गर्गसंहिता/खण्डः ९ (विज्ञानखण्डः)/अध्यायः ८

विकिस्रोतः तः

महापूजाविधिवर्णनम्

श्रीव्यास उवाच -
अथ स्नात्वा च कृत्वा च नित्यनैमित्तिकीं क्रियाम् ॥
पञ्चवर्णसमायुक्तं शुद्धे स्थण्डिलमण्डले ॥१॥
द्वात्रिंशद्दलसंयुक्तं कार्णिकाकेसरोज्ज्वलम् ॥
विधाय कमलं स्थाप्य विधिवद्वेदसूक्तिभिः ॥२॥
कर्णिकायां न्यसेद्‌राजन्हरेः सिंहासनं शुभम् ॥
तत्र राधां रमां स्थाप्य भूदेवीं विरजां तथा ॥३॥
तन्मध्ये स्थापयेत्साक्षाच्छ्रीकृष्णं पुरुषोत्तमम् ॥
तथाष्टदलमध्ये तु राधिकाष्टसखीः शुभाः ॥४॥
ततोऽष्टदलमध्ये तु श्रीकृष्णस्य तथा सखीन् ॥
तथा षोडशपर्णेषु सखीनां च द्वयं द्वयम् ॥५॥
कमलस्य च पार्श्वेषु शंखं चक्रं गदां तथा ॥
पद्मं च नंदकं शार्ङ्गं बाणांश्च मुसलं हलम् ॥६॥
कौस्तुभं वनमालां च श्रीवत्सं नीलमंबरम् ॥
पीतांबरं तथा वंशीं वेत्रं च स्थापयेद्‍बुधः ॥७॥
ततः पार्श्वेषु तालांकं गरुडांकं रथं तथा ॥
सुमतिं दारुकं सूतं गरुडं कुमुदं तथा ॥८॥
चंडं चैव प्रचंडं च बलं चैव महाबलम् ॥
कुमुदाक्षं बलं चैव स्थापयेद्यत्‍नतः सुधीः ॥९॥
तथा दिक्षु च दिक्पालान्संस्थाप्य च पृथक् पृथक् ॥
विष्वक्सेनं शिवं मां च विधिं दुर्गां विनायकम् ॥१०॥
नवग्रहांश्च वरुणं तथा षोडश मातृकाः ॥
तत्पद्माग्रे वीतिहोत्रं स्थंडिले स्थापयेद्‍बुधः ॥११॥
आवाहनमासनं च पाद्यमर्घ्यं विशेषतः ॥
स्नानं च मधुपर्कं च धूपं दीपं तथैव च ॥१२॥
यज्ञोपवीतं वस्त्रं च भूषणं गंधमेव च ॥
पुष्पं तथाक्षतांश्चैव नैवेद्यं च मनोहरम् ॥१३॥
आचमनं प्रदातव्यं तांबूलं दक्षिणां तथा ॥
प्रदक्षिणां प्रार्थनां च तथा नीराजनं स्मृतम् ॥१४॥
नमस्कारं ततः कुर्यात्कर्मणा च पृथक् पृथक् ॥
आवाहने तु पुष्पाणि आसने तु कुशद्वयम् ॥
पाद्ये श्यामां च दूर्वां च विष्णुक्रांतां तथैव च ॥
सौगंधिकानि पुष्पाणि अर्घ्ये योग्यानि यादव ॥१६॥
चंदनोशीरकर्पूरकुंकुमागुरुमिश्रितम् ॥
एतादृशं जलं योग्यं स्नाने राजन्महामते ॥१७॥
मधुपर्के ह्यामलकमरविंदं तथा मतम् ॥
धूपे गंधाष्टकं देयं दीपे कर्पूरमेव च ॥१८॥
यज्ञोपवीतं पीतं च वस्त्रे पीतांबरं मतम् ॥
भूषणे चैव सौवर्णं गंधे कुंकुमचन्दने ॥१९॥
तुलसीमंजरी पुष्पेऽक्षतेषु स्युस्तु तंडुलाः ॥
नैवेद्ये तु रसाः षट् च भोगा नानाविधा मताः ॥२०॥
जले गंगाजलं योग्यं यमुनाजलमेव च ॥
जातीफलं च कंकोलमंते चाचमने नृप ॥२१॥
तांबूले चोषणं त्वेला दक्षिणायां तु हाटकम् ॥
प्रदक्षिणायां भ्रमणं घृतं नीराजने गवाम् ॥२२॥
प्रार्थनायां हरेर्भक्तिः प्रेमलक्षणसंयुता ॥
नमस्कारे महाराज साष्टांगनतविग्रहः ॥२३॥
द्वादशाक्षरमंत्रेण शिखां बद्ध्वा शुचिः पुमान् ॥
उपचरान्पुरस्कृत्य श्रीमुखे संमुखो भवेत् ॥२४॥

इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे महापूजाविधिवर्णनं नामाष्टमोऽध्यायः ॥८॥