सामग्री पर जाएँ

गर्गसंहिता/खण्डः ९ (विज्ञानखण्डः)/अध्यायः ५

विकिस्रोतः तः

भक्त्युत्कर्षम्

श्रीवेदव्यास उवाच -
वत्साघधेनुकबकीबककेशिकाला-
     रिष्टप्रलंब-कपिबल्वल-शङ्खशाल्वाः ॥
वैरेण यं किमुत भक्तियुता नरेन्द्र
     प्रापुः परं प्रकृतिपूरुषयोः पुमांसम् ॥१॥
पूर्वासुरावतिबलौ मधुकैटभाख्यौ
     स्वर्णाक्षहेमकशिपू च तथापरौ च ॥
वैरं विधाय नृप रावणकुंभकर्णौ
     विष्णोः किलापतुरलं परमं पदं हि ॥२॥
के के न विष्णूपदमागतवंत आदौ
     प्रह्लाद-बाण-बलि-यक्षविभीषणाद्याः ॥
सत्संगसंगनिरता बहुमानपात्र-
     श्रीमत्पदाब्ज-मकरंदरजोविलुब्धाः ॥३॥
देवर्षिगीष्पतिवसिष्ठ-पराशराद्याः
     सांख्यायनासितशुकाः सनकादयश्च ॥
निष्कारणा भुवि चरंत्यरविंदनेत्र-
     पादारविंदमकरंद-मिलिन्दमुख्याः ॥४॥
यत्युत्कालांग-भरतार्जुनमैथिलाश्च
     गाधिप्रियव्रत-यदुप्रमुखांबरीषा ॥
निष्कारणाः परमहंसवराश्चारन्ति
     श्रीकृष्णचन्द्रचरितामृतपानमत्ताः ॥५॥
मंदोदरी च शबरी च मतंगशिष्या-
     स्तारा तथात्रिवनिता निपुणा त्वहल्या ॥
कुन्ती तथा द्रुपदराजसुता सुभक्ता
     एताः परं परमहंससमाः प्रसिद्धाः ॥६॥
सुग्रीववालिसुतवातसुतर्क्षराज-
     नागारिगृध्रवरकाकभुशुण्डिमुख्याः ॥
कुब्जादिवायक-सुदामगुहादायोऽन्ये
     तत्संगमेत्य हरिभक्तवरा बभूवुः ॥७॥
कृष्णं न रोधयति धर्म तपो न योगः
     सांख्यं न यज्ञ उत तीर्थयमव्रतानि ॥
छन्दांसि पूर्तनियमावथ दक्षिणा च
     नेष्टं न दानमथ भक्तिमृते न कश्चित् ॥८॥
यज्ञव्रताध्ययन-तीर्थतपोनियोगै-
     रिष्टस्वधर्मनियमादिक-सांख्ययोगैः ॥
यत्प्राप्यते तदखिलं भवतीह भक्त्या
     भक्तेःपदं हि कर्हिचिन्न भवेत्किलैभिः ॥९॥
उद्धारिणी यमपुरस्य च विश्वरूपा-
     दुत्तारिणी भवमहार्णववारिवेगात् ॥
संहारिणी विषयसंचितकर्मणा च
     सत्कारिणी हरिपदस्य परात्परस्य ॥१०॥
श्रीकृष्णदर्शन-रसोत्सुकभावराज-
     दुद्यद्‌वसंतपरमोत्सवपंचमीयम् ॥
दिव्या लतातिफल-पल्लवभारनम्रा
     संराजते हि सततं कुसुमाकरस्य ॥११॥
संमोहकालघनमध्य-तडित्स्फुरन्ती
     शास्त्रार्थदर्शवचसां पददीपिकेयम् ॥
दीपावलिर्विजयते जयकार्तिकस्य
     जेतुं गुणान् विजयिनो दशमी जयस्य ॥१२॥
सांख्यं च योग इति पार्श्वगते हि दंडे
     कीलानि चात्र शतशो गुणभावभेदाः ॥
अस्या क्रमान्नवकथाश्रवणादयश्च
     श्रेणीयमस्ति सरला भगवत्पदस्य ॥१३॥

इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीव्यासोग्रसेनसंवादे भक्त्युत्कर्षवर्णनं नाम पंचमोऽध्यायः ॥५॥