गर्गसंहिता/खण्डः २ (वृन्दावनखण्डः)/अध्यायः १८

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीकृष्णचन्द्रदर्शनम् -

श्रीनारद उवाच -
अथ रात्र्यां व्यतीतायां मायायोषिद्‌वपुर्हरिः ।
राधादुःखप्रशान्त्यर्थं वृषभानोर्गृहं ययौ ॥ १ ॥
राधा तमागतं वीक्ष्य समुत्थायातिहर्षिता ।
दत्तासुना विधानेन पूजयामास मैथिल ॥ २ ॥
श्रीराधोवाच -
त्वया विनाऽहं निशि दुःखिताऽऽसं
     त्वय्यागतायां सखि लब्धवस्तुवत् ।
पूर्वं ह्यपथ्यस्य सुखं यथा ततो
     दुःखं तथा भामिनि मत्प्रसंगतः ॥ ३ ॥
श्रीनारद उवाच -
इति श्रुत्वाऽथ तद्वाक्यं विमना गोपदेवता ।
न किंचिदूचे श्रीराधां दुःखितेव व्यवस्थिता ॥ ४ ॥
विज्ञाय खेदसंपन्नां राधिकां गोपदेवताम् ।
सखीभिः संविचार्याथ जगाद स्नेहतत्परा ॥ ५ ॥
राधोवाच -
विमनास्त्वं कथं भद्रे वद मां गोपदेवते ।
मात्रा भर्त्रा ननांद्रा वा श्वश्र्वा क्रोधेन भर्त्सिता ॥ ६ ॥
सपत्‍नीकृतदोषेण स्वभर्तुर्विरहेण वा ।
अन्यत्र लग्नचित्तेन विमनाः किं मनोहरे ॥ ७ ॥
मार्गखेदेन वा कच्चिद्‌विह्वलाऽभूद्रुजाऽथवा ।
शीघ्रं वद महाभागे स्वस्य दुःखस्य कारणम् ॥ ८ ॥
कृष्णभक्तमृते विप्रं येन केनापि कुत्सितम् ।
कथितं तेऽथ रंभोरु तच्चिकित्सां करोम्यहम् ॥ ९ ॥
गजाश्वादीनि रत्‍नानि वस्त्राणि च धनानि च ।
मन्दिराणि विचित्राणि गृहाण त्वं यदीच्छसि ॥ १० ॥
धनं दत्त्वा तनुं रक्षेत्तनुं दत्त्वा त्रपां व्यधात् ।
धनं तनुं त्रपां दद्यान्मित्रकार्यार्थमेव हि ।
धनं दत्त्वा च सततं रक्षेत्प्राणान्निरन्तरम् ॥ ११ ॥
यो मित्रतां निष्कपटं करोति
     निष्कारणमं धन्यतमं स एव ।
विधाय मैत्रीं कपटं विदध्या-
     त्तं लंपटं हेतुपटं नटं धिक् ॥ १२ ॥
तस्याः प्रेमवचः श्रुत्वा भगवान् गोपदेवता ।
प्रहसन्नाह राजेन्द्र श्रीराधां कीर्तिनन्दिनीम् ॥ १३ ॥
गोपदेवतोवाच -
राधे व्रजन्सानुगिरेस्तटीषु
     संकोचवीथीषु मनोहरासु ।
यान्तीं स्वतो मां दधिविक्रयार्थं
     रुरोध मार्गे नवनन्दपुत्रः ॥ १४ ॥
वंशीधरो वेत्रकरः करे मां
     त्वरं गृहीत्वा प्रसहन्विलज्जः ।
मह्यं करादानधनाय दानं
     देहीति जल्पन्विपिने रसज्ञः ॥ १५ ॥
तुभ्यं न दास्यामि कदापि दानं
     स्वयंभुवे गोरसलंपटाय ।
एवं मयोक्ते वचनेऽथ भाण्डं
     नीत्वा विशीर्णीकृतवान् स दध्नः ॥ १६ ॥
भाण्डं स भित्त्वा दधि किं च पीत्वा
     नीत्वोत्तरीयं मम चेदुरीयम् ।
नन्दीश्वराद्रेर्विदिशं जगाम
     तेनाहमाराद्‌विमनाः स्म जाता ॥ १७ ॥
जात्या स गोपः किल कृष्णवर्णो
     ऽधनी न वीरो न हि शीलरूपः ।
यस्मिंस्त्वया प्रेम कृतं सुशीले
     त्यजाशु निर्मोहनमद्य कृष्णम् ॥ १८ ॥
इत्थं सवैरं परुषं वचस्तत्
     श्रुत्वा च राधा वृषभानुनन्दिनी ।
सुविस्मिता वाक्यपदे सरस्वती
     पदं स्मयन्ती निजगाद तां प्रति ॥ १९ ॥
राधोवाच -
यत्प्राप्तये विधिहरप्रमुखास्तपन्ति
     वह्नौ तपः परमया निजयोगरीत्या ।
दत्तः शुकः कपिल आसुरिरंगिरा
     यत्पादारविन्दमकरन्दरजः स्पृशन्ति ॥ २० ॥
तं कृष्णमादिपुरुषम् परिपूर्णदेवम्
     लीलावतारमजमार्तिहरं जनानाम् ।
भूभूरिभारहरणाय सतां शुभाय
     जातं विनिन्दसि कथं सखि दुर्विनीते ॥ २१ ॥
गाःपालयन्ति सततं रजसो गवां च
     गंगां स्पृशन्ति च जपंति गवां सुनाम्नाम् ।
प्रेक्षन्त्यहर्निशमलं सुमुखं गवां च
     जातिः परा न विदिता भुवि गोपजातेः ॥ २२ ॥
तत्कृष्णवर्णविलसत्सुकलां समीक्ष्य
     तस्मिन्विलग्नमनसा सुसुखं विहाय ।
उन्मत्तवद्‌व्रजति धावति नीलकण्ठो
     बिभ्रत्कपर्दविषभस्मकपालसर्पान् ॥ २३ ॥
स्वर्लोकसिद्धमुनियक्ष मरुद्‌गणानां
     पालाः समस्तनरकिन्नरनागनाथाः ।
यत्पादपद्ममनिशं प्रणिपत्य भक्त्या
     लब्धश्रियः किल बलिं प्रददुः स्म तस्मै ॥ २४ ॥
वत्साघकालियबकार्जुनधेनुकाना-
     माचक्रवातशकटासुरपूतनानाम् ।
एषां वधः किमुत तस्य यशो मुरारे-
     र्यः कोटिशोऽण्डनिचयोद्‌भवनाशहेतुः ॥ २५ ॥
भक्तात्प्रियो न विदितः पुरुषोत्तमस्य
     शंभुर्व्हिधिर्न च रमा न च रौहिणेयः ।
भक्ताननुव्रजति भक्ति निबद्ध चित्तः
     चुडामणिः सकललोकजनस्य कृष्णः ॥ २६ ॥
गच्छन्निजं जनमनुप्रपुनाति लोका-
     नावेदयन् हरिजने स्वरुचिं महात्मा ।
तस्मादतीव भजतां भगवान् मुकुन्दो
     मुक्तिं ददाति न कदापि सुभक्तियोगम् ॥ २७ ॥
गोपदेवतावाच -
राधे त्वदीयधिषणा धिषणं हसन्ती
     वाणीं श्रुतिं प्रकुशलेन विडंबयन्ती ।
अत्रागमिष्यति यदाथ हरिः परेशः
     सत्यं ददाति वचनं तव देवि मन्ये ॥ २८ ॥
राधोवाच -
यथाऽऽगमिष्यति यदाऽद्य हरिः परेशः
     किं कारयामि भवतीं वद तर्हि सुभ्रु ।
चेदागमो न हि भवेद्‌वनमालिनः स्वं
     सर्वं धनं च भवनं च ददामि तुभ्यम् ॥ २९ ॥
श्रीनारद उवाच -
अथ राधा समुत्थाय नत्वा श्रीनन्दनन्दनम् ।
उपविश्यासने दध्यौ ध्यानस्तिमितलोचना ॥ ३० ॥
उत्कंठितां स्वेदयुक्तां बाष्पकंठीं प्रियां हरिः ।
अश्रुपूर्णमुखीं वीक्ष्य बिभ्रत्स्वां पौरुषीं तनुम् ॥ ३१ ॥
पश्यन्तीनां सखीनां च सहसा भक्तवत्सलः ।
राधां प्राह प्रसन्नात्मा मेघगंभीरया गिरा ॥ ३२ ॥
श्रीकृष्ण उवाच -
रंभोरु चन्द्रवदने व्रजसुन्दरीशे
     राधे प्रिये नवलयौवनमानशीले ।
उमील्य नेत्रमपि पश्य समागतं मां
     तूर्णं त्वया मधुरया च गिरोपहूतम् ॥ ३३ ॥
आगच्छ कृष्ण इति वाक्यमतः श्रुतं मे
     सद्यो विसृज्य निजगोकुलगोपवृन्दम् ।
वंशीवटाच्च यमुनानिकटात्प्रधावन्
     त्वत्प्रीतयेऽथ ललनेत्र समागतोऽस्मि ॥ ३४ ॥
मय्यागते सति गता सखिरूपिणी का यक्ष्यासुरीसुरवधू किल किन्नरी वा । मायावती छलयितुं भवतीं च तस्मा-
     द्विश्वास एव न विधेय उरंगपत्‍न्याम् ॥ ३५ ॥
श्रीनारद उवाच -
अथ राधा हरिं दृष्ट्वा नत्वा तत्पादपंकजम् ।
मुदमाप परं राजन् सद्यः पूर्णमनोरथा ॥ ३६ ॥
एवं श्रीकृष्णचन्द्रस्य चरितान्यद्‌भुतानि च ।
यः शृणोति नरो भक्त्या स कृतार्थो भवेन्नरः ॥ ३७ ॥

इति श्रीगर्गसंहितायां वृन्दावनखण्डे श्रीकृष्णचंद्रदर्शनम् नाम अष्टादशोऽध्यायः ॥ १८ ॥