गर्गसंहिता/खण्डः ५ (मथुराखण्डः)/अध्यायः ०३
वृन्दावने अक्रूरागमनम्
श्रीनारद उवाच -
अक्रूरो रथमारुह्य कर्तुं कार्यं नृपस्य वै ।
प्रहर्षितो मैथिलेन्द्र प्रययौ नंदगोकुलम् ॥ १ ॥
परां भक्तिं ह्युपगतः श्रीकृष्णे पुरुषोत्तमे ।
एवं विचारयन्बुद्ध्या पथि गच्छन्महामतिः ॥ २ ॥
अक्रूर उवाच -
किं भारते वा सुकृतं कृतं मया
निष्कारणं दानमलं क्रतूत्तमम् ।
तीर्थाटनं वा द्विजसेवनं शुभं
येनाद्य द्रक्ष्यामि हरिं परेश्वरम् ॥ ३ ॥
तपः सुतप्तं किमलं पुरा कृतं
सत्सेवनं भक्तियुतं मया कृतम् ।
येनैव मे दर्शनमद्य दुर्लभं
श्रीकृष्णदेवस्य पुरो भविष्यति ॥ ४ ॥
तेषां भवो वै सफलो महीतले
यन्नेत्रगामी भगवान्सुरेश्वरः ।
कृत्वाऽथ तद्दर्शनमद्य दुर्लभं
सद्यः कृतार्थो भविताऽस्मि सर्वतः ॥ ५ ॥
श्रीनारद उवाच -
इत्थं संचितयन्कृष्णं पश्यन्शकुनमुत्तमम् ।
संध्यायां गोकुलं प्राप्तो रथस्थो गांदिनीसुतः ॥ ६ ॥
कृष्णपादाब्जचिह्नानि यवाङ्कुशयुतानि च ।
तद्रागयुक्परागाणि रजांसि स ददर्श कौ ॥ ७ ॥
तद्दर्शन्नौत्सुक्यभक्तिभावानन्दसमाकुलः ।
रथात्समुत्पत्य तेषु लुठंश्चाश्रु मुमोच सः ॥ ८ ॥
येषां श्रीकृष्णदेवस्य भक्तिः स्याद्धृदि मैथिल ।
तेषामाब्रह्मणः सर्वं तृणवज्जगतः सुखम् ॥ ९ ॥
रथारुढस्ततोऽक्रूरः क्षणान्नन्दपुरं गतः ।
घोषेषु सबलं कृष्णमागच्छंतं ददर्श ह ॥ १० ॥
देवौ पुराणौ पुरुषौ परेशौ
पद्मेक्षणौ श्यामलगौरवर्णौ ।
यथेन्द्रनीलध्वजवज्रशैलौ
समाश्रितौ तौ पथि रामकृष्णौ ॥ ११ ॥
बालार्कमौली वसनं तडिद्युती
वर्षाशरन्मेघरुचं दधानौ ।
दृष्ट्वा स तूर्णं स्वरथाद्गतोऽधो
तयोर्नतो भक्तियुतः पपात ॥ १२ ॥
तदाननं बाष्पकलाकुलेक्षणं
रोमांचितं वीक्ष्य हरिः परेश्वरः ।
दोर्भ्यां समुत्थाप्य घृणातुरोऽश्रु
मुमोच भक्तं परिरभ्य माधवः ॥ १३ ॥
एवं मिलित्वा सबलश्च तं हरिः
सद्यः समानीय वरासनं ददौ ।
निवेद्य गां चातिथये सुभोजनं
रसावृतं प्रेमयुतो ह्युपाहरत् ॥ १४ ॥
तमाह नंदः परिरभ्य दोर्भ्या-
महो कथं जीवसि कंसराज्ये ।
गतत्रपो यो निजघान बालान्
स्वसुः कथं सोऽन्यजनेषु मोही ॥ १५ ॥
गृहं गते नंदवरे हरिस्तं
प्रपच्छ सर्वं कुशलं स्वपित्रोः ।
तथा यदूनां किल बांधवानां
कंसस्य सर्वां विपरीतबुद्धिम् ॥ १६ ॥
अक्रूर उवाच -
परश्वोऽहनि हे देव हंतुं शौरिं समुद्यतः ।
खड्गपाणिर्भोजराजो नारदेन निवारितः ॥ १७ ॥
दुःखिता बांधवाः सर्वे यादवा भयविह्वलाः ।
सकुटुंबाः कंसभयाद्भूमन्देशांतरं गताः ॥ १८ ॥
अद्यैव यादवान्हंतुं देवाञ्जेतुं समुद्यतः ।
अन्यत्किमपि कौ कर्तुमिच्छते दैत्यराड्बली ॥ १९ ॥
तस्माद्भवद्भ्यां गंतव्यं कुशलं कर्तुमव्ययम् ।
भवंतौ हि विना कार्यं किंचिन्न स्यात्सतां प्रभू ॥ २० ॥
श्रीनारद उवाच -
अथ तस्य वचः श्रुत्वा सबलो भगवान् हरिः ।
नन्दराजमतेनाह गोपान् कार्यकरानिदम् ॥ २१ ॥
श्रीभगवानुवाच -
नंदराजोऽपि सबलो वृद्धैर्गोपगणैरहम् ।
नन्दा नवोपनन्दाश्च तथा षड् वृषभानवः ॥ २२ ॥
मथुरां तु गमिष्यन्ति सर्वे प्रातः समुत्थिताः ।
सर्वे तु गोरसं तस्माद्दधिदुग्धघृतादिकम् ॥ २३ ॥
गृहीत्वैकत्र कर्तव्यं सोपायनमतः परम् ।
रथांश्च शकटैः सार्द्धं समर्थान्कुरुताशु वै ॥ २४ ॥
श्रीनारद उवाच -
इति श्रुत्वा कार्यकरा गोपाः सर्वे गृहे गृहे ।
श्रृण्वंतीनां गोपिकानामूचुः सर्वं यथोदितम् ॥ २५ ॥
तच्छ्रुत्वोद्विग्नहृदया गोप्यो विरहविह्वलाः ।
परस्परं वाक्यमूचुः सर्वास्ता हि गृहे गृहे ॥ २६ ॥
प्रस्थानस्य च वार्तेयं श्रीकृष्णस्य महात्मनः ।
वृषभानुवरस्यापि गृहे प्राप्ता नृपेश्वर ॥ २७ ॥
गमिष्यतो भर्तुरतीव दुःखिताः
श्रुत्वाऽथ वार्तां सदसि ह्यकस्मात् ।
संप्राप मूर्च्छां वृषभानुनन्दिनी
रंभेव भूमौ पतिता मरुद्धता ॥ २८ ॥
काश्चित्परिम्लानमुखश्रियोऽभवन्
प्रकंकणीभूत कराङ्गुलीयकाः ।
सद्यः श्लथद्भूषणकेशबंधनाः
चित्रार्पितारंभ इवावतस्थिरे ॥ २९ ॥
श्रीकृष्ण गोविंद हरे मुरारे
काश्चिद्वदन्त्यः स्वगृहेऽतिविह्वलाः ।
विसृज्य कर्माणि गृहस्य सर्वतो
योगीव चानन्दगता नृपेश्वर ॥ ३० ॥
काश्चित्समर्थास्तु परस्परं वचः
समेत्य राजन् युगपत्सखीजनम् ।
उचुः स्खलद्गद्गदकंठवाचः
स्वतः स्रवद्बाष्पकलावहदृशः ॥ ३१ ॥
गोप्य उचुः -
अहोऽतिनिर्भोहिजनस्य चित्रं
परं चरित्रं गदितुं न योग्यम् ।
मुखेन चान्यं हृदि भाव्यमन्य-
द्देवो न जानाति कुतो मनुष्यः ॥ ३२ ॥
रासेऽपि यद्यद्गदितं तु तत्त-
द्विहाय गंतुं समवस्थितोऽयम् ।
गते पुरीं प्राणपतावहोऽस्मिन्
किं किं न कष्टं बत नोऽभविष्यत् ॥ ३३ ॥
इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे अक्रूरागमनं नाम तृतीयोऽध्यायः ॥ ३ ॥