गर्गसंहिता/खण्डः ८ (बलभद्रखण्डः)/अध्यायः १३

विकिस्रोतः तः
← गर्गसंहिता/खण्डः ८ (बलभद्रखण्डः)/अध्यायः १२ गर्गसंहिता/खण्डः ८ (बलभद्रखण्डः)/अध्यायः १३
गर्गमुनि
गर्गसंहिता/खण्डः ९ (विज्ञानखण्डः)/अध्यायः १ →


बलभद्रखण्डः - त्रयोदशोऽध्यायः

बलराम सहस्रनामम् -


दुर्योधन उवाच -
बलभद्रस्य देवस्य प्राड्‌विपाक महामुने ॥
 नाम्नां सहस्रं मे ब्रूहि गुह्यं देवगणैरपि ॥१॥
 प्राड्‌विपाक उवाच -
साधु साधु महाराज साधु ते विमलं यशः ॥
 यत्पृच्छसे परमिदं गर्गोक्तं देवदुर्लभम् ॥२॥
 नाम्नां सहस्रं दिव्यानां वक्ष्यामि तव चाग्रतः ॥
 गर्गाचार्येण गोपीभ्यो दत्तं कृष्णातटे शुभे ॥३॥
 ॐअस्य श्रीबलभद्रसहस्रनामस्त्रोत्रमंत्रस्य
 गर्गाचार्य ऋषिः अनुष्टुप् छन्दः संकर्षणः
 परमात्मा देवता बलभद्र इति बीजं रेवतीति शक्तिः
 अनंत इति कीलकं बलभद्रप्रीत्यर्थे जपे विनियोगः ॥
 अथ ध्यानम्
 स्फुरदमलकिरीटं किंकिणीकंकणार्हं
 चलदलककपोलं कुंडलश्रीमुखाब्जम् ॥
 तुहिनगिरिमनोज्ञं नीलमेघांबराढ्यं
 हलमुसलविशालं कामपालं समीडे ॥४॥
 ॐ बलभद्रो रामभद्रो रामः संकर्षणोऽच्युतः ॥
 रेवतीरमणो देवः कामपालो हलायुधः ॥५॥
 नीलांबरः श्वेतवर्णो बलदेवोऽच्युताग्रजः ॥
 प्रलंबघ्नो महावीरो रौहिणेयः प्रतापवान् ॥६॥
 तालांको मुसली हली हरिर्यदुवरो बली ॥
 सीरपाणिः पद्मपाणिर्लगुडी वेणुवादनः ॥७॥
 कालिंदिभेदनो वीरो बलः प्रबल ऊर्ध्वगः ॥
 वासुदेवकलानन्तः सहस्रवदनः स्वराट् ॥८॥
 वसुर्वसुमतीभर्ता वासुदेवो वसूत्तमः ॥
 यदूत्तमो यादवेन्द्रो माधवो वृष्णिवल्लभः ॥९॥
 द्वारकेशो माथुरेशो दानी मानी महामनाः ॥
 पूर्णः पुराणः पुरुषः परेशः परमेश्वरः ॥१०॥
 परिपूर्णतमः साक्षात्परमः पुरुषोत्तमः ॥
 अनन्तः शाश्वतः शेषो भगवान्प्रकृतेः परः ॥११॥
 जीवात्मा परमात्मा च ह्यंतरात्मा ध्रुवोऽव्ययः ॥
 चतुर्व्यूहश्चतुर्वेद-श्चतुर्मूर्तिश्चतुष्पदः ॥१२॥
 प्रधानं प्रकृतिः साक्षी संघातः संघवान् सखी ॥
 महामना बुद्धिसखश्चेतोऽहंकार आवृतः ॥१३॥
 इन्द्रियेशो देवातात्मा ज्ञानं कर्म च शर्म च ॥
 अद्वितीयो द्वितीयश्च निराकारो निरञ्जनः ॥१४॥
 विराट् सम्राट् महौघश्च धारः स्थास्नुश्चरिष्णुमान् ॥
 फणीन्द्रः फणिराजश्च सहस्रफणमण्डितः ॥१५॥
 फणीश्वरः फणी स्फूर्तिः फूत्कारी चीत्करः प्रभुः ॥
 मणिहारो मणिधरो वितली सुतली तली ॥१६॥
 अतली सुतलेशश्च पातालश्च तलातलः ॥
 रसातलो भोगितलः स्फुरद्दन्तो महातलः ॥१७॥
 वासुकिः शंखचूडाभो देवदत्तो धनंजयः ॥
 कंबलाश्वो वेगतरो धृतराष्ट्रो महाभुजः ॥१८॥
 वारुणीमदमत्ताङ्गो मदघूर्णितलोचनः ॥
 पद्माक्षः पद्ममाली च वनमाली मधुश्रवाः ॥१९॥
 कोटिकंदर्पलावण्यो नागकन्यासमर्चितः ॥
 नूपुरी कटिसूत्री च कटकी कनकांगदी ॥२०॥
 मुकुटी कुण्डली दण्डी शिखण्डी खंडमंडली ॥
 कलिः कलिप्रियः कालो निवातकवचेश्वरः ॥२१॥
 संहारकद्रुर्द्रवयुः कालाग्निः प्रलयो लयः ॥
 महाहिः पाणिनिः शास्त्रभाष्यकारः पतञ्जलिः ॥२२॥
 कात्यायनः पक्विमाभः स्फोटायन उरङ्गमः ॥
 वैकुंठो याज्ञिको यज्ञो वामनो हरिणो हरिः ॥२३॥
 कृष्णो विष्णुर्महाविष्णुः प्रभविष्णुर्विशेषवित् ॥
 हंसो योगेश्वरः कूर्मो वाराहो नारदो मुनिः ॥२४॥
 सनकः कपिलो मत्स्यः कमठो देवमंगलः ॥
 दत्तात्रेयः पृथुर्वृद्ध ऋषभो भार्गवोत्तमः ॥२५॥
 धन्वन्तरिर्नृसिंहश्च कलिर्नारायणो नरः ॥
 रामचन्द्रो राघवेन्द्रः कोशलेन्द्रो रघूद्वहः ॥२६॥
 काकुत्स्थः करुणासिंधू राजेन्द्रः सर्वलक्षणः ॥
 शूरो दाशरथिस्त्राता कौसल्यानन्दवर्द्धनः ॥२७॥
 सौमित्रिर्भरतो धन्वी शत्रुघ्नः शत्रुतापनः ॥
 निषंगी कवची खड्गी शरी ज्याहतकोष्ठकः ॥२८॥
 बद्धगोधाङ्गुलित्राणः शंभुकोदण्डभंजनः ॥
 यज्ञत्राता यज्ञभर्ता मारीचवधकारकः ॥२९॥
 असुरारिस्ताटकारिर्विभीषणसहायकृत् ॥
 पितृवाक्यकरो हर्षी विराधारिर्वनेचरः ॥३०॥
 मुनिर्मुनिप्रियश्चित्र-कूटारण्यनिवासकृत् ॥
 कबंधहा दण्डकेशो रामो राजीवलोचनः ॥३१॥
 मतंगवनसंचारी नेता पंचवटीपतिः ॥
 सुग्रीवः सुग्रीवसखो हनुमत्प्रीतमानसः ॥३२॥
 सेतुबन्धो रावणारि-र्लंकादहनतत्परः ॥
 रावण्यरिः पुष्पकस्थो जानकीविरहातुरः ॥३३॥
 अयोध्याधिपतिः श्रीमाँल्लवणारिः सुरार्चितः ॥
 सूर्यवंशी चंद्रवंशी वंशीवाद्यविशारदः ॥३४॥
 गोपतिर्गोपवृंदेशो गोपो गोपीशतावृतः ॥
 गोकुलेशो गोपपुत्रो गोपालो गोगणाश्रयः ॥३५॥
 पूतनारिर्बकारिश्च तृणावर्तनिपातकः ॥
 अघारिर्धेनुकारिश्च प्रलंबारिर्व्रजेश्वरः ॥३६॥
 अरिष्टहा केशिशत्रुर्व्योमासुरविनाशकृत् ॥
 अग्निपानो दुग्धपानो वृंदावनलताश्रितः ॥३७॥
 यशोमतीसुतो भव्यो रोहिणीलालितः शिशुः ॥
 रासमंडलमध्यस्थो रासमंडलमंडनः ॥३८॥
 गोपिकाशतयूथार्थी शंखचूडवधोद्यतः ॥
 गोवर्धनसमुद्धर्ता शक्रजिद्‍व्रजरक्षकः ॥३९॥
 वृषभानुवरो नंद आनन्दो नन्दवर्धनः ॥
 नन्दराजसुतः श्रीशः कंसारिः कालियांतकः ॥४०॥
 रजकारिर्मुष्टिकारिः कंसकोदण्डभंजनः ॥
 चाणूरारिः कूटहंता शलारिस्तोशलांतकः ॥४१॥
 कंसभ्रातृनिहन्ता च मल्लयुद्धप्रवर्तकः ॥
 गजहन्ता कंसहन्ता कालहन्ता कलङ्कहा ॥४२॥
 मागधारिर्यवनहा पांडुपुत्रसहायकृत् ॥
 चतुर्भुजः श्यामलांगः सौम्यश्चौपगविप्रियः ॥४३॥
 युद्धभृदुद्धवसखा मन्त्री मन्त्रविशारदः ॥
 वीरहा वीरमथनः शंखचक्रगदाधरः ॥४४॥
 रेवतीचित्तहर्ता च रेवतीहर्षवर्द्धनः ॥
 रेवतीप्राणनाथश्च रेवतीप्रियकारकः ॥४५॥
 ज्योतिर्ज्योतिष्मतीभर्ता रैवताद्रिविहारकृत् ॥
 धृतिनाथो धनाध्यक्षो दानाध्यक्षो धनेश्वरः ॥४६॥
 मैथिलार्चितपादाब्जो मानदो भक्तवत्सलः ॥
 दुर्योधनगुरुर्गुर्वीगदाशिक्षाकरः क्षमी ॥४७॥
 मुरारिर्मदनो मन्दोऽनिरुद्धो धन्विनां वरः ॥
 कल्पवृक्षः कल्पवृक्षी कल्पवृक्षवनप्रभुः ॥४८॥
 स्यमन्तकमणिर्मान्यो गांडीवी कौरवेश्वरः ॥
 कुम्भाण्डखण्डनकरः कूपकर्णप्रहारकृत् ॥४९॥
 सेव्यो रैवतजामाता मधुमाधवसेवितः ॥
 बलिष्ठपुष्टसर्वांगो हृष्टः पुष्टः प्रहर्षितः ॥५०॥
 वाराणसीगतः क्रुद्धः सर्वः पौंड्रकघातकः ॥
 सुनन्दी शिखरी शिल्पी द्विविदांगनिषूदनः ॥५१॥
 हस्तिनापुरसंकर्षी रथी कौरवपूजितः ॥
 विश्वकर्मा विश्वधर्मा देवशर्मा दयानिधिः ॥५२॥
 महाराजच्छत्रधरो महाराजोपलक्षणः ॥
 सिद्धगीतः सिद्धकथः शुक्लचामरवीजितः ॥५३॥
 ताराक्षः कीरनासश्च बिम्बोष्ठः सुस्मितच्छविः ॥
 करीन्द्रकरदोर्दंडः प्रचंडो मेघमण्डलः ॥५४॥
 कपाटवक्षाः पीनांसः पद्मपादस्फुरद्द्युतिः ॥
 महविभूतिर्भूतेशो बंधमोक्षी समीक्षणः ॥५५॥
 चैद्यशत्रुः शत्रुसंधो दंतवक्त्रनिषूदकः ॥
 अजातशत्रुः पापघ्नो हरिदाससहायकृत् ॥५६॥
 शालबाहुः शाल्वहन्ता तीर्थयायी जनेश्वरः ॥
 नैमिषारण्ययात्रार्थी गोमतीतीरवासकृत् ॥५७॥
 गंडकीस्नानवान्स्रग्वी वैजयन्तीविराजितः ॥
 अम्लानपंकजधरो विपाशी शोणसंप्लुतः ॥५८॥
 प्रयागतीर्थराजश्च सरयूः सेतुबन्धनः ॥
 गयाशिरश्च धनदः पौलस्त्यः पुलहाश्रमः ॥५९॥
 गंगासागरसंगार्थी सप्तगोदावरीपतिः ॥
 वेणि भीमरथी गोदा ताम्रपर्णी वटोदका ॥६०॥
 कृतमाला महापुण्या कावेरी च पयस्विनी ॥
 प्रतीची सुप्रभा वेणी त्रिवेणी सरयूपमा ॥६१॥
 कृष्णा पंपा नर्मदा च गंगा भागीरथी नदी ॥
 सिद्धाश्रमः प्रभासश्च बिन्दुर्बिन्दुसरोवरः ॥६२॥
 पुष्करः सैंधवो जंबू नरनारायणाश्रमः ॥
 कुरुक्षेत्रपती रामो जामदग्न्यो महामुनिः ॥६३॥
 इल्वलात्मजहन्ता च सुदामासौख्यदायकः ॥
 विश्वजिद्विश्वनाथश्च त्रिलोकविजयी जयी ॥६४॥
 वसन्तमालतीकर्षी गदो गद्यो गदाग्रजः ॥
 गुणार्णवो गुणनिधिर्गुणपात्रो गुणाकरः ॥६५॥
 रंगवल्लीजलाकारो निर्गुणः सगुणो बृहत् ॥
 दृष्टः श्रुतो भवद्‍भूतो भविष्यच्चाल्पविग्रहः ॥६६॥
 अनादिरादिरानन्दः प्रत्यग्धामा निरन्तरः ॥
 गुणातीतः समः साम्यः समदृङ् निर्विकल्पकः ॥६७॥
 गूढाव्यूढो गुणो गौणो गुणाभासो गुणावृतः ॥
 नित्योऽक्षरो निर्विकारोऽक्षरोऽजस्रसुखोऽमृतः ॥६८॥
 सर्वगः सर्ववित्सार्थः समबुद्धिः समप्रभः ॥
 अक्लेद्योऽच्छेद्य आपूर्णो शोष्यो दाह्यो निवर्तकः ॥६९॥
 ब्रह्म ब्रह्मधरो ब्रह्मा ज्ञापको व्यापकः कविः ॥
 अध्यात्मकोऽधिभूतश्चाधिदैवः स्वाश्रयाश्रयः ॥७०॥
 महावायुर्महावीरश्चेष्टारूपतनुस्थितः ॥
 प्रेरको बोधको बोधी त्रयोविंशतिको गणः ॥७१॥
 अंशांशश्च नरावेशोऽवतारो भूपरिस्थितः ॥
 महर्जनस्तपःसत्यं भूर्भुवःस्वरिति त्रिधा ॥७२॥
 नैमित्तिकः प्राकृतिक आत्यंतिकमयो लयः ॥
 सर्गो विसर्गः सर्गादिर्निरोधो रोध ऊतिमान् ॥७३॥
 मन्वन्तरावतारश्च मनुर्मनुसुतोऽनघः ॥
 स्वयंभूः शांभवः शंकुः स्वायंभुवसहायकृत् ॥७४॥
 सुरालयो देवगिरिर्मेरुर्हेमार्चितो गिरिः ॥
 गिरिशो गणनाथश्च गिरीशो गिरिगह्वरः ॥७५॥
 विंध्यस्त्रिकूटो मैनाकः सुवेलः पारिभद्रकः ॥
 पतंगः शिशिरः कंको जारुधिः शैलसत्तमः ॥७६॥
 कालंजरो बृहत्सानुर्दरीभृन्नंदिकेश्वरः ॥
 संतानस्तरुराजश्च मन्दारः पारिजातकः ॥७७॥
 जयंतकृज्जयंतांगो जयन्तीदिग्जयाकुलः ॥
 वृत्रहा देवलोकश्च शशी कुमुदबांधवः ॥७८॥
 नक्षत्रेशः सुधासिंधुर्मृगः पुष्यः पुनर्वसुः ॥
 हस्तोऽभिजिच्च श्रवणो वैधृतिर्भास्करोदयः ॥७९॥
 ऐन्द्रः साध्यः शुभः शुक्लो व्यतीपातो ध्रुवः सितः ॥
 शिशुमारो देवमयो ब्रह्मलोको विलक्षणः ॥८०॥
 रामो वैकुण्ठनाथश्च व्यापी वैकुण्ठनायकः ॥
 श्वेतद्वीपो जितपदो लोकालोकाचलाश्रितः ॥८१॥
 भूमिर्वैकुण्ठदेवश्च कोटिब्रह्मांडकारकः ॥
 असंख्यब्रह्मांडपति-र्गोलोकेशो गवां पतिः ॥८२॥
 गोलोकधामधिषणो गोपिकाकंठभूषणः ॥
 श्रीधारः श्रीधरो लीलाधरो गिरिधरो धुरी ॥८३॥
 कुंतधारी त्रिशूली च बीभत्सी घर्घरस्वनः ॥
 शूलसूच्यर्पितगजो गजचर्मधरो गजी ॥८४॥
 अंत्रमाली मुण्डमाली व्याली दंडकमण्डलुः ॥
 वेतालभृद्‌भूतसंघः कूष्मांडगणसंवृतः ॥८५॥
 प्रमथेशः पशुपतिर्मृडानीशो मृडो वृषः ॥
 कृतांतकालसंघारिः कूटः कल्पांतभैरवः ॥८६॥
 षडाननो वीरभद्रो दक्षयज्ञविघातकः ॥
 खर्पराशी विषाशी च शक्तिहस्तः शिवार्थदः ॥८७॥
 पिनाकटंकारकरश्चलज्झंकारनूपुरः ॥
 पंडितस्तर्कविद्वान्वै वेदपाठी श्रुतीश्वरः ॥८८॥
 वेदांतकृत्सांख्यशास्त्री मीमांसी कणनामभाक् ॥
 काणादिर्गौतमो वादी वादो नैयायिको नयः ॥८९॥
 वैशेषिको धर्मशास्त्री सर्वशास्त्रार्थतत्त्वगः ॥
 वैयाकरणकृच्छंदो वैयासः प्राकृतिर्वचः ॥९०॥
 पाराशरीसंहितावित्काव्यकृन्नाटकप्रदः ॥
 पौराणिकः स्मृतिकरो वैद्यो विद्याविशारदः ॥९१॥
 अलंकारो लक्षणार्थो व्यंग्यविद्धनवद्‍ध्वनिः ॥
 वाक्यस्फोटः पदस्फोटः स्फोटवृत्तिश्च सार्थवित् ॥९२॥
 शृङ्गार उज्ज्वलः स्वच्छोऽद्‌भुतो हास्यो भयानकः ॥
 अश्वत्थो यवभोजी च यवक्रीतो यवाशनः ॥९३॥
 प्रह्लादरक्षकः स्निग्ध ऐलवंशविवर्द्धनः ॥
 गताधिरंबरीषांगो विगाधिर्गाधिनां वरः ॥९४॥
 नानामणिसमाकीर्णो नानारत्‍नविभूषणः ॥
 नानापुष्पधरः पुष्पी पुष्पधन्वा प्रपुष्पितः ॥९५॥
 नानाचंदनगंधाढ्यो नानापुष्परसार्चितः ॥
 नानावर्णमयो वर्णो नानावस्त्रधरः सदा ॥९६॥
 नानापद्मकरः कौशी नानाकौशेयवेषधृक् ॥
 रत्‍नकंबलधारी च धौतवस्त्रसमावृतः ॥९७॥
 उत्तरीयधरः पर्णो घनकंचुकसंघवान् ॥
 पीतोष्णीषः सितोष्णीषो रक्तोष्णीषो दिगंबरः ॥९८॥
 दिव्यांगो दिव्यरचनो दिव्यलोकविलोकितः ॥
 सर्वोपमो निरुपमो गोलोकाङ्गीकृताङ्गणः ॥९९॥
 कृतस्वोत्संगगो लोकः कुण्डलीभूत आस्थितः ॥
 माथुरो माथुरादर्शी चलत्खंजनलोचनः ॥१००॥
 दधिहर्ता दुग्धहरो नवनीतसिताशनः ॥
 तक्रभुक् तक्रहारी च दधिचौर्यकृतश्रमः ॥१०१॥
 प्रभावतीबद्धकरो दामी दामोदरो दमी ॥
 सिकताभूमिचारी च बालकेलिर्व्रजार्भकः ॥१०२॥
 धूलिधूसरसर्वांगः काकपक्षधरः सुधीः ॥
 मुक्तकेशो वत्सवृंदः कालिंदीकूलवीक्षणः ॥१०३॥
 जलकोलाहली कूली पङ्कप्रांगणलेपकः ॥
 श्रीवृंदावनसंचारी वंशीवटतटस्थितः ॥१०४॥
 महावननिवासी च लोहार्गलवनाधिपः ॥
 साधुः प्रियतमः साध्यः साध्वीशो गतसाध्वसः ॥१०५॥
 रंगनाथो विठ्ठलेशो मुक्तिनाथोऽघनाशकः ॥
 सुकिर्तिः सुयशाः स्फीतो यशस्वी रंगरंजनः ॥१०६॥
 रागषट्को रागपुत्रो रागिणीरमणोत्सुकः ॥
 दीपको मेघमल्हारः श्रीरागो मालकोशकः ॥१०७॥
 हिन्दोलो भैरवाख्यश्च स्वरजातिस्मरो मृदुः ॥
 तालो मानप्रमाणश्च स्वरगम्यः कलाक्षरः ॥१०८॥
 शमी श्यामी शतानन्दः शतयामः शतक्रतुः ॥
 जागरः सुप्त आसुप्तः सुषुप्तः स्वप्न उर्वरः ॥१०९॥
 उर्जः स्फूर्जो निर्जरश्च विज्वरो ज्वरवर्जितः ॥
 ज्वरजिज्ज्वरकर्ता च ज्वरयुक् त्रिज्वरो ज्वरः ॥११०॥
 जांबवान् जंबुकाशंकी जंबूद्वीपो द्विपारिहा ॥
 शाल्मलिः शाल्मलिद्वीपः प्लक्षः प्लक्षवनेश्वरः ॥१११॥
 कुशधारी कुशः कौशी कौशिकः कुशविग्रहः ॥
 कुशस्थलीपतिः काशीनाथो भैरवशासनः ॥११२॥
 दाशार्हः सात्वतो वृष्णिर्भोजोऽधकनिवासकृत् ॥
 अंधको दुन्दुभिर्द्योतः प्रद्योतः सात्वतां पतिः ॥११३॥
 शूरसेनोऽनुविषयो भोजवृष्ण्यंधकेश्वरः ॥
 आहुकः सर्वनीतिज्ञ उग्रसेनो महोग्रवाक् ॥११४॥
 उग्रसेनप्रियः प्रार्थ्यः पार्थो यदुसभापतिः ॥
 सुधर्माधिपतिः सत्त्वं वृष्णिचक्रावृतो भिषक् ॥११५॥
 सभाशीलः सभादीपः सभाग्निश्च सभारविः ॥
 सभाचंद्रः सभाभासः सभादेवः सभापतिः ॥११६॥
 प्रजार्थदः प्रजाभर्ता प्रजापालनतत्परः ॥
 द्वारकादुर्गसंचारी द्वारकाग्रहविग्रहः ॥११७॥
 द्वारकादुःखसंहर्ता द्वारकाजनमंगलः ॥
 जगन्माता जगत्त्राता जगद्‌भर्ता जगत्पिता ॥११८॥
 जगद्‌बंधुर्जगद्‌भ्राता जगन्मित्रो जगत्सखः ॥
 ब्रह्मण्यदेवो ब्रह्मण्यो ब्रह्मपादरजो दधत् ॥११९॥
 ब्रह्मपादरजःस्पर्शी ब्रह्मपादनिषेवकः ॥
 विप्रांघ्रिजलपूतांगो विप्रसेवापरायणः ॥१२०॥
 विप्रमुख्यो विप्रहितो विप्रगीतमहाकथः ॥
 विप्रपादजलार्द्राङ्गो विप्रपादोदकप्रियः ॥१२१॥
 विप्रभक्तो विप्रगुरुर्विप्रो विप्रपदानुगः ॥
 अक्षौहिणीवृतो योद्धा प्रतिमापंचसंयुतः ॥१२२॥
 चतुरोंऽगिराः पद्मवर्ती सामंतोद्‍धृतपादुकः ॥
 गजकोटिप्रयायी च रथकोटिजयध्वजः ॥१२३॥
 महारथश्चातिरथो जैत्रं स्यंदनमास्थितः ॥
 नारायणास्त्री ब्रह्मास्त्री रणश्लाघी रणोद्‌भटः ॥१२४॥
 मदोत्कटो युद्धवीरो देवासुरभयंकरः ॥
 करिकर्णमरुत्प्रेजत्कुंतलव्याप्तकुंडलः ॥१२५॥
 अग्रगो वीरसंमर्दो मर्दलो रणदुर्मदः ॥
 भटः प्रतिभटः प्रोच्यो बाणवर्षी सुतोयदः ॥१२६॥
 खड्गखंडितसर्वांगः षोडशाब्दः षडक्षरः ॥
 वीरघोषः क्लिष्टवपुर्वज्रांगो वज्रभेदनः ॥१२७॥
 रुग्णवज्रो भग्नदंडः शत्रुनिर्भत्सनोद्यतः ॥
 अट्टहासः पट्टधरः पट्टराज्ञीपतिः पटुः ॥१२८॥
 कलः पटहवादित्रो हुंकारो गर्जितस्वनः ॥
 साधुर्भक्तपराधीनः स्वतंत्रः साधुभूषणः ॥१२९॥
 अस्वतंत्रः साधुमयः साधुग्रस्तमना मनाक् ॥
 साधुप्रियः साधुधनः साधुज्ञातिः सुधाघनः ॥१३०॥
 साधुचारी साधुचित्तः साधुवासी शुभास्पदः ॥
 इति नाम्नां सहस्रं तु बलभद्रस्य कीर्तितम् ॥ १३१॥
 सर्वसिद्धिप्रदं नॄणां चतुर्वर्गफलप्रदम् ॥
 शतवारं पठेद्यस्तु स विद्यावान् भवेदिह ॥१३२॥
 इन्दिरां च विभूतिं चाभिजनं रूपमेव च ॥
 बलमोजश्च पठनात्सर्वं प्राप्नोति मानवः ॥१३३॥
 गंगाकूलेऽथ कालिंदिकूले देवालये तथा ॥
 सहस्रावर्तपाठेन बलात्सिद्धिः प्रजायते ॥१३४॥
 पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥
 बंधात्प्रमुच्यते बद्धो रोगी रोगान्निवर्तते ॥१३५॥
 अयुतावर्तपाठे च पुरश्चर्याविधानतः ॥
 होमतर्पणगोदानविप्रार्चनकृतोद्यमात् ॥१३६॥
 पटलं पद्धतिं स्तोत्रं कवचं तु विधाय च ॥
 महामंडलभर्ता स्यान्मंडितो मंडलेश्वरैः ॥१३७॥
 मत्तेभकर्णप्रहिता मदगंधेन विह्वला ॥
 अलंकरोति तद्द्वारां भ्रमद्‍भृंगावली भृशम् ॥१३८॥
 निष्कारणः पठेद्यस्तु प्रीत्यर्थं रेवतीपतेः ॥
 नाम्नां सहस्रं राजेंद्र स जीवन्मुक्त उच्यते ॥१३९॥
 सदा वसेत्तस्य गृहे बलभद्रोऽच्युताग्रजः ॥
 महापातक्यपि जनः पठेन्नामसहस्रकम् ॥१४०॥
 छित्त्वा मेरुसमं पापं भुक्त्वा सर्वसुखं त्विह ॥
 परात्परं महाराज गोलोकं धाम याति हि ॥१४१॥
 श्रीनारद उवाच -
इति श्रुत्वाऽच्युताग्रजस्य बलदेवस्य पंचांगं
 धृतिमान् धार्तराष्ट्रः सपर्यया सहितया परया
 भक्त्या प्राड्‌विपाकं पूजयामास ॥ तमनुज्ञाप्याशिषं दत्वा
 प्राड्‌विपाको मुनींद्रो गजाह्वयात्स्वाश्रमं जगाम ॥१४२॥
 भगवतोऽनंतस्य बलभद्रस्य परब्रह्मणः कथां
 यः शृणुते श्रावयते तयाऽऽनंदमयो भवति ॥१४३॥
 इदं मया ते कथितं नृपेन्द्र
     सर्वार्थदं श्रीबलभद्रखंडम् ॥
 शृणोति यो धाम हरेः स याति
     विशोकमानंदमखंडरूपम् ॥१४४॥


इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्‌विपाकदुर्योधनसंवादे
बलभद्रसहस्रनामवर्णनं नाम त्रयोदशोऽध्यायः ॥१३॥


 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥