गर्गसंहिता/खण्डः ७ (विश्वजित्खण्डः)/अध्यायः ४८

विकिस्रोतः तः
Jump to navigation Jump to search

प्रद्युम्नस्य द्वारकाप्रत्यावर्तनम्

श्रीनारद उवाच -
स्वपुरे पतितो मूर्च्छां गतः शक्रसखो भृशम् ॥
उत्तस्थौ च क्षणं तत्र किंचिद्‍व्याकुलमानसः ॥१॥
अथ कार्ष्णिं परं ब्रह्म ज्ञात्वा शक्रसखस्त्वरन् ॥
स्वसकाशाद्‌बलं नीत्वा यदूनां च बलं ययौ ॥२॥
ऐरावतकुलेभाश्च त्रिशुंडा दंडदंतिनः ॥
चतुर्दंता श्वेतवर्णाः सहस्राणि मदच्युतः ॥३॥
हेमाद्रिप्रभवा नागा योजनद्वयविग्रहाः ॥
कोटिशः पर्वताकारा उन्मत्ता दिग्गजा इव ॥४॥
दिव्यास्या दिव्यगतयः कोटिशः कोटिशो नृप ॥
शतार्बुदा रथा दिव्याः शातकौंभमयाः पराः ॥५॥
अयुतानि विमानानां योजनद्वयशालिनाम् ॥
नियुतं कामधेनूनां पारिजातसहस्रकम् ॥६॥
करिदन्तखचित्स्तंभ-हेमरत्‍नखचित्पदाः ॥
मुक्तास्तडागसंवृद्धा गुणयंत्रस्फुरत्प्रभाः ॥७॥
मल्लिकामकरन्दार्द्राः शिरीषकुसुमाकुलाः ॥
पयःफेननिभाः शय्याः कोटिशः सोपबर्हणाः ॥८॥
वितानानि विचित्राणि भित्तिवस्त्राणि कोटिशः ॥
आसनानि मृदुस्पर्श-चित्रवर्णानि सर्वशः ॥९॥
दीर्घाणि चोपबर्हाणि विश्वकर्मकृतानि च ॥
मुक्तास्तबकहेमाद्यैः खचितानि सहस्रशः ॥१०॥
सहस्रशो जवनिकाः शिबिकाश्चैव कोटिशः ॥
छत्राणां चामराणां च दिव्यसिंहासनैः सह ॥११॥
व्यजनानां तथा कोटी राज्यश्रीभूषणानि च ॥
पीयूषाणां द्रोणकोटिः सुधर्मा च सभा तथा ॥१२॥
एवं च सर्वतोभद्रपद्मानीति सहस्रकम् ॥
हीरकाणां च हरितां मुक्तानां च तथैव हि ॥१३॥
गोमेदानां कोटिभारा नीलकानां तथैव च ॥
अदित्यचंद्रकांतीनां वैदूर्याणां सहस्रशः ॥१४॥
स्यमन्तकमणीनां च कोटिभाराः समागताः ॥
तथा वै पद्मरागाणां भारा विद्ध्यर्बुदं नृप ॥१५॥
जांबूनदसुवर्णानां हाटकानां तथैव च ॥
सुवर्णाद्रिसुवर्णानां कोटिभारश्च कोटिशः ॥१६॥
राज्यं नवविधीन्सर्वान्देवानां मैथिलेश्वर ॥
अष्टानां लोकपालानामाधिपत्याधिरक्षकः ॥१७॥
नीत्वोद्धवं शक्रसखो दत्त्वैवं बलिमद्‌भुतम् ॥
कौशल्यहेतवे कार्ष्णिं प्रणनाम कृतांजलिः ॥१८॥
तस्मै तुष्टः शंबरारिः प्रददौ रत्‍नमालिकाम् ॥
संस्थाप्य राज्ये तं राजन्नेषा हि प्रकृतिः सताम् ॥१९॥
इत्थं शक्रसखं जित्वा प्रद्युम्नाय बलिं ददौ ॥
शिबिराणां समूहोऽभूदरुणोदानदीमनु ॥२०॥
महाधनखचिद्‌भिश्च वितानैः शतयोजनम् ॥
पतत्पताकैर्दिव्याभैर्भून्यस्तविजयध्वजैः ॥२१॥
विरेजे शिबिरव्यूहो लहरीभिः पयोदधिः ॥
आकाशादागतं तत्र गजारूढं पुरन्दरम् ॥२२॥
ससैन्यं सहसा राजन्दुंदुभिध्वनिसंयुतम् ॥
संवीक्ष्य वेगतो वीरा जगृहुः शस्त्रसंहतिम् ॥२३॥
पुनरिन्द्रं च तं ज्ञात्वा बभूवुर्हर्षिता नृपाः ॥
श्रीप्रद्युम्नं सभामध्ये कथयन्मघवा तदा ॥२४॥
शृणु राजन्महाबाहो त्वं परावरवित्तमः ॥
लीलावती नाम पुरी शुभा हेमाद्रिसानुषु ॥२५॥
विद्याधरेशः सुकृती तत्र राज्यं करोति हि ॥
तत्कन्या सुंदरीनामा शतचन्द्रनिभा शुभा ॥२६॥
आगता देवताः सर्वास्तस्या राजन्स्वयंवरे ॥
लोकपालास्तथा सर्वे संप्राप्ता दिव्यविग्रहाः ॥२७॥
यं दृष्ट्वा मूर्च्छिताहं स्यां स मे भर्ता भविष्यति ॥
गिरेत्येवं प्रजल्पंती सुंदरं वरमिच्छती ॥२८॥
तत्रापि गच्छ सहसा भ्रातृभिः सह कौतुके ॥
स्वयंवरं पश्य वरं देवलोकैश्च मण्डितम् ॥२९॥
श्रीनारद उवाच -
तच्छ्रुत्वा भगवान्कार्ष्णि-र्यादवैर्भ्रातृभिः सह ॥
पुरन्दरेण सहसा पुरीं लीलावतीं ययौ ॥३०॥
विशालाजिरसंयुक्ते खचिद्‌रत्‍नमनोहरे ॥
चन्दनागुरुकस्तूरीकुंकुमद्रवचर्चिते ॥३१॥
मुक्तायुक्तैस्तोरणैश्च वितानैः सुमहाधनैः ॥
जांबूनदासनैः साक्षादिंद्रलोक इवापरे ॥३२॥
तस्मिन्स्वयंवरे तस्थौ प्रद्युम्नो दिव्य आसने ॥
गिरिशशृङ्गे यथा सिंहः सर्वेषां पश्यतां नृप ॥३३॥
व्रजेशा मुनयस्तत्र देवा रुद्रगणास्तथा ॥
मरुतो रवयश्चैव वसवो ह्यग्नयोऽश्विनौ ॥३४॥
यमोऽथ वरुणः सोमो धनदः शक्र एव हि ॥
सिद्धा विद्याधराश्चैव गंधर्वः किन्नरास्तथा ॥३५॥
अन्ये समागताः सर्वे रत्‍नाभरणभूषिताः ॥
जहुर्वैवाहिकीमाशां प्रद्युम्नं वीक्ष्य मैथिल ॥३६॥
सा सुंदरी तत्र सुरत्‍नमालया
     रतिं च रंभां क्षिपतीव निर्गता ॥
वाणी रमां रुपवतीं पुलोमजां
     विडंबयन्तीव बभौ वरांगना ॥३७॥
यां वीक्ष्य सर्वेषु सदःसु सर्वतो
     मोहं प्रयातेषु तथैव मैथिल ॥
श्रीः सर्वलोकस्य च पश्यतो वरं
     विचिन्वती सा चपलेव चांबुदम् ॥३८॥
दिव्यांबरं पद्मदलायतेक्षणं
     प्रद्युम्नवीरं नरलोकसुन्दरम् ॥
समेत्य मूर्च्छां समवाप सुन्दरी
     विद्याधरी सा पुनराप संज्ञाम् ॥३९॥
समुत्थिता सात्वतहर्षविह्वला
     तस्थौ सुमालां विनिधाय तद्‌गले ॥
विद्याधरेशः सुकृती च सुन्दरीं
     सुतां ददौ मैथिल शंबरारये ॥४०॥
नदत्सु तूर्य्येषु तदैव निर्जरा
     न सेहिरे वीक्ष्य विवाहमंगलम् ॥
तं सर्वतः संरुरुधुः स्वयंवरं
     प्रचण्डमेघा इव भास्करं परम् ॥४१॥
क्रोधावृतांस्तानमरान्धनुर्धरान्
     मदोद्धतान् वीक्ष्य हरेः स्वयंवरम् ॥
श्रीकृष्णदत्तं सशरं धनुः स्वयं
     वरं गृहीत्वा यदुभिर्जगर्ज ह ॥४२॥
तच्चापमुक्तैर्विशिखैः स्फुरत्प्रभै-
     श्छिन्नायुधा मैथिल शीर्णकञ्चुकाः ॥
विदुद्रुवुस्ते च दिशो दशामरा
     नीहारमेघा इव सूर्यरश्मिभिः ॥४३॥
प्रद्युम्नो भगवान्साक्षादित्थं जित्वा स्वयंवरम् ॥
विजित्येलावृतं खंडं भारतं गंतुमुद्यतः ॥४४॥
भातृभिर्यदुभिः सैन्यैः सर्वमंत्रिजनैः सह ॥
आययौ भारतं खंडं नादयन् जयदुन्दुभीन् ॥४५॥
पश्यन्देशाननेकांश्च जंबूद्वीपजयो बली ॥
आनर्तान्द्वारकान्देशान् प्राप्तोऽभूत्स हरेः सुतः ॥४६॥
प्रद्युम्नप्रेषितः साक्षादुद्धवो बुद्धिसत्तमः ॥
प्रणनामोग्रसेनं तं सभायां श्रीहरिं बली ॥४७॥
वर्षे वर्षेऽपि यज्जातं जंबुद्विपजयं तथा ॥
तत्सर्वं हि यथायोग्यं कथयामास चोद्धवः ॥४८॥
श्रीकृष्णबलदेवाभ्यां सर्वैर्वृद्धजनैः सह ॥
प्रद्युम्नं तं समानेतुमुग्रसेनो विनिर्गतः ॥४९॥
गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ॥
मुक्तावर्षैर्लाजपुष्पैः पाठारावैः सुमंगलैः ॥५०॥
वारणेन्द्रं पुरस्कृत्य सौवर्णैः कलशैर्नृप ॥
गंधर्वैर्वारमुख्याभिः शंखदुन्दुभिवेणुभिः ॥५१॥
गंधाक्षतैर्हेमपात्रैः पुष्पधूपैर्यवांकुरैः ॥
उग्रसेनः शंबरारेः संमुखं चाजगाम ह ॥५२॥
खड्गं नीत्वोग्रसेनस्य पुरो धृत्वा कृतांजलिः ॥
ननाम कार्ष्णिर्यदुभिर्भ्रातृभिः सह मैथिल ॥५३॥
श्रीकृष्णं सबलं नत्वा सर्वान् वृद्धान्प्रणम्य च ॥
गर्गाचार्यं ननामाशु प्रद्युम्नो मीनकेतनः ॥५४॥
संश्लाघ्याभ्यर्च्य विधिवद्‍ब्राह्मणैर्वेदसूक्तिभिः ॥
आरोप्य वारणे कार्ष्णिमुग्रसेनः पुरीं ययौ ॥५५॥
मंगलं द्वारकायां च सर्वत्राभूद्‍गृहे गृहे ॥
इत्थं नृप ते कथितं किं भूयः श्रोतुमिच्छसि ॥५६॥

इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे प्रद्युम्नद्वारकागमनं नामाष्टचत्वारिंशोऽध्यायः ॥४८॥