गर्गसंहिता/खण्डः ९ (विज्ञानखण्डः)/अध्यायः १०
परब्रह्मनिरूपणम्
उग्रसेन उवाच -
सिद्धोऽस्म्यनुगृहीतोऽस्मि त्वया श्रीकृष्णरूपिणा ॥
श्रीकृष्णपद्धतिः साक्षाच्छ्रुता वै विधिवन्मया ॥१॥
अहो लोका महामूढा लोभमोहमदान्विताः ॥
नाप्नुवंति हि वैराग्यं भजंति न हरिं क्वचित् ॥२॥
भगवन्नस्य जगतो मोहकारणमद्भुतम् ॥
कथं जातं वद विभो कथमेतन्निवर्तते ॥३॥
श्रीव्यास उवाच -
यथांभसि प्राप्तमदो विधोः खत-
स्तत्प्रेक्षते केवलमेव वेगतः ॥
तथा हि बिम्ब परमस्य मायया
ममेत्यहं भावगते प्रवर्तते ॥४॥
प्रधानकालाशयदेहजैर्गुणैः
कुर्वन्विकर्माणि जनो निबद्ध्यते ॥
काचेऽर्भकं सैकत एव जीवनं
गुणे च सर्पं प्रतनोति सोऽक्षिभिः ॥५॥
राजन् जगन्मोहमयं रजोमयं
तमोमयं सत्वमयं तथा क्वचित् ॥
मनोविलासं विकृतं च विभ्रमं
विद्ध्याश्विदं लोलमलातचक्रवत् ॥६॥
इदं करिष्यामि करोम्यभूवं
ममेदमस्तीति च वेदमाब्रुवन् ॥
अहं सुखी दुःखयुतः सुहृज्जनो
लोकस्त्वहंकारविमोहितो मतः ॥७॥
उग्रसेन उवाच -
वद मे कृपया ब्रह्मँल्लक्षणं परमात्मनः ॥
कतिधा कवयः कृष्णं वदंति जपवर्त्मनि ॥८॥
श्रीव्यास उवाच
सनातनस्यात्र न मृत्युजन्मनी
न शोकमोहौ न जरायुवादयः ॥
अहंमदो व्याधियुतो भयं सुखं
शुचः क्षुधेच्छा न रतिर्न चाधयः ॥ ९॥
आत्मा निरीहो ह्यतनुः स सर्वगो
नाहंकृतिः शुद्धबलो गुणाश्रयः ॥
स्वयं परो निष्फल आत्ममंगलो
ज्ञानात्मको यो विदितो मुनीश्वरैः ॥१०॥
जागर्ति योऽस्मिञ्छयनं गते सति
नायं जनो वेद स वेद तं हितम् ॥
पश्यन्तमाद्यं पुरुषं हि यं जनो
न पश्यति स्वच्छमलं च तं भजे ॥११॥
यथा नभोऽग्निः पवनो न सज्जते
घटे न काष्ठे न रजोभिरावृतः ॥
तथा पुमान्सर्वगुणैश्च निर्मलो
वर्णैर्यथा स्यात्स्फटिकोपमोज्ज्वलः ॥१२॥
व्यंगेन वा लक्षणया च वाक्पथै-
रर्थैः पदस्फोटपरायणैः परम् ॥
न ज्ञायते तद्गुणिनोत्तमेन स-
द्वाच्यं ततो ब्रह्म कुतस्तु लौकिकैः ॥१३॥
वदन्ति केचिद्भुवि कर्मकर्तृ य-
त्कालं च केचित्परमेव शोभनम् ॥
केचिद्विचारं प्रवदन्ति यच्च तद्-
ब्रह्मेति वेदांतविदो वदन्ति हि ॥१४॥
यं न स्पृशंतीह गुणा न कालजा
मायेन्द्रियं चित्तमनो न बुद्धयः ॥
महन्न वेदो वदतीति तत्परं
विशन्ति सर्वेऽनलविस्फुलिंगवत् ॥१५॥
हिरण्यगर्भः परमात्मतत्त्वं
यद्वासुदेवं प्रवदन्ति सन्तः ॥
विचार्य्य तद्देववरस्वरूपं
विसृज्य मोहं विचरेदसङ्गः ॥१६॥
यथेन्दुरेको जलपात्रवृंदगो
यथाग्निरेको विदितः समिच्चये ॥
तथा परात्मा भगवाननेकवि-
दन्तर्बहिः स्यात्स्वकृतेषु देहिषु ॥१७॥
सूर्योदये नैशतमो विलीयते
प्रदृश्यते वस्तु गृहे यथा जनैः ॥
ज्ञानोदये ज्ञानतमः प्रलीयते
संप्राप्यते ब्रह्म परं तनौ तथा ॥१८॥
यथेन्द्रियाणां च पृथक्प्रवृत्तिभि-
र्नानेव तेऽर्थोतिगुणाश्रयः परः ॥
एकं ह्यनंतस्य परस्य धाम त-
त्तथा मुनीनां किल शास्त्रधर्मभिः ॥१९॥
साक्षाद्धरिर्यः पुरुषोत्तमोत्तमः
श्रीकृष्णचन्द्रो निजभक्तवत्सलः ॥
कैवल्यनाथो नृगमुज्जहार तं
पूर्णं स्वयं ब्रह्म परं नमाम्यहम् ॥२०॥
श्रीनारद उवाच -
इत्युक्त्वा तमनुज्ञाप्य भगवान्बादरायणः ॥
पश्यतां यादवानां च तत्रैवांतरधीयत ॥२१॥
इदं मया ते कथितं हरिभक्तिविवर्द्धनम् ॥
विज्ञानखंडं विशदं श्रोतॄणां मोक्षदं स्मृतम् ॥२२॥
गर्गाचार्येण कथिता नाम्नेयं गर्गसंहिता ॥
सर्वदोषहरा पुण्या चतुर्वर्गफलप्रदा ॥२३॥
गोलोकवृंदावनयोर्गिरीश्वर-
माधुर्ययोः श्रीमथुरापुरस्य च ॥
द्वारावतीविश्वजितोर्हलायुध-
विज्ञानयोः खंडचयाः पृथङ् नव ॥२४॥
श्रीकृष्णमूर्तिः परमै रसैर्यथा
यथा च भूमिर्भरतादिभिर्भृशम् ॥
तथा हि शश्वन्मुनिगर्गसंहिता
विभाति खंडैर्नवभिर्नृपेश्वर ॥२५॥
यथा हि रत्नैर्नवभिर्विराजते
देवांगुलौ तप्तसुवर्णमुद्रिका ॥
तथा चतुर्वर्गफलप्रदे विधौ
सर्गैर्विसर्गैमुनिगर्गसंहिता ॥२६॥
नरेन्द्र शश्वन्मुनिसंहितां ये
शृण्वन्ति भक्त्या हि जनाः पुनीताः ॥
इहैव सौख्यं परमाप्नुवंत-
स्ततस्तु गोलोकपुरं प्रयांति ॥२७॥
कृत्वाथ पीताम्बरवन्दनं त्विमां
शृणोति वंध्या बहुलालसा भृशम् ॥
हृस्वेन कालेन गृहांगणे शिशू-
न्सञ्चारयन्ती विचरत्यहर्निशम् ॥२८॥
रोगी पुमान् रोगगणात्प्रमुच्यते
भीतो भयाद्बंधगतश्च बंधनात् ॥
श्रुत्वा कथां निर्धन एति वैभवं
मूर्खो भवेत्पंडित एव सत्वरम् ॥२९॥
यः कार्तिके मासि नृपः श्रिया युतः-
शृणोति शश्वन्मुनिगर्गसंहिताम् ॥
स चक्रवर्ती भविता न संशयो
नरेन्द्रहस्तोद्धृतचारुपादुकः ॥३०॥
मनोजवैः सिंधुतुरङ्गमैर्नवै-
र्द्विपैश्च विंध्याचलसंभवैः परैः ॥
वैतालिकोद्गीतयशा महीतले
निषेवितो वारवधूजनैः सह ॥३१॥
सुवर्णशृङ्गं वरताम्रपृष्ठं
सभूषणं रौप्यखुरं सवत्सम् ॥
ददाति खंडं प्रति गोद्वयं यः
प्राप्नोति सर्वं हि मनोरथं सः ॥३२॥
निष्कारणोऽसौ शृणुते विदेहराट्
सर्वामिमां वै मुनिगर्गसंहिताम् ॥
हृत्पुण्डरीके वसतेऽस्य सर्वदा
श्रीकृष्णचंद्रो निजभक्तवत्सलः ॥३३॥
श्रीगर्ग उवाच -
इत्युक्त्वा तमनुज्ञाप्य नारदो देवदर्शनः ॥
सर्वेषां पश्यतां ब्रह्मन्नंबरं गतवान्मुनिः ॥३४॥
बहुलाश्वो महाराजः श्रीकृष्णे लग्नमानसः ॥
सर्वतस्तु कृतार्थोऽभूच्छ्रुत्वेमां संहितां हरेः ॥३५॥
तव पश्नोपरि ब्रह्मन्कथिता संहिता मया ॥
श्रुता वा पठिता कैश्चित्कोटियज्ञफलप्रदा ॥३६॥
श्रीशौनक उवाच -
धन्योऽहं च कृतार्थोऽहं त्वत्संगेन महामुने ॥
प्राप्नोमि परमां भक्तिं श्रीकृष्णप्रेमवर्द्धिनीम् ॥३७॥
विशदहृदि मुनीनां मानसे राजहंसः
सकलसुखविराजन्नादमाधुर्य्यवंशः ॥
जगति विकलदंशः शूरवंशावतंसः
करबलहतकंसः पातु वः सत्प्रशंसः ॥३८॥
इत्युक्त्वा तान्मुनीन्सर्वान् गर्गाचार्यो महामुनिः ॥
अनुज्ञाप्य प्रसन्नात्मा गंतुमभ्युद्यतोऽभवत् ॥३९॥
नवसर्गविसर्गाढ्यां स्वर्गभृद्गर्गसंहिताम् ॥
चतुर्वर्गप्रदामुक्त्वा गर्गो गर्गाचलं ययौ ॥४०॥
शरद्विकचपंकजश्रियमतीव विद्वेषकं
मिलिंदमुनिलेढितं कुलिशकञ्जचिह्नावृतम् ॥
स्फुरत्कनकनूपुरं दलितभक्ततापत्रयं
चलद्द्युतिपदद्वयं हृदि दधामि राधापतेः ॥४१॥
इति श्रीगर्गसंहितायां विज्ञानखंडे श्रीनारदबहुलाश्वसंवादांतर्गत- श्रीव्यासोग्रसेनसंवादे परब्रह्मनिरूपणं नाम दशमोऽध्यायः ॥१०॥