गर्गसंहिता/वृन्दावन खण्ड/अध्यायः ८
ब्रह्मणः कृष्णस्वरूपदर्शनम् -
श्रीनारद उवाच -
अदृष्ट्वा वत्सकानेत्य वत्सपान् पुलिने हरिः ।
उभौ विचिन्वन् विपिने मेने कर्म विधेः कृतम् ॥ १ ॥
ततो गवां गोपिकानां मुदं कर्तुं स लीलया ।
सर्वं तु विश्वकृच्चक्रे ह्यात्मानमुभयायितम् ॥ २ ॥
यावद्वत्सपवत्सानां वपुः पाणिपदादिकान् ।
यावद्यष्टिविषाणादीन् यावच्छीलगुणादिकान् ॥ ३ ॥
यावद् भूषणवस्त्रादीन् तावच्छ्रीहरिणा स्वतः ।
सर्वं विष्णुमयं विश्वमिति वाक्यं प्रदर्शितम् ॥ ४ ॥
आत्मवत्सानात्मगोपैश्चारयन् क्रीडया हरिः ।
प्राविशन्नन्दनगरमस्तंगिरिगते रवौ ॥ ५ ॥
तत्तद्गोष्ठे पृथङ्नीत्वा तत्तद्वत्सान् प्रवेश्य च ।
कृष्णोऽभवत्तत्तदात्मा तत्तद्गेहं प्रविष्टमान् ॥ ६ ॥
श्रुत्वा वंशीरवं गोप्यः सम्भ्रमाच्छीघ्रमुत्थिताः ।
पयांसि पाययामासुः लालयित्वा सुतान् पृथक् ॥ ७ ॥
स्वान् स्वान् वत्सान् तथा गावो रम्भमाणान्निरीक्ष्य च ।
लिहन्त्यो जिह्वयाङ्गानि पयांसि च ह्यपाययन् ॥ ८ ॥
अभवन्मातरः सर्वा गोप्यो गावो हरेरहो ।
अतिस्नेहञ्च ववृधे पूर्वतो हि चतुर्गुणम् ॥ ९ ॥
स्वपुत्रा लालयित्वा तु मज्जनोन्मर्दनादिभिः ।
पश्चाद्गोप्यश्च कृष्णस्य दर्शनं कर्तुमाययुः ॥ १० ॥
अनेकानां तु बालानामुद्वाहाः कृष्णरूपिणाम् ।
बभूवुस्ता व्रजे वध्वो रताः कृष्णे तु कोटिशः ॥ ११ ॥
वत्सपालमिषेणापि स्वात्मानं ह्यात्मना हरेः ।
पालितो वत्सरश्चैको बभूव व्रजमण्डले ॥ १२ ॥
सरामश्चैकदा वत्सान् चारण्यं चारयन् ययौ ।
हायनापूरणीष्वत्र पञ्चपासु च रात्रिषु ॥ १३ ॥
तत्रापि दूराच्चरतश्च गावो
वत्सानुपव्रज्य गिरेश्च शृङ्गात् ।
लिहन्ति चाङ्गानि विलोकयन्त्यो
ह्यपाययंस्ता अमृतानि सद्यः ॥ १४ ॥
गोवर्धनादधो वत्सान् पीतदुग्धान् विलोक्य च ।
स्नेहावृत्ताः स्थिता गाश्च गोपाला ददृशुर्नृप ॥ १५ ॥
ततः क्रोधेन महता पर्वतादवतीर्य च ।
ताडनार्थे स्वपुत्राणामाजग्मुः कृच्छ्रतो द्रुतम् ॥ १६ ॥
यदाऽऽगता समीपे तु पुत्राणां गोपनायकाः ।
स्वान्स्वान् सुतान् तदोन्नीय ह्यङ्के कृत्वा मिलन्ति वै ॥ १७ ॥
यथा युवानो वृद्धाश्च स्नेहादश्रुपरिप्लुताः ।
स्वान्स्वान् पौत्रान् गृहीत्वा तु ह्युपविष्टा मिलन्ति हि ॥ १८ ॥
एवं प्रेमपरान् सर्वान् दृष्ट्वा सङ्कर्षणो बलः ।
बहुप्रकारं सन्देहं कृत्वा मनसि सोऽब्रवीत् ॥ १९ ॥
अहो किं वत्सरात्प्राप्तो न ज्ञातोऽपि व्रजे मया ।
अतिस्नेहस्तु सर्वेषां वर्धते च दिने दिने ॥ २० ॥
मेयं माया समायाता देवगंधर्वरक्षसाम् ।
नान्या मे मोहिनी माया विना कृष्णस्य साम्प्रतम् ॥ २१ ॥
एवं विचार्य रामस्तु लोचने स्वे न्यमीलयत् ।
भूतं भव्यं भविष्यच्च दिव्याक्षाभ्यां ददर्श ह ॥ २२ ॥
सर्वान् वत्सांस्तथा गोपान् वंशीवेत्रविभूषितान् ।
बर्हिपक्षधरान् श्यामान् भृग्वङ्घ्रि कृतकौतुकान् ॥ २३ ॥
जालकानां मणीनाञ्च गुञ्जानां स्रग्भिरेव च ।
पद्मानां कुमुदानाञ्च ह्येषां स्रग्भिर्विभूषितान् ॥ २४ ॥
उष्णीषैर्मुकुटैर्दिव्यैः कुण्डलैरलकैर्वृतान् ।
आनन्दवर्षान् कुर्वाणान् शरत्पद्मदृशैरपि ॥ २५ ॥
कोटिकन्दर्पलावण्यान् नासामौक्तिकशोभितान् ।
शिखाभूषणसंयुक्तान् पाणिभूषणभूषितान् ॥ २६ ॥
द्विभुजान् पीतवस्त्रैश्च काञ्चीकटकनूपुरैः ।
प्रभातरविकोटीनां शोभाभिः शोभितान् शुभान् ॥ २७ ॥
उत्तरे गिरिराजस्य यमुनायाश्च दक्षिणे ।
आचष्ट वृन्दकारण्ये सर्वान् कृष्णं हलायुधः ॥ २८ ॥
ज्ञात्वा कृष्णकृतं कर्म तथा विधिकृतं बलः ।
पुनर्वत्सान् वत्सपाँश्च पश्यन् कृष्णमुवाच ह ॥ २९ ॥
ब्रह्मानन्तो धर्म इन्द्रः शिवश्च
सेवन्ते तं भक्तियुक्ताः सदैते ।
स्वात्मारामः पूर्णकामः परेशः
स्रष्टुं शक्तः कोटिशोऽण्डानि यः खे ॥ ३० ॥
श्रीनारद उवाच -
एवं ब्रुवति श्रीरामे तावत् तत्रागतो विधिः ।
ददर्श कृष्णं रामञ्च वत्सकैर्वत्सपैः समम् ॥ ३१ ॥
अहो कृष्णेन चानीता यत्र सर्वे धृता मया ।
इति ब्रुवन् ययौ स्थाने तत्र सर्वान् ददर्श सः ॥ ३२ ॥
दृष्ट्वा प्रसुप्तान् सर्वांस्तु स आगत्य व्रजे पुनः ।
वत्सपालैर्हरिं वीक्ष्य मनसि प्राह विस्मितः ॥ ३३ ॥
अहो विचित्रं ते सर्वे कुत्र स्थानात्समागताः ।
क्रीडन्तो पूर्ववच्चात्र साकं कृष्णेन क्रीडनैः ॥ ३४ ॥
मत्त्रुटिर्वत्सरश्चैको व्यतीतोऽभून्महीतले ।
सर्वे प्रसन्नतां प्राप्ता न ज्ञातः केनचित्क्वचित् ॥ ३५ ॥
एवं संमोहयन् ब्रह्मा मोहनं विश्वमोहनम् ।
स्वमाययान्धकारेण स्वगात्रं नैव दृष्टवान् ॥ ३६ ॥
वत्सपालापहरणात्किमभूज्जगतः पतेः ।
अहो खद्योतवद्वेधा श्रीकृष्णरविसम्मुखे ॥ ३७ ॥
एवं विमुह्यति सति जडीभूते च ब्रह्मणि ।
स्वमायां कृपयाऽऽकृष्य कृष्णः स्वं दर्शनं ददौ ॥ ३८ ॥
एवं तत्र सकृद्ब्रह्मा गोवत्सान् गोपदारकान् ।
सर्वानाचष्ट श्रीकृष्णं भक्त्या विज्ञानलोचनैः ॥ ३९ ॥
ददर्शाथ विधिस्तत्र बहिरन्तः शरीरतः ।
स्वात्मना सहितं राजन् सर्वं विष्णुमयं जगत् ॥ ४० ॥
एवं विलोक्य ब्रह्मा तु जडो भूत्वा स्थिरोऽभवत् ।
वृन्दावद्वृन्दकारण्ये प्रदृश्येत यथा तथा ॥ ४१ ॥
स्वात्मनो महिमां द्रष्टुं ह्यनीशेऽपि च ब्रह्मणि ।
चच्छाद सपदि ज्ञात्वा मायाजवनिकां हरिः ॥ ४२ ॥
ततः प्रलब्धनयनः स्रष्टा सुप्त इवोत्थितः ।
उन्मील्य नयने कृच्छ्राद्ददर्शेदं सहात्मना ॥ ४३ ॥
समाहितस्तत्र भूत्वा सद्योऽपश्यद्दिशो दश ।
श्रीमद्वृन्दावनं रम्यं वासन्तीलतिकान्वितम् ॥ ४४ ॥
शार्दूलबालकैर्यत्र क्रीडन्ति मृगबालकाः ।
श्येनैः कपोता नकुलैः सर्पा वैरविवर्जिताः ॥ ४५ ॥
ततश्च वृंदकारण्ये सपाणिकवलं विधिः ।
वत्सान् सखीन् विचिन्वन्तमेकं कृष्णं ददर्श सः ॥ ४६ ॥
दृष्ट्वा गोपालवेषेण गुप्तं गोलोकवल्लभम् ।
ज्ञात्वा साक्षात् हरिं ब्रह्मा भीतोऽभूत्स्वकृतेन च ॥ ४७ ॥
तं प्रसादयितुं राजन् ज्वलन्तं सर्वतो दिशम् ।
लज्जयावाङ्मुखो भूत्वा ह्यवतीर्य स्ववाहनात् ॥ ४८ ॥
शनैरुपससारेशं प्रसीदेति वदन् नमन् ।
स्रवद्वर्षाश्रुदत्तार्घः स पपाताथ दण्डवत् ॥ ४९ ॥
उत्थाप्याश्वास्य तं कृष्णः प्रियः प्रिय इव स्पृशन् ।
सुरान् सुभुवि दूरस्थानालुलोक सुधाऽऽर्द्रदृक् ॥ ५० ॥
ततो जयजयेत्युच्चैः स्तुवतां नमतां समम् ।
तद्दयादृष्टदृष्टानां सानन्दः सम्भ्रमोऽभवत् ॥ ५१ ॥
दृष्ट्वा हरिं तत्र समास्थितो विधि-
र्ननाम तं भक्तिमनाः कृताञ्जलिः ।
स्तुतिं चकाराशु स दण्डवल्लुठन्
प्रहृष्टरोमा भुवि गद्गदाक्षरः ॥ ५२ ॥
इति श्रीगर्गसंहितायां वृन्दावनखण्डे ब्रह्मणः श्रीकृष्णदर्शनवर्णनं नाम अष्टमोऽध्यायः ॥ ८ ॥