गर्गसंहिता/खण्डः ८ (बलभद्रखण्डः)/अध्यायः ०३

विकिस्रोतः तः
Jump to navigation Jump to search
← गर्ग संहिता/खण्डः ८ (बलभद्र खण्ड)/अध्यायः ०२ गर्गसंहिता/खण्डः ८ (बलभद्रखण्डः)/अध्यायः ०३
गर्गमुनि
गर्ग संहिता/खण्डः ८ (बलभद्र खण्ड)/अध्यायः ०४ →


बलभद्रखण्डः - तृतीयोऽध्यायः

ज्योतिष्मती उपाख्यानम् -


प्राड्‌विपाक उवाच -
अथागता कोटिशरच्चंद्रमंडलप्रतीकाशा नागलक्ष्मीर्महारथस्था
 सखी कोटिमण्डलमण्डिता संकर्षणं महानंतं भर्तारं सभायां प्राह ॥१॥
 अहमपि त्वया सहैव भगवन् भुवमागमिष्यामि
 त्वद्वियोगातुरा प्राणान्न धारयामि ॥२॥
 इति बाष्पकंठीं प्रियां संप्रेक्ष भगवाननंतः
 सर्वभक्तदुःखनिवारणो महेंद्रवारण इव
 भोगावारण इति होवाच ॥३॥
 रंभोरु त्वं रेवतीविग्रहे संलीना भूत्वा
 भूलोकं भजतान्मा शोकं कुरुतात् ॥४॥
 तच्छ्रुत्वा नागलक्ष्मीः प्रत्युवाच रेवती का कस्य
 सुता क्व वर्तमाना नितरां वदैतत्तच्छ्रुत्वा
 भगवाननंतः सस्मितः स्वप्रियां प्रत्युवाच ॥५॥
 आदिसर्गे कश्यपस्य कद्रुसुतो ह्यहं जातः
 श्रीकृष्णाज्ञया त्वखंडभूखंडमंडलं गजराडिव चैकफणे
 कमण्डलुमिव धृत्वा सर्वतोऽधस्ताद्विराजमानोऽहं बभूव ॥६॥
 अथ मयि स्थिते चक्षुषः पुत्रोऽतिबलश्चाक्षुषो नाम मनुः
 सप्तद्वीपभूखंडमंडलेषु मण्डलपतिभिर्घृष्टपादपुंडरीकः
 पुरंदरादिभिर्लंघितचंडशासनः प्रचंडदोर्दंडाविखंडितारिदोर्दंडः
 सर्वगुणमंडितः सम्राड्बभूव ॥७॥
 तस्य मनोः सुद्युम्नाद्याः पुत्रा बभूवुः ॥
 तस्य यज्ञकुंडसमुद्‌भवा कन्या ज्योतिष्मती जाता ॥८॥
 एकदा स्नेहाच्चाक्षुषः पुत्रीं पप्रच्छ कीदृशं वरमिच्छसीति वद ॥
 सा तदोवाच यः सर्वेषां बलवान्स मे वरो भूयात् ॥९॥
 तच्छ्रुत्वा राजा शक्रं बलवंतं ज्ञात्वा तमाजुहाव ॥ तदैव सद्यः
 समागतं वज्रिणं पुरःस्थितं सादरेणासनं दत्वा मनुः प्राह ॥१०॥
 त्वत्तः कोऽपि बलवान् वर्तते न वा तत्सत्यं वद
 न चेत्स्मृतिः "न हि सत्यात्परो धर्म इति होवाच भूरियम् ॥
 सर्वं सोढुमलं मन्ये ऋतेऽलीकपरं नरम्" ॥११॥
 इन्द्र उवाच -
अहं बलवान्नास्मि मत्तो बलवान् वायुरस्ति
 तेन सहायेन कार्य करोमीत्युक्त्वा गते
 शक्रे राजा वायुमाजुहावाह च त्वत्तः कोऽपि
 बलवान् वर्तते सत्यं वदतात् ॥१२॥
 वायुरुवाच -
मत्तो बलवंतः पर्वताः संति मद्वेगेन नोड्डीयमाना
 इत्युक्त्वा गते वायौ राजा पर्वतानाजुहावाह च
 भवद्‌भ्यः कोऽपि कौ बलवान् वर्तते तत्सत्यं वदत ॥१३॥
 पर्वताः प्राहुरस्मद्धारणाद्‍भूखंडं बलवद्वर्तते यत्र वयं स्थिताः
 स्मः ॥ पर्वतेषु गतेषु भूखंडमंडलं समाहूय राजा प्राह
 त्वत्तः कोऽपि बलवान् वर्तते न वा सत्यं वद ॥१४॥
 तच्छ्रुत्वा भूखण्ड उवाच -
मत्तो बलवान्संकर्षणो भगवान् वर्तते ॥
 सोऽयं सदाऽनन्तोऽनंतगुणार्णव आदिदेवो
 वासुदेवः सहस्रवदनो नागेंद्र इव भव्यवपुः
 कैलास इव शुक्लप्रकाशः कोटिसूर्यप्रतिभासः
 कोटिकंदर्पहारिलावण्येन विभ्राजमानः कमलपत्राक्षः
 कमलकर्णिकादिव्यविमलमालानिर्मलपरिलोभित-
मधुकरनिकरसंगीयमानः सिद्धचारणगंधर्व-
विद्याधरवरगणैरुपगीयमानः सुरासुरोरगमुनिगणैः
 संध्यायमानः सर्वोपरि विराजमान आस्ते ॥१५॥
 यस्यैकस्मिन्मूर्ध्नि सगिरिसरित्समुद्रवनजीवकोटिमण्डितं-
भूखंडमंडलमहं दृशे ॥ यन्नामानुकीर्तनात्त्रिलोक्यां
 त्रैलोक्यघात्यपि कैवल्यं प्राप्नोति ॥१६॥
 एवंप्रभावो भगवान् सर्वतो बलवान्सर्वकारणकारणः
 सर्वेश्वरो दुरंतवीर्य्यो मूले रसायाः
 स्थितस्तस्मात्परः कोऽपि नास्ति ॥१७॥
 महानंत उवाच -
इत्युक्त्वा गते भूखंडे चाक्षुषः कन्या ज्योतिष्मती
 मम माधुर्यप्रभावं विज्ञाय पित्राज्ञां गृहीत्वा विंध्याचले
 मत्प्राप्त्यर्थं वर्षाणां लक्षाणि ब्रह्मतपस्तेपे ॥१८॥
 ग्रीष्मे पंचाग्नितप्ता वर्षासु सर्वासारधारिणी शिशिर
 आकंठमग्ना शीतोदके भूत्वा स्थण्डीलशायिनी बभूव ॥१९॥


इति श्रीगर्गसंहितायां बलभद्रखण्डे
ज्योतिष्मत्युपाख्यानं नाम तृतीयोऽध्यायः ॥३॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥





वर्गःगर्ग संहिता