सामग्री पर जाएँ

गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः १८

विकिस्रोतः तः
← गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः १७ गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः १८
गर्गमुनि
गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः १९ →


 द्वारकाखण्डः - अष्टादशोऽध्यायः

रासोत्सवम् -

श्रीनारद उवाच -
श्रीराधायाः परां प्रीतिं ज्ञात्वा गोपीगणस्य च ।
ऊचुर्हरिं राजपुत्र्यस्त‌रासप्रेक्षणोत्सुकाः ॥ १ ॥
धन्या गोप्यस्तु ते भक्ताः प्रेमलक्षणसंयुताः ।
याः प्राप्ता रासरंगे वै तासां किं वर्ण्यते तपः ॥ २ ॥
वृन्दावने कृतो रासो विधिना येन माधव ।
तं विधिं द्रष्टुमिच्छामो यदि त्वं मन्यसे प्रभो ॥ ३ ॥
त्वं चात्रैव तथा राधा गोप्यः सर्वा व्रजांगनाः ।
वयं चात्रैव देवेश रासो योग्यो भवेदिह ॥ ४ ॥
पूर्णं कुरु जनन्नाथ अस्माकं तु मनोरथम् ।
कृतो मनोरथोऽन्यो न रासक्रीडां विना हरे ॥ ५ ॥
इति तासां वचः श्रुत्वा भगवान्प्रहसन्निव ।
प्राह ताः प्रेमसंयुक्तो गीर्भिः संमोहयन्निव ॥ ६ ॥
श्रीभगवानुवाच -
रासेश्वर्यास्तु राधाया मनश्चेद्रन्तुमंगनाः ।
तदा रासो भवेदत्र भवतीभिस्तु पृच्छ्यताम् ॥ ७ ॥
इति श्रुत्वा वचस्तस्य रुक्मिण्याद्या नृपात्मजाः ।
राधामेत्य परं प्रेम्णा प्राहुः प्रहसिताननाः ॥ ८ ॥
राज्ञ्य ऊचुः -
रम्भोरु चन्द्रवदने व्रजसुन्दरीशे
     रासेश्वरि प्रियतमे सखि शीलरूपे ।
राधे सुकीर्तिकुलकीर्तिकरे शुभांगे
     त्वां प्रष्टुमागतवतीः सकला वयं स्म ॥ ९ ॥
रासेश्वरोऽपि किल चात्र रसप्रदायी
     रासेश्वरी त्वमपि गोपवरांगनाश्च ।
एवं वयं स्म इति सर्वविधौ रसार्थे
     रासं कुरु प्रियतमे च तथा प्रियं नः ॥ १० ॥
श्रीराधोवाच -
रासेश्वरस्य परमस्य सतां कृपालो
     रन्तुं मनो यदि भवेत्तु तदाऽत्र रासः ।
शुश्रूषया परमया परया च भक्त्या
     संपूज्य तं किल वशीकुरुत प्रियेष्टाः ॥ ११ ॥
श्रीनारद उवाच -
राधाया वचनं श्रुत्वा श्रीकृष्णोक्तं तथाऽवदन् ।
तथास्तु चोक्त्वा सा राधा प्रसन्नऽभून्महामनाः ॥ १२ ॥
माधवे पूर्णिमायां तु पुण्ये सिद्धाश्रमे शुभे ।
प्रदोषकाले चन्द्राभे रासारम्भो बभूव ह ॥ १३ ॥
रासेश्वरस्य रासार्थे रासेश्वर्या समन्वितः ।
रराज रासे रसिको यथा रत्या रतीश्वरः ॥ १४ ॥
यावतीर्गोपिकाः सर्वा यावती राजकन्यकाः ।
तावद्‌रूपधरो रेजे एकः कृष्णो द्वयोर्द्वयोः ॥ १५ ॥
तालवेणुमृदंगानां कलकण्ठैः सखीजनैः ।
वल्गुनू पुरकाञ्चीनां मिश्रशब्दो महानभूत् ॥ १६ ॥
कोटिकन्दर्पलावण्यः स्रग्वी कुण्डलमण्डितः ।
पीतांबरधरो राजन् किरीटकटकांगदः ॥ १७ ॥
रासेश्वर्या समं गायन् रासे रासेश्वरः स्वयम् ।
स्त्रीगणैः सहितो राजंश्चन्द्रस्तारागणैर्यथा ॥ १८ ॥
एवं सर्वा निशा राजन् क्षणवद्‌रासमण्डले ।
व्यतीताऽभून्महाराज महानन्दमयी शुभा ॥ १९ ॥
श्रीरासमंडलं दृष्ट्वा रुक्मिण्याद्याः स्त्रियो वराः ।
जग्मुस्ताः परमानंदं सर्वा पूर्णमनोरथाः ॥ २० ॥
परिपूर्णतमं साक्षाच्छ्रीकृष्णं पुरुषोत्तमम् ।
रासांते रुक्मिणीमुख्याः प्राहुः प्रेमपरायणाः ॥ २१ ॥
राज्ञ्य ऊचुः -
दृष्ट्वा त्वद् रूपमाधुर्यं रासरंगे मनोहरे ।
गतं मनो नः स्वानंदं ब्रह्मानंदं यथा मुनिः ॥ २२ ॥
एतादृशोऽपि रासोऽन्यो न भूतो न भविष्यति ।
शतयूथस्तु गोपीनामत्र माधव वर्तते ॥ २३ ॥
पत्‍न्यः षोडशसाहस्रं सखीभिः सहिता वयम् ।
सखीकोटियुताश्चात्र अष्टपट्टमहास्त्रियः ।
वृन्दावनेऽपि नैतादृग्भूतो वा माधवेश्वर ॥ २४ ॥
श्रीनारद उवाच -
एवं कृताभिमानानां राज्ञीनां प्रहसन्हरिः ।
प्राहेदं पृच्छतां राधां भवतीभिः परस्परम् ॥ २५ ॥
सत्यभामादिकाः सर्वाः पृच्छंति तां मनोहराम् ।
किंचिद् हसंती मनसी प्राह राधा परं वचः ॥ २६ ॥
श्रीराधोवाच -
ननु रासः परं चात्र बहुस्त्रीगणसंकुलः ।
पूर्वराससमो न स्याद् यस्तु वृंदावनेऽभवत् ॥ २७ ॥
क्व चात्र वृन्दारण्यं हि दिव्यद्रुमलताकुलम् ।
प्रेमभारानतलतं मधुमत्तमधुव्रतम् ॥ २८ ॥
पुष्पव्यूहान्वहन्ती या यथोष्णिङ्‍मुद्रिता शुभा ।
हंसपद्मसमाकीर्णा क्व चात्र यमुना नदी ॥ २९ ॥
माधव्यस्तु लताः क्वात्र पुष्पभारनताः पराः ।
क्व पक्षिणः प्रेमपरा गायन्ति मधुरस्वनम् ॥ ३० ॥
लोलालिपुञ्जाः कुञ्जाः क्व निकुञ्जा दिव्यमंदिराः ।
क्व वायुः शीतलो मंदो वाति पद्मरजो हरन् ॥ ३१ ॥
श्रृंगैर्मनोहरैरुच्चैर्गिरिर्गोवर्धनोऽचलः ।
सर्वत्र फलपुष्पाढ्यो दरीभिः क्व करीव सः ॥ ३२ ॥
कालिन्दीपुलिने रम्ये वायुनाऽन्वितसैकते ।
वंशीवेत्रधरो मल्लपरिबर्हविराजितः ॥ ३३ ॥
क्व चात्र कृष्णश्रृंगारो वनमालाविभूषितः ।
श्यामानामलकानां च वक्राणां गंधधारिणाम् ॥ ३४ ॥
चलितं हलितं क्वात्र कुण्डलाभ्यां परस्परम् ।
श्रीमुखे कृष्णचंद्रस्य गंडस्थलमनोहरे ॥ ३५ ॥
पत्रावलीगंधलोभाद्‌भ्रमद्‌भृंगावलीयुते ।
क्व प्रेम्णा दर्शनं चैव स्पर्शनं हर्षणं तथा ॥ ३६ ॥
कामेषुतिग्मकोणैश्च नेत्रेः क्वापांगजो रसः ।
आकर्षणं क्व हस्ताभ्यां हस्ताद्धस्तविसर्जनम् ॥ ३७ ॥
विलीनत्वं निकुंजेषु संमुखेन तु दर्शनम् ।
ग्रहणं क्वात्र चीराणां हरणं वेणुवेत्रयोः ॥ ३८ ॥
क्व प्रेम्णा चात्र बाहुभ्यां कर्षणं च परस्परम् ।
पुनः पुनस्तद्‌ग्रहणं भुजे चंदनचर्चितम् ॥ ३९ ॥
यत्र यत्र च या लीला तत्र तत्रैव शोभते ।
यत्र वृदावनं नास्ति तत्र मे न मनःसुखम् ॥ ४० ॥
श्रीनारद उवाच -
राधावाक्यं ततः श्रुत्वा सर्वाः पट्टमहास्त्रियः ।
जहुर्मानं स्वरासस्य विस्मिता हर्षिताश्च ताः ॥ ४१ ॥
एवं सिद्धाश्रमे रासं कृत्वा श्रीराधिकेश्वरः ।
नीत्वा गोपीगणान्सर्वान् राधया सहितो हरिः ॥ ४२ ॥
सभार्यो भगवान् साक्षाद्‌द्वारकां प्रविवेश ह ।
कारयामास राधायै मंदिराणी पराणि च ॥ ४३ ॥
निवासयित्वा सुसुखं सर्वास्ताश्च व्रजौकसः ।
इत्थं सिद्धाश्रमकथा मया ते कथिता नृप ॥ ४४ ॥
सर्वपापहरा पुण्या सर्वेषां चैव मोक्षदा ॥ ४५ ॥

इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादे
सिद्धाश्रममाहात्म्ये रासोत्सवो नामाष्टादशोऽध्यायः ॥ १८ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥