गीतगोविन्दम्/स्निग्धमधुसूदनः

विकिस्रोतः तः
Jump to navigation Jump to search
← तृतीयः सर्गः- मुग्धमधुसूदनः गीतगोविन्दम्
चतुर्थः सर्गः
स्निग्धमधुसूदनः
जयदेवः
पञ्चमः सर्गः - साकांक्षपुण्डरीकाक्षः →

॥ चतुर्थः सर्गः ॥
॥ स्निग्धमधुसूदनः ॥

यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् ।
प्राह प्रेमभरोद्भ्रान्तं माधवं राधिकासखी ॥ २५ ॥

॥ गीतम् ८ ॥

निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् ।
व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥
सा विरहे तव दीना माधव मनसिजविशिखभयादिव भावनया त्वयि लीना ॥ १ ॥

अविरलनिपतितमदनशरादिव भवदवनाय विशालम् ।
स्वहृदयर्मणी वर्म करोति सजलनलिनीदलजालम् ॥ २ ॥

कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् ।
व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥ ३ ॥

वहति च गलितविलोचनजलभरमाननकमलमुदारम् ।
विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥ ४ ॥

विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् ।
प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ ५ ॥

प्रतिपदमिदमपि निगतति माधव तव चरणे पतिताहम् ।
त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ ६ ॥

ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् ।
विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥ ७ ॥

श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् ।
हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ ८ ॥

आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते ।
सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ २६ ॥

॥ गीतम् ९ ॥

स्तनविनिहितमपि हारमुदारम् ।
सा मनुते कृशतनुरतिभारम् ॥
राधिका विरहे तव केशव ॥ १ ॥

सरसमसृणमपि मलयजपङ्कम् ।
पश्यति विषमिव वपुषि सशङ्कम् ॥ २ ॥

श्वसितपवनमनुपमपरिणाहम् ।
मदनदहनमिव वहति सदाहम् ॥ ३ ॥

दिशि दिशि किरति सजलकणजालम् ।
नयननलिनमिव विगलितनालम् ॥ ४ ॥

नयनविषयमपि किसलयतल्पम् ।
कलयति विहितहुताशविकल्पम् ॥ ५ ॥

त्यजति न पाणितलेन कपोलम् ।
बालशशिनमिव सायमलोलम् ॥ ६ ॥

हरिरिति हरिरिति जपति सकामम् ।
विरहविहितमरणेन निकामम् ॥ ७ ॥

श्रीजयदेवभणितमिति गीतम् ।
सुखयतु केशवपदमुपुनीतम् ॥ ८ ॥

सा रोमाञ्चति सीत्करोति विलपत्युत्क्म्पते ताम्यति ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि ।
एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात् स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा नान्तकः ॥ २७ ॥

स्मरातुरां दैवतवैद्यहृद्य त्वदङ्गसङ्गामृतमात्रसाध्याम् ।
विमुक्तबाधां कुरुषे न राधा-मुपेन्द्र वज्रादपि दारुणोऽसि ॥ २८ ॥

कन्दर्पज्वरसंज्वरस्तुरतनोराश्चर्यमस्याश्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु संताम्यति ।
किंतु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ २९ ॥

क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते ।
श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ ३० ॥

॥ इति गीतगोविन्दे स्निग्धमाधवो नाम चतुर्थः सर्गः ॥