गर्गसंहिता/खण्डः ३ (गिरिराजखण्डः)/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०८ गर्गसंहिता
खण्डः ३ (गिरिराजखण्डः)/अध्यायः ०९
गर्गमुनि
अध्यायः १० →


गिरिराजखण्ड - नवमोऽध्यायः

वृन्दावने गोवर्धनावतारकथा -


श्रीबहुलाश्व उवाच -
अहो गोवर्धनः साक्षाद्‌गिरिराजो हरिप्रियः ।
 तत्समानं न तीर्थं हि विद्यते भूतले दिवी ॥ १ ॥
 कदा बभूव श्रीकृष्णवक्षसोऽयं गिरीश्वरः ।
 एतद्वद महाबुद्धे त्वं साक्षाद्धरिमानसः ॥ २ ॥
 श्रीनारद उवाच -
गोलोकोत्पत्तिवृत्तान्तं शृणु राजन् महामते ।
 चतुष्पदार्थदं नॄणामाद्यलीलासमन्वितम् ॥ ३ ॥
 अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः ।
 परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्प्रभुः ॥ ४ ॥
 प्रत्यग्धामा स्वयंज्योती रममाणो निरन्तरम् ।
 यत्र कालः कलयतामीश्वरो धाममानिनाम् ॥ ५ ॥
 राजन्न प्रभवेन्माया न महांश्च गुणः कुतः ।
 न विशन्ति क्वचिद्‌राजन् मनश्चितो मतिर्ह्यहम् ॥ ६ ॥
 स्वधाम्नि ब्रह्म साकारमिच्छया व्यरचीकरत् ।
 प्रथमं चाभवच्छेषो बिसश्वेतो बृहद्वपुः ॥ ७ ॥
 तदुत्संगे महालोको गोलोको लोकवन्दितः ।
 यं प्राप्य भक्तिसंयुक्तः पुनरावर्तते न हि ॥ ८ ॥
 असंख्यब्रह्माण्डपतेर्गोलोकाधिपतेः प्रभोः ।
 पुनः पादाब्जसंभूता गंगा त्रिपथगामिनी ॥ ९ ॥
 पुनर्वामांसतस्तस्य कृष्णाऽभूत्सरितां वरा ।
 रेजे शृङ्गारकुसुमैर्यथोष्णिङ्‍मुद्रिता नृप ॥ १० ॥
 श्रीरासमण्डलं दिव्यं हेमरत्‍नसमन्वितम् ।
 नानाशृङ्गारपटलं गुल्फाभ्यां श्रीहरेः प्रभोः ॥ ११ ॥
 सभाप्रांगणवीथीभिर्मण्डपैः परिवेष्टितः ।
 वसन्तमाधुर्यधरः कूजत्कोकिलसंकुलः ॥ १२ ॥
 मयूरैः षट्पदैर्व्याप्तः सरोभिः परिसेवितः ।
 जातो निकुंजो जंघाभ्यां श्रीकृष्णस्य महात्मनः ॥ १३ ॥
 वृदावनं च जानुभ्यां राजन् सर्ववनोत्तमम् ।
 लीलासरोवरः साक्षादूरुभ्यां परमात्मनः ॥ १४ ॥
 कटिदेशात्स्वर्णभूमिर्दिव्यरत्‍नखचित्प्रभा ।
 उदरे रोमराजिश्च माधव्यो विस्तृता लताः ॥ १५ ॥
 नानापक्षिगणैर्व्याप्ता ध्वनद्‌भ्रमरभूषिताः ।
 सुपुष्पफलभारैश्च नताः सत्कुलजा इव ॥ १६ ॥
 श्रीनाभिपंकजात्तस्य पंकजानि सहस्रशः ।
 सरःसु हरिलोकस्य तानि रेजुरितस्ततः ॥ १७ ॥
 त्रिबलिप्रांततो वायुर्मन्दगाम्यतिशीतलः ।
 जत्रुदेशाच्छुभा जाता मथुरा द्वारकापुरी ॥ १८ ॥
 भुजाभ्यां श्रीहरेर्जाताः श्रीदामाद्यष्ट पार्षदाः ।
 नन्दाश्च मणिबंधाभ्यामुपनन्दाः कराग्रतः ॥ १९ ॥
 श्रीकृष्णबाहुमूलाभ्यां सर्वे वै वृषभानवः ।
 कृष्णरोमसमुद्‌भूताः सर्वे गोपगणा नृप ॥ २० ॥
 श्रीकृष्णमनसो गावो वृषा धर्मधुरन्धराः ।
 बुद्धेर्यवसगुल्मानि बभूवुमैंथिलेश्वर ॥ २१ ॥
 तद्वामांसात्समुद्‌भूतं गौरं तेजः स्फुरत्प्रभम् ।
 लीला श्रीर्भूश्च विरजा तस्माज्जाता हरेः प्रियाः ॥ २२ ॥
 लीलावती प्रिया तस्य तां राधां तु विदुः परे ।
 श्रीराधाया भुजाभ्यां तु विशाखा ललिता सखी ॥ २३ ॥
 सहचर्यस्तथा गोप्यो राधारोमोद्‌भवा नृप ।
 एवं गोलोकरचनां चकार मधुसूदनः ॥ २४ ॥
 विधाय सर्व निजलोकमित्थं
     श्रीराधया तत्र रराज राजन् ।
 असंख्यलोकाण्डपतिः परात्मा
     परः परेशः परिपूर्णदेवः ॥ २५ ॥
 तत्रैकदा सुन्दररासमण्डले
     स्फुरत्क्वणन्नूपुरशब्दसंकुले ।
 सुच्छत्रमुक्ताफलदामजावृत-
     स्रवद्‌बृहद्‌बिन्दुविराजितांगणे ॥ २६ ॥
 श्रीमालतीनां सुवितानजालतः
     स्वतः स्रवत्सन्मकरन्दगन्धिते ।
 मृदङ्गतालध्वनिवेणुनादिते
     सुकण्ठगीतादिमनोहरे परे ॥ २७ ॥
 श्रीसुन्दरीरासरसे मनोरमे
     मध्यस्थितं कोटिमनोजमोहनम् ।
 जगाद राधापतिमूर्जया गिरा
     कृत्वा कटाक्षं रसदानकौशलम् ॥ २८ ॥
 राधोवाच -
यदि रासे प्रसन्नोऽसि मम प्रेम्णा जगत्पते ।
 तदाहं प्रार्थनां त्वां तु करोमि मनसि स्थिताम् ॥ २९ ॥
 श्रीभगवानुवाच -
इच्छां वरय वामोरु या ते मनसि वर्त्तते ।
 न देयं यदि यद्वस्तु प्रेम्णा दास्यामि तत्प्रिये ॥ ३० ॥
 राधोवाच -
वृन्दावने दिव्यनिकुंजपार्श्वे
     कृष्णातटे रासरसाय योग्यम् ।
 रहःस्थलं त्वं कुरुतान्मनोज्ञं
     मनोरथोऽयं मम देवदेव ॥ ३१ ॥
 श्रीनारद उवाच -
तथाऽस्तु चोक्त्वा भगवान् रहोयोग्यं विचिन्तयन् ।
 स्वनेत्रपंकजाभ्यां तु हृदयं संददर्श ह ॥ ३२ ॥
 तदैव कृष्णहृदयाद्‌‌गोपीव्यूहस्य पश्यतः ।
 निर्गतं सजलं तेजोऽनुरागस्येव चांकुरम् ॥ ३३ ॥
 पतितं रासभूमौ तद्‌ववृधे पर्वताकृति ।
 रत्‍नधातुमयं दिव्यं सुनिर्झरदरीवृतम् ॥ ३४ ॥
 कदंबबकुलाशोकलताजालमनोहरम् ।
 मन्दारकुन्दवृन्दाढ्यं सुपक्षिगणसंकुलम् ॥ ३५ ॥
 क्षणमात्रेण वैदेह लक्षयोजनविस्तृतम् ।
 शतकोटिर्योजनानां लंबितं शेषवत्पुनः ॥ ३६ ॥
 ऊर्ध्वं समुन्नतं जातं पञ्चाशत्कोटियोजनम् ।
 करीन्द्रवत्स्थितं शश्वत्पञ्चाशत्कोटिविस्तृतम् ॥ ३७ ॥
 कोटियोजनदीर्घांगैः शृङ्गानां शतकैः स्फुरत् ।
 उच्चकैः स्वर्णकलशैः प्रासादमिव मैथिल ॥ ३८ ॥
 गोवर्धनाख्यं तच्चाहुः शतशृङ्गं तथापरे ।
 एवंभूतं तु तदपि वर्द्धितं मनसोत्सुकम् ॥ ३९ ॥
 कोलाहले तदा जाते गोलोके भयविह्वले ।
 वीक्ष्योत्थाय हरिः साक्षाद्धस्तेनाशु तताड तम् ॥ ४० ॥
 किं वर्द्धसे भो प्रच्छिन्नं लोकमाच्छाद्य तिष्ठसि ।
 किं वा न चैते वसितुं तच्छान्तिमकरोद्धरिः ॥ ४१ ॥
 संवीक्ष्य तं गिरिवरं प्रसन्ना भगवत्प्रिया ।
 तस्मिन् रहःस्थले राजन् रराज हरिणा सह ॥ ४२ ॥
 सोऽयं गिरिवरः साक्षाच्छ्रीकृष्णेन प्रणोदितः ।
 सर्वतीर्थमयः श्यामो घनश्यामः सुरप्रियः ॥ ४३ ॥
 भारतात्पश्चिमदिशि शाल्मलीद्वीपमध्यतः ।
 गोवर्धनो जन्म लेभे पत्‍न्यां द्रोणाचलस्य च ॥ ४४ ॥
 पुलस्त्येन समानीतो भारते व्रजमण्डले ।
 वैदेह तस्यागमनं मया तुभ्यं पुरोदितम् ॥ ४५ ॥
 यथा पुरा वर्द्धितुमुत्सुकोऽयं
     तथा पिधानं भविता भुवो वा ।
 विचिन्त्य शापं मुनिना परेशो
     द्रोणात्मजायेति ददौ क्षयार्थम् ॥ ४६ ॥


इति श्रीगर्गसंहितायां गिरिराजखण्डे श्रीनारदबहुलाश्वसंवादे
गिरिराजोत्पत्तिवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥
 हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥