गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०६

विकिस्रोतः तः
Jump to navigation Jump to search
← गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०५ गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०६
गर्गमुनि
गर्गसंहिता/खण्डः ४ (माधुर्यखण्डः)/अध्यायः ०७ →


माधुर्यखण्डः - षष्ठोऽध्यायः

अयोध्यापुरवासिनि गोपीगणानामुपाख्यानम् -


श्रीनारद उवाच -
एवमुक्त्वा गते साक्षाद्याज्ञवल्क्ये महामुनौ ॥
 अतीव हर्षमापन्नौ विमलश्चम्पकापतिः ॥ १ ॥
 अयोध्यापुरवासिन्यः श्रीरामस्य वराच्च याः ॥
 बभूवुस्तस्य भार्यासु ताः सर्वाः कन्यकाः शुभाः ॥ २ ॥
 विवाहयोग्यास्ता दृष्ट्वा चिन्तयन् चम्पकापतिः ॥
 याज्ञवल्क्यवचः स्मृत्वा दूतमाह नृपेश्वरः ॥ ३ ॥
 विमल उवाच -
मथुरां गच्छ दूत त्वं गत्वा शौरिगृहं शुभम् ॥
 दर्शनीयस्त्वया पुत्रो वसुदेवस्य सुन्दरः ॥ ४ ॥
 श्रीवत्सांको घनश्यामो वनमाली चतुर्भुजः ॥
 यदि स्यात्तर्हि दास्यामि तस्मै सर्वाः सुकन्यकाः ॥ ५ ॥
 श्रीनारद उवाच -
इति वाक्यं ततः श्रुत्वा दूतोऽसौ मथुरां गतः ।
 पप्रच्छ सर्वाभिप्रायं माथुरांश्च महाजनान् ॥ ६ ॥
 तद्वाक्यं माथुराः श्रुत्वा कंसभीताः सुबुद्धयः ।
 तं दूतं रहसि प्राहुः कर्णांते मंदवाग्यथा ॥ ७ ॥
 माथुरा ऊचुः
 वसुदेवस्य ये पुत्राः कंसेन बहवो हताः ।
 एकाऽवशिष्टावरजा कन्या साऽपि दिवं गता ॥ ८ ॥
 वसुदेवोऽस्ति चात्रैव ह्यपुत्रो दीनमानसः ।
 इदं न कथनीयं हि त्वया कंसभयं पुरे ॥ ९ ॥
 शौरिसंतानवार्तां यो वक्ति चेन्मथुरापुरे ।
 तं दंडयति कंसोऽसौ शौर्यष्टमशिशो रिपुः ॥ १० ॥
 श्रीनारद उवाच -
जनवाक्यं ततः श्रुत्वा दूतो वै चम्पकापुरीम् ।
 गत्वाऽथ कथयामास राज्ञे कारणमद्‌भुतम् ॥ ११ ॥
 दूत उवाच -
मथुरायामस्ति शौरिरनपत्योऽतिदीनवत् ।
 तत्पुत्रास्तु पुरा जाताः कंसेन निहताः श्रुतम् ॥ १२ ॥
 एकावशिष्टा कन्याऽपि खं गता कंसहस्ततः ।
 एवं शृत्वा यदुपुरान्निर्गतोऽहं शनैः शनैः ॥ १३ ॥
 चरन् वृन्दावने रम्ये कालिन्दीनिकटे शुभे ।
 अकस्माल्लतिकावृन्दे दृष्टः कश्चिच्छिशुर्मया ॥ १४ ॥
 तल्लक्षणसमो राजन् गोगोपगणमध्यतः ।
 श्रीवत्सांको घनश्यामो वनमाल्यतिसुन्दरः ॥ १५ ॥
 द्विभुजो गोपसूनुश्च परं त्वेतद्विलक्षणम् ।
 त्वया चतुर्भुजश्चोक्तो वसुदेवात्मजो हरिः ॥ १६ ॥
 किं कर्तव्यं वद नृप मुनिवाक्यं मृषा न हि ।
 यत्र यत्र यथेच्छा ते तत्र मां प्रेषय प्रभो ॥ १७ ॥
 श्रीनारद उवाच -
इति चिन्तयतस्तस्य विस्मितस्य नृपस्य च ।
 गजाह्वयात्सिन्धुदेशान् जेतुं भीष्मः समागतः ॥ १८ ॥
 तं पूज्य विमलो राजा दत्वा तस्मै बलिं बहु ।
 पप्रच्छ सर्वाभिप्रायं भीष्मं धर्मभृतां वरम् ॥ १९ ॥
 विमल उवाच -
याज्ञवल्क्येन पूर्वोक्तो मथुरायां हरिः स्वयम् ।
 वसुदेवस्य देवक्यां भविष्यति न संशयः ॥ २० ॥
 न जातो वसुदेवस्य सकाशेऽद्य हरिः परः ।
 ऋषिवाक्यं मृषा न स्यात्कस्मै दास्यामि कन्यकाः ॥ २१ ॥
 महाभागवतः साक्षात्त्वं परावरवित्तमः ।
 जितेन्द्रियो बाल्यभावाद्‌वीरो धन्वी वसूत्तमः ।
 एतद्वद महाबुद्धे किं कर्तव्यं मयाऽत्र वै ॥ २२ ॥
 श्रीनारद उवाच -
विमलं प्राह गांगेयो महाभागवतः कविः ।
 दिव्यदृग्धर्मतत्वज्ञः श्रीकृष्णस्य प्रभाववित् ॥ २३ ॥
 भीष्म उवाच -
हे राजन् गुप्तमाख्यानं वेदव्यासमुखाच्छ्रुतम् ।
 सर्वपापहरं पुण्यं शृणु हर्षविवर्द्धनम् ॥ २४ ॥
 देवानां रक्षणार्थाय दैत्यानां हि वधाय च ।
 वसुदेवगृहे जातः परिपूर्णतमो हरिः ॥ २५ ॥
 अर्धरात्रे कंसभयान्नीत्वा शौरिश्च तं त्वरम् ।
 गत्वा च गोकुले पुत्रं निधाय शयने नृप ॥ २६ ॥
 यशोदानन्दयोः पुत्रीं मायां नीत्वा पुरं ययौ ।
 ववृधे गोकुले कृष्णो गुप्तो ज्ञातो न कैर्नृभिः ॥ २७ ॥
 सोऽद्यैव वृदकारण्ये हरिर्गोपालवेषधृक् ।
 एकादश समास्तत्र गूढो वासं करिष्यति ।
 दैत्यं कंसं घातयित्वा प्रकटः स भविष्यति ॥ २८ ॥
 अयोध्यापुरवासिन्यः श्रीरामस्य वराच्च याः ।
 ताः सर्वास्तव भार्यासु बभूवुः कन्यकाः शुभाः ॥ २९ ॥
 गूढाय देवदेवाय देयाः कन्यास्त्वया खलु ।
 न विलम्बः क्वचित्कार्यो देहः कालवशो ह्ययम् ॥ ३० ॥
 इत्युक्त्वाऽथ गते भीष्मे सर्वज्ञे हस्तिनापुरम् ।
 दूतं स्वं प्रेषयामास विमलो नन्दसूनवे ॥ ३१ ॥


इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
अयोध्यापुरवासिन्युपाख्यानं नाम षष्ठोऽध्यायः ॥ ६ ॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥