गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः १३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १२ गर्गसंहिता/खण्डः ६ (द्वारकाखण्डः)/अध्यायः १३
गर्गमुनि
अध्यायः १४ →



श्रीनारद उवाच ।।
प्रभासस्यापि माहात्म्यं शृणु राजन्महामते ।।
सर्वपापहरं पुण्यं तेजसां वर्द्धनं परम् ।। १ ।।
गोदावार्यां गुरौ सिंहे हरक्षेत्रे च कुंभगे ।।
रविग्रहे कुरुक्षेत्रे काश्यां चन्द्र- ग्रहे तथा ।। २ ।।
यत्पुण्यं लभते राजन्स्नानतो दानतो नरः ।।
तस्माच्छतगुणं पुण्यं प्रभासे च दिनेदिने ।। ३ ।।
यत्र स्नात्वा दक्षशापाद्गृहीतो यक्ष्मणोडुराट्।
विमुक्तः किल्विषात्सद्यो भेजे भूयः कलोदयम् ।।४।।
महापुण्यतमा राजन्यत्र प्रत्यक्सरस्वती ।।
तस्यां स्नात्वा नरः पापी साक्षाद्ब्रह्ममयो भवेत् ।।५।।
तत्तीरे वर्तते राजन्नाम्ना वै बोधपिप्पलम् ।।
कृष्णेन यत्रोद्धवाय दत्तं भागवतं शुभम्।।६।।
तं नत्वाभ्यर्च्य विधिवत्स्पृष्ट्वा श्री बोधपिप्पलम् ।।
शृणोति यो भागवतं पुराणं ब्रह्मसंमितम् ।।७।।
श्लोकार्धश्लोकपादं वा मौनी नियतमानसः ।।
तस्य पाणौ भवेद्राजन्वैष्णवं परमं पदम् ।। ८ ।।
प्रोष्ठपद्यां पूर्णिमायां हेमसिंहसमन्वितम् ।।
ददाति य भागवतं स याति परमां गतिम्।।९।।
पुराणं न श्रुतं यैस्तु श्रीमद्भागवतं क्वचित्।।
तेषां वृथा जन्मगतं नराणां भूमिवासिनाम् ।।6.13.१०।।
यैर्न श्रुतं भागवतं पुराणं नाराधितो यैः पुरुषः पुराणः।।
हुतं मुखे नैव धरामराणां तेषां वृथा जन्म गतं नराणाम् ।। ११ ।।
द्वारावत्यां तीर्थराजं गौमतीसिंधुसंगमम् ।।
यत्र स्नात्वा नरो याति वैकुण्ठं विमलं पदम्।।१२।।
शताश्वमेधजं पुण्यं गंगासागर संगमे ।।
तस्मात्सहस्रगुणितं गोमतीसिंधुसंगमे ।। १३ ।।
अत्रैवोदाहरंतीममितिहासं पुरातनम् ।।
यस्य श्रवणमात्रेण पापतापात्प्रमुच्यते ।।१४।।
आसीद्गजाह्वये वैश्यो राजमार्गपतिः परः ।।
महागौरवसंयुक्तो निधीशो धनदो यथा ।।१५।।
वेश्याप्रसंगनिरतो विटगोष्ठीविशारदः।।
द्यूतक्रीडनकास- क्तो लोभमोहमदान्वितः ।।१६।।
मृषावादी महादुष्टः कुकर्मनिरतः सदा ।।
ब्राह्मणेभ्यो न पितृभ्यो न देवेभ्यो धनं ददौ ।।१७।।
हरेः कथां प्रेक्ष्यदूराद्दूरं वै निर्ययौ त्वरम् ।।
पित्रोः सेवापि न कृता न पुत्रेभ्यो धनं ददौ ।। १८ ।।
त्यक्त्वा भार्यां स भिन्नोभूद्धनाढ्यो दुर्मतिः खलः ।।
वेश्याप्रसंगात्तस्यापि धनार्द्धं प्रक्षयं गतम्।। ।९।।
अर्धं तु तस्करैर्नीतं किंचित्पृथ्व्यां गतं स्वतः ।।
पुण्येन वर्द्धते लक्ष्मीः पापेन क्षीयते ध्रुवम् ।।6.13.२०।।
एवं स निर्धनो जातो वेश्यासक्तो महाखलः ।।
तस्मिन्गजाह्वये रम्ये चौर्यकर्म चकार ह ।। २१ ।।
चौर्यकर्म प्रकुर्वंतं बद्ध्वा तं दामभिर्नृपः ।।
देशान्निःसारयामास शंतनुर्नृपतीश्वरः ।।२२।।
वनेपि निवन्सोपि जीवहिंसां चकार ह।।
समा द्वादश साहस्रं नववर्षयदाघनः ।। २३ ।।
पश्चिमां तु दिशं प्रागाद्वैश्यो दुर्भिक्ष पीडितः ।।
वने वै मारितः सोपि सिंहेन तलघाततः ।।२४।।
तदैव यमदूतास्तं बद्ध्वा पाशैरधोमुखम् ।।
कशाघातैस्ताडयंतो निन्युर्मार्गं यमस्य च ।।२५।।
अथ कश्चिन्महान्गृध्रो मांसं तस्य भुजस्य च ।।
गृहीत्वा खं गतः सद्यः खादंश्चंचुपुटेन तम् ।।२६।।
निरामिषाः खगाश्चान्ये स्वामिषं जग्मुरातुराः ।।
एवं कोलाहले जाते शंखचिह्नादिभिः कृते ।।२७।।
न जहौ मुखतो मांसं पश्चिमाशां जगाम ह ।।
तत्समेनापि गृध्रेण तीक्ष्णतुंडेन ताडितात् ।। २८ ।।
तन्मुखात्प्रपतन्मांसं गोमतीसिंधुसंगमे ।।
तीर्थप्लुते तस्य मांसे वैश्योयं पातकी महान्।।२९।।
तेषां पाशान्स्वयं छित्त्वा भूत्वा देवश्चतुर्भुजः ।।
पश्यतां यमदूतानां विमानमधिरुह्य सः ।। 6.13.३० ।।
विराजयन्दिशः सर्वा परंधाम हरेर्ययौ ।। ३१ ।।
गोमतीसिंधुसंगस्य माहात्म्यं शृणुते नरः ।।
सर्वपापविनिर्मुक्तो विष्णुलोकं प्रयाति सः ।।३२।।
 इति श्रीमद्गर्गसहितायां श्रीद्वारकाखण्डे नारदबहुलाश्व संवादे प्रभाससरस्वतीबोधपिप्पल गोमतीसिंधुसंगममाहात्म्यनाम त्रयोदशोऽध्यायः ।। १३ ।।