गायामि गीतानि रसाश्रयाणि

विकिस्रोतः तः

माधव मामुद्धर निजदासम् ॥१॥

माधव मामुद्धर निजदासम्। शरणागतवत्सल शरणं त्वां वन्दे जगन्निवासम्॥ माधव।

गच्छति यो यदुनन्दन शरणं त्वां भक्त्या सुखवासम्। मोहनिशां परिहाय सर्वतो लभते भावविकासम्॥ माधव।

तव विशालहृदये विश्वात्मन् वसति जगत् सविकासम्। अणुरयमस्मि जन्तुरेको नहि किंलभेय निजवासम्॥ माधव।

इन्द्रगोपतस्त्विन्द्रं यावद् भुवि जीवा अश्नन्ति। निजकृतकर्मफले किन्तु नहि भक्तास्तदनुभवन्ति॥ माधव।

कर्तुमकर्तुमन्यथाकर्तुं प्रभवसि नाथ विलासम्। शरणापन्नजनो यदीहते पूरय तद् विश्वासम्॥ माधव मामुद्धर निजदासम्॥


मानस पिब रे श्यामरसम् ॥२॥

मानस पिब रे श्यामरसम्। सच्चिन्मयमतिशयमधुमयममृतादपि मधुरतरम्॥ मानस।

ऋषिमुनियोगियतीन्द्रभक्तजनसुभगवरैरसितम्। शुकनारदसनकादिसनातनसिद्धजनैः स्वदितम्॥ मानस।

अणिममहिमलघिमादिवशित्वं सिद्धिफलं सकलम्। अनुभूयापि रसयिता सततं रसयति श्यामरसम्॥ मानस।

आपदमस्तकमस्ति सुधारसघनानन्दसदनम्। सकृदपि पिबति श्यामरसमेवं तदितरमिह विरसम्॥ मानस पिब रे श्यामरसम्।


मालति अवरोधय निजबालम् ॥३॥

मालति अवरोधय निजबालम्। त्वं न विश्वसिषि विहससि सततं दमयसि नहि निजलालम्॥ मालति।

बालसखैः सह प्रविशति सदने चोरयते नवनीतम्। विभजति विहसति क्रीडति नृत्यति मनति न तद्विपरीतम्॥ मालति।

निलीयतेऽस्मत् किन्तु समीक्षे सर्वं तस्य विधानम्। सखिपीठं सोपानं कुरुते विदलति भाणुपिधानम्॥ मालति।

नयते पातयते नवनीतं लेपयते निजवदनम्। भुङ्ते भोजयते च वयस्यं पलायते सदलम्। मालति।

अवसरमागमनस्य प्रतीक्षे प्रतिदिनमयि सखि सदने। समयव्यतीपातं नहि सहते चेतो मे विधुवदने॥ मालति मारोधय गोपालम्। मालति मारोधय निजं बालम्॥


राधिके राधय त्वं मुदा माधवम्‌ ॥४॥

राधिके राधय त्वं मुदा माधवम्‌। यं विना गोकुलं नैव संशोभते। यं विना गोधनं नैव संवर्द्धते। यं विना नैव वृन्दावनं राजते। यं विना नैव गोवर्धनं भ्राजते‌। राधिके राधय त्वं तु तं माधवम्‌॥

यामुनं जीवनं नैव मोदायते। नैव नैपं सुमं तत्‌तटे शालते। नर्तनं बर्हिणां न प्रमोदायते। कूजनं कोकिलानां च वैरायते। यं विना जीवनं चापि शून्यायते। राधिके राधय त्वं हि तं माधवम्‌॥

ऐन्दवं रश्मिजालं तु ज्वालायते। शीतलं चन्दनं किञ्च व्यालायते। स्वल्पकालस्त्रुटेरेव कल्पायते। वस्तुजातं हितं विपरीतायते। यं विना स्पन्दनं नैव संभाव्यते। राधिके राधय त्वं निजं माधवम्‌॥

यं हि भक्ता भजन्ते गतिप्राप्तये। यत्र युक्ता रमन्ते चिरं शान्तये। यत्र वामा अवामा रमन्ते मुदा। राधिके राधय त्वं तु तं माधवम्‌॥ राधिके राधय त्वं मुदा माधवम्‌॥


राधे राधय नन्दकुमारम् ॥५॥

राधे राधय नन्दकुमारम्। व्रजवनिताजनमानसभावं भावय तं जितमारम्॥

यद्विधुवदनविलोकनमेकं मनुते जीवनसारम्। यन्मुरलीरवश्रवणमेकलं कुरुते श्रुतिसंचारम्॥ राधे राधय नन्दकुमारम्।

विरहानलचिन्तानिलसंगतिरिह तनुते तनुतापम्। निरवधिराधिरसीमितमर्दनमादधाति संतापम्॥ राधे राधय नन्दकुमारम्।

यमुनाकूलनिकुञ्जमञ्जुमधुसमये कृतबहुसमयम्। संस्मारय निर्मोहं मोहनमचिरं मानसहारम्॥ राधे राधय नन्दकुमारम्।


माधव त्वं नहि याहि विदेशम्‌ ॥६॥

माधव त्वं नहि याहि विदेशम्‌। त्वद्‌विरहे वृन्दावनमेतन्नहि जनयति सुखलेशम्‌॥ माधव।

सर्जकदम्बयुतं यमुनातटमतिकुरुते सन्तापम्‌। सरसनिकुञ्जवनं नहि हरते व्रजबालापरितापम्‌॥ माधव।

गतवति भवति भवति व्रजभूमौ वेदनमयमावरणम्‌। खगमृगकुलगोकुलमिह सीदति त्वमसि यस्य शरणम्‌॥। माधव।

त्वमपि गमिष्यसि नानुभविष्यसि कमपि विशेषविनोदम्‌। स्वजने विपदि निमज्जति किं त्वं प्राप्स्यसि तत्र प्रमोदम्‌। माधव त्वं नहि याहि विदेशम्‌॥


माधव स्मरसि न गोकुलवासम्‌ ॥७॥

माधव स्मरसि न गोकुलवासम्‌। मधुवनकुञ्जभवनलीलामयव्रजबालापरिहासम्‌। माधव।

अधरामृतपूरितमुरलीरवरञ्जितभावविलासम्‌। विविधभावभङ्गिमचेतोहरगोपीगोपसुलासम्‌। माधव।

यमुनाकूलकदम्बवृक्षतलकृतगोपीजनहासम्‌। राकापतिकररञ्जितरजनीरागमयं निजरासम्। माधव।

देवराजप्रेषितसंवर्तकवारिवाहकृतत्रासम्‌। करधृतनग नगभिदनुज स्मरसि न परिहृतभय निजदासम्‌। माधव स्मरसि न पूर्वनिवासम्‌।


उद्धव याहि कथय व्रजबालाम्‌ ॥८॥

उद्धव याहि कथय व्रजबालाम्‌। परित्यज्य सांसारिकरागं श्रयतु यमादिकमालाम्‌॥ उद्धव।

फलति विषं खलु रागलतायां कुरुतां योगविधानम्‌। प्रेम रागमतिहाय सन्ततं तनुतां मुक्तिवितानम्‌॥ उद्धव।

योगपथे चिरशान्तिं लभते लभते तं परमेशम्। शमदमादिसम्पत्तिं तनुते सम्बोधय सन्देशम्‌॥ उद्धव।

प्रीतिर्भवति वासना भरिता वासनया संसारः। दुःखालयसंसारमोचनं मनुजजीवनासारः ॥

उद्धव याहि कथय व्रजबालाम्‌। उद्धव सम्बोधय व्रजबालाम्‌॥

परित्यज्य सांसारिकरागं श्रयतु यमादिकमालाम्‌। उद्धव याहि कथय व्रजबालाम्‌॥


उद्धव मथुरापतिसन्देशम्‌ ॥९॥

उद्धव मथुरापतिसन्देशम्‌। विरहानलसन्तप्तमानसं रसयति नहि सविशेषम्‌। उद्धव।

श्रोत्रं मधुररसायनमात्रं प्रियसन्देशं पातुम्‌। निरतमीहते मनसि नैव शक्तो योगोऽस्ति प्रयातुम्‌॥ उद्धव।

चित्ते हालाहलति योगसन्देशो दहति विशेषम्‌। कथय कथं शृणुयाम विषमयं निष्ठुरजनसन्देशम्‌॥ उद्धव।

द्वैते योगी भवति जानतेऽभिज्ञाः प्रेमाद्वैते। व्रजबाला मनुते च विश्वसिति निरतं प्रेमाद्वैते॥ उद्धव।

कर्णे हृदये चापि मधुस्यति सन्देशेपेयत्वम्‌। मन्यामहे वयं सम्मूढा याहि कथय योगेशम्‌। उद्धव मथुरापतिसन्देशम्‌। विरहानलसन्तप्तमानसं रसयति नहि सविशेषम्‌॥


उद्धव स्मारय प्रेमविधानम्‌ ॥१०॥

उद्धव स्मारय प्रेमविधानम्‌। प्रेमपथिक इह प्रियसुखजनकं तनुते प्रीतिवितानम्‌॥ उद्धव।

असिधारासंचलनं कठिनं तस्मात्‌ कठिनतरम्‌। प्रेममार्गमनुसरन्‌ तपस्वी तपति तपः प्रखरम्‌॥ उद्धव।

विहसति शिशौ यथा तज्जननी विहसति क्रन्दति क्रन्दति। स्वपिति शयाने क्रीडति गायति पिबति पयः संजीवति॥ खादति खदति चलति संचरते तेन यथा संप्रवदति। प्रेमपथिकहृदयं तथैव सन्ततमनुभवति च कलयति॥ उद्धव।

प्रेमास्पदसुखतः सुखित्वमिति प्रेमलक्षणं कुरुते। विस्मारं विस्मारं स्वसुखं स्वयं च सुसुखं लभते। उद्धव।

अणिममहिमलघिमादिकसिद्धिं भक्तिमुक्तिसमवेताम्‌। तिरस्कृत्य मनुते प्रियसेवानीतिं लक्ष्यविशुद्धाम्‌। उद्धव।

व्रजवल्लभ एवं जानीते कुरुते ललति च लीलाम्‌। स्मरति तथापि स्मारयन्‌ श्रावय लीलापुरुषं लीलाम्‌। उद्धव स्मारय प्रेमविधानम्‌। उद्धव स्मारय प्रेमवितानम्‌॥


उद्धव याहि कथय यदुनाथम्‌ ॥११॥

उद्धव याहि कथय यदुनाथम्‌। सम्प्रदर्श्य विहसितविधुवदनं कुरुताद्‌ व्रजं सनाथम्‌॥ उद्धव।

त्रुटिरपि युगमानाय कल्पते तद्विरहेऽति विशेषम्‌। मधुरनगरविहरणवशतो नहि जानीते परिवेशम्‌॥ उद्धव।

व्रजवल्लभविरहानलतापेनोत्तपते मृदुहृदयम्‌। अविरलराधानयननीरधारापि तापयति निरतम्‌॥ उद्धव।

कृतसमयं विस्मृत्य निष्ठुरः कुरुते यत्‌ परिहासम्‌। स्नेहहार्दसद्भावरागमतिजहद्‌ याति उपहासम्‌॥ उद्धव याहि कथय यदुनाथम्‌।