गीतम्

विकिस्रोतः तः

पठत संस्कृतम्

"उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम्। वर्षं तद्भारतं नाम भारती यत्र सन्ततिः॥"

जगति भारतस्य महिमा सनातनसनातनसंस्कृतिना विराजयती सर्वत्र। अत एवॊच्यते - "भारतस्य द्वे प्रतिष्ठे संस्कृतं संस्कृतिस्तथा।"

भारतस्य सनातनसंस्कृतिस्तु संस्कृतभाषायां निहितास्ति। वेदवाङ्मयं संस्कृतेन एव निखसितम् तथा च व्यासभासादिकवयः संस्कृतस्य गरिमाणं अकीर्तयन्। श्री मञ्जुनाथशर्मणा लिखितगीतं शिबिरगीतम् इति प्रथितं वर्तता

पठत संस्कृतम् गीतम्
सञ्चिका:Patatha Samskritam.ogg
गायकः तिरुमल नारायण मत्तीघट्टा



पठत संस्कृतम्, वदत संस्कृतम्
लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि     ॥ पठत ॥

ज्ञानवैभवं वेदवाङ्मयं
लसति यत्र भवभयापहारि मुनिभिरार्जितम् ।
कीर्तिरार्जिता यस्य प्रणयनात्
व्यास-भास-कालिदास-बाण-मुख्यकविभिः    ॥ पठत ॥

स्थानमूर्जितं यस्य मन्वते
वाग्विचिन्तका हि वाक्षु यस्य वीक्ष्य मधुरताम् ।
यद्विना जना नैव जानते
भारतीयसंस्कृतिं सनातनाभिधां वराम्    ॥ पठत ॥

जयतु संस्कृतम्, संस्कृतिस्तथा
संस्कृतस्य संस्कृतेश्च प्रणयनाच्च मनुकुलम् ।
जयतु संस्कृतम्, जयतु मनुकुलम्
जयतु जयतु संस्कृतम्, जयतु जयतु मनुकुलम्   ॥ पठत ॥

References[सम्पाद्यताम्]

Lyrics: श्री मञ्जुनाथशर्मा; Publisher: Samskrita_Bharati, Bangalore; Title Geeta Samskritam ISBN 978-81-88220-37-X

External links[सम्पाद्यताम्]

Samskrita Bharati, organization promoting Sanskrit

"https://sa.wikisource.org/w/index.php?title=गीतम्&oldid=18843" इत्यस्माद् प्रतिप्राप्तम्