गीताभाष्यतात्पर्यचन्द्रिका/अध्यायः ११
← अध्यायः १० | गीताभाष्यतात्पर्यचन्द्रिका अध्यायः ११ [[लेखकः :|]] |
अध्यायः १२ → |
।। अथ एकादशोऽध्यायः (विश्वरूपाध्यायः) ।।
11.01-01
विश्वरूपध्यायमवतारयितुं विभूत्यध्यायार्थे संगृह्राह एवमिति । भक्तियोगनिष्पत्तये तद्धि
वृद्धये चेति प्रयोजनकथनेन अनन्तरमर्जुनस्य दिद्दक्षा भक्तिविवृद्धयधीनेति सूचितम् । सकलेतरविलक्षणे
नेति । सकलेतरवैलक्षण्यरूपेणेत्यर्थः । यद्वा सकलेतरस्वभावविलक्षणेनेत्यर्थः । एतेनानवधिकातिशयत्व
मुक्तं भवति ; ""अनन्यसाधारणं स्वभाविकमनवधिकातिशयम् (10.14.भा) इति पूर्वोक्तस्यात्र प्रातिलो
म्येन प्रत्यभिज्ञानात् । सकलेतरविलक्षणेन भगवदसाधारणेनेत्यनयोर्यथेष्टं हेतुसाध्यभावेन अन्यवयात्
समाधिकराहित्यतात्पर्यच्च नानर्थक्यम् । श्रुतार्तनिश्चयाधीनभक्तिविवृद्धिफलभूतदिदृक्षामूलमुत्तराध्यायोपो
द्घातरूपमर्जुनवाक्यमवतारयति तमेतमिति । तं सर्वातिशायिनम्, एतम् उक्तप्रकारम् । भगवत्मसका
शादित्यनेन निश्चहेतुभूतमाप्तत्वं सूचितम् । न ह्राचार्यन्तरमसकाशादुपश्रवणे दिदृक्षायां सत्यामपि दर्शनप्रार्थनं धटत इति च
भावः। एवमेतत् (3) इत्यादिश्लोकार्थाभिप्रायेणाह एवमेवेति निश्चित्येति ।
ननु, "एतमेतत् यथात्थ ' इति पूर्वोक्तमभ्युपगम्य "द्रष्टुमिच्छामि ते रूपमेश्वर 1म् ' इत्यर्थान्तरस्य रूप
विशेषस्य दिदृक्षावचनमिव भाति; ततश्च कथं "तथाभूतं भगवन्तं साक्षात्कर्तुकामः ' इत्युच्यते ; इत्यादि
ना विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ' (42) इत्यन्तेन प्रतिपादितो ह्रर्थोऽत्र विग्रहविशेषानु
बन्धेन प्रत्यक्षं प्रत्यभिज्ञायत इति भावः ।
अत्र साक्षात्कारं प्रार्थयितुं मदनुहग्रहायेत्यादिरिुाभिः श्लोकैः कृतज्ञतामास्तिक्यं भक्तिमत्त्वं च दर्शयति । तत्र प्रथमेन अध्यात्मशब्दादिस्वारस्यात्, भवाप्ययौ इत्यादेः सप्तमाद्यर्थस्य पृथग्वचनाच्चात्म
तत्त्वतदवलोकनोपायश्रवणतत्फलानुवादः क्रियत इत्यभिप्रायेणाह मोहिदेहात्मेति । मोहो विगत इत्यनन्
तरमभिधानात् मच्छब्देन मोहविशिष्टस्वरूपं विवक्षितमित्यभिप्रायेण मोहतस्येत्यन्तमुक्तम् ।
मदनुग्रहाये
त्यनेन, न ह्रन्यत् तेनानवाप्तवाप्तव्ययमस्तीत्यभिप्रेतमित्याह ममानुग्रहैकप्रयोजनायेति । युद्धप्रोत्साहन
मात्रशङ्काऽप्यनेन निरस्ता । परमशब्दविशेषितगुह्रशब्देन, "मौनं चैवास्मि गुह्रानाम्' (10.38) इत्युक्त
गुह्रत्वप्रतीतिव्युदासाय रहस्यशब्देन व्याख्या । गुह्रतमभक्तियोगशेषत्वात् परमत्वविशेषणमिति आवृत्त्या
(आदृत्य) परमशब्दपाठेन सूचितम् । आत्मनि प्रतिपादकत्वेनाधिवसनात् वचसोऽध्यात्मवमित्यभिप्रेत्य
आत्मनि वक्तव्यमित्युक्तम् । उपोद्घातात् मध्यमषट्कप्रस्तावश्लोकार्थाच्चावच्छिद्य जीवात्मप्रधानमंशमध्
यात्मशब्दानूदितमाह न त्वेवाहमिति । अध्यात्मसंज्ञितमित्येतदनुसारात् अयमित्यपरोक्षनिर्देशाभिप्रेत
मुक्तं ममात्मविषय इति । विगत इत्यनेन सोपसर्गेण सवासनं निश्शेषविनाशो विवक्षित इति प्रदर्शनाय
सर्वशब्दः । दूरतो निरस्त इति । संस्कारस्यापि तिरस्कारादुपरङ्कुर विनष्ट इत्यर्थः ।।
11.02-02
भवाप्ययौ हीत्यादेः 2.प्रकृतहेत्वर्थत्वव्युदासेन पृथगर्थत्वव्यञ्जनायाह तथा चेति । सप्तम प्रभृति
दशमपर्यन्त इति । भाष्यकारः स्वानुसंहिताध्योयोक्त्या तत्रत्यवचनमुपलक्षयति । बहुवचनासङ्कोचसूचितम् अहं कृत्स्नस्य (7.6) इत्यादिनोक्तमाह त्वद्व्यतिरिक्तानामिति । निवृत्तमानु
षत्व भ्रमस्यार्जुनस्य वचनत्वात् त्वत्त इत्यनेन भवाप्यययौपयिकरूपत्वं विवक्षितमित्यभिप्रायेण परमात्मन
इत्युक्तम् । अप्ययशब्दस्य पञ्च्म्यनन्वयात् भवाप्ययशब्देन संसारमोक्षादिप्रतीतिः स्यादिति
तद्वयुदासायोक्तम् । उत्पत्तिप्रलयाविति । निमित्तोपादानसाधारणहेतुमात्रे पञ्चमीति अप्ययान्वयः । त्वत्तः श्रुतौ इत्यन्वयस्तु मन्दप्रयोजन इत भावः । विस्तरशः विस्तरेणेत्यर्थः । कमलपत्राक्षेत्यनेन अन्तरादित्यविद्यादिप्रतिपादित पुण्डरीकाक्षत्वविशिष्टाप्राकृतविग्रहवत्त्वमस्मिन् अवतारेऽपि स्पष्टमुपलभ्यत इति सूचितम् । पुण्डरीकाक्षस्यैव हि सर्वलोककामेशत्वादिमव्ययं माहात्म्यं तत्र श्रूयते ।
माहात्म्यमित्यत्र तवेति विपरिणतानुषङ्गः । अव्ययशब्देन कालतो विषयतः सङ्खयातः प्रकर्षतश्चानव
धिकत्वं प्राक्सिद्धमिहाभिप्रेतमित्याभिप्रायेणोक्तं नित्यमित्यादि अपरिमितमित्यन्तम् । " भूमिरापः '
(7.4), "मत्तः परतरं नान्यत् ' (7), "मयि सर्वं ' , " बुद्धज्र्ञानम् ' (10.4) इत्यादिभिरिदं शेषित्वादिकं
प्राक्प्रपञ्चितम्। हिशब्दो वक्ष्यमाणदिदृक्षाद्योतनार्थ इति । हेतुत्वप्रसिद्धयाद्यानुगुण्याभावात् प्रकृतानुगुणोऽयमर्थो इति भावः ।
11.03-03
परमेश्वरेत्यनेन वाक्यार्थविश्वासहेतुभूतं परमाप्तत्वादिकं विवक्षितमित्यभिप्रायेणाह हे परमेश्वरेति । तद्व्यञनाय स्वसंवादमात्रार्थत्वव्युदासेन श्रुतप्रतिष्ठापनाय च आह एवमेतदित्यवधृतमिति । आश्रित
जने दोषदर्शिनः कापुरुषा इति ह्राहुः । अतोऽत्र दिदृक्षमाणे स्वस्मिन् देषानादररूपनिरतिशयपौरुष
पुरुषोत्तमशब्देन विवक्षितमित्यभिप्रायेण आश्रितवात्सल्यजलध इत्युक्तम् । पुरु सनोतीति वा व्युत्पत्तिरहाभिप्रेता । "आविश्य बिभर्ति ' (15.17) इति वक्ष्यमाणं वा ज्ञापितम् । एवं परत्वसौलभ्ये समाख्याभ्यामुक्ते । ते इति निर्देशे सत्यपि, ऐश्वरमिति वचनमीश्वरत्वस्वभावाभिव्यञ्चकत्वपरमित्यभिप्रा
येण त्वसाधारणमित्युक्तम् । तस्यैव प्राक्प्रपञ्चितप्रक्रियया विवरणं सर्वस्येत्यादि । एवंस्भावविशिष्टो
हीश्वरशब्दार्थ इति भावः । प्रशासितृत्वादौ रूपस्यवावस्थानं नाम तत्तदनुरुपैर्गुणसन्न हनचेष्टितैस्तत्तद
भिव्यञ्जकत्वम् । यद्वा प्रशासितृत्वेऽवस्थानं ""यथार्हं केशवे वृत्तिमवशाः प्रतिपेतिरे ट (भा.स.39.38) इति न्यायेन स्वदर्शनमात्रेण विपरीताध्यवसायं विनिवत्र्य सम्यक्प्रवृत्तिहेतुत्वात् । पालयितृत्वेऽवस्थानं तु
सत्त्वप्रवर्तनादिमुखेन । रुाष्टृत्वेऽवस्थानं स्वावयववेभ्यो ब्राहृरुद्रादिदीनां चातुर्वण्र्यादीनां च प्रसूतेः । सं
हर्तृत्वेऽवस्थानं तु वक्ष्यमाणग्रसनादिना । भर्तृत्वेऽवस्थितिस्तु, " तत्रैकस्थम् ' (13) इत्यादिभिः स्फुटी
भविष्यति । कल्याणगुणाकरत्वेऽवस्थानं नाम अवतारविग्रहत्वत् अज्ञत्वाद्यभिनयानर्हत्वम् । परत्वेन शङ्कितानां ब्राहृरुद्रादीनां स्वैकदेशेऽवस्थानस्य "ब्राहृाणमीशम् ' (15) इत्यादिना वक्ष्यमाणतया परतर
त्वेऽवस्थानं युक्तम् । सकलेतरविसजातीयत्व इति तु उक्तसमस्तनिगमनम् ; तत्फलितम् वा ; परमे
श्वरपुरुषोत्तमसंबुद्धयभिप्रेतकथनं वा । "पश्य मे योगमैश्वरम् ' (9.5) इति गुह्रतमारम्भे स्वयमुक्तस्य ददृ2-(350). आपातप्रतीतार्थस्य दर्शनप्रार्थनानुसारेण रूपमैश्वर्यमिति स्वरूपपरतया योजनायाम् ऐश्
वरमित्येकमौपचारिकम् ; इतरत् सर्वं मुख्यम् । स्वरूपानुबन्धेन तु विग्रहदिदृक्षा गर्भिता । रूपशब्दः
स्वरूपरूपादिसमस्तासाधारणाकारपरो वा । रूपं प्रकारमित्यर्थः । द्रष्टुमित्युक्ते दर्शनसमानाकारेऽपि
ज्ञाने दर्शनशब्दप्रयोगात् तद्व्यवच्छेदार्थे चाक्षुषज्ञानमात्रपरत्वं च व्यवच्छेत्तुं साक्षात्कर्तुमित्युक्तम् ।
11.04-04
सर्वस्य रुाष्ट्रित्यादिना तच्छब्दपरामृष्टश्रुताकारोक्तिः । अत्रापि स्वरूपपरत्वे मुख्यता; रूपपरत्वे,
प्रकारमात्रपरत्वे च प्राग्वदनुसन्धेयम् । योगो ज्ञानादिकल्याणगुणयोग इति । अत्र अणिमाद्यैश्वर्यशक्ति
रपि गुणानुप्रविष्टा ; योगनिर्वाहकत्वादिमात्रं तु दिदृक्क्षिताकारान्तरङ्गत्वभावादत्र न विवक्षितमिति भावः । दर्शयिष्माणो ह्राकारोऽत्र दिदृक्षितः । न चार्जुनायाष्टाङ्गयोगादि अर्थान्तरं प्रदर्शयते । योग
शब्दश्च प्रत्यभिज्ञायत इत्यभिप्रायेणाह पश्येति । प्रभुशब्देन,यदि त्वं मन्यसे, तदा न किञ्चित् ते
दुष्करम् इति अभिप्रेतं (तदभिप्रेत) गुणविशेषवत्त्वं दर्शयति त्वद्व्यतिरिक्तम्येत्यादिना । अथवा योगेश्वर
शब्दाभिप्रेतोक्तिरियम् । अश्वपतिः धनपतिरित्यादिवत् गुणभूयस्त्वापेक्षया गुणानामपि नियमनेन वा योगेश्वरशब्द इति भावः । त्वामिति । आत्मशब्दस्यार्थान्तरं त्वयुक्तम् ; माम् (8) इति च वक्ष्यत इति
भावः । अव्ययशब्दस्यात्र निष्प्रयोजनत्वशङ्कान्युदासाय, क्षरप्रपञ्चाख्यतद्रूपप्रदर्शनविरोधिपरिहाराय,
विशेषतो दिदृक्षोरपेक्षितार्थपरत्वं दर्शयति अव्ययमिति क्रियाविशेषणमिति । ततः किमित्यत्राह त्वां सकलमिति । समस्तगुणविभूतिविग्रहादिविशिष्टरूपमित्यर्थः ।।
11.05-05
अर्जुनस्य भगवत आत्मप्रदर्शने हेतुं प्रश्नादिप्रकारफलितमवस्थाविशेषं दर्शयन् पश्येत्यादिभगवद्वाक्य
स्य संगतिमाह एवमिति । वक्ष्यमाणप्रकारामनुसन्धायाह सर्वाश्रयाणीति । बहुव्रीहीत्वान्नपुंसकत्वम् ।
आदित्यमण्डलादीनि अनन्तानि अधिकरणानि । यद्वा, आश्रयशब्द उपचारात् विवक्षाभेदेन वा आश्रितपरः । शतशस्सहरुाशश्चेत्यनेन परव्यूहविभववाद्यवच्छेदक्रोडीकृतानन्ताप्राकृतविग्रहवत्त्वं दर्शितम् । यदेकादित्यमण्डलवर्ति रूपम्, तत्समानमनन्तब्राह्माण्डेष्वादित्यमण्डलवत्र्यसंख्यातं रूपम् । एवं श्री
विश्वरूपादिरूपान्तरेष्वपि । "रूपंरूपं प्रतिरूपः (क.5.9) इत्यादिश्रुत्याऽयमप्यर्थो विवक्षित
इति
केचित् । यथा द्रक्ष्यसि, तथा करिष्यामीत्यभिप्रायेण पश्येत्युक्तिः । नानाविधानीत्यनेन प्रत्येकं भूषणायुधलाञ्छनभुजसंख्यादिप्रकारविशेषानन्त्यमत्र विवक्षितमित्याह नानाप्रकाराणीति । अप्राकृतानीति। अत्र दिव्यशब्देन दिवि वर्तमानत्वादिकं न विवक्षितम् ; पृथिव्यादिप्याप्तेरपि वक्ष्यमाणत्वात् ; द्रव्यवैलक्षण्यं चावश्यवक्तव्यमित्यभिप्रायः । वासुदेवादिषु चतुर्षु युग्भेदेन सितरक्तपीत
कृष्णरूपपरिवृत्तेः, अवतारान्तरेषु च तत्तत्फलावर्थिध्यानानुगुण्याच्च नानावर्णत्वत्वम् । आकृति शब्देन सुरनरतिर्यगादि (ददृ2.361द्र) समानसंस्थानविशेषो विवक्षित इत्यभिप्रायेणाह नानाकाराणीति ।
11.06-06
शतशोऽथ सहरुाशः ' इति स्वधारणानन्तरूपप्रसङ्गेऽपि प्रकृतोपयगाय इहैकस्थमित्येकस्यैव रूप
स्य विशेषतः प्रदर्शयिष्यमाणत्वमलुसन्धायाह ममैकस्मिन्निति । पश्यादित्यानित्यादिना प्रधानदेवाः त्रय
Ïस्त्रशत् प्रथमं निर्दिश्यन्त इत्यभिप्रायेण द्वादशेत्यादिसङ्खयाविशेषप्रदर्शनम् । वक्ष्यमाणानुसारेण दृष्ट
मात्राश्रयत्वव्युदासायाह 3.प्रदर्शनार्थमिति । अर्जुनेन अन्यैश्चाप्रति(श्च प्रति?) पन्नाना 4.मिति शेषः ।
अदृष्टपूर्वाणीत्येतश्रुतपूर्वाणामप्युपलक्षणम्, अनवगतत्वमात्रेण वा सामान्यतस्संग्रह इत्यभिप्रायेणाह सर्वेषु
च शास्त्रेष्वदृष्टपूर्वाणीति । एतेन अतीन्द्रिये वस्तुनि सामान्यतः शास्त्रावगतेऽपि साक्षात्कारैकसमधिक
गम्या बहवो विशेषाः सन्तीति सूचितम् ।।
11.07-07
इह देहे इत्येकवचनान्तनिर्देशेनैव प्रदर्शयिष्यमाणः एको विवक्षित इत्यभिप्रायेणाह इह ममैक स्मन्
देह इति । एकवचनेन प्रदर्शयिष्यमाणविशेषनिर्देशन च देहैकत्वस्याभिहितत्वात् एकस्थ पदेन तदेक
देशे स्थितिर्विवक्षिता । एकस्यावयविनोऽवयवभूतमिति कैश्चिदुक्तं तु झ्र्जगतः प्राकृतत्वात् ?ट भगवद्विग्र
स्य अप्राकृतत्वसमर्थनाच्च निरस्तमित्यभिप्रायेणोक्त तत्राप्येकस्थमेकद्शस्थमिति । यद्वा कृत्स्नस्य एक
स्थत्ववचनात् तदेकदेशस्थितिः फलिता । यच्चान्यत् द्रुष्टुमिच्छसीत्यनेन पाण्डवधार्तराष्ट्रजयादिरमपि
गर्भितम् 362.ददृ2. - । तत्रापि समुच्चयसामथ्र्यात् देहैकदेशाश्रितत्वमाह तदपीति ।। 7 ।।
11.08-08
"न तु मां शक्ष्यसे ' इत्यत्र तुशब्दद्योतितमशक्तिहेतुं पूर्वश्लोकोक्तमाकृष्य दर्शयति अहमिति । अनेनै
वेत्यस्य विवक्षितमाह नियतेति । दिव्यप्रतिपक्षत्वात् प्राकृतेनेत्युक्तम् । तथाभूतमित्यादि । मामित्यनेनात्र विग्रहादिविशिष्टत्वं विवक्षितमिति भावः । अत्र द्रव्यशब्दविवक्षितमाह मदसाधारणमिति । प्रकरणादिफलितमैश्वरपदानुगृहीतं च योगशब्दार्थमाह अनन्तेति । नियमनशक्तिरीश्वरत्वम ; तदनुब
न्धी च योगस्तदुचि गुणविभूतियोग एव । चक्षुषो दिव्यत्वात् ज्ञानादिगुणदर्शनम् । अनन्तवीर्यत्वादिविशि
ष्टविशेषण पश्यामीति वक्ष्यतीति भावः ।।
11.09-09
महायोगेश्वरो हरिरित्येनयोस्तिरस्कारकं पूर्वप्रतिपन्नं रूपमाह सारथ्येऽवस्थितः पार्थमातुलज इति ।
एतेन दिव्यरूपप्रकाशनहेतुभूतवात्सल्यादिसूचनं च । महत्त्वेन विशेषणादाश्चर्यत्वम् । महच्छब्दस्य च
योगेश्वरविशेषणत्वादपि योगविशेषणत्वमत्रोचितमित्यभिप्रायेणाह महाश्तर्ययोगानामिति । अन्येष्वप्याश्च
र्ययोगस्य तदधीनत्वमीश्वरशब्देन विवक्षितम् । "महायोगेश्वरो हरिः ' इति पदद्वयाभिप्रेतं सामान्य
विशेषवाक्यार्थं दर्शयति परब्राहृभूतो नारायण इति । "पश्य मे योगमैश्वरम् ,' परमं रूपंमैश्वरम् '
इत्यनेयोरदूरविप्रकर्षेण घटनादैकाथ्र्यम् । "ऐश्वरं रूपं दर्शयामस ' इत्युक्ते स्वेतरस्य कस्यचिद्रूपमिति
धीः स्यादिति तद्वयुदासायोक्तं स्वासाधारणमिति । रूपशब्दस्यात्रापि सानुबन्धस्वरूपपरतया तदभिव्य
ञ्चकविग्रहपरतया स्वरूपादिसमस्तसाधारणाकारमात्रपरतया वा निर्वाहो ग्राह्रः । अत्र पार्थशब्देन स्वरूपप्रदर्शनार्थः प्रीतिहेतुस्संबन्धोऽभिप्रेत इति प्रदर्शनायाह पितृष्वसुः पृथायाः पुत्रायेति । परममैश्वर्यरं रूपमित्युक्तं विवृणोति तत् विविधेति । निखिलजगदाश्रयत्वं स्वरूपतो विग्रहद्वारा च ।363.(ददृ.1) यद्वा अनेकेत्यादेरुत्थानप्रदर्शनमिदम् ; तत एव हि तच्चेदृशमिति संहितम् । इहैकस्थमित्यादिभिस्सिद्धोऽयमर्थः । प्रशासितृशब्देनाधिष्टातृत्वं विवशक्षितम् ।
11.10-11
वक्त्राभरणायुधेष्वनेकत्वं जातिवैचित्र्यादपि द्रष्टव्यम् । नानाजातीयबहुवक्त्रयोगे हि
श्रीविश्वरूपध्याने भगवच्छास्त्रेषु पठ¬ते । अन्यथाऽनेकनयनत्वनिर्देशो निरर्थकस्स्यात् ; वक्त्रानेकत्वेनैव
तत्सिद्धेः । अनेकमद्भुतं दर्शनं यस्य तदनेकाद्भूतदर्शनम् अनवधिकातिशयाश्चर्यतया
दृश्यमानमित्यर्थः। दिव्यत्वमप्राकृतत्वम् । सर्वाश्चर्यमयम्-आश्चर्यभूतसर्वतत्त्वाश्रयभूतमित्यर्थः । अत एव
अनेकाद्भुत दर्शनमित्यनेनापुनरुक्तिः । ""जगदेतन्महाश्चर्यं रूपं यस्य महात्मनः (वि.5.19.7) इत्यादि भाव्यम् ।
देवशब्दस्यात्रानुपयुक्तजातिविशेषादिमात्रनिष्ठताव्युदासार्थं विग्रहविशिष्टविषयत्वप्रदर्श
नार्थं च द्योतमानमित्युक्तम् । आनन्त्यप्रकारं तद्धेतुं चाह निखिलेत्यादिना । कृत्स्नजगदाश्रयत्वस्य
कण्ठोक्तत्वात् फलितं कालत्रयवत्र्याश्रयत्वमपि । तदुभयफलितं देशकालपरिच्छेदानर्हत्वमत्र (ददृ3)
यथासंभवं विग्रहद्वारामद्वारकं च । झ्र्वस्तुपरिच्छेदराहित्यरूपम् ?टआनन्त्यं तु स्वरूपगतम् । विग्रहविशे
षणवर्गमध्यवर्तित्वादनन्तशब्दोऽपि विग्रहविषयः । दृष्ट्वाऽद्भुतमित्यत्र " अनन्तायामविस्तारमद्भूतमत्
युग्रम् इति रूपविषयमेव वक्ष्यति । ततश्चात्यन्तपृथुत्वादिमात्रप्रदर्शने तात्पर्यमित्यन्ये । एवम् "अनन्त
यामविस्तारे ' इति वक्ष्यमाण एतदनुवादोऽपि निर्वाह्रः । (364.ददृ1) विश्वव्यापिनोऽप्यस्य
विग्रहस्य
शक्तिविशेषात् सर्वत्राप्रतिधातो युक्तः । अष्टैश्वर्यशालिनां योगिनामपि भूमावुन्मज्जति निमज्जतीति सिद्धिविशेषोऽभिधीयते । अतोऽस्य प्रकृत्यादिकृत्स्नजगदाश्रयत्वं वक्ष्यमाणं नानुपन्नम् । अत एवारुाभूषण
रूपेण सर्वाश्रयत्वमिहोच्यत इत्येतदपि नाशङ्कनीयम्, तत्र देवदेवस्य शरीरे इत्यस्य शरीरविशेषण
तयाऽनन्तायामविस्तारत्वाद्युक्तेः । न च वटपत्रशायिविग्रहत्वत् अघटितधटनाशक्त्या (ददृ2.) सूक्ष्मरूपेण वाऽल्पीयस्यपि सर्वान्तर्भावप्रकाशनमित्यपि वाच्यम्, तथाऽनुक्तेस्तद्विपरीतोक्तेश्च । अतो यथाश्रुत एवार्थः । एतच्चारम्भभाष्य एव अचिन्त्य शब्देन स्थापितमिति । अनेकवक्त्रेत्युक्तमेवात्र विश्वतोमुखशब्देन विशेष्यत इत्यभिप्रायेणाह विश्वदिग्वर्तिमुखमिति । साक्षाद्विग्रहविषयत्वात् ""विश्वच
तश्चक्षुरुत विश्वतोमुखः (ना.) इत्यादिष्विव नात्र सर्वत्र मुखयुक्तमिति च परोक्तमयुक्तम्, पाणिपादादि
षु मुखाभावादिति भावः । अविशदविशदोपलम्भक्रमेण पाठक्रममनादृत्य देवमित्यादिकं पूर्वं व्याख्यातम् ।स्वगताकारप्रतीतेः परस्ताद्धि पृथग्सिद्धद्रव्यविशिष्टताप्रतीतिः ; तथैव च प्रदर्शनमुचितमित्यभिप्रायेण
- ाम्बरादिकं पूर्वमुक्तमपि परस्ताद्दर्शतं स्वोचितेत्यादिना । अत्रापि पाठक्रमोल्लङ्घनेनाम्बरातिक्रमेण
निर्देशोऽन्तरङ्गत्वबहिरङ्गत्वतारतम्यप्रदर्शनाय । अत्र दर्शयामासेति पूर्वेणान्वयः ।।