिते ॥
सर्वेऽपि बोधिसत्त्वाश्च प्रत्येकसुगता अपि ।
अर्हन्तो योगिनस्तेषां भद्रं कुर्वन्तु सर्वदा ॥
ब्रह्मदिलोकपालश्च सर्वे चापि महर्षयः ।
तत्र तेषां च सर्वेषां कुर्वन्तु मंगलं सदा ॥
काले वर्षन्तु मेघाश्च भूयाच्छस्यवती मही ।
निरुत्पातं महोत्साहं सुभिक्षं भवतु ध्रुवम् ॥
बहुक्षीरप्रदा गावो वृक्षाः पुष्पfअलान्विताः ।
औषध्यो रसवीर्याद्या भूयात्सुस्तत्र सर्वदा ॥
भवन्तु प्राणिनः सर्वे
आरोग्यचिरजीविनः ।
सर्वद्रव्यसमापन्नाः श्रीमन्तो भद्रचारिणः ॥

(२९१)
राजा भवतु धर्मिष्ठो मन्त्रिणो नीतिचारिणः ।
सर्वे लोकाः सुवृत्तिस्था भवन्तु धर्मसाधिनः ॥
मा भुत्कश्चिद्दुराचारश्चौरो दुष्टश्च वंचकः ।
दरिद्रो दुर्भगो दीनो मदमानाभिगर्वितः ॥
सर्वे सत्त्वाः समाचाराः परिशुद्धत्रिमण्डलाः ।
स्वस्वकुलव्रतारक्षाः प्रचरन्तु जगद्धिते ॥
सर्वे भद्राशयाः सन्तः संबोधिव्रतचारिणः ।
त्रिरत्नभजनं कृत्वा संचरन्तां सदा शुभे ॥
इति जयश्रियाख्यातं श्रुत्वा सर्वेऽपि सांघिकाः ।
एवमस्त्विति विज्ञप्य प्राभ्यनन्दन् प्रमोदिताः ॥

॥ इति जिनश्रीराजपरिपृष्टजयश्रीसंप्रभाषित-
श्रीमदार्यावलोकितेश्वरगुणकारण्डव्यूहसूत्रराजं समाप्तम् ॥


ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोधमेवंवादी महश्रमणः ॥

॥ शुभमस्तु ॥